शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः २७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २६ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)
अध्यायः २७
वेदव्यासः
अध्यायः २८ →

सनत्कुमार उवाच।।
अथान्यच्छंभुचरितं प्रेमतः शृणु वै मुने।।
यस्य श्रवणमात्रेण शिवभक्तिर्दृढा भवेत्।।१।।
शंखचूडाभिधो वीरो दानवो देवकंटकः।।
यथा शिवेन निहतो रणमूर्ध्नि त्रिशूलतः ।।२।।
तच्छंभुचरितं दिव्यं पवित्रं पापनाशनम् ।।
शृणु व्यास सुसंप्रीत्या वच्मि सुस्नेहतस्तव ।।३।।
मरीचेस्तनयो धातुः पुत्रो यः कश्यपो मुनिः ।।
स धर्मिष्ठस्सृष्टिकर्त्ता विध्याज्ञप्तः प्रजापतिः ।। ४ ।।
दक्षः प्रीत्या ददौ तस्मै निजकन्यास्त्रयोदश।।
तासां प्रसूतिः प्रसभं न कथ्या बहुविस्तृताः ।।५।।
यत्र देवादिनिखिलं चराचरमभूज्जगत्।।
विस्तरात्तत्प्रवक्तुं च कः क्षमोऽस्ति त्रिलोकके।।६।।
प्रस्तुतं शृणु वृत्तांतं शंभुलीलान्वितं च यत् ।।
तदेव कथयाम्यद्य शृणु भक्तिप्र वर्द्धनम् ।।७।।
तासु कश्यपत्नीषु दनुस्त्वेका वरांगना ।।
महारूपवती साध्वी पतिसौभाग्यवर्द्धिता ।। ८ ।।
आसंस्तस्या दनोः पुत्रा बहवो बलवत्तराः ।।
तेषां नामानि नोच्यंते विस्तारभयतो मुने ।। ९ ।।
तेष्वेको विप्रचित्तिस्तु महाबलपराक्रमः ।।
तत्पुत्रो धार्मिको दंभो विष्णुभक्तो जितेन्द्रियः ।।2.5.27.१०।।
नासीत्तत्तनयो वीरस्ततश्चिंतापरोऽभवत्।।
शुक्राचार्यं गुरुं कृत्वा कृष्णमंत्रमवाप्य च।।११।।
तपश्चकार परमं पुष्करे लक्षवर्षकम् ।।
कृष्णमंत्रं जजापैव दृढं बद्धासनं चिरम्।।१२।।
तपः प्रकुर्वतस्तस्य मूर्ध्नो निस्सृत्य प्रज्व लत् ।।
विससार च सर्वत्र तत्तेजो हि सुदुस्सहम् ।। १३ ।।
तेन तप्तास्सुरास्सर्वे मुनयो मनवस्तथा ।।
सुनासीरं पुरस्कृत्य ब्रह्माणं शरणं ययुः ।। १४ ।।
प्रणम्य च विधातारं दातारं सर्वसंपदाम् ।।
तुष्टुवुर्विकलाः प्रोचुः स्ववृत्तांतं विशेषतः ।। १५ ।।
तदाकर्ण्य विधातापि वैकुंठं तैर्ययौ सह ।।
तदेव विज्ञापयितुं निखिलेन हि विष्णवे ।। १६ ।।
तत्र गत्वा त्रिलोकेशं विष्णुं रक्षाकरं परम् ।।
प्रणम्य तुष्टुवुस्सर्वे करौ बद्ध्वा विनम्रकाः ।। १७ ।।
देवा ऊचुः ।।
देवदेव न जानीमो जातं किं कारणं त्विह ।।
संतप्तास्स कला जातास्तेजसा केन तद्वद ।। १८ ।।
तप्तात्मनां त्वमविता दीनबंधोऽनुजीविनाम् ।।
रक्षरक्ष रमानाथ शरण्यश्शरणागतान् ।।१९।।
।। सनत्कुमार उवाच ।।
इति श्रुत्वा वचो विष्णुर्ब्रह्मादीनां दिवौकसाम् ।।
उवाच विहसन्प्रेम्णा शरणागतवत्सलः ।। 2.5.27.२० ।।
।। विष्णुरुवाच ।।
सुस्वस्था भवताव्यग्रा न भयं कुरुतामराः ।।
नोपप्लवा भविष्यन्ते लयकालो न विद्यते ।। २१ ।।
दानवो दंभनामा हि मद्भक्तः कुरुते तपः ।।
पुत्रार्थी शमयिष्यामि तमहं वरदानतः ।। २२ ।।
सनत्कुमार उवाच ।।
इत्युक्तास्ते सुरास्सर्वे धैर्यमालंब्य वै मुने ।।
ययुर्ब्रह्मादयस्सुस्थास्स्वस्वधामानि सर्वशः ।। २३ ।।
अच्युतोऽपि वरं दातुं पुष्करं संजगाम ह ।।
तपश्चरति यत्रासौ दंभनामा हि दानवः ।। २४ ।।
तत्र गत्वा वरं ब्रूहीत्युवाच परिसांत्वयन् ।।
गिरा सूनृतया भक्तं जपंतं स्वमनुं हरिः ।। २५ ।।
तच्छ्रुत्वा वचनं विष्णोर्दृष्ट्वा तं च पुरः स्थितम् ।।
प्रणनाम महाभक्त्या तुष्ट्वाव च पुनः पुनः ।। २६ ।।
दंभ उवाच ।।
देवदेव नमस्तेऽस्तु पुंडरीकविलोचन ।।
रमानाथ त्रिलोकेश कृपा कुरु ममोपरि ।। २७ ।।
स्वभक्तं तनयं देहि महाबल पराक्रमम् ।।
त्रिलोकजयिनं वीरमजेयं च दिवौकसाम् ।। २८ ।।
सनत्कुमार उवाच ।।
इत्युक्तो दानवेन्द्रेण तं वरं प्रददौ हरिः ।।
निवर्त्य चोग्रतपसस्ततस्सोंतरधान्मुने ।। २९ ।।
गते हरौ दानवेन्द्रः कृत्वा तस्यै दिशे नमः ।।
जगाम स्वगृहं सिद्धतदाः पूर्ण मनोरथः ।। 2.5.27.३० ।।
कालेनाल्पेन तत्पत्नी सगर्भा भाग्यवत्यभूत् ।।
रराज तेजासात्यंतं रोचयंती गृहांतरम् ।। ३१ ।।
सुदामानाम गोपो यो कृष्णस्य पार्षदाग्रणीः ।।
तस्या गर्भे विवेशासौ राधाशप्तश्च यन्मुने ।।३२।।
असूत समये साध्वी सुप्रभं तनयं ततः ।।
जातकं सुचकारासौ पिताहूय मुनीन्बहून्।।३३।।
उत्सवस्सुमहानासीत्तस्मिञ्जाते द्विजोत्तम ।।
नाम चक्रे पिता तस्य शंख चूडेति सद्दिने ।।३४।।
पितुर्गेहे स ववृधे शुक्लपक्षे यथा शशी ।।
शैशवेभ्यस्तविद्यस्तु स बभूव सुदीप्तिमान्।। ३५ ।।
स बालक्रीडया नित्यं पित्रोर्हर्षं ततान ह ।।
प्रियो बभूव सर्वेषां कुलजानां विशेषतः ।।३६।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडोत्पत्तिवर्णनं नाम सप्तविंशोऽध्यायः।।२७।।