शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः ०१

विकिस्रोतः तः
Jump to navigation Jump to search
शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)
अध्यायः ०१
वेदव्यासः
अध्यायः ०२ →

।। श्रीगणेशाय नमः ।।
।। श्रीगौरीशंकराभ्यां नमः ।।
।। नारद उवाच ।।
श्रुतमस्माभिरानंदप्रदं चरितमुत्तमम् ।।
गृहस्थस्यैव शंभोश्च गणस्कंदादिसत्कथम् ।।१।।
इदानीं ब्रूहि सुप्रीत्या चरितं वरमुत्तमम् ।।
शंकरो हि यथा रुद्रो जघान विहरन्खलान् ।।२।।
कथं ददाह भगवान्नगराणि सुरद्विषाम् ।।
त्रीण्येकेन च बाणेन युगपत्केन वीर्यवान् ।।३।।
एतत्सर्वं समाचक्ष्व चरितं शशिमौलिनः ।।
देवर्षिसुखदं शश्वन्मायाविहरतः प्रभोः ।। ४ ।।
।। ब्रह्मोवाच ।।
एवमेतत्पुरा पृष्टो व्यासेन ऋषिसत्तमः ।।
सनत्कुमारं प्रोवाच तदेव कथयाम्यहम् ।।५।।
सनत्कुमार उवाच ।।
शृणु व्यास महाप्राज्ञ चरितं शशिमौलिनः ।।
यथा ददाह त्रिपुरं बाणेनैकेन विश्व हृत्।।६।।
शिवात्मजेन स्कन्देन निहते तारकासुरे।।
तत्पुत्रास्तु त्रयो दैत्याः पर्यतप्यन्मुनीश्वर।।७।।
तारकाख्यस्तु तज्जेष्ठो विद्युन्माली च मध्यमः ।।
कमलाक्षः कनीयांश्च सर्वे तुल्यबलास्सदा ।।८।।
जितेन्द्रियास्ससन्नद्धास्संयतास्सत्यवादिनः ।।
दृढचित्ता महावीरा देवद्रोहिण एव च ।। ९ ।।
ते तु मेरुगुहां गत्वा तपश्चक्रुर्महाद्भुतम् ।।
त्रयस्सर्वान्सुभोगांश्च विहाय सुमनोहरान् ।। 2.5.1.१० ।।
वसंते सर्वकामांश्च गीतवादित्रनिस्स्वनम् ।।
विहाय सोत्सवं तेपुस्त्रयस्ते तारकात्मजाः।।११।।
ग्रीष्मे सूर्यप्रभां जित्वा दिक्षु प्रज्वाल्य पावकम् ।।
तन्मध्यसंस्थाः सिद्ध्यर्थं जुहुवुर्हव्यमादरात् ।।१२।।
महाप्रतापपतितास्सर्वेप्यासन् सुमूर्छिताः ।।
वर्षासु गतसंत्रासा वृष्टिं मूर्द्धन्यधारयन् ।।१३।।
शरत्काले प्रसूतं तु भोजनं तु बुभुक्षिताः ।।
रम्यं स्निग्धं स्थिरं हृद्यं फलं मूलमनुत्तमम्।।१४।।
संयमात्क्षुत्तृषो जित्वा पानान्युच्चावचान्यपि ।।
बुभुक्षितेभ्यो दत्त्वा तु बुभूवुरुपला इव ।।१५।।
संस्थितास्ते महात्मानो निराधाराश्चतुर्दिशम् ।।
हेमंते गिरिमाश्रित्य धैर्येण परमेण तु ।। १६ ।।
तुषारदेहसंछन्ना जलक्लिन्नेन वाससा ।।
आसाद्य देहं क्षौमेण शिशिरे तोयमध्यगाः ।। १७ ।।
अनिर्विण्णास्ततस्सर्वे क्रमशोऽवर्द्धयंस्तपः ।।
तेपुस्त्रयस्ते तत्पुत्रा विधिमुद्दिश्य सत्तमाः ।। १८ ।।
तप उग्रं समास्थाय नियमे परमे स्थिता ।।
तपसा कर्षयामासुर्देहान् स्वान् दानवोत्तमाः ।।१९।।
वर्षाणां शतकं चैव पदमेकं निधाय च ।।
भूमौ स्थित्वा परं तत्र तेपुस्ते बलवत्तराः ।। 2.5.1.२० ।।
ते सहस्रं तु वर्षाणां वातभक्षास्सुदारुणाः ।।
तपस्तेपुर्दुरात्मानः परं तापमुपागताः ।। २१ ।।
वर्षाणां तु सहस्रं वै मस्तकेनास्थितास्तथा ।।
वर्षाणां तु शतेनैव ऊर्द्ध्वबाहव आसिताः ।।२२।।
एवं दुःखं परं प्राप्ता दुराग्रहपरा इमे ।।
ईदृक्ते संस्थिता दैत्या दिवारात्रमतंद्रिता ।। २३ ।।
एवं तेषां गतः कालो महान् सुतपतां मुने ।।
ब्रह्मात्मनां तारकाणां धर्मेणेति मतिर्मम ।। २४ ।।
प्रादुरासीत्ततो ब्रह्मा सुरासुरगुरुर्महान् ।।
संतुष्टस्तपसा तेषां वरं दातुं महायशाः ।। २५ ।।
मुनिदेवासुरैस्सार्द्धं सांत्वपूर्वमिदं वचः ।।
ततस्तानब्रवीत्सर्वान् सर्वभूतपितामहः ।। २५ ।।
ब्रह्मोवाच ।।
प्रसन्नोऽस्मि महादैत्या युष्माकं तपसा मुने ।।
सर्वं दास्यामि युष्मभ्यं वरं ब्रूत यदीप्सितम् ।। २७ ।।
किमर्थं सुतपस्तप्तं कथयध्वं सुरद्विषां ।।
सर्वेषां तपसो दाता सर्वकर्तास्मि सर्वदा ।। २८ ।।
सनत्कुमार उवाच ।।
तस्य तद्वचनं श्रुत्वा शनैस्ते स्वात्मनो गतम् ।।
ऊचुः प्रांजलयस्सर्वे प्रणिपत्य पितामहम् ।। २९ ।।
दैत्या ऊचुः ।।
यदि प्रसन्नो देवेश यदि देयो वरस्त्वया ।।
अवध्यत्वं च सर्वेषां सर्वभूतेषु देहिनः ।। 2.5.1.३० ।।
स्थिरान् कुरु जगन्नाथ पांतु नः परिपंथिनः ।।
जरारोगादयस्सर्वे नास्मान्मृत्युरगात् क्वचित् ।। ३१ ।।
अजराश्चामरास्सर्वे भवाम इति नो मतम् ।।
समृत्यवः करिष्यामस्सर्वानन्यांस्त्रिलोकके ।।३२।।
लक्ष्म्या किं तद्विपुलया किं कार्यं हि पुरोत्तमैः ।।
अन्यैश्च विपुलैर्भोगैस्स्थानैश्वर्येण वा पुनः ।। ३३ ।।
यत्रैव मृत्युना ग्रस्तो नियतं पंचभिर्दिनैः ।।
व्यर्थं तस्याखिलं ब्रह्मन् निश्चितं न इतीव हि ।। ३४ ।।
सनत्कुमार उवाच ।।
इति श्रुत्वा वचस्तेषां दैत्यानां च तपस्विनाम् ।।
प्रत्युवाच शिवं स्मृत्वा स्वप्रभुं गिरिशं विधिः ।।३५।।
ब्रह्मोवाच ।।
नास्ति सर्वामरत्वं च निवर्तध्वमतोऽसुराः ।।
अन्यं वरं वृणीध्वं वै यादृशो वो हि रोचते ।। ३६ ।।
जातो जनिष्यते नूनं जंतुः कोप्यसुराः क्वचित् ।।
अजरश्चामरो लोके न भविष्यति भूतले ।। ३७ ।।
ऋते तु खंडपरशोः कालकालाद्धरेस्तथा ।।
तौ धर्माधर्मपरमावव्यक्तौ व्यक्तरूपिणौ ।।३८।।
संपीडनाय जगतो यदि स क्रियते तपः ।।
सफलं तद्गतं वेद्यं तस्मात्सुविहितं तपः ।।३९।।
तद्विचार्य स्वयं बुद्ध्या न शक्यं यत्सुरासुरैः ।।
दुर्लभं वा सुदुस्साध्यं मृत्युं वंचयतानघाः ।।2.5.1.४०।।
तत्किंचिन्मरणे हेतुं वृणीध्वं सत्त्वमाश्रिताः ।।
येन मृत्युर्नैव वृतो रक्षतस्तत्पृथक् पृथक् ।।४१।।
सनत्कुमार उवाच ।।
एतद्विधिवचः श्रुत्वा मुहूर्त्तं ध्यानमास्थिताः ।।
प्रोचुस्ते चिंतयित्वाथ सर्वलोकपितामहम् ।।४२।।
दैत्या ऊचुः।।
भगवन्नास्ति नो वेश्म पराक्रमवतामपि ।।
अधृष्याः शात्रवानां तु यन्न वत्स्यामहे सुखम् ।। ४३ ।।
पुराणि त्रीणि नो देहि निर्मायात्यद्भुतानि हि ।।
सर्वसंपत्समृद्धान्य प्रधृष्याणि दिवौकसाम्।।४४।।
वयं पुराणि त्रीण्येव समास्थाय महीमिमाम्।।
चरिष्यामो हि लोकेश त्वत्प्रसादाज्जगद्गुरो ।। ४५ ।।
तारकाक्षस्ततः प्राह यदभेद्यं सुरैरपि ।।
करोति विश्वकर्मा तन्मम हेममयं पुरम्।। ४६ ।।
ययाचे कमलाक्षस्तु राजतं सुमहत्पुरम् ।।
विद्युन्माली च संहृष्टो वज्रायसमयं महत्।।४७।।
पुरेष्वेतेषु भो ब्रह्मन्नेकस्थानस्थितेषु च ।।
मध्याह्नाभिजिते काले शीतांशौ पुष्प संस्थिते ।। ४८ ।।
उपर्युपर्यदृष्टेषु व्योम्नि लीलाभ्रसंस्थिते ।।
वर्षत्सु कालमेघेषु पुष्करावर्तनामसु ।। ४९ ।।
तथा वर्षसहस्राते समेष्यामः परस्परम् ।।
एकीभावं गमिष्यंति पुराण्येतानि नान्यथा ।।2.5.1.५०।।
सर्वदेवमयो देवस्सर्वेषां मे कुहेलया।।
असंभवे रथे तिष्ठन् सर्वोपस्करणान्विते ।। ५१ ।।
असंभाव्यैककांडेन भिनत्तु नगराणि नः ।।
निर्वैरः कृत्तिवासास्तु योस्माकमिति नित्यशः ।। ५२ ।
वंद्यः पूज्योभिवाद्यश्च सोस्माकं निर्दहेत्कथम् ।।
इति चेतसि संधाय तादृशो भुवि दुर्लभः ।। ५३ ।।
सनत्कुमार उवाच ।।
एतच्छ्रुत्वा वचस्तेषां ब्रह्मा लोकपितामहः ।।
एवमस्तीति तान् प्राह सृष्टिकर्ता स्मरञ्शिवम् ।।५४।।
आज्ञां ददौ मयस्यापि कुत्र त्वं नगरत्रयम् ।।
कांचनं राजतं चैव आयसं चेति भो मय ।।५५।।
इत्यादिश्य मयं ब्रह्मा प्रत्यक्षं प्राविशद्दिवम् ।।
तेषां तारकपुत्राणां पश्यतां निजधाम हि ।।५६।।
ततो मयश्च तपसा चक्रे धीरः पुराण्यथ ।।
कांचनं तारकाक्षस्य कमलाक्षस्य राजतम् ।।५७।।
विद्युन्माल्यायसं चैव त्रिविधं दुर्गमुत्तमम् ।।
स्वर्गे व्योम्नि च भूमौ च क्रमाज्ज्ञेयानि तानि वै ।।५८।।
दत्वा तेभ्यो सुरेभ्यश्च पुराणि त्रीणि वै मयः ।।
प्रविवेश स्वयं तत्र हितकामपरायणः ।। ५९ ।।
एवं पुत्रत्रयं प्राप्य प्रविष्टास्तारकात्मजाः ।।
बुभुजुस्सकलान्भोगान्महाबलपराक्रमाः ।। 2.5.1.६० ।।
कल्पद्रुमैश्च संकीर्णं गजवाजिसमाकुलम् ।।
नानाप्रासादसंकीर्णं मणिजालसमा वृतम् ।। ६१ ।।।।
सूर्यमण्डलसंकाशैर्विमानैस्सर्वतोमुखैः ।।
पद्मरागमयैश्चैव शोभितं चन्द्रसन्निभैः ।। ६२ ।।
प्रासादैर्गोपुरैर्दिव्यैः कैलासशिखरोपमैः ।।
दिव्यस्त्रीजनसंकीर्णैर्गंधर्वैस्सिद्धचारणैः ।। ६३ ।।
रुद्रालयैः प्रतिगृहमग्निहोत्रैः प्रतिष्ठितैः ।।
द्विजोत्तमैश्शास्त्र ज्ञैश्शिवभक्तिरतैस्सदा ।। ६४ ।।
वापीकूपतडागैश्च दीर्घिकाभिस्सुशोभितम् ।।
उद्यानवनवृक्षैश्च स्वर्गच्युत गुणोत्तमैः ।। ६५ ।।
नदीनदसरिन्मुख्यपुष्करैः शोभितं सदा ।।
सर्वकामफलाद्यैश्चानेकैर्वृक्षैर्मनोहरम् ।। ६६ ।।
मत्तमातंगयूथैश्च तुरंगैश्च सुशोभनैः ।।
रथैश्च विविधाकारैश्शिबिकाभिरलंकृतम् ।।६७।।
समयादिशिकैश्चैव क्रीडास्थानैः पृथक्पृथक् ।।
वेदाध्ययनशालाभिर्विविधाभिः पृथक्पृथक् ।। ६८ ।।
अदृष्टं मनसा वाचा पापान्वितनरैस्सदा ।।
महात्मभिश्शुभाचारैः पुण्यवद्भिः प्रवीक्ष्यते ।। ६९ ।।
पतिव्रताभिः सर्वत्र पावितं स्थलमुत्तमम् ।।
पतिसेवनशीलाभिर्विमुखाभिः कुधर्मतः ।।2.5.1.७०।।
दैत्यशूरैर्महाभागैस्सदारैस्ससुतैर्द्विजैः ।।
श्रौतस्मार्तार्थतत्त्वज्ञैस्स्वधर्मनिरतैर्युतम्।।७१।।
व्यूढोरस्कैर्वृषस्कंधैस्सामयुद्धधरैस्सदा।।
प्रशांतैः कुपितैश्चैव कुब्जैर्वामनकैस्तथा।।७२।।
नीलोत्पलदलप्रख्यैर्नीलकुंचितमूर्द्धजैः ।।
मयेन रक्षितैस्सर्वैश्शिक्षितैर्युद्धलालसैः ।। ७३ ।।
वरसमररतैर्युतं समंतादजशिवपूजनया विशुद्धवीर्यैः ।।
रविमरुतमहेन्द्रसंनिकाशैस्सुरमथनैस्सुदृढैस्सुसेवितं यत् ।।७४।।
शास्त्रवेदपुराणेषु येये धर्माः प्रकीर्तिताः ।।
शिवप्रियास्सदा देवास्ते धर्मास्तत्र सर्वतः ।। ७५ ।।
एवं लब्धवरास्ते तु दैतेयास्तारकात्मजाः ।।
शैवं मयमुपाश्रित्य निवसंति स्म तत्र ह ।। ७६ ।।
सर्वं त्रैलोक्यमुत्सार्य प्रविश्य नगराणि ते ।।
कुर्वंति स्म महद्राज्यं शिवमार्गरतास्सदा ।। ७७ ।।
ततो महान् गतः कालो वसतां पुण्यकर्मणाम् ।।
यथासुखं यथाजोषं सद्राज्यं कुर्वतां मुने ।। ७८ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं नाम प्रथमोऽध्यायः ।। १ ।।