शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ४ (कुमारखण्डः)/अध्यायः १६

विकिस्रोतः तः
← अध्यायः १५ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ४ (कुमारखण्डः)
अध्यायः १६
[[लेखकः :|]]
अध्यायः १७ →

ब्रह्मोवाच ।।
इति श्रुत्वा महेशानो भक्तानुग्रहकारकः ।।
त्वद्वाचा युदकामोभूत्तेन बालेन नारद ।।१।।
विष्णुमाहूय संमंत्र्य बलेन महता युतः ।।
सामरस्सम्मुखस्तस्याप्यभूद्देवस्त्रिलोचनः ।। २ ।।
देवाश्च युयुधुस्तेन स्मृत्वा शिवपदाम्बुजम् ।।
महाबला महोत्साहाश्शिवसद्दृष्टिलोकिताः।।३।।
युयुधेऽथ हरिस्तेन महाबलपराक्रमः।।
महादेव्यायुधो वीरः प्रवणः शिवरूपकः ।।४।।
यष्ट्या गणाधिपस्सोथ जघानामरपुङ्गवान्।।
हरिं च सहसा वीरश्शक्तिदत्तमहाबलः ।। ५ ।।
सर्वेऽमरगणास्तत्र विकुंठितबला मुने ।।
अभूवन् विष्णुना तेन हता यष्ट्या पराङ्मुखाः ।। ६ ।।
शिवोपि सह सैन्येन युद्धं कृत्वा चिरं मुने ।।
विकरालं च तं दृष्ट्वा विस्मयं परमं गतः ।।७।।
छलेनैव च हंतव्यो नान्यथा हन्यते पुनः ।।
इति बुद्धिं समास्थाय सैन्यमध्ये व्यवस्थितः।। ८।।
शिवे दृष्टे तदा देवे निर्गुणे गुणरूपिणि।।
विष्णौ चैवाथ संग्रामे आयाते सर्वदेवताः।।९।।
गणाश्चैव महेशस्य महाहर्षं तदा ययुः।।
सर्वे परस्परं प्रीत्या मिलित्वा चक्रुरुत्सवम्।।2.4.16.१०।।
अथ शक्तिसुतो वीरो वीरगत्या स्वयष्टितः ।।
प्रथम पूजयामास विष्णुं सर्वसुखावहम् ।। ११ ।।
अहं च मोहयिष्यामि हन्यतां च त्वया विभो ।।
छलं विना न वध्योऽयं तामसोयं दुरासदः ।।१२।।
इति कृत्वा मतिं तत्र सुसंमंत्र्य च शंभुना ।।
आज्ञां प्राप्याऽभवच्छैवी विष्णुर्मोहपरायणः।।१३।।
शक्तिद्वयं तथा लीनं हरिं दृष्ट्वा तथाविधम् ।।
दत्त्वा शक्तिबलं तस्मै गणेशायाभवन्मुने।।१४।।
शक्तिद्वयेऽथ संलीने यत्र विष्णुः स्थितस्स्वयम् ।।
परिघं क्षिप्तवांस्तत्र गणेशो बलवत्तरः।।१५।।
कृत्वा यत्नं किमप्यत्र वंचयामास तद्गतिम्।।
शिवं स्मृत्वा महेशानं स्वप्रभुं भक्तवत्सलम् ।।१६।।
एकतस्तन्मुखं दृष्ट्वा शंकरोप्याजगाम ह ।।
स्वत्रिशूलं समादाय सुक्रुद्धो युद्धकाम्यया ।। १७ ।।
स ददर्शागतं शंभुं शूलह्स्तं महेश्वरम् ।।
हंतुकामं निजं वीरश्शिवापुत्रो महाबलः ।। १८ ।।
शक्त्या जघान तं हस्ते स्मृत्वा मातृपदांबुजम् ।।
स गणशो महावीरश्शिवशक्तिप्रवर्द्धितः ।।१९।।
त्रिशूलं पतितं हस्ताच्छिवस्य परमात्मनः ।।
दृष्ट्वा सदूतिकस्तं वै पिनाकं धनुराददे ।। 2.4.16.२० ।।
तमप्यपातयद्भूमौ परिघेण गणेश्वरः ।।
हताः पंच तथा हस्ताः पञ्चभिश्शूलमाददे ।। २१ ।।
अहो दुःखतरं नूनं संजातमधुना मम ।।
भवेत्पुनर्गणानां किं भवाचारी जगाविति ।।२२।।
एतस्मिन्नंतरे वीरः परिघेण गणेश्वरः ।।
जघान सगणान् देवान्शक्तिदत्तबलान्वितः ।।२३।।
गता दशदिशो देवास्सगणा. परिघार्द्दिताः।।
न तस्थुस्समरे केपि तेनाद्भुतप्रहा रिणा।।२४।।
विष्णुस्तं च गणं दृष्ट्वा धन्योयमिति चाब्रवीत्।।
महाबलो महावीरो महाशूरो रणप्रियः ।।२५।।
बहवो देवताश्चैव मया दृष्टास्तथा पुनः ।।
दानवा बहवो दैत्या यक्षगंधर्वराक्षसाः ।।२६।।
नैतेन गणनाथेन समतां यांति केपि च ।।
त्रैलोक्येऽप्यखिले तेजो रूपशौर्यगुणादिभिः।।२७।।
एवं संब्रुवतेऽमुष्मै परिघं भ्रामयन् स च ।।
चिक्षेप विष्णवे तत्र शक्तिपुत्रो गणेश्वरः।।२८।।
चक्रं गृहीत्वा हरिणा स्मृत्वा शिवपदाम्बुजम् ।।
तेन चक्रेण परिघो द्रुतं खंडीकृतस्तदा ।।२९।।
खंडं तु परिघस्यापि हरये प्राक्षिपद्गणः।।
गृहीत्वा गरुडेनापि पक्षिणा विफलीकृतः ।।2.4.16.३०।।
एवं विचरितं कालं महावीरावुभावपि ।।
विष्णुश्चापि गणश्चैव युयुधाते परस्परम् ।।३१।।
पुनर्वीरवरश्शक्तिसुतस्स्मृतशिवो बली ।।
गृहीत्वा यष्टिमतुलां तया विष्णुं जघान ह ।।३२।।
अविषह्य प्रहारं तं स भूमौ निपपात ह ।।
द्रुतमुत्थाय युयुधे शिवापुत्रेण तेन वै ।। ३३ ।।
एतदंतरमासाद्य शूलपाणिस्तथोत्तरे ।।
आगत्य च त्रिशूलेन तच्छिरो निरकृंतत ।।३४।।
छिन्ने शिरसि तस्यैव गणनाथस्य नारद ।।
गणसैन्यं देवसैन्यमभवच्च सुनिश्चलम्।।३५।।
नारदेन त्वयाऽऽगत्य देव्यै सर्वं निवेदितम् ।।
मानिनि श्रूयतां मानस्त्याज्यो नैव त्वयाधुना ।।३६।।
इत्युक्त्वाऽन्तर्हितस्तत्र नारद त्वं कलिप्रियः ।।
अविकारी सदा शंभुर्मनोगतिकरो मुनिः ।। ३७ ।।
इति श्रीशिवपुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धगणेशशिरश्छेदन वर्णनं नाम षोडशोऽध्यायः ।। १६ ।।