शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ४ (कुमारखण्डः)/अध्यायः ११

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १० शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ४ (कुमारखण्डः)
अध्यायः ११
[[लेखकः :|]]
अध्यायः १२ →

ब्रह्मोवाच ।।
एतस्मिन्नंतरे तत्र क्रौञ्चनामाचलो मुने ।।
आजगाम कुमारस्य शरणं बाणपीडित ।। १ ।।
पलायमानो यो युद्धादसोढा तेज ऐश्वरम्।।
तुतोदातीव स क्रौञ्चं कोट्यायुतबलान्वितः ।।२।।
प्रणिपत्य कुमारस्य स भक्त्या चरणाम्बुजम् ।।
प्रेमनिर्भरया वाचा तुष्टाव गुहमादरात् ।।३।।
क्रौंच उवाच ।।
कुमार स्कंद देवेश तारकासुरनाशक ।।
पाहि मां शरणापन्नं बाणासुरनिपीडितम् ।। ४ ।।
संगरात्ते महासेन समुच्छिन्नः पलायितः ।।
न्यपीडयच्च मागत्य हा नाथ करुणाकर ।। ५ ।।
तत्पीडितस्ते शरणमागतोऽहं सुदुःखितः ।।
पलायमानो देवेश शरजन्मन्दयां कुरु ।। ६ ।।
दैत्यं तं नाशय विभो बाणाह्वं मां सुखीकुरु ।।
दैत्यघ्नस्त्वं विशेषेण देवावनकरस्स्वराट् ।। ७ ।।
ब्रह्मोवाच ।।
इति क्रौंचस्तुतस्स्कन्दः प्रसन्नो भक्तपालकः ।।
गृहीत्वा शक्तिमतुलां स्वां सस्मार शिवो धिया ।।८।।
चिक्षेप तां समुद्दिश्य स बाणं शंकरात्मजः ।।
महाशब्दो बभूवाथ जज्वलुश्च दिशो नभः ।।९।।
सबलं भस्मसात्कृत्वासुरं तं क्षणमात्रतः ।।
गुहोपकंठं शक्तिस्सा जगाम परमा मुने ।।2.4.11.१ ०।।
ततः कुमार प्रोवाच क्रौंचं गिरिवरं प्रभुः ।।
निर्भयस्स्वगृहं गच्छ नष्टस्स सबलोऽसुरः ।।११।।
तच्छुत्वा स्वामिवचनं मुदितो गिरिराट् तदा ।।
स्तुत्वा गुहं तदारातिं स्वधाम प्रत्यपद्यत ।।१२।।
ततः स्कन्दो महेशस्य मुदा स्थापितवान्मुने ।।
त्रीणि लिंगानि तत्रैव पापघ्नानि विधानतः ।।१३।।
प्रतिज्ञेश्वरनामादौ कपालेश्वरमादरात् ।।
कुमारेश्वरमेवाथ सर्वसिद्धिप्रदं त्रयम् ।।१४।।
पुनस्सर्वेश्वरस्तत्र जयस्तंभसमीपतः ।।
स्तंभेश्वराभिधं लिंगं गुहः स्थापितवान्मुदा।।१५।।
ततस्सर्वे सुरास्तत्र विष्णुप्रभृतयो मुदा।।
लिंगं स्थापितवंतस्ते देवदेवस्य शूलिनः।।१६।।
सर्वेषां शिवलिंगानां महिमाभूत्तदाद्भुतः।।
सर्वकामप्रदश्चापि मुक्तिदो भक्तिकारिणाम् ।।१७।।
ततस्सर्वे सुरा विष्णुप्रमुखाः प्रीतमानसाः ।।
ऐच्छन्गिरिवरं गंतुं पुरस्कृत्य गुहं मुदा ।।१८।।
तस्मिन्नवसरे शेषपुत्रः कुमुद नामकः ।।
आजगाम कुमारस्य शरणं दैत्यपीडितः ।।१९।।
प्रलंबाख्योऽसुरो यो हि रणादस्मात्पलायितः ।।
स तत्रोपद्रवं चक्रे प्रबलस्तारकानुगः ।।2.4.11.२०।।
सोऽथ शेषस्य तनयः कुमुदोऽहिपतेर्महान् ।।
कुमारशरणं प्राप्तस्तुष्टाव गिरिजात्मजम् ।। २१ ।।
कुमुद उवाच ।।
देवदेव महादेव वरतात महाप्रभो।।
पीडितोऽहं प्रलंबेन त्वाहं शरणमागतः ।। २२ ।।
पाहि मां शरणापन्नं प्रलंबा सुरपीडितम् ।।
कुमार स्कन्द देवेश तारकारे महाप्रभो ।।२३।।
त्वं दीनबंधुः करुणासिन्धुरानतवत्सलः ।।
खलनिग्रहकर्ता हि शरण्यश्च सतां गतिः ।।२४।।
कुमुदेनस्तुतश्चेत्थं विज्ञप्तस्तद्वधाय हि ।।
स्वाश्च शक्तिं स जग्राह स्मृत्वा शिवपदांबुजौ ।। २५ ।।
चिक्षेप तां समुद्दिश्य प्रलंबं गिरिजासुतः ।।
महाशब्दो बभूवाथ जज्वलुश्च दिशो नभः ।।२६।।
तं सायुतबलं शक्तिर्द्रुतं कृत्वा च भस्मसात् ।।
गुहोपकंठं सहसाजगामाक्लिष्टवारिणी ।। २७ ।।
ततः कुमारः प्रोवाच कुमुदं नागबालकम् ।।
निर्भयः स्वगृहं गच्छ नष्टस्स सबलोऽसुरः ।।२८।।
तच्छुत्वा गुहवाक्यं स कुमुदोहिपतेस्सुतः ।।
स्तुत्वा कुमारं नत्वा च पातालं मुदितो ययौ ।। २९ ।।
एवं कुमारविजयं वर्णितं ते मुनीश्वर ।।
चरितं तारकवधं परमाश्चर्यकारकम् ।। 2.4.11.३० ।।
सर्वपापहरं दिव्यं सर्वकामप्रदं नृणाम् ।।
धन्यं यशस्यमायुष्यं भुक्तिमुक्तिप्रदं सताम् ।। ३१ ।।
ये कीर्तयंति सुयशोऽमितभाग्ययुता नराः ।।
कुमारचरितं दिव्यं शिव लोकं प्रयांति ते ।। ३२ ।।
श्रोष्यंति ये च तत्कीर्तिं भक्त्या श्रद्धान्विता जनाः ।।
मुक्तिं प्राप्स्यन्ति ते दिव्यामिह भुक्त्वा परं सुखम् ।। ३३ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखंडे बाणप्रलंबवध कुमारविजयवर्णनं नामैकादशोऽध्यायः ।।११।।