शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः २ (सतीखण्डः)/अध्यायः ०३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ०२ शिवपुराणम् - शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः २ (सतीखण्डः)
अध्यायः ३
[[लेखकः :|]]
अध्यायः ०४ →

ब्रह्मोवाच ।।
ततस्ते मुनयः सर्वे तदाभिप्रायवेदिनः ।।
चक्रुस्तदुचितं नाम मरीचिप्रमुखास्सुताः ।। १ ।।
मुखावलोकनादेव ज्ञात्वा वृत्तांतमन्यतः ।।
दक्षादयश्च स्रष्टारः स्थानं पत्नीं च ते ददुः ।।२।।
ततो निश्चित्य नामानि मरीचिप्रमुखा द्विजाः ।।
ऊचुस्संगतमेतस्मै पुरुषाय ममात्मजाः ।। ३ ।।
ऋषय ऊचुः ।।
यस्मात्प्रमथसे तत्त्वं जातोस्माकं यथा विधेः ।।
तस्मान्मन्मथनामा त्वं लोके ख्यातो भविष्यसि ।।४।।
जगत्सु कामरूपस्त्वं त्वत्समो न हि विद्यते।।
अतस्त्वं कामनामापि ख्यातो भव मनोभव ।।५।।
मदनान्मदनाख्यस्त्वं जातो दर्पात्सदर्पकः ।।
तस्मात्कंदर्पनामापि लोके ख्यातो भविष्यसि ।।६।।
त्वत्समं सर्वदेवानां यद्वीर्यं न भविष्यति ।।
ततः स्थानानि सर्वाणि सर्वव्यापी भवांस्ततः ।।७।।
दक्षोयं भवते पत्नी स्वयं दास्यति कामिनीम् ।।
आद्यः प्रजापतिर्यो हि यथेष्टं पुरुषोत्तमः ।।८।।
एषा च कन्यका चारुरूपा ब्रह्ममनोभवा ।।
संध्या नाम्नेति विख्याता सर्वलोके भविष्यति ।। ९ ।।
ब्रह्मणो ध्यायतो यस्मात्सम्यग्जाता वरांगना ।।
अतस्संध्येति विख्याता क्रांताभा तुल्यमल्लिका ।। 2.2.3.१० ।।
।। ब्रह्मोवाच ।।
कौसुमानि तथास्त्राणि पंचादाय मनोभवः ।।
प्रच्छन्नरूपी तत्रैव चिंतयामास निश्चयम् ।। ११ ।।
हर्षणं रोचनाख्यं च मोहनं शोषणं तथा ।।
मारणं चेति प्रोक्तानि मुनेर्मोहकराण्यपि ।। १२ ।।
ब्रह्मणा मम यत्कर्म समुद्दिष्टं सनातनम् ।।
तदिहैव करिष्यामि मुनीनां सन्निधौ विधे ।। १३ ।।
तिष्ठंति मुनयश्चात्र स्वयं चापि प्रजापतिः ।।
एतेषां साक्षिभूतं मे भविष्यंत्यद्य निश्चयम् ।।१४।।
संध्यापि ब्रह्मणा प्रोक्ता चेदानीं प्रेषयेद्वचः ।।
इह कर्म परीक्ष्यैव प्रयोगान्मोहयाम्यहम् ।। १५ ।।
ब्रह्मोवाच ।।
इति संचित्य मनसा निश्चित्य च मनोभवः ।।
पुष्पजं पुष्पजातस्य योजयामास मार्गणैः ।। १६ ।।
आलीढस्थानमासाद्य धनुराकृष्य यत्नतः ।।
चकार वलयाकारं कामो धन्विवरस्तदा ।। १७ ।।
संहिते तेन कोदंडे मारुताश्च सुगंधयः ।।
ववुस्तत्र मुनिश्रेष्ठ सम्यगाह्लादकारिणः ।। १८ ।।
ततस्तानपि धात्रादीन् सर्वानेव च मानसान् ।।
पृथक् पुष्पशरैस्तीक्ष्णैर्मोहयामास मोहनः ।।१९।।
ततस्ते मुनयस्सर्वे मोहिताश्चाप्यहं मुने ।।
सहितो मनसा कंचिद्विकारं प्रापुरादितः ।। 2.2.3.२० ।।
संध्यां सर्वे निरीक्षंतस्सविकारं मुहुर्मुहुः ।।
आसन् प्रवृद्धमदनाः स्त्री यस्मान्मदनैधिनी ।। २१ ।।
ततः सर्वान्स मदनो मोहयित्वा पुनःपुनः ।।
यथेन्द्रियविकारं त प्रापुस्तानकरोत्तथा ।।२२।।
उदीरितेंद्रियो धाता वीक्ष्याहं स यदा च ताम् ।।
तदैव चोनपंचाशद्भावा जाताश्शरीरतः ।। २३ ।।
सापि तैर्वीक्ष्यमाणाथ कंदर्पशरपातनात् ।।
चक्रे मुहुर्मुहुर्भावान्कटाक्षावरणादिकान् ।। २४ ।।
निसर्गसुंदरी संध्या तान्भावान् मानसोद्भवान् ।।
कुर्वंत्यतितरां रेजे स्वर्णदीव तनूर्मिभिः ।। २५ ।।
अथ भावयुतां संध्यां वीक्ष्याकार्षं प्रजापतिः ।।
 धर्माभिपूरित तनुरभिलाषमहं मुने ।।२६।।
ततस्ते मुनयस्सर्वे मरीच्यत्रिमुखा अपि ।।
दक्षाद्याश्च द्विजश्रेष्ठ प्रापुर्वेकारिकेन्द्रियम् ।। २७ ।।
दृष्ट्वा तथाविधा दक्षमरीचिप्रमुखाश्च माम् ।।
संध्यां च कर्मणि निजे श्रद्दधे मदनस्तदा ।।२८।।
यदिदं ब्रह्मणा कर्म ममोद्दिष्टं मयापि तत् ।।
कर्तुं शक्यमिति ह्यद्धा भावितं स्वभुवा तदा।।२९।।
इत्थं पापगतिं वीक्ष्य भ्रातॄणां च पितुस्तथा ।।
धर्मस्सस्मार शंभुं वै तदा धर्मावनं प्रभुम् ।। 2.2.3.३० ।।
संस्मरन्मनसा धर्मं शंकरं धर्मपालकम् ।।
तुष्टाव विविधैर्वाक्यैर्दीनो भूत्वाजसंभवः ।। ३१ ।।
धर्म उवाच ।।
देवदेव महादेव धर्मपाल नमोस्तु ते ।।
सृष्टिस्थितिविनाशानां कर्ता शंभो त्वमेव हि ।। ३२ ।।
सृष्टौ ब्रह्मा स्थितौ विष्णुः प्रलये हररूपधृक् ।।
रजस्सत्त्वतमोभिश्च त्रिगुणैरगुणः प्रभो ।। ३३ ।।
निस्त्रैगुण्यः शिवः साक्षात्तुर्यश्च प्रकृतेः परः ।।
निर्गुणो निर्विकारी त्वं नानालीलाविशारदः ।। ३४ ।।
रक्षरक्ष महादेव पापान्मां दुस्तरादितः ।।
मत्पितायं तथा चेमे भ्रातरः पापबुद्धयः ।। ३५ ।।
ब्रह्मोवाच।।
इति स्तुतो महेशानो धर्मेणैव परः प्रभुः ।।
तत्राजगाम शीघ्रं वै रक्षितुं धर्ममात्मभूः ।। ३६ ।।
जातो वियद्गतश्शंभुर्विधिं दृष्ट्वा तथाविधम्।।
मां दक्षाद्यांश्च मनसा जहासोपजहास च ।। ३७ ।।
स साधुवादं तान् सर्वान्विहस्य च पुनः पुनः ।।
उवाचेदं मुनिश्रेष्ठ लज्जयन् वृषभध्वजः ।। ३८ ।।
शिव उवाच ।।
अहो ब्रह्मंस्तव कथं कामभावस्समुद्गतः ।।
दृष्ट्वा च तनयां नैव योग्यं वेदानुसारिणाम् ।।३९।।
यथा माता च भगिनी भ्रातृपत्नी तथा सुता ।।
एतः कुदृष्ट्या द्रष्टव्या न कदापि विपश्चिता ।। 2.2.3.४० ।।
एष वै वेदमार्गस्य निश्चयस्त्वन्मुखे स्थितः ।।
कथं तु काममात्रेण स ते विस्मारितो विधे ।। ४१ ।।
धैर्ये जागरितं ब्रह्मन्मनस्ते चतुरानन ।।
कथं क्षुद्रेण कामेन रंतुं विगटितं विधे ।। । ४२ ।।
एकांतयोगिनस्तस्मात्सर्वदादित्यदर्शिनः ।।
कथं दक्षमरीच्याद्या लोलुपाः स्त्रीषु मानसाः ।। ४३ ।।
कथं कामोपि मंदात्मा प्राबल्यात्सोधुनैव हि ।।
विकृतान्बाणैः कृतवानकालज्ञोल्पचेतनः ।।४४।।
धिक्तं श्रुतं सदा तस्य यस्य कांता मनोहरत् ।।
धैर्यादाकृष्य लौल्येषु मज्जयत्यपि मानसम् ।।४५।।
ब्रह्मोवाच ।।
इति तस्य वचः श्रुत्वा लोके सोहं शिवस्य च ।।
व्रीडया द्विगुणीभूतस्स्वेदार्द्रस्त्वभवं क्षणात् ।।४६।।
ततो निगृह्यैंद्रियकं विकारं चात्यजं मुने ।।
जिघृक्षुरपि तद्भीत्या तां संध्यां कामरूपिणीम् ।।४७।।
मच्छरीरात्तु घर्मांभो यत्पपात द्विजोत्तम ।। धर्मांभो
अग्निष्वात्ताः पितृगणा जाताः पितृगणास्ततः ।।४८।।
भिन्नांजननिभास्सर्वे फुल्लराजीवलोचनाः ।।
नितांतयतयः पुण्यास्संसारविमुखाः परे ।।४९।।
सहस्राणां चतुःषष्टिरग्निष्वात्ताः प्रकीर्तिता ।।
षडशीतिसहस्राणि तथा बर्हिषदो मुने ।। 2.2.3.५० ।।
घर्मांभः पतितं भूमौ तदा दक्षशरीरतः ।।
समस्तगुणसंपन्ना तस्माज्जाता वरांगना ।।५१।।
तन्वंगी सममध्या च तनुरोमावली श्रुता ।।
मृद्वंगी चारुदशना नवकांचनसुप्रभा ।।५२।।
सर्वावयवरम्या च पूर्णचन्द्राननाम्बुजा ।।
नाम्ना रतिरिति ख्याता मुनीनामपि मोहिनी ।।५३।।
मरीचिप्रमुखा षड् वै निगृहीतेन्द्रियक्रियाः ।।
ऋते क्रतुं वसिष्ठं च पुलस्त्यांगिरसौ तथा ।।।। ५४ ।।
क्रत्वादीनां चतुर्णां च बीजं भूमौ पपात च ।।
तेभ्यः पितृगणा जाता अपरे मुनिसत्तम।।५५।।
सोमपा आज्यपा नाम्ना तथैवान्ये सुकालिनः ।।
हविष्मंतस्तु तास्सर्वे कव्यवाहाः प्रकीर्तिताः ।। ५६ ।।
क्रतोस्तु सोमपाः पुत्रा वसिष्ठात्कालिनस्तथा ।।
आज्यपाख्याः पुलस्त्यस्य हविष्मंतोंगिरस्सुताः ।।५७।।
जातेषु तेषु विप्रेन्द्र अग्निष्वात्तादिकेष्वथ।।
लोकानां पितृवर्गेषु कव्यवाह स समंततः ।। ५८ ।।
संध्या पितृप्रसूर्भूत्वा तदुद्देशयुताऽभवत् ।।
निर्दोषा शंभुसंदृष्टा धर्मकर्मपरायणा ।। ५९ ।।
एतस्मिन्नंतरे शम्भुरनुगृह्याखिलान्द्विजान् ।।
धर्मं संरक्ष्य विधिवदंतर्धानं गतो द्रुतम् ।। 2.2.3.६० ।।
अथ शंकरवाक्येन लज्जितोहं पितामहः ।।
कंदर्प्पायाकोपिंत हि भ्रुकुटीकुटिलाननः ।। ६१ ।।
दृष्ट्वा मुखमभिप्रायं विदित्वा सोपि मन्मथः ।।
स्वबाणान्संजहाराशु भीतः पशुपतेर्मुने ।। ६२ ।।
ततः कोपसमायुक्तः पद्मयोनिरहं मुने ।।
अज्वलं चातिबलवान् दिधक्षुरिव पावकः ।। ६३ ।।
भवनेत्राग्निनिर्दग्धः कंदर्पो दर्पमोहितः ।।
भविष्यति महादेवे कृत्वा कर्मं सुदुष्करम् ।। ६४ ।।
इति वेधास्त्वहं काममक्षयं द्विजसत्तम ।।
समक्षं पितृसंघस्य मुनीनां च यतात्मनाम् ।। ६५ ।।
इति भीतो रतिपतिस्तत्क्षणात्त्यक्तमार्गणः ।।
प्रादुर्बभूव प्रत्यक्षं शापं श्रुत्वातिदारुणम् ।। ६६ ।।
ब्रह्माणं मामुवाचेदं स दक्षादिसुतं मुने ।।
शृण्वतां पितृसंघानां संध्यायाश्च विगर्वधीः ।। ६७ ।।
काम उवाच ।।
किमर्थं भवता ब्रह्मञ् शप्तोहमिति दारुणम् ।।
अनागास्तव लोकेश न्याय्यमार्गानुसारिणः ।। ६८ ।।
त्वया चोक्तं नु मत्कर्म यत्तद्ब्रह्मन् कृतं मया ।।
तत्र योग्यो न शापो मे यतो नान्यत्कृतं मया ।। ६९ ।।
अहं विष्णुस्तथा शंभुः सर्वे त्वच्छ रगोचराः ।।
इति यद्भवता प्रोक्तं तन्मयापि परीक्षितम् ।।2.2.3.७० ।।
नापराधो ममाप्यत्र ब्रह्मन् मयि निरागसि ।।
दारुणः समयश्चैव शापो देव जगत्पते ।। ७१ ।।
ब्रह्मोवाच।।
इति तस्य वचः श्रुत्वा ब्रह्माहं जगतां पतिः ।।
प्रत्यवोचं यतात्मानं मदनं दमयन्मुहुः।। ।। ७२ ।।
ब्रह्मोवाच ।।
आत्मजा मम संध्येयं यस्मादेतत्स कामतः ।।
लक्ष्यीकृतोहं भवता ततश्शापो मया कृतः ।। ७३ ।।
अधुना शांतरोषोहं त्वां वदामि मनोभव ।।
शृणुष्व गतसंदेहस्सुखी भव भयं त्यज ।।७४।।
त्वं भस्म भूत्वा मदन भर्गलोचनवह्निना ।।
तथैवाशु समं पश्चाच्छरीरं प्रापयिष्यसि ।। ७५ ।।
यदा करिष्यति हरोंजसा दारपरिग्रहम् ।।
तदा स एव भवतश्शरीरं प्रापयिष्यति ।। ७६ ।।
ब्रह्मोवाच ।।
एवमुक्त्वाथ मदनमहं लोकपितामहः ।।
अंतर्गतो मुनीन्द्राणां मानसानां प्रपश्यताम् ।।७७।।
इत्येवं मे वचश्श्रुत्वा मदनस्तेपि मानसाः ।।
संबभूवुस्सुतास्सर्वे सुखिनोऽरं गृहं गताः ।।७८।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे कामशापानुग्रहो नाम तृतीयोऽध्यायः ।।३।।