शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः २ (सतीखण्डः)/अध्यायः ०२

विकिस्रोतः तः
← अध्यायः ०१ शिवपुराणम् - शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः २ (सतीखण्डः)
अध्यायः २
[[लेखकः :|]]
अध्यायः ०३ →

सूत उवाच ।।
इत्याकर्ण्य वचस्तस्य नेमिषारण्यवासिनः ।।
पप्रच्छ च मुनिश्रेष्ठः कथां पापप्रणाशिनीम् ।। १ ।।
नारद उवाच ।।
विधेविधे महा भाग कथां शंभोश्शुभावहाम् ।।
शृण्वन् भवन्मुखांभोजान्न तृप्तोस्मि महाप्रभो ।।२।।
अतः कथय तत्सर्वं शिवस्य चरितं शुभम् ।।
सतीकीर्त्यन्वितं दिव्यं श्रोतुमिच्छामि विश्वकृत् ।। ३ ।।
सती हि कथमुत्पन्ना दक्षदारेषु शोभना ।।
कथं हरो मनश्चक्रे दाराहरणकर्मणि ।। ४ ।।
कथं वा दक्षकोपेन त्यक्तदेहा सती पुरा ।।
हिमवत्तनया जाता भूयो वाकाशमागता ।। ५ ।।
पार्वत्याश्च तपोऽत्युग्रं विवाहश्च कथं त्वभूत् ।।
कथमर्द्धशरीरस्था बभूव स्मरनाशिनः ।। ६ ।।
एतत्सर्वं समाचक्ष्व विस्तरेण महामते ।।
नान्योस्ति संशयच्छेत्ता त्वत्समो न भविष्यति ।। ७ ।।
ब्रह्मोवाच ।।
शृणु त्वं च मुने सर्वं सतीशिवयशश्शुभम् ।।
पावनं परमं दिव्यं गुह्याद्गुह्यतमं परम् ।। ८ ।।
एतच्छंभुः पुरोवाच भक्तवर्याय विष्णवे ।।
पृष्टस्तेन महाभक्त्या परोपकृतये मुने ।। ।। ९ ।।
ततस्सोपि मया पृष्टो विष्णुश्शैववरस्सुधीः ।।
प्रीत्या मह्यं समाचख्यौ विस्तरान्मुनिसत्तम ।। 2.2.2.१० ।।
अहं तत्कथयिष्यामि कथामेतां पुरातनीम् ।।
शिवाशिवयशोयुक्तां सर्वकामफलप्रदाम् ।। ११ ।।
पुरा यदा शिवो देवो निर्गुणो निर्विकल्पकः ।।
अरूपश्शक्तिरहितश्चिन्मात्रस्सदसत्परः ।। १२ ।।
अभवत्सगुणस्सोपि द्विरूपश्शक्तिमान्प्रभुः ।।
सोमो दिव्याकृतिर्विप्र निर्वि कारी परात्परः ।। १३ ।।
तस्य वामांगजो विष्णुर्ब्रह्माहं दक्षिणांगजः ।।
रुद्रो हृदयतो जातोऽभवच्च मुनिसत्तम ।। १४ ।।
सृष्टिकर्ताभवं ब्रह्मा विष्णुः पालनकारकः ।।
लयकर्ता स्वयं रुद्रस्त्रिधाभूतस्सदाशिवः ।।१५।।
तमेवाहं समाराध्य ब्रह्मा लोकपितामहः।।
प्रजा ससर्ज सर्वास्तास्सुरासुरनरादिकाः ।। १६ ।।
सृष्ट्वा प्रजापतीन् दक्षप्रमुखान्सुरसत्तमान् ।।
अमन्यं सुप्रसन्नोहं निजं सर्वमहोन्नतम् ।।१७।।
मरीचिमत्रिं पुलहं पुलस्त्यांगिरसौ क्रतुम् ।।
वसिष्ठं नारदं दक्षं भृगुं चेति महाप्रभून् ।।१६।।
ब्रह्माहं मानसान्पुत्रानसर्जं च यदा मुने ।।
तदा मन्मनसो जाता चारुरूपा वरांगना ।।१९।।
नाम्ना संध्या दिवक्षांता सायं संध्या जपंतिका ।।
अतीव सुन्दरी सुभ्रूर्मुनिचेतोविमोहिनी।।2.2.2.२०।।
न तादृशी देवलोके न मर्त्ये न रसातले ।।
कालत्रयेपि वै नारी सम्पूर्णगुणशालिनी।।२।।
दृष्ट्वाहं तां समुत्थाय चिन्तयन्हृदि हृद्गतम्।।
दक्षादयश्च स्रष्टारो मरीच्याद्याश्च मत्सुताः ।।२२।।
एवं चिंतयतो मे हि ब्रह्मणो मुनिसत्तम ।।
मानसः पुरुषो मंजुराविर्भूतो महाद्भुतः ।। २३ ।।
कांचनीकृतजाताभः पीनोरस्कस्सुनासिकः ।।
सुवृत्तोरुकटीजंघो नीलवेलितकेसरः ।।२४।।
लग्नभ्रूयुगलो लोलः पूर्णचन्द्रनिभाननः ।।
कपाटायतसद्वक्षो रोमराजीवराजितः ।।२५।।
अभ्रमातंगकाकारः पीनो नीलसुवासकः ।।
आरक्तपाणिनयनमुखपादकरोद्भवः।।२६।।
क्षीणमध्यश्चारुदन्तः प्रमत्तगजगंधनः।।
प्रफुल्लपद्मपत्राक्षः केसरघ्राणतर्पणः ।।२७।।
कंबुग्रीवो मीनकेतुः प्रांशुर्मकरवाहनः ।।
पंचपुष्पायुधो वेगी पुष्पकोदंडमंडितः ।।२८।।
कांतः कटाक्षपातेन भ्रामयन्नयनद्वयम् ।।
सुगंधिमारुतो तात शृंगाररससेवितः ।। २९ ।।
तं वीक्ष्य पुरुषं सर्वे दक्षाद्या मत्सुताश्च ते ।।
औत्सुक्यं परमं जग्मुर्विस्मयाविष्टमानसाः ।। 2.2.2.३० ।।
अभवद्विकृतं तेषां मत्सुतानां मनो द्रुतम् ।।
धैर्यं नैवालभत्तात कामाकुलितचेतसाम् ।।३१।।
मां सोपि वेधसं वीक्ष्य स्रष्टारं जगतां पतिम् ।।
प्रणम्य पुरुषः प्राह विनयानतकंधरः ।। ३२ ।।
पुरुष उवाच ।।
किं करिष्याम्यहं कर्म ब्रह्मंस्तत्र नियोजय।।
मान्योद्य पुरुषो यस्मादुचितः शोभितो विधे ।।३३।।
अभिमानं च योग्यं च स्थानं पत्नी च या मम ।।
तन्मे वद त्रिलोकेश त्वं स्रष्टा जगतां पतिः ।।३४।।
ब्रह्मोवाच ।।
एवं तस्य वचः श्रुत्वा पुरुषस्य महात्मनः ।।
क्षणं न किंचित्प्रावोचत्स स्रष्टा चातिविस्मितः ।।३५।।
अतो मनस्सुसंयम्य सम्यगुत्सृज्य विस्मयम् ।।
अवोचत्पुरुषं ब्रह्मा तत्कामं च समावहन् ।।३६।।
।। ब्रह्मोवाच ।। ।।
अनेन त्वं स्वरूपेण पुष्पबाणैश्च पंचभिः ।।
मोहयन् पुरुषान् स्त्रीश्च कुरु सृष्टिं सनातनीम् ।। ३७ ।।
अस्मिञ्जीवाश्च देवाद्यास्त्रैलोक्ये सचराचरे ।।
एते सर्वे भविष्यन्ति न क्षमास्त्यवलंबने ।। ३८ ।।
अहं वा वासुदेवो वा स्थाणुर्वा पुरुषोत्तमः ।।
भविष्यामस्तव वशे किमन्ये प्राणधारकाः ।।३९।।
प्रच्छन्नरूपो जंतूनां प्रविशन्हृदयं सदा ।।
सुखहेतुः स्वयं भूत्वा सृष्टिं कुरु सनातनीम् ।।2.2.2.४०।।
त्वत्पुष्पबाणस्य सदा सुखलक्ष्यं मनोद्भुतम् ।।
सर्वेषां प्राणिनां नित्यं सदा मदकरो भवान् ।।४१।।
इति ते कर्म कथितं सृष्टिप्रावर्तकं पुनः ।।
नामान्येते वदिष्यंति सुता मे तव तत्त्वतः ।। ४२ ।।
ब्रह्मोवाच ।।
इत्युक्त्वाहं सुरश्रेष्ठ स्वसुतानां मुखानि च।।
आलोक्य स्वासने पाद्मे प्रोपविष्टोऽभवं क्षणम् ।।४३।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे कामप्रादुर्भावो नाम द्वितीयोऽध्यायः ।।२।।