शिवपुराणम्/संहिता १ (विश्वेश्वरसंहिता)/अध्यायः १६

विकिस्रोतः तः
Jump to navigation Jump to search

ऋषय ऊचुः
पार्थिवप्रतिमापूजाविधानं ब्रूहि सत्तम
येन पूजाविधानेन सर्वाभिष्टमवाप्यते १
सूत उवाच
सुसाधुपृष्टं युष्माभिः सदा सर्वार्थदायकम्
सद्यो दुःखस्य शमनं शृणुत प्रब्रवीमि वः २
अपमृत्युहरं कालमृत्योश्चापि विनाशनम्
सद्यः कलत्रपुत्रादिधनधान्यप्रदं द्विजाः ३
अन्नादिभोज्यं वस्त्रादिसर्वमुत्पद्यते यतः
ततो मृदादिप्रतिमापूजाभीष्टप्रदा भुवि ४
पुरुषाणां च नारीणामधिकारोत्र निश्चितम्
नद्यां तडागे कूपे वा जलांतर्मृदमाहरेत् ५
संशोध्य गंधचूर्णेन पेषयित्वा सुमंडपे
हस्तेन प्रतिमां कुर्यात्क्षीरेण च सुसंस्कृताम् ६
अंगप्रत्यंगकोपेतामायुधैश्च समन्विताम्
पद्मासनस्थितां कृत्वा पूजयेदादरेण हि ७
विघ्नेशादित्यविष्णूनामंबायाश्च शिवस्य च
शिवस्यशिवलिंगं च सर्वदा पूजयेद्द्विज ८
षोडशैरुपचारैश्च कुर्यात्तत्फलसिद्धये
पुष्पेण प्रोक्षणं कुर्यादभिषेकं समंत्रकम् ९
शाल्यन्नेनैव नैवेद्यं सर्वं कुडवमानतः
गृहे तु कुडवं ज्ञेयं मानुषे प्रस्थमिष्यते 1.16.१०
दैवे प्रस्थत्रयं योग्यं स्वयंभोः प्रस्थपंचकम्
एवं पूर्णफलं विद्यादधिकं वै द्वयं त्रयम् ११
सहस्रपूजया सत्यं सत्यलोकं लभेद्द्विजः
द्वादशांगुलमायामं द्विगुणं च ततोऽधिकम् १२
प्रमाणमंगुलस्यैकं तदूर्ध्वं पंचकत्रयम्
अयोदारुकृतं पात्रं शिवमित्युच्यते बुधैः १३
तदष्टभागः प्रस्थः स्यात्तच्चतुःकुडवं मतम्
दशप्रस्थं शतप्रस्थं सहस्रप्रस्थमेव च १४
जलतैलादिगंधानां यथायोग्यं च मानतः
मानुषार्षस्वयंभूनां महापूजेति कथ्यते १५
अभिषेकादात्मशुद्धिर्गंधात्पुण्यमवाप्यते
आयुस्तृप्तिश्च नैवेद्याद्धूपादर्थमवाप्यते १६* तु. मण्डलब्राह्मणोपनिषत् २.२.५
दीपाज्ज्ञानमवाप्नोति तांबूलाद्भोगमाप्नुयात्
तस्मात्स्नानादिकं षट्कं प्रयत्नेन प्रसाधयेत् १७
नमस्कारो जपश्चैव सर्वाभीष्टप्रदावुभौ
पूजान्ते च सदाकार्यौ भोगमोक्षार्थिभिर्नरैः १८
संपूज्य मनसा पूर्वं कुर्यात्तत्तत्सदा नरः
देवानां पूजया चैव तत्तल्लोकमवाप्नुयात् १९
तदवांतरलोके च यथेष्टं भोग्यमाप्यते
तद्विशेषान्प्रवक्ष्यामि शृणुत श्रद्धया द्विजाः 1.16.२०
विघ्नेशपूजया सम्यग्भूर्लोकेऽभीष्टमाप्नुयात्
शुक्रवारे चतुर्थ्यां च सिते श्रावणभाद्र के २१
भिषगृक्षे धनुर्मासे विघ्नेशं विधिवद्यजेत्
शतं पूजासहस्रं वा तत्संख्याकदिनैर्व्रजेत् २२
देवाग्निश्रद्धया नित्यं पुत्रदं चेष्टदं नृणाम्
सर्वपापप्रशमनं तत्तद्दुरितनाशनम् २३
वारपूजांशिवादीनामात्मशुद्धिप्रदां विदुः
तिथिनक्षत्रयोगानामाधारं सार्वकामिकम् २४
तथा बृद्धिक्षयाभावात्पूर्णब्रह्मात्मकं विदुः
उदयादुदयं वारो ब्रह्मप्रभृति कर्मणाम् २५
तिथ्यादौ देवपूजा हि पूर्णभोगप्रदा नृणाम्
पूर्वभागः पितृ-णां तु निशि युक्तः प्रशस्यते २६
परभागस्तु देवानां दिवा युक्तः प्रशस्यते
उदयव्यापिनी ग्राह्या मध्याह्ने यदि सा तिथिः २७
देवकार्ये तथा ग्राह्यास्थिति ऋक्षादिकाः शुभाः
सम्यग्विचार्य वारादीन्कुर्यात्पूजाजपादिकम् २८
पूजार्यते ह्यनेनेति वेदेष्वर्थस्य योजना
पूर्णभोगफलसिद्धिश्च जायते तेन कर्मणा २९
मनोभावांस्तथा ज्ञानमिष्टभोगार्थयोजनात्
पूजाशब्दर्थ एवं हि विश्रुतो लोकवेदयोः 1.16.३०
नित्यनैमित्तिकं कालात्सद्यः काम्ये स्वनुष्ठिते
नित्यं मासं च पक्षं च वर्षं चैव यथाक्रमम् ३१
तत्तत्कर्मफलप्राप्तिस्तादृक्पापक्षयः क्रमात्
महागणपतेः पूजा चतुर्थ्यां कृष्णपक्षके ३२
पक्षपापक्षयकरी पक्षभोगफलप्रदा
चैत्रे चतुर्थ्यां पूजा च कृता मासफलप्रदा ३३
वर्षभोगप्रदा ज्ञेया कृता वै सिंहभाद्र के
श्रवण्यादित्यवारे च सप्तम्यां हस्तभे दिने ३४
माघशुक्ले च सप्तम्यामादित्ययजनं चरेत्
ज्येष्ठभाद्र कसौम्ये च द्वादश्यां श्रवर्णक्षके ३५
द्वादश्यां विष्णुयजनमिष्टंसंपत्करं विदुः
श्रावणे विष्णुयजनमिष्टारोग्यप्रदं भवेत् ३६
गवादीन्द्वादशानर्थान्सांगान्दत्वा तु यत्फलम्
तत्फलं समवाप्नोति द्वादश्यां विष्णुतर्पणात् ३७
द्वादश्यां द्वादशान्विप्रान्विष्णोर्द्वादशनामतः
षोडशैरुपचारैश्च यजेत्तत्प्रीतिमाप्नुयात् ३८
एवं च सर्वदेवानां तत्तद्द्वादशनामकैः
द्वादशब्रह्मयजनं तत्तत्प्रीतिकरं भवेत् ३९
कर्कटे सोमवारे च नवम्यां मृगशीर्षके
अंबां यजेद्भूतिकामः सर्वभोगफलप्रदाम् 1.16.४०
आश्वयुक्छुक्लनवमी सर्वाभीष्टफलप्रदा
आदिवारे चतुर्दश्यां कृष्णपक्षे विशेषतः ४१
आर्द्रायां च महार्द्रायां शिवपूजा विशिष्यते
माघकृष्णचतुर्दश्यां सर्वाभीष्टफलप्रदा ४२
आयुष्करी मृत्युहरा सर्वसिद्धिकरी नृणाम्
ज्येष्ठमासे महार्द्रायां चतुर्दशीदिनेपि च ४३
मार्गशीर्षार्द्रकायां वा षोडशैरुपचारकैः
तत्तन्मूर्तिशिवं पूज्य तस्य वै पाददर्शनम् ४४
शिवस्य यजनं ज्ञेयं भोगमोक्षप्रदं नृणाम्
वारादिदेवयजनं कार्तिके हि विशिष्यते ४५
कार्तिके मासि संप्राप्ते सर्वान्देवान्यजेद्बुधः
दानेन तपसा होमैर्जपेन नियमेन च ४६
षोडशैरुपचारैश्च प्रतिमा विप्रमंत्रकैः
ब्राह्मणानां भोजनेन निष्कामार्तिकरो भवेत् ४७
कार्तिके देवयजनं सर्वभोगप्रदं भवेत्
व्याधीनां हरणं चैव भवेद्भूतग्रहक्षयः ४८
कार्तिकादित्यवारेषु नृणामादित्यपूजनात्
तैलकार्पासदानात्तु भवेत्कुष्ठादिसंक्षयः ४९
हरीतकीमरीचीनां वस्त्रक्षीरादिदानतः
ब्रह्मप्रतिष्ठया चैव क्षयरोगक्षयो भवेत् 1.16.५०
दीपसर्षपदानाच्च अपस्मारक्षयो भवेत्
कृत्तिकासोमवारेषु शिवस्य यजनं नृणाम् ५१
महादारिद्र्य शमनं सर्वसंपत्करं भवेत्
गृहक्षेत्रादिदानाच्च गृहोपकरणादिना ५२
कृत्तिकाभौमवारेषु स्कंदस्य यजनान्नृणाम्
दीपघंटादिदानाद्वै वाक्सिद्धिरचिराद्भवेत् ५३
कृत्तिकासौम्यवारेषु विष्णोर्वै यजनं नृणाम्
दध्योदनस्य दानं च सत्संतानकरं भवेत् ५४
कृतिकागुरुवारेषु ब्रह्मणो यजनाद्धनैः
मधुस्वर्णाज्यदानेन भोगवृद्धिर्भवेन्नृणाम् ५५
कृत्तिकाशुक्रवारेषु गजकोमेडयाजनात् १
गंधपुष्पान्नदानेन भोग्यवृद्धिर्भवेन्नृणाम् ५६
वंध्या सुपुत्रं लभते स्वर्णरौप्यादिदानतः
कृत्तिकाशनिवारेषु दिक्पालानां च वंदनम् ५७
दिग्गजानां च नागानां सेतुपानां च पूजनम्
त्र्यंबकस्य च रुद्रस्य विष्णोः पापहरस्य च ५८
ज्ञानदं ब्रह्मणश्चैव धन्वंतर्यश्विनोस्तथा
रोगापमृत्युहरणं तत्कालव्याधिशांतिदम् ५९
लवणायसतैलानां माषादीनां च दानतः
त्रिकटुफलगंधानां जलादीनां च दानतः 1.16.६०
द्रवाणां कठिनानां च प्रस्थेन पलमानतः
स्वर्गप्राप्तिर्धनुर्मासे ह्युषःकाले च पूजनम् ६१
शिवादीनां च सर्वेषां क्रमाद्वै सर्वसिद्धये
शाल्यन्नस्य हविष्यस्य नैवेद्यं शस्तमुच्यते* ६२
विविधान्नस्य नैवेद्यं धनुर्मासे विशिष्यते
मार्गशीर्षेऽन्नदस्यैव सर्वमिष्टफलं भवेत् ६३
पापक्षयं चेष्टसिद्धिं चारोग्यं धर्ममेव च
सम्यग्वेदपरिज्ञानं सदनुष्ठानमेव च ६४
इहामुत्र महाभोगानंते योगं च शाश्वतम्
वेदांतज्ञानसिद्धिं च मार्गशीर्षान्नदो लभेत् ६५
मार्गशीर्षे ह्युषःकाले दिनत्रयमथापि वा
यजेद्देवान्भोगकामो नाधनुर्मासिको भवेत् ६६
यावत्संगवकालं तु धनुर्मासो विधीयते
धनुर्मासे निराहारो मासमात्रं जितेंद्रियः ६७
आमध्याह्नजपेद्विप्रो गायत्रीं वेदमातरम्
पंचाक्षरादिकान्मंत्रान्पश्चादासप्तिकं जपेत् ६८
ज्ञानं लब्ध्वा च देहांते विप्रो मुक्तिमवाप्नुयात्
अन्येषां नरनारीणां त्रिःस्नानेन जपेन च ६९
सदा पंचाक्षरस्यैव विशुद्धं ज्ञानमाप्यते
इष्टमन्त्रान्सदा जप्त्वा महापापक्षयं लभेत् 1.16.७०
धनुर्मासे विशेषेण महानैवेद्यमाचरेत्
शालितंडुलभारेण मरीचप्रस्थकेन च ७१
गणनाद्द्वादशं सर्वं मध्वाज्यकुडवेन हि
द्रोणयुक्तेन मुद्गेन द्वादशव्यंजनेन च ७२
घृतपक्वैरपूपैश्च मोदकैः शालिकादिभिः
द्वादशैश्च दधिक्षीरैर्द्वादशप्रस्थकेन च ७३
नारिकेलफलादीनां तथा गणनया सह
द्वादशक्रमुकैर्युक्तं षट्त्रिंशत्पत्रकैर्युतम् ७४
कर्पूरखुरचूर्णेन पंचसौगंधिकैर्युतम्
तांबूलयुक्तं तु यदा महानैवेद्यलक्षणम्* ७५
महानैवेद्यमेतद्वै देवतार्पणपूर्वकम्
वर्णानुक्रमपूर्वेण तद्भक्तेभ्यः प्रदापयेत् ७६
एवं चौदननैवेद्याद्भूमौ राष्ट्रपतिर्भवेत्
महानैवेद्यदानेन नरः स्वर्गमवाप्नुयात् ७७
महानैवेद्यदानेन सहस्रेण द्विजर्षभाः
सत्यलोके च तल्लोके पूर्णमायुरवाप्नुयात् ७८
सहस्राणां च त्रिंशत्या महानैवेद्यदानतः
तदूर्ध्वलोकमाप्यैव न पुनर्जन्मभाग्भवेत् ७९
सहस्राणां च षट्त्रिंशज्जन्म नैवेद्यमीरितम्
तावन्नैवेद्यदानं तु महापूर्णं तदुच्यते 1.16.८०
महापूर्णस्य नैवेद्यं जन्मनैवेद्यमिष्यते
जन्मनैवेद्यदानेन पुनर्जन्म न विद्यते ८१
ऊर्जे मासि दिने पुण्ये जन्म नैवेद्यमाचरेत्
संक्रांतिपातजन्मर्क्षपौर्णमास्यादिसंयुते ८२
अब्दजन्मदिने कुर्याज्जन्मनैवेद्यमुत्तमम्
मासांतरेषु जन्मर्क्षपूर्णयोगदिनेपि च ८३
मेलने च शनैर्वापि तावत्साहस्रमाचरेत्
जन्मनैवेद्यदानेन जन्मार्पणफलं लभेत् ८४
जन्मार्पणाच्छिवः प्रीतिः स्वसायुज्यं ददाति हि
इदं तज्जन्मनैवेद्यं शिवस्यैव प्रदापयेत् ८५
योनिलिंगस्वरूपेण शिवो जन्मनिरूपकः
तस्माज्जन्मनिवृत्त्यर्थं जन्म पूजा शिवस्य हि ८६
बिंदुनादात्मकं सर्वं जगत्स्थावरजंगमम्
बिंदुः शक्तिः शिवो नादः शिवशक्त्यात्मकं जगत् ८७
नादाधारमिदं बिंदुर्बिंद्वाधारमिदं जगत्
जगदाधारभूतौ हि बिंदुनादौ व्यवस्थितौ ८८
बिन्दुनादयुतं सर्वं सकलीकरणं भवेत्
सकलीकरणाज्जन्मजगत्प्राप्नोत्यसंशयः ८९
बिंदुनादात्मकं लिंगं जगत्कारणमुच्यते
बिंदुर्देवीशिवो नादः शिवलिंगं तु कथ्यते 1.16.९०
तस्माज्जन्मनिवृत्त्यर्थं शिवलिंगं प्रपूजयेत्
माता देवी बिंदुरूपा नादरूपः शिवः पिता ९१
पूजिताभ्यां पितृभ्यां तु परमानंद एव हि
परमानंदलाभार्थं शिवलिंगं प्रपूजयेत् ९२
सा देवी जगतां माता स शिवो जगतः पिता
पित्रोः शुश्रूषके नित्यं कृपाधिक्यं हि वर्धते ९३
कृपयांतर्गतैश्वर्यं पूजकस्य ददाति हि
तस्मादंतर्गतानंदलाभार्थं मुनिपुंगवाः ९४
पितृमातृस्वरूपेण शिवलिंगं प्रपूजयेत्
भर्गः पुरुषरूपो हि भर्गा प्रकृतिरुच्यते ९५
अव्यक्तांतरधिष्ठानं गर्भः पुरुष उच्यते
सुव्यक्तांतरधिष्ठानं गर्भः प्रकृतिरुच्यते ९६
पुरुषत्वादिगर्भो हि गर्भवाञ्जनको यतः
पुरुषात्प्रकृतो युक्तं प्रथमं जन्म कथ्यते ९७
प्रकृतेर्व्यक्ततां यातं द्वितीयं जन्म कथ्यते
जन्म जंतुर्मृत्युजन्म पुरुषात्प्रतिपद्यते ९८
अन्यतो भाव्यतेऽवश्यं मायया जन्म कथ्यते
जीर्यते जन्मकालाद्यत्तस्माज्जीव इति स्मृतः ९९
जन्यते तन्यते पाशैर्जीवशब्दार्थ एव हि
जन्मपाशनिवृत्त्यर्थं जन्मलिंगं प्रपूजयेत् 1.16.१००
भं वृद्धिं गच्छतीत्यर्थाद्भगः प्रकृतिरुच्यते
प्राकृतैः शब्दमात्राद्यैः प्राकृतेंद्रियभोजनात् १०१
भगस्येदं भोगमिति शब्दार्थो मुख्यतः श्रुतः
मुख्यो भगस्तु प्रकृतिर्भगवाञ्छिव उच्यते १०२
भगवान्भोगदाता हि नाऽन्यो भोगप्रदायकः
भगस्वामी च भगवान्भर्ग इत्युच्यते बुधैः १०३
भगेन सहितं लिंगं भगंलिंगेन संयुतम्
इहामुत्र च भोगार्थं नित्यभोगार्थमेव च १०४
भगवंतं महादेवं शिवलिंगं प्रपूजयेत्
लोकप्रसविता सूर्यस्तच्चिह्नं प्रसवाद्भवेत् १०५
लिंगेप्रसूतिकर्तारं लिंगिनं पुरुषो यजेत्
लिंगार्थगमकं चिह्नं लिंगमित्यभिधीयते १०६
लिंगमर्थं हि पुरुषं शिवं गमयतीत्यदः
शिवशक्त्योश्च चिह्नस्य मेलनं लिंगमुच्यते १०७
स्वचिह्नपूजनात्प्रीतश्चिह्नकार्यं न वीयते
चिह्नकार्यं तु जन्मादिजन्माद्यं विनिवर्तते १०८
प्राकृतैः पुरुषैश्चापि बाह्याभ्यंतरसंभवैः
षोडशैरुपचारैश्च शिवलिंगं प्रपूजयेत् १०९
एवमादित्यवारे हि पूजा जन्मनिवर्तिका
आदिवारे महालिंगं प्रणवेनैव पूजयेत् 1.16.११०
आदिवारे पंचगव्यैरभिषेको विशिष्यते
गोमयं गोजलं क्षीरं दध्याज्यं पंचगव्यकम् १११
क्षीराद्यं च पृथक्च्चैव मधुना चेक्षुसारकैः
गव्यक्षीरान्ननैवेद्यं प्रणवेनैव कारयेत् ११२
प्रणवं ध्वनिलिंगं तु नादलिंगं स्वयंभुवः
बिंदुलिंगं तु यंत्रं स्यान्मकारं तु प्रतिष्ठितम् ११३
उकारं चरलिंगं स्यादकारं गुरुविग्रहम्
षड्लिंगं पूजया नित्यं जीवन्मुक्तो न संशयः ११४
शिवस्य भक्त्या पूजा हि जन्ममुक्तिकरी नृणाम्
रुद्रा क्षधारणात्पादमर्धं वैभूतिधारणात् ११५
त्रिपादं मंत्रजाप्याच्च पूजया पूर्णभक्तिमान्
शिवलिंगं च भक्तं च पूज्य मोक्षं लभेन्नरः ११६
य इमं पठतेऽध्यायं शृणुयाद्वा समाहितः
तस्यैव शिवभक्तिश्च वर्धते सुदृढा द्विजाः ११७
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां षोडशोऽध्यायः १६



[सम्पाद्यताम्]