मण्डलब्राह्मणोपनिषत्

विकिस्रोतः तः
Jump to navigation Jump to search
उपनिषद्



ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

॥प्रथमं ब्राम्हणम्॥[सम्पाद्यताम्]

॥ 1.1प्रथम: खण्ड:॥[सम्पाद्यताम्]

याज्ञवल्क्यो ह वै महामुनिरादित्यलोकं जगाम ।
तमादित्यं नत्वा भो भगवन्नादित्यात्मतत्त्वमनुब्रूहीति ॥१॥


सहोवाच नारायणः ।
ज्ञानयुक्तयमाद्यष्टाङ्गयोग उच्यते ॥२॥


शीतोष्णाहारनिद्राविजयः सर्वदा शान्तिर्निश्चलत्वं विषयेन्द्रियनिग्रहश्चैते यमाः ॥३॥


गुरुभक्तिः सत्यमार्गानुरक्तिः सुखागतवस्त्वनुभवश्च तद्वस्त्वनुभवेन ।
तुष्टिर्निःसङ्गता एकान्तवासो मनोनिवृत्तिः फलानभिलाषो वैराग्यभावश्च नियमाः ॥४॥


सुखासनवृत्तिश्चीरवासाश्चैवमासननियमो भवति ॥५॥


पूरककुम्भकरेचकैः षोडशचतु: षष्टिद्वात्रिऽन्शत्सङ्ख्यया यथाक्रमं प्राणायामः ॥६॥


विषयेभ्य इन्द्रियार्थेभ्यो मनोनिरोधनं प्रत्याहारः ॥७॥


विषयव्यावर्तनपूर्वकं चैतन्ये चेत:स्थापनं धारणं भवति ॥८॥


सर्वशरीरेषु चैतन्यैकतानता ध्यानम् ॥९॥


ध्यानविस्मृतिः समाधिः ॥१०॥


एवं सूक्ष्माङ्गानि ।
य एवं वेद स मुक्तिभाग्भवति ॥ ११ ॥


॥ 1.2 द्वितीय: खण्ड:॥[सम्पाद्यताम्]

देहस्य पञ्चदोषा भवन्ति कामक्रोधनिःश्वासभयनिद्राः ॥१॥


तन्निरासस्तु निःसङ्कल्पक्षमालघ्वाहारप्रमादतातत्त्वसेवनम् ॥२॥


निद्राभयसरीसृपं हिंसादितरङ्गं तृष्णावर्तं दारपङ्कं संसारवार्धिं तरीतु सूक्ष्ममार्गमवलम्ब्य सत्त्वादिगुणानतिक्रम्य तारमवलोकयेत् ॥३॥


भ्रूमध्ये सच्चिदानन्दतेजःकूटरूपं तारकं ब्रह्म ॥४॥


तदुपायं लक्ष्यत्रयावलोकनम् ॥५॥


मूलाधारादारभ्य ब्रह्मरन्ध्रपर्यन्तं सुषुम्ना सूर्याभा । तन्मध्ये तडित्कोटिसमा मृणालतन्तु-सूक्ष्मा कुण्डलिनी ।
तत्र तमोनिवृत्तिः। तद्दर्शनात्सर्वपापनिवृत्तिः ॥६॥


तर्जन्यग्रोन्मीलितकर्णरन्ध्रद्वये फूत्कारशब्दो जायते ।
तत्र स्थिते मनसि चक्षुर्मध्यनीलज्योतिः पश्यति । एवं हृदयेऽपि ॥७॥
तर्जनी अँगुली के अग्रभाग से दोनों कानों को बन्द करने पर उस (साधक) के कर्णछिद्रों से


बहिर्लक्ष्यं तु नासाग्रे चतुःषडष्टदशद्वादशाङ्गुलीभिः क्रमान्नीलद्युतिश्यामत्वसदृग्रक्तभङ्गीस्फुरत्पीतवर्णद्वयोपेतं व्योमत्वं पश्यति स तु योगी ॥८॥


चलनदृष्ट्या व्योमभागवीक्षितुः पुरुषस्य दृष्ट्यग्रे ज्योतिर्मयूखा वर्तन्ते ।
तद्दृष्टिः स्थिरा भवति ॥९॥


शीर्षोपरि द्वादशाङ्गुलिमानं ज्योतिः पश्यति तदाऽमृतत्वमेति ॥१०॥


मध्यलक्ष्यं तु प्रातश्चित्रादिवर्णसूर्यचन्द्रवह्निज्वाला वलीवत्तद्विहीनान्तरिक्षवत्पश्यति ॥११॥


तदाकाराकारी भवति ॥१२॥


अभ्यासान्निर्विकारं गुणरहिताकाशं भवति ।
विस्फुरत्तारकाकारगाढतमोपमं पराकाशं भवति ।
कालानलसमं द्योतमानं महाकाशं भवति ।
सर्वोत्कृष्टपरमाद्वितीयप्रद्योतमानं तत्त्वाकाशं भवति ।
कोटिसूर्यप्रकाशसंकाशं सूर्याकाशं भवति ॥१३॥


एवमभ्यासात्तन्मयो भवति य एवं वेद ॥ १४ ॥


॥ 1.3 तृतीय: खण्ड:॥[सम्पाद्यताम्]

तद्योगं च द्विधा विद्धि पूर्वोत्तरविभागतः ।
पूर्वं तु तारकं विद्यादमनस्कं तदुत्तरमिति ।
तारकं द्विविधम् ।
मूर्तितारकममूर्तितारकमिति ।
यदिन्द्रियान्तं तन्मूर्तितारकम् ।
यद्भ्रूयुगातीतं तदमूर्तितारकमिति ॥१॥


उभयमपि मनोयुक्तमभ्यसेत् ।
मनोयुक्तान्तरदृष्टिस्तारकप्रकाशाय भवति ॥२॥


भ्रूयुगमध्यबिले तेजस आविर्भावः ।
एतत्पूर्वतारकम् ॥३॥


उत्तरं त्वमनस्कम् ।
तालुमूलोर्ध्वभागे महाज्योतिर्विद्यते ।
तद्दर्शनादणिमादिसिद्धिः ॥४॥


लक्ष्येऽन्तर्बाह्यायां दृष्टौ निमेषोन्मेषवर्जितायां च इयं शाम्भवी मुद्रा भवति ।
सर्वतन्त्रेषु गोप्यमहाविद्या भवति ।
तज्ज्ञानेन संसारनिवृत्तिः ।
तत्पूजनं मोक्षफलदम् ॥५॥


अन्तर्लक्ष्यं जलज्योतिःस्वरूपं भवति ।
महर्षिवेद्यं अन्तर्बाह्येन्द्रियैरदृश्यम् ॥ ३ ॥


॥ 1.4 चतुर्थ: खण्ड:॥[सम्पाद्यताम्]

सहस्रारे जलज्योतिरन्तर्लक्ष्यम् ।
बुद्धिगुहायां सर्वाङ्गसुन्दरं पुरुषरूपमन्तर्लक्ष्यमित्यपरे ।
शीर्षान्तर्गतमण्डलमध्यगं पञ्चवक्त्रमुमासहायं नीलकण्ठं प्रशान्तमन्तर्लक्ष्यमिति केचित् ।
अङ्गुष्ठमात्रः पुरुषोऽन्तर्लक्ष्यमित्येके ॥१॥


उक्तविकल्पं सर्वमात्मैव ।
तल्लक्ष्यं शुद्धात्मदृष्ट्या वा यः पश्यति स एव ब्रह्मनिष्ठो भवति ॥२॥


जीवः पञ्चविंशकः स्वकल्पितचतुर्विंशतितत्त्वं परित्यज्य षड्विंशः परमात्माहमिति निश्चयाज्जीवन्मुक्तो भवति ॥३॥


एवमन्तर्लक्ष्यदर्शनेन जीवन्मुक्तिदशायां स्वयमन्तर्लक्ष्यो भूत्वा परमाकाशाखण्ड-मण्डलो भवति ॥ ४ ॥
इति प्रथमं ब्राह्मणम् ॥


॥द्वितीयं ब्राम्हणम्॥[सम्पाद्यताम्]

॥ 2.1 प्रथम: खण्ड:॥[सम्पाद्यताम्]

अथ ह याज्ञवल्क्य आदित्यमण्डलपुरुषं पप्रच्छ ।
भगवन्नन्तर्लक्ष्यादिकं बहुधोक्तम् ।
मया तन्नज्ञातम् ।
तद्ब्रूहि मह्यम् ॥१॥


तदुहोवाच पञ्चभूतकारणं तडित्कूटाभं तद्वच्चतुःपीठम् ।
तन्मध्ये तत्त्वप्रकाशो भवति ।
सोऽतिगूढ अव्यक्तश्च ॥२॥


तज्ज्ञानप्लवाधिरूढेन ज्ञेयम् ।
तद्बाह्याभ्यन्तर्लक्ष्यम् ॥३॥


तन्मध्ये जगल्लीनम् ।
तन्नादबिन्दुकलातीतमखण्डमण्डलम् ।
तत्सगुणनिर्गुणस्वरूपम् ।
तद्वेत्ता विमुक्तः ॥४॥


आदावग्निमण्डलम् ।
तदुपरि सूर्यमण्डलम् ।
तन्मध्ये सुधाचन्द्रमण्डलम् ।
तन्मध्येऽखण्ड-ब्रह्मतेजो मण्डलम् ।
तद्विद्युल्लेखावच्छुक्लभास्वरम् ।
तदेव शाम्भवीलक्षणम् ॥५॥


तद्दर्शने तिस्रो दृष्टय: अमा प्रतिपत्पूर्णिमा चेति ।
निमीलितदर्शनममादृष्टिः ।
अर्धोन्मीलितं प्रतिपत् ।
सर्वोन्मीलनं पूर्णिमा भवति ।
तासु पूर्णिमाभ्यासः कर्तव्यः ॥६॥


तल्लक्ष्यं नासाग्रम् ।
यदा तालुमूले गाढतमो दृश्यते ।
तदभ्यासादखण्डमण्डलाकार-ज्योतिर्दृश्यते ।
तदेव सच्चिदानन्दं ब्रह्म भवति ॥७॥


एवं सहजानन्दे यदा मनो लीयते तदा शान्तो भवी भवति ।
तामेव खेचरीमाहुः ॥८॥


तदभ्यासान्मनःस्थैर्यम् ।
ततो वायुस्थैर्यम् ॥९॥


तच्चिह्नानि आदौ तारकवद्दृश्यते ।
ततो वज्रदर्पणम् ।
तत उपरि पूर्णचन्द्रमण्डलम् ।
ततो नवरतन् प्रभामण्डलम् ।
ततो मध्याह्नानिर्कमण्डलम् ।
ततो वह्निशिखामण्डलं क्रमाद्दृश्यते ॥


॥ 2.2 द्वितिय: खण्ड:॥[सम्पाद्यताम्]

तदा पश्चिमाभिमुखप्रकाशः स्फटिकधूम्रबिन्दुनादकलानक्षत्रखद्योतदीपनेत्रसवर्णनवरत्नादिप्रभा दृश्यन्ते ।
तदेव प्रणवस्वरूपम् ॥१॥


प्राणापानयोरैक्यं कृत्वा धृतकुम्भको नासाग्रदर्शनदृढभावनया द्विकराङ्गुलिभिः षण्मु-खीकरणेन प्रणवध्वनिं निशम्य मनस्तत्र लीनं भवति ॥२॥


तस्य न कर्मलेपः ।
रवेरुदयास्तमययोः किल कर्म कर्तव्यम् ।
एवंविदश्चिदादित्यस्योदयास्तमयाभावात्सर्वकर्माभावः ॥३॥


शब्दकाललयेन दिवारात्र्यतीतो भूत्वा सर्वपरिपूर्णज्ञानेनोन्यान्यवस्थावशेन ब्रह्मैक्यं भवति ।
उन्मन्या अमनस्कं भवति ॥४॥


तस्य निश्चिन्ता ध्यानम् ।
सर्वकर्मनिराकरणमावाहनम् ।
निश्चयज्ञानमासनम् ।
उन्मनीभावः पाद्यम् ।
सदाऽमनस्कमर्घ्यम् ।
सदादीप्तिरपारामृतवृत्तिः स्नानम् ।
सर्वत्र भावना गन्धः ।
दृक्स्वरूपावस्थानमक्षताः ।
चिदाप्तिः पुष्पम् ।
चिदग्निस्वरूपं धूपः ।
चिदादित्यस्वरूपं दीपः ।
परिपूर्णचन्द्रामृतरसस्यैकीकरणं नैवेद्यम् ।
निश्चलत्वं प्रदक्षिणम् ।
सोहंभावो नमस्कारः ।
मौनं स्तुतिः ।
सर्वसन्तोषो विसर्जनमिति य एवं वेद ॥५॥


॥ 2.3 तृतिय: खण्ड:॥[सम्पाद्यताम्]

एवं त्रिपुट्यां निरस्तायां निस्तरङ्गसमुद्रवन्निवातस्थितदीपवदचलसंपूर्णभावाभावविहीनकैवल्यद्योतिर्भवति ॥१॥


जाग्रन्निन्दान्तःपरिज्ञानेन ब्रह्मविद्भवति ॥२॥


सुषुप्तिसमाध्योर्मनोलयाविशेषेऽपि महदस्त्युभयोर्भेदस्तमसि लीनत्वान्मुक्तिहेतुत्वाभावाच्च ॥३॥


समाधौ मृदिततमोविकारस्य तदाकाराकारिताखण्डाकारवृत्त्यात्मकसाक्षिचैतन्ये प्रपञ्चलयः संपद्यते प्रपञ्चस्य मनःकल्पितत्वात् ॥४॥


ततो भेदाभावात्कदाचिद्बहिर्गतेऽपि मिथ्यात्वभानात् ।
सकृद्विभातसदानन्दानुभवैकगोचरो ब्रह्मवित्तदेव भवति ॥५॥


यस्य सङ्कल्पनाशः स्यात्तस्य मुक्तिः करे स्थिता ।
तस्माद्भावाभावौ परित्यज्य परमात्मध्यानेन मुक्तो भवति ॥६॥


पुनःपुनः सर्वावस्थासु ज्ञानज्ञेयौ ध्यानध्येयौ लक्ष्यालक्ष्ये दृश्यादृश्ये चोहापोहादि परित्यज्य जीवन्मुक्तो भवेत् ।
य एवं वेद ॥ ७ ॥


॥ 2.4 चतुर्थ: खण्ड:॥[सम्पाद्यताम्]

पञ्चावस्थाः जाग्रत्स्वप्नसुषुप्तितुरीयतुरीयातीताः ॥१॥


जाग्रति प्रवृत्तो जीवः प्रवृत्तिमार्गासक्तः ।
पापफलनरकादिमांस्तु शुभकर्मफलस्वर्गमस्त्विति काङ्क्षते ॥२॥


एवं स एव स्वीकृतवैराग्यात्कर्मफलजन्माऽलं ।
संसारबन्धनमलमिति विमुक्त्यभिमुखो निवृत्तिमार्गप्रवृत्तो भवति ॥३॥


स एव संसारतारणाय गुरुमाश्रित्य कामादि त्यक्त्वा विहितकर्माचरन्साधनचतुष्टयसंपन्नो हृदयकमलमध्ये भगवत्सत्तामात्रान्त- र्लक्ष्यरूपमासाद्य सुषुप्त्यवस्थाया मुक्तब्रह्मानन्दस्मृतिं लब्ध्वा एक एवाहमद्वितीयः कञ्चित्कालमज्ञानवृत्त्या विस्मृतजाग्रद्वास- नानुफलेन तैजसोऽस्मीति तदुभयनिवृत्त्या प्राज्ञ इदानीमस्मीत्यहमेक एव स्थानभेदादवस्थाभेदस्य परंतु नहि मदन्यदिति जातवि- वेकः शुद्धाद्वैतब्रह्माहमिति भिदागन्धं निरस्य स्वान्तर्विजृम्भितभानुमण्डलध्यानतदाकाराकारितपरंब्रह्माकारितमुक्तिमार्गमारूढः परिपक्वो भवति ॥४॥


सङ्कल्पादिकं मनो बन्धहेतुः ।
तद्वियुक्तं मनो मोक्षाय भवति ॥५॥


तद्वांश्चक्षुरादिबाह्यप्रपञ्चरतो विगतप्रपञ्चगन्धः सर्वजगदात्मत्वेन पश्यंस्त्यक्ताहङ्कारो ब्रह्माहमस्मीति चिन्तयन्निदं सर्वं यदयमात्मेति भावयन्कृतकृत्यो भवति ॥ ६ ॥


॥ 2.5 पञ्चम: खण्ड:॥[सम्पाद्यताम्]

सर्वपरिपूर्णतुरीयातीतब्रह्मभूतो योगी भवति ।
तं ब्रह्मेति स्तुवन्ति ।१॥


सर्वलोकस्तुतिपात्रः सर्वदेशसंचारशीलः परमात्मगगने बिन्दुं निक्षिप्य शुद्धाद्वैताजाड्यसहजामनस्कयोगनिद्राखण्डानन्दपदानुवृत्त्या जीवन्मुक्तो भवति ॥२॥


तच्चानन्दसमुद्रमग्ना योगिनो भवन्ति ॥३॥


तदपेक्षया इन्द्रादयः स्वल्पानन्दाः ।
एवं प्राप्तानन्दः परमयोगी भवतीत्युपनिषत् ॥ ५ ॥
इति द्वितीयं ब्राह्मणम् ॥


॥तृतिय़ं ब्राम्हणम्॥[सम्पाद्यताम्]

॥ 3.1 प्रथम: खण्ड:॥[सम्पाद्यताम्]

याज्ञवल्क्यो महामुनिर्मण्डलपुरुषं पप्रच्छ स्वामिन्नमनस्कलक्षणमुक्तमपि विस्मृतं पुनस्तल्लक्षणं ब्रूहीति ॥१॥


तथेति मण्डलपुरुषोऽब्रवीत् ।
इदममनस्कमतिरहस्यम् ।
यज्ज्ञानेन कृतार्थो भवति तन्नित्यं शांभवीमुद्रान्वितम् ॥२॥


परमात्मदृष्ट्या तत्प्रत्ययलक्ष्याणि दृष्ट्वा तदनु सर्वेशमप्रमेयमजं शिवं परमाकाशं निरालम्बमद्वयं ब्रह्मविष्णुरुद्रादीनामेकलक्ष्यं सर्वकारणं परंब्रह्मात्मन्येव पश्यमानो गुहाविहरणमेव निश्चयेन ज्ञात्वा भावाभावादिद्वन्द्वातीतः संविदितमनोन्मन्यनुभवस्तद- नन्तरमखिलेन्द्रियक्षयवशा-दमनस्कसुखब्रह्मानन्दसमुद्रे मनःप्रवाहयोगरूपनिवातस्थितदीपवदचलं परंब्रह्म प्राप्नोति ॥३॥


ततः शुष्कवृक्षवन्मूर्च्छानिद्रामयनिःश्वासोच्छ्वासाभावान्नष्टद्वन्द्वः सदाचञ्चलगात्रः परमशान्तिं स्वीकृत्य मनः प्रचारशून्यं परमात्मनि लीनं भवति ॥४॥


पय: स्रावानन्तरं धेनुस्तनक्षीरमिव सर्वेन्द्रियवर्गे परिनष्टे मनोनाशं भवति तदेवामनस्कम् ॥५॥


तदनु नित्यशुद्धः परमात्माहमेवेति तत्त्वमसीत्युपदेशेन त्वमेवाहमहमेव त्वमिति तारकयोगमार्गेणाखण्डानन्दपूर्णः कृतार्थो भवति ॥ ६ ॥


॥ 3.2 द्वितीय: खण्ड:॥[सम्पाद्यताम्]

परिपूर्णपराकाशमग्नमनाः प्राप्तोन्मन्यवस्थः संन्यस्तसर्वेन्द्रियवर्गोऽनेकजन्मार्जितपुण्यपुञ्जपक्वकैवल्यफलोऽखण्डानन्दनिरस्त- सर्वक्लेशकश्मलो ब्रह्माहमस्मीति कृतकृत्यो भवति ॥१॥


त्वमेवाहं न भेदोऽस्ति पूर्णत्वात्परमात्मनः ।
इत्युच्चरन्त्समालिङ्ग्य शिष्यं ज्ञप्तिमनीनयत् ॥ २ ॥
इति तृतीयं ब्राह्मणम् ॥


॥चतुर्थं ब्राम्हणम्॥[सम्पाद्यताम्]

॥ 4.1 प्रथम: खण्ड:॥[सम्पाद्यताम्]

अथ ह याज्ञवल्क्यो मण्डलपुरुषं पप्रच्छ व्योमपञ्चकलक्षणं विस्तरेणानुब्रूहीति ॥१॥


स होवाचाकाशं पराकाशं महाकाशं सूर्याकाशं परमाकाशमिति पञ्च भवन्ति ॥२॥


स बाह्याभ्यन्तरमन्धकारमयमाकाशम् ।
स बाह्यस्याभ्यन्तरे कालानलसदृशं पराकाशम् ।
सबाह्याभ्यन्तरेऽपरिमितद्युतिनिभं तत्त्वं महाकाशम् ।
सबाह्याभ्यन्तरे सूर्यनिभं सूर्याकाशम् ।
अनिर्वचनीयज्योतिः सर्वव्यापकं निरतिशयानन्दलक्षणं परमाकाशम् ॥३॥


एवं तत्तल्लक्ष्यदर्शनात्तत्तद्रूपो भवति ॥४॥


नवचक्रं षडाधारं त्रिलक्ष्यं व्योमपञ्चकम् ।
सम्यगेतन्न जानाति स योगी नामतो भवेत् ॥ ५ ॥
इति चतुर्थं ब्राह्मणम् ॥


॥पञ्चमं ब्राम्हणम्॥[सम्पाद्यताम्]

॥ 5.1 प्रथम: खण्ड: ॥[सम्पाद्यताम्]

सविषयं मनो बन्धाय निर्विषयं मुक्तये भवति ॥१॥


अतः सर्वं जगच्चित्तगोचरम् ।
तदेव चित्तं निराश्रयं मनोन्मन्यवस्थापरिपक्वं लययोग्यं भवति ॥२॥


तल्लयं परिपूर्णे मयि समभ्यसेत् ।
मनोलयकारणमहमेव ॥३॥


अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः ।
ध्वनेरन्तर्गतं ज्योतिर्ज्योतिरन्तर्गतं मनः ॥४॥


यन्मनस्त्रिजगत्सृष्टिस्थितिव्यसनकर्मकृत् ।
तन्मनो विलयं याति तद्विष्णोः परमं पदम् ॥५॥


तल्लयाच्छुद्धाद्वैतसिद्धिर्भेदाभावात् ।
एतदेव परमतत्त्वम् ॥६॥


स तज्ज्ञो बालोन्मत्तपिशाचवज्जडवृत्त्या लोकमाचरेत् ॥७॥


एवममनस्काभ्यासेनैवनित्यतृप्तिरल्पमूत्रपुरीषमितभोजनदृढाङ्गाजाड्यनिद्रादृग्वायुचलनाभावब्रह्मदर्शनाज्ज्ञातसुखस्वरूपसिद्धिर्भवति ॥८॥


एवं चिरसमाधिजनितब्रह्मामृतपानपरायणोऽसौ संन्यासी परमहंस अवधूतो भवति ।
तद्दर्शनेन सकलं जगत्पवित्रं भवति ।
तत्सेवापरोऽज्ञोऽपि मुक्तो भवति ।
तत्कुलमेकोत्तरशतं तारयति ।
तन्मातृपितृजायापत्यवर्गं च मुक्तं भवतीत्युपनिषत् ॥


ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
इति मण्डलब्राह्मणोपनिषत्समाप्ता ॥

अधिकाध्ययनाय[सम्पाद्यताम्]