सामग्री पर जाएँ

शिवगीता/सप्तमोऽध्यायः

विकिस्रोतः तः
               




   

 

सप्तमोऽध्यायः ७

श्रीराम उवाच ।


भगवन्यन्मया पृष्टं तत्तथैव स्थितं विभो ।
अत्रोत्तरं मया लब्धं त्वत्तो नैव महेश्वर ॥ १ ॥
परिच्छिन्नपरीमाणे देहे भगवतस्तव ।
उत्पत्तिः सर्वभूतानां स्थितिर्वा विलयः कथम् ॥ २ ॥
स्वस्वाधिकारसंबद्धाः कथं नाम स्थिताः सुराः ॥
ते सर्वे त्वं कथं देव भुवनानि चतुर्दश ॥ ३ ॥

 


पूर्वाध्याये मूर्तस्त्वं तु परिच्छिन्नाकृतिरित्यारभ्य त्वं कथं पञ्चभूतादि जगदेतच्चराचरमिति यत् पृष्टं तत्र त्वया आख्यायिकैव कथिता नस्तत्वनुभवारूढं यथा स्यात्तथोत्तरं दत्तमिति शिवं स्मारयन् राम उवाच-भगवन्निति । संशयबीजमिदं पूर्वाध्यायेऽहं सर्वाधिष्ठानमिति भगवतोक्तं तत्राहंकारावच्छिन्नस्य सर्वाधिष्ठानत्वे जीवेन किमपराद्धं सोऽपि सर्वाधिष्ठानं स्यात् । भवतु नामेति चेत् नियम्यनियामकत्वभङ्गः शास्त्रानर्थक्यं च प्रसज्येयातामिति ॥ १ ॥ तदेवाहपरिच्छिन्नेति । परिच्छिन्नं परिमाणं यंस्य तथाभूते देहे । “उपसर्गस्य घञि-” इति सूत्रे बहुलग्रहणाद्दीर्घः । सर्वभूतानामुत्पत्त्यादिकं कथं घटेत, नहि पर्वतादयो भान्तीति भावः ॥ २ ॥ स्वस्वेति । स्वैःस्वैरधिकारैः संयुक्ताः सुरा इन्द्रादयः परिच्छिन्नपरिमाणे तव देहे कथं वा स्थिताः । तेषां स्वस्वाधिकारानुसारेण तथातथावकाशस्यापेक्षितत्वात् किंच ते सर्वे देवास्तं तथा चतुर्दशभुवनानि च त्वयीति कथमभेदः संभवति । यावदुपाधिबिम्बप्रतिबिम्बयोरभेदासंभवात् । भुवनैर्जडैः सहाभेदासंभवाञ्च । तस्माद्यदुक्तं तन्न संगच्छत

 
त्वत्तः श्रुत्वापि देवात्र संदेहो मे महानभूत् ।
अप्रत्यायितचित्तस्य संशयं छेत्तुमर्हसि ॥ ४ ॥


श्रीभगवानुवाच ।


वटबीजे सुसूक्ष्मेऽपि महावटतरुर्यथा ।
सर्वदास्तेऽन्यथा वृक्षः कुत आायति, तद्वद ।।
तद्वन्मम तनौ राम भूतानामागतिर्लयः ॥ ५ ॥
महासैन्धवपिण्डोऽपि जले क्षिसो विलीयते ।
न दृश्यते पुनः पाकात्तत आयाति पूर्ववत् ॥ ६ ॥
प्रातःप्रातर्यथा लोको जायते सूर्यमण्डलात् ।
एवं मत्तो जगत्सर्वं जायतेऽस्ति विलीयते ।
मय्येव सकलं राम तद्वज्जानीहि सुव्रत ॥ ७ ॥
 


इति भावः ॥ ३ ॥ त्वत्त इति । त्वत्तः श्रुत्वापि श्रवणानन्तरमपि मे ममास्मिन्नर्थे त्वमेव सर्वमित्यस्मिन्नर्थे संदेहोऽभूज्जात इत्यर्थः । अप्रत्यायितं निश्चयमप्रापितं चित्तं यस्य तथाभूतस्य मे संशयमपाकुर्वित्यर्थः ॥ ४ ॥ एवं पृष्टः सन् प्रथमं युक्त्या समाधातुं भगवानुवाच-वटबीज इति । सुतरां सूक्ष्मेऽपि वटस्य बीजे सर्वदा महान्वटतरुर्यथास्ते तद्वन्मम तनौ भूतानामागत्यादिर्भवतीति योजनीयम् । एतेन प्रागसदेव घटादिकार्यमुत्पद्यत इति वदन्तस्तार्किकाः परास्ताः । अन्यथेति सूक्ष्मरूपानभ्युपगमे वृक्षः कुतो हेतोरायाति तद्वदेति संबन्धः। अयं भावः--असतो ह्युत्पत्तौ शशशृङ्गमपि उत्पद्येत । अविशेषादिति । "नासतो विद्यते भावो नाभावो विद्यते सतः” इति स्मृतेः । अत्रार्थे दीक्षितटीकायां विस्तरः ॥ ५ ॥ पूर्वं सतोऽपि घटादेरनुपलम्भे दृष्टान्तमाह-महासैन्धवेति । महानपि सैन्धवपिण्डः । जले क्षिप्तः सन्विलीयते सूक्ष्मावस्थापन्नो भवति। ततो न दृश्यते । पुनः पाकात्स्थूलावस्थापन्न उत्पद्यत इत्युच्यत इति तद्वत्सर्वं कार्यं पूर्वं सदेवोत्पद्यत इति भावः ॥ ६ ॥ प्रातरिति । आलोक आतपः । उपसं

 

श्रीराम उवाच ।


कथितेऽपि महाभाग दिग्जडस्य यथा दिशि ।
निवर्तते भ्रमो नैव तद्वन्मम करोमि किम् ॥ ८ ॥

श्रीभगवानुवाच ।


मयि सर्वं यथा राम जगदेतच्चराचरम् ।
वर्तते तद्दर्शयामि न द्रष्टुं क्षमते भवान् ॥ ९ ॥
दिव्यं चक्षुः प्रदास्यामि तुभ्यं दशरथात्मज ।
तेन पश्य भयं त्यक्त्वा मत्तेजोमण्डलं ध्रुवम् ॥ १० ॥
न चर्मचक्षुषा द्रष्टुं शक्यते मामकं महः ।
नरेण वा सुरेणापि तन्ममानुग्रहं विना ॥ ११ ॥

श्रीसूत उवाच ।


इत्युक्त्वा प्रददौ तस्मै दिव्यं चक्षुर्महेश्वरः ।
अथादर्शयदेतस्मै वक्त्रं पातालसंनिभम् ॥ १२ ॥
विद्युत्कोटिप्रतीकाशमतिभीमभयावहम्।
तदृष्ट्वैव भयाद्रामो जानुभ्यामवनिं गतः ॥ १३ ॥


हरति--एवमिति । एवं सूर्यादालोकवन्मत्तो जगज्जायते तद्वत्सूर्यालोकवन्मय्येवास्ति विलीयते चेति जानीहि ॥ ७ ॥ एवं दृष्टान्तेन प्रतिपादितेऽप्यर्थे निश्चयमलभमानः श्रीराम उवाच--कथितेऽपीति । दिग्जडस्य दिङ्मूढस्य भ्रमो नैव निवर्तते । तद्वन्मम मदीयो भ्रम इत्यर्थः ॥ ८ ॥ यद्यपि शुद्धं पूर्णं ब्रह्मौव जगदधिष्ठानं नतु लीलाविग्रहविशिष्टं तथापि तद्वारोद्बोधनीयमित्याशयेनाह भगवान्-मयीति ॥ ९ ॥ दिव्यमिति । युगपत्सकलपरोक्षापरोक्षविषयदर्शनसामर्थ्यं दिव्यं चक्षुरित्युपचर्यते । तत्तुभ्यं दास्यामीत्यन्वयः ॥ १० ॥ मदनुग्रहं विना दर्शयिष्यमाणं मामकं महस्तेजः केनापि द्रष्टुं दुःशकमित्याहनेति ॥ ११ ॥ १२॥ विद्युदिति । अतिमीमभयावहं अति

 
प्रणम्य दण्डवद्भूमौ तुष्टाव च पुनःपुनः ॥
अथोत्थाय महावीरो यावदेव प्रपश्यति ॥ १४ ॥
वक्रं पुरभिदस्तावदन्तर्ब्रह्माण्डकोटयः ॥
चटका इव लक्ष्यन्ते ज्वालामालासमाकुलाः ॥ १५ ॥
मेरुमन्दरविन्ध्याद्या गिरयः सप्तसागराः ।
दृश्यन्ते चन्द्रसूर्याद्याः पञ्चभूतानि ते सुराः ॥ १६ ॥
अरण्यानि महानागा भुवनानि चतुर्दश ।
प्रतिब्रह्माण्डमेवं तु दृष्ट्वा दशरथात्मजः ॥ १७ ॥
सुरासुराणां संग्रामांस्तत्र पूर्वापरानपि ।
विष्णोर्दशावतारांश्च तत्कर्तव्यान्यपि द्विजाः ॥ १८ ॥
पराभवांश्च देवानां पुरदाहं महेशितुः ॥
उत्पद्यमानानुत्पन्नान्सर्वानपि विनश्यतः ॥ १९ ॥
दृष्ट्वा रामो भयाविष्टः प्रणनाम मुहुर्मुहुः ।
उत्पन्नतत्त्वज्ञानोऽपि बभूव रघुनन्दनः ॥ २० ॥
अथोपनिषदां सारैरर्थैस्तुष्टाव शंकरम् ॥ २१ ॥


भयंकराणामपि भयप्रदमित्यर्थः ॥ १३ ॥ १४ ॥ चटकाः कलविङ्का इव ॥ १५॥। मेरुमन्दरेति । पूर्वं ये परमेश्वरस्य समन्तादृष्टास्ते देवा इत्यर्थः ॥ १६ ॥ महाभागेति शौनकंप्रति संबुद्धिः ॥ १७ ॥ सुरासुरेति । पूर्वापरान् । जातान् जनिष्यमाणांश्चेत्यर्थः । तत्कर्तव्यानीति तेष्ववतारेषु कर्तव्यानि रावणवधादीनि च ॥१८॥ पराभवानिति । दैत्येभ्य इति शेषः । पुरदाहं त्रिपुरसंहारम् ॥ १९ ॥ प्रति ब्रह्माण्डं पूर्वोक्तं सर्वं दृष्ट्वा उत्पन्नतत्त्वज्ञानोऽपि दृश्यमानस्याघटितरूपतया दृष्टान्तेन पूर्वानुभूतप्रपञ्चस्यापि मिथ्यात्वं ब्रह्मणो निर्गुणत्वं कालत्रयाबाध्यत्वं चेति तत्त्वज्ञानम् । उत्पन्नं तत्त्वज्ञानं यस्य स तथा एवंभूतो बभूवेति संबन्धः ॥ २० ॥ अथेति । उपनिषदां मध्ये सा-

 

श्रीराम उवाच ।


देव प्रपन्नार्तिहर प्रसीद प्रसीद विश्वेश्वर विश्ववन्द्य ।
प्रसीद गङ्गाधर चन्द्रमौले मां त्राहि संसारभयादनाथम् २२
  त्वत्तो हि जातं जगदेतदीश
   त्वय्येव भूतानि वसन्ति नित्यम् ।
  त्वय्येव शंभो विलयं प्रयान्ति
   भूमौ यथा वृक्षलतादयोऽपि ॥ २३ ॥
  ब्रह्मेन्द्ररुद्राश्च मरुद्गणाश्च
   गन्धर्वयक्षासुरसिद्धसङ्घाः ।
  गङ्गादिनद्यो वरुणालयाश्च
   वसन्ति शूलिंस्तव वक्रमन्ति ॥ २४ ॥
  त्वन्मायया कल्पितमिन्दुमौले
   त्वय्येव दृश्यत्वमुपैति विश्वम् ॥
भ्  भ्रान्त्या जनः पश्यति सर्वमेत
   च्छुक्तौ यथा रूप्यमहिं च रज्जौ ॥ २५ ॥
}}


रभूतैः । अर्थैरर्थप्रतिपादकैः श्लोकैरित्यर्थः ॥ २१ ॥ त्राहि त्रायस्वेत्यर्थः । त्राहीत्यार्षं रूपम् ॥२२॥ त्वत्त इति । उपादानत्वं निमित्तत्वं च पञ्चम्यर्थः । "सोऽकामयत बहु स्यां प्रजायेयेति” इति श्रुतेः । उभयस्य चेह संभवात् । कार्यमात्रोत्पत्तिस्थितिलयानामुपादानमेव शरणमिति दृष्टान्तेन द्रढयति—भूमाविति ॥२३॥ ब्रह्मेन्द्रेति । वरुणालयाः समुद्रा: । ब्रह्मादयः सर्वे तव वक्त्रमन्ति वक्त्रस्य समीपे मध्ये इति यावत्। अन्तिशब्दोऽन्तिकपर्यायो वेदे प्रसिद्धो "यदन्ति यच्च दूरके” इत्यादौ । यद्यपि अन्तिकयोगे पञ्चम्या षष्ठ्या वा भाव्यं तथाप्यार्षो विभक्तिव्यत्ययः ॥ २४ ॥ ननु ब्रह्मणो जगदुपादानत्वे सविकारत्वं स्यादित्याशङ्क्य तत्र परिणामवाद एव न विवर्तवाद इति

 

तेजोभिरापूर्य जगत्समग्रं प्रकाशमानः कुरुषे प्रकाशम् ।
विनाप्रकाशं तव देवदेव न दृश्यते विश्वमिदं क्षणेन ॥२६॥

 


प्रतिपादयन्नाह-त्वन्माययेति । जनः एतद्विश्वं त्वयि भ्रान्त्या तथा पश्यति । यथा शुक्तौ रूप्यम् । नन्वन्यत्र दृष्टस्यान्यत्र भानं हि भ्रमः । यथा रजतं हट्टादौ दृष्टं शुक्तिकायां संस्कारेण प्रतीतं भ्रम इत्युच्यते । इयमेवान्यथाख्यातिः । ब्रह्मविना विश्वं कुत्र दृष्टं तदधुना ब्रह्मणि प्रतीतमिति भ्रमत्वेनोच्यत इत्याशङ्क्याह---त्वन्माययेति । त्वन्मायया त्वय्येव कल्पितं त्वय्येव दृश्यत्वमुपैति नान्यत्रेति भावः । न वयमन्यथाख्यातिवादिनो नाप्यसत्ख्यातिवादिनः किंत्वनिर्वचनीयख्यातिवादिनः । तथाच मायया सर्वमुपपादयितुं सुशकम् । नच सिद्धान्ते जगतः क्वचिदप्यननुभवादारोप्यप्रमाहितसंस्काराभावे कथं ब्रह्मण्यारोप इति वाच्यम् । लाघवेनारोप्यविषयसंस्कारत्वेनैव तस्य हेतुत्वात् । नच प्राथमिकारोपे का गतिरिति वाच्यम् । संसारप्रवाहस्यानादित्वात् । तदुक्तम् "आरोपे सति निमित्तानुसरणं नहि निमित्तमस्तीत्यारोपः' इति । तस्मादिहैवाविद्यया कल्पितमित्यभ्युपेयम् । तदुक्तम् "अक्षमा भवतः केयं साधकत्वं प्रकल्प्यते। किं न पश्यसि संसारं तत्रैवाज्ञानकल्पितम्।” इति दिक् ॥ २५ ॥ परमतेऽन्यथाख्यात्यसत्ख्यात्योरपरोक्षतानुपपत्तिं ध्वनयन्सिद्धान्तेऽपरोक्षतां समर्थयते--तेजोभिरिति । समस्तं जगत् तेजोभिरापूर्य व्याप्य प्रकाशमानस्त्वं प्रकाशत इति प्रकाशस्तं कुरुषे । तव प्रकाशं विना मिथ्याभूतं जगन्न दृश्येत । किंच इदं विश्वं क्षणेन न दृश्यते । अधिष्ठानसाक्षात्कारे सतीति शेषः । अयं भावः । वियदाद्युपहितचैतन्येन तादात्म्यापन्नं वियदादि प्रकाशते “तस्य भासासर्वमिदं विभाति” इति श्रुतेः । प्रमातृचैतन्यं विषयचैतन्यं प्रमाणचैतन्यं च यत्राभिन्नं भवति तत्रैव विषयापरोक्षं भवति । अतएव

 

  अल्पाश्रयो नैव बृहन्तमर्थ
   धत्तेऽणुरेको नहि विन्ध्यशैलम् ॥
  तद्वक्त्रमात्रे जगदेतदस्ति
   त्वन्माययैवेति च निश्चिनोमि ॥ २७ ॥
  रज्जौ भुजंगो भयदो यथैव
   न जायते नास्ति न चैति नाशम् ॥
  त्वन्मायया केवलमात्तरूपं
   तथैव विश्वं त्वयि नीलकण्ठ ॥ २८ ॥
  विचार्यमाणे तव यच्छरीर-
   माधारभाव जगतामुपैति ।

 


घटं साक्षात्करोमि वह्निमनुमिनोमीत्यनुव्यवसायः । तच्चापरोक्षत्वं देशान्तरीयस्य तुच्छस्य च न संभवतीति भावः ॥ २६ ॥ प्रपञ्चस्य मिथ्यात्वं युक्त्यन्तरेणापि साधयति-अल्पेति । अल्पश्चासावाश्रयश्च स तथा स्वस्वापेक्षया वृहन्तमर्थं न धत्ते। अत्र दृष्टान्तः । एकोऽणुर्विन्ध्यशैलं नहि धत्त इति । ततः किं तत्राह । एतज्जगद्वक्त्रमात्रे अस्ति । तस्मात्त्वन्माययैव कृतं नतु वास्तवमिति निश्चिनोमि । तदुक्तम् "दुर्घटैकविधायिन्यां मायायां का चमत्कृतिः” इति ॥ २७॥ ननु प्रपञ्चस्य मिथ्यात्वे अर्थक्रियाकारित्वं न स्यात् । तथाच तद्बन्धनिवृत्त्यर्थं शास्त्रमनारभ्यं स्यादित्याशङ्क्याह-रज्जाविति । यथा रज्जौ भुजङ्गो वस्तुतो न जायते अतएव नाशं च नैति ।। "जातस्य हि ध्रुवो मृत्युः" इति स्मृतेः । तथापि भयदः । अर्थक्रियाकारीत्यर्थः । तथा त्वन्मायया केवलं त्वयि आत्तरूपं प्राप्तरूपं कल्पितमिति यावत्। सदसद्विलक्षणस्वरूपमित्यर्थः । एवंभूतं जगदपि कार्यक्षमं भवतीत्यर्थः । प्रातिभासिकस्यापि रज्जुसर्पादेरर्थक्रियाकारित्वमस्ति किमुत व्यावहारिकस्येति भावः । तस्मात्तदुच्छेदाय शास्त्रमारम्भणी

 
  तदप्यवश्यं मदविद्ययैव
   पूर्णश्चिदानन्दमयो यतस्त्वम् ॥ २९ ॥
  पूजेष्टपूर्तादिवरक्रियाणां
   भोक्तुः फलं यच्छसि शस्तमेव ।
  मृषैतदेवं वचनं पुरारे
   त्वत्तोऽस्ति भिन्नं नच किंचिदेव ॥ ३० ॥

 


यमेवेति भावः ॥ २८ ॥ ननु प्रपञ्चस्य मिथ्यात्वे तदधिष्ठानस्य मद्विग्रहस्यापि मिथ्यात्वापत्तौ तत्र विश्वमध्यस्तमिति । कथं ब्रुवे व्याघातादित्याशङ्क्य त्वद्देहेनोपलक्षितचिन्मात्राभिप्रायेणेदं ब्रुव इत्याह विचार्यमाण इति । यदिदं तव शरीरं जगतामाधारभावमुपैति तदप्यविचाररमणीयमेव । विचार्यमाणे तु तच्छरीरं ममाविद्ययैव कल्पितम्। त्वं तु पूर्णश्चिदानन्दरूप एव । तथाचेदं विग्रहादिकमप्यध्यस्तमिति भावः ॥ २९ ॥ नन्वेवं ब्रह्मभिन्नस्य सर्वस्यापि मिथ्यात्वे कर्मकाण्डादिश्रुतिरपि मिथ्यार्थबोधिका स्यादित्याशङ्क्य समाधत्ते-पूजेति । पूजादीनामिति शेषः । इष्टं यागः । पूर्तं तडागारामादि । तथा वरक्रियाणां दानाध्ययनादीनां फलं स्वगादि तच्च फलं भोक्तुर्यज्वादेस्त्वं यच्छसि । "फलमत उपपत्तेः" इति न्यायात् । अयं भावः । यावदविद्यं भेदवासनावासितानां कर्मकाण्डादिश्रुतिप्रतिपादितं सर्वं शस्तमेव प्रमाणमेवेत्यर्थः । महता पुण्योदयेनोत्पन्नब्रह्मसाक्षात्कारस्य हे पुरारे, किंचिदेव किमपि प्रपञ्चजातं त्वत्तो भिन्नं नास्तीति पश्यतस्तत्त्वज्ञानवतो दृष्ट्या एतत्पूर्वार्धप्रतिपादितार्थकम् । एवं तज्जातीयमन्यच्च वचनं मृषेत्यन्वयः । तथाच श्रुतिः "किमर्था वयमध्येष्यामहे किमर्था वयं यक्ष्यामहे” इति, स्मृतिश्च "नैव तस्य कृतेनार्थों नाकृतेनेह कश्वन” इति । "न निरोधो न चोत्पत्तिर्न बन्धो नच साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ।" इति

 
अज्ञानमूढा मुनयो वदन्ति
पूजोपचारादिबहिःक्रियाभिः ।
तोषं गिरीशो भजतीति मिथ्या
कुतस्त्वमूर्तस्य तु भोगलिप्सा ॥ ३१ ॥
किंचिद्दलं वा चुलकोदकं वा ।
यत्त्वं महेश प्रतिगृह्य दत्से ।
त्रैलोक्यलक्ष्मीमपि तज्जनेभ्यः
सर्वं त्वविद्याकृतमेव मन्ये ॥ ३२ ॥
व्याप्नोषि सर्वा विदिशो दिशश्व
त्वं विश्वमेकः पुरुषः पुराणः ॥
नष्टेऽपि तस्मिंस्तव नास्ति हानि-
र्घटे विनष्टे नभसो यथैव ॥ ३३ ॥

 


श्रुत्यन्तराच्च॥३०॥अविद्यावद्विषयकाणि शास्राणीत्याह-अज्ञानेति । अज्ञानेन मूढाश्च ते अमननशीलाश्च ते च तथोक्ताः पुरुषाः पूजादिभिर्बहिःक्रियाभिर्गिरीशस्तोषं भजतीति वदन्ति । अविद्यादशामाश्रित्य प्रतिपादयन्तीत्यर्थः । तच्च ज्ञानदृष्ट्या मिथ्या तोषस्य मायावृत्तिरूपत्वात् । अमूर्तस्य पूर्णस्यानन्दरूपस्य भोगानां लिप्सा कुतः कस्मादपि हेतोर्नैवेति भावः । अज्ञैस्तु यथोक्तं सर्वं कार्यमेव ।। "धर्मेण पापमपनुदति" इत्यादिश्रुतेः । "न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते" इत्यादिस्मृतेश्च ॥ ३१ ॥ अस्यैव प्रपञ्चः--किंचिदिति । दलं तुलसीबिल्वादिपत्रं चुलकपरिमितमुदकं वा यत्त्वं प्रतिगृह्य भक्तजनादिति शेषः । त्रैलोक्यलक्ष्मींं यज्जनेभ्यः दत्से तत्सर्वं अविद्याकृतमेव मिथ्यैवेति मन्ये निश्चिनोमि । दातृसंप्रदानदेयादीनामाविद्यकत्वादिति भावः ॥ ३२ ॥ व्याप्नोषीति । एकः सजातीयविजातीयस्वगतभेदशून्यः पुरुषः । सर्वस्मात्कार्यात्पूर्वमेव विद्यमानः ।। "‘पूर्वमे

 

यथैकमाकाशगमर्कबिम्बं
क्षुद्वेषु पात्रेषु जलान्वितेषु ।
भजत्यनेकप्रतिबिम्बभावं
तथा त्वमन्तःकरणेषु देव ॥ ३४ ॥
सुसर्जने वाप्यर्वने विनाशे
विश्वस्य किंचित्तव नास्ति कार्यम् ।
अनादिभिर्देहभृतामदृष्टै-
स्तथापि तत्स्वप्नवदातनोषि ॥ ३५ ॥

 


चाहमिहासमिति तत्पुरुषस्य पुरुषत्वम्" इति श्रुतेः । त्वं विश्वं व्याप्नोषि अधिष्ठानत्वेन तादात्म्यापन्नः सन्ननुगच्छसि । तस्मिन्विश्वस्मिन्नष्टेऽपि तव हानिर्नास्ति । अत्र दृष्टान्तः । घटे विनष्टे यथैव नभसो हानिर्नास्ति रजतादिबाधेऽपि शुक्त्याद्यवस्थानदर्शनात् । तस्मात्त्वमेव साक्षात्करणीयः किं विषयमृगतृष्णयेति भावः ॥३३॥ ननूक्तरीत्या वियदादेर्मिथ्यात्वे जीवानां बहुत्वादद्वैतक्षतिः स्यादेव । नहि वियदादिवज्जीवोऽपि मिथ्येति युक्तम् । बन्धमोक्षयोर्वैयधिकरण्यापत्तेरित्याशङ्क्याह--यथेति । हे देव, यथाकाशगमेकमेवार्कबिम्बं क्षुद्वेषु जलान्वितेषु पात्रेष्वनेकप्रतिबिम्बभावं भजति तथा त्वमन्तःकरणेष्वनेकप्रतिबिम्बभावं भजसि । तथाच श्रुतिः-"यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन्। उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोऽयमात्मा" इति । तथा चोपाधीनां मिथ्यात्वेऽपि नोपहितस्य मिथ्यात्वमतो न बन्धमोक्षयोर्वैयधिकरण्यम्। औपाधिकभेदस्य मिथ्यात्वान्न द्वैतभङ्ग इति भावः ॥३४॥ नन्वेवं परमार्थतो जीवब्रह्मणोरविशेषे जीववदीश्वरोऽपि संसारी किं न स्यादित्याशङ्क्याह--सुसर्जन इति । विश्वस्य सृष्ट्यादिषु सत्सु तत्प्रयुक्तं कार्यं तव किमपि नास्ति पूर्णकामत्वात् । तथापि अनादिमिः - ·

 

स्थूलस्य सूक्ष्मस्य जडस्य देह-
द्वयस्य शंभो न चिदं विनास्ति ।
अतस्त्वदारोपणमातनोति
श्रुतिः पुरारे सुखदुःखयोः सदा ॥ ३६ ॥
नमः सच्चिदम्भोधिहंसाय तुभ्यं
नमः कालकण्ठाय कलात्मकाय ।
नमस्ते समस्ताघसंहारकर्त्रे
नमस्ते मृषाचित्तवृत्यैकभोक्त्रे ॥ ३७ ॥

 


प्रवाहरूपैर्दैहरूपैर्देहभृतां जीवानामदृष्टैः सहकारिभूतैः स्वप्नवत्स्वर्गादीनातनोपि । तथा तच्च जीवेशयोर्बिम्बप्रतिबिम्बभावकृतो विशेष इति भावः ॥ ३५ ॥ तदेवमीश्वरस्य निरावरणत्वं प्रतिपाद्य जीवस्य सावरणत्वं प्रतिपादयति-स्थूलस्येति । स्थूलस्य पञ्चीकृतमहाभूतकार्यस्य सूक्ष्मस्यापञ्चीकृतमहाभूतकार्यस्य लिङ्गाख्यस्य च देहस्य अं विना अततीत्यः आत्मा 'अत सातत्यगमने' तं विना चित् चेतनत्वं नास्ति । किंभूतस्य देहद्वयस्य जडस्य । काष्ठरूपस्येत्यर्थः । सा चित् यदि देहद्वयस्य परिणामभूता स्यात्तर्हि जडः स्यात् । यस्माञ्चित्तादात्म्यापन्नत्वेन देहद्वयस्य चित्त्वम् । अतः कारणाद्देहद्वयजन्ययोः सुखदुःखयोः श्रुतिस्त्वदारोपणं त्वयि प्रतिबिम्बभूते आरोपणमातनोति । प्रतिपादयतीत्यर्थः । अयोयोगाद्वह्नेस्ताडनादिवत् । वह्नियोगादयसो दग्धृत्वादिवत् । तथाच श्रुतिः "द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अमिचाकशीति" इत्यादिः । 'कर्ता शास्त्रार्थवत्त्वात् इत्यधिकरणमपीत्यनुसंधेयम् ॥ ३६ ॥ एवमीश्वरसंधिवशादधिगतपरमार्थोऽपि पुनर्बाधितानुवृत्त्यनुवृत्तया भक्तया लीलाविग्रहाय भगवते नमस्कुर्वन्प्रार्थयते-नमइति । सच्चिदम्भोधौ हंस इव तस्मै। कर्पूर

 

सूत उवाच ।


एवं प्रणम्य विश्वेशं पुरतः प्राञ्जलिः स्थितः ॥
विस्मितः परमेशानं जगदे रघुनन्दनः ॥ ३८ ॥

श्रीराम उवाच ।


उपसंहर विश्वात्मन्विष्वरूपमिदं तव ।
प्रतीतं जगदैकात्म्यं शंभो भवदनुग्रहात् ॥ ३९ ॥

श्रीभगवानुवाच ।


पश्य राम महाबाहो मत्तो नान्योऽस्ति कश्चन ।

सूत उवाच ।


इत्युक्त्वैवोपसंजह्रे स्वदेहे देवतादिकान् ॥ ४० ॥
मीलिताक्षः पुनर्हर्षाद्यावद्रामः प्रपश्यति ।
तावदेव गिरेः शृङ्गे व्याघ्रचर्मोपरि स्थितम् ॥ ४१ ॥
ददर्श पञ्चवदनं नीलकण्ठं त्रिलोचनम् ॥
व्याघ्रचर्माम्बरधरं भूतिभूषितविग्रहम् ॥ ४२ ॥
फणिकङ्कणभूषाढ्यं नागयज्ञोपवीतिनम्।
व्याघ्रचर्मीत्तरीयं च विद्युत्पिङ्गजटाधरम् ॥ ४३ ॥
 


गौरतया हंसत्वेनोत्प्रेक्षा । मृषाभूतानां चित्तवृत्तीनां एकभोक्त्रे मुख्यसाक्षिणे इत्यर्थः ॥ ३७ ॥। एवमिति । विस्मितः अदृष्टपूर्वत्वात् ॥ ३८ ॥ उपसंहरेति ॥ ३९ ॥ पश्येति । पूर्वीर्ध भगवद्वाक्यं उत्तरार्धमारभ्य सूतवाक्यम् । अतो नान्योऽस्ति कश्चन जगदाश्रय इत्यर्थः ॥ ४० ॥ मीलिताक्ष इति । लीलाविग्रहस्य मायिकत्वं क्रियातः प्रदर्शयितुं रूपान्तरं स्थानान्तरमाविष्कृत्य स्थितमिति भावः ॥ ४१ ॥ ददर्शेति । व्याघ्रचर्मैवाम्बरं तस्य धरम् । भूतिर्भस्म ऐश्वर्यं वा ,

 

एकाकिनं चन्द्रमौलिंं वरेण्यमभयप्रदम् ।
चतुर्भुजं खण्डपरशुं मृगहस्तं जगत्पतिम् ॥ ४४ ॥
अथाज्ञया पुरस्तस्य प्रणम्योपविवेश सः ।
अथाह रामं देवेशो यद्यत्प्रष्टुमभीच्छसि ।
तत्सर्वं पृच्छ राम त्वं मत्तो नान्योऽस्ति ते गुरुः ॥४५॥

इति श्रीपद्मपुराणे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां

योगशात्रे शिवराघवसंवादे विश्वरूपदर्शनं नाम सप्तमोऽध्यायः॥ ७ ॥