सामग्री पर जाएँ

शिवगीता/षष्ठोऽध्यायः

विकिस्रोतः तः
               




   

     षष्ठोऽध्यायः ६

    

श्रीराम उवाच ।


भगवन्नत्र मे चित्रं महदेतत्प्रजायते ।
शुद्धस्फटिकसंकाशस्त्रिनेत्रश्चन्द्रशेखरः ॥ १ ॥
मूर्तस्त्वं तु परिच्छिन्नाकृतिः पुरुषरूपधृक् ।
अम्बया सहितोऽत्रैव रमसे प्रमथैः सह ॥ २ ॥
त्वं कथं पञ्चभूतादि जगदेतच्चराचरम् ।
तद्ब्रूहि गिरिजाकान्त यदि तेऽनुग्रहो मयि ॥ ३ ॥
}}


माश्वासयन्नुपसंहरति--अथवेति त्रिभिः ॥ ३६ ॥ ३७ ॥ ३८ ॥ इति श्रीशिवगीताबालानन्दिनीव्याख्यायां पञ्चमोऽध्यायः ॥ ५ ॥  पूर्वाध्यायान्ते जगज्जन्मादिकर्तृत्वं प्रतिपादितं तन्मूर्तस्य कथमुपपद्यत इति शङ्कां कुर्वन् श्रीराम उवाच-भगवन्निति । हे भगवन्, अत्र सृष्ट्यादिकर्ताहमेवेत्येवंरूपे त्वदुक्तेऽर्थे मे मम महच्चित्रं महाश्चर्यं प्रजायते । आश्चर्ये बीजमाह-शुद्धेत्यादिना ॥ १ ॥ मूर्त इति । मूर्तः परिच्छिन्नः । अतएव परिच्छिन्नाकृतिः । पुरुषरूपेण धृष्णोतीति तथोक्तः । ‘ऋत्विक्’ इति सूत्रे निपातनात्कुत्वम् ॥२॥ त्वं कथमिति । एवंभूतस्त्वं पञ्चभूतान्यादिर्यस्य तथाभूतमेतच्चराचरं करोषि

 

श्रीभगवानुवाच ।


शृणु राम महाभाग दुर्ज्ञेयममरैरपि ।
तत्प्रवक्ष्यामि यत्नेन ब्रह्मचर्येण सुव्रत ।
पारं यास्यस्यनायासाद्येन संसरनीरधेः ॥ ४ ॥
दृश्यन्ते पञ्चभूतानि ये च लोकाश्चतुर्दश ॥
समुद्राः पर्वता देवा राक्षसा ऋषयस्तथा ॥ ५ ॥
दृश्यन्ते यानि चान्यानि स्थावराणि चराणि च ।
गन्धर्वाः प्रमथा नागाः सर्वे ते मद्विभूतयः ॥ ६ ॥
पुरा ब्रह्मादयो देवा द्रष्टुकामा ममाकृतिम् ।
मन्दरं प्रययुः सर्वे मम प्रियतरं गिरिम् ॥ ७ ॥


पालयसि हंसि चेति शेषः । सर्वात्मकत्वं जगदेतदिति तु नाक्षिप्यते । तस्य पूर्वाध्यायान्तेऽनुपक्रान्तत्वात् । तथाच शङ्कितुरयमाशयः । परिच्छिन्नदेहस्य कुलालादेर्विप्रकृष्टकार्यजनकत्वानुपपत्त्तिरित्यादि ॥ ३ ॥ शृण्विति । हे राम, यत्नेन ब्रह्मचर्येण शृणु । यदमरैरपि दुर्ज्ञेयं तत्प्रवक्ष्यामि तुभ्यमिति शेषः । येन ज्ञानेन ॥ ४ ॥ यथा जीवस्याहंकारवृत्तिसापेक्षं कर्तृत्वं तथा न मम कर्तृत्वं किंतु मायावृत्तिसापेक्षस्य लीलाविग्रहस्य परिच्छिन्नत्वेऽपि कर्तृत्वांशानुपयोगान्न कश्चिद्दोषः । मम मायायाश्च सर्वाङ्गत्वात्समस्तजगदुपादानत्वमस्तीत्यतो मयि शङ्कां मा कार्षीरित्याशयेनाह--दृश्यन्त इति द्वाभ्याम् । पञ्चभूतादि सर्वं माया तत्कार्यं च मयि विवर्तमात्रं सुवर्णेऽलंकारभेदवन्मायाया इदं सर्वं परिणामः । दुग्धस्य दधीव ॥ ५ ॥ ६ ॥ इममेवार्थं पूर्वकथोपन्यासेन द्रढयति-पुरेति । आकृतिं

 
स्तुत्वा प्राञ्जलयो देवा मां तथा पुरतः स्थिताः ॥
तान्दृष्ट्वाथ मया देवॉल्लीलाकुलितचेतसः ॥
तेषामपहृतं ज्ञानं ब्रह्मादीनां दिवौकसाम् ॥ ८ ॥
आसंस्तेऽसकृदज्ञाना मामाहुः को भवानिति ।
अथाब्रुवमहं देवानहमेव पुरातनः ॥ ९ ॥
आसं प्रथममेवाहं वर्तामि च सुरेश्वराः ।
भविष्यामि च लोकेऽस्मिन्मत्तो नान्योऽस्ति कश्चन ॥१०॥
व्यतिरिक्तं च मत्तोऽस्ति नान्यत्किंचित्सुरेश्वराः ।
नित्योऽनित्योऽहमनघो ब्रह्मणां ब्रह्मणस्पतिः ॥ ११ ॥


लीलाविग्रहम् ॥ ७ ॥ स्तुत्वेति । मां स्तुत्वा प्राञ्जलयः सन्तस्तथैव पुरत: स्थिताः तान्मदीयलीलया आकुलितं चेतो येषां तथाभूतान्दृष्ट्वा मया तेषां ज्ञानमपहृतम् । प्रश्नावतरणपूर्वकं परमतत्त्वोपदेशार्थमिति भावः ॥ ८ ॥ आसन्निति । अज्ञाना ज्ञानशून्या आसन् । भवान्क इति मामाहुः । असकृद्वारंवारम् । 'अथ तेऽपहृतज्ञाना' इत्यपि पाठान्तरम् । अथ तेषां प्रश्नानन्तरं देवानहमब्रुवम्। अहमेव पुरातन इति ॥ ९ ॥ ननु "जीव ईशो विशुद्धा चित्तस्यां भेदस्तयोर्द्वयोः । अविद्याचित्तयोर्योगः षडस्माकमनादयः ॥” इति सिद्धान्ते उक्तं तत्र कथमहमेव पुरातन इत्युक्तमितिचेत्तत्राह--आसमिति । मत्तोऽन्योऽविद्यातत्संबन्धादिः कोऽपि परमार्थिको नास्तीत्यर्थः । तथाच श्रुतिः । "ते दैवा रुद्रमपृच्छन् को भवानिति । सोऽब्रवीत् अहमेकः प्रथममासं वर्तामि च भविष्यामि च" इत्यादि । तथाच कल्पितभावाभावयोरधिष्ठानमात्रस्वरूपत्वं रज्जुसर्पादौ प्रसिद्धमिति भावः ॥ १० ॥ व्यतिरिक्तमिति । पूर्वमुक्तोऽप्यर्थः पुनरभ्यस्यते । अभ्यासो हि तात्पर्यलिङ्गम्। तदुक्तम्-"उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये" इति । नित्य इति स्वरूपेण !

 
दक्षिणाञ्च उदञ्चोऽहं प्राञ्चः प्रत्यञ्च एव च ।
अधश्चोर्ध्वं च विदिशो दिशश्चाहं सुरेश्वराः ॥ १२ ॥
सावित्री चापि गायत्री स्त्री पुमानपुमानपि ।
त्रिष्टुप् जगत्यनुष्टुप् च पङ्किश्छन्दस्त्रयीमयः ॥ १३ ॥
सत्योऽहं सर्वतः शान्तस्त्रेताग्निर्गौरवं गुरुः ।
गौरवं गह्वरं चाहं द्यौरहं जगतां प्रभुः ॥ १४ ॥
ज्येष्ठः सर्वसुरश्रेष्ठो वर्षिष्ठोऽहमपांपतिः ॥
आर्योऽहं भगवानीशस्तेजोऽहं चादिरप्यहम् ॥ १५ ॥


अनित्यः घटादितादात्म्यात् । ब्रह्मणां वेदानां ब्रह्मणश्चतुर्मुखस्य । अविद्यारहितत्वादनघः ॥ ११ ॥ दक्षिणेति । दक्षिणस्यामञ्चतीति दक्षिणाञ्चः । उदुत्तरस्यामञ्चतीति तथा । प्रपूर्वस्यां प्राग्वत् । अधश्चोर्ध्वं चाञ्चतीति शेषः । दिशो विदिशश्चेति सर्वत्र परिपूर्ण इत्यर्थः ॥ १२ ॥ स्वस्य सर्वतादात्म्यापन्नत्वात्सर्वस्वरूपत्वमाह--सावित्रीति । एकस्या एव गायत्र्याः कालभेदान्नामभेदः । "गायत्री नाम पूर्वाह्णे सावित्री प्रथमे दिने” इति । इदं सरस्वत्या अप्युपलक्षणम् । स्त्र्यादिव्यक्तित्रयमहमेव । अपुमान्नपुंसकमित्यर्थः । त्रिष्टुबित्यादिविशेषरूपोऽहम् । त्रयीमय ऋगादिवेदत्रयप्रचुरः तत्प्रतिपाद्यस्वरूपोऽहम् ॥ १३ ॥ सत्य इति । मिथ्याभूतानामविद्यातत्कार्याणामधिष्ठाने मयि त्रैकालिकनिषेधप्रतियोगित्वादहमेव परमार्थसत्य इत्युक्तं स्मारयति । अतएव सर्वतः सर्वेभ्यः प्रातिभासिकव्यावहारिकसत्येभ्य इत्यर्थः । सार्वविभक्तिकस्तसिः । शान्तः आविद्यकधर्मैरक्षुब्धः । त्रेताग्निराहवनीयादिः । गौरवं गुरोः कर्माध्ययनादि । गुरुश्चाहम् । गौर्वाक् गह्वरं रहस्यं द्यौः स्वर्गः प्रभुर्नियन्ता ॥ १४ ॥ ज्येष्ठ इति । ज्येष्ठः सर्वेषामादिभूतत्वात् । वर्षिष्ठः ज्ञानेन बद्धतरत्वात् । अपांपतिः समुद्रः । आर्यः पूज्यतमत्वात् ।

 
ऋग्वेदोऽहं यजुर्वेदः सामवेदोऽहमात्मभूः ।
अथर्वणश्च मन्त्रोऽहं तथा चाङ्गिरसो वरः ॥ १६ ॥
इतिहासपुराणानि कल्पोऽहं कल्पवानहम् ।
नाराशंसी च गाथाहं विद्योपनिषदोऽस्म्यहम् ॥ १७ ॥
श्लोकाः सूत्राणि चैवाहमनुव्याख्यानमेव च ॥
व्याख्यानानि तथा विद्या इष्टं हुतमथाहुतिः ॥ १८ ॥
दत्तादत्तमयं लोकः परलोकोऽहमक्षरः ।
क्षरः सवाणि भूतानि दान्तिः शान्तरहं खगः ॥ १९ ॥
गुह्योऽहं सर्ववेदेषु आरण्योऽहमजोऽप्यहम् ॥
पुष्करं च पवित्रं च मध्यं चाहमतःपरम् ।
बहिश्चाहं तथा चान्तः पुरस्तादहमव्ययः ॥ २० ॥


भगवान् षड्गुणत्वात् । "ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गना ॥" इङ्गना संज्ञा । तेजोऽहम् । आदिस्तेजसः वायुरित्यर्थः ॥ १५ ॥ ऋग्वेद इति ॥ अथर्वणोऽङ्गिरसश्च मन्त्रो यः स चतुर्थो वेदः सचाहमित्यर्थः ॥ १६ ॥ इतिहासो भारतादिः । पुराणानि ब्रह्मादीनि । कल्पः प्रयोगः । कल्पवान् तत्कर्ता बौधायनादिः । नाराशंसी नाम रुद्रप्रतिपादकमन्त्रविशेषः । गाथा यज्ञप्रशंसादिः । विद्या उपासना "येऽन्नं ब्रह्मोपासते" इत्यादिः । उपनिषदः ब्रह्मप्रतिपादिका विद्याः ॥ १७ ॥ श्लोकाः "तदप्येष श्लोको भवति” इत्यादिलक्षणाः । सूत्राणि ऋषिकृतानि । अनुव्याख्यानानि शास्त्रेषु । विद्या गान्धर्वविद्याः । इष्टं यागः । हुतं होमः । आहुतिर्द्रव्यम् ॥ १८ ॥ दत्त इति । दत्तो दानकर्मीभूतो गवादिः । दत्तं दानम् । लोकः इहलोकः । परलोकः पुण्याद्रीनां फलीभूतः स्वर्गादिः ॥ १९ ॥ बहिरिति । बहेिश्चाहमित्यादि दक्षिणाञ्च इत्यादिनोक्तमप्यभ्यासार्थं पुनरुक्तम् । एतदेवास्मि

 
ज्योतिश्चाहं तमश्चाहं तन्मात्राणीन्द्रियाण्यहम् ।
बुद्धिश्चाहमहंकारो विषयाण्यहमेव हि ॥ २१ ॥
ब्रह्मा विष्णुर्महेशोऽहमुमा स्कन्दो विनायकः ।
इन्द्रोऽग्निश्च यमश्चाहं निर्ऋतिर्वरुणोऽनिलः ॥ २२ ॥
कुबेरोऽहं तथेशानो भूर्भुवःस्वर्महर्जनः ॥
तपः सत्यं च पृथिवी चापस्तेजोऽनिलोऽप्यहम् ॥२३॥
आकाशोऽहं रविः सोमो नक्षत्राणि गृहाण्यहम् ।
प्राणः कालस्तथा मृत्युरमृतं भूतमप्यहम् ॥ २४ ॥
भव्यं भविष्यत्कृत्स्नं च विश्वं सर्वात्मकोऽप्यहम् ।
ओमादौ च तथा मध्ये भूर्भुवः स्वस्तथैव च ।
ततोऽहं विश्वरूपोऽस्मि शीर्षं च जपतां सदा ॥ २५ ॥
अशितं पायितं चाहं कृतं चाकृतमप्यहम् ॥
परं चैवापरं चाहमहं सूर्यः परायणः ॥ २६ ॥
अहं जगद्धितं दिव्यमक्षरं सूक्ष्ममप्यहम् ॥
प्राजापत्यं पवित्रं च सौम्यमग्राह्यमग्रियम् ॥ २७ ।।


न्प्रकरणे सर्वेषु पौनरुक्त्येषु समाधानं ज्ञेयम् ॥ २० ॥ ज्योतिरिति । तन्मात्राणि अहंभूतानि विषयाणि विषया इत्यर्थः । क्लीबत्वमार्षम ॥ २१ ॥ २२ ॥ २३ ॥ आकाश इति । ग्रहाणीत्यार्षम् । भूतमतीतम् ॥ २४ ॥ भव्यमिति । सर्वात्मक अन्तर्यामीति । आदौॐकारः मध्येभूर्भुवःस्वः । ततो गायत्री । ततः शीर्षम् "ॐआापोज्योतिः” इत्यादि । जपतां द्विजानां इदं सर्वमहमेव व्यस्तं समस्तं च । विश्वरूपो विराण्मूर्तिः ॥ २५ ॥ अशितमिति । परायणः सर्वेषामाश्रयः ॥ २६ ॥ अहमिति । प्राजापत्यं प्रजापतिदेवतात्मकम् । अग्नियं अ

 
अहमेवोपसंहर्ता महाग्रासौजसां निधिः ।
हृदये देवतात्वेन प्राणत्वेन प्रतिष्ठितः ॥ २८ ॥
शिरश्चोत्तरतो यस्य पादौ दक्षिणतस्तथा ।
यस्य सर्वोऽन्तरः साक्षादोंकारोऽहं त्रिमात्रकः ॥ २९ ॥
ऊर्ध्वमुन्नामये यस्मादधश्चापनयाम्यथ।
तस्मादोंकार एवाहमेको नित्यः सनातनः ॥ ३० ॥
ऋचो यजूंषि सामानि यो ब्रह्मा यज्ञकर्मणि ।
प्रणामये ब्राह्मणेभ्यस्तेनाहं प्रणवो मतः ॥ ३१ ॥
स्नेहो यथा मांसखण्डं व्याप्नोति व्यापयत्यपि ।
सर्वलोकानहं तद्वत्सर्वव्यापी ततोऽस्म्यहम् ॥ ३२ ॥


ग्रेभवम् ॥ २७ ॥ अहमेवेति । महान्तो नगसागराद्याः ग्रासा भक्ष्याणि येषां तेषां तेजसां प्रलयाग्न्यादीनां निधिरधिष्ठानम् । प्राणिनां हृदये देवतात्वप्राणत्वाभ्यां प्रतिष्ठितश्चाहमेव ॥ २८ ॥ शिर इति । यस्याञ्त्रूपस्य स्पर्शा उत्तरत उत्तरस्यां दिशि शिरः । ऊष्माणो दक्षिणतः दक्षिणस्यां दिशि पादौ । अन्तस्थसंज्ञः सर्वोऽपि यस्यान्तरो मध्यभागः । स साक्षादोंकारोऽहं । कयापि विवक्षया भागकल्पना कृतेति ज्ञेयम् ॥ २९ ॥ ऊर्ध्वमिति । यस्मात्प्राणिनो जापकानूर्ध्वं स्वर्गादिकं प्रति उन्नामयेऽपनयामि अथ पुण्ये क्षीणे सति अधः नयामि च । तस्मादोंकारः ॥ ३० ॥ प्रकारान्तरेण निर्वक्ति-ऋच इति । योऽहं ब्रह्माख्यऋत्विग्विशेषः सन् ऋगादीनि तत्तदृत्विजः प्रति प्रणामये उपयामि तेन कारणेनाहं प्रणवो मतः ॥ ३१ ॥ स्नेह इति । स्नेहो घृतादिद्रव्यं मांसखण्डं कर्म व्याप्नोति । तस्मिन्मांसखण्डे भुक्ते स स्थूलदेहं व्यापयति च तद्वदहमप्यधिष्ठानत्वेनानुस्यूतः सन् यतः सर्वं व्याप्नोमि सर्वलोकं व्यापयामि च । ततो

 
ब्रह्मा हरिश्च भगवानाद्यन्तं नोपलब्धवान् ।
ततोऽन्ये च सुरा यस्मादनन्तोऽहमितीरितः ॥ ३३ ॥
गर्भजन्मजरामृत्युसंसारभयसागरात्।
तारयामि यतो भक्तं तस्मात्तारोऽहमीरितः ॥ ३४ ॥
चतुर्विधेषु देहेषु जीवत्वेन वसाम्यहम् ।
सूक्ष्मो भूत्वाथ हृद्देशे यत्तत्सूक्ष्मः प्रकीर्तितः ॥ ३५ ॥
महातमसि मग्नेभ्यो भक्तेभ्यो यत्प्रकाशये ।
विद्युद्वदतुलं रूपं तस्माद्वैद्युत्तमस्म्यहम् ॥ ३६ ॥
एक एव यतो लोकान्विसृजामि सृजामि च ।
विवासयामि गृह्णामि तस्मादेकोऽहमीश्वरः ॥ ३७ ॥
न द्वितीयो यतस्तस्थे तुरीयं ब्रह्म यत्स्वयम् ॥
भूतान्यात्मनि संहृत्य चैको रुद्रो वसाम्यहम् ॥ ३८ ॥

 


हेतोः सर्वव्याप्यस्मि ॥ ३२ ॥ ब्रह्मेति । आदिश्चान्तश्च तयोः समाहार आद्यन्तम् ॥ ३३ ॥ ३४ ॥ चतुर्विधेष्विति । जरायुजाण्डजस्वेदजोद्भिज्जेषु देहेषु जीवत्वेन वसामि हृद्देशे । सूक्ष्मो भूत्वेति स्वभावतः सूक्ष्मत्वाभावेऽप्यन्तःकरणौपाधिकं सूक्ष्मत्वमस्तीत्यर्थः । एवेन "एषोऽणुरात्मा” इत्यादिश्रुतयोऽपि औपाधिकाणुपरा एव । एतेन स्वाभाविकमणुत्वं जीवस्येति वदन्तो माध्वाः परास्ताः ॥३५॥ महातमसीति । महातमसि अविद्यायां यद्यस्मात्कारणात् विद्युद्वत्तडिद्वत् एतत्सदृशमित्यर्थः । अतुलमसदृशं रूपं प्रकाशये तस्माद्वैद्युतमितिशब्दवाच्योऽस्मि ॥ ३६ ॥ एक इति । सृजामि विसृजामि संहरामि विवासयामि लोकाल्लोकान्तरं प्रापयामि गृह्णामि अनुगृह्णामि । यस्माज्जगत्सृष्ट्यादिषु ममैकस्यैव स्वातन्त्र्यमस्ति तस्मादेकशब्दभागस्मि ॥ ३७ ॥ न द्वितीय इति । यतो यस्माद्ब्रह्मणो द्वितीयो न तस्थे । किंतु आत्मनि भूतानि संहृत्य एकएव वसामि

 
सर्वलोकान्यदीशेऽहमीशिनीभिश्च शक्तिभिः ।
ईशानमस्य जगतः स्वदृशं चक्षुरीश्वरम् ॥ ३९ ॥
ईशानमिन्द्र तस्थुषः सर्वेषामपि सर्वदा ।
ईशानः सर्वविद्यानां यदीशानस्तदस्म्यहम् ॥ ४० ॥
सर्वान्भावान्निरीक्षेऽहमात्मज्ञानं निरीक्षये ।
योगं च समये यस्माद्भगवान्महतो मतः ॥ ४१ ॥


"आत्मा वा इदमेक एवाग्र आसीत्" इत्यादिश्रुतेः । आत्मानं बिशिनष्टि-तुरीयमिति । गुणत्रयोपाधिकेभ्यो ब्रह्मादिभ्यो विलक्षणं तुरीयं ब्रह्म चतुर्थं निर्गुणमित्यर्थः । आत्मनो निजं रूपं तस्थ इत्यत्र “छन्दसि लुङ्लङ्लिटः” इति कालविशेषनिरपेक्षो लिट् ॥ ३८ ॥ सर्वलोकानिति । यद्यस्मात्कारणात् ईशयन्त्यभीक्ष्णं नियमयन्तीत्यर्थः । इतीशिन्यः । णिजन्तादाभीक्ष्ण्ये णिनिः । तादृशीभिः शक्तिभिः मायाशक्तिभिरित्यर्थः । सर्वान् लोकानीशे नियमये । तत्तस्मात्कारणादीशानोऽस्मीत्यन्वयः । अत्रार्थे श्रुतिमर्थतः पठति-ईशानमस्येति । जगतः जंगमस्य तस्थुषः स्थावरस्य च ईशानं स्वर्दृशम् । स्वःशब्दः सकललोकलक्षकः। स्वःपश्यतीति स्वर्दृक् तं स्वर्दृशम् । सर्वलोकद्रष्टारमित्यर्थः । चष्टे इति चक्षुः अभिव्यञ्जकम् । सत्ताप्रदमित्यर्थः । श्रुतिरपि "अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः” इति । हे शूर हे इन्द्रः, इन्दतीतीन्द्र, परमैश्वर्यत्वात्त्वां अभिनोनुमः अतिशयेन स्तुमः । कथंभूता वयम् । अदुग्धा धेनव इव त्वदभिषेकार्थं क्षीरपात्रशालिन इत्यर्थ: । उत्तरार्धं व्याख्यातम् ॥ ३९ ॥ एवमृचमर्थतः पठित्वा यजुरर्थतः पठति--ईशान इति । "ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम्” इत्यादियाजुषेऽपि । यद्यस्मात्कारणाच्छ्रुतिद्वयमीशानं प्रतिपादयति तस्मादीशानोऽहमिति भावः ॥ ४० ॥ सर्वानिति । यं-

 
अजस्रं यच्च गृह्णामि विसृजामि सृजामि च ।
सर्वांल्लोकान्वासयामि तेनाहं वै महेश्वरः ॥ ४२ ॥
महत्स्वात्मज्ञानयोगैरैश्वर्यैस्तु महीयते ।
सर्वान्भावान्महादेवः सृजत्यवति सोऽस्म्यहम् ॥ ४३ ॥
एषोऽस्मि देवः प्रदिशोऽपि सर्वाः
पूर्वो हि जातोऽस्म्यहमेव गर्भे।
अहं हि जातश्च जनिष्यमाणः
प्रत्यग्जनास्तिष्ठति सर्वतोमुखः ॥ ४४ ॥


स्मात्कारणात् सर्वानतीतानागतभूतान् भावान् पदार्थान्निरीक्षे पश्यामि तथा महतः महापुरुषान्। साधनसंपन्नानिति यावत् । आत्मज्ञानं आत्मसाक्षात्कारसाधनं । योगम् ज्ञानयोगमित्यर्थः । निरीक्षये बोधयामि । तथा सम्यक् अये गच्छामि । सर्वं व्याप्नोमीत्यर्थः । अतः कारणादहं भगवान्मतः । "भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु” इत्यमरः । तथाच माहात्म्यवाची भगशब्दस्तद्वानहम् । माहात्म्यं तूक्तमेव ॥ ४१ ॥ अजस्रमिति । एकएव यतो लोकानित्यस्मिन् श्लोके उक्त एवार्थोऽत्राभ्यासार्थं पुनरुक्त इत्यपौनरुक्त्यम् ॥ ४२ ॥ महत्स्विति । महान्तो ब्रह्मादयस्तेषु मध्ये सोऽहं महादेव इति संबन्धः । स क इत्याकाङ्क्षायां य इत्यध्याहृत्य यो देव आत्मज्ञानं च योगाश्च तैर्महीयते पूजां प्राप्रोति ऐश्वर्यैश्च महीयते । यः सर्वान् भावान् सृजति अवति स महादेवोऽहमेव नान्य इति भावः ॥ ४३ ॥ महत्त्वमेव द्रढयति--एषोऽस्मीति ।। एषो हि देवः प्रदिशो नु सर्वाः” इति श्रुतिमर्थतः पठति । अहमेव श्रुत्युक्तो देवस्तिष्ठति स देवोऽस्मि । सर्वाः प्रदिशोऽपि अस्मि सर्वत्रास्मीत्यर्थः । "अकर्मकधातुभिर्योगे देशः कालो गन्तव्योऽध्वा च कर्मसंज्ञकः' -इति कर्मत्वम् । पूर्वो जातः अतीत इत्यर्थः । तथा गर्भे जातोऽह

 
विश्वतश्चक्षुरुत विश्वतोमुखो
विश्वतोबाहुरुत विश्वतस्पात् ।
संबाहुभ्यां धमति संपतत्रै-
र्द्यावाभूमी जनयन्देव एकः ॥ ४५ ॥
वालाग्रमात्रं हृदयस्य मध्ये
विश्वेदेवं जातवेदं वरेण्यम् ॥
मामात्मस्थं येऽनुपशयन्ति धीरा-
स्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ४६ ॥


मेव । तथा जातः गर्भाद्बहिर्निर्गतश्च जनिष्यमाण उत्पत्स्यमानश्चाहमेव । किंच सर्वे जना अयमेव । अतएव सर्वतोमुखः । इति सोपाधिकं स्वरूपमुक्त्वा निरुपाधिकमाह--प्रत्यगिति। अविद्यातत्कार्येभ्यः प्रातिकूल्येन सत्यज्ञानानन्दतयाञ्चति प्रकाशत इति प्रत्यक् । विवर्ताधिष्ठानमात्रामित्यर्थः ॥ ४४ ॥ अस्मिन्नर्थे दार्ढ्याय श्रुत्यन्तरमर्थतः पठति—विश्वत इति । विश्वतादात्म्यापन्नत्वात्सर्वचक्षुः सर्वमुखः सर्वबाहुः सर्वपाद इत्युच्यते। बाहुभ्यां तथा पतत्रैर्गमनशीलै: पादैरित्यर्थः । अत्र पाणिपादस्थानापन्नैर्ज्ञानाज्ञानधर्माधर्मादिभिरित्यर्थः । दिवं च पृथिवी च धमति प्रेरयति । किं कुर्वन्। द्यावाभूमी जनयन्सृजन् । तथापि देव एक एव सृष्टेर्मायिकत्वादिति भावः ॥ ४५ ॥ वालाग्रेति । धियं बुद्धिमीरयन्तीति धीराः कुशला ये पुंरुषाः मां आत्मस्थं बुद्धिस्थं अनुपश्यन्ति श्रवणादिसाधनमनुसृत्य पश्यन्ति साक्षात्कुर्वन्तीत्यर्थः । तेषां जीवेशाभेदसाक्षात्कारवतां शाश्वती शान्तिर्मोक्षसुखमाविर्भवति इतरेषां भेददर्शिनां न । कीदृशं जीवम् । वालाग्रमात्रं केशाग्रप्रमाणं स्वरूपेण व्यापकत्वेऽपि औपा

 
अहं योनिमधितिष्ठामि चैको
मयेदं पूर्णं पञ्चविधं च सर्वम् ॥
मामीशानं पुरुषं देवमित्थं
विचार्यमाणं शान्तिमत्यन्तमेति ॥ ४७ ॥
प्राणेष्वन्तर्मनसो लिङ्गमाहु-
र्यस्मिन्नशनाया च तृष्णा क्षमा च ।
तृष्णां छित्त्वा हेतुजालस्य मूलं
बुद्ध्या चित्तं स्थापयित्वा मयीह ।
एवं मां ये ध्यायमाना भजन्ते
तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ४८ ॥


धिकपरिच्छेदवन्तमित्यर्थः । कीदृशं मां विश्वेदेवं विश्वाधिष्ठानत्वाद्विश्वात्मकम् । एदन्तत्वमार्षम् । जातो वेदो धनं यस्मात्तं जातवेदम् । "अग्नेः प्रजातं परि यद्धिरण्यम्” इति श्रुतेः । वरेण्यं वरणीयम् । एवमौपाधिकभेदवतोरपि जीवेशयोस्तत्त्वंपदार्थशोधनपूर्वकमभेदेन भागत्यागलक्षणया मां परमार्थभूतं भजतां मोक्षो भवति नेतरेषामिति निर्गलितोऽर्थः ॥ ४६ ॥ तस्य विवर्ताधिष्ठानत्वं निगमयति-अहमिति । योनिं अधिष्ठानत्वेन संभाव्यमानं शुक्त्यादिकमहमेवाधितिष्ठामि । शुक्त्याद्युपहितोऽहमेव रजताद्यधिष्ठानमित्यर्थः । मायाधिष्ठानभूतेनेह पञ्चविधं पञ्चभूतात्मकं सर्वं पूर्णम् । धृतमित्यर्थः । इत्थमुक्तरीत्या विचार्यमाणं मामेति प्राप्नोति । ब्रह्मैव भवतीत्यर्थः । कीदृशं माम् । अत्यन्तं शान्ति । प्रपञ्चोपशममित्यर्थः ॥४७॥ प्राणेष्विति । यस्मिन्मनसि अशनाया अशनविषयिणीच्छास्ति । "अशनायोदन्य-” इति निपातनादशनाया रूपसिद्धिः । तथा य

 
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
आनन्दं ब्रह्म मां ज्ञात्वा न बिभेति कुतश्चन ॥ ४९ ॥
श्रुत्वेति देवा मद्वाक्यं कैवल्यज्ञानमुत्तमम् ॥
जपन्तो मम नामानि मम ध्यानपरायणाः ॥ ५० ॥
सर्वे ते स्वस्वदेहान्ते मत्सायुज्यं गताः पुरा ।
ततो ये परिदृश्यन्ते पदार्था मद्विभूतयः ॥.५१ ॥


स्मिन् मनसि तृष्णा अक्षमा चास्ति तादृशस्य मनसो लिङ्गम् । प्राणेषु वायुषु बहिरिन्द्रियेषु च वृत्तिरूपमाहुः । अन्तःकरणपरिणामरूपाः कामादयोऽन्यत्राप्यध्यस्यन्त इत्यर्थः । तस्मान्मनोनिग्रह एव कार्य इत्याह-तृष्णां छित्वेति । कीद्दशीं तृष्णां । हेतुजालस्य मूलम् शुभाशुभफलहेतूनां धर्माधर्मादीनां संघस्य मूलम्। अतएव “कामः संकल्पो विचिकित्सा" इति श्रुतौ काम एवादौ पठितः । तृष्णाजयानन्तरं कर्तव्यामाह-बुद्ध्येति । इह मयि चित्तं बुद्ध्या व्यवसायात्मिकया स्थापयित्वा । एवं पूर्वोक्तरीत्या ध्यायमाना ध्यायन्तः । चानश् नतु शानच् । ध्यै धातोः परस्मैपदित्वात् । एवं ये मां भजन्ते तेषामेव शान्तिर्मोक्ष इति भावः ॥ ४८ ॥ यतो वाच इति । यतो यस्माद्ब्राह्मणः । नन्वेवं सति औपनिषदत्वं भज्येतेत्याशङ्क्याह--अप्राप्येति । अभिधावृत्तिमप्राप्येत्यर्थः । तथाच तत्त्वंपदयोर्जडांशपरित्यागेन लक्षणया अखण्डार्थबोधकत्वाभ्युपगमान्न कश्चिद्दोषः । मनसा सहेत्यपरिपक्वमनसा सहेति तदर्थ: । "मनसैवानुद्रष्टव्याम्' इति श्रुतेः ।। "तत्र को मोहः कः शोक एकत्वमनुपश्यतः" इति श्रुतेः ॥ ४९ ॥ श्रुत्वेति ॥ केवलस्य भावः कैवल्यं निष्प्रपञ्चमात्मस्वरूपं तज्ज्ञायतेऽनेनेति कैवल्यज्ञानम् शुद्धब्रह्मप्राप्तिसाधनं ज्ञानमित्यर्थः ॥ ५० ॥ ततः कारणात् ये ये पदार्था दृश्यन्ते ते ते सर्वेऽपि मम विभूतयः । यच्छब्द्बलात्तच्छब्दोऽध्याहार्यः ॥ ५१ ॥

 
मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् ।
मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम् ॥ ५२ ॥
अणोरणीयानहमेव तद्वन्महानहं विश्वमहं विशुद्धः ।
पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोयं शिवरूपमस्मि ॥५३॥
 अपाणिपादोऽहमचिन्त्वशक्तिः
  पश्याम्यचक्षुः स शृणोम्यकर्णः ।
 अहं विजानामि विविक्तरूपो
  न चास्ति वेत्ता मम चित्सदाहम् ॥ ५४ ॥
 वेदैरशेषैरहमेव वेद्यो
  वेदान्तकृद्वेदविदेव चाहम् ।
 न पुण्यपापे मयि नास्ति नाशो
  न जन्मदेहेन्द्रियबुद्धयश्च ॥ ५५ ॥

 


उक्तमर्थं कैवल्योपनिषत्संवादेन द्रढयति-मय्येवेति यावदध्यायसमाप्ति ॥ ५२ ॥ अणोरणीयानिति । सूक्ष्मादप्यतिसूक्ष्मः औपाधिकपरिच्छेदवानित्यर्थः । महानिति स्वरूपतोऽपरिच्छिन्नः । विशुद्धः प्रपञ्चमिथ्यात्वात्तल्लेपरहितः । नह्यारोपितेनारुणिम्ना स्वाभाविकं स्फटिकस्वच्छत्वमपैतीति भावः । पुरातनादिभिश्चतुर्भिर्विशेषणैर्व्यवह्रियमाणोऽहमेवास्मीति संबन्धः ॥ ५३ ॥ अपाणीति । ननु कारणाभावे कथं कार्यं घटेतेत्याशङ्क्याह-अचिन्त्यशक्तिरिति । अचिन्त्यशक्तिमत्तयैव सर्वमुपपद्यत इति भावः । विविक्तमनावृतं रूपं यस्य तथाभूतोऽहं विजानामि स्वरूपज्ञानेनैव द्रष्टाहं नतु वृत्तिबलेनेति भावः । मम कश्चिदपि वेत्ता नास्ति फलव्याप्यत्वाभावात् ॥ ५४ ॥ वेदैरिति । सर्वैर्वेदैरहमेव वेद्यः समधिगम्य इत्यर्थः । वेदान्तानां कर्ताहमेव । समस्तवेदवेत्ता चाहमेव । अयं भावः । यदा सगुण ईश्वरोऽहं समस्तवेदानां कर्ता तदा वेदवेद्यश्चाहमेव । वेदकर्तृत्वं च

 
  न भूमिरापो न च वह्निरस्ति
   न चानिलो मेऽस्ति न मे नभश्च ।
  एवं विदित्वा परमात्मरूपं
   गुहाशयं निष्कलमद्वितीयम्।
  समस्तसाक्षिं सदसद्विहीनं
   प्रयाति शुद्धं परमात्मरूपम् ॥ ५६ ॥
 एवं मां तत्त्वतो वेत्ति यस्तु राम महामते ।
 स एव नान्यो लोकेषु कैवल्यफलमश्रुते ॥ ५७ ॥


इति श्रीपद्मपुराणे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे

विभूतियोगो नाम षष्ठोऽध्यायः ॥ ६ ॥


 




"यस्य निश्वसितं वेदाः” "ऋचः सामानि जज्ञिरे” इत्यादिप्रमाणात् । निर्गुणस्तु वेदान्तजन्यकृतिविषय एव नतु फलव्याप्तः । वृत्तिव्याप्यतानङ्गीकारे "तं त्वौपनिषदं पुरुषं पृच्छामि” "शास्त्रयोनित्वात" इत्यादिविरोधः स्यात् । उक्तंच वार्तिककृद्भिः "फलव्याप्यत्वमेवात्र शास्त्रकृद्भिर्निवार्यते । ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्यत्वमिष्यते ॥" इति । ब्रह्मण्याविद्यकधर्मानपवदति-न पुण्यपापे इति॥ ५५ ॥ न भूमिरिति । गुहायामज्ञाने शेष इति तम्। "यो वेद निहितं गुहायाम्" इति श्रुतेः। निष्कलं निर्विकारम् । अद्वितीयं सजातीयादिभेदरहितम् । समस्तसाक्षिं साक्षीत्याख्यायमानः साक्षिः । कर्मण्यौणादिक इत् । सदसद्भ्यां कार्यकारणाभ्यां रहितम् ॥ ५६ ॥ उपसंहरति-एवमिति । नान्य इति । कर्ममात्रासक्तो वा सगुणोपासनासक्तो वा न मोक्षभागित्यर्थः । नचैवं कर्मणामुपासनानां च वैयर्थ्यम् । विविदिषासंपादनद्वारा सार्थक्यात् उपासनानामपि ज्ञानाङ्गत्वाच्च सार्थक्यात् ॥ ५७ ॥ इति श्रीलक्ष्मीनृसिंहपण्डितसूनुहरिदीक्षितकृतौ शिवगीताटीकायां बालानन्दिन्यां षष्ठोऽध्यायः ॥ ६ ॥