शाट्यायनीयोपनिषत्
॥ शाट्यायनीयोपनिषत् ॥
शाट्यायनीब्रह्मविद्याखण्डाकारसुखाकृति ।
यतिवृन्दहृदागारं रामचन्द्रपदं भजे ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
हरिः ॐ ॥
मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।
बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम् ॥ १ ॥
समासक्तं सदा चित्तं जन्तोर्विषयगोचरे ।
यद्येवं ब्रह्मणि स्यात्तत्को न मुच्येत बन्धनात् ॥ २ ॥
वित्तमेव हि संसारस्तत्प्रयत्नेन शोधयेत् ।
यच्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनम् ॥ ३ ॥
नावेदविन्मनुते तं बृहन्तं नाब्रह्मवित्परमं प्रैति धाम ।
विष्णुक्रान्तं वासुदेवं विजान-न्विप्रो विप्रत्वं गच्छते तत्त्वदर्शी ॥ ४ ॥
अथाह यत्परमं ब्रह्म सनातनं ये श्रोत्रिया अकामहता अधीयुः ।
शान्तो दान्त उपरतिस्तितिक्षुहु-र्योऽनूचानो ह्यभिजज्ञौ समानः ॥ ५ ॥
त्यक्तेषणो ह्यनृणस्तं विदित्वा मौनी वसेदाश्रमे यत्र कुत्र ।
अथाश्रमं चरमं संप्रविश्य यथोपपत्तिं पञ्चमात्रां दधानः ॥ ६ ॥
त्रिदण्डमुपवीतं च वासः कौपीनवेष्टनम् ।
शिक्यं पवित्रमित्येतद्विभृयाद्यावदायुषम् ॥ ७ ॥
पञ्चैतास्तु यतेर्मात्रास्ता मात्रा ब्रह्मणे श्रुताः ।
न त्यजेद्यावदुत्क्रान्तिरन्तेऽपि निखनेत्सह ॥ ८ ॥
विष्णुलिङ्गं द्विधा प्रोक्तं व्यक्तमव्यक्तमेव च ।
तयोरेकमपि त्यक्त्वा पतत्येव न संशयः ॥ ९ ॥
त्रिदण्डं वैष्णवं लिङ्गं विप्राणां मुक्तिसाधनम् ।
निर्वाणं सर्वधर्माणामिति वेदानुशासनम् ॥ १० ॥
अथ खलु सौम्य कुटीचको बहूदको हंसः परमहंस
इत्येते परिव्राजकाश्चतुर्विधा भवन्ति ।
सर्व एते विष्णुलिङ्गिनः
शिखिनोपवीतिनः शुद्धचित्ता आत्मानमात्मना ब्रह्म
भावयन्तः शुद्धचिद्रूपोपासनरता जपयमवन्तो
नियमवन्तः सुशीलिनः पुण्यश्लोका भवन्ति ।
तदेतदृचाभ्युक्तम् ।
कुटीचको बहूदकश्चापि हंसः
परमहंस इव वृत्त्या च भिन्नाः ।
सर्व एते विष्णुलिङ्गं दधाना
वृत्त्या व्यक्तं बहिरन्तश्च नित्यम् ।
पञ्चयज्ञा वेदशिरःप्रविष्टाः
क्रियावन्तोऽमी सङ्गता ब्रह्मविद्याम् ।
त्यक्त्वा वृक्षं वृक्षमूलं श्रितासः
संन्यस्तपुष्पा रसमेवाश्नुवानाः ।
विष्णुक्रीडा विष्णुरतयो विमुक्ता
विष्ण्वात्मका विष्णुमेवापियन्ति ॥ ११ ॥
त्रिसन्ध्यं शक्तितः स्नानं तर्पणं मार्जनं तथा ।
उपस्थानं पञ्चयज्ञान्कुर्यादामरणान्तिकम् ॥ १२ ॥
दशभिः प्रणवैः सप्तव्याहृतिभिश्चतुष्पदा ।
गायत्रीजपयज्ञश्च त्रिसन्ध्यं शिरसा सह ॥ १३ ॥
योगयज्ञः सदैकाग्रभक्त्या सेवा हरेर्गुरोः ।
अहिंसा तु तपोयज्ञो वाङ्मनःकायकर्मभिः ॥ १४ ॥
नानोपनिषदभ्यासः स्वाध्यायो यज्ञ ईरितः ।
ॐइत्यात्मानमव्यग्रो ब्रह्मण्यग्ना जुहोति यत् ॥ १५ ॥
ज्ञानयज्ञः स विज्ञेयः सर्वयज्ञोत्तमोत्तमः ।
ज्ञानदण्डा ज्ञानशिखा ज्ञानयज्ञोपवीतिनः ॥ १६ ॥
शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् ।
ब्राह्मण्यं सकलं तस्य इति वेदानुशासनम् ॥ १७ ॥
अथ खलु सौम्येत परिव्राजका यथा प्रादुर्भवन्ति
तथा भवन्ति ।
कामक्रोधलोभमोहदम्भदर्पासूया-
ममत्वाहङ्कारादींस्तितीर्य मानावमानौ निन्दास्तुती
च वर्जयित्वा वृक्ष इव तिष्ठासेत् ।
छिद्यमानो न ब्रूयात् ।
तदैवं विद्वांस इहैवामृता भवन्ति ।
तदेतदृचाभ्युक्तम् ।
बन्धुपुत्रमनुमोदयित्वा-नवेक्ष्यमाणो द्वन्द्वसहः प्रशान्तः ।
प्राचीमुदीचिं वा निर्वर्तयंश्चरेत पात्री दण्डी युगमात्रावलोकी ।
शिखी मुण्डी चोपवीती कुटुम्बी यात्रामात्रं प्रतिगृह्णन्मनुष्यात् ॥ १८ ॥
अयाचितं याचितं वोत भैक्षं मृद्दार्वलाबूफलपर्णपात्रम् ।
क्षीणं क्षौमं तृणं कन्थाजिने च पर्ण-माच्छादनं स्यादहतं वा विमुक्तः ॥ १९ ॥
ऋतुसन्धौ मुण्डयेन्मुण्डमात्रं नाधो नाक्षं जातु शिखां न वापयेत् ।
चतुरो मासान्ध्रुवशीलतः स्या-त्स यावत्सुप्तोऽन्तरात्मा पुरुषो विश्वरूपः ।
अन्यानथाष्टौ पुनरुत्थितेऽस्मि-न्स्वकर्मलिप्सुर्विहरेद्वा वसेद्वा ॥ २० ॥
देवाग्न्यगारे तरुमूले गुहायां वसेदसङ्गोऽलक्षितशीलवृत्तः ।
अनिन्धनो ज्योतिरिवोपशान्तो न चोद्विजेदुद्विजेद्यत्र कुत्र ॥ २१ ॥
आत्मानं चेद्विजानीयादयमस्मीति पूरुषः ।
किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत् ॥ २२ ॥
तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ।
नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि तत् ॥ २३ ॥
बाल्येनैव हि तिष्ठासेन्निर्विद्य ब्रह्मवेदनम् ।
ब्रह्मविद्या च बाल्यं च निर्विद्य मुनिरात्मवान् ॥ २४ ॥
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ २५ ॥
अथ खलु सौम्येदं परिव्राज्यं नैष्ठिकमात्मधर्मं
यो विजहाति स वीरहा भवति ।
स ब्रह्महा भवति ।
स भ्रूणहा भवति ।
स महापातकी भवति ।
य इमां वैष्णवीं निष्ठां परित्यज्यति ।
स स्तेनो भवति ।
स गुरुतल्पगो भवति ।
स मित्रध्रुग्भवति ।
स कृतघ्नो भवति ।
स सर्वस्माल्लोकात्प्रच्युतो भवति ।
तदेतदृचाभ्युक्तम् ।
स्तेनः सुरापो गुरुतल्पगामी मित्रध्रुगेते निष्कृतेर्यान्ति शुद्धिम् ।
व्यक्तमव्यक्तं वा विधृतं विष्णुलिङ्गं त्यजन्न शुद्ध्येदखिलैरात्मभासा ॥ २६ ॥
त्यक्त्वा विष्णोर्लिङ्गमन्तर्बहिर्वा यः स्वाश्रमं सेवतेऽनाश्रमं वा ।
प्रत्यपत्तिं भजते वातिमूढो नैषां गतिः कल्पकोट्यापि दृष्टा ॥ २७ ॥
त्यक्त्वा सर्वाश्रमान्धीरो वसेन्मोक्षाश्रमे चिरम् ।
मोक्षाश्रमात्परिभ्रष्टो न गतिस्तस्य विद्यते ॥ २८ ॥
पारिव्राज्यं गृहीत्वा तु यः स्वधर्मे न तिष्ठति ।
तमारूढच्युतं विद्यादिति वेदानुशासनम् ॥ २९ ॥
अथ खलु सौम्येमं सनातनमात्मधर्मं वैष्णवीं
निष्ठां लब्ध्वा यस्तामदूषयन्वर्तते स वशी भवति ।
स पुण्यश्लोको भवति ।
स लोकज्ञो भवति ।
स वेदान्तज्ञो भवति ।
स ब्रह्मज्ञो भवति ।
स सर्वज्ञो भवति ।
स स्वराड् भवति ।
स परं ब्रह्म भगवन्तमाप्नोति ।
स पितॄन्सम्बन्धिनो बान्धवान्सुहृदो मित्राणि च भवादुत्तरयति ।
तदेतदृचाभ्युक्तम् ।
शतं कुलानां प्रथमं बभूव तथा पराणां त्रिशतं समग्रम् ।
एते भवन्ति सुकृतस्य लोके येषं कुले संन्यसतीह विद्वान् ॥ ३० ॥
त्रिंशत्परास्त्रिंशदपरांस्त्रिंशच्च परतः परान् ।
उत्तरयति धर्मिष्ठः परिव्राडिति वै श्रुतिः ॥ ३१ ॥
संयस्तमिति यो ब्रूयात्कण्ठस्थप्राणवानपि ।
तारिताः पितरस्तेन इति वेदानुशासनम् ॥ ३२ ॥
अथ खलु सौम्येमं सनातनमात्मधर्मं वैष्णवीं
निष्ठां नासमाप्य प्रब्रूयात् ।
नानूचानाय नानात्मविदे नावीतरागाय नाविशुद्धाय नानुपसन्नाय
नाप्रयतमानसायेति ह स्माहुः ।
तदेतदृचाभ्युक्तम् ।
विद्या ह वै ब्राह्मणमाजगाम गोपाय मां शेवधिष्टेऽहमस्मि ।
असूयकायानृजवे शठाय मा मा ब्रूया वीर्यवती तथा स्याम् ॥ ३३ ॥
यमेव विद्याश्रुतमप्रमत्तं मेधाविनं ब्रह्मचर्योपपन्नम् ।
अस्मा इमामुपसन्नाय सम्यक् परीक्ष्य दद्याद्वैष्णवीमात्मनिष्ठाम् ॥ ३४ ॥
अध्यापिता ये गुरुं नाद्रियन्ते विप्रा वाचा मनसा कर्मणा वा ।
यथैव तेन न गुरुर्भोजनीय-स्तथैव चानं न भुनक्ति श्रुतं तत् ॥ ३५ ॥
गुरुरेव परो धर्मो गुरुरेव परा गतिः ।
एकाक्षरप्रदातारं यो गुरुं नाभिनन्दति ।
तस्य श्रुतं तथा ज्ञानं स्रवत्यामघटाम्बुवत् ॥ ३६ ॥
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
स ब्रह्मवित्परं प्रेयादिति वेदानुशासनम् ॥ ३७ ॥
इत्युपनिषत् ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥
इति शाट्यायनीयोपनिषत्समाप्ता ॥