शाङ्खायनश्रौतसूत्रम्/अध्यायः १७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १६ शाङ्खायनश्रौतसूत्रम्
अध्यायः १७
[[लेखकः :|]]
अध्यायः १८ →


महाव्रतप्रकरणम्
॥17.1॥
अथातो महाव्रतस्य १
पुरस्तादेव कतिपयाहेन होता प्रेङ्खफलकमुत्पाटयति २
तिष्ठत एवोदुम्बरस्य ३
पुरस्तादादित्यस्योदयनतः ४
यदि पुरस्तान्न विद्येताथाप्युत्तरतः ५
यदि दक्षिणतः ६
पश्चाद्वा स्यात् ७
मूले छेदयित्वा प्राङ्वोदङ्वा तिष्ठन्नुत्पाट्य यद्यणुरुदुम्बरः स्यात् ८
अपि द्वे वा त्रीणि वा फलकानि संतृड्युः ९
तद्बाहुमात्रं प्राग्भवति १०
अरत्निमात्रं तिर्यक् ११
संतष्टम् १२
प्रज्ञाताग्रम् १३
तच्चतुर्धान्तेषु वितर्दयति १४
अथैतस्य वैवोदुम्बरस्यान्यस्य वा विशाख्यौ छेदयन्ति १५
परःपुरुषे १६
वंशं च १७
यद्युदुम्बरो न विद्येत योऽन्यो वृक्षः फलग्रहिष्णुः कल्याणाभिव्याहारो वा स्यात्तस्यैतदुपकल्पयेत् १८

॥17.2॥
अथ मौञ्ज्यौ रज्जू कारयन्ति १
दृढे २
त्रिगुणे ३
परोद्विव्यायामे ४
एतावद्धोतारमभितः ५
औदुम्बरीमासन्दीमुद्गात्रे संघ्नन्ति ६
तस्यै प्रादेशमात्राः पादा भवन्ति ७
अरत्निमात्राणि शीर्षण्यान्यनूच्यानि ८
तां संहत्य मौञ्जीभिः स्यान्द्याभिर्विवयन्ति द्विगुणाभिः प्रसलविसृष्टाभिः ९

॥17.3॥
अथैतां वीणां शततन्त्रीमुपकल्पयन्ति १
तस्याः पालाशी सूना भवति २
औदुम्बरो दण्डः ३
अपि वौदुम्बरी सूना पालाशो दण्डः ४
तामानडुहेन सर्वरोहितेन चर्मणा बाह्यतोलोम्नाभिषीव्यन्ति ५
तस्यै मूले दण्डं दशधातिविध्यन्ति ६
तद्दशदश रज्जूः प्रवयन्ति ७
ता अग्रे नाना बध्नन्ति ८
दण्डसमासा वीणा शततन्त्री भवति ९
वेतसशाखा सपलाशा वादिन्युपकॢप्ता भवति १०
स्वयंनता वा शरेषीका ११
घाटकर्करीरवघटरिकाः काण्डवीणाः पिच्छोरा इति पत्न्य उपकल्पयन्ति १२
उपमुखेन पिच्छोरां वादयेत् १३
वादनेन काण्डवीणाम् १४
तां घाटरीरित्याचक्षते १५
या घाटरी मृदुं वादयेत्सारातिः स्यात् १६
द्विषन्तं जनयेत् १७

॥17.4॥
चतुरो दुन्दुभीनध्वर्युः सहननानुपकल्पयति १
पूर्वस्यै द्वार्या अभितो द्वारबाहू बहिःसदः सन्धौ सहननावासञ्जयति २
अपरस्यै द्वार्या अभितो द्वारबाहू अन्तःसदः सन्धौ सहननावासञ्जयति ३
यदि षट् स्युर्दक्षिणार्धे सदस एकमुत्तरार्ध एकम् ४
मुञ्जानां च कुशानां च कूर्चमध्वर्यवे संस्कुर्वन्ति ५
तस्मिंस्तिष्ठन्प्रत्यागृणाति ६
अथेतरे दीक्षिताः प्रतिपुरुषं बृसीः कुर्वते यथा प्रादेशमात्रेणोपरि भूमेः स्युः ७
अथ या मार्जालीयं पर्येष्यन्त्यो भवन्ति ताभ्यः प्रत्येकं नवान्कलशानुपकल्पयन्ति ८

॥17.5॥
अथैतमश्वरथमुपकल्पयन्ति विततवरूथम् १
धनुश्च त्रींश्चेषून् २
राजानं वा राजमात्रं वाजेरस्तारम् ३
यदि राजा वा राजमात्रो वा न विद्येत य एतां धियं विद्यात्स एतत्कुर्यात् ४
उत्तरेणाग्नीध्रं प्राञ्च्यौ प्रह्वे स्थूणे विमिन्वन्त्याखणाय ५
तदिलमंवर्तं वोत्करं वा चर्मणाभिवितन्वन्ति ६
तन्न सपत्त्रेणातिविध्येत् ७
जघनेनाग्नीध्रं बहिर्वेद्यवटं खनन्ति ८
तमेतस्योपालम्भ्यस्य ऋषभस्य चर्मणा प्राचीनग्रीवेणोदीचीनग्रीवेण वोत्तरतोलोम्नाभिषीव्यन्ति ९
तं तस्यैव लाङ्गूलेन काले भूमिदुन्दुभिमाघ्नन्ति १०

॥17.6॥
अथ शूद्रार्यौ स्त्रीपुमांसौ बण्डखलती इत्युपकल्पयन्ति १
तदेतत्पुराणमुत्सन्नं न कार्यमेतस्मिन्समुपकॢप्ते २
संस्थिते दशमेऽहनि सदोहविर्धानानि समूहन्ति ३
आग्नीध्रं पत्नीशालं च ४
अथ नवैः कुशैर्बहुलमुपस्तृणन्ति ५
कतिपयान्कुशभारान्निदधति प्रातर्बृसीभ्यः ६

॥17.7॥
अथ महारात्रे महाव्रताय प्रातरनुवाकमुपाकुर्वन्ति १
यथा परिसहस्रमनुब्रूयात् २
तस्य पञ्चविंशः स्तोमः ३
राजनं पृष्ठम् ४
अग्निष्टोमो यज्ञः ५
अथैते परिष्टवणीया भवन्ति त्रिवृत्पञ्चदशः सप्तदश एकविंश इति ६
ऐन्द्राग्नो वैकादशिनानां वैकः सवनीयः ७
ऐन्द्रश्च ऋषभः प्राजापत्यश्चाज उपालम्भ्यौ ८
निरुक्त ऐन्द्रः ९
उपांशु प्राजापत्यः १०
ते यत्र वपासु हुताषु संप्रसर्पन्ति तदेतत्प्रेङ्खमिश्रं बहिर्वेदि प्रक्षाल्यान्तरेण चात्वालोत्करौ तीर्थं तेन प्रपद्योत्तरेणाग्नीध्रीयं धिष्ण्यं पर्याहृत्य पूर्वया द्वारा सदः प्रहृत्याग्रेणोत्तरेण होतुर्धिष्ण्यं प्राङुपनिदधति ११
एवमेव यस्ययस्य बहिर्वेदि भवति यथा संचरः संप्रसर्पणे भवति तथाहृत्योत्तरत उपनिदधति १२
तस्य त्रैष्टुभं प्रातःसवनं स्यादिति पैङ्ग्यं शुष्कभृङ्गारीयम् १३

॥17.8॥ महाव्रतप्रकरणम्
विशोविशो वो अतिथिमित्याज्यम् १
तस्य द्वादशार्धर्चशः शस्त्वाग्निं नरो दीधितिभिररण्योरित्येतत्पञ्चविंशत्यृचमुपसंशंसति २
तद्दिष्टशस्त्रम् ३
त्रैष्टुभः प्रउगः ४
कुविदङ्ग नमसा ये वृधास इति वायव्यं चैन्द्रवायवं च ५
मैत्रावरुणं च यथा विषुवति ६
क उ श्रवत्कतमो यज्ञियानामित्याश्विनम् ७
कथा महामवृधत्कस्य होतुरित्यैन्द्रम् ८
को वस्त्राता वसवः को वरूतेति वैश्वदेवम् ९
उत स्या नः सरस्वती जुषाणेति सारस्वतम् १०
स तृचकॢप्तः ११
तस्य पच्छः शस्त्रम् १२
ऐकाहिकं वा प्रातःसवनम् १३
कॢप्तं प्रातःसवनम् १४

॥17.9॥
अथातो माध्यन्दिनं सवनम् १
आ त्वा रथं यथोतय इति मरुत्वतीयस्य प्रतिपत् २
इदं वसो सुतमन्ध इत्यनुचरः ३
एष एव नित्य एकाहातानः ४
असत्सु मे जरितः साभिवेग इति (ऋ. १०.२७.१) वासुक्रं पूर्वं शस्त्वा महाँ इन्द्रो नृवदा चर्षणिप्रा (ऋ. ६.१९.१) इत्येतस्मिंस्त्रैष्टुभे निविदं दधाति ५
उभे सूक्ते पच्छः संशस्येत् ६
इति न्वा उ मरुत्वतीयम् ७

॥17.10॥
अथातो निष्केवल्यम् १
संस्थिते प्रातःसवने प्रेङ्खावटौ खानयेदिति सा स्थितिः २
शस्ते मरुत्वतीय इति पैङ्ग्यम् ३
जघनेन स्वं धिष्ण्यं पदं च चतुरङ्गुलं च प्रमाय तत्पश्चादुदीचीनाग्रं फलकं निधायोभयतश्चतुरङ्गुले उपधाय बहिश्चतुरङ्गुलाभ्यां लेखे लेखयित्वा प्रेङ्खावटौ खानयेद्दक्षिणं पूर्वमथोत्तरम् ४
प्राञ्चौ वोदञ्चौ वोत्किरा उत्किरन्ति ५
तद्विशाख्याववधायोदीचीनाग्रं वंशम-भ्यादधाति ६
शीर्ष्णा होता मिमीते ७
यदि ह्रस्वः स्यादूर्ध्वबाहुर्मिमीते ८
दृढपर्यृष्टे पर्यृषति यथा न व्यथेयाताम् ९
अथैतत्प्रेङ्खफलकं रज्जुभिश्चतुर्धान्तेषु परिव्ययति यथा न संभ्रश्येत १०
उत्तरेण दक्षिणां प्रेङ्खस्थूणां दक्षिणां रज्जुं बध्नन्ति ११
दक्षिणेनोत्तरां प्रेङ्खस्थूणामुत्तरां रज्जुं बध्नन्ति १२
तत्संबाध्य प्रास्यति यथा प्रादेशमात्रेणोपरि भूमेः स्यात् १३
तदधस्तात्कुशैः प्राचीणा-ग्रैश्चोदीचीनाग्रैश्चाभ्युपोहति १४
तदभिनिवील्हं पर्यृषति यथा न व्यथेत १५
तत्संबाध्योत्तरस्यां प्रेङ्खस्थूणायामपाश्रयति १६
तच्छस्ते मरुत्वतीये यथास्थानं स्थापयेत् १७
१०
॥17.11॥
अथाध्वर्युर्माहेन्द्रं ग्रहं गृहीत्वैति १
अग्रेण होतुर्धिष्ण्यं प्राङुपविशति २
तं होताहाध्वर्य उप नु रमेति ३
स उत्तरेणोत्तरां प्रेङ्खस्थूणामुत्तरेणाध्वर्यं प्राङुपनिष्क्रम्य पूरया द्वाराग्नीध्रं प्रपद्योत्तरेणाग्नीध्रीयं धिष्ण्यं पर्येत्य पश्चात्प्राङुपविश्य दक्षिणं जान्वाच्य स्रुवेणाज्यस्थाल्या उपहत्य जुहोति ४
११
॥17.12॥
आयुष्मद्गायत्रं विश्वायू रथन्तरं सर्वायुर्बृहत्सामायुर्वामदेव्यमत्यायुर्यज्ञायज्ञीयं तेषामहमायुषायुष्मान्भूयासमस्यै प्राणः संचरति प्रजायै हृदयाय कं सर्वा विनुड्य संतृड्यो मय्यस्तु शरदः शतं स्वाहेति प्रथमाम् १
दिवे स्वाहान्तरिक्षाय स्वाहा पृथिव्यै स्वाहेति तिस्रः २
गवे स्वाहा वाचे स्वाहा वाचस्पतये स्वाहेत्यपरास्तिस्रः ३
यदिदमिति हैतिहं दैव्यं सह उच्चरत्
तद्वयं यजामहे यदस्मभ्यमिति द्रवत्
वाचो राजन्यजामहे वाचस्पते सहस्व मे
यो अस्माँ अभिदासति स्वाहेत्यष्टमीं हुत्वा
यथायतनं स्रुवं निधाय
यथाप्रपन्नमुपनिष्क्रम्याग्रेण सद उत्तरेण स्रुतिं प्राङ् तिष्ठन्परिमादाञ्जपाञ्जपति ४
वागायुर्विश्वायुर्विश्वमायुरेह्येवा हीन्द्रोपेहि विश्वथ विदा मघवन्विदा इति ५
अथात्रैव तिष्ठन्नग्निं यथाङ्गमुपतिष्ठते ६
१२
॥17.13॥
नमस्ते गायत्राय यत्ते शिरो यत्ते पुर इति पूर्वार्धम् १
नमस्ते रथन्तराय यस्ते
दक्षिणो बाहुर्यस्ते दक्षिणः पक्ष इति दक्षिणं पक्षम् २
नमस्ते बृहते यस्त उत्तरो बाहुर्यस्त उत्तरः पक्ष इत्युत्तरं पक्षम् ३
नमस्ते वामदेव्याय यत्ते मध्यं यस्त आत्मेति मध्यम् ४
नमस्ते यज्ञायज्ञीयाय यत्ते पुच्छं या प्रतिष्ठेति पुच्छम् ५
समिद्धस्यैवैतान्भागानुपतिष्ठेत यद्युत्तरवेदौ भवति ६
अथात्रैव तिष्ठन्नादि-त्यमुपतिष्ठते ७
आकाशं शालायै कुर्युरिति हैक आहुः ८
देशेन त्वेवोपतिष्ठते ९
सुभूर्नामासि श्रेष्ठो राश्मिर्देवानां संसद्यया तन्वा ब्रह्म जिन्वसि तया मा जिन्व तया मा जनय तया मा पाहि ब्रह्मवर्चसमन्नाद्यं मयि त्विषिं धा नमस्ते अस्तु मा मा हिंसीरिति १०
अथ दक्षिणावृत्प्रविशति ११
पश्चात्प्रेङ्खं प्राङुपविश्य तदन्वारभ्याननुत्सृजन्वाग्यत आस्त आधिसर्पणात् १२
१३
॥17.14॥
स पुरस्तादेव च्छन्दोगेभ्यः शीर्षण्यांस्तृचान्निगादयेत १
स पुरस्तादेवाध्वर्युणा संवादयेत २
द्वादशकृत्वस्तूष्णींशंसे प्रत्यागृणीताद्विहृतमात्मानं च पदा-नुषङ्गांश्च संशिष्याम्यविहृतं त्वं प्रत्यागृणीतादिति ३
अथ प्रस्तोतारमाह सप्तसु स्तोत्रियासु परिशिष्टासु नः प्रब्रूतात्तावद्धीदं जप्यमिति ४
अथाध्वर्युः स्तोत्रमुपाकरोति ५
यत्रैवोद्गातामन्दीमधिरोहत्यथ प्रस्तोताप्रतिहर्तारौ बृस्या-वधिसर्पतः ६
उपगातारश्च ७
उद्गातैव प्रथमो वीणां प्रवादयति ८
तं पत्न्यो ऽनु प्रवादयन्ति ९
आघ्नन्ति दुन्दुभीन् १०
आहन्ति भूमिदुन्दुभिम् ११
कुर्वन्ति घोषं धोषकृतः १२
अथ पूर्णकुम्भा अपो बिभ्रत्यो मार्जालीयं परियन्ति १३
है महा३
इदं मध्विदं मध्वित्येतां वाचं वदन्ति १४
अप्रदक्षिणं त्रिः १५
प्रसलवि तूष्णीं तत ऊर्ध्वम् १६
१४
॥17.15॥
अथैतमश्वरथं युञ्जन्ति १
अग्रेण दक्षिणं वेद्यंसम् २
तं संनद्ध आतिष्ठति राजा वा राजमात्रो वा धनुश्च त्रींश्चेषूनादाय ३
सोऽभितो वेदिं त्रिः प्रसलवि परिवर्तमान एतमाखणं विध्यति ४
तं न सपत्रेणातिविध्येत् ५
एवं द्वितीयमेवं तृतीयम् ६
तं प्राञ्चमुदञ्चं श्रथ्नन्ति ७
तं तत्रैव विमुञ्चन्ति ८
अथ प्रस्तोता सप्तसु स्तोत्रियासु परिशिष्टास्वाहा वेलेति ९
अथ होता दक्षिणेन प्रादेशेन प्रेङ्खफलकं च भूमिं च संमृशञ्जपति सं महान्महत्या दधादिति १०
अथोपरि प्रेङ्खफलके प्रादेशं निधाय जपति सं देवो दैव्या दधादिति ११
अथोपरि प्रेङ्खफलकात्प्रादेशमात्रे प्रादेशं धारयञ्जपति सं ब्रह्म ब्राह्मण्या दधादिति १२
अथोपनिधाय प्रेङ्खफलकं त्रिरभ्यन्य त्रिरभ्यवानिति १३
१५
॥17.16॥
अथैनदुरसा संस्पृश्य दक्षिणं भागमात्मनोऽतिहरञ्जपत्यर्कोऽसि वसवस्त्वा गायत्रेण च्छन्दसारोहन्तु तानहमन्वारोहामि राज्यायेति १
अथोत्तरं भागमात्मनोऽतिहरञ्जपति रुद्रास्त्वा त्रैष्टुभेन च्छन्दसारोहन्तु तानहमन्वारोहामि स्वाराज्यायेति २
अथ दक्षिणं भागमात्मनोऽतिहरञ्जपत्यादित्यास्त्वा जागतेन च्छन्दसारोहन्तु तानहमन्वारोहामि साम्राज्यायेति ३
अथोत्तरं भागमा-त्मनोऽतिहरञ्जपति विश्वे त्वा देवा आनुष्टुभेन च्छन्दसारोहन्तु तान-हमन्वारोहामि कामप्रायेति ४
अथ समधिसृप्य प्राञ्चौ पादा उपावहृत्य भूमौ प्रतिष्ठापयति ५
अथ त्रिरभ्यन्य त्रिरभ्यवानिति ६
अथोपरि प्रेङ्खफलके दक्षि-णोत्तरिणमुपस्थं कृत्वा दक्षिणेन प्रादेशेन पश्चात्प्रेङ्खफलकमुपस्पृशति प्रजापतिष्ट्वारोहतु वायुः प्रेङ्खयत्विति ७
अथ त्रिरभ्यन्य त्रिरम्यवानिति ८
अथ प्राञ्चौ पाणी परिगृह्य जपति ९
१६
॥17.17॥
सं वाक् प्राणेन समहं प्राणेन सं चक्षुर्मनसा समहं मनसा सं प्रजापतिः पशुभिः
समहं पशुभिः सुपर्णोऽसि गरुत्मान्प्रेमां वाचं वदिष्यामि बहु करिष्यन्तीं बहु करिष्यन्बहोर्भूयः स्वर्गमिष्यन्तीं स्वर्गमिष्यन्निति १
अथ त्रिरभ्यन्य त्रिरभ्य-वानिति २
स विसृष्टवाङ् मत्सरं विनिनीषमाण आस्त आ स्तोत्रस्य प्रवदनात् ३
यत्रैव होता प्रेङ्खमधिरोहति तत्सर्वे सगृहपतिका बृसीरधिसर्पन्ति ४
उत्तमायां स्तोत्रियायां परिशिष्टायामवतृणत्ति दुन्दुभीन् ५
अवतृणत्ति भूमिदुन्दुभिम् ६
उपरमन्ति घोषं घोषकृतः ७
अथ पूर्णकुम्भा अपो बिभ्रत्यो मार्जालीयं परियन्ति ८
मार्जालीये ताः कलशानवनिनीयोपनिधाय यथैतमुत्सृज्यन्ते ९
एषेति प्राह १०
प्रोक्ते होता वाचं यच्छत्यानुवषट्कारात् ११
उप प्रतिहारमाहावेऽनुरमति १२
प्रतिहृत आह्वयते १३
अध्वर्यो शों३सावो इत्युच्चैराहूय यथास्य वाक् सर्वा अन्या वाचोऽतिवदेत् १४
उच्चैराहूय त्रिरुपांशु हिंकृत्योपांशु तूष्णींशंसं । तस्यातस्तस्यातः १५
१७
इति शाङ्खायनश्रौतसूत्रे सप्तदशोऽध्यायः समाप्तः