शाङ्खायनश्रौतसूत्रम्/अध्यायः ०४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०३ शाङ्खायनश्रौतसूत्रम्
अध्यायः ०४
[[लेखकः :|]]
अध्यायः ०५ →


॥4.1॥ अग्न्यन्वाधानप्रकरणम्
पत्नीयजमानौ व्रत्यमश्नीयातां प्राग्वत्सापाकरणात् १
यदन्यं मांस-
लवणमिथुनमाषेभ्यो येन च द्रव्येण यक्ष्यमाणः स्यात् २

॥4.2॥ अग्न्यन्वाधानप्रकरणम्
अग्नीनन्वादधातीष्टिपशुबन्धेषु पूर्वेद्युः १
आहवनीये महाव्याहृत्योत्तमया २
प्रथमया गार्हपत्ये ३
दक्षिणाग्नौ मध्यमया ४
द्वे द्वे च तृष्णीम् ५
आहवनीये दशमीं समस्ताभिः ६
महाव्याहृतीनां वा स्थाने चतस्रो विहव्यस्यानुपूर्व्येण ७
उपस्थानं च शेषेण ८
अप नः शोशुचदधमिति सप्ताग्ने नय यस्त्वा हृदा त्वं नो अग्ने अधरादिति वा दशभिः ९
प्राग्नये वाचमिमं स्तोममिति चोपस्थानं सूक्ताभ्याम् १०
तूष्णीं प्रागहीयम् ११
महाव्याहृतिभिः पैङ्ग्यम् १२
कौषीतकं
विहव्येन १३
आरुणमुत्तमम् १४


॥4.3॥ पिण्डपितृयज्ञप्रकरणम्
पिण्डपितृयज्ञोऽपराह्णेऽमावास्यायाम् १
दक्षिणाग्नेः पुरस्ताच्छूर्पं स्थालीं स्फ्यं पात्रीमुलूखलमुसले च संसाद्य २
गार्हपत्यस्य पश्चाद्दक्षिणाग्नेषु कुशेषु स्फ्यं निधाय ३
उपरिष्टाद्व्रीहीन्पात्र्याम् ४
पुरस्ताच्छूर्पे स्थालीम् ५
आच्य सव्यं जानु नीचा मुष्टिना व्रीहीन् गृह्णाति पितॄन्ध्यायन् ६
यथाधोबिलाशुतः स स्यात्पत्न्या सकृत्फलीकृतान्दक्षिणाग्नौ श्रपयित्वाभिघार्य प्रत्यञ्चमुद्वा-स्यावसवि परिसमुह्य परिस्तीर्य पर्युक्ष्य दक्षिणं जान्वाच्य यज्ञोपवीती
प्राङासीनो मेक्षणेन जुहोति ७

॥4.4॥ पिण्डपितृयज्ञप्रकरणम्
अग्नये कव्यवाहनाय स्वाहा सोमाय पितृमते स्वाहा यमायाङ्गिरस्वते पितृमते स्वाहेति १
मेक्षणमनुप्रहृत्य दक्षिणा दक्षिणाग्नेरपहता असुरा रक्षांसि वेदिषद इति स्फ्येनोन्मृज्याभ्युक्ष्य ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति । परापुरो निपुरो ये भरन्त्यग्निष्टाँ ल्लोकात्प्र णुदात्यस्मात् । इत्युल्मु-कमुन्मृष्टस्य दक्षिणार्धे निधाय मूले कुशान्सकृल्लूनानुन्मृष्टे निधाया-साववनेनिक्ष्व ये च त्वामत्रान्विति पितुर्नामादिश्य कुशेष्वपो निषि-ञ्चत्यवाचीनपाणिना २
एवं दक्षिणतः पितामहस्य ३
प्रपितामहस्य च ४
असावेतत्ते ये च त्वामत्रान्विति पिण्डान्यथावनेजितं निधाय ५
उभावे-कस्मिन्पितृभेदे ६
न जीवपितुरस्ति ७
न जीवान्तर्हिताय ८
येभ्यो वा पिता तेभ्यः पुत्रः ९
होमान्तं वा १०
अत्र पितरो मादयध्वं यथाभागं पितर आवृषायध्वमिति ११
उदङ्यर्यावृत्य १२
त्रिरा तमनादासित्वा १३
अमीम-दन्त पितरो यथाभागमवीवृषतेति प्रतिपर्यावृत्य १४
तथैवावनेज्य १५

॥4.5॥ पिण्डपितृयज्ञप्रकरणम्
नमो वः पितरो जीवाय
नमो वः पितरः शोषाय
नमो वः पितरो घोराय
नमो वः पितरो रसाय
नमो वः पितरो बलाय
नमो वः पितरो मृत्यवे
नमो वः पितरो मन्यवे
नमो वः पितरः स्वधायै
नमो वः पितरः पितरो नमो वः
येऽत्र पितरः पितरः स्थ यूयं तेषां श्रेष्ठा भूयास्य । य इह पितरो मनुष्या वयं
तेषां श्रेष्ठा भूयास्म । या अत्र पितरः स्वधा युष्माकं सा । य इह पितर एधतुरस्माकं स । गृहान्नः पितरो दत्तेति १
एतद्वः पितरो वासो वध्वं पितर इति त्रीणि सूत्राण्युपन्यस्य २
ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं परिस्रुतम् स्वधा स्थ तर्पयत नः पितॄनित्युदकशेषं निनीय ३
अवघ्राय पिण्डान् ४
अवधाय प्राश्नीयात् ५
ब्राह्मणाय वा दद्यात् ६
अपो वाभ्यवहरेत् ७
मध्यमपिण्डं पत्नी पुत्रकामा प्राश्नीयात् । आ धत्त पितरो गर्भं कुमारं पुष्करस्रजम् । यथेह पुरुषोऽसत् । इति ८
उल्मुकमग्नौ कृत्वा ९
सकृदाच्छिन्नाननुप्रहृत्य १०
अग्निहोत्रं यवाग्वैव सायंप्रातः ११
स्वयं होमश्च
पर्वणि १२
एतेनैव धर्मेणानाहिताग्नेः पिण्डपितृयज्ञः क्रियेत १३

॥4.6॥ ब्रह्मत्वप्रकरणम्
दक्षिणतोन्यायं ब्रह्मकर्म १
पश्चात्तु पित्र्यायाम् २
यजमाननिमित्तो विपर्ययः ३
अग्रेण यजमानमासनम् ४
समानं होत्रा तृणनिरसनम् ५
तथोपवेशनम् ६
कर्मादौ देशपृथक्त्वे च ७
प्रागग्रता विकारः ८
बृहस्पतिर्ब्रह्मा स यज्ञं पातु स यज्ञपतिं स मां पातु बृहस्पतिर्दैवो ब्रह्माहं मानुषो भूर्भुवः स्वरो३
मित्युपविश्य ९
साक्ष्यं च सर्वकर्मणाम् १०
मन्त्रवत्सु वाग्यमनम् ११
सर्वासु गतिषु यथा व्रजन्त्यन्यथा ततः प्रत्यायन्ति १२
अनुसमेत्यग्नौ प्रणीयमाने १३
सहेध्मेनोपवेशनम् १४
अश्वो ब्रह्मणोऽग्न्याधेये १५
सर्वेषां
वा १६
कर्मप्रसवायामन्त्रित ओमित्युक्त्वा यथाकर्म प्रसौति १७

॥4.7॥ ब्रह्मत्वप्रकरणम्
प्रणीताकाले वाग्यमनम् १
हविष्कृता विसर्गः २
इष्टे च स्विष्टकृत्यानुयाज-प्रसवेन विसर्गः ३
मित्रस्य त्वा चक्षुषा प्रतीक्ष इति प्राशित्रं प्रतीक्ष्य ४
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामीति प्रतिगृह्य ५
पृथिव्यास्त्वा नाभौ सादयाम्यदित्या उपस्थ इति प्राग्दण्डं स्थण्डिले निधाय ६
उपकनिष्ठिकयाङ्गुष्ठेन च प्राशित्रं गृहीत्वा ७
अग्नेष्ट्वास्येन प्राश्नामीति प्राश्यासंखादन् ८
शान्तिरसीत्याचम्य ९
प्राणान्संमृशति १०
प्राणपा असि प्राणं मे पाहीति नासिके मुखं च ११
चक्षुष्पा असि चक्षुर्मे पाहीति चक्षुषी १२
श्रोत्रपा असि श्रोत्रं मे पाहीति श्रोत्रे १३
इन्द्रस्य त्वा जठरे सादयामीति नाभिम् १४
कोऽदात्कस्मा अदात्कामोऽदात्कामायादात् । कामो दाता कामः प्रतिग्रहीता कामैतत्त इत्यन्वाहार्यं प्रतिगृह्य १५
ब्रह्मन्प्रस्थास्यामीत्युक्तः १६
देव सवितरेतं ते यज्ञं प्राहुर्बृहस्पतये ब्रह्मणे तेन यज्ञमव तेन यज्ञपतिं तेन मामव देवेन सवित्रा प्रसूत इति जपित्वॐ प्रतिष्ठेति प्रसौति १७
प्रणीतासु विमुक्तासूत्सर्जनं ब्रह्मणः १८
प्राशनं ब्रह्मभागस्य १९

॥4.8॥ याजमानप्रकरणम्
अदब्धेन त्वा चक्षुषावपश्यामि रायस्पोषाय सुप्रजास्त्वाय सुवीर्यायाग्नेर्जि-
ह्वासि सुहूर्देवेभ्यो धाम्नेधाम्ने मे भव यजुषेयजुष इत्याज्यमवेक्षते पत्नी १
तेजो ऽसि शुक्रमस्यमृतमसि वैश्वदेवमसीत्यासन्नं वेदौ यजमानः २
ध्रुवा असदन्नृतस्य योनौ सुकृतस्य लोके ता विष्णो पाहि पाहि यज्ञं पाहि यज्ञपतिमित्यासन्नानि हवींष्यभिमृश्यं । पाहि मां यज्ञन्यमित्यात्मानम् । वृष्टिरसि पाप्मानं मे वृश्च विद्यासि विद्य मे पाप्मानमित्याचम्य । अग्ने व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । इदमहमनृतात्सत्यमुपैमीत्या-हवनीये समिधमाधाय वाचं यच्छति ३
अग्ने वायो विद्युच्चन्द्रमः सलोकतां वोऽशीयेति ध्यायात् ४
यत्कामो वा स्यात् ५
अनुपदस्यमन्नाद्यमा-
प्नवानीत्याकाशं समुद्रं वा ६

॥4.9॥ याजमानप्रकरणम्
मयीदमिन्द्र इन्द्रियं दधात्वस्मान्रायो मघवानः सचन्ताम्
अस्माकं सन्त्वाशिषः सत्या नः सन्त्वाशिषः
इतीलायामुपहूयमानायाम् १
ब्रध्न पिन्वस्व प्राणं मे पाहि प्रजां मे पाहि पशून्मे
पाहि ब्रह्म मे धुक्ष्व क्षत्रं मे धुक्ष्व विशो मे धुक्ष्व दिशां कॢप्तिरसि दिशो मे कल्पन्तां कल्पन्तां मे दिशस्तासु कॢप्तासु राध्यासम् । अत्र पितरो मादयध्वं यथाभागं पितर आवृषायध्वमिति बर्हिषदं पुरोलाशमभिमृश्य २
अमीमदन्त पितरो यथाभागमवीवृषतेति प्रत्यवधाय ३
प्रजापतेर्भागोऽस्यूर्जस्वान्पयस्वा-नक्षितिरसि मा मे क्षेष्टा अमुत्रा अमुष्मिंल्लोक इह चेत्यन्वाहार्यमभिमृश्य ४
अनुयाजेष्विष्टेषु व्यूहति स्रुचावग्नेरग्नीषोमयोरुज्जितिमनूज्जेषं वाजस्य मा प्रसवेन प्रोहामीत्युत्तानेन दक्षिणेन जुहूं प्राचीमग्निरग्नीषोमौ तमपनुदन्तु यो ऽस्मान्द्वेष्टि यं च वयं द्विष्मो वाजस्यैनं प्रसवेनापोहामीति नीचा सव्येनोपभृतं प्रतीचीम् ५
यथादेवतमन्यत्र ६
अनिष्टे गृहपतौ गार्हपत्ये स्रुवेण जुहोति


॥4.10॥ याजमानप्रकरणम्
यं वां देवा अकल्पयन्नूर्जो भागं शतक्रतू
इदं वां तेन प्रीणामि तस्य तृम्पतमहाहाहुहू स्वाहा
गन्धर्वाभ्यां नारीष्टाभ्यामहाहाहुहूभ्यां स्वाहा
अग्ने पृथिव्या अधिपते वायोऽन्तरिक्षस्याधिपते सवितः प्रसवानामधिपते सूर्य
नक्षत्राणामधिपते सोमौषधीनामधिपते त्वष्टः समिधां रूपाणामधिपते मित्र सत्यानामधिपते वरुण धर्माणामधिपत इन्द्र ज्येष्ठानामधिपते प्रजापते
प्रजानामधिपते देवा देवेषु पराक्रमध्वम् १
प्रथमा द्वितीयेषु पराक्रमध्वमित्ये-वमेकोत्तरमैकादशभ्यः २
विश्वे देवास्त्रयस्त्रंशास्त्रिरेकादशिन उत्तरोत्त-रवर्त्मान उत्तरसत्वानो विश्वे वैश्वानरा विश्वे विश्वमहस इह मावतास्निन्ब्रह्म-ण्यस्मिन्क्षत्रेऽस्मिन्कर्मण्यस्यामाशिष्यस्यां प्रतिष्ठायामस्यां देवहूत्यामयं मे कामः समृध्यतां स्वाहेति यत्कामो भवति ३
प्रजापत इति चतुर्थी ४
१०
॥4.11॥ याजमानप्रकरणम्
आ प्यायतां ध्रुवा हविषा घृतेन यज्ञंयज्ञं प्रति देवयड्भ्यो
सूर्याया ऊधोऽदित्या उपस्थ उरुधारा पृथिवी यज्ञे अस्मिन्
इत्याप्याययति ध्रुवाम् १
समिष्टयजुर्हूयमानमन्वारभते २
सदसि सन्मे भूयाः
सर्वमसि सर्वं मे भूयाः पूर्णमसि पूर्णं मे भूया अक्षितिरसि मा मे क्षेष्ठा अमुत्रा अमुष्मिंल्लोक इह चेति पूर्णपात्रमभिमृश्य दिशो ब्युदुक्षति ३
प्राच्या दिशा सह देवा ऋत्विजो मार्जयन्ताम् । दक्षिण्या दिशा सह मासाः पितरो मार्जयन्ताम् । प्रतीच्या दिशा सह गृहाः पशवो मार्जयन्ताम् । उदीच्या दिशा सहाप ओषधयो वनस्पतयो मार्जयन्ताम् । ऊर्ध्वया दिशा सह यज्ञः संवत्सरो यज्ञपतिर्मार्जयन्तामिति ४
सकृत्सकृन्मन्त्रेण द्विर्द्विस्तूष्णीम् ५
आपोहिष्ठीयाभिस्तिसृभिरभिमृश्य । अच्छायं वो ययोरोजसेति प्राचीर्निनीयो-
दीचीर्वा
समुद्रं वः प्र हिणोमि स्वां योनिमभि गच्छत
अरिष्टा अस्माकं वीरा मा परा सेचि नो धनम्
इत्यभिमन्त्र्य । शंनोदेवीयाभिश्चतसृभिरुरोऽभिमृश्य । समिन्द्र णः सं
वर्चसा पयसा सं तनूभिरगन्महि मनसा सं शिवेन ।
त्वष्टा सुदत्रो वि दधातु राय
इति प्राणान् । अनु नो मार्ष्टु तत्वो यद्विलिष्टम् । इति सुखं विसृज्य ११
॥4.12॥ याजमानप्रकरणम्
विष्णुक्रमान्क्रमते ६
दक्षिणाद्वेदेः श्रोणिदेशादाहवनीयात् १
दिवि विष्णुर्व्यक्रंस्त जागतेन च्छन्दसा तमहमनु व्यक्रंसि ततो निर्भक्तः स योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्यभ्युद्धृत्य दक्षिणं पादं हीनतरं सव्यम् २
अन्तरिक्षे विष्णुर्व्यक्रंस्त तैष्टुभेन च्छन्दसेति द्वितीयम् ३
पृथिव्यां विष्णुर्व्यक्रंस्त गायत्रेण च्छन्दसेति तृतीयम् ४
दिक्षु विष्णुर्व्यक्रंस्तानुष्टुभेन च्छन्दसेति तिर्यग्विक्रामति ५
समान उदर्कः ६
अगन्म स्वरिति प्राङीक्षते ७
सं ज्योतिषाभूमेत्याहवनीयम् ८
समहं प्रजया सं मया प्रजा समहं रायस्पाषेण सं मया रायस्पोषो वसुर्यज्ञो वसीयान्भूयासमिति प्राङेव ९
स्वयंभूरसि श्रेष्ठो रश्मिरायुर्दा अस्यायुर्मे देहि वर्चोदा असि वर्चो मे देहि तनूपा असि तन्वं मे पाहीदमहमाभ्यो दिग्भ्योऽस्यै दिवोऽस्मादन्तरिक्षा-दस्मादन्नाद्यादस्यै प्रतिष्ठायै द्विषन्तं भ्रातृव्यं निर्भजामि निर्भक्तो द्विषन्भ्रातृव्य इत्यादित्यमुपस्याय । ऐन्द्रीमावृतमावर्त आदित्यस्यावृतमन्वावर्त इति दक्षिणं बाहुमन्वावृत्य । मव्यावृदेत्य गार्हपत्यम् । अग्ने गृहपते सुगृहपतिरहं त्वयाग्ने गृहपतिना भृयासं सुगृहपतिस्त्वं मयाग्ने गृहपतिना भूयाः । अस्थूरि नो
गार्हपत्यानि सन्तु
शतं हिमा मह्यममुष्यादिति पुत्रनामान्यभिव्याहृत्य
भूर्भुवः स्वः सं मा कामेन गमयेत्यस्याङ्गारमुपस्पृश्य
यज्ञो बभूव स आ बभूव स प्र जज्ञे स उ वावृधे पुनः
स देवानामधिपतिर्बभूव सोऽस्मानधिपतीन्कृणोतु
इति जपित्वा । तथैवाचम्य । अग्ने व्रतपते व्रतमचारिषं तदशकं तेनारात्सं
य एवास्मि सोऽस्मीत्याहवनीये समिधमाधाय । विसृज्य वाचं १२
यो नो दूरे द्वेष्टि यो नो अन्ति समानो निष्ट्यो अरणश्चिदग्ने । इध्मस्येव प्रख्यायतो मा तस्योच्छेषि किंचन । इत्याहवनीयस्य विक्षामाण्युपसमस्य । गोमाँ अग्न इति तृचं जपति १०
॥4.13॥ याजमानप्रकरणम्
उद्वयं तच्चक्षुः संदृशस्ते मा च्छत्सि यत्ते तपस्तस्मै ते मा वृक्षौत्यादित्यमुपस्थाय । तथैवावृत्य । सव्यावृदुपविश्य ।
इदं हविः प्रजननं मे अस्तु दशवीरं सर्वगणं स्वस्तये
आत्मसनि प्रजासन्यभयसनि पशुसनि लोकसनि
अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त
इति पयोभक्षं प्रजातिकामः १
दधिक्राव्णो अकारिषमिति वा संबुभूषन्द-धिभक्षम् २
सं यज्ञपतिराशिषेति यजमानभागं प्राश्नाति ३
समिष्टयजुषा
सह प्रवसति जुहोति ४
१३
॥4.14॥ आहिताग्निसंस्कारप्रकरणम्
जीवतः कर्माणि १
विसमाप्ते चेदभिप्रेयान्मरणान्तमेकाहेषु नास्ति तस्य समापनम् २
आहवनीये सर्वाणि हवींष्यनुप्रहृत्य ३
संहार्य रोमनखानि प्रेतस्य ४
आप्लुत्यालंकृत्य ५
दक्षिणस्यां दिशि दक्षिणाप्रवणे देशे दक्षिणप्राक्प्रवणे वा ६
अपेत वीतेति पलाशशाखया विमृज्य ७
स्फ्येनोन्मृज्याभ्युक्ष्य ८
प्राग्दक्षिणाचीं चितिं कृत्वा ९
पुरस्तादाहवनीयं पश्चान्निधाय गार्हपत्यं दक्षिणतो दक्षिणाग्निम् १०
अन्तरेण गार्हपत्यं दक्षिणाग्निं च हृत्वा ११
उत्तानं चितौ निपात्य १२
दक्षिणतः पश्चाद्वा गामनुस्तरणीमजां वा रोहिणीं दक्षिणामुखीं प्रोभ्य १३
जीवन्त्याः संज्ञप्राया वा वृक्कौ पृष्ठत उद्धृत्य १४
अन्वाहार्यपचने कवोष्णौ कृत्वाति द्रवेत्यृग्भ्यां पाण्योराधाय १५
प्राणायतनेषु हिरण्यशकलान्कृत्वा १६
अग्नेर्वर्मेति वपया मुखं प्रच्छ्राद्य १७
दक्षिणे पाणौ जुहूम् १८
उपभृतं सव्ये १९
ध्रुवामुरसि २०
अग्निहोत्रहवणीं कण्ठे २१
स्रुवौ नासिकयोः २२
प्राशित्रहरणं दक्षिणे कर्णे २३
प्रणीताप्रणयनं सव्ये २४
शिरसि कपालानि २५
अप्सु ग्रावाणः २६
उदरे समवत्तधानीम् २७
पार्श्वयोः पात्र्यौ २८
स्फ्यं दक्षिणे पार्श्वे २९
कृष्णाजिनं सव्ये ३०
उपस्थे अरणी ३१
ऊर्वोरष्ठीवतोश्चोलू खलमुसले ३२
पादयोः शूर्पशकटे ३३
पत्तोऽग्निहोत्रपा त्राणि ३४
तानि घृतेन पृषदाज्येन च पूरयित्वा ३५
अयं वै त्वत्वमस्मादयं ते योनिस्त्वमस्य योनिः । जातवेदो वहस्वैनं सुकृतां
यत्र लोकः । अयं वै त्वामजनयदयं त्वदधिजायतामसौ स्वाहेत्युपो-
हन्त्यग्निभिः ३६
१४
॥4.15॥ आहिताग्निसंस्कारप्रकरणम्
मैनमग्न इति संप्रदीप्ते दश जपित्वा सव्यावृतोऽनवेक्षमाणाः प्रागुदञ्चः प्रक्रामन्ति १
मृत्योः पदमित्यनुमन्त्रयते द्वाभ्याम् २
आपो हि ष्ठा सना च सोमेत्युदकं स्पृशन्ति सूक्ताभ्यामनमन्निमज्जन्तोऽसंधावमानाः ३
असावेतत्त इत्येकमुदकाञ्जलिं प्रदाय । आपो अस्मानित्युत्क्रम्य । अहतं वासः परिधाय । तच्चक्षुरित्यादित्यमुपस्थाय । कनिष्ठपूर्वाः प्रत्यायन्ति ४
उदपात्रे दूर्वायव-सर्षपाण्योप्यार्द्रे गोमये निधायाश्मन्वतीत्यभ्यक्तमश्मानमग्निमुदपात्रं च संमृशन्ति ५
अधःशय्या हविष्यभक्षता प्रत्यूहनं च कर्मणां वैतानवर्जमेकरात्रं त्रिरात्रं नवरात्रं वाऽवा संचयनाद्व्रतानि ६
नाघाहानि वर्धयेयुरिति ह स्माह कौषीतकिः ७
अपरपक्षे संचित्यायुजासु रात्रिषु । यं त्वमग्न इति द्वाभ्यां सक्षीरेणोदकेनास्थीनि निर्वाप्य । पुराणे कुम्भे शरीरा-ण्योप्य । उत्ते स्तभ्नामीति लोष्टेनापिधाय । उच्छूञ्चस्वेति खाते निखाय । उच्छूञ्चमानेति परिमितेऽवधाय । अरण्ये निखनन्ति ८
शरीरेष्वदृश्यमानेषु त्रीणि षष्टिशतानि पलाशवृन्तानि ९
तेषामावापस्थानम् १०
चत्वारिंशच्छिरसि ११
ग्रीवायां दश १२
अंसान्वंसयोर्बाह्वोः शतम् १३
उरसि त्रिंशत् १४
जठरे विंशतिः १५
षड्वृषणयोः १६
शिश्ने चत्वारि १७
ऊर्वोः शतम् १८
त्रिंशज्जानुजङ्घाष्ठीवतोः १९
पादाङ्गुलीषु विंशतिः २०
एवं त्रीणि षष्टिशतानि भवन्ति २१
पुरुषाकृतिं कृत्वोर्णासूत्रैः परिवेष्ट्य यवचूर्णैः प्रलिप्य सर्पिषाभ्यज्याग्निभिः संस्कुर्वन्ति २२
इच्छन्पत्नीं पूर्वमारिणीमग्निभिः संस्कृत्य
सांतपनेन वान्यामानीय ततः पुनरादधीत २३
१५
॥4.16॥ परिधिकर्मप्रकरणम्
व्रतापवर्गे परिधिकर्म १
आनडुहं रोहितं चर्मोदग्ग्रीवं प्राग्ग्रीवं वोत्तरलोम पश्चादग्नेरुपस्तीर्योपविशन्ति कुशान्वेवमग्रान् २
अन्तरेणाग्निं चैतांश्चाभ्यत्त-मश्मानं निधाय । शम्याः परिधीन्कृत्वा । शमीमयमिध्मं पालाशं वा । वारणेन स्रुवेण कांस्येन वा जुहोति ३
उपस्थकृतः समन्वारब्धेषु ४
इमं जीवेभ्यः परैतु मृत्युरमृतं म आ गाद्वैवस्वतो नो अभयं कृणोतु । पर्णं वनस्पतेरिवाभि नः शीयतां रयिः । प्तचतां नः शचीपतिः ॥ याश्चारुणे दशान्वाधान इति ५
द्वादश हुत्वा । यथाहातीति दक्षिणमन्वंसं द्वाभ्यां समीक्ष्य । अञ्जनं सर्पिषा संनिनीय । कुशैः स्त्रीणामक्षीण्यनक्तीमा नारीरिति । सकृत्सकृन्मन्त्रेण द्विर्द्विस्तूष्णीम् ६
उत्तिष्ठ ब्रह्मणस्पत इति द्वाभ्यां ब्राह्मणस्य दक्षिणं बाहुमन्वारब्धानुत्तिष्ठतोऽनुमन्त्रयते ७
अनडुहो वा पुच्छम् ८
अनड्वानहतं वासः कांस्यश्च दक्षिणा ९
दक्षिणतो वित्तं नि वर्तध्वमिति
सूक्तेन प्रत्येनाः प्रदक्षिणं त्रिः पर्येति १०
प्रत्येनसि परिधिकर्म ११
१६
॥4.17॥ शूलगवप्रकरणम्
रुद्रं गवा यजते स्वस्त्ययनाय १
शूलगव इत्याचक्षते २
शुद्धपक्ष उपोष्य पुण्ये नक्षत्रे प्रागुदीच्यां दिशि ३
अग्निं मथित्वा प्राञ्चं प्रणीय ४
पुरस्तात्पलाशशाखां सपलाशां निखाय ५
तस्या उत्तरतः पशुमुपस्थाप्य ६
रुद्राय त्वा जुष्टमुपाकरोमि ७
रुद्राय त्वा जुष्टं प्रोक्षामि ८
रुद्राय त्वा जुष्टं नियुनज्मीति नियुनक्ति पलाशशाखायाम् ९
पर्यग्निकृतमुदञ्चं नयन्ति १०
तं संज्ञपयन्ति प्राक्शिरसमुदक्पादं प्रत्यक्शिरसं वोदक्पादमरवमाणम् ११
यत्पशुर्मायुमकृतोरो वा पद्भिरा हते
अग्निर्मा तस्मादेनसो जातवेदाः प्र मुञ्चतु
स्वाहेति रवमाणे जुहोति १२
वपामुद्धृत्य प्रक्षाल्य पूर्वेऽग्नौ श्रपयित्वाभि-
घार्योद्वास्य शिवंशिवमिति त्रिः पर्युक्ष्याज्याहुतीर्जुहोति १३
१७
॥4.18॥ शूलगवप्रकरणम्
या तिरश्ची नि पद्यते अहं विधरणी इति
तां घृतस्य धारया युजे समर्धमीमहम्
स्वाहा १
यस्येदं मर्वं तमिमं हवामहे
म मे कामात्कामपतिः प्र यच्छतु
स्वाहेति द्वितीयाम् २
अग्ने पृथिव्या अधिपत इति तृतीयाम् ३
प्रजापत इति
चतुर्थीम् ४
त्रीणि पलाशपलाशानि मध्यमानि संतृड्योपस्तीर्य । वपाम-
वधायाभिघार्य ।
यावतामहमीशे यावन्तो मे अमात्याः
तेभ्यस्त्वा देव वन्दे तेभ्यो नो देव मृल
वेद ते पितरं वेद मातरं द्यौस्ते पिता पृथिवी माता । तस्मै ते देव भवाय
शर्वाय पशुपतय उग्राय देवाय महते देवाय रुद्रायेशानायाशनये स्वाहेति वपां हुत्वा । अनुप्रहरति पलाशानि ५
वपाश्रपण्यौ च ६
दर्शाय ते प्रतिदर्शाय स्वाहेत्युत्तरामाज्याहुतिं हुत्वा तथैव पर्युक्षति ७
पश्चिमेऽग्नौ स्थालीपाकं श्रपयति ८
उत्तरतोऽवदानानि ९
स्थालीपाकं यूषं मांसमाज्यमिति संनिनीय
शंयोः शंयोरिति त्रिः पर्युक्ष्य जुहोति १०
१८
॥4.19॥ शूलगवप्रकरणम्
भवाय स्वाहा शर्वाय स्वाहा रुद्राय स्वाहेशानाय स्वाहाग्नये स्विष्टकृते स्वाहेति १
तथैव पर्युक्ष्य २
तान्येव संनिनीय ३
अग्नौ पश्चिमे ४
भवान्यै स्वाहा शर्वाण्यै स्वाहा रुद्राण्यै स्वाहेशानान्यै स्वाहाग्नाय्यै स्वाहेति ५
समानं पर्युक्षणम् ६
षला विकर्तनात्पलाशानि प्रागुदञ्चि निधाय । तेषु लोहितमिश्रमूवध्यमवधाय । रुद्रसेनाभ्योऽनुदिशति ७
आघोषिण्यः प्रतिघोषिण्यः संघोशिण्यो विचिन्वत्यः श्वसनाः क्रव्याद एष वो भागस्तं
जुषध्वं स्वाहेति ८
यजमानश्चोपतिष्ठते ९
१९
॥4.20॥ शूलगवप्रकरणम्
भूपते भुवपते भुवनपते भूतपते भूतानां पते महतो भूतस्य पते मृल नो द्विपदे च चतुष्पदे च पशवे मृल नश्च द्विपदश्च चतुष्पदश्च पशून्योऽस्मान्द्वेष्टि यं च वयं द्विष्मो दुरापूरोऽसि सच्छायोऽधिनामेन । तस्य ते धनुर्हृदयं मन इषवश्च-
क्षुर्विसर्गस्तं त्वा तथा वेद नमस्ते अस्तु सोमस्त्वावतु मा मा हिंसीः
यावरण्ये पतयतो वृकौ जञ्जभताविव
महादेवस्य पुत्राभ्यां भवशर्वाभ्यां नमः १
कद्रुद्रायेमा रुद्राया ते पितरिमा रुद्राय स्थिरधन्वन इति च सूक्तानि २
वरो
दक्षिणा ३
उपाकरणं प्रोक्षणं पर्यग्निकरणमित्यावृतः पशुबन्धिक्यः ४
पलाशशाखेति देवतायै वपां देवतायै हविः स्विष्टकृते चान्येषां पशूनाम् ५
आग्नेयः सौम्यश्चाज्यभागौ देवतायै वपां देवतायै हविः स्विष्टकृते चाज्या-
हुतिश्चानुमतये स्थालीपाकानाम् ६
२०
॥4.21॥ मधुपर्कप्रकरणम्
षलर्घ्या भवन्त्याचार्य ऋत्विक् श्वशुरो राजा स्नातकः प्रिय इति १
उदङ्मुखः
प्राङ्मुखो वा
अहं वर्ष्म सादृशानां विद्युतामिव सूर्यः
इदं तमधि तिष्ठामि यो अस्माँ अभि दासति
इति कूर्चमध्यास्तेऽधितिष्ठति वा २
विराजो दोहोऽसि विराजो दोहमशीय
मयि पद्यायै विराजो दोह इति पाद्यं प्रतिगृह्य ३
अर्घ्यमित्युक्तोऽपः प्रतिगृह्य ४
आचमनीयमित्युक्त आपोहिष्ठीयाभिस्तिसृभिरेकैकयाचम्य ५
मधुपर्क इत्युक्तो यथा प्राशित्रं तथा प्रतीक्ष्य ६
तथा प्रतिगृह्णाति । यशसे ब्रह्मवर्चसायेति विकारः ७
प्रतिगृह्य सव्ये पाणौ कृत्वाङ्गुष्ठेनोपकनिष्ठिकया च पूर्वार्धादुपहत्य पूर्वार्धे कांस्यस्य निलिम्पति वसवस्त्वाग्निराजानो भक्षयन्त्विति ८
पितरस्त्वा यमराजानो भक्षयन्त्विति दक्षिणार्धाद्दक्षिणार्धे ९
आदित्यास्त्वा वरुणराजानो भक्षयन्त्विति पश्चार्धात्पश्चार्धे १०
रुद्रास्त्वेन्द्रराजानो भक्षयन्त्वित्युत्तरार्धादुत्तरार्धे ११
विश्वे त्वा देवाः प्रजापतिराजानो भक्षयन्त्विति मध्यादूर्ध्वम् १२
सकृत्सकृन्मन्त्रेण द्विर्द्विस्तूष्णीम् १३
महाव्याहृतिभिस्तिसृभिरेकैकया प्राश्य १४
अनुपाय चतुर्थम् १५
ब्राह्मणायोच्छिष्टदानम् १६
सर्वपानं वा १७
अपो वाऽभ्यवहरणम् १८
शंनोदेवीयाभिश्चतसृभिरुरोऽभिमृश्य १९
समानं प्राणसंमर्शनम् २०
मुख-विमार्जनं च २१
आ गोः प्रवदनात्तूष्णीम् २२
गौरित्युक्तः ॐ कुरुत २३
माता रुद्राणामिति जपित्वोमुत्सृजत तृणान्यत्त्विति वा २४
कूर्चः पाद्यम-
र्घ्यमाचमनीयं मधुपर्को गौरिति वेदयेत वेदयेत २५
२१
इति शाङ्खायनश्रौतसूत्रे चतुर्थोऽध्यायः समाप्तः