शाक्राणि(आनोविश्वा)

विकिस्रोतः तः
शाक्राणि वा.
शाक्राणि वा

आ नो विश्वासु हव्यमिन्द्रं समत्सु भूषत ।
उप ब्रह्माणि सवनानि वृत्रहन्परमज्या ऋचीषम ॥ २६९ ॥ ऋ. ८.९०.१







(२६९।१)
शाक्राणि, वा वैयश्वानि वा, आश्वानि वा, शौल्कानि वा. सुम्नानि वा, द्युम्नानि वा,
पृष्ठानि वा, यौक्ताश्वानि वा, सोम सामानि वा, वासिष्ठानि वा, इमानि त्रीणि । त्रयाणां वसिष्ठो बृहतीन्द्रः ।
आनः। एविश्वा ॥ सुहाव्याऽ२म् । आइन्द्रꣳसम । त्सूभूऽ१षाता। ऊऽ२३४पा । होऽ३हाइ । ब्रह्माणिसवना। निवृत्रहान् ॥ परमाऽ२३ज्याः। आर्चाऽ३हाइ ।। षमा । औऽ३होवा । होऽ५इ ॥डा॥
(दी० ३ । प० १५ । मा० ८ ) ७ (णै । ४६३)


(२६९।२)
आनोविश्वासुहाहाव्याम् ॥ इन्द्रꣳसमत्सुभूषतो । पब्राऽ२३ह्मा। णिसवना । निवृत्रहान् ॥ परमाऽ२३ज्याः। आर्चाऽ३हाइ॥ षमा । औऽ३होवा । होऽ५इ ॥ डा॥
(दी० ६ । प० ११ । मा० ५)८ (कु । ४६४ )


(२६९।३)
आनाविश्वासुहाव्याम्॥ इन्द्राम् । समत्सुभूषत । उपाब्राऽ१ह्माऽ२ । णिसवनानिवृत्रहन् ॥ परामाऽ१ज्याऽ२ः ॥ ऋचीषाऽ२३माऽ३४३ । ओऽ२३४इ ॥ डा ॥
( दी० ६ । प० ९ । मा० ५)९ (घु । ४६५)
 



[सम्पाद्यताम्]

टिप्पणी

एषा वैनायकी संहिता..............आ मन्द्रैरिन्द्र हरिभिरा नो विश्वासु हव्यं प्र सेनानीरिति वर्ग्गाः पवित्रन्त इति द्वे एषा स्कन्दस्य सँहितैतां प्रयुञ्जन् स्कन्दं प्रीणाति ॥सामविधानब्रा. १.४.२०

.......तदहश्चूर्णानि कारयेदा नो विश्वासु हव्यमित्येतेन त्रिः सम्पाताꣳश्चूर्णेषु कृत्वा अग्ग्न आयाहि वीतय इति रहस्येनाद्भिः सँयूय तानि नाशुचिः पश्येद्वोपस्पृशेद्वा तदनुलेपनमेतेनानुलिप्तो याँ यामुपस्पृशते सा सैनं कामयते ॥सामविधानब्रा २.६.११

अक्षतानां द्वौ राशी कुर्याद्भावाभावयोरा नो विश्वासु हव्यमित्येतेन व्युष्टायाꣳ रात्रावेतेनैवाभिगीय प्रोक्ष्य ब्रूयादालभस्वेति भावमालभमाने सिद्ध्यति ॥सामविधानब्रा ३.४.९


"https://sa.wikisource.org/w/index.php?title=शाक्राणि(आनोविश्वा)&oldid=299377" इत्यस्माद् प्रतिप्राप्तम्