सामग्री पर जाएँ

शब्दकौस्तुभः/अध्यायः २-पादः २/आह्निकम् २

विकिस्रोतः तः
← आह्निकम् १ शब्दकौस्तुभः
आह्निकम् २
[[लेखकः :|]]

।। द्वितीये पादे द्वितीयमान्हिकम् ।।
(अष्टाoसूo2-2-24)
अनेकमन्यपदार्थे(अष्टाoसूo2-2-24)। अनेकं सुबन्तमन्यस्य पदस्यार्थे वर्तमानं वा समस्यते स बहुव्रीहिः। पदेन प्रकृत्यर्थोपसर्जनः प्रत्ययार्थोऽभिधीयते इति स्थिते त्रिकतः शेषस्योक्ततया अप्रथमाविभक्त्यर्थे बहुव्रीहिरिति फलितम्। त्रिकलः शेषो हि प्रथमा, तदन्यपदार्थश्च कर्मादिरिति। प्राप्तमुदकं यं प्राप्तोदकोग्रामः। उदककर्तृकप्राप्तिकर्मोभूत इत्यर्थः। यद्यपि क्तप्रत्ययार्थस्य कर्तुर्धात्वर्थं प्रति विशेष्यतोचिता तथापि व्यपेक्षावादिभिरगत्वा समासे भिन्नैव व्युत्पत्तिः स्वीकरणीया। सिद्धान्ते तु एकार्थीभावाभ्युपगमात्सर्वं सुस्थमित्युक्तम्। ऊ-1--1.ऊढः रथो येन, उपहृतः यस्मै, उद्धृतमोदनं यस्मात्, चित्रा गावो यस्य, वीराः पुरुषा यस्मिन्निति विग्रहाः।-ढरथोऽनड्वान्। उपहृतपशू रुद्रः। उद्‌धृतौदना स्थाली। चित्रगुः। वरिपुरुषको ग्रामः। प्रथमार्थे तुन भवति-वृष्टे देवे गतः। अनेकोक्तेर्बहूनामपि चित्राजरतीगुः। तन्वीदीर्घाजङ्घः। इह प्रथमो न पुंवत्, उत्तरपदत्वाभावात्। द्वितीयोऽपि न, अ-2--2.पूर्वपदत्वाभावनादित्यर्थः।-पूर्वपदत्वात्। उत्तरपदे नित्यसमासस्य तु नायं विषय इत्युक्तम्। एतच्च केषाञ्चिन्मतम्। परमार्थस्तु षाष्ठभाष्यादिपर्यालोचनया नेह पूर्वपदमाक्षिप्यते। "आनङ् ऋतः"(अष्टाoसूo6-3-25)इत्यत्र यथा। इष्टसिद्ध्यनुरोधेन पूर्वपदं क्वचिदाक्षिप्यते न तु सर्वत्रेति "ओजः सहोम्भः"(अष्टाoसूo6-3-3)इति सूत्रे हरदत्तेनोक्तत्वाच्च। तेनोपान्त्यस्य पुंवदेव-चित्राजरद्‌गुरित्यादि। अत एव चित्राजरत्यौ गावौ यस्येति विग्रहेऽप्येवमेव। अदृष्टसदृशप्रजामिति तु कर्मधारयोत्तरपदो द्वयोरेव बहु-3--3.सदृशा प्रजा सदृशप्रजा, अदृष्टा सदृशप्रजा यस्येति रूपः।-व्रीहिः। अपि च परमस्वधर्मः। स्वशब्दस्य निरपेक्षपूर्वपदत्वाभावात्ततो धर्मशब्दः परो न तु केवलादिति नानिच्। कर्मधारयपूर्वपदे तु भवत्येवेति वक्ष्यते। किञ्च-
सुसूश्र्मजटकेशेन सुनताजिनवाससा।
समन्तशितिरन्ध्रेण द्वयार्वृत्तौ न सिध्यति।।
अयं श्लोकः समर्थसूत्रे भाष्ये पठितः। सुष्ठु सूक्ष्मा जटाः केशा यस्येति चतुर्णां बहुव्रीहौ "ङ्यापोः संज्ञाछन्दसोर्बहुलम्"(अष्टाoसूo6-3-63)इति बहुलवचनमाद्ध्रस्वत्वम्। यद्वा जटावन्तो जटाः, अर्शआद्यच्; जटाः इति वा "तत्करोति"(गoसूo)इति ण्यन्तादेरच्। एवं सुष्ठु नतम् अजिनं वास आच्छादनं यस्य तेन, समन्तानि शितीनि रन्ध्रभ्यः पूर्व-4--4.पूर्वं त्रयाणां कर्नधारयेणपश्चाद्बहुव्रीहौ समासे "बहुव्रीहौ प्रकृत्या पूर्वपदम्" इति पूर्वपदस्य प्रकृतिस्वर "समासस्य" इति सूत्रेण विशिष्टस्यैवान्तोदात्ततया केशवासोरन्ध्रेभ्यः पूर्व एवोदात्तः स्यात्।-उदात्तः स्यात्। इत्यते तुसुसमन्तयोः प्रकृतिस्वर इति भा-5--5.सर्वेषां युगपदेकस्मिन्नेव बहुव्रीहौ समासे तु आद्ययोरुदाहरणयोः सोरन्त्ये समन्तस्य पूर्वदत्वेन तयोरेव स्वर इति भावः। प्रकृतिस्वरः। न च `चित्रगुः' इत्यत्र उत्तरपदस्याप्युपसर्जनसंज्ञार्थमनेकग्रहणमिति वाच्यम्, प्रथमानिर्द्दिष्टत्वं विनाऽपि "एकविभक्ति"(अष्टाoसूo1-2-44)इन्यनेन तत्सिद्धेः, प्रधानस्यान्यपदार्थस्य नानाविभक्तियोगेऽपि वर्तिपदयोर्नित्यं प्रथमान्तत्वात्। न चैवं `राजकुमारीं पश्य' इत्यादावप्यतिप्रसङ्गः, तत्र द्वितीयाद्यन्तेनापि कुमारीशब्देन विग्रहाभ्युपगमात्।
अन्यग्रहणं किम्? बहुव्रीहितत्पुरुषयोर्विषयविभागो यथा विज्ञायेत। स्वपदार्थे हि सावकाशं तत्पुरुषं परत्वादन्यपदार्थे बहुव्रीहिर्बाधते। असति त्वन्यग्रहणे `कण्ठेकालः' इत्यादौ व्यधिकरणपदे बहूनां समुदाये च सावकाशं बहुव्रीहिं स्वपदार्थ इवान्यपदार्थेऽपि `नीलोत्पलं सरः' इत्यादौ समानाधिकरणे तत्पुरुषो बाधेत। पदग्रहणं किम्? ग्राहवती नदी। इह हि `तत्र मा स्नासीत्' इति वाक्यार्थो गम्यते। अर्थग्रहणं किम्? यावता पदे पदान्तरस्य वृत्त्यसम्भवादेव पदार्थे भविष्यति। सत्यम्। कृत्स्ने पदार्थे यथा स्यात्। अन्यथा `चित्रगुः' इति षष्ठ्यर्थसम्बन्धमात्रपरं स्यात्। तथाच देवदत्तादिभिः सामानाधिकरण्यं न स्यात्।
समानाधिकरणानामेव बहुव्रीहिः, त्रिकतः शेषस्योक्तत्वात्। तेनेहन-पञ्चभिर्भुक्तमस्य। `पञ्च भुक्तवन्तोऽस्य' इत्यादौ तु न भवत्यनभिधानात्।
अव्ययानां वाच्यः।। उच्चैर्मुखः। उच्चैर्मुखः। उच्चैःशब्दस्याधिकरणप्रधानत्वाद्वैयधिकरण्याद्वचनमित्याहुः। त्रिकतः शेष इत्युक्तरीत्या प्रथमान्तस्यापेक्षितत्वात्तस्य चेहापि सत्त्वाच्छक्यम कर्तुमिदं वचनम्। अत एव वाक् च दृषच्च प्रिया यस्येति त्रिपदबहुव्रीहौ कृते अवान्तरद्वन्द्वोऽभ्युपगतः।
प्रादिभ्यो धातुजस्य बहुव्रीहिर्वक्तव्यः, वा चोत्तरपदलोपः।। प्रपतितपर्णः प्रपर्णः।
नञोऽस्त्यर्थानां बहुव्रीहिर्वाचोत्तरपदलोपः।। अविद्यमानपुत्रः अपुत्रः।
अस्तिक्षीरादीनामुपसंख्यानमसुबन्तत्वात्।। अव्ययत्वात्सिद्धम्। तथाहि। विभक्तिप्रतिरूपकत्वान्निपातसंज्ञा, निपातोऽव्ययामेत्यव्य यसंज्ञा। इह द्वै। द्रोणौ अर्द्धद्रोणश्च अर्द्धतृतीया द्रोणा इति व्यवह्रियते तत्र अर्द्धः तृतीयो येषामिति बहुव्रीहिः। उद्‌भूतावयवभेदः समुदायः समासार्थ इति बहुववनम्। द्रोणशब्दश्च द्रोणयोरर्द्धद्रोणे च लक्षणया वर्त्तते इति सामानाधिकरण्यम्।
(अष्टाoसूo2-2-25)
संख्ययाऽव्यासन्नादूराधिकसंख्याः संख्येये(अष्टाoसूo2-2-25)। संख्येयार्थया संख्यया अव्ययादयः समस्यन्ते, स बहुव्रीहिः। दशानां समीपे ये वर्तन्ते ते उपदशाः। नव एकादश वेत्यर्थः। सामीप्यप्राधान्ते त्वव्ययीभाव इत्युक्तम्। उपविंशाः। "बहुव्रीहौ संख्येये"(अष्टाoसूo5-4-73)इत डच्। "ति-1--1.`इत्यनेन तिशब्दस्य लोपः' इत्यस्य शेषः।-विंशतेर्डिति"। आसन्नदशाः। अदूरदशाः। अधिकदशाः। द्वौ वा त्रयो वा द्वित्राः। वाऽर्थेऽयं समासः। ततश्च वैकल्पिकौ द्वौ त्रयश्चेति पञ्च अस्माच्छब्दादुपतिष्ठन्ते। अत एव बहुवचनम्। उक्तं च सैषा पञ्चाधिष्ठाना वागिति। कार्यन्वये हि विकल्पो न त्वेतच्छब्दजन्यबोधविषयत्वेऽपीति भावः। त्रित्रिचतुराः। "च-2--2."त्र्युपाभ्यां चतुरोऽजिष्यते" इति कौमुदीपाठः।-तुरोच्प्रकरणे त्र्युपाभ्यामुपसंख्यानम्" इत्यच्। द्विरावृत्ता दश द्विदशाः। अत्र वृत्तौ द्विशब्देन दशत्वावृत्तिगता द्वित्वसंख्योच्यते। ननु द्वित्रा इत्यत्र वार्थः, द्विदशा इत्यत्र सुजर्थश्चान्यपदार्थ इति पूर्वेणैव सिद्धम्। न च मत्वर्थे पूर्वयोगः अमत्वर्थार्थं चेदमिति वाच्यम्, प्राप्तोदकादिषु मत्वर्थं विनापि तत्स्वीकारात्। सत्यम्, अन्यपदार्थप्राधान्ये पूर्वयोगः इह तु वार्थसुजर्थो न प्रधानम्।
(अष्टाoसूo2-2-26)
दिङ्नामान्यतराले(अष्टाoसूo2-2-26)। दिशो नामान्यन्तराले वाच्ये समस्यन्ते स बहुव्रीहिः। दक्षिणस्याः पूर्वस्याश्च दिशोरन्तरालं दक्षिणपूर्वा। "सर्वनाम्नो वृत्तिमात्रे पुंवद्भावो वक्तव्यः" इति भाष्यम्। अत एव "ठक्छसोश्च"(काoवाo)इति वार्तिकस्योक्तिसम्भवः। यद्यपि तत्र छसा साहचर्याद्भवतष्ठगेव गृह्यते इति "न कोपधायाः"(अष्टाoसूo6-3-37)इति सूत्रे कैयटहरदत्ताभ्यामुक्तम्। युक्तं चैतत्। गन्त्र्या चरति धावन्त्या चरतीति प्राग्वहतीये ठकि `गान्त्रिकः' `धावन्तिकः' इति यथा स्याद्' गान्तृकः' `धावत्कः' माभूदिति, तथापि भाष्यं दृष्ट्वा वार्तिककृतोऽप्रवृत्तेः। अत एव हिं "एकतद्धिते च"(अष्टाoसूo6-3-62)इति सूत्रस्याप्युक्तिसम्भवो लभ्यते इति दिक्। भवन्मयः। सर्वकाम्यति। सर्वकभार्यः। सर्वप्रियः "भस्त्रै-4--4."भस्त्रैषाजाज्ञाद्वा" इति सूत्रे `एषा' `द्वा' इत्यनयोः समासघटकत्वेऽपि पूर्वभागत्वेन तदप्रविष्टतया तदकरणेन निर्द्देशात्।-षाद्वा" इति लिङ्गात्। तेनाकचि एकशेषवृत्तौ च न सर्विका, सर्वाः।
न चान्तरालस्यान्यपदार्थत्वात्पूर्वेणैव सि-1--1.अस्य `समसनम्' इत्यादि।-द्धमिति चेत्? न, अप्रथमार्थे तदित्युक्तत्वात्। वैयधिकरण्याच्च "विभाषा दिक्‌समासे"(्ष्टाoसूo1-1-28)इत्यत्र प्रतिपदोक्तस्यास्यैव ग्रहमार्थमपीदम्। तेन या पूर्वा सोत्तरा यस्य मुग्धस्य तस्मै-`उत्तरपूर्वाय' इत्यत्र न वि-2--2.सर्वनामसंज्ञाविकल्पः।-कल्पः।
कबभावार्थं च। तथा हि, "शेषाद्धिभाषा"(अष्टाoसूo5-4-154)इत्यत्र तन्त्रावृत्त्याद्याश्रयणेन एकः शेष उपयुक्तादन्यः, अपरः शेषाधिकारः तेनोत्तरपूर्वादौ न कप्‌, इह शेषग्रहणाननुवृत्तेः। "तत्रतेनेदम्"(अष्टाoसूo2-2-27)इति सूत्रे कैयटेनोक्तं-"शेषाधिकार एव गृह्यते, न तूपयुक्तादन्यः" इति। तत्तु तत्रत्यभाष्यस्योक्तिसम्भवमात्रपरम्।
नामग्रहणं रूढ्यर्थम्। इह मा भूत्-ऐन्द्र्याश्च कौवेर्याश्चान्तरालमिति।
(अष्टाoसूo2-2-27)
तत्र तेनेदमिति सरूपे(अष्टाoसूo2-2-27)सप्तम्यन्ते ग्रहणविषये सरूपे पदे तृतीयान्ते च प्रहरणविषये इदं युद्धमित्यर्थे समस्यते कर्मव्यतिहारे स बहुव्रीहिः। इतिकरणाल्लौकिकविवक्षातात्पर्यकात् ग्रहणप्रहरणकर्मव्यतिहारयुद्धानि लभ्यन्ते। गृह्यतेऽस्मिन्निति ग्रहणं केशादि, प्रहरणं दण्डादि, कर्मव्यतिहारः परस्परग्रहणं परस्परप्रहरणं च। केशेषु केशेषु गृहीत्वा युद्धं प्रवृत्तं केशाकेशि। मुष्टीमुष्टि। दण्डैश्च दण्डैश्च प्रहृत्य युद्धं प्रवृत्तं दण्डादण्डि। "इच् कर्मव्यतिहारे"(अष्टाoसूo5-4-127)इतीच्‌समासान्तः। तदन्तमव्ययं, तिष्ठद्‌गुप्रभृतिष्विच्‌प्रत्ययस्य पाठेन अव्ययीभावत्वात्। "अन्येषामपि दृश्यते"(अष्टाoसूo6-3-137)इति पूर्वपदस्य दीर्घः। अत एव `मुष्टामुष्टि" इति प्रामादिकम्। न च सूत्रे इदं शब्दात् प्राक् आकारः प्रश्लिष्यतामिति वाच्यम्, भाष्यकैयटाद्यसम्मतत्वात् `अस्यसि' इत्यादावतिप्रसङ्गाच्च। परिशिष्टे तु "आच्च गुणिनः" इति सूत्रितम्। गुणोऽस्त्यस्येति गुणी अमीति व्याख्याय `मुष्टामुष्टि' इत्युदाहृतं, तदपाणिनीयम्।
सरूपग्रहणं किम्? हलैश्च मुसलैश्च युद्धम्। इदमपि सूत्रे वैयधिकरण्यार्थं प्रथमाविभक्त्यर्थं एकशषबाधनार्थं च। कबभावार्थं चेति तु भाष्येभ्युच्चयमात्रं, शेषग्रहमस्य प्रागनुक्तपरतायाः पञ्चमेस्पष्टत्वात्।
(अष्टाoसूo2-2-28)
तेन सहेति तुल्ययोगे(अष्टाoसूo2-2-28)। सहेत्येतत्तुल्ययोगे वर्तमानं तृतीयान्तेन सह वा समम्यते स बहुव्रीहिः। सपुत्र आगतः। सह पुत्रः। "वोपसर्जनस्य"(अष्टाoसूo6-3-82)इति सभावः। नन्वत्र पिता प्रधानमन्यपदार्थः। सत्यम्। व्यधिकरणयोः प्रथमार्थे च यथा स्यात, कप् च मा भूदित्येवमर्थं वचनम्। तुल्ययोगेति किम्?
सहेव दशभिः पुत्रैर्भारं वहति गर्दभी।
विद्यमानतावाची सहशब्दः। दशसु पुत्रेषु विद्यमानेष्वित्यर्थः। तुल्ययोगवचनं प्रायिकम्, ज्ञापकात्। यदयं "विभाषा साकाङ्क्षे"(अष्टाoसूo3-2-114)"विभाषा सपूर्वस्य"(अष्टाoसूo4-1-34)इत्यादि निर्दिशति। तेन `स-1--1.विद्यमानतावाची सहशब्दः। एवञ्चात्र कर्मादिसमानाधिकरणः सहशब्द इति तृतीयाया असम्भवेनानेन समासाप्राप्तौ "अनेकमन्यपदार्थे" इति समासः। अत एवात्र कप् सिद्ध इति वोध्यम्।-कर्मकः' `सलोमकः' इत्यादि सिद्धम्।
(अष्टाoसूo2-2-29)
चार्थे द्वन्द्वः। (अष्टाoसूo2-2-29)पागनुक्तसमासमनेकं सुबन्तं चार्थे वर्तमानं वा समस्यते, स द्वन्द्वः। समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चार्थाः।
परस्परनिरपेक्षस्यानेकस्यैकस्मिन्प्रति सम्बन्धिन्यन्वयः समुच्चयः। यथा "अहरहर्नयमानो गामश्वं पुरुषं पशुं वैवस्वतो न तृप्यति सुराया इव दुर्मदः" इति, अत्र नयतिक्रियायामेकस्यां गवादीनां समुच्चयः। गम्यमानत्वात्तु चशब्दस्याप्रयोगः।
यदा तु एकस्य प्राधान्यमितरस्यानुषङ्गिकता तदाऽन्वाचयः। यथा भिक्षामट, गां चानयेति। अत्र हि अदर्शनाद्गामनानयन्निपि भिक्षामटत्येव। अनटस्तु भिक्षां न गामानयति। तथा अटन्निपि नान्विष्य गामानयति।
मिलितानामन्वय इतरेतरयोगः।
समूहः समाहारः। तत्र समुच्चयान्वाचययोर्न समासः, असामर्थ्यात्। एकार्थीभावे हि सति `पुष्पवन्तौ पश्य' इत्यादाविव एकपदोपात्तौ मिलितावेव अन्वियातां, न तु प्रत्येकम्। ध-2--2.इतरेतरयोगे समासः।-वखदिरौ वा-3--3.समूहऋ समासार्थः।-ग्‌दृषदम्।
शेषः किम्? नीलोत्पलम्। इह हि एकस्मिन्धर्मिणि अनेकधर्मसमुच्चयाद् द्वन्द्वः स्यात्। न चेष्टापत्तिः, पटुश्चासौ खञ्जश्चेत्यादावपि द्वन्द्वे सति "द्वन्द्वे घि"(अष्टाoसूo2-2-32)इत्यादिनियमापत्तेः। "विशेषणम्"(अष्टाoसूo2-1-57)इत्यादिना तत्पुरुषे तु काणखञ्जवदनियमः सिद्ध्यति। परं कार्यमिति पाठे चेदम्। एकसंज्ञाधिकारे तु विशेषविहितत्वात्तत्पुरुषसंज्ञैव भवति। सामानाधिकरण्याभावे तु द्वन्द्व एव। यथा प्रमाणप्रमेयेत्यादौ, साधर्म्यवैधर्म्याभ्यामित्यत्र च। न ह्यत्राभेदान्वयो विवक्षितः। यद्यपि सामान्यविशेषयोर्वाचनिको द्वन्द्वनिषेधस्तथाप्यनित्यः स इति त्यदाद्येकशेषसूीत्रे एवोपपादितम्।
अनेकं किम्? होतृपोतृनेष्टोद्गातारः। न ह्यत्र द्वयोर्द्वयोर्द्वन्द्वं कृत्वा पुनर्द्वन्द्वः कर्तुं शक्यः होतृपोत्रोरप्यानङापत्तेः। `वाक्त्वक्‌स्रग्दृषदम्' इत्यादौ त्वगादेरपि टजापत्तेश्च। न चोत्तरपदे नित्यसमासोपसंख्यानात्तथापि तदापत्तिः, सकृत्समुदाये प्रवृत्तस्य द्वन्द्वस्य एकाज्‌द्विर्वचनन्यायेनावयेव पुनरप्रवृत्तेः। उपसंख्यानस्यान्यत्रोपक्षयात्। न चैवं `वाक्त्वचस्रग्दृषदः' `होतापोतानेष्टोद्गातारः' इत्यादि न स्यादेवेति वाच्यम्, द्वयोर्द्वयोरेव सद्दविवक्षया द्वन्द्वे समुदाययोः पुनः सहविवक्षायां तदुपपत्तेः। पूर्वत्राप्यनेकग्रहणफलं दत्तमेव। तस्यमाद्यथायथं समासान्तपुंवद्भावस्वराऽऽनङां प्रवृत्तिरप्रवृत्तिश्चानेकग्रहणफलं स्थितम्।
अनेकस्य चार्थे वृत्तिस्तु जहत्स्वार्थायां वृत्तौ मिलितस्यैव। पक्षान्तरे तु प्रत्येकम्। तदेतदुच्यते "युगपदधिकरमवचने द्वन्द्वः" इति। अधिकरणं वर्तिपदार्थः, तस्य युगपद्वचन इत्यर्थः। अत एव आङ्गश्च वाङ्गश्च कालिङ्गश्चेत्यत्र सहविवक्षायां तेनै-1--1."तद्राजस्य बहुषु तेनैवास्त्रियाम्" इत्यनेनेत्यर्थः।-व वहुष्विति लुकि `अङ्गवङ्गकलिङ्गाः' इति सिध्यतीति लुक्‌प्रकरणे भाष्ये एव स्पष्टम्। यत्त्विहसूत्रे "सेयं युगपदधिकरणवचनता दुःखा च दुरुपपादा च" इति भाष्ये उक्तम्। तस्यायमाशयः-अस्तु जहत्स्वार्थता, तथापि धवौ च खदिरौ चेत्यादिविग्रहोऽसङ्गतः, प्रक्रियादशायामपि प्रथम्रपृत्तस्यैकवचनस्य त्यागायोगात्। अन्यथा षष्ठीतत्पुरुषादेरपि प्रथमयैव राजा चासौ पुरुषश्चेत्यादिविग्रहापत्तिः। "तत्पुरुषे तुल्यार्थ"(अष्टाoसूo6-2-2)इत्यादीनां निर्विषयतापत्तिश्च।
स्यादेतत्। भूतपूर्वगत्या त-2--2."तत्पुरुषे" इत्यादीनां निर्वाहः।-न्निर्वाहः, उत्तरपदार्थप्राधान्यादिवत्। अलुक्‌समासे तु "षष्ठ्या आक्रोशे"(अष्टाoसूo6-3-21)इत्याद्य नुवादसामर्थ्यादेव निमित्ता पायन्यायो नाश्रयिष्यते। मैवम्, ज्ञापकस्य सामान्यविषयतायां लाघवेन द्वन्द्वावयवेष्वपि द्विवचनाद्यलाभात् निमित्तापायन्यायस्यानित्यत्वाच्च। न चैवं तद्रा-1--1.`अङ्गवङ्गकलिङ्गाः' इत्यत्र।-जलुगसिद्धिः। `तेनैव' इति सौत्रमंमशं `बहुवचने परे' इति व्याख्यां च प्रत्याख्याय बहुषु वर्तमानस्येत्यर्थस्य स्थापयिष्यमाणत्वात्। अत एव जहत्स्वार्थायामपि लुक् सिध्यति। सम्प्रति प्रतीयमानं यद्बहुत्वं तदाश्रयस्य तद्राजेन प्रगभिधानात् भूतपूर्वगतेश्च त्वयापि वाच्यत्वात्। न हि तद्धितवृत्तौ एकशेषवृत्तौ च तद्राजोऽर्थवान्। तद्राजात्तद्राजद्वन्द्वे तु वैकल्पिको लुगिति वक्ष्यते। एवं स्थिते द्वन्द्वैकशेषयोरलौकिकवाक्येऽपि द्विवचनादि दुर्लभम्। लौकिके विग्रहे तु दूरापास्तं तदिति दुःखेत्यनेनोक्तम्। एतेन राजा चासौ पूरुषश्चेत्येव विगृह्णन्तो मीमांसकाः परास्ता इति दिक्।
इह `एकविंशतिः' `द्वाविंशतिः' इत्यादौ "राजन्यबहुवचनद्वन्द्वेन्धकवृष्णिषु"(अष्टाoसूo6-2-34)"संख्या"(अष्टाoसूo6-2-35)इति पूर्वपदप्रकृतिस्वर इष्टस्तस्मात् द्वन्द्व एवायम्। स च समाहारे। नेतरेतरयोगे, अनभिधानात्। पुंस्त्वन्तु लोकात्। यदा त्वेकाधिका विंशतिरिति शाकपार्थिवादिसमासः क्रियते, तदा समासान्तोदात्तत्वमपीष्यते इति पाञ्चमिकभाष्ये "बहुव्रीहौ संख्येये डच्"(अष्टाoसूo5-4-73)इत्यत्र स्थितम्।।
(अष्टाoसूo2-2-30)
उपसर्जनं पूर्वम्(अष्टाoसूo2-2-30)।। समासे उपसर्जनं पूर्वं प्रयोज्यम्। कृष्णश्रितः।
(अष्टाoसूo2-2-31)
राजदन्तादिषु परम्(अष्टाoसूo2-2-31)। एषु पूर्वप्रयोगार्हं परं स्यात्। दन्तानां राजा राजदन्तः। वनस्याग्रे अग्रेवणम्। "वनम्पुरगा"(अष्टाoसूo8-4-4)इत्यादिना णत्वम्। इहैव गणे निपातनादलुक्। एवञ्चालुगिव णत्वमप्यस्तु। तथा च तत्र सूत्रे अग्रेग्रहणं शक्यमकर्तुम्। आकृतिगणोऽयम्। धर्मादिष्वनियम इष्यते। अर्थधर्मौ, धर्मार्थावित्यादि। गणमध्य एव जम्पतीदम्पतीजायापतीति पाठात् जायाशब्दस्य जम्भावो दम्भावश्च वा निपात्यते।
(अष्टाoसूo2-2-32)
द्वन्द्वे घि(अष्टाoसूo2-2-32)। द्वन्द्वे घ्यन्तं प्राक् स्यात्। हरिहरौ। अनेकप्राप्तावेकत्र नियमोऽनियमः शेषे(काoवाo)। हरिगुरुहराः। हरिहरगुरवः। हरश्च हरिगूरु चेति विग्रहे तु हरस्य पूर्वनिपातः, अल्पाच्‌तरत्वात्।
(अष्टाoसूo2-2-33)
अजाद्यदन्तम्(अष्टाoसूo2-2-33)। इदं द्वन्द्वे पूर्वं स्यात्। बहुष्वनियम-। अश्वरथेन्द्राः, इन्द्राश्वरथाः। घ्यन्तादजाद्यदन्तं विप्रतिषेधेन(काoवाo)इन्द्राग्नी।
(अष्टाoसूo2-2-34)
अल्पाच्‌तरम्(अष्टाoसूo2-2-34)। अत एव निपातनात्स्वार्थे तरप् कुत्वचुत्वयोरभावश्च। द्वन्द्वे अल्पाच् पूर्वं स्यात्। धवखदिरौ। कथं तर्हि प्रासादे धनपतिरामकेशवानामिति। धनपतेश्च रामकेशवयोश्चेति विग्रहः। पूर्वाभ्यामल्पाच्तरं विप्रतिषेधेन(भाoइo)। वागग्नी, वागिन्द्रौ। एवमग्रेऽपि। कथं तर्हिं "अधीतिबोधाचरणप्रचारणैः"(नैoकाo)इति। अधीत्या च बोधादिभिश्चेति विग्रहे भविष्यति। यद्वा, अनित्यमिदं प्रकरणं "लक्षणहेत्वोः क्रियायाः"(अष्टाoसूo3-2-126)"समुद्राभ्राद्‌ घः"(अष्टाoसूo4-4-128)इत्यादिनिर्द्देशात्। तेन "स सौष्ठवौदार्यविशेषशालिनीम्"(किoकाo)"लोचनाधरकृताहृतरागा" इत्यादि सिद्धम्। ऋतुनक्षत्राणां समाक्षराणामानुपूर्व्येण निपातो वक्तव्यः(काoवाo)। हेमन्तशिशिरवसन्ताः। कृत्तिकारोहिण्यौ। समाक्षराणां किम्? ग्रीष्मवसन्तौ। लघ्वक्षरं पूर्वम्(काoवाo)। कुशकाशम्। अभ्यर्हितञ्च। मातापितरौ। "वासुदेवार्जुनाभ्यां वुन्"(अष्टाoसूo4-3-98)इति निर्द्देशेनेदं ज्ञाप्यते इतिचतुर्थे भाष्यम्। वर्णानामानुपूर्व्येण(काoवाo)। ब्राह्मणक्षत्रियविट्‌शूद्राः। भ्रातुश्च ज्यायसः(काoवाo)। युधिष्ठिरार्जुनौ। संख्याया अल्पीयस्याः(काoवाo)। एतच्च द्वन्द्वाद्वन्द्वविषयकम्। द्वित्राः। द्वाविंशतिः। "द्व्येकयोः"(अष्टाoसूo1-4-22)इति तु सौत्रो निर्द्देशः।
(अष्टाoसूo2-2-35)
सप्तमीविशेषणे बहुव्रीहौ(अष्टाoसूo2-2-35)। सप्तम्यन्तं विशेषणं च बहुव्रीहौ पूर्वं प्रयोक्तव्यम्। कण्ठेकालः। यदा कण्ठे किञ्चिदस्तीति निर्ज्ञाते काल इति विशेषणं तदेदं बोध्यम्। अन्यदा तु सप्तमीग्रहणं विनापि विशेषणत्वादेव सिद्धम्। सर्वनामसंख्यायोरुपसंख्यानम्(काoवाo)। सर्वश्वेतः। द्विशुक्लः। कथं तर्हि तः परो यस्मात्सतपर इति, कथं च जहत्स्वार्थेति? इति हि जहत् स्वं पदं यं स जहत्स्वः, सोऽर्थो यत्रेति बहुव्रीहिगर्भो बहुव्रीहिः। तथाच स्वपरशब्दयोः सर्वनामत्वात्पूर्वनिपातः स्यात्। सत्यम्, सूत्रभाष्यादिप्रयोगाद्राजदन्तत्वं बोध्यम्। मिथोऽनयोः समासे तु संख्यापूर्वं शब्दपरविप्रतिषेधात्। एतदर्थमेव हि संख्यासर्वनाम्नोरिति नोक्तम्। द्व्यन्यः। त्र्यन्यः। वा-1--1.कौमुद्यां `वा प्रियस्य' इत्येव पाठः।-प्रियस्य पूर्वत्वम्(काoवाo)। गुडप्रियः, प्रियगुडः। गड्‌वादेः परा सप्तमीष्टा(काoवाo)। गडुकण्ठः। क्वचिन्न-वहेगहुः। आकृतिगणोऽयम्।
(अष्टाoसूo2-2-36)
निष्ठा(अष्टाoसूo2-2-36)। निष्ठान्तं बहुव्रीहौ पूर्वं स्यात्। कृतकृत्वः। जातिकालसुखादिभ्यः परा निष्ठा बोध्या। "जातिकालसुखादिभ्योऽनाच्छादनात्"(अष्टाoसूo6-2-170)इति ज्ञापकात्। सारङ्गो जग्धोऽनया सारङ्गजग्धी। "क्तादल्पाखअयायाम्"(अष्टाoसूo4-1-51)इत्यनुवर्तमाने "अस्वाङ्गपूर्वपदाद्वा"(अष्टाoसूo4-1-53)इति ङीप्। भासजाता। सुखजाता। कथं तर्हि कृतकटः, पीतोदकः? गड्वादेरितिवत्प्राप्तबाधमात्रे तात्पर्यमिति वृत्तिकारः। कथं `चारुस्मितम्' इति? "नपुंसकेभावे क्तः"(अष्टाoसूo3-3-114)इत्यस्य न पूर्वनिपातः, निष्ठाशब्दोपादानेन विहितस्यैवेह ग्रहणादित्याहुः।
(अष्टाoसूo2-2-37)
वाहिताग्न्यादिषु(अष्टाoसूo2-2-37)। एषु निष्ठान्तं वा पूर्वं स्यात्। आहिताग्निः। अग्न्याहितः। आकृतिगणोऽयम्। प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ वक्तव्ये(काoवाo)अस्युद्यतः। दण्डपाणिः। इहापि प्राप्तबाधमात्रं बोध्यम्। विवृतासिः।
(अष्टाoसूo2-2-38)
कडाराः कर्मधारये(अष्टाoसूo2-2-38)। कडारादयः शब्दाः कर्मधारये पूर्वं प्रयोज्याः। कडारजैमिनिः, जैमिनिकडारः। कडार, गडुल, काण, खञ्ज, कण्ड, खोड, खलति, गौर, वृक्ष, भिक्षुक, पिङ्ग, पिङ्गलतनु, जठर, बधिर, मठर, कुञ्ज, बर्बर। कर्मधारये किम्? कडारपुरुषको ग्रामः।
।। इति श्रीशब्दकौस्तुभे द्वितीयाध्यायस्य द्वितीये पादे द्वितीयमान्हिकम्। पादश्चायं समाप्तः ।।