सामग्री पर जाएँ

शब्दकौस्तुभः/अध्यायः २-पादः २/आह्निकम् १

विकिस्रोतः तः
शब्दकौस्तुभः
आह्निकम् १
[[लेखकः :|]]
आह्निकम् २ →

।।द्वितीयेपादे प्रथममान्हिकम्।।
(अष्टाoसूo2-2-1)
पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे(अष्टाoसूo2-2-1)। अवयविना सह पूर्वादयः समस्यन्ते स तत्पुरुषः, एकत्वसंख्याविशिष्टश्चेदवयवी भवति। पूर्वं कायस्येति पूर्वकायः। अपरकायः, इत्यादि। षष्ठीसमासापवादोऽयम्। तथाच `कायपूर्वः' इति प्रयोगोऽनेन व्यावर्त्यते। `पूर्वकायः' इति प्रयोगस्तु पूर्वश्चासौ कायश्चेति कर्मधारयेणापि सिद्धः। समुदायेषु हि वृत्ताः शब्दा अवयवेऽपि वर्तन्ते इति न्यायात्, ऊर्ध्वकाय इतिवत्। ननु षष्ठीसमासव्यावृत्तयेऽपि सूत्रं न कार्यं, षष्ठ्या एवेह दुर्लभत्वात्। पञ्चम्या हीह भाव्यम्, दिशि दृष्टः शब्दो दिक्‌शब्द इति व्याख्यानेन सम्प्रत्यदिग्‌वृत्तिनाऽपि योगे पञ्चमीस्वीकारात्? सत्यम्। अवयववृत्तिभिर्योगे षष्ठ्येवेष्यते "तस्य परमाम्रेडितम्"(अष्टाoसूo8-1-2)इति लिङ्गात्। एकदेशिशब्दोऽयमवयेव रूढः। अत एव ततो मत्वर्थीयः `कृष्णसर्पवान्वल्मीकः' इति यथा। यद्यपीह "एकगोपूर्वात्"(अष्टाoसूo5-2-118)इति टञ् प्राप्तस्तथाप्यत एव निर्देशादिनिर्बोद्धव्यः। एकदेशवाचिनि तु एकदेशीयशब्द एव, बहुव्रीहिलभ्येऽर्थे मतुबादयो नेत्युक्त्वात्। एकदेशिना किम्? पूर्वं नाभेः कायस्य। नाभेः पूर्वो भागः स कायस्य सम्बन्धीत्यर्थः। नाभेरिति दिग्योगलक्षणपञ्चमी। अत्र पूर्वस्य भागस्य नाभिरवधिर्न त्वेकदेशी, अतो न नाभ्या समासः। कायेन तु स्यादेव पूर्वकायो नाभेरिति, पूर्वशब्दस्य नित्यसापेक्षत्वात्। एकाधिकरणे किम्? पूर्वं छात्राणामामन्त्रयस्व नेयं निर्धारणे षष्ठी, किन्तु समुदायसमुदायिसम्बन्धे। बहुवचनं तूद्‌भूतावयवभेदसमुदायविवक्षया यथा 'छात्राणां पञ्चमः' इति। ततश्च छात्राणामेकदेशित्वमस्त्येव, किन्त्वेकत्वसंख्यावैशिष्ट्यं नास्तीति समासाभावः। कथन्तार्हि `मध्याह्नः' इति? अत्राहुः-सर्वस्यैकदेशवाचिनोऽह्ना समासः, संख्याविसाय"(अष्टाoसूo6-3-110)इति ज्ञापकात्। नह्यन्यथा सायपूर्वत्वमह्नस्योपपद्यते। केचित्तु नेदं विशेषापेक्षं ज्ञापकमह्नेति, किन्तु सामान्यापेक्षम्। सर्व एकदेशवाची कालेन समस्यते इति ज्ञाप्यशरीरम्। तेन `मध्यरात्रः' `उपारताः पश्चिमरात्रगोचराः' इत्यादि सिद्धम्। न चोर्ध्वकायवत्सामानाधिकरण्येन सायाह्नमध्यरात्रादेर्निर्वाहः शङ्क्यः, "अहःसर्वैकदेश"(अष्टाoसूo5-4-87)इत्यादिना विहितस्याचः "अहःसर्वैकदेश"(अष्टाoसूo5-4-88)इत्यह्नादेशस्य चैकदेशिसमासं विनाऽनुपपत्तेः। कथन्तर्हि `दिनमध्यः' `रात्रिमध्यः' इति ज्ञापकसिद्धं न सर्वत्रेत्यदोषः।
(अष्टाoसूo2-2-2)
अर्धं नपुंसकम्(अष्टाoसूo2-2-2)। नित्यक्लीबोऽर्धशब्द एकद्रव्ये विद्यमानेनावयविवाचिना सह प्राग्वत्।
भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंऽशके।(अoकोo1-3-16)तत्र शकलखण्डे इति नपुंसकत्वस्य रूपभेदान्निर्णये पूंस्त्वविकल्पादस्त्रियामिति फलितम्। न च स्त्रीलिङ्गरूपमेव किन्न स्यादिति वाच्यम्, भिन्नलिङ्गानां न द्वन्द्व इति तेन परिभाषितत्वात्। शकलश्चास्त्रीति निर्देशेनैव निर्णयात्। `अर्धः' इत्यत्र तु रूपभेदात्पुंस्त्वावगतौ सत्यां वापुंसीति तद्विकल्पेनाविशेषात्स्त्रीनपुंसके लभ्येते। तथा चार्धशब्दस्त्रिष्विति फलितोऽर्थेः। समेंऽशके तु अर्धं नित्यनपुंसकमित्यर्थः। अर्धं पिप्पल्याः अर्धपिप्पली। "एकविभक्तावषष्ठ्यन्तवचनम्"(काoवाo)इति पिप्पलीशब्दस्यानुपसर्जनत्वान्न ह्रस्वः। एकाधिकरणे किम्? अर्धं पिप्पलीनाम्। कथं तर्ह्यर्धपिप्पल इति? अर्धआनि पिप्पलीनामिति विग्रहे मा भूत्। खण्डसमुच्चये तु भविष्यति, अर्धपिप्पली च अर्धपिप्पली चेत्यादि विग्रहात्। एकदेशिनेति किम्? अर्धं पशोर्देवदत्तस्य। देवदत्तोऽत्र स्वामी न त्ववयवीति न तेन समासः। पशुना तु स्यादेवअर्धपशुर्देवदत्तस्येति। देवदत्तस्वामिकं पशोरर्धमित्यर्थः। नपुंसकं किम्? ग्रामार्धः। नगरार्धः। अर्धमिति निर्देशादेव सिद्धे नपुंसकग्रहणं सूत्रे लिङ्गनिर्देशो न विवक्षित इति ज्ञापयितुम्। तेन "तस्येदम्"(अष्टाoसूo4-3-120)इति लिङ्गत्रयेऽपि भवति। एतत्सूत्रं "
परवल्लिङ्गम्"(अष्टाoसूo2-4-26)इत्यत्र भाष्ये प्रत्याख्यातम्। तथाहि, `अर्धपिप्पली' इति कर्मधारयेण सिद्धम्, समुदाये दृष्टाः शब्दा अवयवेऽपि वर्त्तन्ते इति न्यायात्। समप्रविभागादन्यत्र हि तवाप्येषैव गतिः। अर्धाहारः, अर्धहारः, अर्धजरतीयम्, अर्धवैशसम्, अर्धोक्तम्, अर्धविलोकितम्, इत्यादिदर्शनात्। न च समप्रविभागे षष्ठीसमासं बाधितुमिदं सूत्रमिति वाच्यम्, षष्ठीसमासस्यापीष्टत्वादिति। तथाच कालिदासः प्रायुङ्क्त-"प्रेम्णा शरीरार्धहरां हरस्य' इति।
(अष्टाoसूo2-2-3)
द्बितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम्(अष्टाoसूo2-2-3)। एतानि एकदेशिना सह वा प्राग्वत्स्युरेकं चेद् द्रव्यम्। द्वितीयं भिक्षायाः द्वितीयभिक्षा, भिक्षाद्बितीयम्। तृतीयभिक्षा। `भिक्षातृतीयम्' इत्यादि। एकदेशिना किम्? द्वितीयं भिक्षाया भिक्षुकस्य। एकाधिकरणे किम्? द्वितीयं भिक्षाणाम्।
स्यादेतत् पूर्वनसूत्रवदिदमपि प्रत्याख्यातम्। तथाहि, समुदायशब्दस्यावयवे वृत्तौ कर्मधारयेण `द्वितीयभिक्षा' इत्यादि सिद्धम्। `भिक्षाद्वितीयम्' इत्यादि तु षष्ठीसमासेन सिद्धम्। मैवम्, "पूरण"(अष्टाoसूo2-2-11)इतिषष्ठीसमासनिषेधात्। सिद्धान्ते त्वस्मिन् सूत्रेऽन्यतरस्यांग्रहणसामर्थ्यात्पक्षे षष्ठीसमासो लभ्यते, वाक्यस्य महाविभाषयैव सिद्धेः। नन्वेतत्सूत्रं विनापि पूरणाद्भागे"(अष्टाoसूo5-3-48)इति स्वार्थेऽन्‌प्रत्ययं कृत्वा तदन्तेन षष्ठीसमासं करिष्याम इति चेत्? न, तत्रापि प्रतिषेधसाम्यात्। "पूरण"(अष्टाoसूo2-2-11)इत्यत्र हि अर्थग्रहणं न तु पूरणाधिकारविहितप्रत्ययग्रहणम्, अर्थशब्दस्य प्रत्येकमभिसम्बन्धात्। स्वार्थितम्। अत एव 'तान्युञ्च्छषष्ठाङ्कितसैकतानि"(रoवo5-8)इत्यत्र समासः प्रामादिक इत्याहुः। वस्तुतस्तु "परवल्लिङ्गम्"(अष्टाoसूo2-4-26)इतिसूत्रे तत्पुरुषग्रहणं "द्विगुप्राप्त" इत्यादि वार्त्तिकं "पूर्वापर"(अष्टाoसूo3-1-58)इत्यादित्रिसूत्री च भाष्ये प्रत्याख्याता। तथाच भिक्षाद्वितीयादिसिद्धये संज्ञाप्रमाणत्वादिनिर्देशानां सामान्यापेक्षज्ञापकताश्रयणीया "पूरण"(अष्टाoसूo2-2-11)इत्यादिनिषेधोऽनित्य इति। एवञ्चोच्छषष्ठेत्यपि साध्विति दिक्। तुरीयस्यापीष्यते इति वृत्तिकाराः। एतच्च भाष्यादौ नास्ति।
(अष्टाoसूo2-2-4)
प्राप्तापन्ने च द्वितीया(अष्टाoसूo2-2-4)। एतौ द्वितीयान्तेन सहप्राग्वत्। पक्षे "द्वितीयाश्रित"(अष्टाoसूo2-2-24)इतिसमासः। प्राप्तो जीविकां प्राप्तजीविकः। जीविकाप्राप्त इति वा। आपन्नजीविकः। जीविकापन्नः। यद्यपि प्राप्ता जीविका येनेति कृत्वा कर्मणि क्तान्तेन बहुव्रीहौ `प्राप्तजीविकः' इत्यादि सिध्यति, तथापि समासान्तोदात्तार्थं वचनं `प्राप्तसुखः' इत्याद्यर्थञ्च। इह हि बहुव्रीहौ "जातिकालसुखादिभ्यः"(काoवाo)इति निष्ठायाः परनिपातः स्यात्। लिङ्गविशिष्टपरिभाषया प्राप्तशब्दस्याप्ययं समासः। प्राप्ता जीविका प्राप्तजीविकेति। ननु "एकविभक्ति"(अष्टाoसूo1-2-24)इत्युपसर्जनतया जीविकाशब्दस्य ह्रस्वोऽस्तु नाम, प्राप्ताशब्दस्य तु कुतः सः? अत्र भाष्यम्, "अच" इति पूर्वपदस्याकारोऽपि सूत्रेऽस्मिन्विधीयते, चकारेण समुच्चयार्थेनाकारप्रश्लोषस्यानुमानादिति। प्राप्तापन्ने समस्येते, अ च, अत्वं च भवति प्राप्तापन्नयोः। सौत्रत्वाच्च प्रकृतिभावो नेति भाव इति प्राञ्चः। वस्तुतस्तु द्वितीयेत्यस्यानन्तरमकारप्रश्लेषो बोध्यः। एवं हि प्रकृतिभावप्रसङ्ग एव नास्तीति बोध्यम्।
(अष्टाoसूo2-2-5)
कालाः परिमाणिना(अष्टाoसूo2-2-5)। परिमीयते परिच्छिद्यते येन तत्परिमाणं तद्वान्परिमाणी। परिच्छेद्यवाचिना सुबन्तेन सह कालाः समस्यन्ते स तत्पुरुषः। मासो जातस्य यस्य स मासजातः। ननु जातो देवदत्तः तस्य च दिष्ट्यादि परिच्छेदकं न तु कालः, तस्य क्रियामात्रपरिच्छेदकत्वादिति चेत्? सत्यम्, साक्षात्क्रियां परिच्छिन्दन्नपि कालस्तद्‌द्वारा देवदत्तं परिच्छिनत्ति। यस्य हि जननादूर्ध्वं मासो गतः स मासजात इति व्यवह्रियते। तत्र व्यवहारकालजननक्षणयोरन्तरालभावी मासो जननद्वारा जातमपि परिच्छिनत्त्येव। विग्रहे षष्ठीनिर्द्दिष्टस्यापि वृत्तौ प्राधान्यमिह बोध्यम्। `दण्डी चित्रगुः' इत्यादाविव विशेषणविसेष्यभावव्यत्यासेनैव एकार्थीभावाभ्युपगमात्। तथाच हरिणा-
क्वचिद् गुणप्रधानत्वमर्थानामविवक्षितम्।
इत्युपक्रम्य-
आख्यातं तद्धितार्थस्य यत्किञ्चिदुपदर्शकम्।
गुणप्रधानभावस्य तत्र दृष्टो विपयर्यः।।
इति वदता आक्षिकवैयाकरणाद्युदाहरणानि स्पष्टीकृतानि। तथाच `मासजातः' इत्यस्य मासप्राग्भाविजननाश्रय इत्यर्थः। अथ एव मास जातो दृश्यतामित्यादिक्रियायोगो जातस्यैव भवति न तु अर्धपिप्पल्यादाविव पूर्वपदार्थस्य। द्व्यहजातः। द्वयोरह्नोः समाहारः। "राजाहः सखिभ्यष्टच्"(अष्टाoसूo5-4-91)। "न संख्यादेः समाहारे"(अष्टाoसूo5-4-89)इत्यह्नादेशप्रतिषेधः। कथन्तर्हि `द्व्यह्नजातः' इति? उच्यते, नायं समाहारे द्विगुः किन्तूत्तरपदे द्वे अहनी जातस्य यस्येति त्रिपदतत्पुरुषाभ्युपगमात्। ननु सुप्‌सुपेत्येकत्वस्य विवक्षितत्वात्कथमेतिदिति चेत्? वचनादित्यवेहि। उक्तं हि वार्त्तिककृता-"उत्तरपदेन परिमाणिना द्विगोः समासवचनम्" इति। अस्यार्थः-परिमाणिवचनेनोत्तरपदेन द्विगोः सिद्धये समासो वक्तव्यः। अर्थाद् द्वयोर्युगपदिति गम्यते। तथाच वचनाद्बहूनामप्ययं तत्पुरुषो भवति। एवं द्वौ मासौ जातस्य पूर्वयोस्तत्पुरुषे सति "कालान्ते द्विगौ"(अष्टाoसूo5-1-86)इति पूर्वपदप्रकृतिस्वरो भवति। द्वयोर्मासयोः समाहारो द्विमासम्। पात्रादिः। द्विमासं जातस्येति तु विगृह्य समासे क्रियमाणे सतिशिष्टत्वात्समासान्तोदात्तत्वं स्यात्।
स्यादेतत्। यावद्वचनं वाचनिकामेति परिमामिमात्रेण त्रिपदतत्पुरुषः, अन्यत्र तु द्विपदं एवेति स्थितम्। तथाच "कथं त्रिलोकनाथेन सतां मखद्विषः" इति कालिदासः। "तवरसरुचिरम्" इति च काव्यप्रकाशकारः? इह हि त्रिलोकनवरसशब्दयोर्न तावद् "विशेषणं विशेष्येण"(अष्टाoसूo2-1-87)इति समासः। "दिक्‌संख्ये संज्ञायाम्"(अष्टाoसूo2-1-50)इति नियमात्। नापि समाहारे द्विगुः "द्विगोः"(अष्टाoसूo4-1-21)इति ङीप्‌प्रसङ्गात्। न च पात्रादित्वं कल्प्यम् `त्रिलोकी' इति प्रयोगस्यासाधुतापत्तेः। तथा च परिशेषात्त्रिपदत्वपक्ष एवावशिष्यते। द्विमासजातः। त्रिपदे तत्पुरुषे जातशब्दे उत्तरपदे परतः स चोक्तरीत्या दुष्ट एवेति। अत्रोच्यते, लोकशब्दोऽत्र समुदायपरः। तथा च त्र्यवयवो लोक इति मध्यमपदलोपी तत्पुरुषः। इदञ्च, "द्विगोर्लुगनपत्ये"(अष्टाoसूo4-1-88)इत्यत्र भाष्ये एव स्पष्टम्। त्रयाणां लोकनाथ इति वा। नवरसा चासौ रुचिरेति बहुव्रीहिगर्भः कर्मधारयोऽपि सुवचः।
प्रकृतमनुसरामः। `राजपुरुषः' इत्यादौ यद्यप्यभेदैकत्वसंख्या भासते तथापि मासजाते न तथा किन्तु शूर्पेण क्रीतः शौर्पिक इत्यत्र शूर्पस्येव मासस्य मुख्यमेवैकत्वम्। अक्तपरिमामस्य वाचके तथैव व्युत्पत्तेरिति ध्येयम्।
(अष्टाoसूo2-2-6)
नञ्(अष्टाoसूo2-2-6)। नञ् सुपा सह प्राग्वत्। अब्राह्मणः। अवृषलः। उत्तरपदार्थप्रधानोऽयम्। तथाहि आरोपितत्वं नञा द्योत्यते। तच्चोत्तरपदप्रवृत्तिनिष्ठम्। तथा चारोपितं यद् ब्राह्मणत्वं तद्विशिष्टे समासः शक्तः। विशेषणविशेष्ययोः संसर्गस्त्वारोप एव। तेन ब्राह्मणाभिन्नत्वबोध आर्थः। अत एवानुपसर्जनत्वादतस्मिन्नित्यादिसर्वनामकार्यनिर्वाहः।
स्यादेतत्। विघ्नानामभावोऽपिघ्नमित्यत्रापि परत्वात्तत्पुरुषः स्यात्। अव्ययीभावस्तु `निर्मक्षिकम्' इत्यादौ सावकाशः। मैवम्, उत्तरपदार्थप्राधान्य एवास्य प्रवृत्तेः। उक्तं हि प्राक् "अव्ययीभावादिमहासंज्ञाव्यवहारेण पूर्वाचार्योक्तार्थनियमोऽप्युत्सर्गतः स्वीक्रियते" इति। नन्वेवम्, `अनुपलब्धिः' इत्यादौ का गतिः? शृणु। "रक्षोहागमलघ्वसन्देहाः" इति भाष्यप्रयोगात्पक्षे तत्पुरुषोऽपीष्यते। अत एव भूवादिसूत्रे "अथासंहितया" इति "विरामोऽवसानम्'(अष्टाoसूo1-4-110)इति सूत्रे तु "अद्रुतायामसंहितम्" इति द्विधापि भाष्यवार्तिकयोः प्रयुक्तम्। यद्वा, अनुपलब्ध्यसन्देहादावपि लाक्षणिक आर्थो वा तदभावबोधः।
स्यादेतत, अन्यपदार्थप्राधान्येऽयं समासः। भावप्रधानो ह्यत्रनिर्द्देशः। न ब्राह्मणत्वं यस्मिन्नित्यर्थादुन्मत्तगङ्गादावव्ययीभाव इवेह तत्पुरुषो बहुव्रीहेर्बाधक इति। फलन्तु `अकर्ता' `अभोक्ता' इत्यादौ "नद्यृतश्च"(अष्टाoसूo5-4-153)इति कबभावः स्यात्। मैवम्, `अतस्मिन्' इत्यादौ सर्वनामकार्यगणकार्ययोरसिद्धिप्रसङ्गात्। `अवर्षा हेमन्तः' इत्यत्र हेमन्तस्येव तद्विशेषणस्याप्येकवचनापत्तेश्च। `अधनो ब्राह्मणः' इत्यादावपि न्यायसाम्यात्तत्पुरुषपरवल्लिङ्गतापत्तेश्चेति दिक्।
मतान्तरन्तु-
तपःश्रुतञ्च योनिश्चोत्येतद् ब्राह्मणकारणम्।
तपःश्रुताभ्यां यो हीनो जातिब्राह्मण एव सः।।
इत्यादिवचनप्रामाण्यात्सर्वे समुदायशब्दाः तत्तद्व्यक्तिभिरिव तदीयगुमसमुदायेनाप्युपहितायाः सत्ताया जातित्वात्। तथाच `अपूर्णो ब्राह्मणोऽब्राह्मणः' इति सर्वथाप्यत्तरपदार्थप्राधान्यं निर्बाधम्। अत्र च लिङ्गम्-"एतत्तदोः"(अष्टाoसूo6-1-102)इति सूत्रेऽनञ्‌समासग्रहणम्। एवञ्च "अनेकमन्यपदार्थे"(अष्टाoसूo2-2-4)इत्यादावेकवचनं सिद्धम्। माघश्च-"सेव्यतेऽनेकया सन्नतापाङ्गया" इति। कथन्तर्हि "पतन्त्यनेके जलधेरिवोर्मयः" इति? अत्राहुः। अध्यारोपितैकत्वानां प्रकृत्यर्थतया तत्र वास्तवबहुत्वाभिप्रायं बहुवचनं न विरुध्यते इति। अनेकश्चानेकश्चेत्येकशे षो वा। यत्तु-
तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता।
अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्त्तिताः।।
यथा-अब्राह्मणः, अ पं. अनश्वः, अनुदरा कन्या, अपचसि, अधर्मः, इति। तत्तु यथायथमधिकार्थमभिप्रेत्येति बोध्यम्। निरूढलक्षणायाः शक्तिसमकक्ष्यतया सिद्धान्ते त्वतिरिक्तशक्तेरुक्ततया वृत्तिविशेषे तदर्थान्तर्भाव इति वा कथञ्चिन्नेयम्। इह न ब्राह्मणस्य भाव इति युगपदेव भावेनारोपितत्वेन च सम्बन्धे विवक्षिते समास एव प्रथमं न तु परावपि त्वतलौ, प्रकृत्यर्थस्य सापेक्षत्वेनासामर्थ्यात्। नञ्‌समासस्तु प्रधानस्य सापेक्षत्वान्निर्बाधः। ततश्च सतिशिष्टः प्रत्ययस्वरो लित्स्वरश्च भवति न तु "तत्पुरुषे तुल्यार्थ"(अष्टाoसूo6-2-2)इत्ययम्।
(अष्टाoसूo2-2-7)
ईषदकृता(अष्टाoसूo2-2-7)। स्पष्टोऽर्थः ईषत्पिङ्गलः। ननु `ईषद्भक्तम्' `ईषदुन्नतम्' इत्यादावव्याप्तिः। ईषद्गार्ग्यादावतिव्याप्तिश्च। सत्यम्। अत एव वार्तिककृतोक्तम्-"ईषद् गुणवचनेन" इति। अकृतेत्यपनीय तत्स्थाने गुणवचनेनेति पूरणीयमित्यर्थः। अतो नाव्याप्त्यतिव्याप्ती। यद्यपि गर्गापत्यत्वे उत्कर्षापकर्षौ न स्तस्तथापि तदेकार्थेसमवायिनां क्रियागुणानां तौ बोध्यौ। तथाच प्रयुज्यते-`गार्ग्यतरः' `गार्ग्यकल्पः' इत्यादि।
(अष्टाoसूo2-2-8)
षष्ठी(अष्टाoसूo2-2-8)। षष्ठ्यन्तं समर्थेन सुबन्तेन सह प्राग्वत्। राजपुरुषः। कृद्योगा च षष्ठी समस्यत इति वाच्यम्(काoवाo)। इध्मव्रश्चनः। प्रतिपदविधाना चेति निषेधस्यायमपवादः। वस्तुतस्तु स निषेधोऽयं तदपवादश्चेत्युभयमपि न वक्तव्यमिति वक्ष्यते।
(अष्टाoसूo2-2-9)
याजकादिभिश्च(अष्टाoसूo2-2-9)। एभिः षष्ठी समस्यते। "तृजकाभ्यां कर्त्तरि"(अष्टाoसूo2-2-15)इत्यस्य प्रतिप्रसवोऽयम्। ब्राह्मणयाजकः। याजक, पूजक, परिचारक, परिवेषक, स्नातक, अध्यापक, उत्सादक, उद्वर्तक, होतृ, पोतृ, भर्तृ, रथगणक, पत्ति, गणक। वृत्।
गुणात्तरेम तरलोपश्चेति वक्तव्यम्(काoवाo)। इदञ्च वार्त्तिकं भाष्ये "सर्व गुणकार्त्स्न्ये"(अष्टाoसूo6-2-93)इति सूत्रे पठितम्। तरबन्तं यद् गुणवाचि तेन समास इत्यर्थः। "न निर्धारणे"(अष्टाoसूo2-2-10)इति निषेधस्यायमपवाद इति वृत्तिकाराः। "पुरणगुण"(अष्टाoसूo2-2-11)इति गुणनिषेधस्येति भाष्यकाराः। सर्वेषां श्वेततरः सर्वश्वेतः। सर्वेषां महत्तरः सर्वमहान्।
(अष्टाoसूo2-2-10)
न निर्धारणे(अष्टाoसूo2-2-10)निर्धारणे या षष्ठी सा न समस्यते। नृणां द्विजः श्रेष्ठः। अत्र द्विजशब्देन समासप्रसङ्गः। तदपेक्षा हि षष्ठी। कथं `पुरुषोत्तमः' इति? अत्र समाधानं "द्विवचनविभज्य"(अष्टाoसूo5-3-57)इति सूत्रे स्थित्वा कैयट आह यस्मान्निर्धार्यते यश्चैकदेशो निर्धार्यते यश्च निर्धारणहेतुरेतत्त्रितयसन्निधाने निर्धारणे भवतीति तत्रैवायं निषेधो न तु त्रितयसन्निधानाभावेऽपीति। यद्वा, पुरुषेषूत्तम इति निर्धारणसप्तम्यां "संज्ञायाम्'(अष्टाoसूo2-1-44)इति समासः। यत्त्वेवं सति "न निर्धारणे"(अष्टाoसूo2-2-10)इति सूत्रं व्यर्थं स्यादिति। तन्न, स्वरे भेदात्। सप्तमीसमासे हि "तत्पुरुषे तुल्यार्थ"(अष्टाoसूo6-2-2)इति पूर्वपदप्रकृतिस्वरः षष्ठीसमासे त्वन्तोदात्तत्वं स्यात्।
प्रतिपदविधाना च षष्ठी न समस्यते इति वाच्यम्(काoवाo)। सर्पिषो ज्ञानम्। "ज्ञोविदर्थस्य"(अष्टाoसूo2-3-51)इति षष्ठी। साच प्रतिपदविधाना "षष्ठी शेषे"(अष्टाoसूo2-3-50)इति विहायान्यस्याः सर्वस्या अपि तथात्वात्। न चैवमनेनैव गतार्थत्वात्। "न निर्धारणे"(अष्टाoसूo2-2-10)इति व्यर्थमिति शङ्क्यम्। "यतश्च निर्धारणम्"(अष्टाoसूo2-3-41)इति सूत्रं हि षष्ठीं न विधत्ते किन्तु सप्तमीमेव। षष्ठी तु तया मा बाधीति प्रतिप्रसूयते इत्यन्यदेतत्। एवं "स्वामीश्वरः(अष्टाoसूo2-3-39)इत्यादिष्वपि। तेन `गृहस्वामी' `सर्वेश्वरः' इत्यादि सिद्धम्। वस्तुतस्तु "ज्ञोऽविदर्थस्य"(अष्टाoसूo2-3-51)इत्यादिचतुर्दशसूक्षीमध्ये "दिवस्तदर्थस्य"(अष्टाoसूo2-3-58)इत्यादिषट्‌सूत्रीं विहायावशिष्टसूत्र्यां शेष इति वर्त्तते। तथाच `नमाषाणामश्नीयात्' इत्यादाविव "षष्ठी शेषे"(अष्टाoसूo2-3-50)इत्येव सिद्धे नियमार्थं प्रकरणम्-षष्ठी भवत्येव श्रूयत एव, न तु लुप्यते। तथाच लुक्‌प्रयोजिका समाससंज्ञैव न भवतीति फलितोऽर्थः। तस्मात् "प्रतिपदविधाना न" इति वचनं न कर्तव्यम्। एवं स्थिते "कृद्योगा च"(काoवाo)इत्यपि मास्तु। कर्तृकर्मणोः कृति"(अष्टाoसूo2-3-65)इत्यत्र हि शेषे इति निवृत्तम्। तथाच षष्ठीविध्यर्थमेव-1--1."कर्तृकर्मणोः"(अष्टाoसूo2-3-65)इति सूत्रम्।-तदिति कुतः समासनिवृत्तिप्रसङ्गः। आह च-
साधनैर्व्यपदिष्टे च श्रूयमाणक्रिये पुनः।
प्रोक्ता प्रतिपदं षष्ठी समासस्य निवृत्तये।। इति ।
कथन्तर्हि हरिस्मरणं-"विशेषस्मृतिहेतवः" "पदात् पदार्थस्मरणम्" इत्यादीति चेत्? कर्मणिषष्ठ्या समासस्यानिषेधादिति गृहाण। तथा चेह कारकषष्ठ्या समासात्कृदुत्तरपदप्रकृतिस्वरो भवति। शेषषष्ठीसमासे त्वन्तोदात्तता स्यात्। एवञ्चान्तोदात्तनिवृत्तये प्रकरणं `मातुःस्मृतम्' इत्यादौ समासाभावार्थं च। न हि तत्र कारकषष्ठी लभ्यते "न लोक"(अष्टाoसूo2-3-69)इति प्रतिषेधादिति निष्कृष्टोऽर्थः। आह च-
निष्ठायां कर्मविषया षष्ठी च प्रतिषिध्यते।
शेषलक्षणया षष्ठ्या समासस्तत्र नेष्यते।। इति ।
(अष्टाoसूo2-2-11)
पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन(अष्टाoसूo2-2-11)। पूरणाद्यर्थैस्त्रिभिः सदादिभिश्च षष्ठी न समस्यते। पूरणे-सतां षष्ठः। अत्र पूरणार्थाः प्रत्यया एव गृह्यन्ते न तु पूरणोम्भनादिशब्दाअपि। तेन "कुम्भपूरणभवः पटुरुच्चैः" इत्यादि सिद्धम्। अत्र च ज्ञापकं "लोपे चेत्पादपूरणम्"(अष्टाoसूo6-1-134)इति सूत्रप्रयोगः। पूरणाधिकारस्तु न गृह्यते। भागेऽन्‌प्रत्यये सति तदन्तेनापि निषेधस्य "द्वितीयतृतीय"(अष्टाoसूo2-2-33)इति सूत्रे भाष्ये एव स्पष्टत्वात्। अतएव `भिक्षाद्वितीयम्' इत्यादावन्यतरस्यांग्रहणसामर्त्यात्समास इत्युक्तम्। अत एव च "तान्युञ्छषष्ठाङ्कितसैकतानि"(रoवंo5-8)इति कालिदासस्य प्रमाद इत्याहुः। षष्ठ इत्याख्यातः षष्ठः, आख्यातण्यन्ताद्-"एरच्‌"(अष्टाoसूo3-3-56)इति वा समाधेयम्।
गुणश्चेह "सत्त्वे निविशतेऽपैति" इति लक्षितो गृह्यते केवलगुणस्य गुणोपसर्जनद्रव्यस्य च प्रतिपादकः, व्याप्तिन्यायात्। काकस्य कार्ष्ण्यम्। ब्राह्मणस्य शुक्लाः। यदाऽर्थात्प्रकरणाद्वा दन्तादि विशेष्यं निर्ज्ञातं तदेदमुदाहरणम्। कथं तर्हि "गोसहस्रम्" इति। अत्राहुः। संश्यया नायं निषेधः "शतसहस्रान्ताच्च निष्कात्"(अष्टाoसूo5-2-119)"क्रोशशतजनशतयोरुपसंख्यानम्"(काoवाo)"खारीशतमऽपि न ददाति"(भाoइo)इत्यादिमुनित्रयप्रयोगात्। अनित्यश्चायं गुणेन निषेधः। "संज्ञाप्रमाणत्वात्" "उत्तरपदार्थप्राधान्यम्" इत्यादिनिर्द्देशात्। तेन `करणपाटवम्' `अर्थगौरवम्' `बुद्धिमान्द्यम्' इत्यादि सिद्धम्। `चन्दनगन्धः' इत्यादौ तु नायं निषेधः "तत्स्थैश्च गुणैः" इति समासस्य प्रतिप्रसवात्। गन्धत्वेन प्रतीयमानो हि गन्धो न कदापि गुणिसमानाधिकरणः। किन्तु स्वप्रधानः। यस्तु "वहति जलमयं पिनष्टि गन्धान्" इति प्रयुज्यते स चन्दनत्वादिजातिनिमित्तको न तु गुणशब्दः, मालतीकुसुमादिष्वदर्शनादिति। एवं घटरूपमित्यादि। सुरभिशुक्लादिशब्दास्तु न तत्स्थगुणप्रतिपादकाः, तेन रूपेण प्रतीयमानस्य गुणिसामानाधिकरण्यदर्शनात्। एवं "शौक्ल्यम्" इत्यादावपि बोध्यम्। शौक्ल्यसौरभादिशब्दैर्हि शुक्लत्वसुरभित्वादिप्रकारक ए गुणबोधः। तद्रूपापन्नस्य च द्रव्यसामानाधिकरण्यमस्त्येव `शुक्लः' `सुरभिः' इत्यादाविति दिक्।
सुहितार्थास्तृप्त्यर्थः। फलानां सुहितः। करणस्यैव शेषत्वविवक्षया षष्ठी। न च "न लोक"(अष्टाoसूo2-3-69)इतिनिषेधः शङ्क्यः, तस्य कृद्योगलक्षणषष्ठीविषयकत्वात्। इह सुहितार्थयोगे करणस्य शेषत्वविवक्षैव नियतेत्याहुरिति हरदत्तः। तत्राहुरित्यपरितोषोद्भावनम्। तद्वीजन्तु नियमे प्रमाणाभावः,
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः।
नान्तकः सर्वभूतानां न पुंसां वामलोचने।।
इत्यादिप्रयोगाणां पाक्षिक्यापि शे-1--1.`विशेष' आदर्शे।-षत्वविवक्षया सिद्धत्वात्। अत एव करणत्वविवक्षया तृतीयां भट्टिः प्रायुङ्क्त-
फलैर्नानाविधैश्चित्रैः स्वादुशीतैश्च वारिभिः।
तृप्तास्तां भ्राजथुमन्तीं प्रपच्छुः कस्य पूरियम्।। इति ।
नन्वेवं षष्ठीसमासे निषिद्धेऽपि तृतीयातत्पुरुषेण `फलतृप्तः' इति स्यादेवेति चेत्? इष्टापत्तेः। न चैवं निषेधवैयर्थ्यम्, स्वरे विशेषात्। तथाहि, षष्ठीसमासेऽन्तोदात्तत्वं स्यात्, तृतीयासमासे तु थाथादिस्वरापवादः "तृतीया कर्मणि"(अष्टाoसूo6-2-48)इति पूर्वपदप्रकृतिस्वरः। तृपिश्च सकर्मकोऽप्यस्ति, "पितॄनतार्प्सीत्समसंस्त बनधून्" इति भट्टिप्रयोगात्। तेनास्मात्कर्मणि क्तो नास्तीति न शङ्कनीयम्। ` फलतर्पणम्' इत्यादौ तु स्पष्ट एव स्वरे भेदः, कारकात्परत्वेन कृदुत्तरपदप्रकृतिस्वरात्।
सत्--द्विजस्य कुर्वन् कुर्वाणो वा। किंकार इत्यर्थः। शेषे षष्ठी। चोरस्य द्विषन्। इह "द्विषः शतुर्वा वचनम्" इति पाक्षिकौ कर्मणिषष्ठी।
अव्यय-ब्राह्मणस्य कृत्वा। तादर्थ्यरूपसम्बन्धस्य सामान्यरूपेण विवक्षायां षष्ठी। ब्राह्मणसम्बन्धिनी क्रियेत्यर्थ-। `पुरा सूर्यस्योदेतोः' इत्यप्यव्ययोदाहरणम्। इह कर्त्तरि षष्ठी "-2--2."न लोकाव्यय"(अष्टाoसूo2-3-69)इति सूत्रेणेत्यादिः।-अव्ययप्रतिषेधे तोसुन्कसुनोरप्रतिषेधः"(काoवाo)इति वचनात्। अत्र सत्तव्याभ्यां साहचर्यात्कृदव्ययेनैव समासो निषिध्यते। तेन `तदुपरि' इत्यादि सिद्धमिति रक्षितः। तथा च भट्टिप्रभृतयः प्रयुञ्जते-यत्कृतेऽरीन्निगृह्णीमः,
आदेयाः किंकृते भोगाः कुम्भकर्ण त्वया विना।
भवत्कृते खञ्जनमञ्जुलाक्षीति, तत्पाणिमात्मोपरि पातुकन्तु किमु तदन्तरुभौ भिषजौ दिवः, इत्यादि च। तथा "अनेकमन्यपदार्थे'(अष्टाoसूo2-2-24)इति सूत्रे `सर्वपश्चात्' इति भाष्यप्रयोगोऽपीहानुकूलः। कैयटहरदत्तौ तु अव्ययप्रतिषेधे वृक्षस्योपरीत्युदाहरन्तौ-3--3.`कृदव्ययेनापि' आदर्शे।-अकृदव्ययेनापि निषेधं मन्येते। तत्तु भट्टिश्रीहर्षादिप्रयोगाणां प्रतिकूलम्। यद्वा, अस्मिन्पक्षे कृ-1--1.उपरिनिर्दिष्टप्रयोगत्रये कृते इत्यत्रेति यावत्।-च्छब्दः सम्पदादिक्विबन्तः कार्यपरः। ततश्चतुर्थी। आत्मन उपरि पातुक इति विग्रहः। तस्यां यन्मध्यं तत्रेत्यर्थे "सप्तमी शौण्डैः"(अष्टाoसूo2-1-4)इति सूत्रोक्तरीत्या सप्तमीतत्पुरुषोऽव्ययीभावो वेति दिक्।
तव्य-ब्राह्मणस्य कर्तव्यम्। निरनुबन्धकस्य सूत्रे ग्रहमात्तव्यता समासो भवत्येव-स्वकर्तव्यम्। स्वरे भेदः। "गतिकारकोपपदात्"(अष्टाoसूo6-2-139)इति कृदुत्तरपदप्रकृतिस्वरः। तत्र तव्यतस्तित्त्वेनान्तस्वरितता। तव्यस्य त्वाद्युदात्तत्वान्मध्योदा-2--2.तव्यप्रत्ययान्तेन सह समासे तु कृदुत्तरपदप्रकृतिस्वरेण मध्योदात्तं `स्वकर्तव्यं' स्यादित्यर्थः।-त्तं पदमिति।
समानाधिकरणेन-तक्षकस्य सर्पस्य। विशेषणसमासस्त्विह बहुलग्रहणान्नेत्युक्तम्।
स्यादेतत्, इह षष्ठीसमासः प्राप्नोत्येव न। बाह्यसम्बन्ध्यपेक्षा हीयं षष्ठी। तथा च कटोऽपि कर्म, भीष्मादयोऽपीति न्यायेन द्वयोरपि षष्ठ्यन्तयोर्विषप्रभृतिनाऽन्वये सति पश्चात्प्रातिपदिकार्थमात्रयोः पार्ष्णिकः सम्बन्धो वाच्यः। तथाच तक्षकस्येति सर्पस्येति च परस्परमसमर्थं कथं समस्यताम्? अत एव `नीलोत्पलस्य' `मेरुमहीभृतः' इत्यादावपि प्रथमान्तयोर्विशेषणसमासे ततः षष्ठीति न्याय्यं न तु षष्ठ्यन्तयोर्विशेषणसमासः, उक्तरीत्याऽसामर्थ्यात्। किञ्च यथा `चित्रगुः' इत्यादौ सम्बन्धस्याभिहितत्वात्प्रथमा तथेहापि षष्ठ्यन्तयोः समासे ततः प्रथमैव स्यान्न तु षष्ठी। उच्यते। कट एव कर्म भीष्मादयस्तु तत्सामानाधिकरण्यमात्राद्विभक्तिं लभन्ते। इति पक्षे इदं बोध्यम्। समानाधिकरणेन निषेध एव चैतत्पक्षज्ञापकः। अत एव विशेषणविभक्तिः साधुत्वार्थेत्युद्‌घोषोऽपि सङ्गच्छते। न चैवमपि समासात्षष्ठी न स्यादिति वाच्यम्, पञ्च-3--3.स्वार्थद्रव्यलिङ्गसङ्ख्याकारकाणि पञ्च प्रातिपदिकस्यैवार्थो विभक्त्यादि तु तदनुवादमात्रकमिति पक्षे।-कपक्षे द्वितीयादेरिवोपपत्तेः। सकलविभक्तिसाधारणेन कर्मधारयेणान्यतरस्य स्फुटमनभिधानात्। एषैव च वैयधिकरण्यस्थले सर्वेषां गतिः। तथाहि, `राज्ञः कुमार्या राजकुमार्याः' इति षष्ठ्यन्तस्य समासे पूर्वनिपातानियममाशङ्क्योपसर्जनसंज्ञाया अन्वर्थतामाश्रित्य समाहितमाकरे। न च तत्र त्वदुक्तस्यासामर्थ्यस्योक्तिसम्भवोऽपि, येन प्रथमान्तमेव समस्येत। तथाच राज्ञः-कुमारी, कुमार्यै, इत्यादय एव विग्रहा इति उपसर्जनसंज्ञाविधायकयोः सू-1--1."प्रथानिर्दिष्टं समास उपसर्जनम्"(अष्टाoसूo1-2-43)"एकविभक्ति चापूर्वनिपाते"(अष्टाoसूo1-2-44)इति सूत्रयोरित्यर्थः-त्रयोः काशिकादौस्पष्टम्। "अनेकमन्यपदार्थे"(अष्टाoसूo2-2-24)इति सूत्रे "तत्पुरुषे तुल्यार्थ"(अष्टाoसूo6-2-2)इति सूत्रे च भाष्यकैयटयोरपि स्पष्टमेवेदम्। तथाच प्रथमान्तेन विग्रह इति नियमाभावात्सर्वत्र त-2--2.`तत्पुरुषोपरि' आदर्शे।-त्पुरुषोऽपि द्वितीयादिविभक्तयः पञ्चकपक्षवदेवोपपादनीया इति तत्त्वम्। राजपुरुषादौ सङ्ख्याया इवोत्तरपदार्थप्रविष्टसम्बन्धस्यापि वृत्तावप्रवेशाच्च। प्रयोगार्हे विग्रहे परं समासोत्तरविभक्तिसजातीयायाः प्रयोगात्। पचन्तीति पाचका इतिवत्। वाक्यसंस्कारपक्षेऽलौकिकेऽपि बहुवचनवत्षष्ठ्यादिकल्पनाया एव न्याय्यत्वादिति दिक्।
यत्तु वृत्तावुदाहृतं शुकस्य माराविकस्य, राज्ञः पाटलिपुत्रकस्येति। तत्र मारावीत्याहेति माराविकः। "तदाहेतिमाशब्दादिभ्य उपसंख्यानम्"(काoवाo)इति ठक्। शब्दनक्रियायाः प्रतिषेधको माराविकः माराविदस्येति पाठे माराविशब्दं ददातीति स एवार्थः। एवं पाटलिपुत्रे भवः पाटलिपुत्रकः। इत्थं स्थिते यदीह समासोऽनिष्टः स्यात्तदेदं समानाधिकरण इत्यस्योदाहरणं सङ्गच्छेत। समास इष्ट इति तु वदता तेनैव नेदमुदाहर्तुं युक्तम्।
यत्तु तत्रैव समर्थितम्-षष्ठीसमासे सति पूर्वनिपातानियमः स्यात्। विशेषमसमासे तु विशेषणस्यैव पूर्वनिपातः सिध्यतीति। तत्रेदं वक्तव्यम्। विशेषणविशेष्यभावस्याव्यवस्थितत्वेनातिप्रसङ्गे प्राप्ते `अप्रधानमुपसर्जनम्, आर्थं चाप्राधान्यम्' इत्यादिक्रमेण द्रव्यगुणादिशब्देषु व्यवस्थेष्यते। तच्च षष्ठीसमासेऽपि सुवचमिति किन्तन्निषेधेनेति! वस्तुतस्तु गोधेनोः भोज्योष्णस्य कुमारश्रमणाया गो गर्भिण्या इत्यादीनीहोदाहार्याणि। पोटायुवतीत्यादीनां विभक्त्यन्तरे। विशेषणसमासं बाधित्वा चरितार्थानां परेण षष्ठीसमासेन बाधापत्तेः। तथाच विशेषणस्यैवोपसर्जनतया पूर्वनिपातेऽप्यनिष्टं स्पष्टमेवेत्यवधेयम्।
(अष्टाoसूo2-2-12)
क्तेन च पूजायाम्(अष्टाoसूo2-2-12)। "मतिबुद्धि"(अष्टाoसूo3-2-188)इति सूत्रेण विहितो यः क्तस्तदन्तेन षष्ठी न समस्यते। स हि पूजायां वर्तमानाद्विहित इत्येतावन्मात्रेण पूजाग्रहणं तस्योपलक्षणं गृहत्येव काकः। तेन मतिबुद्ध्यर्थाभ्यां क्तस्याप्ययं निषेधः। राज्ञां मतो बुद्धः पूजितो वा। "क्तस्य च वर्त्तमाने'(अष्टाoसूoi2-3-67)राज्ञां मतो बुद्धः। पूजितो वा। "क्तस्य च वर्त्तमाने'(अष्टाoसूo2-3-67)इति षष्ठी। कथन्तर्हि "कलहंसराममहितः कृतावान्" इति भट्टिः? "मह पूजायाम्"(भ्वाoपo30)रामस्य महित इत्यर्थ-। तथा `राजपूजितः' इत्यादि। अत्राहुः। "क्तेन च पूजायाम्"(अष्टाoसूo2-3-12)इत्यादिषुकारकषष्ठ्या एव समासो निषिध्यते। यदा तु कर्त्रादेरेव शेषत्वविवक्षया षष्ठी तदा भावत्येव समासः। स्वरे च विशेषः-कारकषष्ठ्या समासे हि कृदुत्तरपदप्रकृतिस्वरः, शेषषष्ठ्या तु समासान्तोदात्तत्वमिति। अनुन्यासकारस्त्वाह-यदा वर्तमाने क्तस्तदा षष्ठी समासनिषेधश्च। यदा तु भूते क्तस्तदा कर्तरि तृतीया। यथा "पूजितो यः सुरासुरैः"इति। तस्याः "कर्तृकरणे कृता बहुलम्"(अष्टाoसूo2-1-32)इति समासः। न च तक्रकौण्डिन्यन्यायाद्वर्त्तमाने क्त इह भूते क्तं बाधते इति वाच्यम्-1--.1"तेनैगदिक्"(अष्टाoसूo4-3-112)इति तृतीयाधिकारे "उपज्ञाते"(अष्टाoसूo4-3-115)इति तृतीयान्ताद् उपज्ञातेऽर्थे शौषिकप्रत्ययविधायकेन निर्देशेनेत्यर्थः। अन्यथा भूते क्तस्य बाधे षष्ठ्या एव लाभादिति भावः।-तेनेत्यधिकारे उपज्ञातइति निर्देशेनाबाधज्ञापनात्। न च ज्ञा-2--2.ज्ञानार्थकधातुभ्य एव प्राप्तस्य भूते क्तस्य वर्तमानक्तेनाबाध इति यावत्।-नार्थमात्रविषयकं ज्ञापकम्, उदाहृतप्रयोगानुरोधेन सामान्यविषयकत्वस्यैव न्याय्यत्वादिति।
(अष्टाoसूo2-2-13)
अधिकरणवाचिना च(अष्टाoसूo2-2-13)। क्तेन षष्ठी न समस्यते इदमेषामासितं गतं भुक्तं वा। "क्तोऽधिकरणेच"(अष्टाoसूo3-4-76)इति क्तः। "अधिकरणवाचिनश्च"(अष्टाoसूo2-3-68)इति कर्तरि षष्ठी। "अधिकरणे च" इत्येव सिद्धे वाचिग्रहणं स्पष्टार्थम्। कथं तर्हि `किवृत्तं' `यद्वृत्तम्' इति? अत्राहुः-नायमधिकरणे क्तः, किन्तु भावे। किमो वृत्ते यस्मिन्निति व्यधिकरणपदो बहुव्रीहिः। यद्वा, कर्त्तरि क्तः। किमो वृत्तं निष्पन्नमिति च विग्रहः।
(अष्टाoसूo2-2-14)
कर्मणि च(अष्टाoसूo2-2-14)। चकार इतिशब्दार्थः। कर्मणीतिशब्दमुच्चार्य विहिता परिशोषिता वा या षष्ठी सा न समस्यते। चित्रङ्गवान्दोहोऽगोपेन। यद्यनेन`कर्मषष्ठीमात्रं न समस्यते'इत्यभिप्रेतं स्यात्तर्हि तृजकाभ्यां-3--3."तृजकाभ्यां कर्तरि"(अष्टाoसूo2-2-15)इति यावत्।-निषेधं नारभेत। यत्र हि कर्तरि तृजकौ तत्र कर्मणिषष्ठ्या भाव्यम्। `शब्दानुशासनम्' इत्यादौ यथा न समासनिषेधस्तथोक्तं पस्पशायाम्।
(अष्टाoसूo2-2-15)
तृजकाभ्यां कर्त्तरि(अष्टाoसूo2-2-15)। कर्त्रर्थतृजकाभ्यां षष्ट्या न समासः। कर्तरीत्यकस्यैव विशेषणं न तु तृचोपि, अव्यभिचारात्। अपां स्रष्टा। पुराम्भेत्ता। वज्रस्य भर्त्ता। यद्यपि भर्तृशब्दो याजकादिषु पठितस्तथापि रूढेर्बलीयस्त्वात्पतिपर्यायस्य तत्र ग्रहणम्। यौगिकस्य तु निषेध एव। ओदनस्य पाचकः। कर्तरि किम्? इक्षूणां भक्षणमिक्षुभक्षिका। "पर्यायाहर्णोत्पत्तिषु ण्वच्"(अष्टाoसूo3-3-111)धात्वर्थनिर्द्देशे ण्वुल्वा-1--1."धात्वर्थनिर्देशे ण्वुल्वक्तव्यः"(काoवाo)इत्यनेनेत्यर्थः।-। कथं तर्हि घटानां निर्मातुस्त्रिभुवनविधातुश्च कलहः? अत्र न्यासकारः-तृन्नन्तमेतत्। " न लोक"(अष्टाoसूo2-3-69)इति षष्ठीनिषेधस्त्वनित्यः, त्र्यकाभ्यामिति वक्तव्ये तृचः सानुबन्धकस्योपादानाज्ज्ञापकात्। कैयटस्तु शेषष्ठ्या समास इत्याह। "जनिकर्तुः प्रकृतिः"(अष्टाoसूo1-4-30)"तत्प्रयोजको हेतुश्च"(अष्टाoसूo1-4-54)इति ज्ञापकादनित्योऽयं प्रतिषेध इति तु बहवः।
(अष्टाoसूo2-2-16)
कर्तरि च(अष्टाoसूo2-2-16)। कर्तृषष्ट्या अकेन न समासः। भवतः शायिका। "पर्यायार्हर्ण"(अष्टाoसूo3-3-111)इति ण्वुच्। पूर्वत्र द्वन्द्वेन निर्द्दिष्टोऽपि तृव् नेहानुवर्त्तते, तद्योगे कर्तुरभिहिततया कर्तृषष्ठ्या असम्भवात्।
(अष्टाoसूo2-2-17)
नित्यं क्रीडाजीविकयोः(अष्टाoसूo2-2-17)। एतयोरर्थयोरकेन नित्यं षष्ठी समस्यते। उद्दालकपुष्पभञ्जिका। क्रीडाविशेषस्येयं संज्ञा। "संज्ञायाम्'(अष्टाoसूo3-3-109)इति भावे ण्वुल्। पुष्पाणामिति कर्मणिषष्ठी। जीविकायाम्-दन्तलेखकः। तत्र क्रीडायां विकल्पे प्राप्ते जीविकायां "कर्त्तरि च"(अष्टाoसूo2-2-16)इति निषेधे प्राप्ते वचनम्। जयादित्यस्तु "तृजकाभ्याम्ठ(अष्टाoसूo2-2-15)इति सूत्रे कर्तरीत्येतदनुवृत्तायाः षष्ठ्या विशेषणम्। तृ-2--2.`तृच्‌प्रत्ययेन कर्तुरभिधाने तद्योगे कर्तृषष्ठ्या असम्भवात्' इत्यादिः।-जुत्तरार्थ इत्युक्त्वा "कर्तरि च"(अष्टाoसूo2-2-16)इति सूत्रे कर्तृग्रहणं तृजकयोर्विशेषणतया व्याख्याय "नित्यं क्रीडा"(अष्टाoसूo2-2-17)इति सूत्रे अकप्रत्ययमेवोदाजहार। तत्रेदं वक्तव्यम्, प्रथमसूत्रे कर्तृग्रहणं तृजकयोरेव विशेषणं युक्तं, तयोः श्रुतत्वात्; न तु षष्ठ्याः। एवञ्च तृजुत्तरार्थ इत्यपि न कल्प्यम्। अकस्यैव चोत्तरत्रानुवृत्तिर्न तु तृचः, असम्भवात्। तथाच सूत्रद्वयस्य व्यत्यासेनार्थ उचित इति। वामनस्तु "अके जीविकार्थे"(अष्टाoसूo6-2-73)इति सूत्रे अके इति किम्? रमणीयकर्तेति जीविकायां तृचं प्रत्युदाजहार। तस्यायमाशयः-मा भूत्क्रीडायां तृच्, लक्षणाभावात्। जीविकायान्तु "ण्वुल्‌तृचौ(अष्टाoसूo3-1-133)इति ण्वुलि तृजपि सुलभ एवेति। एतन्मते "नित्यं क्रीडा"(अष्टाoसूo2-2-17)इत्यत्र तृजग्रहणासम्बन्धशङ्कावारणार्थं तृजुत्तार्थ इत्यादि कुसृष्ट्यादरणमित्याहुः।
(अष्टाoसूo2-2-18)
कुगतिप्रादयः(अष्टाoसूo2-2-18)। कुशब्दो गतिसंज्ञाः प्रादयश्च समर्थेन नित्यं समस्यन्ते। कुः पापार्थे। कुपुरुषः। नित्यसमासविषयस्याप्यस्य पूर्वपदप्रकृतिस्वरार्थमव्ययत्वमिष्यते। तथा च वार्त्तिकम्-"अव्यये नञ्‌कुनिपातानाम्'(काoवाo)इति। तस्मादयं स्वरादिषु बोद्धव्यः। स एव चेह गृह्यते, न तु पृथिवीवृत्तिः ग-1--1.अद्रव्यार्थकेत्यादिः-त्यादिसाहचर्यात्। गतिः-ऊरीकृत्य। प्रादिग्रहणमगत्यर्थम्। तद्विषयविभागार्थानि तु बहूनि वार्त्तिकानि। तथाहि, दुर्निन्दायाम्-दुः पुरुषः। स्वती पूजायाम्-सुपुरुषः, अतिपुरुषः। आङीषदर्थे-आपिङ्गलः। प्रायिकं चैतदुपाधिवचनम्। अन्यथा "ईषदर्थे च"(अष्टाoसूo6-3-105)इति कोः कादेशविधानभनुपपन्नं स्यात्। कोष्णम्। दुष्कृतम्। दुरत्र कृच्‌छ्रार्थे। अनभिधानात्तु भूते खल् न भवति। सुष्टुतम्। सुशब्दोऽतिशये, न तु पूजायाम्। अत एवोपसर्गनिबन्धनं षत्वम्। अतिस्तुतम्। "अतिरतिक्रमणे च"(अष्टाoसूo1-4-95)इति क-2--2.`कर्मप्रवचनीयत्वाभावः' इति पाठः। तत्त्वबोधिन्याम् "अतिरतिक्रमणे च"(अष्टाoसूo1-4-95)इति सूत्रे अन्ये तूदाहरन्ति-"अतिसिक्तम् अतिस्तुतमिति"। इत्युक्तेः षत्वाभावाच्च कर्मप्रवचनीयसंज्ञा निर्बाधाऽत्रेति चिन्त्यम्।र्मप्रवचनीयत्वम्।
प्रादयो गताद्यर्थे प्रथमया। वृत्तिविषये गताद्यर्थवृत्तयः प्रादयो गतित्वाभावेऽपि प्रादिग्रहणेन समस्यन्ते इत्यर्थः। प्रगत आचार्यः प्राचार्यः। प्रान्तेवासी।
अत्यादयः क्रान्ताद्यर्थे द्वितीयया। अतिक्रान्ता मालामतिमालः।
अवादयः क्रुष्टाद्यर्थे तृतीयया। अवक्रुष्टः कोकिलया अवकोकिलः।
पर्यादयो ग्लानाद्यर्थे चतुर्थ्या। परिग्लानोऽध्ययनाय पर्यध्ययनः। अलं कुमार्यै अलंकुमारि। नित्यसमासत्वेऽपि चतुर्थीविधानसामर्थ्यात्पक्षे वाक्यमिति रक्षितः। एतेन "एकविभक्ति चापूर्वनिपाते"(अष्टाoसूo1-2-144)इति सूत्रे `अलंकुमारिः' इति भाष्यं "पर्यादयोग्लानाद्यर्थ इति समासः" इति कैयटवचनं च व्याख्यातम्। तदेव भाष्यमनित्यतायां ज्ञापकमिति वास्तु। वस्तुतस्तु नेहानेन समासः, अलमोऽप्रादित्वात्। प्रादिसमासस्य त्वयं प्रपञ्च इत्याकरः। किन्तु "द्विगुप्राप्तापन्नालम्पूर्व"(काoवाo)इत्यनेन ज्ञाप्यमानोऽलंपूर्वस्तत्पुरुषः पृथग्गदिग्रहणात्पर्याप्त्यर्थेनापि भवन्नभिधानानुरोधाच्चतुर्थ्यन्तेनैव भवति। तस्य चानित्यसमासत्वं निर्बाधमेवेत्यवधेयम्।
निरादयः क्रान्ताद्यर्थे पञ्चम्या। निष्क्रान्तः कौशाम्ब्या निष्कौशामिबिः। प्रादिग्रहणस्य अगत्यर्थत्वादतिप्रसङ्गे प्राप्ते कर्मप्रवचनीयानां प्रतिषेधो वक्तव्यः। वृक्षम्प्रति विद्योतते विद्युत्। कथन्तर्हि अधीत्येति? इह हि "अधिपरी अनर्थको(अष्टाoसूo1-4-93)इति कर्मप्रवचनीयत्वम्। उच्यते, "अध्यापकधूर्तैः(अष्टाoसूo2-1-65)इतिनिर्द्देशादनित्यः प्रतिषेधः। अत एव `सुस्तुतम्' `अतिस्तुतम्' इति षत्वाभावेऽपि समास उदाहृतः। "स्वती पूजायाम्"(काoवाo)इति वचनाद्वातत्सिद्धिः।
(अष्टाoसूo2-2-19)
उपपदमतिङ्(अष्टाoसूo2-2-19)। उपपदं सुबन्तं समर्थेन नित्यं समस्यते। अतिङन्तश्च समासः। कुम्भं करोतीति कुम्भकारः। इह कुम्भ अस् कार इत्यलौकिकं प्रक्रियावाक्य्म्। लडर्थाद्याधिक्येऽप्यदूरविप्रकर्षेण तूक्तं लौकिकं वाक्यं बोध्यम्। अतिङ् किम्? मा भवान् भूत्। "माङि लुङ्"(अष्टाoसूo3-3-175)इति सप्तमीनिर्द्देशान्माङुपपदम्। ननु सुपेत्यधिकारात्तिङन्तेन न भविष्यति? सत्यम्, तन्निवृत्तिरनेन ज्ञाप्यते। तत्फलं त्वनुपदमेव स्फुटीकरिष्यामः। प्रथमान्तं तु सुप्‌ग्रहणमिहानुवर्तते एव। अत एव `राजदर्शी' इत्यादौ पूर्वपदे नलोपादिपदकार्यं सिध्यति। सुप्सुपेतीह नानुवर्त्तते इति भाष्यवृत्त्यादिग्रन्थास्तु मिलितं नानुवर्तते इत्येवेपराः। अतिङिति नोपपदस्य विशेषणं किन्तु समासस्येति यद्यपीह भाष्ये न स्पष्टं, तथापि "अनंवक्लृप्त्यमर्षयोः"(अष्टाoसूo3-3-145)इति सूत्रे भाष्ये एव स्पष्टम्। तत्र हि किंवृत्तस्यानधिकारादकिंवृत्तग्रहणानर्थक्यमित्युक्त्वा उपपदस़ञ्ज्ञार्थं तर्हीत्याशङ्क्यातिङिति समासप्रतिषेधात्सञ्ज्ञानर्थक्यमिति सिद्धान्तितम्। एवं पूर्वसूत्रेपि गतिग्रहणं पृथक्कृत्य तेनाप्यतिङ्ग्रहणं सम्बन्धनीयम्। गतिः समस्यते अतिङन्तश्च समासः स्यादिति। तेन `प्रयवति' इत्यादौ गतेङन्तेन समासो न। अतिङ्ग्रहणाच्च सुपेति तृतीयानिवर्त्तते। तथाच "गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः"(पoभाo)इति प्राचां परिभाषा एकदेशानुमतिद्वारा सामान्यापेक्षज्ञापकभूतेन अतिङ्ग्रहणेन लभ्यते। गतीनां कारकाणामुपपदानां च कृद्भिः सह यः समासः स उत्तरपदात्सुबुत्पत्तेः प्रागेव कार्य इत्यर्थः। पूर्वपदन्तु सुबन्तमेवेत्युक्तम्।
गतीनां तावत्-व्याजिघ्रतीति व्याघ्री। "आतश्चोपसर्गे"(अष्टाoसूo3-1-136)इति कः। "पाघ्राध्मा"(अष्टाoसूo3-1-137)इति शप्रत्ययस्तु न भवति "जिघ्रतेः संज्ञायां प्रतिषेधा वक्तव्यः" इत्युक्तेः। व्याङोर्घ्रशब्देन गतिशमासः। स च यदि घ्रशब्दस्य सुबन्ततामपेक्षेत तर्हि सुबुत्पत्तये संख्याकर्मादियोगो विवक्षणीयः। तद्योगाच्च प्रागेव लिङ्गयागः "स्वार्थमभिधाय" इत्यादिन्यायात्। ततश्च लिङ्गनिमित्तः प्रत्ययो भवन् टाबेव स्यात् न तु ङीष्, घ्रशब्दमात्रस्य अजातिवाचित्वात्। ततश्च व्याङोघ्रीशब्देन समासः। ततो व्याघ्राशब्दस्य जातिवाचित्वेऽप्यनकारान्तत्वाज्जातिलक्षणो ङीष् न स्यात्। सुबुत्पत्तेः प्रागेवजायमानस्तु समासो लिङ्गयोगानपेक्षत्वेन अन्तरङ्गत्वाद्भवति। ततो ङीप् पूर्वपदस्य तु सुबन्तत्वात्पदकार्याणि स्युरेव। `निगतः' इति रुत्वं `सय्यँन्ता' इति परसरवर्णविकल्प इत्यादि।
कारकाणाम्-अश्वैः क्रीता। अल्पैरभ्रैर्लिप्ता। "कर्तृकरणे कृता बहुलम्"(अष्टाoसूo2-1-32)इति समासः। स यद्युत्तरपदस्य सुबन्तस्य स्यात्तर्हि पूर्ववट्टाप् स्यात्। ततश्च "क्रीतात्करणपूर्वात्"(अष्टाoसूo4-1-50)"क्तादल्पाख्यायाम्"(अष्टाoसूo4-1-51)इति ङीष् न स्यात्, अत इत्यधिकारात्। वचनसामर्थ्यात्स्यादिति चेत्तर्हि वाक्यावस्थायां स्यात् पूर्वशब्दस्य व्यवस्थावचनत्वसम्भवात्। अत इत्यधिकारो वा व्यवच्छिद्येत। तथाच-
सा हि तस्य धनक्रीता प्राणेभ्योऽपि गरीयसी।
इति भट्टिप्रयोगे न सिध्येत्। सिद्धान्ते तु "कर्तृकरणे "कृता"(अष्टाoसूo2-1-32)इत्यत्र बहुलग्रहणात्क्वचित्सुबन्तेन समासः अतो न ङीष्।
उपपदानाम्-कच्छेन पिबतीति कच्छपी। व्याघ्रीवत्। सु-1--1."सुपि स्थः"(अष्टाoसूo3-2-4)इति सूत्रे।-पीति योगविभागात्क इत्यादि। यत्त्वतिङ्ग्रहणमुपपदविशेषणमिति। तन्न, तथा सति प्रथामान्तसुब्‌ग्रहणस्य निवृत्त्यापत्त्या बहुविप्लवापत्तेः। एतेनातिङ् किम्? एधानाहारको व्रजतीति प्रत्युदाहरणमपि प्रत्युक्तम्। यदपि कौमु-1--1.प्रकियाकौमुद्याम्।-द्यां "कुगति"(अष्टाoसूo2-2-18)इति सूत्रे उक्तम्-"अत्र सुप्सुपेत्यननुवृत्तेस्तिङाऽपि समासः, ऊरीकरोति" इत्यादि। तदप्यसत्, तत्र शेषीकृतेनातिङ्ग्रहणनैव विरोधात्। तिङ्समासस्तु सहेति योगविभागबललभ्यो वार्त्तिकोक्तविशेषविषयच्छान्दसश्चेति प्रागेव प्रपञ्चितम्।
(अष्टाoसूo2-2-20)
अमैवाव्यवेन(अष्टाoसूo2-2-20)। अमैव तुल्यविधानं यदुपपदं तदेवाव्ययेन सह समस्यते। स्वादुङ्कारं भुङ्क्ते। सम्पन्नङ्कारम्। लवणङ्कारम्। "स्वादुमि णमुल्"(अष्टाoसूo3-4-26)। स्वादुमीत्यत एव निपातनात्पूर्वपदस्य मान्तत्वम्। स्वादुमीत्यर्थग्रहणम्। सम्पन्नलवलशब्दावपि स्वादुपर्यायौ। येन वाक्येनामेव केवलो विधीयते न तु प्रत्ययान्तरसहितः, तस्मिन्, वाक्ये सप्तमीनिर्द्देशबलेन यस्योपपदसंज्ञा तद मैव तुल्यविधानमित्युच्यते। सूत्रे च तुल्यविधायनमित्यध्याह्रियते। नियमाङ्गभूतस्त्वेवकारो नियमस्वभावादेव लभ्यते न तु सूत्रारूढः। अमैव च यत्तुल्यविधानं यस्य प्रत्ययान्तरं प्रति उपपदत्वमेव नास्तीति अव्ययान्तरेण स समासो नाशङ्कनीयः। सूत्रस्य प्रयोजनन्तु "कालसमयवेलासु तुमुन्"(अष्टाoसूo3-3-167)`कालः समयो वेला वा भो क्तुम्' इत्यत्र समासनिवृत्तिः। अमैवेति किम्? अग्रेभोजम्, अग्रेभुक्त्वा, "विभाषाऽग्रेप्रथमपूर्वेषु"(अष्टाoसूo3-4-24)इति क्त्वाणमुलौ। अमाचान्येन च तुल्यविधानमेतम्। अव्ययेनेति किम्? कु-2--2.अत्र समासो न स्यादिति भावः।-म्भकारः। असति ह्यव्ययग्रहणे अमैव यत्तुल्यविधानं तदेव समस्येते। न च पूर्वसूत्रस्यानवकाशत्वादव्ययविषय एव नियम इति वाच्यम्, तथासत्यमैव नियमापत्तेः। अमन्तेनोपपदस्य यस्समासः सोऽमैवतुल्यविधानस्यति। तथा च `अग्रेभोजम्' इत्यत्र मा भूत्। `अग्रेभुक्त्वा कालो भोक्तुम्' इत्यत्र तु स्यादेव।
(अष्टाoसूo2-2-21)
तृतीयाप्रभॉतीन्यन्यतरम्याम्(अष्टाoसूo2-2-21)। "उपदंशस्तृतीयायाम्"(अष्टाoसूo3-4-47)इत्यादिन्युपपदान्यमन्तेनाव्ययेन सह वा समस्यन्ते। उभयत्र विभाषेयम्। यदमैव तुल्यविधानं तस्य प्राप्ते, यथा "उपदंशस्तृतीयायाम्"(अष्टाoसूo3-4-47)इति। यत्पुनरमा चान्येन च तुल्यविधानं तस्याप्राप्ते, यथा "अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ"(अष्टाoसूo3-4-59)इति। मूलकोपदंशम्भुङ्क्ते, मूलकेनोपदंशाम्। उच्चैःकारमाचष्टे। इह समासपक्षे कृदुत्तरपदप्रकृतिस्वरः "आदिर्णमुल्यन्यतरस्याम्"(अष्टाoसूo6-1-194)इत्याद्युदात्तत्वम्। असमासपक्षे तु उच्चैरित्यन्तोदात्तम्, स्वरादिषु तथापाठात्। कारमित्याद्युदात्तम्। अमेत्ये-1--1.एतदग्रे `नेह' इति शेषः।-व। "पर्याप्तिवचनेष्वलमर्थेषु"(अष्टाoसूo3-4-66)पर्याप्तो भोक्तुम्।
(अष्टाoसूo2-2-22)
क्त्वा च(अष्टाoसूo2-2-22)। क्त्वाप्रत्ययेन सह तृतीयाप्रभृतीन्युपपदानि वा समस्यन्ते। "अव्ययेयथाभिप्रेताख्याने"(अष्टाoसूo3-4-59)इति क्त्वाप्रत्ययः। समासपक्षे ल्यप्। उच्चैःकृत्य। उच्चैः कृत्या। तृतीयाप्रभृतीनित्येव। अ-2--.2अत्रोभयत्रापि "अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा" इति क्त्वाप्रत्ययः। इदं सूत्रं च "उपदंशस्तृतीयायाम्" इत्यतः पूर्वमिति न तृतीयाप्रभृतित्वमिति बोध्यम्।-लङ्कृत्वा। खलुकृत्वा।
(अष्टाoसूo2-2-23)
शेषो बहुव्रीहिः(अष्टाoसूo2-2-23)। अधिकारोऽवम्। शेषः किम्? उन्मत्तगङ्गम्। "प्राक्कडात्परङ्कार्यम्" इति पा-3--3."प्राक्कडारात्समासः" इति मूत्रे इत्यर्थः।-ठे परत्वाद्बहुव्रीहिसंज्ञामा भूत्। उपयुक्तादन्य शेषः। शिष असर्वोपयोगे(चुoउo1818)। कर्मणि घञ्। येषां पदानां यस्मिन्नर्थेऽव्ययीभावादिसंज्ञा नोक्ता स बहुव्रीहिरित्यर्थः। एकसंज्ञाधिकारे तु त्रिकतः शेषो ग्राह्यः। तथाहि सप्तसु सुपां त्रिकेषु यस्य त्रिकस्य शृङ्गिग्राहिकया समासो नोक्त सः शेषः। प्रथमेति यावत्। ततश्च प्रथमान्तानां बहुव्रीहिरित्यर्थात्समानाधिकरणानां भवति। कण्ठेकाल इत्यादौ तु "सप्तमीविशेषणं"(अष्टाoसूo2-2-35)इति ज्ञापकात्सिद्ध इति।
।। इति श्रीशब्दकौस्तुभे द्वितीयस्याध्यायस्य द्वितीये पादे प्रथममान्हिकम् ।।