सामग्री पर जाएँ

शब्दकौस्तुभः/अध्यायः १-पादः ४/आह्निकम् ३

विकिस्रोतः तः
← आह्निकम् २ शब्दकौस्तुभः
आह्निकम् ३
[[लेखकः :|]]
आह्निकम् ४ →


(अष्टाoसूo1-4-23)
कारके(अष्टाoसूo1-4-23)। अधिकारोऽयम्। व्यत्ययेन प्रथमार्थे सप्तमी। तथाच `ध्रुवम्' इत्यादौ प्रतिसूत्रं वाक्यं भित्त्वा कारकसंज्ञा विधयिते। तथाहि, अपाये ध्रुवं कारकसंज्ञं स्यात्। तत अपादानम्। उक्तं कारकमपादानसंज्ञं स्यात्। पुनः कारकशब्दानुवृत्तिसामर्थ्याद्विशेषसंज्ञाभिः सह समावेशो न तु पर्यायः। अनुवृत्तिं विनापि प्रथमवाक्यमात्रात्तत्सिद्धेः। तेन 'स्तम्बेरमः' इत्यादौ अधिकरणत्वात्सप्तमी, कारकत्वाद् "गतिकारकोपपदात्कृत्"(अष्टाoसूo6-2-139)इति प्रकृतिस्वरश्च सिद्धः। थाथादिस्वरस्तु न भवति, अपा साहचर्यादेरच एव तत्र ग्रहणात्। न चोपपदत्वादेव कृदुत्तरपदप्रकृतिस्वरोऽस्त्विति वाच्यम्, "स्तम्बकर्मयोः"(अष्टाoसूo3-2-13)इति निर्द्देशात्प्रतिपदिकयोस्तथात्वेऽपि सप्तमीविशिष्टयोरतथात्वात्। न हि सप्तमीविशिष्टं सप्तम्या निर्दिष्टम्, येनोपपदसंज्ञां लभेतेति दिक्।
अन्वर्था चेयं संज्ञा करोतीति कारकमिति। तेन क्रियान्वयिनो न भवति। ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीति। इह हि ब्राह्मणः पुंत्रविशेषणं न तु क्रियान्वयी। ननु पुत्रोऽपि कथं कारकम्? प्रश्नो हि जिज्ञासा। तत्र प्रष्टुः कारकत्वेऽपि यं प्रति प्रश्नस्तस्य जनकत्वायोगादिति चेत्? सत्यम्, मास्तु जनकता। क्रियान्वयमात्रमिह विवक्षितम्। तच्चास्त्येव। एतेन सम्प्रदानस्य कारकत्वं व्याख्यातम्। यद्वा, सम्प्रदानादेरपि प्रथमं बुद्ध्यारोहात्कारकता। एवं ज्ञायते करोतीत्यादौ कर्तृकर्मणोरपि बोध्यम्। कार्याव्यवहितपूर्वक्षणवृत्तीनां कथं कारणतेति चेत्? यथा यागस्येत्यवेहि। तत्र व्यापारोऽस्तीति चेत्? न, तावताऽपि यागस्य पूर्ववर्तितानुपपादनात्। अव्यवहितपूर्ववर्तिस्वस्वव्यापारान्यतरकत्वं कारणत्वमिति चेत्? न, व्यापारत्वस्य कारणत्वगर्भतया आत्माश्रयापत्तेः, स्वव्यापारस्येव स्वज्ञानस्यापि प्रवेशसम्भवाच्च। अत एव ज्ञायमानं लिङ्गं पदञ्चानुमितिशब्दज्ञानयोः कारणमिति जरन्नैयायिकाः। ज्ञायमानाः पदार्थाः कारणमिति च मीमासकाः। अत एव च रथन्तरसामादेरैन्द्रवाय्वाग्नत्वादौ निमित्ततेत्युद्‌घोषो मीमांसकानाम्। अथवा उपसर्जनसंज्ञा यथा राज्ञः कुमार्या राजकुमार्या इत्यादौ यथासम्भवमन्वर्थाऽपि `अर्धपिप्पली' इत्यादौ वचनाद्भवति, तथा कारकसंज्ञापि प्रतिसूत्रं विधीयमाना वचनात्सम्प्रदानादौ भवति। प्रदेशेषु तु संज्ञाप्रकारक एव बोधः। तत्तद्रूपप्रकारको वेत्यन्यदेतत्।
स्यादेतत्। `वृक्षस्य पर्णं पतति' इत्यादौ पर्णविशेषणस्यापि वृक्षस्य कारकतापत्तिः, `वृक्षात्पतति, इतिप्रयोगानुरोधात्। तर्हि अस्मदीयशब्दप्रयोगवैलक्षण्यमात्रेण एकस्यैव जनकत्वाजनकत्वे व्यवतिष्ठेते इति चेत्? अत्रेदं सिद्धान्तरहस्यम्। कारकत्वं तद्व्याप्यकर्तृत्वादिषट्कञ्च वस्तुविशेषेऽनवस्थिततम्। विशेषणविशेष्यवत् तर्हि गौः सर्वं प्रति गौरेव न तु कञ्चित्प्रत्यगौरितिवद्विशेषणं विशेषणमेवेति सुवचम्। तथाच किं कारकं कः कर्त्ता किं कर्मेत्यादिप्रश्ने सर्वमित्युत्तरम्। वक्ष्यमाणकर्तृत्वकर्मत्वादेरचेतनेषु अनादिषु च निर्बाधत्वात् कया पचिधातुव्यक्त्या उपस्थापितेऽर्थे किं कर्त्रादिकमिति प्रश्ने तु प्रकृतपचिव्यक्त्युपात्तव्यापाराश्रयः कर्ता। व्यापारव्यधिकरणफलाश्रयः कर्म। यद्व्यापारोत्तरभावित्वं क्रियाया विवक्ष्यते तत्करणम्। कर्तृकर्मणोराश्रयोऽधिकरणमित्यादि क्रमेणोत्तरम्। विक्लित्त्यनुकूलव्यापारो हि पच्यर्थः। व्यापारश्चानेकधा। तत्र पचेरधिश्रयणतण्डुलावपनैधोपकर्षणापकर्षणफूत्कारादितात्पर्यकत्वे तदाश्रयो देवदत्तः कर्ता। ज्वलनतात्पर्यकत्वे त्वेधाः कर्तारः। तण्डुलधारणादिपरत्वे स्थाली कर्त्री। अवयवविभागादिपरत्वे तण्डुलाः कर्त्तारः। अत एव कर्मकर्ता करणकर्तेत्यादिव्यवहारः। एवं `स्थाल्या पचति' इत्यत्र तृतीयोपात्तव्यापाराश्रयोऽपि स्थाली करणमेव, न तु तदा कर्त्री; देवदत्तादिव्यापारस्यैव तत्र धातूपात्तत्वात्। तथा आदिखादिभ्यामुपात्तेर्थे बटुः कर्त्ता। तस्मिन्नेवार्थे भक्षयतिनोपात्ते बटुः कर्म। अधिपूर्वैः शीङ्स्थाप्रभृतिभिरुपात्तेऽर्थे आधारः कर्म। तत्रैव केवलैरुपात्तेऽधिकरणमित्यादि। नन्वेवमननुगम इति चेत्? सत्यम्, कस्य कः पिता को भ्रात इत्यत्रेवाननुगतस्यैव लक्ष्यत्वात्। अत एव प्रयोगाणां साध्वसाधुता व्यवतिष्ठते। अन्यथा क्वचित्कर्तुः सर्वत्र कर्तृतापत्तौ सकलप्रयोगाः सङ्कीर्येरन्। उक्तं च हरिणा-
वस्तुतस्तदनिर्द्देश्यं न हि वस्तु व्यवस्थितम्।
स्थाल्या पच्यत इत्येषा व्यवस्था दृश्यते यतः।। इति ।।
अत एव प्रयोजकव्यापारव्याप्यत्वाविशेषेपि पच्यादिधातुषु प्रयोज्यो न कर्म गम्यादिष्वेव तु कर्म तथा `पौराणिकाच्छृणोति' नटस्य शृणोति' इत्यत्र पौराणिकोपादानं कारकञ्च, नटस्तु नोभयमित्यादि वक्ष्यमाणं सङ्गच्छते। नन्वेवं "लः कर्मणि"(अष्टाoसूo3-4-69)इत्यादिविधिषु किं कर्म ग्राह्यमिति चेत्? विनिगमकाभावात्सर्वमित्यवेहि। यथा भस्येत्यत्र सर्वं भम। तर्हि टिघुभादिवत्पारिभाषिकमेव कारकत्वकर्मत्वादिकं स्यादिति चेत्? को वा ब्रूते नेति। एतावानेव परं भेदः-टिघुभादीनां शब्दसंज्ञात्वमितरेषान्त्वर्थसंज्ञात्वमिति। एवञ्च "कर्मणि द्वितीया"(अष्टाoसूo2-3-2)इत्यनेन यथायथामाधारादावपि द्वितीया विधीयते इति फलितम्। `रथेन गम्यते' `रथो गच्छति' इत्यादावपि कर्तृविभक्तिरुत्सर्गेणैव सिद्धेति न तत्र लक्षणाऽऽश्रयणीयेत्यवधेयम्। विभक्तीनां वाच्यांशानिष्कर्षस्तु करिष्यते। एतेन ज्ञानस्य स्वप्रकाशत्वे कर्तृकर्मविरोधमुद्भावयन्तः परास्ताः, शब्दविशेषोपाधिकस्य कर्तृत्वादेः प्रत्यक्षादावुक्तिसम्भवात्। एतेन परसमवेतक्रियाफलशालित्वं कर्मत्वं चेदपादनेऽतिव्याप्तिरित्याशङ्क्य धात्वर्थतावच्छेदकफलशालित्वं तदिति परिष्कुर्वन्तोऽपि परास्ताः। `ग्रामं गमयति देवदत्तम्' इत्यादौ गन्तरि अव्याप्तेः। त्वन्मते गमनस्य प्रकृत्यर्थत्वेऽपि तथात्वानवच्छेदकत्वात्। तत्त्वे वा पाचयत्यादिप्रयोज्यकर्तर्यतिव्याप्तेः। तत्र पारिभाषिकमनुशासनोपयोगिकर्मत्वं वचनबलाद्व्यवस्थितमिति चेत्? अपादानेऽपि तर्हि तन्नास्तीत्यवेहि, एकसंज्ञाधिकारेऽनवकाशया बाधात्। अत एव `आत्मानमात्मा हन्ति' इत्यादौ परया कर्तृसंज्ञया कर्मसंज्ञाबाधमासङ्क्याहङ्कारादिविशिष्टात्मभेदमाश्रित्य तत्रतत्र भाष्ये समाहितमिति दिक्।
नन्वेवं करणं कारकमिति सामानाधिकरण्यं कथम्, अस्वातन्त्र्येण ण्वुल्प्रत्ययायोगात्। अन्यथा कर्तृसंज्ञापत्तौ करणसंज्ञायाः पर्यायापत्तेरिति चेत्? उच्यते, अधिकारसामर्थ्यात्कारकशब्दोपनीतं स्वातन्त्र्यमवस्थान्तरगतं विज्ञायते। अवस्थान्तरे यत्स्वतन्त्रं तत्साधकतमङ्करणमिति। यथा `कुरुक्षेत्रस्थः काश्यां वसन्ति' इत्यादौ। कर्तुस्तु साम्प्रतिकं स्वातन्त्र्यम्। तच्च कर्तृसंज्ञायामुपयुज्यते इति। यद्वा, कारकशब्दः क्रिया परः, करोति कर्तृकर्मादिव्यपदेशानिति व्युत्पत्तेः। तथाच अपादानादिसंज्ञाविधौ क्रियायामित्यस्योपस्थित्या क्रियान्वयिनामेव त्तत्त्त्संज्ञाः स्युः। "कारकाद्दतश्रुतयोः"(अष्टाoसूo6-2-148)इत्यादौ तु कारकशब्दः स्वर्यते। तेनैतदधिकारोक्तं कर्त्रादिषट्कमेव गृह्यत इति।
(अष्टाoसूo1-4-24)
ध्रुवमपायेऽपादानम्(अष्टाoसूo1-4-24)। अपायो विश्लेषो विभागस्तद्धेतुत्वोपहितो गतिविशेषश्चेह विविक्षितस्तस्मिन्साध्येऽवधिभूतमपादानसंज्ञं स्यात्। वृक्षात्पतति। `ध्रुवम्' इत्यत्र "ध्रु गतिस्थैर्ययोः"(तुoपo14000)इत्यस्मात्कुटादेः पचाद्यच्। ये तु "ध्रुव स्थैर्ये" इति पठन्ति। तषामिगुपधलक्षणः कप्रत्ययः। ध्रुवतीति ध्रुवं स्थिरम्। एकरूपमिति यावत्। ध्रुवमस्य शीलमिति यथा। तथा चापाये साध्ये यदेकरूपमित्युक्ते प्रकृतधातूपात्तगत्यनाविष्टत्वे सति तदुपयोगीति लभ्यते। तच्चार्थादवधिभूतमेव पर्यवस्यति। तेन `धावतोऽश्वात्पतति' इत्यादौ क्रियाया विशिष्टस्याप्यशव्स्य प्रकृतधातूपात्तक्रियां प्रत्यवधित्वन्न विरुध्यते। तथा `परस्परस्मान्मेषावपसरतः, इत्यत्र सृधातुना गतिद्वयस्याप्युपादानादेकमेषनिष्ठाङ्गतिं प्रत्यपरस्यापादानत्वं सिध्यति। उक्तञ्च हरिणा प्रकीर्णकाण्डे-
अपाये यदुदासीनं चलं वा यदि वाऽचलम्।
ध्रुवमेवातदावेशात्तदपादानमुच्यते।।
पततो ध्रुव एवाश्वो यस्मादश्वात्पतत्यसौ।
तस्याप्यश्वस्य पतने कुड्यादि ध्रुवमिष्यते।।
मेषान्तरक्रियापेक्षमवधित्वं पृथक् पृथक्।
मेषयोः स्वक्रियापेक्षं कर्तृत्वञ्च पृथक् पृथक्।। इति ।।
अतदावेशादिति अपायानावेशादित्यर्थः।
गतिर्विना त्ववधिना नापाय इति कथ्यते।
इति तत्रैवोक्तेरवधिनिरपेक्षस्य चलनस्यापायत्वाभावादिति भावः। `पर्वतात्पततोऽश्वात्पतति' इत्यत्र तु पर्वतावधिकपतनाश्रयो योऽश्वस्तदवधिकं देवदत्ताश्रयं पतनमर्थः। पञ्चमी त्ववधौ शक्ता। तत्राभेदेन संसर्गेण प्रकृत्यर्थो विशेषणम्। प्रत्ययार्थस्तु क्रियायां विशेषणम्। कारकाणां क्रिययैव सम्बन्धात्। अन्यथाऽसाधुत्वात्। क्रियान्वये सत्येव हि कारकसंज्ञा, तत्पूर्विका विशेषसंज्ञाश्च स्थिताः। अत एवाहुः-
नाम्नो द्विधैव सम्बन्धः सर्ववाक्येष्ववस्थितः।
सामानाधिकरण्येन षष्ठ्या वापि क्वचिद्भवेत्।। इति ।
सामानाधिकरम्येनेति `नीलो घटः' इत्याद्यभिप्रायम्। `नीलं घटमानय' इत्यादावप्यन्तरङ्गक्रियान्वयानन्तरमेकक्रियावशीकृतानां पार्ष्णिक्यबोधाभिप्रायञ्च। षष्ठ्येति अकारकविभक्तेरुपलक्षणं `हरये नमः' इति यथा। क्वचिदिति, अकारकविभक्तेरपि, `नटस्य शृणोति' इत्यादौ क्रियान्वयदर्शनादिति भावः। एतेन `भूतले घटो न' इत्यत्र भूतलाधेयत्वाभावो घटे भूतलाधेयत्वं वा घटाभावे विशेषणमिति। द्वेधा व्याचक्षाणा नैयायिकाः परास्ताः, उभयथाऽपि क्रियानन्वये कारकविभक्तेरसाधुत्वात्, अर्थाबावेऽव्ययीभावापत्तेश्च। तस्य नित्यसमासत्वात्। नन्वस्मदुक्तोऽपि बोधोऽस्मद्दर्शनव्यतुत्पन्नानामनुभवसाक्षिक इति चेत्? सत्यम्, न हि वयं बोध एव नोदेतीति ब्रूमः। सर्वे सर्वार्थबोधनसमर्था इत्यभ्युपगमात् किन्तु तस्मिन्नर्थेऽसाधुताम्। तथाच "सिद्धे शब्दार्थसम्बन्धे" इति वार्तिकं व्याचक्षाणा भाष्यकारा आहुः-"समानायामर्थसम्बन्धे" इति वार्तिकं व्याचक्षाणा भाष्यकारा आहुः-"समानायामर्थावगतौ साधुभिश्चासाधुभिश्च गम्यागम्येतिवन्नियमः क्रियते" इति। उक्तञ्च-
भेदाभेदकसम्बन्धोपाधिभेदनियन्त्रितम्।
साधुत्वं तदभावेऽपि बोधो नेह निवार्यते।। इति ।।
एवञ्च कस्माद्वाक्यात्कीदृग् बोध इति प्रश्ने यो यथा व्युप्तन्नस्तस्य तादृगेवेति स्थितिः। कीदृशे बोधे साधुत्वं कुत्र नेति परं विचारविषय इति तत्त्वम्। एतेन `घटः कर्मत्वमानयनं कृतिः' इत्यादिनां स्वरूपायोग्यतेति परास्तम्, तथा व्युत्पन्नस्य बोधानुभवात्। अन्यथा व्युत्पन्नस्य व्युत्पत्तिरूपसहकारिविरहात्कार्यानुदयेऽपि स्वरूपयोग्यतानपायात्। एतेन प्रकृत्यर्थप्रकारको बोधो यत्र विशेष्यतया तत्र विषयतया प्रत्ययजन्य इत्यादिकार्यकारणभावं कल्पयन्तोऽप्यपास्ताः, विपरीतव्युत्पादिते व्यभिचारस्योद्भवात्। सिद्धान्ते तु घटः कर्मत्वमित्याद्यसाध्वेव। तथाहि, "अभिहिते प्रथमा" इति वार्त्तिकं, तत्कथं घटः कर्मत्वमिति प्रथमा? घटानयनयोरानयनकृती प्रति कर्मतया "कर्तृकर्मणोः"(अष्टाoसूo2-3-65)इति षष्ठीप्रसङ्गाच्चेति दिक्।
निर्दिष्टविषयं किञ्चिदुपात्तविषयं तथा।
अपोक्षितक्रियञ्चेति त्रिधापादानमुच्यते।।
यत्र साक्षाद्धातुना गतिर्निर्द्धिश्यते तन्निर्हिष्टविषयम्। `अश्वात्पतति' यथा। यत्र तु धात्वन्तरार्थाङ्गं स्वार्थं धातुराह तदुपात्तविषयम्। यथा `बलाहकाद्विद्योतते' इति। निः सरणाङ्गे विद्योतने द्युतिर्वर्तते। यथा वा `कुसूलात्पचति' इति। आदानाङ्गे पाकेऽत्र पचिर्वर्तते। अपेक्षितक्रियं तु तत्, यत्र प्रत्यक्षसिद्धमागमनं मनसि निधाय पृच्छति कुतो भवानिति, पाटलिपुत्रादिति चोत्तरयति; अर्थाध्याहारस्य न्याय्यताया उक्तत्वात्। इह `सार्थाद्धीयते' इत्यपि निर्द्दिष्टविषयस्योदाहरणम्।
स्यादेतत्। परत्वात्सार्थस्य कर्त्तृसंज्ञा प्राप्नोति। उक्तं हि "अपादानमुत्तराणि" इति। किञ्च सार्थस्य कर्तृत्वाभावे त्यज्यमानस्य कर्मसंज्ञा न स्यात् कर्तृव्यापारव्याप्यत्वाभावात्। ततश्च हीयते हीन इति कर्मणिं लकारो निष्ठा च न स्यात्। न च कर्मकर्तर्ययं लकार इति वाच्यम्, जहातेः कर्तृस्थक्रियत्वात्कर्मण्येवायं लकार इति इन्दुनोक्तत्वात्। यत्तु "अपादाने चाहीयरुहोः"(अष्टाoसूo5-4-45)इति सूत्रे न्यासकरेण सम्प्रदानसूत्रे कैयटेन चोक्तं कर्मसंज्ञायां कर्तृग्रहणं स्वातन्त्र्योपलक्षणम्। अतो हानक्रियायां स्वतन्त्रेणापादानेनेप्स्यमानस्येह कर्मतेति। तच्चिन्त्यम्, `माषेष्वश्वं बध्नाति' इत्यत्र कर्मणोऽप्यश्वस्य वस्तुतो भक्षणे यत्स्वातन्त्र्यं तदाश्रयकर्मसंज्ञापत्तेः। अत एव कर्मसंज्ञाविधायकसूत्रशेषे कैयटेनोक्तम्-प्रयोजकव्यापारस्याशब्दार्थत्वात्तदपेक्षं कर्मत्वमयुक्तमिति।
अत्राहुः-`सार्थाद्धीयते' इत्यत्र कर्मकर्त्तरि लकारः। तथाहि, अपगमना जहातेरर्थः। सा च क्षुदुपघातादिना देवदत्तस्यापगमते तत्समर्थाचरणम्। यदा तु क्षुदुपघातादिना स्वयमेवापगच्छति तदा कर्मकर्तृत्वम्। स्फुटञ्चेदं हरदत्तमाधवग्रन्थयोः।
स्यादेतत्। ध्रुवग्रहणं किमर्थम्? न च `ग्रामादागच्छति शकटेने' इत्यत्रशकटेऽतिव्याप्तिवारणाय तदिति वाच्यम्, परत्वात्तत्र करणसंज्ञाप्रवृत्तेः। यथा `धनुषा विध्यति' इत्यत्र। इह हि शरनिःसरणं प्रत्यवधिभावोपगमेनैव व्यधने करणतेत्युभयप्रसङ्गः। `वृक्षस्य पर्णं पतति' इत्यादौ तु वृक्षः पर्मविशेषणं न त्वपायेन युज्यते। न च संज्ञिनिर्देशार्थं ध्रुवग्रहणम्, अपाये क्रियायां यदन्वेतीत्यस्याक्षिप्तस्य संज्ञिसमर्थकत्वात्। यद्वा, कारके इति निर्धारणसप्तम्याश्रयणात्कारकमिति लभ्यते। पूर्वत्रापि प्रथमार्थे सप्तमीत्युक्तत्वाच्च। तस्माद् ध्रुवग्रहणं चिन्त्यप्रयोजनम्।
जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम्(काoवाo)। अधर्माज्जुगुप्सते विरमति प्रमाद्यति वा। संश्लेषपूर्वको विश्लेषो विभागः। स चेह नास्ति। बुद्धिकल्पितस्तु गौणत्वान्न गृह्यते इति वार्त्तिकारम्भः। भाष्यकारास्तु जुगुप्सादयोऽत्र जुगुप्सादिपूर्विकायां निवृत्तौ। वर्तन्ते इत्युपात्तविषयमेतत्। कारकप्ररणे च गौणस्यापि ग्रहणम्। "साधकतमम्"(अष्टाoसूo1-4-42)इति तमग्रहणाल्लिङ्गात्। अपायादिपदानां स्वरितत्वाद्वा "स्वरितेनाधिकारः"(अष्टाoसूo1-3-11)गौणोऽप्यर्थो गृह्यते इति व्यवस्थापनात्। तेन बुद्धिकल्पितस्याप्यपायस्य सत्वात्सिद्धम्। पूर्वं हि बुद्ध्याऽधर्मं सम्प्राप्य ततो दोषदर्शनान्निवर्तते इत्यस्त्यपायः। एवमुत्तरसूत्रेष्वपि प्रपञ्चत्वं बोध्यमिति दिक्।
(अष्टाoसूo1-4-25)
भीत्रार्थानां भयहेतुः(अष्टाoसूo1-4-25)। भयं भीः, त्राणं त्राः, भयार्थानां त्राणार्थानाञ्च योगे भयहेतुः कारकमपादानं स्यात्। चोरेभ्य उद्विजते बिभेति, रक्षति वा त्रायते। भयहेतुग्रहणं चिन्त्यप्रयोजनम्। `अरण्ये बिभेति' इत्यादौ तु परत्वादधिकरणसंज्ञा।
इति रामायणश्लोकस्तु कस्य संयुगे इति योजनया व्याख्येयः।
(अष्टाoसूo1-4-26)
पराजेरसोढः(अष्टाoसूo1-4-26)। परापूर्वस्य जयतेः प्रयोगेऽसोढो ह्योर्थोऽपादानं स्यात्। `अध्ययनात्पराजयते' ग्लायतीत्यर्थः। अकर्मकश्चायम्। तत्र षष्ठ्यां प्राप्तायां वचनम्। असोढः किम्? शत्रून्पराजयते। अभिभवतीत्यर्थः। असोढ इति क्तार्थो भूतकालोऽत्राविवक्षितः। तेन `अध्ययनात्पराजेष्यते' इत्यादि सिद्धम्। वस्तुतस्तु असोढग्रहणं व्यर्थं `शत्रून्पराजयते' इत्यत्र परत्वात्कर्मसंज्ञासिद्धेः। इह सूत्रे पराजेरिति रूपं "विपराभ्याठ्जेः"(अष्टाoसूo1-3-12)इतिवत्समर्थनीयम्। यत्तु परत्वात् "घेर्ङिति"(अष्टाoसूo7-3-111)इति गुण इति हरदत्तेनोक्तं तत्सुत्रभाष्यादिविरुद्धमिति प्रागेव प्रणञ्चितम्।
(अष्टाoसूo1-4-27)
वारणार्थानामीप्सितः(अष्टाoसूo1-4-27)। वारणार्थानां प्रयोगे क्रियया आप्तुमिष्टं कारकमपादनं स्यात्। यवेभ्यो गां वारयति। "वृञ्वरणे"(चुoउo1814)चुरादिः। प्रवृत्तिविधातो वारणम्। ईप्सित इति किम्? यवेभ्यो गां वारयति क्षेत्रे। नन्विह परत्वादधिकरणसंज्ञाभविष्यति यथा कृतेऽपीप्सितग्रहणे गोषु इप्सिततमत्वप्रयुक्ता कर्मसंज्ञा। सत्यम्, चिन्त्यप्रयोजनमेवेप्सितग्रहणम्।
(अष्टाoसूo1-4-28)
अन्तर्धौ येनादर्शनमिच्छति(अष्टाoसूo1-4-28)। अन्तर्धाविति सप्तमी। येनेति कर्तरि कृतीया। न च कृद्योगे षष्ठीप्रसङ्गः। उभयप्राप्तौ कर्मण्येवेति नियमात्। व्यवधाने सति यत्कर्तृकस्यात्मनो दर्शनस्याभावमिच्छति तत्कारकमपादानं स्यात्। मातुर्निलीयते कृष्णः। "लीङ्श्लोषणे"(दिoआo1139)दैवादिकः। अत्रान्तर्धाविति चिन्त्यप्रयोजनम्। न `दिदृक्षते चोरान्' इत्यत्र हि परत्वात्कर्मता सिद्धा। इच्छतीति किम्? इच्छायामसत्यां सत्यपि दर्शने यथा स्यात्।
(अष्टाoसूo1-4-29)
आख्यातोपयोगे(अष्टाoसूo1-4-29)। उपयोगो नियमपूर्वकं विद्यास्वीतकरणम्। तस्मिन्साध्ये य आख्याता तत्कारकमपादानं स्यात्। उपाध्यायादधीते। उपयोगे किम्? नटस्य शृणोति।
(अष्टाoसूo1-4-30)
जनिकर्तुः प्रकृतिः(अष्टाoसूo1-4-30)। जायमानस्य हेतुरपादानं स्यात्। पुत्रात्प्रमोदो जायते। इह जनिरुत्पत्तिः। "जनिरुत्पत्तिरुद्भवः" इत्यमरः(अoकोo1-4-30)। "इञजादिभ्यः"(काoवाo)इति जनेर्भावे इञ् "जनिघसिभ्याम्"(उoसूo579)इत्युणादिसूत्रेणेण् वा। "जनिवध्योश्च"(अष्टाoसूo7-3-35)इति वृद्धिप्रतिषेधः। तस्याः कर्तेति षष्ठीतत्पुरुषः। "कर्तरिच"(अष्टाoसूo2-2-16)इति प्रतिषेधस्त्वनित्यः, अत एव ज्ञापकात्। यद्वा, शेषषष्ठ्या समासोऽयम्। निषेधस्तु कर्मषष्ठीविषय इति "कारके"(अष्टाoसूo1-4-23)इति सूत्रे कैयटः। तथा चार्थमात्रस्य ग्रहणाद्धात्वन्तरयोगेऽपि भवति `अङ्गादङ्गात्सम्भवति' इति यथा। एतेन "इक्शितपौ धातुनिर्द्देशे"(काoवाo)इतीका निर्देशोऽयमित्याश्रित्य "गमहन"(अष्टाoसूo6-4-98)इत्युपधालोपमर्थासङ्गतिं चोद्भावयन्तो मीमांसावार्तिककाराः समाहितः। अत्र प्रकृतिग्रहणमुपादानमात्रपरमित्येके। अत एव "प्रकृतिश्च प्रतिज्ञा दृष्टान्तानुपरोधात्"(प्रoसूo)इत्यधिकरणे ब्रह्मणो जगदुपादानतायां "यतो वा इमानि भूतानि जायन्ते" इति पञ्चमीमुपष्टम्भिकामाहुः। अन्ये तु `पुत्रात्प्रमोदो जायते' इति वृत्तिस्वरसात्प्रकृतिशब्द इह कारणमात्रपर इत्याहुः। अस्मिंश्च पक्षे `यतो वा' इति सामान्यशब्दोऽपि उपादानरूपविशेषपरः "छागो वा मन्त्रवर्णात्"(जैoसूo6-89-31)इति षाष्ठन्यायात्। "अहमेव बहु स्याम्" इति हि सामानाधिकरण्यं श्रूयते। तच्च चतुर्धा-भ्रमे, बाधायाम्, अभेदे, तादात्म्ये च। प्रकृते तादात्म्ये, भिन्नत्वे सत्यभिन्नसत्ताकत्वम् आविद्यकः सम्बन्धविशेषो वा तादात्म्यमित्याद्युत्तरमीमांसायां स्पष्टम्।
(अष्टाoसूo1-4-31)
भुवः प्रभवः(अष्टाoसूo1-4-31)। भूकर्तुः प्रभवः प्राग्वत्। हिमवतो गंङ्गा प्रभवति। कश्मीरेभ्यो वितरता प्रभवति। "तसु उपक्षये"(दि.प.1213)भावेक्तः। विगतस्ता वितस्ता। अशोष्येत्यर्थः। अत्रोपलभतेः कर्मव्यापारे प्रभवतिर्वर्तते। प्रकाशते इत्यर्थः। "भीत्रार्थानाम्"(अष्टाoसूo1-4-25)इत्यारभ्येयं सप्तसूत्री भाष्ये प्रत्याख्याता। तथाहि चोरेभ्यो बिभेति। भयान्निवर्तते इत्यर्थः। त्रायते, रक्षणेन चोरेभ्यो निवर्त्तयतीत्यर्थः। पराजयते, ग्लान्या निवर्तते इत्यर्थः। वारयति, प्रवृत्तिम्प्रतिबध्नन्निवर्तयति। निलीयते, निलयनेन निवर्तते इत्यर्थः। अधीते, उपाध्यायान्निःसरन्तं शब्दं गृह्णातीत्यर्थः। ब्रह्मणः प्रपञ्चो जायते इत्यत्रापि ततोऽपक्रामति। यथा वृक्षात्फलमिति लोकप्रसिध्याश्रयेणापायो बोध्यः। प्रभवतीत्यत्रापि भवनपूर्वकं निःसरणमर्थः।
अत्रेदं वक्तव्यं, निवृत्तिनिःसरणादिधात्वन्तरार्थविशिष्टे स्वार्थे वृत्तिमाश्रित्य यथाकथञ्चिदुक्तप्रयोगाणां समर्थनेऽपि मुख्यार्थपुरस्कारेण षष्ठीप्रयोगो दुर्वारः। `नटस्य शृणोति' इतिवत्। न ह्युपाध्यायनटयोः क्रियानुकूलव्यापारांशे विशेषो वक्तुं शक्यः। अनभिधानब्रह्मास्त्रमाश्रित्य प्रत्याख्यानन्तु नातीव मनोरमम्। एवञ्च "जुगुप्साविराम"(काoवाo)इत्यादिवार्तिकमप्यवश्यारम्भणीयम्। तथाच सूत्रवार्तिकमतमेवेह प्रबलमिति यावद्बाधं साधु। तथा ध्रुवं भयहेतुरसोढ इत्यादिसंज्ञिनिर्द्देशोऽपि सार्थकः परत्वात्तत्तत्संज्ञाप्राप्तावपि शेषत्वविवक्षायां न माषाणामश्नीयादित्यादाविव षष्ठ्या इष्टतया तत्रापादानसंज्ञाया वारणीयत्वादित्यवदेयम्।
(अष्टाoसूo1-4-32)
कर्मणा यमभिप्रैति स सम्प्रदानम्(अष्टाoसूo1-4-32)। कर्मणा करणभूतेन कर्ता यमभिप्रैति सम्बध्नाति ईप्सति वा तत्कारकं सम्प्रदानं स्यात्। न च युगपत्कर्मत्वं करणत्वञ्च कथमिति वाच्यम्, क्रियाबेदेनाविरोधात्। दानक्रियायां हि कर्म अभिप्रापणक्रियायां करणम्। दीयमानया गवा हि शिष्य उपाध्यायमभिप्रैति। उपाध्यायाय गां ददाति। अत्राभिप्रैतीति पदत्रयम्। न तु समास-। "उदात्तवता गतिमता च तिङा गतेः समासो वक्तव्यः" इति वार्त्तिकस्य छन्दोविषयत्वादिति हरदत्तः। भाषाविषयत्वे बाधकं तु तत्रैव वक्ष्यामः।
अत्र वृत्तिकाराः-अन्वर्थसंज्ञेयं सम्यक् प्रदीयते यस्मै तत्सम्प्रदानमिति। तेनेह न-राजकस्य वस्त्रं ददाति। घ्नतः पृष्ठं ददाति। इह हि ददातिर्गौणः न तु वास्तवं दानमस्तीत्याहुः।
भाष्ये तु नैतत्स्वीकृतं `खण्डिकोपाध्यायस्तस्मै चपेटां ददाति' `न शुद्राय मतिं दधायत्' इत्यादिप्रयोगात्। `राजकस्य ददाति' इति तु शेषत्वविवक्षायां बोध्यम्। नन्वेवम् `अजान्नयति ग्रामम्' इति नयतिक्रियाकर्मभिरजैः सम्बध्यमानस्य ग्रामस्य सम्प्रदानत्वं स्यादिति चेत्? न, यमभिप्रैतीत्युक्त्या हि यमिति निर्द्दिष्टस्य गवादेः शेषत्वं च प्रतीयते। यथा कर्त्रभिप्राये क्रियाफले इति कर्तुः शेषित्वं क्रियाफलस्य शेषत्वं च। न चेह ग्रामं प्रत्यजा शेषभूता। तथा च प्रयोजकलक्षणे प्रासनवन्मैत्रावरुणाय दण्डप्रदानमित्यधिकरणे "क्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छति" इति दण्डदानं न प्रतिपत्तिः, किन्तु द्वितीयापेक्षया बलीयस्या चतुर्थीश्रुत्याऽर्थकर्मेत्युक्तम्। अत्र वार्त्तिकं-क्रियाग्रहणं कर्तव्यम्। पत्ये शेते। भाष्यकारास्तु सन्दर्शनप्रार्थनाध्यवसायैराप्यमानत्वात्क्रियापि कृत्रिमं कर्म। तथा च सूत्रेणैव सिद्धम्। प्रतीयमानक्रियापेक्षोपि हि कारकभावो भवत्येव। प्रविशपिण्डीमिति वत्। सूत्रकारश्चाह "क्रियार्थोपपदस्य च कर्मणि स्थानिनः"(अष्टाoसूo2-3-14)इति। न चैवमप्यददातिकर्मत्वात् क्रियाग्रहणं कर्त्तव्यमेवेति वाच्यम्, भाष्ये अन्वर्थसंज्ञात्वास्वीकारात्। नन्वेवं `कटङ्करोति' इत्यादावपि सम्प्रदानत्वं स्यात्। वचनबलाच्च कर्मसम्प्रदानत्वयोः पर्यायप्रसङ्गः। अत्राहुः-नेदं वार्त्तिकं सार्वत्रिकम्, किन्तु प्रयोगानुसारान्नियतविषयं, धातूपात्तफलानाधार एव प्रवृत्तेः। भाष्यमते तु यत्र सम्प्रदानत्वमिष्टं तत्र सन्दर्शनादीनां क्रियायाश्च भेदो विवक्ष्यते। ततश्च तैराप्यमाना क्रियापि कृत्रिमं कर्मेति सिद्धं तयाऽभिप्रेयमाणस्य सम्प्रदानत्वम्। यत्र तन्नेष्टं तत्र भेदो न विवक्ष्यते। ततश्चोत्पत्तिविक्लित्त्याद्येकफलावच्छेदेनैकीकृतया क्रियया व्याप्यमानस्य कर्मत्वमेव भविष्यति। `कटङ्करोति' `ओदनं पचति' इति। गत्यर्थेषु तु भेदोऽभेदश्चेत्युभयं विवक्ष्यते। तत्र भेदविवक्षायां `ग्रामाय गच्छति' इति प्रयोगः। अभेदविवक्षायान्तु `ग्रामं गच्छति' इति। तथाच "गत्यर्थकर्मणि"(अष्टाoसूo2-3-12)इति सूत्रे प्रत्याख्यास्यते। उक्तञ्च हरिणा-
भेदस्य च विवक्षायां पूर्वां क्रियां प्रति।
परस्याङ्गस्य कर्मत्वात्तत्क्रियाग्रहणं कृतम्।।
क्रियाणां समुदाये तु पदैकत्वं विवक्षितम्।
तदा कर्मक्रियायोगात्स्वाख्ययैवोपचर्यते।।
भेदाभेदविवक्षा च स्वभावेन व्यवस्थिता।
तस्माद्गत्यर्थकर्मत्वे व्यभिचारो न दृश्यते।।
विकल्पेनैव सर्वत्र संज्ञे स्यातामुभे यदि।
आरम्भेण न योगस्य प्रत्याख्यानं समं भवेत्।। इति ।।
अस्यार्थः-कर्म स्वाख्ययैव क्रियेप्सितत्वप्रयुक्तकर्मसंज्ञयैवोपचर्यते, व्यवह्रियते। न तु सम्प्रदानसंज्ञया गत्यर्थकर्मणि तु भेदाभेदौ द्वावपि विवक्ष्येते इति रूपद्वयसिद्धिः। व्यभिचारोऽतिप्रसङ्गस्तु न दृश्यते। विवक्षाया व्यवस्थितत्वादेव। एतदेव द्रढयति-विकल्पेनेति। समं तुल्यफलकम्। तस्मात्सूत्रं प्रत्याचक्षाणस्य भवतो विवक्षानियमोऽभिमतः। गत्यर्थेषु विवक्षाद्वयम्। `पत्ये शेते' इत्यादौ तु भेदविवक्षैव। `ओदनं पचति' इत्यादावभेदविवक्षैव। चेष्टायामनध्वनीत्येतत्प्रत्युदाहरणयोरपि अभेदविवक्षैव। `मनसा हरिं व्रजति' अध्वानं गच्छति' इति त्रिधा चेदम्। यदाह-
अनिराकरणात्कर्तुस्त्यागाङ्गं कर्मणेप्सितम्।
प्रेरणानुमतिभ्याञ्च लभते सम्प्रदानताम्।। इति ।
अनिराकर्तृ यथा-सूर्यायार्घ्यं ददाति। नात्र सूर्यः प्रार्थयते, न वानुमन्यते, न च निराकरोति। प्रेरकं यथा-विप्राय गां ददाति। अनुमन्तृ यथा-उपाध्यायाय गां ददाति। ननु दानस्य तदर्थत्वात्तादर्थ्ये चतुर्थो सिद्धैव तत्किं सम्प्रदानसंज्ञया? मैवम्, दानक्रियार्थं हि सम्प्रदानं न तु दानक्रिया तदर्था, कारकाणां क्रियार्थत्वात्। सम्प्रदानार्थं तु दीयमानं कर्मेति वाक्यार्थभूतापादनक्रियाया अतादर्थ्यात्तादर्थ्यचतुर्थ्या अप्राप्तौ संज्ञारम्भादिति हेलाराजः। तदेतत्सूचितम्-त्यागाङ्गं कर्मणोप्सितमिति। कर्मसम्प्रदानयोः करणकर्मत्वे वाच्ये। पशुना रुद्रं यजते। पशुं रुद्राय ददातीत्यर्थः। एतच्च वचनं उक्तोदाहरणमात्रविषयम्। अत एव सुब्व्यत्ययेन सिद्धत्वात्प्रात्याख्यायते। लोके तु यजेः पूजार्थत्वात्पशोः करणत्वं सिद्धम्।
(अष्टाoसूo1-4-33)
रुच्यर्थानां प्रीयमामः(अष्टाoसूo1-4-33)। सम्प्रदानं स्यात्। देवदत्ताय रोचने स्वदत्ते मोदकः। अत्राह हरिः-
हेतुत्वे कर्मसंज्ञायां शेषत्वे वापि कारकम्।
रुच्यर्थादिषु शास्त्रेण सम्प्रदानाख्यमुच्यते।।
अस्यार्थः-अन्यसमवेतोऽभिलाषो रुच्यर्थः। रोचते। अभिलाषविषयो भवतीत्यवगमात्। विषयीभवन्तं मोदकं देवदत्तः प्रयुङ्क्ते। लौल्यात्तदानुगुण्यमाचरतीति देवदत्तस्य हेतुसंज्ञायां प्राप्तायां सम्प्रदानसंज्ञा कथ्यते। तथाच हेतुसंज्ञाविरहे णिजभावाद्धेतुसमवायिन्या द्वितीयस्याः क्रियाया अप्रतीतेर्मोदकः स्वक्रियायां धातुवाच्यायां कर्ताभवति, न तु कर्म। यदा तु रोचते प्रीणयतीत्यर्थः, तदा कर्मसंज्ञायां प्राप्तायां वचनम्। तथा च प्रीयमाण इति विशेषणम्। "प्रीञ् तर्पणे"(चुoउo1836)इत्यस्मात्सकर्मकात्कर्मणि लट्। दैवादिकस्तु ङिदकर्मकः। तर्प्यमाम इत्यर्थः। यत्तु समर्थसूत्रे `रोचयामहे' इति हरदत्तेन प्रयुक्तं, तदस्मिन्नेव पक्षेऽध्यारोपितप्रेषणपक्षमाश्रित्येत्यवधेयम्। यदा तु देवदत्तस्य योऽभिलाषस्तद्विषयो भवतीत्यर्थस्तदा शेषत्वात्षष्ठ्यां प्राप्तायां वचनमिति। प्रीयमाणः किम्? देवदत्ताय रोचते मोदकः पथि। कर्मादाविवाधिकरणे मा भूत्। अत एव `आदित्यो रोचते' इत्यत्र दीप्त्यर्थे संज्ञा न भवति।
(अष्टाoसूo1-4-34)
श्लाघन्हूङ्स्थाशपां ज्ञीप्स्यमानः(अष्टाoसूo1-4-34)। एषां प्रयोगे बोधयितुमिष्टः सम्प्रदानं स्यात्। देवदत्ताय श्लाघते। श्लाघा स्तुतिः। देवदत्तं स्तौतीत्यर्थः। एवं हि देवदत्तः शक्यते ज्ञापयितुम्। स्तुतिः। देवदत्तं स्तौतीत्यर्थः। एवं हि देवदत्तः शक्यते ज्ञापयितुम्।
अन्ये त्वाहुः-देवदत्तायात्मानं परं वा श्लाघ्यं कथयतीत्यर्थ इति। तथा च भट्टिकाव्यम्-
श्लाघमानः परस्त्रीभ्यस्तत्रागाद्राक्षसाधिपः। इति।
आत्मानं श्लाघ्यं परस्त्रीभ्यः कथयन्नित्यर्थः। तत्राद्ये पक्षे कर्मत्वे प्राप्ते द्वितीये तु कारकशेषत्वात् षष्ठ्यां प्राप्तायां वचनम्। ह्नौतिप्रभृतयोऽत्र स्वार्थोपसर्जनज्ञापनावचनत्वात्सकर्मकाः। तथाच ज्ञीप्स्यमान इति संज्ञिविशेषणमुपात्तमिति हेलाराजः। `देवदत्ताय न्हुते' देवदत्तं न्हुवानस्तमेव न्हुतिं तमेव बोधयति। सन्निहितमपि देवदत्तं धनिकादेरपलपतीत्यर्थः। अथवा न्होतव्यं देवदत्तं बोधयतीत्यर्थः। `देवदत्ताय तिष्ठते' ईदृशोहमित्यवस्थानेन बोधयतीत्यर्थः। `देवदत्ताय शपते' शपथेन किञ्चित्प्रकाशयतीत्यर्थः। ज्ञीप्स्यमानग्रहणाद् `देवदत्तः श्लाघते' `गार्गिकया श्लाघते पथि'इत्यादौ कर्त्रादिविषये संज्ञा न भवति। `ज्ञीप्स्यमाने विवदन्ते' इति "शप उपालम्भे" इति वार्त्तिकोदाहरणव्याख्यायां कैयटः। तत्र यस्मै आख्यायते स ज्ञीप्स्यमान इति मते तु यस्मा आख्यायमानः प्रत्युदाहरणम्। तस्माद् द्वितीया, `देवदत्तं श्लाघते' इति। आख्यायमानो ज्ञीप्स्यमान इति मते तु यस्मा आख्यायते स प्रत्युदाहरणम्। तस्माच्च षष्ठी, देवदत्ताय श्लाघते विष्णुमित्रो यज्ञदत्तस्येति। "ज्ञप मिच्च"(चुoउo1624)इति चुरादिकात्सनि कर्मणि सानचि ज्ञीप्स्यमान इति रूपं बोध्यम्। न नु ज्ञाधातोः तस्य बोधने मित्त्वाभावात्। `तज्ज्ञापयति' इत्यादिभाष्यप्रयोगात्। अत एव "मारणतोषण"(गoसूo)इत्यत्र निशानेष्विति पाठो न तु निशामनेष्विति। निशानं तनूकरणम्। श्यतेर्ल्युट्। `संज्ञपितः पशुः' इत्युदाहरणम्। "आप्‌ज्ञप्यृधामीत्"(अष्टाoसूo7-4-15)इत्यत्र तूभयोरपि ज्ञप्योर्ग्रहणमिति सिद्धान्तः। चौरादिकश्च मारणतोषणनिशाभनेषु वर्त्तते इति माधवः।
(अष्टाoसूo1-4-35)
धारेरुत्तमर्णः(अष्टाoसूo1-4-35)। अयमुक्तसंज्ञः स्यात्। "धृङ्अवस्थाने"(तुoआo1413)। ण्यन्तः। उत्तमर्णो धनस्वामी। उत्कृष्टार्थवृत्तेरुच्छब्दात्तमपि द्रव्यप्रकर्षत्वादामभावः। अर्तेः क्तः। ऋणम्। "ऋणमाधमर्ण्ये"(अष्टाoसूo8-2-60)इत्यत्र कालान्तरदेयन्द्रव्यविनिमयोपलक्षणार्थमाधमर्ण्यग्रहणम्। तेनोत्तमर्णेऽपि नत्वं भवति। अस्मादेव निपातनान्निष्ठान्तस्य परनिपातो बहुव्रीहौ बोध्यः। देवदत्ताय शतं धारयति। ध्रियमाणं स्वरूपेणावतिष्ठमानं स्वबावादप्रच्यवमानं शतं प्रयुङ्क्ते इत्यर्थः। कारकशेषे षष्ठ्यां प्राप्तायामिदं वचनम्। उत्तमर्णः किम्? देवदत्ताय शतं धारयति ग्रामे। परत्वादिहाधिकरणसंज्ञा भविष्यतीति चेत्? उत्तमर्णेऽपि तर्हि हेतुसंज्ञा स्यात्।
(अष्टाoसूo1-4-36)
स्पृहेरीप्सितः(अष्टाoसूo1-4-36)। स्पृह ईप्सायां चुरादावदन्तः। अस्य प्रयोगेऽभिप्रेतः सम्प्रदाने स्यात्। पुष्पेभ्यः स्पृहयति। ईप्सितमात्र इयंसंज्ञा। प्रकर्षविवक्षायान्तु परत्वात्कर्मसंज्ञा। पुष्पाणि स्पृहयति। यदा त्वीप्सितमीप्सिततमं वा शेषत्वेन विवक्षितं तदा षष्ठ्येवेति हरदत्तादयः। हेलाराजस्तु "हेतुत्वे कर्मसंज्ञायाम्'(वाoपाo)इति प्रागुक्तश्लोकव्याख्यावसरे स्पृहयतियोगे कर्मसंज्ञायाः सेषषष्ठ्याश्च बाधिकेयं सम्प्रदानसंज्ञेत्याह। वाक्यपदीयस्वरसोऽप्येवम्। अस्मिन्पक्षे "परस्परेण स्पृहणीयशोभम्" इति कर्मण्यनीयर् दुर्लभः। `दानीयो विप्रः' इतिवत्सम्प्रदान ए तु व्याख्येयः। तथा-
कुमार्य इव कान्तस्य त्रस्यन्ति स्पृहयन्ति च।
इति षष्ठ्यप्यसङ्ता। विभक्तिविपरिणामेन कान्ताय स्पृहयन्तीति तु व्याख्येयम्। हरदत्तमते तु यथाश्रुतावेव उक्तप्रयोगौ निर्बाधाविति।
(अष्टाoसूo1-4-37)
क्रुधद्रुहेर्ष्यासूयार्थानां यम्प्रति कोपः(अष्टाoसूo1-4-37)। क्रोधाद्यर्थानां धातूनां प्रयोगे यं प्रति कोपस्तत्कारकं सम्प्रदानं स्यात्। देवदत्ताय क्रुध्यति द्रुह्यति ईर्ष्यति असूयति वा। वाक्‌चक्षुरादिविकारानुमेयः प्ररूढः कोपोऽत्र क्रोधः। अपकारो द्रोहः। असहनमीर्ष्या। गुणेषु दोषारोपणमसूया। ननु चित्तदोषार्थानामित्येवास्तु किं क्रोधादिनां विशिष्योपादानेनेति चेत्? न, द्विषादावतिप्रसङ्गात्। "योऽस्मान्द्वेष्टि" इत्यादौ ह्यनभिनन्दनं द्विषेरर्थः। अत एवाचेतनेष्वपि प्रयुज्यते `औषधं द्वेष्टि' इति। यम्प्रतीत्यादि किम्? भार्यामीर्ष्यति-मैनामन्योद्राक्षीदिति। नात्र भार्याम्प्रति कोपः किन्तु परैर्दृश्यमानां तां न क्षमते इत्येव। क्रुधद्रुहोरकर्मकतया कारकशेषत्वात् `नटस्य शृणोति' इतिवत् षष्ठ्यां प्राप्तायां वचनम्। इतरयोस्तु सकर्मकत्वात् द्वितीयायां प्राप्तायाम्।
(अष्टाoसूo1-4-38)
क्रुधद्रुहोरुपसृष्टयोः कर्म(अष्टाoसूo1-4-38)। सोपसर्गयोरनयोर्यं प्रति कोपस्तत्कारकं कर्मसंज्ञं स्यात्। पूर्वसूत्रापवादः। देवदत्तमभिक्रुध्यति, अभिद्रुह्यति।
(अष्टाoसूo1-4-39)
राधीक्ष्योर्यस्य विप्रश्नः(अष्टाoसूo1-4-39)। एतयोः कारकं सम्प्रदानसंज्ञं स्यात्। यदीयो विविधः प्रश्नः क्रियते। कृष्णाय राध्यति ईक्षते वा। पृष्टो गर्गः शुभाशुभं पर्यालोचयतीत्यर्थः। शुभाशुभपर्यालोचनमिह धात्वर्थः। शुभाशुभरूपयोः कर्मणोर्धात्वर्थेनोपसङ्ग्रहादकर्मकावेतौ। षष्ठ्यां प्राप्तायां वचनम्। अत एव राध्यतीति श्यन्, अकर्मकादेव तद्विधानात्। तथाच दिवाद्यन्तर्गणसूत्रं "राधोऽकर्मकाद्वृद्धावेव"(गoसूo)इति। अस्यार्थः-एवकारो भिन्नक्रमः। राधोऽकर्मकादेव। यथा वृद्धाविति। अत एव "कर्मवत् कर्मणा"(अष्टाoसूo3-1-87)इति सूत्रे "राध्यत्योदनः स्वयमेव" इति भाष्यं सङ्गच्छते। तत्र हि सिध्यतीत्यर्थः। एतेन-
न दूये सात्वतीसुनुर्यन्मह्यमपराध्यति।
क्रियासमभिहारेण विराध्यन्ते क्षमेत कः ।।
इति माघप्रयोगौ व्याख्यातौ। एतेनैतयोःकर्मकारकं सम्प्रदानं स्यादिति व्याचक्षाणाः परास्ताः। यस्येत्यनर्थकं यम्प्रतीत्यनुवृत्त्यैवेष्टसिद्धेः।
(अष्टाoसूo1-4-40)
प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता(अष्टाoसूo1-4-40)। प्रतिपूर्व आङ्‌पूर्वश्च शृणोतिरभ्युपगमे वर्त्तते। तस्य पूर्वो व्यापारः प्रवर्त्तनक्रिया, तस्याः कर्त्ता सम्प्रदानं स्यात्। विप्राय गां प्रतिसृणोति आशृणोति वा। विप्रेण मह्यङ्गां देहीति प्रवर्त्तितः प्रतिजानीते इत्यर्थः। हेतुसंज्ञायां प्राप्तायां `देवदत्तेन प्रतिशृणोति' इति प्रयोगनिवृत्तये वचनम्। विवक्षान्तरे तु `देवदत्तो गां प्रतिश्रावयति' इति भवत्येवेति हरदत्तः। अत्रेदं चिन्त्यम्-उक्तरीत्या `देवदत्तो रोचयति मोदकम्' इत्यपि प्रयोगो दुर्वारः। न चेष्टापत्तिः। तत्रत्यस्वग्रन्थेन हेलाराजग्रन्थेन च विरोधात्। तत्र हेतुत्वबाधान्न णिजिति यदि, तर्हि प्रकृतेऽपि तुल्यम्। तस्मादिह वैषम्यं दुर्वचमिति।
(अष्टाoसूo1-4-41)
अनुप्रतिगृणश्च(अष्टाoसूo1-4-41)। अनुपूर्वस्य प्रतिपूर्वस्य गृणातेः कारकं पूर्वस्य कर्तृभूतं सम्प्रदानं स्यात्। अनुप्रतिभ्यां गृणाः अनुप्रतिगृणाः तस्येति विग्रहः। अनुप्रतिपूर्वश्च गृणातिः शंसितुः प्रोत्साहने वर्त्तते। तत्र पूर्वो व्यापारः शंसनम्। होत्रे अनुगृणाति प्रतिगृणाति वा होता प्रथमं संसति, तमध्वर्युः `ओथामोदेव' इत्यादिभिः शब्दैः प्रोत्साहयतीत्यर्थः।
(अष्टाoसूo1-4-42)
साधकतमं करणम्(अष्टाoसूo1-4-42)। क्रियायां प्रकृष्टोपकारकं करणसंज्ञं स्यात्। यद्व्यापारानन्तरं क्रियानिष्पत्तिः तत्प्रकृष्टम्। उक्तञ्च-
क्रियायाः परिनिष्पत्तिर्यद्व्यापारादनन्तरम्।
विवक्ष्यते यदा तत्र करणं तत्तदा स्मृतम्।। इति ।
काष्ठैः पचति। विवक्ष्यते इत्यनेन स्थाल्यादीनामपि वैवक्षिकं करणत्वमस्तीत्युक्तम्। आह च-
वस्तुतस्तदनिर्द्देश्यं न हि वस्तुव्यवस्थितम्।
स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यतः।
ननु कारकाधिकारादेव सिद्धे साधकत्वे पुनः श्रुतिः प्रकर्षार्थाऽस्तु किं तमपा? सत्यम्, अस्मिन्प्रकरणे सामर्थ्यगम्यप्रकर्षो नाश्रीयते इति ज्ञापयितुं तमप्। तेन `गङ्गायां घोषः' इति सिद्धम्। यदा च तीरधर्म आधारत्वं प्रवाहे उपचर्यते तदेदं प्रयोजनम्। यदा तु गङ्गाशब्द एव तीरे वर्त्तते तदा न प्रयोजनम्। तत्राद्ये विभक्तिर्लाक्षणिकी। "सुब्विभक्तौ न लक्षणा" इति तु "येन विधिः"(अष्टाoसूo1-1-72)इति सूत्र एव निराकृतम्। द्वितीये तु प्रकृतिर्लाक्षणिकी। ननु उभयं मुख्यमस्तु। परम्परासम्बन्धस्तु संसर्गः। मैवम्, कारकविभक्त्यर्थानां प्रकृत्यर्थे साक्षात्सम्बन्धेन विशेष्यताया व्युत्पन्नत्वात्। अपादानप्रकरणोक्तानि च बहून्युदाहरणानि तमब्ग्रहणस्य प्रयोजनानीति बोध्यम्।
(अष्टाoसूo1-4-43)
दिवः कर्म च(अष्टाoसूo1-4-43)। दिवः साधकतमं कर्मसंज्ञं स्यात्, चकारात्करणसंज्ञम्। करणशब्दानुवृत्त्या वक्षअयमाणस्यान्यतरस्यां ग्रहणस्याकर्षणेन वा संज्ञयो- पर्याये लब्धे समावेशार्थश्चकारः। तेन `मनसा दीव्यतीति मनसादेवः' इत्यत्र कर्मण्यण् करणे तृतीया चेत्युभयं सिध्यति। "मनसः संज्ञायाम्"(अष्टाoसूo6-3-41)इत्यलुक्। किञ्च `अक्षैर्द्देवयते यज्ञदत्तेन'इत्यत्र सकर्मकत्वादणि कर्तुर्णौ कर्मत्वं न, "अणावकर्मकात्"(अष्टाoसूo1-3-88)इति परस्मैपदं च नेति दिक्।
स्यादेतत्, यदि समावेशः, तर्हि `अक्षान् दीव्यति' इत्यत्र परत्वात्तृतीया स्यात्। तथाहि, करणसंज्ञाया अवकाशः-`देवना अक्षाः'। करणे ल्युट्। कर्मसंज्ञाया अवकाशः-दीव्यन्ते अक्षाः। "भावकर्मणोः"(अष्टाoसूo1-2-13)इति यगात्मनेपदे। `अक्षान्' इत्यत्र तूभयसंज्ञाप्रयुक्तकार्यप्रसङ्गे परत्वात्तृतीयैव प्राप्नोति। अत्राहुः, कार्यकालपक्षे "कर्मणि द्वितीया"(अष्टाoसूo2-3-2)इत्यत्र पदस्योपस्थानं तस्यानवकाशत्वात् द्वितीयेति। ननु `दीव्यन्ते अक्षाः' इत्यत्र कर्मण्यभिहितेऽपि करणत्वस्यानभिधानात्तृतीया स्यात्। तथा `देवना अक्षाः' इति ल्युटा करणस्याभिधानेऽपि कर्मणोऽनभिधायनात् द्वितीया स्यात्। मैवम्, एकैव ह्यत्र शक्तिः संज्ञाद्वययोगिनी। तथाचोभयत्राप्यभिधआनमेव न त्वनभिहितत्वम्।
(अष्टाoसूo1-4-44)
परिक्रयणे सम्प्रदानमन्यतरस्याम्(अष्टाoसूo1-4-44)। नियतकालं वेतनादिना स्वीकरणं परिक्रयणं तस्मिन् साधकतमं कारकं सम्प्रदानसंज्ञं वा स्यात्। शताय शतेन वा परिक्रितः। परिशब्दः समीप्यं द्योतयति। क्रयो नामात्यन्तिकं स्वीकरणम्। नियतकालन्तु तस्य समीपमिति भावः।
(अष्टाoसूo1-4-45)
आधारोऽधिकरणम्(अष्टाoसूo1-4-45)। आध्रियन्तेऽस्मिन् क्रिया इत्याधारः। "अध्यायन्यायोद्याव"(अष्टाoसूo3-3-122)इत्यादिना करणे घञ्। क्रियाश्रययोः कर्तृकर्मणोर्धारणात् परम्परया क्रिया प्रति आधारः तत्कारकमधिकरणं स्यात्। कटे आस्ते, स्थाल्यां पचति।
स्यादेतत्। साक्षात्‌क्रियाधारयोः कर्तृकर्मणोरेव कुतो नेयं संज्ञेति चेत्? न, पराभ्यां कर्तृकर्मसंज्ञाभ्यां बाधितत्वात्। अत एवाहुः-
कर्तृकर्मव्यवहितामसाक्षाद्धारयत्‌क्रियाम्।
उपकुर्वत्क्रियासिद्धो शास्त्रेऽदिकरणं विदुः।। इति ।।
अत एव `भूतले घटः' इत्यादौ अस्तीत्यस्याध्याहारो नियतः। यथा `पुष्पेभ्यः' इत्यत्र स्पृहयतेः। अत एव च नञा सह कारकान्वयं वदन्तः परास्ताः। त्रिविधं चैतदधिकरणमिति "संहितायाम्"(अष्टाoसूo6-1-72) इति सूत्रे भाष्यम्-औपश्लोषिकं वैषयिकमभिव्यापकञ्चेति। कटे आस्ते, गुरौ वसति, तिलेषु तैलमिति।
(अष्टाoसूo1-4-46)
अधिशीङ्स्थासां कर्म(अष्टाoसूo1-4-46)। अधिपूर्वाणामेषां आधारः कर्म स्यात्। अधिशेते अधितिष्ठति अध्यास्ते वा वैकुण्ठं हरिः।
(अष्टाoसूo1-4-47)
अभिनिविशश्च(अष्टाoसूo1-4-47)। एतत्पूर्वस्य विशतेराधारः कर्म स्यात्। ग्राममभिनिविशते। अभिनिवेश आग्रहः, तद्वान् भवतीत्यर्थः। अकर्मकोऽयं, तत्राधिकरणस्य कर्मसंज्ञा विधीयते। प्रवेशनार्थे तु सिद्धैव। "परिक्रयणे सम्प्रदानम्'(अष्टाoसूo1-4-44)इति सूत्रादिहान्यतरस्यां ग्रहणमनुवर्त्तते मण्डूकप्लुतिन्यायेन। व्यवस्थितविभाषा चेयम्। "एष्वर्थेष्वभिनिविष्टानाम्" इति समर्थसूत्रस्थभाष्यप्रयोगश्चेह मानम्। तेन `पापेऽभिनिवेशः' इत्यादि सिद्धम्। इह सूत्रे नेरल्पाच्‌तरस्य परनिपाताकरणमीदृशानुपूर्वीकसमुदायविवक्षार्थम्। तेनेह न `निविशते यदि शूकशिखापदे'इति। कर्मत्वविवक्षायान्तु तत्रापि भवितव्यमेव द्वितीयया।
(अष्टाoसूo1-4-48)
उपान्वध्याङ्वसः(अष्टाoसूo1-4-48)। एतत्पूर्वकस्य वसतेराधारः कर्म स्यात्। उपवसति अनुवसति अधिवसत्यावसति वा ग्रामं सेना। वसेरश्यर्थस्य प्रतिषेधो वक्तव्यः।। अर्थशब्दो निवृत्तिवचनः। व्यधिकरणे षष्ठ्यौ। वाच्यवाचकभावः षष्ठ्यर्थः। भोजननिवृत्तेर्वाचकोयो वसिस्तस्य नेत्यर्थः। ग्रामे उपवसति। कथम् `उपोष्य रजनीमेकाम्' इति? "कालाध्वनोः"(अष्टाoसूo2-3-5)इति द्वितीया भविष्यति। कथम्`एकादश्यां न भुञ्जीत' इति? उपपदविभक्तेः कारकविभक्तिर्भविष्यति।
(अष्टाoसूo1-4-49)
कर्तुरीप्सिततमं कर्म(अष्टाoसूo1-4-49)। कर्त्रा यदाप्तुमिष्यतेतमां तत्कर्मसंज्ञं स्यात्। यद्व्यापाराश्रयत्वादसौ कर्ता तेनैव व्यापारेणाप्तुमिष्टमिति सन्निधानाल्लभ्यते। तेन क्रियाफलशालित्वं पर्यवस्यति। क्रिया हि फलेच्छापूर्वकेच्छाविषयः, फलमेव त्विष्टतमम्। तच्च धातुनोपात्तमिति तद्विशिष्टत्वेनेच्छाविषयोऽत्र संज्ञी। स च त्रिविधः। उक्तञ्च-
निर्वर्त्यञ्च विकार्यञ्च प्राप्यञ्चेति त्रिधा मतम्।
तत्रेप्सिततमं कर्म चतुर्धाऽन्यत्तु कल्पितम्।।
औदासीन्येन यत्प्राप्यं यच्च कर्तुरनीप्सितम्।
संज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकम्।।
तथा-
यदसज्जायते सद्वा जन्मना यत्प्रकाशते।
तन्निर्वर्त्यं विकार्यन्तु कर्म द्वेधा व्यवस्थितम्।।
प्रकृत्युच्छेदसंभूतं किञ्चित्काष्ठादिभस्मवत्।
किञ्चिद् गुणान्तरोत्पत्त्या सुवर्णादिविकारवत्।।
क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते।
दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते।
`तत्र निर्वर्त्यं यथा-`घटं करोति' इति। घटा ह्यसन्नेव जायते वैशेषिकादिमते। सङ्ख्यादिसत्कार्यवादिमते तु सन्नेवाभिव्यज्यते इत्यस्ति विशेषलक्षणम्। सामान्यलक्षणन्तु कृधातूपात्तोत्पत्त्याख्यफलशालित्वात्। एतेन करोतिर्यत्नार्थकं इति मतं प्रत्युक्तम्, यतते इतिवदकर्मकतापत्तेः। न च जानातिवद्विषयत्वापादनपर्यन्तार्थाभ्युपगमेनापि निर्वाहः, लाघवेनोत्पादनमात्रपरत्वात् कर्तृस्थक्रियतया कर्मवद्भावासिद्धिप्रसङ्गाच्च। प्रकृतेः प्रकृतिभूतस्यात्मन उच्छेदं सम्भूतं प्राप्तम्। तद्यथा, `काष्टं भस्म करोति'। गुणान्तरोत्पत्त्या यथा-`सुवर्णं कुण्डलं करोति' इति। इह भस्मकुण्डलयोर्निर्वर्त्यत्वमेवेति बोध्यम्। प्राप्यन्तु-`आदित्यं पश्यति'इति। तथायुक्तमिति द्विविधम्-द्वेष्यमितरच्च। "अकथितं च"(अष्टाoसूo1-4-51)इत्यपरम्। संज्ञान्तरप्रसङ्गे चान्यत्-"दिवः कर्म च"(अष्टाoसूo1-4-43)इत्यादि। तदित्थं सप्तविधं कर्मेति स्थितम्। इह प्राप्ये यद्यपि विषयताख्यः क्रियाकृतविशेषोऽस्त्येव। अन्यथा कर्मत्वानुपपत्तेः। तथापि प्रतिपत्तृव्यतिरिक्तपुरुषापेक्षया विशेषो न गम्यते इत्युक्तम्। विकार्ये तु काष्ठादौ कथं धातूपात्तफलाश्रयतेत्यवशिष्यते। तत्रेदं तत्त्वम्। प्रकृतिविकृत्योरभेदविवक्षया निरूढया उत्पत्त्याश्रयता। यद्वा, काष्ठानि विकुर्वन् भस्मोत्पादयतीत्यर्थः। तण्डुलान् विक्लेदयन्नोदनं निर्वर्त्तयतीतिवत्। एतच्छ "द्व्यर्थः पचिः" इति प्रक्रम्य भाष्ये व्युत्पादितम्। तत्र `तण्डुलानोदनं पचति' इति प्रयोग तण्डुलनिष्ठविक्लित्तेरोदनीत्पत्तेश्चानुकूलो देवदत्तनिष्ठव्यापार इत्यर्थः। `तण्डुलान्पचति' इत्यत्र तु विक्लेदयतीत्यर्थः। `ओदनं पचति' इत्यत्र तु विक्लित्त्वा निर्वर्तयतीत्यर्थः। उक्तंवच-
सम्बन्धमात्रमुक्तञ्च श्रुत्या धात्वर्थबावयोः।
तदेकांशनिवेशे तु व्यापारोऽस्या न विद्यते ।। इति ।
तस्माद्धातुत्वेन धातूपात्तां भावनां प्रति पचित्वेन पच्युपात्ता। विक्लित्तिः कर्मतया करणतया वा यथायथं सम्बध्यते इति स्थितम्‌। इहं त्ववधेयम्, क्रियाया धातुना कर्तुरपि देवदत्तादिशब्देन लाभाद्यथा न द्वितीयार्थता तथेष्टतमत्वादेरपि, प्रयोगोपाधिमात्रत्वात्। अधिशीङादिवत्। एवञ्च तथायुक्तस्थल इवेहापि धातूपात्तफलाधारमात्रमर्थः। आधेयमेव वा। तच्चाभेदेन फलेऽन्वेति। "अनन्यलभ्यः शब्दार्थः" इति न्यायात्। अन्यथा तथायुक्तत्वानीप्सितत्वयोरपि वाच्यतापत्तौ सकलतान्त्रिकविरोधाच्च। एवन्तु फलाश्रयः कर्मेत्येवास्तां किं द्विसूत्र्येत्यवशिष्यते। तत्रेदमुत्तरम्, अग्नेर्माणवकं वारयति' इत्यत्र माणवकस्य अपादानसंज्ञां बाधितुमीप्सिततममिति तावद्वक्तव्यम्। तस्मिंश्चोक्ते द्वेष्योदासीनयोः सङ्ग्रहार्थं "तथायुक्तम्'(अष्टाoसूo1-4-50)इत्यपि सीत्रणीयम्। अनीप्सितग्रहणन्तु शक्यं प्रत्याख्यातुम्। तथा च कर्तृकर्मविभक्त्योरुभयोरप्याधारो वाच्यः, आदेयं वा। व्यापारेण फलेन चान्वय इति तु व्यवस्थया शब्दबोधवैषम्यमिति स्थितम्। `गोदोहनी' `पक्ता' `पक्कः' इत्वादिकृदन्तानां नामार्थेऽबेदान्वयानुरोधादाधार एवार्थः, फलभावनयोस्तु विशेषणविशेष्यभावो विपरीत इत्यवधेयम्।
(अष्टाoसूo1-4-50)
तथायुक्तञ्चानीप्सितम्(अष्टाoसूo1-4-50)। ईप्सिततमवत्क्रियया युक्तमनीप्सितमपि कर्मसंज्ञं स्यात्। ग्रामं गच्छन् वृक्षमूलान्युपसर्पति। चौरान् पश्यति।
(अष्टाoसूo1-4-51)
अकथितञ्च(अष्टाoसूo1-4-51)। अपादानादिविशेषैरविवक्षितं कारकं कर्मसंज्ञं स्यात्। `नटस्य शृणोति' इत्यादावतिप्रसङ्गं वारयितुं परिगणनं कर्तव्यम्।
दुहियाचिरुधिप्रछिभिक्षिचिञामुपयोगनिमित्तमपूर्वविधौ।
ब्रुविशासिगुणेन च यत्सचते तदाकीर्तितमाचरितं कविना।।
नीवह्योर्हरतेश्चापि गत्यर्थानां तथैव च।
द्विकर्मकेषु ग्रहणं कर्तव्यमिति निश्चयः।।
इह प्रछीत्यत्र "छे च"(अष्टाoसूo6-1-43)इति तुङ् न कृतः, आगमशासनस्यानित्यत्वात् "सनाद्यन्ता धातवः"(अष्टाoसूo3-1-32)"इको यणचि"(अष्टाoसूo6-1-77)इतिवत्। उपयुज्यते इत्युपयोगो मुख्यं कर्म क्षीरादि तस्य निमित्तं गावादि दुह्यादीनां मुख्यकर्मणा सम्बध्यमानमिति यावत्। तथा ब्रुविशाख्योर्गुणेन कारकेण कर्मणेति वावत्; कारकाणां क्रियां प्रति। विशेषणत्वात्। तत्रापि कर्मण एव प्रकृतत्वात्। यत्सचते सम्बध्यते। "पच समवाये"(भ्वाo उo997) स्वरितेत्। केचित्तु परस्मैपदिभिः सहैनं धातुं पठन्ति। "षच समवाये, रप लप व्यक्तायं वाचि" इति। तन्मते "षच सेवने'(वाoआo163)इत्यस्यानुदात्तेतो धातूनामनेकार्यत्वात्समवाये वृत्तिर्बोध्या। उभयथापि सम्बध्नातेः कर्मव्यापारे सचिर्वर्तते। अत एव कर्तृपदस्य कर्मपदेनार्थकथनं न विरुध्यते। "राध्यत्योदनः" इत्यस्य पच्यते इत्यनेन यथा। उभयत्राप्योदननिष्ठविक्लित्तेर्भानाविशेषात्। कविना मेधाविना सूत्रकारेण तदकीर्तितमित्वाचरितं व्यवहृतमित्यर्थः। अपूर्वविधाविति। पूर्वोक्तानामपादानादिसंज्ञानां विषयश्चेन्नास्तीत्यर्थः। न चैवं वक्ष्यमाणयोर्हेतुकर्तृसंज्ञयोर्विषयेऽतिप्रसङ्गः स्यादिति वाच्यम्, एकसंज्ञाधिकारेण पराभ्यां हेतुकर्तृसंज्ञाभ्यां कर्मसंज्ञाया बाधात्। प्राञ्चस्तु पूर्वग्रहणमन्यमात्रोपलक्षणम्। तेन वक्ष्यमाणयोर्हेतुकर्तृसंज्ञयोर्विषये नातिप्रसहङ्गः। सूत्रेप्यकथितमिति कथननिवृत्तिपरायान्नोदनानां भूतकालो न विवक्ष्यते यथा "पराजेरसोढः"(अष्टाoसूo1-4-26)इत्यव्रासहिष्यमाणस्याप्यपादानसंत्रा भवति `अध्ययनात्पराजेष्यते' इति तथेहापीत्याहुः। तच्चिन्त्यम्, उक्तरीत्या यथाश्रुनेऽपि सर्वसामञ्जस्यात्। "निवह्योः" इति श्लोके गत्यर्थानामित्युत्तरसूत्रोपात्तानामुपलक्षणम् चकारेण जयत्यादयो गृह्यन्ते इति कैयटः। माधवोप्याह-
जयतेः कर्षतेर्मन्थेर्मुषेर्द्दण्डयतेः पचेः।
तारेर्ग्रहेस्तथा मोचेस्त्यार्जेदार्पिश्च सङ्ग्रहः।।
कारिकायाञ्चशब्देन सुधाकरसुखैः कृतः।। इति ।
एतन्निष्कर्षस्तु करिष्यते। क्रमेणोदाहरणानि-गान्दोग्धि पयः। अविनीतं विनयं याचते। गामवरुणद्धि व्रजम्। माणवक्तं पन्थानं पृच्छति। पौरवं गां भिक्षते। वृक्ष्मवचिनोति फलानि। माणवकं धर्मं ब्रूते शास्ति वा। अजां नयति ग्रामं, वहति भारं ग्रामं हरति वा, गमयति ग्राममित्यादि। जयतेःशतं जयति देवदत्तम्। कर्षति शाखां ग्रामम्। क्षीरनिधिं सुधां मथ्नाति। मुष्णाति शतं देवदत्तेन। गर्गन् शतं दण्डयति। तण्डुलानोदनं पचति। तारयति कपीन् समुद्रम्। ग्राहयति बटुनेदम्। मोचयति त्याजयति वा कोपं देवदत्तम्। दीपयति शास्त्रार्थं शिष्यान्।
स्यादेतत्, दुहादीनामर्थनिबन्धनेयं संज्ञा न तु स्वरूपाश्रया, "अहमपीदमचोद्यं चोद्ये" इति तद्राजसूत्रभाष्ये पृच्छिपर्यायस्य चुदेरपि द्विकर्मकत्वदर्शनात्। तथा च भट्टिः-
स्थास्नुं रणे स्मेरमुचो जगाद मारीचमुच्चैर्वचनं महार्थम्।
कालिदासोपि-
शिलोच्चयोऽपि क्षितिपालमुच्चैः प्रीत्या तमेवार्थमभाषतेव। इति।
भारविश्च-
उदारचेता गिरमित्युदारां द्वैपायनेनाभिदधे नरेन्द्रः। इति।
तथाच मिक्षेरर्थपरत्वाद्व्याचेरपि सिद्धम्, तुल्यार्थत्वात्। `पौरवं गामर्थयते' इति यथा। तन्किं पाचेः पृथग्ग्रहणेनेति चेत्? अत्राहुः, अनुनयार्थोऽत्र याचतिः। विनयं याचते। विनयायायानुनयतीत्यर्थात्। अस्तु तर्हि याचेरेव ग्रहणम्। तस्यानेकार्थत्वाद्भिक्षेरपि सिद्धमिति चेत्? न, अर्थभेदेन शब्दभेद इति दर्शनमाश्रित्यानुनयार्थस्यैव पाचेरिह ग्रहणात्। अत एव हि नयतिग्रहणेनानुनयार्थस्यापि न गतार्थता। स्पष्टार्थं भिक्षेः पृथग्‌ग्रहणमित्यन्ये। चकारेण पचेर्ग्रह इति यन्माधवादिभिरुक्तं तन्मतभेदेन। तथाच "कर्मवात्कर्मणा"(अष्टाoसूo3-1-87)इति सूत्रे "दुहिपच्योर्बहुलं सकर्मकयोः" इतिवार्तिकव्याख्यावसरे पचेर्द्विकर्मकता कैयटेन स्फुटीकृता। यत्तु "कर्तुरीप्सिततमम्"(अष्टाoसूo1-4-49)इति सूत्रे `द्व्यर्थः पचिः' इत्यादि भाष्यं तत्तु मतान्तरेण। अन्यथा `तण्डुलानोदनं पचति' इति प्रयोगस्य यथाश्रुतस्योपपत्तौ किं मुधा क्लेशेन। अत एव अकथितशब्दो यद्यप्रधानार्थो गृह्येत तदा `पाणिना कांस्यपात्र्यां दोग्धि पयः' इति पाणिकांस्यपात्र्योरतिप्रसङ्गः। करणाधिकरणयोस्तु पचत्यादिरवकाशः। न हि तत्रास्य प्रसङ्गो दुहादिपरिगणनादित्यकथितसूत्रे कथयतः कर्मवत्सूत्र तु पचेर्द्विकर्मकतां ब्रुवतो हरदत्तस्य न पूर्वापरविरोधः, मतभेदपरत्वात्। अत एव पचिधातुनिरूपणे `तण्डुलानोदनं पचति' इति प्रयोगं द्विकर्मकतयैव माधव उदाहृतवानिति दिक्। तथा ग्राहेर्द्विकर्मकत्वं बहवो न मनिरे। अत एव-
तमादौ कुलविद्यानामर्थमर्थविदां वरः।
पश्चात्पार्थिवकन्यानां पाणिमग्राहयत्पिता।।
इति कालिदासश्लोके पूर्वार्धे ग्रहेर्दुह्यर्थतया 'गतिबुद्धि"(अष्टाoसूo1-4-51)इति सूत्रेणाणौ कर्तुर्णौ कर्मत्वात्तमिति योजयित्वा उत्तरार्धे तेनेति विभक्तिविपरिणामेन व्याचख्युः। अत एव च-
अजिग्रहत्तं जनको धनुस्तद्येनार्दिदद्दैत्यपुरं पिनाकी।
जिज्ञासमानो बलमस्य बाव्होर्हसन्नभाङ्क्षीद्रघुनन्दनस्तत्।।
इति भट्टिप्रयोगो जयमङ्गलायामित्थं व्याख्यातः। अजिग्रहत् अनेन धनुषा भगवता त्रिपुरदाहः कृत इति बाधितवानिति। युक्तञ्चैतत्, श्रीरघुपतिं प्रति नियोगकथनानौचित्येन स्वरूपोपस्थापनस्यैव कर्तव्यत्वात्। एतेन-
अयाचितारं न हि देवदेवमद्रिः सुतां ग्राहयितुं शशाक।
इतिव्याख्यातम्, ग्रहेर्बुद्ध्यर्थत्वात्। यद्वा, इषिशक्योस्तुमनुनन्तसमभिव्याहृतयोर्द्विकर्मकताया "भाष्ये स्थितत्वात्सिद्धमेतदिति मधावः। ग्राहेर्द्विकर्मताभ्युपगमपक्षे तु "जायाप्रतिग्रहितगन्धामाल्याम्"(रoवाo2-1-)इति न सिध्येत्। तत्र हि "ण्यन्ते कर्त्तुश्च कर्मणः" इति प्रयोज्ये धेनुरूपे कर्मणि क्तः स्यात्। तथाच जायया गन्धमाल्ये प्रतिग्राहिता येति विग्रहे बहुव्रीहिरेव न स्यात्, त्रिकतः शेषस्य भाष्ये स्थितत्वात्। सत्यपि वा तस्मिन् पुवद्भावो दुर्लभः। सिद्धान्ते तु प्रतिग्राहिते गन्धमाल्ये ययेति विग्रहः। जायानिष्ठप्रेरणविषयीभूतं गन्धमाल्यकर्मकं यत्प्रतिग्रहणं तत्कर्त्रीमित्यर्थः। अन्यपदार्थान्तर्भावेणैव विशेषणविशेष्यवैपरीत्येनैवैकार्थीभावकल्पनात्। मासजातादिवत्। व्यपेक्षापक्षे तु तु अषष्ठीविभक्त्यर्थे बहुव्रीहौ सर्वत्र व्युत्पत्त्यन्तरकल्पनाऽस्त्येव। `प्राप्तादेकम्' इत्यस्य हि उदककर्तृकप्राप्तिकर्मीभूतमर्थः। `ऊढरथः' रथकर्मकवहनकर्ता। `उपहृतपशुः' पशुकर्मकोपहारसम्प्रदानम्। `उद्धृतौदनः' ओदनकर्मकोद्धरणापादानम्। `वीरपुरुषकः' वीरपुरुषकर्तृकस्थित्यधिकरणमिति दिक्।
स्यादेतत्। अपादानाद्यविवक्षायां द्विकर्मकताऽस्तु, तद्विवक्षायान्तु "जायाप्रतिग्राहित" इत्यादि सेत्स्यति। मैवम्, "हरतेश्च" इति चकारेण समुच्चितानां जयत्यादीनामकथितसूत्रविषयत्वेऽपि "तथैव च" इति समुच्चितानामणौ कर्तुर्णौ कर्मताभ्युपगमात्। गत्यर्थैः साहचर्यात्। अत एव तार्यादयः पृथगेव सङ्गृहीताः। युक्तञ्चैतत्, ग्रहणकर्तृत्वस्याविवक्षायां प्रयोजकस्य हेतुत्वाभावे णिचो दुर्लभत्वात्। न चैवं दीपिग्रहणवैयर्थ्यमकर्मकत्वादेवाणौ कर्तुर्णौ कर्मत्वसिद्धेरिति वाच्यम्, ण्यन्ताण्णिचि तत्सार्थक्यात्। शिष्याः तत्वं दीपयन्ति तानसौ प्रेरयतीत्यर्थः। नन्वेवं त्याजेः सङ्गृहीतत्वाद्यद्यपि "त्याजितैः फलमुत्खातैः" "मुक्ताहारञ्चिरपरिचितं त्याजितो दैवगत्या" इत्यादि सिद्धम्। तथापि गवा पयस्त्याजयतीत्यर्थ इति कैयटहरदत्तादिग्रन्थो विरुध्यते इति, चैत्रविशेषविवक्षायां कर्मत्वेऽपि कर्तृत्वविवक्षायां तस्य निर्बाधत्वात्।
स्यादेतत्, "कर्तुरीप्सिततमं कर्म"(अष्टाoसूo1-4-49) "तथायुक्तञ्चानीप्सितम्"(अष्टाoसूo1-4-50)इति सूत्राभ्यां सर्वमिदं सिद्धम्। तथाहि यथा विक्लित्त्युपसर्जनं विक्लेदनं पचेर्थः, न्यग्भावनं रुहेः, द्विधाभावनं भिदेः, तथा त्यजनोपसर्जनं त्याजनं दुहेः, दापनं याचेः भिक्षेश्च; अङ्गीकारणमपि याचेः, प्रवेशोपसर्जनमवस्थापनं रुधेः, आख्यापनं पृच्छेः, मोचनं चिञः, प्रतिवादनं ब्रूञः, तद्विशेषस्तु शासेरित्यादि। एवञ्च धातूपात्तव्यापारविषयाश्रयत्वं गवादेः स्पष्टमेवेति। अत एवाकडारसूत्रे "अपादानमुत्तराणि, गान्दोग्धीत्यत्र परत्वात्कर्मसंज्ञा" इति भाष्ये सङ्गच्छते। पञ्चकं प्रातिपदिकार्थ इति पक्षेऽवधित्वफलाश्रयत्वयोर्युगपद्विवक्षायां चेदम्, अवधिभूता या गौस्तन्निष्ठो यः क्षरणानुकूलव्यापारस्तद्विषयिणी गोपनिष्ठा प्रेरणेत्यर्थात्।
अत्रेच्यते, कर्मणः शेषत्वेन विवक्षायां `न माषाणामश्नीयात्' इति वत् षष्ठीं बाधितुं सूत्रम्। अपादानत्वमात्रविवक्षायां तु पञ्चम्येव, गोः क्षीरविशेषणत्वे तु षष्ठी भवत्येवेति न कश्चिद्दोषः। तथाचेह षष्ठीसम्बन्धमात्रं द्वितीयार्थ इति स्थितम्।
अथेदं विचार्यते-कर्मणि विधीयमानालकृत्यक्तखलर्थाः किं द्विकर्मकेभ्यो मुख्ये कर्मणि स्युर्गौणे वेति। अत्र भाष्यम्-
प्रधानकर्मव्याख्येये लादीनाहुर्द्विकर्मणाम्।
अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः।। इति ।
अभिधाने इति शेषः। अत्र द्विकर्मणामित्यनेन "नीवह्योर्हरतेश्च" इति च शब्दसमुच्चितः कृषिर्नयत्यादयश्चत्रय उच्यन्ते, अन्योषां विशेषस्य वक्ष्यमाणत्वात्। तथा दुह्यादीनामित्यनेन कारिकोपात्ताः, चशब्दसमुच्चितेष्वहेतुमण्ण्यन्ता दण्ड्यादयश्चोच्यन्ते। ण्यन्त इत्यनेन तु गत्यादिसूत्रोपात्ताश्चशब्दसमुच्चितास्तार्यादयश्च। तत्र अणौ कर्मतस्याभिधाने लादय इत्यर्थः। तत्रापि बुद्धिप्रत्यवसानार्थशब्दकर्मकेषु गुणकर्मणीति मतान्तरम्। तथाच भाष्यम्--
कथितेऽबिहितेत्वविधिस्त्वमतिर्गुणकर्मणि लादिविधिः सपरे।
ध्रुवचेष्टितयुक्तिषु चाथ गुणे तदनल्पमतेर्वचनं स्मरत।। इति ।
अत्र प्रधानकर्मणि लादिभिरभिहिते गुणकर्मणि षष्ठीत्येकीयमतदूषणपरः प्रथमः पादः। त्वस्या षष्ठ्याः विधीरितीयं त्वस्य अन्यस्य मतिर्न तु ममेत्यर्थात्। सपरे गत्यादिसूत्रोपात्तसहिते दुह्यादौ गुणकर्मणि लादयः। गुणकर्मेति। पुरुषप्रवृत्तेः पयःप्रभृत्यर्थत्वाद् दुहादावप्रधानं गवाद्युच्यते। ण्यन्ते तु शब्दतः प्रयोजकव्यापारस्य प्राधान्यम्। प्रयोज्यव्यापारस्य त्वप्रधान्यमिति तदार्थधर्माद्युच्यते। ध्रुवयुक्तयोऽकर्मकाश्चेष्टितयुक्तयो गत्यर्थाः। एष्वगुणे प्रयोज्ये। न च बुद्धिप्रत्यवसानार्थशब्दकर्मकेषु गुणकर्मण्येव स्यात् ण्यन्ते कर्तुश्चेत्यस्य सपर इत्यनेन बाधादिति वाच्यम्, अपर आहेति भाष्येण मतान्तरताद्यवसायात्-
अत्रायं सङ्ग्रहः-
गौणे कर्मणि दुह्यदिः प्रधाने नीहृकृष्वहाम्।
बुद्धिप्रत्यवसानार्थशब्दकर्मसु चेच्छया।।
प्रयोज्यकर्मण्यन्येषां ण्यन्तानामिह निश्चितः।
लकृत्यक्तखलर्थानां प्रयोगो भाष्यपारगैः।।
तत्र नीप्रभृतीनां प्रधानकर्मसम्बन्धोऽन्तरङ्गः। दुह्यादीनान्तु विपरीतम्। तेन तदंशे न्यायसिद्धो नियमः। इतरत्तु सर्वं वाचनिकम्। क्रमेणोदाहरणानि-गौर्दुह्यते पयः। दोह्या दुग्धा सुदोहा। अजा ग्रामं नीयते। नेया नीतासुनया। बोध्यते माणवकं धर्मः, माणवको धर्ममिति वा। देवदत्तो ग्रामं गम्यते गमयितव्यः गमितः सुगम इति। यत्तु कौमुद्यां दुह्याच्यर्थेत्यादिना दुह्यादीन् न्यादींश्च द्वैराश्येन पठित्वा न्यादयो मुख्ये दुह्यादयो गौण इत्युक्तम्। तत्र ग्रहेः पाठोनिर्मूल एव। "जग्राह द्युतरुं शक्रम्" इत्युदाहरणञ्चायुक्तम्। इतरेषान्तु द्विकर्मकतामात्रतात्पर्यकः पाठः। न्यादयो दुह्यादयश्चेत्युभयत्राप्यादिशब्दः प्रकारे इति सिद्धान्ताविरोधेन व्याख्येयम्। यथाश्रुते हि दण्डिमुषिभ्यां मुख्ये स्यात्। तथाच `गर्गाः शतं दण्ड्यन्ताम्' इति भाष्यं विरुध्येत। शतं त्वत्र प्रधानं, गर्गाः अर्थिनश्च राजानो हिरण्येन भवन्तीति वाक्यशेषात् दण्डिश्चेह ग्रहणार्थो न तु निग्रहार्थः। अत एव ह्यत्र समुदाये वाक्यसमाप्तिः, गुणानुरोधेन प्रधानावृत्तेः सम्भवात्। तथा मन्थेरपि प्रधाने स्यात्। इष्यते तु गौणे। तथा च भारविः-
येनापविद्धसलिलः स्फुटनागसद्मा देवासुरैरमृतमम्बुनिधिर्ममन्थ। इति ।
अमृतं ह्यत्रोद्देश्यतया मुख्यम्। अम्बुनिधिस्तु गौणः। यदपि अन्ये तु यथारुचीत्युक्त्वा "गोपीहावमकार्यत भाषश्चैनामनन्तेन" इत्युदाहृतम्। तदपि न, ण्यन्ते कर्तुश्च कर्मण इति सिद्धान्तात्। यद्वा, "कॄविज्ञाने" इतिचुरादावात्मनेपदीबोपदेवेन पठितः। तस्येदमुदाहरणम्, बुद्ध्यर्थेषु पक्षद्वयस्योपपादितत्वात्। यत्तु श्रीहर्षः प्रयुङ्क्त-
स्वक्रीडाहंसमोहग्रहिलशिशुभृशप्रार्थितोन्निद्रचन्द्रा। इति,
तच्चिन्त्यम्, शिशुना चन्द्रं प्रार्थितेत्यप्रधाने क्तप्रत्यये बहुव्रीह्ययोगात्। वक्ष्यति हि-अप्रथमाविभक्त्यर्थे चायमिति। न च चन्द्रे क्तः, "अप्रधाने द्रुहादीनाम्" इत्युक्तेः। अत एव "काकपक्षधरमेत्य याचितः" इति कालिदासः।
कृत्षष्ठी गुणमुख्याभ्यां कर्मभ्यां प्राप्यते पृथक्।
अविशेषाद् द्वितीयावन्नेता ग्रामस्य गोरिति।।
यत्रत्येकेन शब्देन भिन्नकक्ष्यद्वयाभिधा।
न शक्यते तत्र युक्तमेकस्यैवोपजीवनम्।।
प्रधाने नियता षष्ठी गुणे ह्युभयथा भवेत्।
इत्याह गोणिकापुत्र इति भाष्याद् गुणद्वयम्।।
नेताश्वस्य स्त्रुघ्नस्य स्त्रुघ्नं वा। इह प्रधाने कर्मणि नित्या षष्ठीभाष्यकारवचनात्तु गुणकर्मणि वैकल्पिकीति स्थितम्। नन्वकर्माणां प्राकृतकर्माभावात्कथं द्विकर्मकता? तथाच ण्यर्थकर्मणि प्रत्ययोऽस्तु `आस्यते माणवकः' इति। मासमिति तु प्रयोगोऽसङ्गतः। "ध्रुवचेष्टितयुक्तिषु वाप्यगुणः" इति श्लोके ध्रुवग्रहणञ्च व्यर्थमिति चेत्? न, "कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणां, देशश्चाकर्मकाणाम्" इति भाष्याद्गन्तव्योऽध्वा अद्य गन्तव्यः। असमादेव निपातनाद् गन्तव्यशब्दस्य परनिपातः। गन्तव्यतया लोके प्रसिद्धस्य नियतपरिमामस्य क्रोशयोजनादेरेव ग्रहणम्। तेन `अधअवानं स्वपिति' इति न भवति। मासमास्ते। गोदोहमास्ते। यावता कालेन गौर्दुह्यते तावन्तं कालमास्ते इत्यर्थः। क्रोशमास्ते। कुरून् स्वपिति। जन्यमात्रं कालोपाधिरिति पक्षे गोदोहादेर्यद्यपि कालत्वात्सिद्धं तथापि लोके मासादेरेव तथात्वेन प्रसिद्धत्वात्पृथग्भावग्रहणम्। देशशब्देन च ग्रामसमुदायविशेषाः कुरुपञ्चालादयो गृह्यन्ते इति कैयटः। तेन "अधिशीङ्स्थासाम्'(अष्टाoसूo1-4-46)इत्यादेर्वैय्यर्थ्यं नेति ध्येयम्। 'कालाध्वनोरत्यन्तसंयोगे"(अष्टाoसूo2-3-5)इति तु गुणद्रव्ययोर्थे आरम्भणीयम्। क्रोशं कुटिला। मासङ्गुडधानाः। सकर्मकार्थञ्च। मासं वेदमधीते। यद्वा, आस्यादयस्तत्पूर्वके व्यापने वर्त्तन्ते। तथाचोत्सर्गेणैव सिद्धम्, मासमासनेन व्याप्नोतीत्यर्थात्। तथाच द्वितीये भाष्यम्-"प्राकृतमेवेदं कर्म" इति। न चैवं सकर्मकेष्वप्यतिप्रसङ्गः, लक्ष्यानुरोधेनाकर्मकाणामेयोक्तप्रकाराभ्युपगमात्। आह च-
कालभावाध्वदेशानामन्तर्भूतक्रियान्तरैः।
सर्वैरकर्मकैर्योगे कर्मत्वमुपजायते।। इति ।
हेलाराजस्त्वाह। सकर्मकेष्वपि मासमोदनं पचतीति भवत्येव। अत एवोक्तं सर्वैरिति। अकर्मकैरिति त्वविवक्षितमिति। कैयटोऽप्येवम्। अस्मिन्पक्षे `मासमास्ते कटे' इति कटादेरपि द्वितीया प्राप्ता तथापि कालादेरेव व्यापनकर्मत्वं न तु कटादेरिति हेलाराजः। अनभिधानञ्चेह शरणम्। `अधिशीङ्'(अष्टाoसूo1-4-46)इत्यादिज्ञापकं वा बोध्यम्। इह च कर्मणि भावे च लकारे `दवदेत्तनास्यते मासौ मासं वा' इति रूपद्वयमपीष्टम्।
स्यादेतत्, भावेचाकर्मकेभ्य इति वचनान्मासादिकर्मकात्कथं भविल इति चेत्? उच्यते, अकर्मकेभ्य इत्यनेनान्तरङ्गं द्रव्यकर्म व्युदस्यते न तु बहिरङ्गं कालादिकर्म। कर्मणीत्यत्र तु व्यक्तिपक्षाश्रयणादन्तरङ्गासन्निधौ बहिरङ्गे कालादिकर्मण्यपि प्रतिरविरुद्धा, जातिव्यक्तिपक्षयोर्लक्ष्यानुरोधेन व्यवस्थेति सिद्धान्तात्। उक्तञ्च हरिणा-
शक्तिप्रमामसंख्यादेर्द्रव्यधर्माद्विशिष्यते क्रियासु कालयोगोऽतः प्राग्योगो द्रव्यकर्मणा।। इति ।
अतस्तैः कर्मभिर्धातुर्युक्तो द्रव्यैरकर्मकः।
लस्य कर्मणि भावे च निमित्तत्वाय कल्पते।। इति च ।
एतेन--
"सस्तेमाघमघाभिधानि यमुना गङ्गौघसङ्गे यया"
इति श्रीहर्षप्रयोगो व्याख्यातः।
(अष्टाoसूo1-4-52)
गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ(अष्टाoसूo1-4-52)। गत्याद्यर्थानां शब्दकर्मकाणामकर्मकाणां चाणौ यः कर्ता स णौ कर्मस्यात्। नियमार्थमिदम्-णिजर्थेनाप्यमानस्य यदि भवति तर्हि गत्यर्थादीनामेवेति। तेन `पाचयति देवदत्तो यज्ञदत्तेन' इत्यत्र प्रयीज्ये पूर्वप्रवृत्तकर्त्तृसञ्ज्ञाया एव निरपवादत्वेनावस्थानात्तृतीया सिद्ध्यति।
आह च--
गुणक्रियायां स्वातन्त्र्यात्प्रेषणे कर्मताङ्गतः।
नियमात्कर्मसंज्ञायाः स्वधर्मेणाभिधीयते।। इति।
कर्तुः स्वधर्मेण तृतीययेत्यर्थः। `गमयति माणवकं ग्रामं' ग्रामकर्मकं यद्रमनं तदनुकूलव्यापाराश्रय इत्यर्थः।
नीवह्योः प्रतिषेधो वक्तव्यः।। यद्यप्येतयोः प्रापणमर्थो न तु गतिस्तथापि विशेषमतया गतिरपि वाच्यकोटिनिविष्टेत्येतावन्मात्रेण प्राप्तिं मत्वा प्रतिषेध उक्तः। नाययति वाहयति वा भारं देवदत्तेन। वहेरनियन्तृकर्तृकस्यैव प्रतिषेधः।। नियन्तृकर्तृकस्य प्रयोज्यः कर्मेति वक्तव्यमिति फलितोऽर्थः। वहन्ति वाहाः वाहयति वाहान् रथिनं सूतः। "या प्रापणे"(अoपo1-49)इत्यत्र तु गतिरेव प्रापणशब्दार्थः, याति गच्छतीत्येकार्थप्रतीतेः। तेन `कालं पाचयति' इत्यादौ प्रयोज्यस्य कर्मता बोध्या। बुध्यर्थग्रहणेन ज्ञानसामान्यवाचिन एव गृह्यन्ते न तु तद्विशेषवाचिनः स्मरत्यादयः। अत एव श्रुदृशोरुपसङ्ख्यानं करिष्यते। बोधयति माणवकं धर्मम्। प्रत्यवसानं भक्षणम्। भोजयति आशयति माणवकमोदनम्।
आदिखाद्योः प्रतिषेधो वक्तव्यः।। आदयति खादयत्यन्नं बटुना।
भक्षेरहिंसार्थस्य प्रतिषेधो वक्तयः।। हेतुमण्णिजन्ते विधिरिति प्रतिषेधोऽव्यणावित्ययं सन्निधानात्तद्विषयः। तेन चुरादिणिजन्तेऽपि भक्षयतौ प्राप्तिसत्त्वात्प्रतिषेध उपसङ्ख्यातः। भक्षयत्यन्नं बटुना। अहिंसार्थस्येति किम्? भक्षयन्ति बलीवर्दाः सस्यम्। भक्षयति बलीवर्दान् सस्यम्। क्षेत्रस्थानां यवानां भक्ष्यमाणानां हिंसा द्रष्टव्या, तस्या मवस्थायान्तेषां चेतनत्वाभ्युपगमात्। शब्दः कर्मकारकं येषान्ते शब्दकर्माणः, न त्विह "कर्तरि कर्मव्यतिहारे"(अष्टाoसूo1-3-14)इत्यत्रेव कर्मशब्दः क्रियापरः, गतिबुद्धिप्रत्यवसानशब्दार्थेति वक्तव्येऽर्थशब्दात्कर्मशब्दस्य पृथगुपादानात् अध्याययति पाठयति माणवकं वेदम्।
जल्पतिप्रभृतीनामुपसङ्ख्यानम्।। जल्पयति विलापयति आभाषयति पुत्रं देवदत्तः।
दृशेश्चोपसङ्ख्यानम्।। दर्शयति हरिं भक्तान्। यद्यपि दृशेर्ज्ञानसामान्यपरत्वे बुध्यर्थत्वादेव सिद्धं तथापि ज्ञानविशेषार्थतायां न सिध्यतीत्युपसङ्ख्यानामारब्धम्। `श्रावयति श्लोकं देवदत्तम्' इति तु शब्दकर्मत्वात्सिद्धम्। शब्दक्रियाणामिति व्याक्याने तु शृणोतेरुपसङ्ख्येयं स्यात्। व्हयतिक्रन्दत्योश्च प्रतिषेध्यं स्यात्। व्हाययति क्रन्दयति वा देवदत्तेन। दृशेस्तूभयथाप्युपसङ्ख्येयं स्यात्। शब्दायतेश्चोभयथा प्रतिषेध्यम्। अकर्मकत्वादपि ह्यत्र प्रसङ्गः। शब्दलक्षणस्य कर्मणोन्तर्भावात् कर्मान्तारयोगाच्च। शब्दाययति देवदत्तेन। अकर्मकग्रहणेन तु येषां कालादिभिन्नं कर्म न सम्भवति ते गृह्यन्ते, न त्वविवक्षितकर्माणोऽपि। तेन `मासमासायति देवदत्तम्' इत्यादौ कर्मत्त्वं सिद्धम्। `देवदत्तेन पाचयति' इत्यादौ च न भवति। गत्यर्थाकर्मकेति सूत्रेऽप्येवम्। अत एवाविवक्षितकर्मकेभ्यः पचिददातिप्रभृतिभ्यः कर्तरि क्तो न। अन्यथा `पक्ववान्' `दत्तवान्' इत्यर्थे `पक्वः' `दत्तः' इति स्यात्। "लः कर्मणि"(अष्टाoसूo3-4-69)इति सूत्रे तु अविवक्षितकर्मणामसम्भवत्कर्मणां वा ग्रहणम्। अत एवाविवक्षितकर्मणां न भावे लादय इतीह सूत्रे वदतो "णेरणौ'(अष्टाoसूo1-3-67)इत्यत्र तु `नेह पच्यते' इति भावे लकार इति ब्रुवतो हरदत्तस्य मतभेदपरत्वान्न पूर्वापरविरोध इति दिक्।
(अष्टाoसूo1-4-53)
हृक्रोरन्यतरस्याम्(अष्टाoसूo1-4-53)।। हा च क्रा चेति विग्रहः। हुश्च क्रुश्चेति वा । अनयोरणौ कर्त्ता णौ वा कर्म स्यात्। नवेतिविभाषासूत्रे उभयत्रविभाषास्विदं वार्तिककृता पठितम्। तथाहि, `अभ्यवहारयति माणवकमोदनं माणवकेन वा' इत्यत्र प्रत्यवसानार्थत्वात्प्राप्ते `विकुर्वते छात्राः, विकारयति छात्रान् छात्रैर्वा' इत्यत्राकर्मकत्वात्प्राप्ते इतरत्र त्वप्राप्ते विभाषेयम्।
अभिवादिदृशोरात्मनेपदे वेति वक्तव्यम्।। अभिवादयतेरप्राप्ते विभाषा। दृशेस्तु बुद्ध्याद्यर्थत्वादुपसङ्ख्यानाद्वा प्रप्ति। अभिवादयति गुरुं देवदत्तः, अभिवादयते गुरुं देवदत्ते देवदत्तेन वा। "णिचश्च"(अष्टाoसूo1-3-74)इत्यात्मनेपदम्। परस्मैपदे तु `अभिवादयति गुरुं देवदत्तेन'। दर्शयते राजानं भृत्यान् भृत्यैर्वा। कर्मसंज्ञाभावपक्षे कर्मान्तरस्याभावात्। "णेरणौ"(अष्टाoसूo1-3-67)इत्यात्मनेपदमन्यत्र तु "णिच्श्च"(अष्टाoसूo1-3-74)इतीति प्राञ्चः। वस्तुतस्तु "णिचश्च" इत्येव युक्तम्। "णेरणौ" इत्यस्य तु नायं विषयः णिज्वाच्यप्रयुक्तिभेदादिति तत्रैवोपपादितम्।
(अष्टाoसूo1-4-54)
स्वतन्त्रः कर्त्ता(अष्टाoसूo1-4-54)। क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात्। धातूपात्तव्यापाराश्रयत्वं स्वातन्त्र्यम्। आह च--
धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते। इति ।
कर्मकर्तर्यप्यस्तीदम्। फलव्यापारयोर्वैयधिकरण्यमात्रस्य पचावौत्सर्गिकस्य पं त्यागः। विशकलितशक्तिपक्षे विशिष्टशक्तिपक्षे चेदं तुल्यम्। निवृत्तप्रेषणं कर्म स्वक्रियावयवे स्थितमिति पक्षे तु प्रधानभूतधात्वर्थ एवेह क्रिया, धातुत्वं तु भूतपूर्वभावनार्थत्वात्। एतेन कारकाणां क्रियान्वयनियमोऽपि द्वेधा व्याख्यातः। देवदत्तः पचति। स्थाली पचति। अनन्यलभ्यस्य शब्दार्थत्वादाश्रयो लकारार्थः। देवदत्तेन पच्यते। देवदत्तरूपो य आश्रयस्तद्विशिष्टो विक्लित्त्यनुकूलव्यापार इत्यर्थः। वैशिष्ट्यं चाधेयतारूपं संसर्गमर्यादया भासते।
(अष्टाoसूo1-4-55)
तत्प्रयोजकोहेतुश्च(अष्टाoसूo1-4-55)। तस्य कर्तुः प्रयोजको हेतुसञ्ज्ञः स्याच्चात्कर्तृसञ्ज्ञः। संज्ञासमावेशार्थश्चकारः। कुर्वन्तं प्रेरयति कारयति हरिः। हेतुत्वात्तद्व्यापारे "हेतुमति च"(अष्टाoसूo3-1-26)इति णिच्। कर्तृत्वात्कर्तरि लकारः।
।। इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य चतुर्थे पादे तृतीयमान्हिकम् ।।