सामग्री पर जाएँ

शब्दकौस्तुभः/अध्यायः १-पादः ४/आह्निकम् २

विकिस्रोतः तः
← आह्निकम् १ शब्दकौस्तुभः
आह्निकम् २
[[लेखकः :|]]
आह्निकम् ३ →



।। चतुर्थे पादे द्वितीयमान्हिकम् ।।
(अष्टाoसूo1-4-3)
यूस्त्र्याख्यौ नही(अष्टाoसूo1-4-3)। इवर्णोवर्णान्तौ तिन्यस्त्रीलिङ्गौ नदीसंज्ञो स्तः। दीर्घान्तयोरेषा संज्ञा व्यतिष्ठते, अण्त्वेन सवर्णग्रहणात्। ह्रस्वान्तयोस्तु प्राप्ताप्येषा परया घिसंज्ञया बाध्यते। तेन `मते, धेनो' इत्यादौ "अम्बार्थनद्योः"(अष्टाoसूo7-3-107)इति ह्रस्वो न भवति। ननु शेषग्रहणाद् धिसंज्ञा कथं भवेदिति चेत्? न, शेषग्रहमस्य प्रत्याख्यातत्वात्। तथाहि, एका संज्ञेति पाठे तावच्छेषस्य ग्रहणं व्यर्थमिति स्पष्टमेव। अपरङ्कार्यमिति पाठे तु दीर्घान्ते सावकाशां नदीसंज्ञां पुन्नपुंसकयोः सावकाशा घिसंज्ञा `हे मते' इत्यादौ परत्वाद्वाधिष्यते। `मत्यै, धेन्वै' इत्यादौ तु निरवकाशाऽपि "ङिति ह्रस्वश्च'(अष्टाoसूo1-4-6)इति नदीसंज्ञा घिसंज्ञां न बाधेत। अतः शेषग्रहणं कृतम्। तदपि वस्तुतो व्यर्थमेव, नदीसंज्ञावचनसामर्थ्यादेव घिसंज्ञाबाधोपपत्तेः। ह्रस्वलक्षणा हि नदीसंज्ञा। सा च प्रत्ययापेक्षत्वाद्वहिरङ्गा। तत्रान्तरङ्गायां घिसंज्ञायां "घेर्ङिति"(अष्टाoसूo7-3-111)इति च गुणे कृते ह्रस्वाभावान्नदीसंज्ञा निर्विषया स्यात्। तदुक्तम्-"तत्र वचनप्रामाण्यान्नदीसंज्ञायां घिसंज्ञाभावः" इति। यद्वा, ईश्च ऊश्च यू "वा छन्दसि"(अष्टाoसूo6-1-107)इति पूर्वसवर्णः। तेन दीर्घयोरेवेयं नदीसंज्ञा। न चैवं "ङिति ह्रवस्श्च'(अष्टाoसूo1-4-6)इति सूत्रे ह्रस्वांशेऽनन्वयः स्यादिति वाच्यम्, विभक्तिविपरिणामेन य्वोः सवर्णो यो ह्रस्व इति व्याख्यानात्। उदाहरणन्तु `गौर्यै' `वध्वै' इत्यादि। यू इति किम्? मात्रे, स्वस्रे। स्त्र्याख्यौ किम्? वातप्रम्ये।
स्यादेतत्। स्त्रियमाचक्षाते इति विग्रहे स्त्र्याख्यायाविति प्राप्नोति। "आतश्चोपसर्गे"(अष्टाoसूo3-1-136)इति कप्रत्ययस्य `सुग्लः' इत्यादौ सावकाशस्य परेण कर्मण्यणा बाधितत्वात्। सत्यम्, मूलविभुजादित्वात्कः। यद्वा, विच्प्रत्ययो भविष्यति। एतेन "तत्प्रख्यञ्चान्यशास्त्रम्"(जैoसूo1-4-4)इति जैमिनिसूत्रमपि व्याख्यातम्। नन्वेमपि स्त्रियामित्येवास्तु किमधिकेन? मैवम्, आसमन्ताच्चक्षाते इति व्युत्पत्त्या नित्यस्त्रीत्वलाभार्थं तदुपादानात्। तेन `ग्रामण्ये सेनान्ये स्त्रियै' इत्यत्र न भवति। ग्रामं सेनाञ्च नयतीति हि क्रियाशब्दावेतौ लिङ्गत्रयसाधारणौ। अत एव `आध्यै ब्राह्मण्यै' इति भाष्योदाहरणं चिन्त्यमिति कैयटः, आध्यानकर्तृत्वस्यापि लिङ्गत्रयसाधारणत्वात्।
प्रादेशनं निर्वपणमपवर्जनमंहतिः(अoकोo2-7-30)
इत्यमरकोशादिबलाद्दाने रूढौ तु प्रद्वेषयुक्तमाभिचारिकाद्यङ्गभूतमेव तदिह ग्राह्यम्। उणादीनामव्युत्पत्तिपक्षाश्रयणादन्तोदात्तता। "वहिवस्यर्तिभ्यश्चित्"(उoसूo509)इति चिद्ग्रहणानुवृत्तेरिति तु तत्त्वम्। एतेन "मानो गर्वः" इति व्याचक्षाणा अपि प्रत्युक्ताः, पदद्वयत्वस्याध्यापकसम्प्रदायसिद्धत्त्वात् वाक्यशेषानुगुण्याच्च। तस्माद् `आध्यै ब्राह्मण्यै' इति भाष्योदाहरणं चिन्त्यमिति। स्थितम्। प्राक्सुबुत्पत्तेर्यत्र समासस्तत्रैव गतिकारकपूर्वस्येष्यत इति यण् प्रवर्त्तत इति वदतां श्रीपतिदत्तादीनामपि मते कैयटोक्तं चिन्त्यं दृढमेव। वस्तुतस्तु आध्यानमाधीरिति व्युत्पाद्यगुणगुणिनोरभेदविवक्षयैव प्रयोगोऽयमिति चिन्त्योद्धारोऽवधेयः। हरदत्तस्त्वाह-नित्यस्त्रीत्वं नाम न लिङ्गान्तरानभिधायकत्वं, किन्तु शब्दान्तरसमभिव्याहारं विनैव स्त्रियां वर्त्तमानत्वं तत्। वृत्तिस्वरसोऽप्येवम्। कथन्तर्हि `ग्रामण्ये' `खलप्वे' इत्यादि प्रत्युदाह्रियते इति चेत्? शृणु। क्रियाशब्दत्वोप्यनयोः पुंसि मुख्या वृत्तिः। पुंसामेव त्वयमौत्सर्गिको धर्मः यद्भ्रामनयनं खलपवनं वा। आध्यानं तु स्त्रीपुंससाधारणमेवेति वैषम्यम्। तस्माद्युक्तमेवेदं भाष्यमिति।
अत्र वार्त्तिकम्-प्रथमलिङ्गग्रहणञ्च। प्रयोजनं क्विब्लुक्समासाः। अस्यार्थः-यः पूर्वं स्त्र्याख्यः पश्चादुपसर्जनतया लिङ्गान्तरविशिष्टं द्रव्यान्तरमाह तस्य नदीसंज्ञा वक्तव्या। क्विपि कुमारीमिच्छति कुमारीयति। तत; क्विप्, अल्लोपयलोपौ, क्वौ लुप्तस्य स्थानिवत्त्वानिषेधान्नयण्। यद्वा, कुमारयतीति कुमारी, आचारक्विबन्तात्कर्त्तरि क्विप्। कुमारी ब्राह्मण-। ङ्यन्तत्वात्सुलोपः। तस्मै कुमार्‌यै ब्राह्मणाय।
स्यादेतत्। इह क्यच्क्विपोः प्रकृतिभूतस्य ङीबन्तस्यापि नित्यस्त्रीत्वं दुर्लभं पुंलिङ्गात्क्यच्क्विपोः निर्वृत्तेन त्रिलिङ्गेन समानाकारत्वादिति चेत्? न, अर्थभेदेन शब्दभेदाश्रयणात्। तत्र प्रथमोदाहृतस्येत्थं रूपाणि-कुमारीमिच्छन् कुमारीवाचरन् वा ब्राह्मणः कुमारी, ङ्यन्तत्वात्सुलोपः। कुमार्यौ। कुमार्यः। न चेह "अनिश्नुधातु"(अष्टाoसूo6-4-77)इतीयङ्प्रसङ्गः। "एरनेकाचः"(अष्टाoसूo6-4-82)इति यणा बाधितत्वात्। अत एव अमि शसि च कुमार्यं, कुमार्यः; प्रध्यं, प्रध्य इतिवत्। न च "गतिकारकपूर्वस्यैव" इति निषेधः शङ्क्यः, तदितरपूर्वस्य नेत्यर्थात् विशिष्टाभावस्यापूर्वेपि सत्त्वात्। ङयि कुमार्यै, कुमार्याः, कुमारीणां, कुमार्यां ब्रह्मणे, हे कुमारि ब्राह्मणे इत्यादि। पत्न्यादेस्तु संयोगपूर्वकत्वादियङ्। पत्नियौ, पत्नियः इत्यादि। शेषं प्राग्वत्। पुंलिङ्गात्क्यवच्क्यङोर्निष्पन्नस्य तु अङ्यन्तत्वात्सुलोपोन। कुमारीः। हेकुमारीः। अनदीत्वाद्‌ध्रस्वो न। कुमार्यं, कुमार्याः, कुमार्यं ब्राह्मणानां, कुमार्यि ब्राह्मणे इत्यादि। कुमारमात्मनमिच्छन्ती ब्राह्मणी कुमारीरित्यत्रापि कैयटमते नित्यस्त्रीत्वाभावात्पुंवदेव रूपम्। हरदत्तमते तु लक्ष्मीवत्। अमि शसि च यण्विशेषः।
प्रकृतमनुसरामः। "लुम्मनुष्ये"(अष्टाoसूo5-3-98)इति लुप्। खरकुट्यै ब्राह्मणाय। यद्यप्यत्र युक्तवद्भावात्स्त्रीत्वमस्ति तथापि स्वाश्रयस्य पुंस्त्वस्यापि सत्त्वान्नित्यस्त्रीत्वं नास्तीति कैयटहरदत्तादयः। तच्चिन्त्यम्, `चञ्चाः पश्य' इत्यादौ शसो नत्वापत्तेः। तस्माल्लुबन्तैः खरकुटीचञ्चादिश्ब्दैः शास्त्रीयस्त्रीत्वविशिष्ट एव लौकिकः पुमानभिधीयते इत्येव तत्त्वम्। एवञ्च लुपः प्रयोजितत्वेन कथं गणनेत्यपि चिन्त्यम्। समासे अतिलक्ष्मीः, बहुश्रेयसी। "ईयसश्च"(अष्टाoसूo5-4-156)इति कब्निषेधः। "ईयसो बहुव्रीहेर्न"(काoवाo)इत्युपसर्जनहस्वो न। उभयत्रापि सम्बुद्धौ हस्वः ङित्सु आडागमादिकञ्च नदीसंज्ञाकार्यं बोध्यम्।। अवयवस्त्रीविषयत्वात्सिद्धम्।। समासे तावदवयवो लक्ष्म्यादिशब्दः स्त्रियामेव वर्त्तते इति तदानीमेव सेज्ञाः। ततश्च वर्णसंज्ञापक्षे समुदायस्य नद्यन्तत्वात्कार्यसिद्धिः। तदन्तस्य संज्ञेति पक्षे तु अङ्गाधिकारे तस्य च तदुत्तरपदस्य चेति वचनात्। वस्तुरस्तूक्तवचनस्य प्रागेव दूषितत्वात्तदन्तत्वेनैव सिद्धिर्बोध्या। अतितन्त्रीबन्धुरित्यत्रापि "नदी बन्धुनि"(अष्टाoसूo6-2-109)इति पूर्वपदान्तोदात्तत्वं सिध्यति,-पूर्वपदस्य नद्या विशेषणोत्। क्विब्लुपोरपि अन्तरङ्गत्वात्क्विबादेः प्रागेव प्रवृत्ता संज्ञा बहिरङ्गेण लिङ्गान्तरयोगेण न निवर्तते त्वकत्पितृकेऽकज्वत्। "अकृतव्यूहाः"(पoभाo56)इत्यस्यानित्यताया "अचः परस्मिन्'(अष्टाoसूo1-1-57)इति सूत्रे वर्णितत्वात्।
स्यादेतत्। इयङुवङ्स्थानप्रतिषेधे यण्स्थानप्रतिषेधप्रसङ्गोऽवयवस्येयङुवङ्स्थानत्वात्। यथा ह्यवयवस्य स्त्रीविषयत्वात्समुदायस्य नदीसंज्ञेत्युक्तम्, तथावयवस्येयङुवङ्स्थानत्वात्समुदायस्य यण्स्थानस्यापि प्रतिषेधः स्यात्। यथा स्त्रियै आध्यै प्रध्यै।
अत्राहुः,-इङुवङ्भ्यामङ्गमाक्षिप्यते,-अङ्गाधिकारे तयोर्विधानात्। तेन यस्याङ्गस्येयङुवङौ निर्वर्तेते तस्य नदीसंज्ञानिषेधः। `आध्यै' इत्यत्र तु अवयवस्याङ्गत्वं नास्ति अङ्गस्य तु "एरनेकाचः"(अष्टाoसूo6-4-82)इति यण्विधानादियङुवङः स्थानता नास्तीति निषेधाभावः। एतदर्थमेव च तत्र स्थानग्रहणम्, इयङुवङोर्यदा स्थितिस्तदा प्रतिषेधो यथा स्यात्, यदा त्वपवादेन बाधस्तदा मा भूदिति। एवं "ङिति ह्रस्वश्च"(अष्टाoसूo1-4-6)इत्यत्राप्यङ्गस्याक्षेपात्सोऽपि विधिरङ्गस्यैव स्त्रीत्वे भवति, नावयवस्य। शकट्यै, अतिशकटये ब्राह्मणाय। श्रियै, अतिश्रिये ब्राह्मणाय। इह तु स्यादेव-अतिश्रिये अतिश्रियै वा ब्राह्मण्यै इति स्थितं भाष्ये। न चेह नित्यस्त्रीत्वं नास्तीति वाच्यम्, हरदत्तमते तत्सत्त्वात्। कैयटमते तु "ङिति ह्रस्वश्च"(अष्टाoसूo1-4-6)इत्यत्र स्त्रीग्रहणमात्रमनुवर्त्तते, न त्वाख्याग्रहणम्। एवञ्च सुधीशब्देऽपि रूपद्वयं निर्विवादम्। सुध्यादयः पुंवदिति प्रक्रिया तु प्रामादिक्येव। अतिलक्ष्म्यतिचम्वोर्वातप्रमीहूहूभ्यां साम्योक्तिरप्येवम्। तथा `स्वयंभूः पुंवद्' इत्यपि प्रमाद एव।
स्यादेत्त्, `निष्कौशाम्बिः पुमान्' इत्यत्रापि अन्तरङ्गतया नदीसंज्ञा स्यादतिलक्ष्म्यादौ यथा। सत्यम्, सत्यामपि तस्यां न कश्चिद्रूपे दोषः। न च सम्बुद्धिह्रस्वादिप्रसङ्गः, ह्रस्वादेशेन नद्या अपहारात्। वर्णस्य नदीत्वात्। स्त्र्याख्यत्वं तु तस्य शक्त्याश्रयतामात्रेण बोध्यम्। पर्याप्त्यधिकरणताया अविवक्षितत्वात्। तदन्तस्य नदीसंज्ञेति पक्षेऽपि एकदेशविकारानभ्युपगमेन सर्वादेशस्यैव वक्तव्यत्वात्। न च स्थानिवद्भावः, अल्विधित्वात्। `प्रपठ्य' इत्यत्रेडभावार्थं विशेषणतयाऽप्यलाश्रयणे निषेधस्य सिद्धान्तितत्वादिति दिक्। निष्कौशाम्ब्यै निष्कौशाम्बये ब्राह्मण्यै इत्यत्र तु "ङिति ह्रस्वश्च"(अष्टाoसूo1-4-6)इति विकल्पो भवत्येवेति दिक्।
(अष्टाoसूo1-4-4)
नेयङुवङ्स्थानावस्त्री(अष्टाoसूo1-4-4)। इयङुवङो स्थितिः स्थानं निरपवादा प्रसक्तिर्यत्र तावीहूतौ नदीसंज्ञौ स्तः स्त्रीशब्दं विना। हे श्रीः। हे भूः। अस्त्रीति किम्? हे स्त्रि। कथं तर्हि "विमानना सुभ्रु कुतः। पितुर्गृहे" इति कालिदासः। "हापितः क्वासि हे सुभ्रु" इति भट्टिश्च। "एकवंशप्रभवभ्रुव" इति श्रीहर्षश्च। प्रमाद एवायमिति हरदत्तः। "सामान्ये नपुंसकम्"(कoवाo)इति वा कथञचि त्समाधेयम्। केचित्तु तदो दावचनेन "सकृद्‌द्वन्द्वमनित्यम्" इति परिभाषाज्ञापनमाश्रित्यानित्योऽयं प्रतिषेध इति समादधुः। किंन्त्वेतत्सक लप्रमादेषु सुवचम्। तदोदावचनप्रत्याख्यानपरभाष्यादिविरुद्धञ्च। अन्ये तु "वामि"(अष्टाoसूo1-4-5)इत्यतो वाग्रहणस्य सिंहावलोकितन्यायेनानुवृत्तस्य व्यवस्थितविभाषापरत्वेनेष्टसिद्धिमाहुः। तदपि न, सिंहावलोकितन्यायस्येहाभिमतत्वे नञ्ग्रहणस्य "वामि"(अष्टाoसूo1-4-5)इत्युत्तरसूत्रस्य च वैयर्थ्यापत्तेः। यत्तूक्तं दुर्घटवृत्तौ भ्रुशब्दाद् "अप्राणिजातेश्च"(काoवाo)इत्यूङि समासे उपसर्जनह्रस्त्वत्वे च कृते "ऊङुतः"(अष्टाoसूo4-1-66)इत्यूङि तस्य समुदायभक्तत्वान्नोवङ्स्थानत्वमिति। तदतिस्थवीयः, प्रत्ययस्य भक्तताया निष्प्रमाणकत्वात्। तत्स्थानिकस्यैकादेशस्यान्तवद्भावेन भ्रूशब्दावयवताया अनपायात्, अङ्गाधिकारे तदुत्तरपदग्रहणस्य निर्विवादतया समुदायभक्तेऽप्युवङ्प्रवृत्तेश्च। `सुभ्रुवौ' इत्यादिरूपाणां सर्वसम्मतत्वाच्चेति दिक्।
(अष्टाoसूo1-4-5)
वामि(अष्टाoसूo1-4-5)। इयङुवङ्स्थानौ वा नदीसंज्ञौ स्तः स्त्रियामामि। श्रीणाम्, श्रियाम्, भ्रूणाम्, भ्रुवाम्। द्वितीयैकवचनं तु नेह सूत्रे गृह्यते, तत्र नदीकार्याभावात्। अस्त्रीत्येव। स्त्रीणाम्। इह "वाचि ह्रस्वश्च" इत्येव कुतो न कृतम्। एवं हि ङितीति न कर्तव्यमिति चिन्त्यम्। वस्तुतस्तु सन्निपातपरिभाषया `भ्रूणाम्' इति नुट् न स्यादत आमीत्युक्तम्। परिभाषा चेयमननैव ज्ञाप्यते इति ध्येयम्।
(अष्टाoसूo1-4-6)
ङिति ह्रस्वश्च(अष्टाoसूo1-4-6)। इयङुवङ्स्थानौ ह्रस्वौ च यू वा नदीसंज्ञौ स्तः स्त्रियां ङिति परे। श्रियै, श्रिये, भ्रुवै, भ्रुवे, कृत्यै, कृतये, धेन्वै, धेनवे। अस्त्रीत्येव। स्त्रियै। स्त्रीलोङ्गाविति किम्? अग्नये, वायवे। इह प्रथमलिङ्गग्रहणं नास्ति। तेन निष्कौसाम्बिर्हरिवदित्युक्तम्। स्त्रियमतिक्रान्तोऽतिस्त्रिरित्यत्र तु विशेषः। अतिस्त्रियौ, "स्त्रियाः"(अष्टाoसूo6-4-79)इतीयङ्। अयं हि गौणत्वेऽपि भवति। किन्तु-
गुणनाबावौत्वनुङ्भिः परत्वात्पुंसि बाध्यते।
क्लीबे नुमा च स्त्रीशब्दस्येयङित्यवधार्यताम्।।
"जसि च"(अष्टाoसूo7-3-119)इति गुणः-अतिस्त्रयः। "वामशसोः"(अष्टाoसूo6-4-80)अतिस्त्रियम्, अतिस्त्रीम्। अतिस्त्रियौ। अतिस्त्रियः, अतिस्त्रीन्। "आङोनाऽस्त्रियम्"(अष्टाoसूo7-3-120)अतिस्त्रिणा। अतिस्त्रिभ्याम्। "घेर्ङिति"(अष्टाoसूo7-3-111)इति गुणः-अतिस्त्रये, अतिस्त्रेः। अतिस्त्रियोः। "ह्रस्वनद्यापः"(अष्टाoसूo7-1-54)इति नुट् अतिस्त्रीणाम्। "अच्च घेः"(अष्टाoसूo7-3-119)अतिस्त्रौ। सङ्ग्रहश्च-
औकारे ओसि नित्यं स्यादम्‌शसोस्तु विभाषया।
इयादेशोऽचि नान्यत्र स्त्रियाः-1--1.`पुंस्युपसर्जने'क्वचित्-स्यादुपसर्जने।।
(अष्टाoसूo1-4-6)
एवं क्लीबे नुमा इयङ् बाध्यते। तेन `अतिस्त्रि, अतिस्त्रिणी' इत्यादि वारिवत्। स्त्रियान्तु "ङिति ह्रस्वश्च"(अष्टाoसूo1-4-6)इतिह्रस्वान्तत्वप्रयुक्तो नदीसंज्ञाविकल्पः। अस्त्रीति तु इयङुवङ्स्थानावित्यस्यैव विशेषणम्, तत्सम्बद्धस्यैवानुवृत्तेः। न चेहावृत्त्योमयविशेषणता, प्रमाणाभावात्। तेन अतिस्त्रियै, अतिस्त्रिये। "औत्"(अष्टाoसूo7-3-128)इति बाधित्वा "इदुद्भ्याम्"(अष्टाoसूo7-3-117)इति ङेराम्-अतिस्त्रियाम्। पक्षे "अच्चघेः"(अष्टाoसूo7-3-119)अतिस्त्रौ।
(अष्टाoसूo1-4-7)
शेषो घ्यसखि(अष्टाoसूo1-4-7)। ह्रस्वौ यौ यू तदन्तं सखिभिन्नमनदीसंज्ञं घिसंज्ञं स्यात्। हरये, भानवे। ह्रस्वौ किम्? ग्रामण्ये, खलप्वे। यू किम्? मात्रे। असखि किम्? सख्ये। शेषः किम्? मत्यै। शेषग्रहणं व्यर्थमिति नदीसञ्ज्ञासूत्रे एवोक्तम्। समासे तु सुसखेरागच्छतीत्यादौ घिसञ्ज्ञा भवत्येव, समुदायस्य सखिशब्दाद्भिन्नत्वात्। तदन्तग्रहणं तु नास्ति, विशेषेयसम्बन्धाभावात्। यत्तु "ग्रहणवता"(पoभाo31)इत्यादि हरदत्तोनोपन्यस्तं ख्यत्यात्सूत्रे च कैयटेन। तत्पूर्वापरविरुद्धमिति "येन विधिः"(अष्टाoसूo 1-1-72)इति सूत्रे व्युत्पादितम्। न चैवं "यस्येति च"(अष्टाoसूo6-4-148)इति सूत्रे इवर्णस्य ईति सखीत्युदाहरणं न युज्यते, सखिशब्दात् "सख्याशश्वीतिभाषायाम्"(काoवाo)इति ङीषि सति लोपे सवर्मदीर्घे वा विशेषाभावात्। यत्तु तत्र भाष्ये वृत्तौ चोक्तम्-असति लोपेऽतिसखेरागच्छतीत्यत्र सवर्णदीर्घस्य पूर्वं प्रत्यन्तवद्भावादसखीति घिसंञ्ज्ञाप्रतिषेधः स्यादिति, तदसखीति प्रसज्यप्रतिषेधमाश्रित्येति कैयटादौ स्पष्टम्। अत एवापाततः पर्युदासस्यैवेह स्थितत्वात्। अन्यता वाक्यभेदादसमर्थसमासात्। `सुसखेः' इत्याद्यसिद्ध्यापत्तेश्च। तस्मादिति लोपे फलं दुर्लभमिति चेत्? अत्रोच्यते, सखी, सख्यौ, सख्यः इत्यादावनङ्‌णित्वे माभूतामिति इलोप एषितव्यः। न च सिद्धान्तेऽपि प्रातिपदिकग्रहणे लिङ्गविशिष्टग्रहणाद्दोषतादवस्थ्यम्, विभक्तौ लिङ्गविशिष्टाग्रहणात्। एतेन इकारलोपस्य तद्धिते एवोदाहरणं न त्वीति परत इति वदन् हरदत्तोऽपास्तः।
(अष्टाoसूo1-4-8)
पतिः समास एव(अष्टाoसूo1-4-8)। पतिशब्दः समास एव घिसञ्ज्ञः स्यात्। भूपतये। नेह-पत्या, पत्ये। विपरीतनियमं वारयितुमेवकारः दृढमुष्टिना।
स्यादेतत्, "शेषोघ्यसखिपती" इत्येवास्तु। समस्तस्य तु पूर्वोक्तरीत्या सिद्धम्। न चोत्तरसूत्रे सख्युरपि सम्बन्धापत्तिः, बाधकाभावात्। इष्टरूपस्य तावतापि सिद्धेः। द्वितीयस्य तु साधोग्पि छन्दस्यपठितस्यानापद्यत्वात्। न चैवमुत्तरसूत्रे षष्ठीयुक्तग्रहो व्यर्थः स्यादिति वाच्यम्, इष्टापत्तेः। एवमेव हि "श्रीग्रामण्योच्छन्दसि"(अष्टाoसूo7-1-56)इति श्रीग्रहणं "नित्यं मन्त्रे'(अष्टाoसूo6-1-210)इत्यादीनि च प्रत्याख्यातानि। "सम्बुद्धौ शाकल्यस्य"(अष्टाoसूo1-1-16)इत्यत्रा नार्षग्रहणमप्येवम्। सत्यम्। यथा सखिगृहे गृहसखायावित्यत्र पूर्वनिपातानियमस्तथा पतिगृहे इत्यत्र मा भूत् इह हि घित्वात्पूर्वनिपातएव। बहुच्पूर्वस्य तु सुसाखिन्यायेन घित्वाद् `बहुपतिना' इत्यादि बोध्यम्। अथ कथं "सखिना वानरेन्द्रेण"
"पतिना नीयमानायाः पुरः शुक्रो न दुष्यति"।
"नष्टे मृते प्रव्रजिते ल्कीबे च पतिते पतौ"।
इत्यादि? अत्र हरदत्तः, छन्दोवदृषयः कुर्वन्तीति। अस्यायमाशयः-असाधव एवैते त्रिशङ्क्वाद्ययाज्ययाजनादिवत्तपोमाहात्म्यशालिनां मुनीनामसाधुप्रयोगोऽपि नातीव बाधते। अस्मदादीन्प्रति तु स्मृतिपुराणाद्यध्ययनविधिबलादेव तदन्तर्गततत्पाठो न बाधकः। तथाच स्वातन्त्र्येणेदृशं प्रयुञ्जाना अस्मदादयः प्रत्यवयन्त्त्येवेति नदीसंज्ञासुत्रे भाष्यकैयटयोरपि स्थितमिदम्। यद्वा, सखेत्याख्यातः सखिः, पतिरित्याख्यातः पतिः, तेन सखिना, पतिना। आख्यातण्यन्तात्कर्मणि "अचइः'(उoसूo588)इत्यौणादिक इप्रत्ययः लाक्षणिकत्वाच्चैतयोर्यिसंज्ञापर्युदासे ग्रहणं नास्तीति दिक्। एतेन-
अर्जुनस्य सखा कृष्णः कृष्णस्य सखिरर्जुनः।
इत्यपि व्याख्यातम्। कथं "वचो वाचस्पतेरपि" इति माघ-। न ह्ययं समासः, अलुग्विधायकादर्सनादिति। सत्यम्, "तत्पुरुषे कृति"(अष्टाoसूo6-3-14)इति बहुलग्रहणादलुक्। एतेन दिवस्पतिवास्तोष्पती व्याख्यातौ। "षष्ठ्याः पति" (अष्टाoसूo1-4-8)इत्यादिना सत्वम्। ये तु तत्र छन्दसीत्यनुवर्तयन्ति "श्रियः पति-"(शि1-1)इत्यादिसिद्धये तन्मते पारस्करादित्वात्सुट्। केचित्तु 'द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छच'(अष्टाoसूo4-2-32)इति सामान्यापेक्षज्ञापकात् षष्ठ्या अलुक्। कस्कादित्वात्सत्वम्। इणः परस्य तु षत्वमित्याहुः।
पदकारास्तु वाचस्पतिं विश्वकर्माणम्, वास्तेष्पते प्रतीत्यादौ पृथक् पदमधीयते।
(अष्टाoसूo1-4-9)
षष्ठीयुक्तश्छन्दसि वा(अष्टाoसूo1-4-9)। षष्ठ्यन्तेन युक्तः पतिशब्दश्छन्दसि घिसंज्ञो वा स्यात्। क्षेत्रस्य पतिना वयम्। इह योगो विभज्यते। षष्ठीयुक्तश्छन्दसीति। ततो वा। छन्दसीत्येव। सर्वे विधयश्छन्दसि विकल्प्यन्ते इत्यर्थः। "बहुलञ्छन्दसि" इत्यादिकस्त्वस्यैव प्रपञ्चः।
(अष्टाoसूo1-4-10)
ह्रस्वं लघु(अष्टाoसूo1-4-10)। ह्रस्वं लघुसंज्ञं स्यात्। लघूपधगुणः-चेतति। न च ह्रस्वप्रदेशेष्वपि लघुसंज्ञयैव व्यवहारः सुकरः `सर्पिष्ट्वम्' इत्याद ौ "ह्रस्वात्तादौ तद्धिते"(अष्टाoसूo8-3-101)इति षत्वासिद्धिप्रसङ्गात्। गुरुसंज्ञया तत्र लघुसज्ञाया बाधात्। तस्मादेकसंज्ञाधिकाराद्‌बहिर्ह्रस्वसंज्ञाप्रणयनं सम्यगेव कृतम्। यद्येवन्तर्हि दीर्घप्लुतसंज्ञायाः समावेशमाशङ्क्य एकसंज्ञाधिकारेऽयं योगः करिष्यते इति भाष्यं विरुध्यते, गुरुसंज्ञाया लघुसंज्ञाया इव गुरुलघुसंज्ञाभ्यां ह्रस्वसंज्ञाया बाधप्रसङ्गात्। न च निरवकाशता, लघुसंज्ञाप्रवृत्त्युपायतामात्रेण सार्थक्यात्। यथा पदं सद्भं भवतीति व्याख्यायां पदसंज्ञायाः। सत्यम्, चकारादिना समावेशः कर्तव्य इत्याशयः। एतदपरितोषादेव वा तत्र पक्षान्तराण्युक्तानीति दिक्।
(अष्टाoसूo1-4-11)
संयोगे गुरु(अष्टाoसूo1-4-11)। ह्रस्वं गुरुसंज्ञं स्यात्संयोगे परे। शिक्षा, भिक्षा। "गुरोश्च हलः"(अष्टाoसूo3-3-103)इत्यकारप्रत्ययः।
(अष्टाoसूo1-4-12)
दीर्घञ्च(अष्टाoसूo1-4-12)। दीर्घं गुरुसंज्ञं स्यात्। ईहाञ्चक्रे।
(अष्टाoसूo1-4-13)
यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्(अष्टाoसूo1-4-13)। प्रत्ययो यस्माद्विहितस्तदादिशब्दः प्रत्यये परेऽङ्गसंज्ञं स्यात्। रामेण। विधिरिति किम्? स्त्री ईयती। न चेह वतुपः स्त्रीशब्दादविदानेऽपि स विधिरस्त्येवेति वाच्यम्, सन्निधानबलेन यस्माद्यः प्रत्ययो विहितस्तस्मिन्त्सोऽङ्गमिति व्याख्यानात्। तदादि किम्? वदामि, वदिष्यामि। "अतो दीर्घो यञि"(अष्टाoसूo7-3-101)इति दीर्घः। न चायमारम्भसामर्थ्यादेव भविष्यतीति वाच्यम्, "यय गतौ" "चय गतौ(भ्वाoआo478)आभ्यां यङ्लुकि यायामि, यायावः, यायामः, चाचामि, चाचावः, चाचामः इत्यादौ चरितार्थत्वात्। प्रत्यये किम्! प्रत्ययवशिष्टस्य ततोप्यधिकस्य वा मा भूत्। एवं हि `वव्रश्च' इत्युरदत्वस्य परनिमित्तत्वं न लभ्यते। तथाच "अवःपरस्मिन्"(अष्टाoसूo1-1-57)इति स्थानिवत्वाभावाद्वकारस्य सम्प्रसारणप्रसङ्गः। न च प्रथमसूत्रेण स्थानिवद्भावः, अल्विधित्वात्। अत एव हि सत्यपि प्रथमलिङ्ग्रहणे निष्कौशाम्ब्यादौ नदीकार्यं नेत्युक्तम्।
इह "प्रकृत्यादिप्रत्ययेऽङ्गम्" इत्येव लाघवाद्वक्तुं युक्तम्। प्रकृतिमात्रस्य तु व्यपदेशिवद्भावात्सिद्धम्। योगविभागेन परिभाषार्थलाभार्थं तथोक्तमिति तत्त्वम्। कर्ता, कारकः। इह योगो विभज्यते। यस्मात्प्रत्ययविधिस्तदादिप्रत्यये इति। परिभाषेयम्। प्रत्यये गृह्यमाणे यस्मात्तस्य विधिस्तदादि गृह्यते इत्यर्थः। तेन "ञ
्नित्यादिः"(अष्टाoसूo6-1-197)इत्यादौ यत्र प्रत्ययः सप्तम्या निर्द्दिश्यते तत्र तदादेर्ग्रहणम्। तेन `देवदत्तो गार्ग्यः' इति सङ्घातस्य ञित्स्वरो न भवति। "सुप आत्मनः क्यच्"(अष्टाoसूo3-1-8)इत्यत्राप्यनेन तदादिनियमः। तत्र सुपा कर्मणस्तदादेर्वा विशेषणात्तदन्तविधिः। तेन `महान्तं पुत्रम्' इत्यादावतिप्रसङ्गो न। सति हि वाक्यात्क्यचि `महत्पुत्रीयति' इति स्यात्। तथा `देवदत्तश्चिकीर्षति' इति सङ्घातस्य धातुसंज्ञा न, `देवदत्तो गार्ग्यः' इति सङ्घातस्य प्रातिपदिकसंज्ञा न, `देवदत्तो गार्ग्यायण-' िति सङ्घातात्फङ् नेति दिक्।
अस्यापवादः "कृद्‌ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्"(पाoभाo28)इति। इह च "गतिरनन्तरः"(अष्टाoसूo6-2-49)इत्यनन्तरग्रहणं ज्ञापकम्। तद्धि अभ्युद्धतशब्दे उच्छब्दव्यवहितस्याभिशब्दस्य प्रकृतिस्वरनिवृत्त्यर्थम्। न च परत्वाद् "गतिर्गतौ"(अष्टाoसूo8-1-70)इति निघाते कृते उदात्तग्रहणानुवृत्त्या विधीयमानः पूर्वपदप्रकृतिस्वरो न भविष्यतीति वाच्यम्, अपादादावित्यधिकारात्पादादौ निघाताप्रवृत्तेः। तदादिनियमे तु हृतशब्दस्य क्तान्तत्वेप्युद्‌धृतशब्दस्याक्तान्तत्वात्प्राप्तिरेव नेति किमनन्तरग्रहणेन? प्रयोजनन्तु समासतद्धितस्वराः। तथाहि, `अवतप्तेनकुलस्थितम्' इत्यत्र "क्तेन" इत्यनुवर्त्तमाने "क्षेपे"(अष्टाoसूo2-1-47)इति समासः। 'त्तपुरुषे कृति"(अष्टाoसूo6-3-14)इत्यलुक्। `सांकृटिनम्' इत्यत्र "अणिनुणः"(अष्टाoसूo5-415)इति सोपसर्गादण्। अत एव वादिवृद्धिरुपसर्गांशे पर्यवस्यति। `व्यावक्रोशी' इत्यत्र "कर्मव्यतिहारे णच् स्त्रियाम्"(अष्टाoसूo3-3-43) इति णच्। ततो "णचः स्त्रियाम्"(अष्टाoसूo5-4-14)इत्यञ्। "न कर्मव्यतिहारे"(अष्टाoसूo7-3-6)इत्यैजागमनिषेधः। `दुरादागतः' इत्यत्र थाथादिस्वरेणान्तोदात्तत्वम्। ननु परिभाषां विनाऽपि "समासस्य"(अष्टाoसूo6-1-123)इत्यन्तोदात्तो भविष्यतीति चेत्? मैवम्, आगम्यते स्मेति हि कर्मणि क्तः। तथाच समासस्वरं बाधित्वा "गतिरनन्तरः"(अष्टाoसूo6-2-49)इति मध्योदात्तं स्यात्। सत्यां तु परिभाषायां "थाथघञ्"(अष्टाoसूo6-2-144)इत्यनेन कृत्स्वरापवादगातिस्वरं बाधित्वा परत्वादन्तोदात्तत्वं भवति। ननु थाथादिस्वरस्याप्यपवादो गतिस्वरः। सत्यम्, गतेरुत्तरस्य क्तान्तस्य यदन्तोदात्तत्वं तस्यैवासावपवादः। कारकादुत्तरस्य तु थाथादिस्वर एव भवतीति वक्ष्यते। नन्वस्तु गतिस्वरेणाद्युदात्त आगतशब्दः। ततो दूवरशब्दस्य "स्तोकान्तिक"(अष्टाoसूo2-1-39)इति समासः। "पञ्चम्याः स्तोकादिभ्यः"(अष्टाoसूo6-3-2)इत्यलुक्। ततः सतिशिष्टत्वात्समासान्तोदात्त एव भविष्यति। सत्यम्, अन्यार्थं कृतया परिभाषया कृदुत्तरपदप्रकृतिस्वरेणाद्युदात्ते आगतशब्दे प्राप्ते सगतेरपि क्तान्तत्वात्स्थानान्तरप्राप्तत्वाद्गतिस्वरस्य बाधकस्यापि बाधेन थाथादिस्वरो भवतीत्येवाभिप्रेतं न तु स्वर एवानन्यथासिद्धं परिभाषोदाहरणम्। तथाच परिभाषा प्रातिपदिकसंज्ञायां न प्रवर्तते,-मध्येपवादन्यायेन कृद्ग्रहणस्याप्रत्यय इति निषेधमात्रबाधकत्वात्। समासेतरपदसंज्ञकपूर्वभागघटितः सङ्घातो न प्रातिपदिकमिति निषेधस्तु परत्वाब्दाधक एव। तेन `मूलकेनोपदंशम्' इत्यत्र न सुपो लुक्। न च समासविकल्पसमार्थ्यम्, "न समास"(काoवाo)इति शाकलनिषेधाप्रवृत्त्या दध्युपदंशादौ तत्सार्थक्यसम्भवात्। एतच्च "पुंयोगादाख्यायाम्"(अष्टाoसूo4-1-48)इति सूत्रे भाष्यकैयटयोः स्पष्टमिति दिक्। "ष्यङः सम्प्रसारणम्"(अष्टाoसूo1-4-4)(अष्टाoसूo6-1-13)इति सूत्रे भाष्ये तदादिनियमस्यापवादान्तरं पठितम् "स्त्रीप्रत्यये चानुपसर्जने तदादिनियमो न" इति। एतच्च वाचनिकमेवेति सर्वादिसूत्रे व्याख्यातम्। यद्वा, इह "नेयङुवङ्‌स्थानौ"(अष्टाoसूo1-4-4)इत्यतोऽस्त्रीत्यनुवर्त्तते। तच्च यद्यपि तत्र स्वरूपपदार्थकं तथापीहार्थपरं सम्पद्यते। प्रत्ययग्रहणे तदादि ग्राह्यं, स्त्री चेन्नाभिधीयते इत्यर्थः। तेन स्त्रीप्रत्यये तदादिनियमो नास्तीति फलितम्। न चैवम् `अतिकारीषगन्ध्यापुत्रः' इत्यत्र सम्प्रसारणप्रसङ्गः, अस्त्रीत्यनेन प्रधानस्त्रियामेव प्रतिषेधात्। "गौणमुख्ययोः" इति न्यायात्। तेन यावान् शब्दः स्त्रियं प्राधान्येनाह तावान् स्त्रीप्रत्ययान्तः न तु ततोऽधिकोऽपीति स्थितम्।
(अष्टाoसूo1-4-14)
सुप्तिङन्तं पदम्(अष्टाoसूo1-4-14)। सुबन्तं तिङन्तञ्च पदसंज्ञं स्यात्। ब्राह्मणा ऊचुः। अन्तग्रहणमन्यत्र "संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति"(पoभाo27)इति ज्ञापनार्थम्। गौरब्राह्मणितरा। घसंज्ञायां तरबन्तग्रहणे सित गौरीशब्दस्य "पुंवत्कर्मधारय"(अष्टाoसूo8-3-42)इति पुंवद्भावं बाधित्वा पुंवद्भावाद् ह्रस्वत्वं "खिद् घादिकेषु" इति ह्रस्वः स्यात् पट्‌वितरोतिवत्। ब्राह्मणीशब्दस्य ह्रस्वो न स्यात्। कथं तर्हि प्रातिपदिकसंज्ञायां कृत्तद्धितशब्दाभ्यां तदन्तग्रहणमिति चेत्? अत्र भाष्यकाराः-अर्थवद्‌ग्रहणं तत्रानुवर्तते। तत्सामर्थ्यात्तदन्तग्रहणमिति।
स्यादेतत्; यद्यर्थवत्ता पारमार्थिकी विवक्ष्यते, तर्हि सा पदस्य वाक्यस्य वाऽस्ति, त नु कृत्ताद्धितान्तस्य। तथाचार्थवत्सूत्रे वार्त्तिकम्-"अर्थवता नोपपद्यते केवलेनावचनादिति। अथ सिद्धं त्वन्वयव्यतिरेकाभ्यामिति"। तत्रत्योत्तरवार्तिकानुरोधेन प्रक्रियादशायां कल्पिता सा विवक्ष्यते, तर्हि कृत्तद्धितयोरपि सास्तीति चेत्? सत्यम्, अतएवार्थवद्ग्रहणसामर्थ्यमुक्तम्। प्रत्ययान्तेन त्वेकार्थीभूतेन प्रतीयमानोऽर्थ इह गृह्यते, तस्य लौकिकार्थं प्रति प्रत्यासन्नतरत्वात्। मतुपः प्राशस्त्यपरतया तस्यैव ग्रहणात्। अत एव च तदुपादानं सार्थकम्। पूर्वसूत्रेऽधातुरिति पर्युदासबलेनापि तल्लाभसम्भवात्।
(अष्टाoसूo1-4-15)
नः क्ये(अष्टाoसूo1-4-15)। क्यचि क्यङि क्यषि च नान्तमेव पदसंज्ञं स्यात्। क्यच्-राजीयति। क्यङ्-राजायते। क्यष्-चर्मायति, चर्मायते। सामान्यग्रहणार्थं क्यषः ककार इति वदतो वृत्तिकारस्य मतेनेदमुदाहृतम्। भाष्ये तु क्यषः ककार इति वदतो वृत्तिकारस्य मतेनेदमुदाहृतम्। भाष्ये तु क्यषः ककारस्य प्रत्याख्यानात्क्यच्क्यङोरेवेह ग्रहणम्। चर्मायतीति रूपं चासाधु, क्यङन्ततया नित्यमात्मनेपदाभ्युपगमात्। तथा च वक्ष्यते-"लोहितडाज्भ्यः क्यष्वचनं भृशादिष्वितराणि"(काoवाo)इति। एतच्च तृतीयएव स्फुटीकरिष्यामः नान्तमेवेति किम्? वाच्यति, स्रुच्यति, तपस्यति। ननु क्यएव नान्तमिति विपरीतो नियमः कुतो नेति चेत्? न ङिसम्बुद्ध्योरिति ज्ञापकात् नलोपः प्रातिपदिकान्तस्येति ज्ञापकाच्च। अन्यथा हि "नलोपः क्ये" इत्येव सूत्रयेत्।
(अष्टाoसूo1-4-16)
सिति च(अष्टाoसूo1-4-16)। सिति प्रत्यये परे पूर्वं पदसंज्ञं स्यात्। भसंज्ञापवादः। `भवतष्ठक्छसौ"(अष्टाoसूo4-2-115)भवदीयः "ऋतोरण्"(अष्टाoसूo5-1-105)"छन्दसि घस्"(अष्टाoसूo5-1-106)ऋतुः प्राप्तोऽस्य ऋत्वियः।
(अष्टाoसूo1-4-17)
स्वादिष्वसर्वनामस्थाने(अष्टाoसूo1-4-17)। कप्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं पदसंज्ञं स्यात्। राजभ्यां, राजभिः। राजत्वं, राजता। सर्वनामस्थाने तु राजानौ, राजानः। भुवद्वभ्द्यो, धारयद्वद्‌भ्यः इति पदसंज्ञाया उपसङ्ख्यानम्। "तसौ मत्वर्थे"(अष्टाoसूo1-4-19)इति भसंज्ञाया अपवादः। व्यत्ययेन भवतेः शपो लुक्।
(अष्टाoसूo1-4-18)
यचि भम्(अष्टाoसूo1-4-18)। यकारादिष्वजादिषु च स्वादिष्वसर्वनामस्थानेषु परतः पूर्वं भसञ्ज्ञं स्यात्। गार्ग्यः, राज्ञः। वाचिकषडिकयोस्तु यथा भत्वाभत्वे निर्वहतस्तथा पञ्चमे वक्ष्यते। नभोङ्गिरोमनुषां वत्युपसंख्यानम्(काoवाo)। नभसा तुल्यं वर्तते। इति नभस्वत्, भत्वाद्रुत्वाभावः। मनुष्वदग्ने। "अङ्गिरस्वदङ्गिरः"। "जनेरुसिः"(उoसूo280)इत्यत्र बहुलग्रहणानुवृत्तेर्मन्यतेरुपिप्रत्ययः "आदेशप्रत्ययोः"(अष्टाoसूo8-3-59)इति षत्वम्। "वृषण्वस्वश्वयो-"(काoवाo)वृषं वर्षुकं वसु यस्य सः वृषण्वसुः। एवं वृषणश्वः। कर्मधारये षष्ठीतत्पुरुषादिर्वा यथासम्भवं बोध्यः। इहान्तवर्तिनीं विभक्तिमाश्रित्य पदत्वे सति नलोपः प्रसज्येत। भत्वात्तु न पदत्वम्। अत एव "पदान्तस्य"(अष्टाoसूद8-4-37)इति णत्वनिषेधो न। "अल्लोपोनः"(अष्टाoसूद604-134)इति तु न भवति अङ्गसञ्ज्ञाया अभावात् अङ्गस्येति तत्राधिकारात्। उपसंख्यानान्येतानि छन्दोविषयाणीति कैयटः।
(अष्टाoसूo1-4-19)
तसौ मत्वर्थे(अष्टाoसूo1-4-19)। तान्तसान्तौ भसंज्ञौ स्तो मत्वर्थे प्रत्यये परे। विद्युत्वान्। भत्वाज्जश्त्वं न। उदकेन श्वयति वर्धते उदश्वित्। क्विप् "उदश्वितोऽन्यतरस्याम्"(अष्टाoसूo4-2-19)इति निपा तनात्सम्प्रसारणाभावः। "उदकस्योदः संज्ञायाम्"(अष्टाoसूo6-3-57)। उदश्वित्वान् घोषः। यशस्वी। मत्वर्थवृत्तित्वं मतुपो विनिप्रभृतीनां चाविशिष्टम्। अत उभयत्र भत्वप्रवृत्तिः। यथा देवदत्तशालास्था आनीयन्तामित्युक्ते देवदत्तोऽप्यानीयते उद्देश्यतावच्छेदकरूपाक्रान्तत्वात्।
(अष्टाoसूo1-4-20)
अयस्मयादीनि छन्दसि(अष्टाoसूo1-4-20)। एतानि छन्दसि साधूनि। भपदसंञ्ज्ञाधिकाराद्यथायोगन्तदुभयद्वारैषां साधुत्वं विधीयते। तथा च वार्त्तिकम्-उभयसञ्ज्ञान्यपीति वक्तव्यमिति। अयस्मयं पात्रम्। भत्वादुत्वन्न। अयसो विकार इत्यर्थें "द्वयचश्छन्दसि"(अष्टाoसूo4-3-150)इति मयट्। एतेन "मयड्‌वैतयोर्भाषायाम्"(अष्टाoसूo4-3-143)इत्युक्तेः कथमिह मयडित्याशङ्क्यात एव निपातनादिति वदन् न्यासकृत्परास्तः। ससुष्टुभा सऋक्वता गणेन। इह ऋक्वतेति पदत्वात्कुत्वम्, भत्वाज्जश्त्वाभावः। जश्त्वविधानार्थायाः पदसञ्ज्ञाया भत्वेन प्रतिबन्धात्।
(अष्टाoसूo1-4-21)
बहुषु बहुवचनम्(अष्टाoसूo1-4-21)। बहुत्वे एतत्स्यात्। वृक्षाः। कथन्तर्हि दारा इति? अवयवबहुत्वस्यावयविनि आरोपाद्भविष्यति। न चैवमेकस्मिन्नपि वृक्षे बहुवचनापत्तिः, तत्रारोपे प्रमाणाभावात्। दारादौ तु नित्यबहुवचनान्तत्वग्रहककोशादेर्वृद्धव्यवहारस्य च मानत्वेन वैषम्यात्।
(अष्टाoसूo1-4-22)
द्व्येकयोर्द्विवचनैकवचने(अष्टाoसूo1-4-22)। द्वित्वैकत्वयोरेतेस्त-। वृक्षौ, वृक्षः। इह द्व्येकशब्दौ सङ्ख्यापरौष न तु सङ्ख्येयपरौ। अत एव द्व्येकयोरिति द्विवचनम्। अन्यता बहुवचनं स्यात्। पूर्वसूत्रेऽपि बहुष्विति सङ्ख्यापरमेव। बहुवचनन्तु आश्रयगतं बहुत्वं धर्मे आरोप्य कृतम्। तत्पलन्तु बहुः पर्वत इति वैपुल्यवाचिनो नेह ग्रहणमिति सूचनमेव। वस्तुतो व्यर्थं तत्। परत्वादेकवचनसम्भवात्। यत्तु "आशतःसङ्ख्या सङ्ख्येय" इति, तत्प्रायोवादमात्रम्। अत्र श्लोकवार्त्तिकं-
सुपाङ्कर्मादयोप्यर्थाः सङ्ख्या चैव तथा तिङाम्।
प्रसिद्धो नियमस्तत्र नियमः प्रकृतेषु वा।
"कर्मणि द्वितीया"(अष्टाoसूo2-3-2)इत्यादेः प्रकरणस्य "बहुषुबहुवचनम्"(अष्टाoसूo1-4-20)इत्यादेश्च स्वादिसूत्रेण सहैकवाक्यतयाविधायकत्वम्। तथा "बहुषु बहुवचनम्"(अष्टाoसूo1-4-20)इत्यादिसूत्रयोस्तिबादिवाक्येनाप्येकवाक्यतेति पूर्वार्धस्यार्थ-। तृतीयचरणेनार्थनियम उक्तः। चतुर्थेन तु प्रकृतार्थापेक्षः प्रत्ययनियम उक्तः। एषां पक्षाणां बलावलचिन्ता तु "तद्धितश्चासर्वविभक्तिः"(अष्टाoसूo1-1-38)इति सूत्र एवस्माभिः कृता। इह "एकद्विबहुष्वेकवचनद्विवचनबहुवचनानि" इति कर्तुमुचितम्। बहुशब्दश्च सङ्ख्यावाच्येव ग्रहीष्यते, द्विशब्दसाहचर्यात्। अत एव हि एकशब्दः सङ्ख्यावाच्येव गृह्यते। वस्तुतस्तु इदं सूत्रद्वयं मास्तु। एकवचनादिसंज्ञानामन्वयर्थताश्रयणेन सकलेष्टसिद्धेः।
।। इति श्रीशब्दकौस्तुभे प्रथमाध्यायस्य चतुर्थे पादे द्वितीयमान्हिकम् ।।