शब्दकल्पद्रुमः/सङ्गवः

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ५/२१८

सङ्गवः, पुं, (सङ्गताः गावो दोहनार्थं यत्र ।

निपातनात् साधुः ।) प्रातःकालात् परं मुहूर्त्त-
त्रयम् । यथा, --
“प्रातःकालो मुहूर्त्तांस्त्रीन् सङ्गवस्तावदेव तु ।
मध्याह्नस्त्रिमुहूर्त्तः स्यादपराह्लस्ततः परम् ।
सायाह्नस्त्रिमुहूर्त्तः स्याच्छ्राद्धं तत्र न कारयेत् ॥”
इति तिथ्यादितत्त्वम् ॥
(यथा, ऋग्वेदे । ६ । ७६ । ३ ।
“उतायातं सङ्गवे प्रातरह्नो
मध्यन्दिन उदिता सूर्य्यस्य ॥”
“अह्नोद्वेधा त्रेधा पञ्चदशधेति समाना विभागाः
सन्ति इह पञ्चधा विभाग आत्तः उतापिचायातं
आगच्छतं कदा सङ्गवे सङ्गवकाले । सङ्गच्छन्ते
गावो दोहनभूमिं यस्मिन् काले स सङ्गवः ।
रात्र्यपरकाले हि गावो वने हिमतृणानि
भक्षयित्वा पुनर्दोहाय सङ्गवे प्रतिनिवर्त्तन्ते ॥”
इति तद्भाष्ये सायणः ॥)

सङ्गी, [न्] त्रि, (सङ्गोऽस्यास्तीति । इनिः ।)

सङ्गविशिष्टः । यथा, --
“आमृत्युतो नैव प्ननोरथाना-
मन्तोऽस्ति विज्ञातमिदं मयाद्य !
मनोरथासक्तिपरस्य चित्तं
न जायते वै परमार्थसङ्गि ॥”
इति विष्णुपुराणे ४ अंशे २ अध्यायः ॥

सङ्गीतं, क्ली, (सं + गे + क्तः ।) प्रेक्षणार्थनृत्य-

गीतवाद्यम् । यथा, हेमचन्द्रः ।
“गीतवाद्यनृत्यत्रयं नाट्यं तौर्य्यत्रिकञ्च तत् ।
सङ्गीतं प्रक्षणार्थेऽस्मिन् शास्त्रोक्ते नाट्य-
धर्म्मिका ॥”
नृत्यगीतवाद्यस्य शास्त्रम् । तत्तु सोमेश्वरभरत-
हनूमत्कल्लिनाथमतभेदात् चतुर्व्विधम् । अधुना
हनूमन्मतं प्रचलितम् । तस्य अध्यायाः सप्त ।
स्वराध्यायः १ रागाध्यायः २ तालाध्यायः ३
नृत्याध्यायः ४ भावाध्यायः ५ कोकाध्यायः ६
हस्ताध्यायश्च ७ । इति सङ्गीतशास्त्रम् ॥ * ॥
सङ्गीतावसाने ताम्बूलदानप्रमाणं यथा, --
“ता वासुदेवोऽप्यनुरक्तचित्तः
संनृत्य गीताभिनयैरुदारैः ।
नरेन्द्रसूनो परितोषितेन
ताम्बूलयोगेन वराप्सरोभिः ॥
तदागताभिर्नृवराहृतास्तु
कृष्णेप्सया मानमयास्तथैव ।
फलानि गन्धोत्तमवन्ति वीरा-
श्छालिक्यगान्धर्व्वमथाहृतञ्च ॥
कृष्णेच्छया च त्रिदिवान्नृदेव
अनुग्रहार्थं भूवि मानुषाणाम् ।
स्थितञ्च रम्यं हरितेजसेव
प्रयोजयामास स रौक्मिणेयः ।
छालिक्यगान्धर्व्वमुदारबुद्धि-
स्तेनेव ताम्बूलमथ प्रयुक्तम् ॥”
इति हरिवशे भानुमतीहरणे जलक्रीडायाम्
१४८ अध्यायः ॥

सङ्गीतिः, स्त्री, (सं + गै + “स्थागापापचो भावे ।”

३ । ३ । ९५ । इति क्तिन् ।) आलापः । इति
हलायुधः ॥ सङ्गीतञ्च ॥

सङ्गीर्णं, त्रि, (सं + गॄ + क्तः ।) अङ्गीकृतम् ।

इत्यमरः ॥

सङ्गुप्तः, पुं, (सं + गु + क्तः ।) बुद्वभेदः । इति

हेमचन्द्रः ॥ सङ्गोपनाश्रये, त्रि ॥

सङ्गूढः, त्रि, (सं + गुह + क्तः ।) लेखादिना

संवृतः । इति भरतः ॥ रेखादिना पुञ्जीकृत-
धान्यादिः । इति नीलकण्ठः ॥ तत्पर्य्यायः ।
सङ्कलितः २ इत्यमरः ॥

सङ्गोपनं, क्ली, (सं + गुप + ल्युट् ।) सम्यक्प्रका-

रेणंगोपनम् । संपूर्व्वगुपधातोरनट्प्रत्ययेन
निष्पन्नम् ॥

सङ्ग्रहः, पुं, (सं + ग्रह + अप् ।) समाहृतिः ।

इत्यमरः ॥ (यथा, रघुः । १७ । ६० ।
“कोशेनाश्रयणीयत्वमिति तस्यार्थसंग्रहः ।
अम्बुगर्भो हि जीमूतश्चातकैरभिनन्द्यते ॥”)
“संक्षेपेण गृह्यन्ते नानास्थाने विप्रकीर्णा अर्था
बुध्यन्तेऽनेन संग्रहः । संपूर्व्वात् ग्रह आदाने-
ऽल् ।
‘विस्तरेणोपदिष्टानामर्थानों सूत्रभाष्ययोः ।
निबन्धा यः समासेन संग्रहं तं विदुर्बुधाः ॥’
इति ॥
इतस्तत आकृष्य एकत्र निबन्धनं संग्रहः । इति
कल्पतरुप्रभृतयः ।” इत्यमरटीकायां भरतः ॥
नानाग्रन्थस्था अर्थाः संगृह्यन्ते एकस्थानस्थाः
क्रियन्ते इति संग्रहो ग्रन्थविशेषः । इति
श्राद्धविवेकटीकायां श्रीकृष्णतर्कालङ्कारः ॥ * ॥
(यथा, हरिवंशे । ८९ । ७ ।
“चतुष्पादं धनुर्व्वेदं शास्त्रग्रामं ससङ्ग्रहम् ।
अचिरेणैव कालेन गुरुस्तावभ्यशिक्षयत् ॥”)
बृहत् । उत्तुङ्गः । ग्रहणम् । (यथा, रघुः । १ । ६६ ।
“नूनं मत्तः परं वंश्याः पिण्डविच्छेददर्शिनः ।
न प्रकामभुजः श्राद्धे स्वधासंग्रहतत्पराः ॥”)
संक्षेपः । इति मेदिनी ॥ मुष्टिः । इति विश्वः ॥
स्वीकारः । महोद्योगः । इति नानार्थरत्न-
माला ॥

सङ्ग्रहणी, स्त्री, (सञ्चिता ग्रहणी ।) ग्रहणी-

रोगः । तस्य निदानादि ग्रहणीशब्दे द्रष्टव्यम् ।
अथ सामान्यग्रहणीरोगस्य चिकित्सामाह ।
“ग्रहणीमाश्रितं रोगमजीणवदुपाचरेत् ।
लङ्घनैर्दीपनीयैश्च मन्दातीसारभेषजैः ॥
दोषं सामं निरामञ्च विद्यादत्रातिसारवत् ।
अतिसारोक्तविधिना तस्यामञ्च विपाचयेत् ॥
पेयादि पटु लघ्वन्नं पञ्चकोलादिभिर्युतम् ।
दीपनानि च तक्रञ्च ग्रहण्यां योजयोद्भषक् ॥
कपित्थविल्वचाङ्गेरीतक्रदाडिमसाधिता ।
यवागूः पाचयत्यामं सकृत् संवर्त्तयत्यपि ॥”
संवत्तयति घनीकरीति ॥ * ॥ औषधान्याह ।
“जातीफललवर्ङ्गलापत्रत्वङ् नागकेशरैः ।
कर्पूरं चन्दनन्तिल्वत्वक्क्षीरतगरामलैः ॥
तालीसपिप्पलीपथ्यास्थूलजीरकचित्रकैः ।
शुण्ठीविडङ्गमरिचैः समभागैर्विचूर्णितैः ॥
यावन्त्येतानि सर्व्वाणि दद्याद्भङ्गाञ्च तावतीम् ।
सर्व्वचूर्णसमानांशा प्रदेया शुभ्रशर्करा ॥
कर्षमात्रमिदं खादेन्मधुनाप्लावितं जनः ।
नाशयेद्ग्रहणीं कासं क्षयं श्वासमरोचकम् ॥”
इति जातीफलादिचूर्णम् ॥ *
“चित्रकं पिप्पलीमूलं क्षारौ लवणपञ्चकम् ।
व्योषं हिङ्ग्वजमोदाञ्च चव्यं चैकत्र चूर्णयेत् ॥
वटिका मातुलुङ्गस्य रसैर्व्वा दाडिमस्य वा ।
कृता विपाचयत्यामं प्रदीपयति चानलम् ॥”
क्षारौ स्वर्ज्जिकायवक्षारौ । लवणपञ्चकमिति ।
सैन्धवं रुचकञ्चैव विडं सामुद्रिकं गडमिति ।
व्योषं शुण्ठीपिप्पलीमरिचानि । अजमोदात्र
यवानिका । मातुलुङ्गं बीजपूरकम् । चित्र-
कादिवटिका ॥ * ॥
“श्रीफलशलादुकल्को नागरचूर्णेन मिश्रितः
सगुडः ।
ग्रहणीमदमत्युग्रं तक्रभुजा शीलितो जयति ॥”
श्रीफलशलादुः विल्वस्यामं फलम् । गुडस्यात्र
भागद्वयम् । विल्वकल्कः ॥ * ॥
“चतुष्पलं सुधाकाण्डं त्रिफलं लवणत्रयम् ।
वार्त्ताकोः कुडवञ्चाकमूलाद्विल्वे तथानलात् ॥
दग्धद्रवेण वार्त्ताकोर्गुटिका भोजनोत्तरम् ।
भुक्ताभुक्तं पचत्याशु नाशयेद्ग्रहणीगदम् ।
कासं श्वासं तथार्शांसि विसूचीञ्च हृदामयम् ॥”
इति वार्त्ताकुगुटिका ॥ * ॥
“मुस्तकातिविषाविल्वकौटजं सूक्ष्मचूर्णितम् ।
मधुना च समांलीढं ग्रहणीं सर्व्वजान्त्यजेत् ॥”
कौटजं इन्द्रयवः । मुस्तादिचूर्णम् ॥ * ॥
“श्वेतो वा यदि वा रक्तः सुपक्वो ग्रहणीगदः ।
गुडेनाधिकसर्ज्जेन भक्षितेनाशु नश्यति ॥”
सर्ज्जः राल इति लोके । सर्जरसचूर्णम् ॥ * ॥
“विल्वाब्दशक्रयवबालकमोचसिद्ध-
माजं पयः पिबति यो दिवसत्रयेण ।
सोऽतिप्रवृद्धचिरजं ग्रहणीविकारं
सामं सशोणितमसाध्यमपि क्षिणोति ॥”
मोचो मोचरसः । क्षिणोति हन्ति ।
“प्रस्थत्रये त्वामलकीरसस्य
शुद्धस्य दत्त्वार्द्धतुलां गुडस्य ।
चूर्णीकृतैर्ग्रन्थितजीरचव्य-
व्योषेभकृष्णाहवुषाजमोदैः ॥
विडङ्गसिन्धुत्रिफलायवानी
पाठाग्निधान्यैश्च पलप्रमाणैः
दत्त्वा त्रिवृच्चूर्णपलानि चाष्टा-
वष्टौ च तैलस्य पचेद्यथावत् ॥
तं भक्षयेदक्षफलप्रमाणं
यथेष्टचेष्टस्त्रिसुगन्धियुक्तम् ।
अनेन सर्व्वा ग्रहणीविकाराः
सश्वासकासस्वरभेदशोथाः ॥
शाम्यन्ति चायं चिरमन्तराग्ने-
र्हतस्य पुंस्त्वस्य च वृद्धिहेतुः ।
पृष्ठ ५/२१९
स्त्रीणान्तु बन्ध्यामयनाशनः स्यात्
कल्याणको नाम गुडः प्रसिद्धः ॥
तैले मनाक् त्रिवृत् भृष्टा त्रिसुगन्धिपलं पलम् ।
सिद्धे निधेयमत्रैव गुडे कल्याणपूर्व्वके ॥”
इति कल्याणकगुडः ॥ * ॥
“पिप्पली पिप्पलीमूलं चव्यकं गजपिप्पली ।
धान्यकञ्च विडङ्गानि यवानी मरिचानि च ॥
त्रिफला चाजमोदा च नलिनी जीरकस्तथा ।
सैन्धवं रौमकं चापि सामुद्रं रुचकं विडम् ॥
आराग्वधश्च त्वक् पत्रं सूक्ष्मैला चोपकुञ्चिका ।
शुण्ठी शक्रयवाश्चैव प्रत्येकं कर्षसम्मिता ॥
मृद्वीकायाः पलान्यत्र चत्वारि कथितानि हि ।
त्रिवृतायाः पलान्यष्टौ गुडस्यार्द्धतुला तथा ॥
तिलतैलपलान्यष्टौ चामलक्या रसस्य तु ।
प्रस्थत्रयमिदं सर्व्वं शनैर्मृद्वग्निना पचेत् ॥
उडम्बरं चामलकं वादरं वा यथाफलम् ।
तावन्मात्रमिदं खादेद्भक्षयेद्वा यथानलम् ॥
निखिलान् ग्रहणीरोगान् प्रमेहांश्चैकविशतिम् ।
उरोघातं प्रतिश्यायं दौर्ब्बल्यं वह्निसंक्षयम् ॥
ज्वरानपि हरेत् सर्व्वान् कुर्य्यात् कान्तिं मतिं
स्वरम् ।
पिचुपाठान्वयाद्धन्ति रक्तपित्तञ्च चिद्ग्रहम् ॥
धातुक्षीणो वयक्षीणः स्त्रीषु क्षीणः क्षयी च यः ।
तेभ्यो हितश्च बन्ध्यायै महाकल्याणको गुडः ॥”
इति महाकल्याणकगुडः ॥ * ॥
‘कुष्माण्डानां सुपक्वानां श्वित्रानां लिकुचत्वचाम्
सर्पिःप्रस्थे पलशतं ताम्रपात्रे शनैः पचेत् ॥
पिप्पली पिप्पलीमूलं चित्रकं गजपिप्पली ।
धान्यकानि विडङ्गानि नागरं मरिचानि च ॥
त्रिफला चाजमोदा च कलिङ्गाजाजिसैन्धवम् ।
एकैकस्य पलं चैकं त्रिवृतोऽष्टपलानि च ॥
तैलस्य च पलान्यष्टौ गुडात् पञ्चाशदेव तु ।
आमलक्या रसस्यात्र प्रस्थत्रयमुदीरितम् ॥
तावत् पाकंप्रकुर्व्वीत मृदुना वह्निना भिषक् ।
यावत् दर्व्वीप्रलेपः स्यात् तदैनमवतारयेत् ॥
औडुम्बरं चामलकं वादरं वा यथाफलम् ।
तावन्मात्रमिदं खादेद्भक्षयेद्वा यथानलम् ॥
अनेनैव विधानेन प्रयुक्तश्च दिने दिने ।
निहन्ति ग्रहणीरोगान् कुष्ठान्यर्शोभगन्दरान् ॥
ज्वरमानाहहृदोगगुल्मोदरविसूचिकाः ।
कामलां पाण्डुरोगञ्च प्रमेहांश्चैकविंशतिम् ॥
वातशोणितवीसर्पदद्रुपक्षहलीमकान् ।
वातपित्तकफान् सर्व्वान् दुष्टान् शुद्धान् समाचरेत्
व्याधिक्षीणा वयःक्षीणा स्त्रीषु क्षीणाश्च ये नराः ।
तेभ्यो हितो गुडोऽयंस्यात् बन्ध्यानामपि पुत्त्रदः ।
वृष्या बल्यो बृंहणश्च वयसः स्थापनः परः ॥”
इति कुष्माण्डकल्याणगुडः ॥ * ॥
अतीसाराधिकारलिखितं विल्वं तैलञ्चात्र
हितम् । इति ग्रहणीरोगाधिकारः । इति
भावप्रकाशः ।

सङ्ग्राम, ङ ञ त् क युद्धे । इति कविकल्पद्रुम्ः ॥

(अदन्त चुरा०-आत्म०-उभ०-च-अक०-सेट् ।)
अससंग्रासत् । ङ, संग्रामयते । ङ, संग्रामयति
संग्रामयते । ञितैवोभयपदसिद्धौ ङित्करणं
अफलवत्कर्त्तरि आत्मनेपदार्थम् । एवं सर्व्वत्र ।
किन्तु अयमात्मनेपदीति प्राञ्चः कदाचित्
परस्मैपदार्थो ञकारः । इति दुर्गादासः ॥

सङ्ग्रामः, पुं, (सङ्ग्राम + णिच् + भावे घञ् ।)

युद्धम् । इत्यमरः ॥ (यथा, मनुः । ७ । ८७ ।
“न निवर्त्तेत संग्रामात् क्षात्त्रं धर्म्ममनुस्मरन् ॥”)

सङ्ग्रामपटहः, पुं, (सङ्ग्रामस्य पटहः ।) रण-

वाद्यम् । यथा, त्रिकाण्डशेषे ।
“रणतूर्य्यन्तु संग्रामपटहोऽभयडिण्डिमः ।”

सङ्ग्राहः, पुं, (संग्रहणमिति । सं + ग्रह + “समि

मुष्टौ ।” ३ । ३ । ३६ । इति घञ् ।) फलकस्य
मुष्टिः । फलकग्रहणस्थानमिति यावत् । मुष्टि-
बन्धनक्रिया । तत्पर्य्यायः । मुष्टिबन्धः २ । द्वे
मुष्टिबन्धनक्रियायाम् । मुष्टेर्बन्धोऽङ्गुलिविन्यासो
मुष्टिबन्धः । मुष्टिना बन्धो दृडग्रहणं संग्राह
इत्यपरे । मुष्ट्यामेव संग्रह इत्यन्ये । मुष्टिः
स्त्रियाञ्च संग्रह इति वोपालितः । संपूर्व्वग्रहे-
र्घञ् संग्राहः । इत्यमरभरतौ ॥ (यथा, महा-
भारते । ५ । १५४ । २० ।
“सुसंग्राहाः सुसम्पन्नाः हेमभाण्डपरिच्छदाः ।”
“पदातिनो नरास्तत्र बभूबुर्हेममालिनः ॥”)

सङ्ग्राही, [न्] पुं, (संगृह्णाति मलमिति । सं + ग्रह

+ णिनिः ।) कुटजवृक्षः । इति राजनिर्घण्टः ॥
(मलसन्धारके, त्रि । यथा, सुश्रुते । १ । ४५ ।
“दीपनं लघु संग्राहि श्वासकाशास्रपित्तनुत् ॥”
संग्राहके, त्रि । यथा, कामन्दकीये । ४ । १० ।
“प्रख्यातवंशमक्रूरं लोकसंग्राहिणं शुचिम् ।
कुर्व्वीतात्महिताकाङ्क्षी परिवारं महीपतिः ॥”)

सङ्घः, पुं, (सं + हन + “संघोद्घौ गणप्रशंसयोः ।”

३ । ३ । ८६ । इति अप् ढिलोपो घत्वञ्च निपा-
त्यते ।) समूहः । इत्यमरः ॥ सजातीयानां
विजातीयानाञ्च जन्तूनां वृन्दे सङ्घसार्थौ
स्याताम् । यथा भिक्षुसङ्घः बणिक्सार्थः । संह-
न्यते परिच्छिद्यतेऽनेनेति सङ्घः । संपूर्व्वात् हन-
धातोर्नाम्नीति डः निपात्नात् हस्य घः । इति
भरतः ॥ (यथा, महाभारते । १ । १२० । १ ।
“तत्रापि तपसि श्रेष्ठे वर्त्तमानः स वीर्य्यवान् ।
सिद्धचारणसङ्घानां बभूव प्रियदर्शनः ॥”)

सङ्घचारी, [न्] पूं, (सद्ध्वेन चरतीति । चर +

णिनिः ।) मत्स्यः । इति हेमचन्द्रः ॥ बहुभिः
सहगामिनि, त्रि ॥ (यथा महाभारते । ९ ।
११ । १९ ।
“ततस्तद्युद्धमत्युग्रमभवत् सङ्घचारिणाम् ॥”)

सङ्घजीवी, [न्] पुं, (सङ्घेन जीवतीति । जीव +

णिनिः ।) व्रातीनः । इति हेमचन्द्रः ॥

सङ्घट्टः, पुं, (सं + घट्ट + घञ् ।) अन्योन्यविमर्द्दनम् ।

यथा, --
“नैवान्यत्र मदान्धसिन्धुरघटासङ्घट्टधण्टारणत्-
कारत्रस्तसमस्तवैरिवनितालब्धस्तुतिर्भूपतिः ।”
इति वाल्मीकिकृतगङ्गाष्टकस्तात्रम् ॥
गठनम् । यथा, --
“मृदाहरणसङ्घट्टप्रतिष्ठाह्वानमेव च ।
स्नपनं पूजनञ्चैव विसर्ज्जनमतः परम् ॥”
इति तिथ्यादितत्त्वम् ॥
चक्रविशेषश्च ॥

सङ्घट्टचक्रं, क्ली, (संघट्ट एव चक्रम् ।) युद्धविचा-

रार्थनक्षत्राङ्कितचक्रविशेषः । यथा, --
“अश्विन्यादि लिखेच्चक्रं सप्तविंशतितारकैः ।
त्रिकोणं नवभिर्व्वेधः कर्त्तव्यस्तिर्य्यगाकृतिः ॥
अश्विनीरेवतीवेधो अश्विनीज्येष्ठयोस्तथा ।
मघापुष्णोः सर्पपित्रोरश्लेषामूलयोस्तथा ॥
ज्येष्ठामूलकयोर्व्वेधो भवेत् सङ्घट्टचक्रके ।
एवं सङ्घट्टचक्रे च कार्य्या ऋक्षगता ग्रहाः ॥
भूपनामर्क्षसङ्घट्टे युद्धं भवति नान्यथा ।
निर्व्वेधे सौम्यवेधे च युद्धं नास्तिंरणेशयोः ॥
क्रुरवेधे भवेद्युद्धं तत्काले घोरदारुणम् ।
युद्धाकाङ्क्षी भवेद्राजा यस्य भं क्रूरवेधितम् ॥
युद्धद्वेषी भवेत् सौम्यैर्भे च वेधविवर्ज्जिते ।
सौम्यक्रूरविभागेन मित्रामित्रक्रमेण च ।
वक्रातिचारगत्या च युद्धमत्रास्ति नास्ति च ॥”
इति स्वरोदये सङ्घदृकालानलचक्रम् ॥

सङ्घट्टनं, क्ली, स्त्री, (सं + घट्ट + ल्युट् । स्त्रियां

युच् ।) मेलनम् । गठनम् । घटना । इति
केचित् ॥ (यथा, साहित्यदर्पणे । ९ । ६२४ ।
“पदसंघट्टना रीतिरङ्गसंस्थाविशेषवत् ।
उपकर्त्त्री रसादीनां सा पुनः स्याच्चतुर्व्विधा ॥”)

सङ्घट्टा, स्त्री, (संघट्टते इति । सं + घट्ट + अच् +

टाप् ।) लता । इति शब्दचन्दिका ।

सङ्घतलः, पुं, (सङ्घे संहते तले यत्र ।) मिलित-

प्रतलद्वयम् । इत्यमरः ॥ योड हात इति भाषा ॥

सङ्घपुष्पी, स्त्री, (संङ्घानि पुष्पाणि यस्याः ।)

धातकी । इति राजनिर्घण्टः ॥

सङ्घर्षः, पुं, (सं + घृष + घञ् ।) सङ्घर्षणम् ।

(यथा, महाभारते । १ । १८ । २३ ।
“तेषां सङ्घर्षजश्चाग्निरर्च्चिर्भिः प्रज्वलन् मुहुः ।
विद्युद्भिरिव नीलाब्भ्रमावृणोत् मन्दरं गिरिम् ॥”)
स्पर्द्धा । (यथा, महाभारते । १ । ७६ । ५ ।
“सुराणामसुराणाञ्च समजायत वै मिथः ।
ऐश्वर्य्यं प्रति संघर्षस्त्रैलोक्ये सचराचरे ॥”)
संसर्पः । इति शब्दरत्नावली ॥

सङ्घाटिका, स्त्री, (संघाटयतीति । सं + घट +

णिच् + ण्वुल् । टापि अत इत्वम् ।) युग्मम् ।
कुट्टनी । जलकण्टकम् । इति मेदिनी ॥
घ्राणम् । इति विश्वः ॥

सङ्घातः, पुं, (सं + हन + घञ् ।) समूहः ।

(यथा, कुमारे । ५ । ५५ ।
“न जातु बाला लभते स्म निर्वृतिं
तुषारसङ्घातशिलातलेष्वपि ॥”)
नरकभेदः । इत्यमरः ॥ हननम् । इति मेदिनी ।
(निविडसंयोगः । यथा, कुमारे । २ । ११ ।
“द्रवः सङ्घातकठिनः स्थूलः सूक्ष्मो लघुर्गुरुः ।
व्यक्तो व्यक्तेतरश्चासि प्राकाम्यं ते विभूतिषु ॥”)
पृष्ठ ५/२२०
कफः । इति राजनिर्घण्टः ॥ नाटके गति-
विशेषः । इति केचित् ॥

सङ्घातपत्रिका, स्त्री, (सङ्घातयुक्तानि पत्राणि

यस्याः । कापि अत इत्वम् ।) शतपुष्पा । इति
राजनिर्घण्टः ॥

सङ्घषितं, त्रि, सम्यग्घोषणाश्रयः ॥ संपूर्व्व-

घुषधातोः क्तप्रत्यये कृते वा रुषा-
महृषत्वरसंघुषास्वन इत्यनेन विकल्पेन इमा
निष्पन्नम् । इति मुग्धबोधव्याकरणम् ॥ (यथा,
महानिर्व्वाणतन्त्रे । १ । ४ ।
“मत्तकोकिलसन्दोहसंघुष्टविपिनान्तरे ॥”)

सङ्घष्टं, त्रि, सम्यग्घोषणाश्रयः ॥ संपूर्व्व-

घुषधातोः क्तप्रत्यये कृते वा रुषा-
महृषत्वरसंघुषास्वन इत्यनेन विकल्पेन इमा
निष्पन्नम् । इति मुग्धबोधव्याकरणम् ॥ (यथा,
महानिर्व्वाणतन्त्रे । १ । ४ ।
“मत्तकोकिलसन्दोहसंघुष्टविपिनान्तरे ॥”)

सचिः, स्त्री, (सच समवाये + “सर्व्वधातुभ्य

इन् ।” उणा० ४ । ११७ । इति इन् ।) शची ।
इत्यमरटीकायां रामाश्रमः ॥

सचिल्लकः, त्रि, क्लिन्नचक्षुः । इति शब्दरत्नावली ॥

सचिवः, पुं, (सच समवाये + इन् । तथा सन्

वातीति । वा + कः ।) मन्त्री । सहायः ।
इत्यमरः ॥ (यथा, देवीभागवते । २ । ९ । ४२ ।
“इत्युक्त्वा सचिवान् राजा कल्पयित्वा सुरक्ष-
कान् ।
कारयित्वाथ प्रासादं सप्तभूमिकमुत्तमम् ।
आरुरोहोत्तरासूनुः सचिवैः सह तत्क्षणम् ॥”)
कृष्णधत्तूरकः । इति राजनिर्घण्टः ॥

सचिवामयः, पुं, (सचिवानामामयः ।) विसर्पः ।

इति राजनिर्घण्टः ॥

सची, स्त्री, (सचि + कृदिकारादिति ङीष् ।)

शची । इन्द्राणी । शचते व्यक्तं व्यक्ति शची
शच ङ वाति तालव्यादिः नाम्नीति इः
पाच्छोणादीति पक्षे ईपि शची । कौशिकी च
शची कोशातकीति वर्णादेशमालायां तालव्य-
शेषु पठ्यते । सची दन्त्यादिश्च तत्र सचते
आप्याययति इन्द्रमिति ष च ङ सेचने पूर्व्ववन
इः ईप च । इत्यमरटीकायां भरतः ॥ सचिः
शचीति भरतद्विरूपकोषश्च ॥

सचीनन्दनः, पुं, (सच्या नन्दनः ।) शचीसुतः ।

स च जयन्तः । चैतन्यदेवः । यथा, --
“शाके मुनिव्योमयुगेन्दुगण्ये
पुण्ये तिथौ फाल्मुनपौर्णमास्याम् ॥
त्रैलोक्यभाग्योदयपुण्यकीर्त्ति-
दवः सचीनन्दन आविरासीत् ॥”
इति चैतन्यचन्द्रोदयनाटकम् ॥

सचेष्टः, पुं, आम्रः । इति शब्दमाला ॥ चेष्टया

मह वर्त्तमाने, त्रि ॥

सच्चारा, स्त्री, हरिद्रा । इति शब्दचन्द्रिका ॥

सच्चित्, क्ली, ब्रह्म । इति मुग्धबोधव्याकरणम् ॥

सच्चिदानन्दः, पुं, (संश्चासौ चिच्चासौ आनन्द-

श्चेति त्रिपदे कर्म्मधारयः ।) नित्यज्ञानसुख-
स्वरूपं ब्रह्म । यथा, --
“अहं देवो न चान्योऽस्मि ब्रह्मैवास्मि न
शोकभाक् ।
सच्चिदानन्दरूपोऽहं नित्यमुक्तस्वभाववान् ॥”
इत्याह्निकतत्त्वम् ॥
साकारदेवविशेषणे, त्रि । यथा, --
“मुकुन्दं सच्चिदानन्दं प्रणिपत्य प्रणीयते ।”
इत्यादि मुग्धबोधव्याकरणम् ॥

सजम्बालः, त्रि, (जम्बालेन पङ्केन सह वर्त्तमानः ।)

पङ्किलः । इत्यमरः ॥

सजातिः, पुं, (समाना जातिरस्य । समानस्य

सः ।) समानजातिस्त्रीपुंसोः पुत्त्रः । यथा, --
“सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः ।
अनिन्द्येषु विवाहेषु पुत्त्राः सन्तानवर्द्धनाः ॥”
इति मिताक्षरायां आचाराध्यायः ॥
समानजातौ, त्रि ॥

सजातीयः, त्रि, (जातौ भवः जातीयः । समानो

जातीयः । समानस्य सः ।) समानघर्म्मा-
क्रान्तः । यथा, --
“सजातीयैः कुलं यूथं तिरश्चां पुं नपुंसकम् ।”
इत्यमरः ॥

सजूः, [ष्] व्य, सहार्थः । इति शब्दरत्नावली

भरतश्च ॥ (यथा, भागवते । ६ । १८ । ६७ ।
“सजूरिन्द्रेण पञ्चाशत् देवास्ते मरुतोऽभवन् ॥”)

सजूः, [ष्] जुष सेवे + क्विप् । जुषा सह

वर्त्तते इति । सहस्य सः । “ससजुषो रुः ।” ८ ।
२ । ६६ । इति रुः । र्वोरिति दीर्घः ।) प्रीति-
युक्ता । सेवायुक्ता । इति मुग्धबोधव्याकरणम् ॥
“जुषी प्रीतिसेवनयोः । जोषणं जुट् सह जुषा
वर्त्तते या सा सजूः ।” इति तट्टीकायां दुर्गा-
दासः ॥ तापसः । इति संक्षिप्तसारव्याकरणम् ॥

सज्जः, त्रि, (सज्जतीति । सज्ज + अच् ।) सन्नद्धः ।

इत्यमरः ॥ सम्भृतः । इति विश्वमेदिन्यौ ॥
निभृतः । इति शब्दरत्नावली ॥ सज्जायुक्तश्च ॥
(यथा, महाभारते । १ । २ । २३२ ।
“ते तस्य वचनं श्रुत्वा मन्त्रयित्वा तु यद्धितम् ।
सांग्रामिकं ततः सर्व्वं सज्जञ्चक्रुः परन्तपाः ॥”)

सज्जनं, क्ली, (सज्ज + णिच् + ल्युट् ।) रक्षणार्थं

सैन्यस्थानम् । चौकीति ख्यातम् । तत्पर्य्यायः ।
उपरक्षणम् २ । इत्यमरः ॥ घट्टः । इति
मेदिनी ॥ सज्जा च ॥

सज्जनः, पुं, (सन् चासौ जनश्चेति ।) सत्कुलो-

द्भवः । तत्पर्य्यायः । महाकुलः २ कुलीनः ३
आर्य्यः ४ सभ्यः ५ साधुः ६ । इत्यमरः ॥
कुलजः ७ सम्बः ८ साधुजः ९ । इति शब्द-
रत्नावली ॥ मेदिनीकारभते वाच्यलिङ्गोऽयम् ।
तल्लक्षणं यथा, --
दान्त उवाच ।
“निजाचारग्राहिणो ये कुर्व्वन्तो वेदसम्मतम् ।
पापाभिलाषरहिताः सज्जनास्ते प्रकीर्त्तिताः ॥”
इति पाद्मे क्रियायोगसारे १६ अध्यायः ॥
तत्सङ्गप्रशंसा यथा, --
“नलिनीदलगतजलवत्तरलं
तद्वज्जीवनमतिशयचपलम् ।
क्षणमिह सज्जनसङ्गतिरेका
भवति भवार्णवतरणे नौका ॥”
इति श्रीशङ्कराचार्य्यकृतमोहमुद्गरः ॥

सज्जना, स्त्री, (सज्ज + णिच् + न्यासश्रन्थेति

युच् । टाप् ।) नायकस्यारोहणार्थं गजसज्जी-
करणम् । तत्पर्य्यायः । कल्पना २ । इत्य-
मरः ॥ (यथा, आर्य्यासप्तशत्याम् । ३१६ ।
“निजपदगतिगुणरञ्जितजगतां करिणाञ्च
सत्कवीनाञ्च ।
वहतामपि महिमानं शोभायै सज्जना एव ॥”)

सज्जा, स्त्री, वेशः । साज इति भाषा सन्नाहः ।

साँजओया इति भाषा । षस्जधातोर्भावे आत्-
प्रत्ययनिष्पन्ना । इति व्याकरणम् ॥

सज्जितः, त्रि, भूषितः । कृतसज्जः । वर्म्मितः ।

सन्नद्धः । षस्जधातोः क्तप्रत्ययेन निष्पन्नः ॥

सञ्चः, पुं, (संचिनोति वर्णानिति । सं + चि +

डः ।) पुस्तकलेस्वनार्थपत्रचयः । साँच् इति
भाषा । यथा, --
“श्रीताडीपत्रजे सञ्चे समे पत्रसुसञ्चिते ।
विचित्रकं विपार्श्वे च चर्म्मणा संपुटीकृते ॥
रक्तेन अथ कृष्णेन मूर्द्धन्यावर्द्धितेन च ।
दृढसूत्रसुबन्धेन एवंविधकृतेन च ॥
यस्तु द्वादशसाहस्रीं संहितामुपलेखयेत् ।
ददाति चाभियुक्ताय स याति परमां गतिम् ॥”
इति देवीपुराणे विद्यादानमाहात्म्यफलनामा-
ध्यायः ॥

सञ्चत्, पुं, (“संश्चत्तृपद्वेहत् ।” उणा० २ । ८५ ।

इत्यत्र “सञ्चत्” इति पाठेन अतिप्रत्ययान्तो
निपात्यते ।) प्रतारकः । इति सिद्धान्तकौमुदी ॥

सञ्चयः, पुं, (सञ्चीयते इति । सम् + चि +

“एरच्” ३ । ३ । ५६ । इत्यच् ।) समूहः ।
इत्यमरः ॥ यथा, कथासरित्सागरे । १८ ।
१२८ ।
“तस्थौ स सेवमानस्तं राजानं स तदाश्रितः ।
भुञ्जानश्च सहान्यै स्तैर्ब्राह्मणैर्ग्रामसञ्चयम् ॥”)
संग्रहः । यथा,
“शक्तेनापि हि शूद्रेण न कार्य्यो धनसञ्चयः ।
शूद्रो हि धनमासाद्य ब्राह्मणानेव बाधते ॥”
इत्याह्लिकाचारतत्त्वम् ।

सञ्चयनं, क्ली, (सं + चि + ल्युट् ।) सञ्चयः ।

यथा, संवर्त्तः ।
“चतुर्थेऽहनि कर्त्तव्यमस्थिसञ्चयनं द्विजैः ।
ततः सञ्चयनादूर्द्धमङ्गस्पर्शो विधीयते ॥”
इति शुद्धितत्त्वम् ।

सञ्चयी, [न्] त्रि, सञ्चयविशिष्टः । संग्रहकर्त्ता ।

सञ्चयशब्दादस्त्यर्थे इन्प्रत्ययेन निष्पन्नः ! यथा,
सञ्चयी नावसीदति । इति महाभारतम् ॥

सञ्चरः, पुं, (सञ्चरन्तेऽनेनेति । सम् + चर +

“गोचरसंचरेति ।” ३ । ३ । ११९ । इति घः ।)
सेतुः । इति त्रिकाण्डशेषः ॥ सञ्चरो निर्गमो-
ऽम्बुपथः । इति भरतधृतरत्नमाला ॥ (मार्गः ।
इति सिद्धान्तकौमुदी ॥ यथा, कुमारे । ६ । ४३ ।
“यथौषधिप्रकाशेन नक्तं दर्शितसञ्चराः ।
अनभिज्ञास्तमिस्राणां दुर्दिनेष्वभिसारिकाः ॥”)
देहः । इति हेमचन्द्रः ॥
पृष्ठ ५/२२१

सञ्चलनं, क्ली, कम्पनम् । संपूर्व्वचलधातोरनट्-

(ल्युट्) प्रत्ययेन निष्पन्नम् ॥ (यथा, मार्कण्डेये ।
९ । १८ ।
“केचिद्गिरिनिपातेन केचिदम्भोधिवारिणा ।
केचित् महीसञ्चलनात् प्रययुः प्राणिनः क्षयम् ॥”

सञ्चानः, पुं, श्येनपक्षी । इति केचित् ॥ शिक्रे

इति भाषा ॥

सञ्चाय्यः, पुं, (संचीयतेऽस्मिन् सोम इति । सं +

चि + “क्रतौ कुण्डपाप्यसञ्चाय्यौ ।” ३ । १ । १३० ।
इति ण्यदायादेशौ निपात्येते ।) यज्ञविशेषः ।
इति मुग्धबोधव्याकरणम् ॥

सञ्चारः, पुं, (सं + चर + घञ् ।) दुर्गसञ्चरः ।

इत्यमरटीका ॥ गमनम् । यथा । सञ्चारो रति-
मन्दिरावधि इत्यादि काव्यप्रकाशः ॥ (यथा,
रघुः । २ । १५ ।
“सञ्चारपूतानि दिगन्तराणि
कृत्वा दिनान्ते निलयाय गन्तुं ।
प्रचक्रमे पल्लवरागताम्रा
प्रभा पतङ्गस्य मुनेश्च धेनुः ॥”)
ग्रहादे राश्यन्तरसंक्रमनञ्च ॥ (यथा, याज्ञ-
वल्क्ये । ३ । १७२ ।
“तारा नक्षत्रसञ्चारैर्ज्जागरैः स्वप्नजैरपि ॥” * ॥
सञ्चरत्यस्मिन्निति । अधिकरणे घञ् । देशः ।
इति रामायणटीका ॥ यथा, रामायणे । २ ।
११९ । १८ ।
“तावूचुस्ते वनचरास्तापसा धर्म्मचारिणः ।
वनस्य तस्य संञ्चारं राक्षसैः समभिप्लुतम् ॥”)

सञ्चारजीवी, [न्] त्रि, (सञ्चारेण जीव-

तीति । जीव + णिनिः ।) शरणापन्नः । इति
त्रिकाण्डशेषः ॥

सञ्चारिका, स्त्री, (सञ्चारयति नायकयोर्व्वार्त्ता-

मिती । सं + चर + णिच् + ण्वुल् ।) दूती ।
इत्यमरः ॥ युगलम् । कुट्टनी । घ्राणम् । इति
मेदिनी ॥

सञ्चारी, [न्] पुं, (सञ्चरतीति । सं + चर +

णिनिः ।) धूपः । इति त्रिकाण्डशेषः ॥ वायुः ॥
इति शब्दचन्द्रिका ॥ भावविशेषः । यथा, --
“स्थायिसात्त्विकसञ्चारिमभेदैः स्याद्रतिः पुनः ।”
इति हेमचन्द्रः ॥
अन्यच्च ।
“सञ्चारिणः प्रधानानि देवादिविषया रतिः ।
उद्बुद्धमात्रस्थायी च भाव इत्यभिधियते ॥”
अपि च ।
“नानाभिनयसम्बन्धान् भावयन्ति रसान् यतः ।
तस्माद्भावा अमी प्रोक्ताः स्थायिसञ्चारि-
सात्त्विकाः ॥”
वात्मल्यरससञ्चारिणो यथा, --
“सञ्चारिणोऽनिष्टशङ्काहर्षगर्व्वादयो मताः ॥”
वीररससञ्चारिणस्तु । “धृतिमतिगर्व्व स्मृतितर्क-
रोमाञ्चाः ।” इति साहित्यदर्पणे ३ परिच्छेदः ॥
(गतिशीले, त्रि । यथा, गीतगोविन्दे । ६ ।
११ ।
“अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि
सञ्चारिणि
प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं
ध्यायति ॥”)

सञ्चारिणी, स्त्री, (सञ्चरतीति । सं + चर +

णिनिः । ङीप् ।) हंसपदी । इति राज-
निर्घण्टः ॥ (गतिशीला । यथा, कुमारे । ३ । ५४ ।
“पर्य्याप्तपुष्पस्तवकावनम्रा
सञ्चारिणी पल्लविनी लतेव ॥”)

सञ्चाली, स्त्री, गुञ्जा । यथा, --

“सञ्चाली प्रोच्यते गुञ्चा सा तिस्रो रूपकं
भवेत् ॥”
इति युक्तिकल्पतरुः ॥

सञ्चित्रा, स्त्री, (सम्यक् चित्रमस्यामिति ।) मूषी-

कर्णी । इति शब्दरत्नावली ॥

सञ्चेयं, त्रि, सञ्चयनीयम् । सञ्चेतष्यम् । संपूर्व्वक-

चिञधातोः कर्म्मणि यप्रत्ययेन निष्पन्नम् ॥

सञ्जः, पुं, (सम्यक् जायते इति । सं + जन + डः ।

सम्यक् जयतीति । जि + अन्येष्वपीति वा डः ।)
ब्रह्मा । शिवः । इति मेदिनी ॥

सञ्जवनं, क्ली, (सञ्जवन्ति संमिलन्त्यत्रेति । सं +

जु गतौ + अधिकरणे ल्युट् ।) अन्योन्याभिमुख-
गृहचतुष्टयम् । तत्पर्य्यायः । चतुःशालम् २ ।
इत्यमरः ॥ सयमनम् ३ चतुःशाली ४ । इति
भरतः ॥ सञ्जीवनम् ५ शाला ६ निलयः ७
चतुःशालकम् ८ । इति शब्दरत्नावली ॥ (यथा,
हरिवंशे । १५५ । ५६ ।
“तस्मिन् सुविहिताः सर्व्वे रुक्मदण्डाः पताकिनः
सदने वासुदेवस्य मार्गसञ्जवनध्वजाः ॥”)

सञ्जा, स्त्री, छागी । इति त्रिकाण्डशेषः ॥

सञ्जीवनं, क्ली, (सञ्जीव्यतेऽस्मिन्निति । सं + जीव +

अधिकरणे ल्युट् ।) सञ्जवनम् । इति शब्द-
रत्नावली ॥ (सं + जीव + भावे ल्युट् ।)
सस्यक्प्रकारेण प्राणधारणञ्च ॥ (यथा, मुकुन्द-
मालायाम् । ३० ।
“व्यामोहोद्दलनौषधं मुनिमनोवृत्तिप्रवृत्त्यौषधं
दैत्यानर्थकरौषधं त्रिजगतां सञ्जीवनैकौषधम् ।
भक्तार्त्तिप्रशमौषधं भवभयप्रध्वंसि दिव्यौषधं
श्रेयः प्राप्तिकरौषधं पिब मनः श्रीकृष्णनामौ-
षधम् ॥”
नरकविशेषः । यथा, मनुः । ४ । ८९ ।
“नरकं कालसूत्रञ्च महानरकमेव च ।
सञ्जीवनं सहावीचिं तपनं सम्प्रतापनम् ॥”
स्त्री, विद्याविशेषः । यथा महाभारते । १ ।
७६ । ३३ ।
“ततः सञ्जीवनीं विद्यां प्रयुज्य कचमाह्वयत् ॥”)

सञ्ज्ञं, क्ली, संज्ञम् । इति शब्दचन्द्रिका ॥

सञ्ज्ञः, त्रि, संज्ञः । इत्यमरटीक्वायां भरतः ॥

सञ्ज्ञपनं, क्ली, (सं + ज्ञा + णिच् + ल्युट् ।)

संज्ञपनम् । इत्यमरः ॥

सञ्ज्ञप्तिः, स्त्री, (सं + ज्ञा + णिच् + क्तिन् ।)

संज्ञप्तिः । इति हेमचन्द्रः ॥

सञ्ज्ञा, स्त्री, (सं + ज्ञा + अङ् ।) संज्ञा । इति

मेदिनी ॥

सञ्ज्ञुः, त्रि, (संहते जानुनी यस्य । “प्रसंभ्यां

जानुनोर्ज्ञुः ।” ५ । ४ । १२९ । इति ज्ञुः ।)
संज्ञुः । इत्यमरः ॥

सञ्ज्वरः, पुं, (सम्यक् ज्वरः ।) संज्वरः । इत्य-

मरः ॥

सटं, क्ली, (सटतीति । सट् अवयवे + अच् ।)

जटा । यथा, --
“जटा जटिर्जटी जूटो जुटकन्तु सटं सटा ।
कौटीरं जूटकं हस्तं शिखायां व्रतिनामपि ॥”
इति शब्दरत्नावली ॥

सटा, स्त्री, (सट अवयवे + अच् ।) जटा ।

केशरः । इति मेदिनी ॥ (यथा, रघुः ।
९ । ६० ।
“तं वाहनादवनतोत्तरकायमीषत्
विध्यन्तमुद्धृतसटाः प्रतिहन्तुमीयुः ॥”)
शिखा । इति शब्दरत्नावली ॥ (यथा, भाग-
वते । ४ । ५ । २ ।
“क्रुद्धः सुदष्टौष्ठपुटः स धूर्जटि-
र्जटां तडित्वह्निसटोग्ररोचिषम् ।”)

सटाङ्कः, पुं, (सटा अङ्कश्चिह्नं यस्य ।) सिंहः ।

इति शब्दरत्नावली ॥

सटिः, स्त्री, (सटतीति । सट अवयवे + इन ।)

शटी । इति शब्दरत्नावली ॥

सटिका, स्त्री, गन्धपत्रा । सटी । इति राज-

निर्घण्टः ॥

सटी, स्त्री, (सटि + वा ङीष् ।) गन्धद्रव्यविशेषः ॥

वन आदा इति अम्लहरिद्रा इति च भाषा ।
आवेहलदी इति कोङ्कणे प्रसिद्धा । तत्पर्य्यायः ।
शिटी २ गन्धशटी ३ सुगन्धा ४ सटिः ५
शटिः ६ गन्धमूला ७ गन्धमूली ८ पलाशः ९
कर्व्वुरः १० षड्ग्रन्थिका ११ कर्व्वूरः १२
गन्धोलिः १३ गन्धमूलकः १४ । इति शब्दरत्ना-
वली ॥ शठी १५ षड्ग्रन्था १६ अम्लनिशा १७
बधूः १८ गन्धारी १९ सटिका २० पला-
शिका २१ समुद्रा २२ तृणी २३ दूर्व्वा २४
गन्धा २५ पृथुपलाशिका २६ सौम्या २७
हिमोद्भवा २८ गन्धबधूः २९ । अस्या गुणाः ।
सुतिक्तत्वम् । अम्लरसत्वम् । लघुत्वम् । उष्ण-
त्वम् । रुचिप्रदत्वम् । ज्वरकफास्रकण्डूव्रणदोष-
वक्त्रामयनाशित्वम् । हृद्यत्वञ्च । इति राज-
निर्घण्टः ॥

सट्वा, स्त्री, पक्षिभेदः । वाद्यम् । इति संक्षिप्त-

सारोणादिवृत्तिः ॥

सठ, क श्वठार्थे । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-सक०-सेट् ।) दन्त्यादिः । क, साठयति
सठार्थे गत्यसंस्कृतसंस्कृतेषु । इति दुर्गादासः ॥

सठी, स्त्री, शठी । इति राजनिर्घण्टः ॥

सणसूत्रं, क्ली, (सणस्य सूत्रम् ।) शणसूत्रम् ।

इत्यमरटीकायां रायमुकुटः ॥

सण्डः, पुं, षण्डः । इत्यमरटीका ॥

पृष्ठ ५/२२२

सण्डिशः, पुं, सन्दंशः । साँडाशि इति भाषा ।

यथा, --
“पायसं कृषराच्छागं देवान्नानि च यानि वै ।
भुक्तानि यैरसंस्कृत्य तेषामन्त्राणि पापिनाम् ॥
निपातितानां भूपृष्ठे उद्धृताक्षि निरीक्षताम् ।
सण्डिशैरपकृष्यन्ते नरैर्याम्यैर्म्मुखात्ततः ॥”
इति मार्कण्डेयपुराणे १४ अध्यायः ॥

सण्डीनं, क्ली, खगगतिक्रिया । इत्यमरः ॥ खगानां

पक्षिणां गतौ स्थानान्तरसञ्चारे एताः क्रियाः
व्यापाराः । कास्ता इत्याह प्रथमडीनं उड्डय-
नाय क्रमबन्धः । ऊर्द्धं डीनं उड्डीनं वियद्गमनम् ।
संगतं डीनं सण्डीनं वृक्षादौ पतनमिति ।
पृथक् पृथक् पक्षिगतिक्रियासु प्रडीनं सङ्गत-
गमनमित्यन्ये । ओ डो ङ य गतौ डीङ च
नभोगतौ भावे क्तः सुल्वाद्योदिति नत्वम् ।
इति भरतः ॥

सततं, क्ली, (सन्तन्यते स्मेति । सं + तन + क्तः ।

समो वा हितततयोरिति पक्षे मलोपः ।) निर-
न्तरक्रिया । तद्वति, त्रि । इत्यमरः ॥ तत्पर्य्यायः
अनवरतशब्दे नित्यशब्दे च द्रष्टव्यः । अपि च ।
“सतते त्वनवरतानारताश्रान्तसन्ततम् ।
प्रसक्तासक्तनित्याजस्रानद्धाविरतानिशम् ॥”
इति जटाधरः ॥
(यथा, मनुः । ४ । २२ ।
“एतानेक महायज्ञान् यज्ञशास्त्रविदो जनाः ।
अनीहमानाः सततमिन्द्रियेष्वेव जुह्वति ॥”)

सतत्त्वं, क्ली, स्वभावः । इति हेमचन्द्रः । ६ । १३ ॥

सतर्कः, त्रि, तर्केण सह वर्त्तमानः । सावधानः ।

इति लोकप्रसिद्धः ॥

सतानन्दः, पुं, गौतममुनिपुत्त्रः । स च जनकराज-

पुरोहितः । इति शब्दरत्नावली ॥

सतिः, स्त्री, (सनु दाने + क्तिच् । “सनः क्तिचि

लोपश्चास्यान्यतरस्याम् ।” ६ । ४ । ४५ । इति
नलोपः ।) दानम् । अवसानम् । इति साति-
शब्दटीकायां भरतः ।

सती, स्त्री, (अस्तीति । अस् + शतृ । उगित्वात्

ङीप् ।) दुर्गा । साध्वी । इति मेदिनी ।
(यथा, कुमारे । १ । २१ ।
“सती सती योगविसृष्टदेहा
तां जन्मने शैलबधूं प्रदेपे ॥”)
सौराष्ट्रमृत्तिका । इति हेमचन्द्रः ॥ दानम् ।
अवसानम् । इति नानार्थसातिशब्दटीकायां
भरतः ॥ * ॥ स्थानविशेषे सत्यष्टोत्तरशत-
नामानि यथा, --
देव्युवाच ।
“सर्व्वगा सर्व्वभूतेषु द्रष्टव्या सर्व्वतो भुवि ।
सप्तलोकेषु यत्किञ्चिद्रहितं न मया विना ॥
तथापि येषु स्थानेषु द्रष्टव्याः सिद्धिमीप्मुभिः ।
स्मर्त्तव्या भूतिकामैर्व्वा ता वक्ष्यामि प्रयत्नतः ॥
वाराणस्यां विशालाक्षी नैमिषे लिङ्गधारिणी ।
प्रयागे ललिता देवी कामुका गन्धमादने ॥
मानसे कुमुदा नाम विश्वकाया तथेश्वरे ।
गोमन्ते गोमती नाम मन्दरे कामचारिणी ॥
मदोत्कटा चैत्ररथे जयन्ती हस्तिनापुरे ।
कान्यकुब्जे तथा गौरी रम्भा मलयपर्व्वते ॥
एकाम्रके कीर्त्तिमती विश्वां विश्वेश्वरे विदुः ।
पुष्करे पुरुहूतेति केदारे मार्गदायिनी ॥
नन्दा हिमवतः पृष्ठे गोकर्णे भद्रकर्णिका ।
स्थानेश्वरे भवानी तु विल्वके विल्वपत्रिका ॥
श्रीशैले माधवी नाम भद्रा भद्रेश्वरे तथा ।
जया वराहशैले तु कमला कमलालये ॥
रुद्रकोट्यान्तु रुद्राणी काली कालञ्जरे तथा ।
महालिङ्गे तु कपिला साकोटे कमलेश्वरी ॥”
अत्र कपिलाम्बरा इति च पाठः ।
“शालग्रामे महादेवी शिवलिङ्गे जनप्रिया ।
मायापूर्य्यां कुमारी तु सन्ताने ललिता तथा ॥
उत्पलाक्षी सहस्राक्षे हिरण्याक्षे महोत्पला ।
गयायां मङ्गला नाम विमला पुरुषोत्तमे ॥
विपाशायामघोराक्षी पाटला पुण्ड्रवर्द्धने ।
नारायणी सुपार्श्वे तु त्रिकूटे रुद्रसुन्दरी ॥
विपुले विपुला नाम कल्याणी मलयाचले ।
कौटवी कोटितीर्थेषु सुगन्धा माधवे वने ॥
गोदाश्रमे त्रिसन्ध्या तु गङ्गाद्वारे रतिप्रिया ।
शिवकुण्डे शिवानन्दा नन्दिनी देविकातटे ॥
रुक्मिणी द्वारवत्यान्तु राधा वृन्दावने वने ।
देवकी मथुरायान्तु पाताले परमेश्वरी ॥
चित्रकूटे तथा सीता विन्ध्ये विन्ध्याधिवासिनी
सह्यद्वारे करीरा तु हरिश्चन्द्रे तु चन्द्रिका ॥
रमणा रामतीर्थे तु यमुनायां मृगावती ।
करवीरे महालक्ष्मीरुमादेवी विनायके ॥
अरोगा वैद्यनाथे तु महाकाले महेश्वरी ।
अभयेत्युष्णतीर्थे तु अमृता विन्ध्यकन्दरे ॥”
उष्णतीर्थेत्यत्र अश्वतीर्थेति च पाठः ।
“माण्डव्ये माण्डवी नाम स्वाहा माहेश्वरे
पुरे ।
छगलाण्डे प्रचण्डा तु चण्डिकामरकण्टके ॥
सोमेश्वरे वरारोहा प्रभावे पुष्करावती ।
देवमाता सरस्वत्यां पारा पारातटे मता ॥
महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी ।
सिंहिका कृतशौचे तु कार्त्तिकेये तु शङ्करी ॥
उत्पलावत्तके लोला सुभद्रा शोणसङ्गमे ।
महासिद्धवने लक्ष्मीरनङ्गा भरताश्रमे ॥
जालन्धरे विश्वमुखी तारा किष्किन्धपर्व्वते ।
देवदारुवने पुष्टिर्मेघा काश्मीरमण्डले ॥
भीमादेवी हिमाद्रौ च तुष्टिर्वस्त्रेश्वरे तथा ।
कपालमोचने शुद्धिर्म्माया कायावरोहणे ॥
शङ्खोद्धाने धनिर्नाम धृतिः पिण्डारके तथा ।
काला तु चन्द्रभागायामच्छोदे शिवचारिणी ।
वेण्वायाममृता नाम वदर्य्यां वर्च्चसी तथा ।
औषधी चोत्तरकुरौ कुशद्वीपे कुशोदका ।
मन्मथा हेमकुटे तु कुमुदे सत्यवादिनी ॥ * ॥
अश्वत्थे वन्दनोया तु निधिर्वैश्रवणालये ।
गायत्त्री वेदवदने पार्व्वती शिवसन्निधौ ॥
देवलोके तथेन्द्राणी ब्रह्मास्येषु सरस्वती ।
सूर्य्यविम्बे प्रभा नाम मातॄणां वैष्णवी तथा ॥
अरुन्धती सतीनान्तु रामासु च तिलोत्तमा ।
चित्ते ब्रह्मकला नाम शक्तिः सर्व्वशरीरिणाम् ॥
एतदुद्देशतः प्रोक्तं नामाष्टशतमुत्तमम् ।
अष्टोत्तरञ्च तीर्थानां शतमेतदुदाहृतम् ।
यः पठेच्छृणुयाद्वापि सर्व्वपापैः प्रमुच्यते ॥
एषु तीर्थेषु यः कृत्वा स्नानं पश्यति मानवः ।
सर्व्वपापविनिर्म्मुक्तः कल्पं शिवपुरे वसेत् ॥
यस्तु मत्परमः कालं करोत्येतेषु मानवः ।
स भित्त्वा ब्रह्मसदनं पदमभ्येति शाङ्करम् ॥
नामाष्टशतकं यस्तु श्रावयेच्छिवसन्निधौ ।
तृतीयायामथाष्टम्यां बहुपुत्त्री भवेन्नरः ॥
गोदाने श्राद्धकाले वा अहन्यहनि वा पुनः ।
देवार्च्चनविधौ विद्वान् पठन् ब्रह्माधिगच्छति ॥
एवं वदन्ती सा तत्र ददाहात्मानमात्मना ।
स्वायम्भुवेऽपि काले च दक्षप्राचेतसोऽभवत् ॥
पार्व्वती चाभवद्देवी शिवदेहार्द्धधारिणी ।
मेनागर्भसमुत्पन्ना भुक्तिमुक्तिफलप्रदा ॥
अरुन्धती जपन्त्येतत्तदाप्ता योगमुत्तमम् ।
पुरुरवाश्च राजषिर्लोकेषु जयतामगात् ॥
ययातिः पुत्त्रलाभन्तु धनलाभन्तु भार्गवः ।
तथान्ये देवदैत्याश्च ब्राह्मणाः क्षत्त्रियास्तथा ।
वैश्याः शूद्राश्च बहवः सिद्धिमीयुर्यथेप्सिताम् ॥
यत्रेतल्लिखितं तिष्ठेत् पूज्यते देवसन्निधौ ।
न तत्र शोकदौर्गत्यं कदाचिदपि जायते ॥”
इति मत्स्यपुराणे १३ अध्यायः ॥ * ॥
सावित्री । यथा, --
यम उवाच ।
“सावित्रीवरदानेन त्वं सावित्रीकला सती ।
प्राप्ता पुरा भूभृता च तपसा तत्समा शुभे ॥
यथा श्रीः श्रीपतेः क्रोडे भवानीव भवोरसि ।
सौभाग्या सुप्रिया त्वञ्च भव सत्यवति प्रिये ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २४ अध्यायः ॥ * ॥
विद्यमाना । (यथा, --
“तथा समक्षं दहता मनोभवं
पिनाकिना भग्नमनोरथा सती ।
निनिन्द रूपं हृदयेन पार्व्वती
प्रियेषु सौभाग्यफला हि चारुता ॥”
इति कुमारसम्भवे । ५ । १ ॥)

सतीनः, पुं, वंशः । इति शब्दमाला ॥ सतीलकः ।

इत्यमरटीकायां भरतः ॥ (यथा, सुश्रुते । १ । ४६ ।
“हरेणवः सतीनाश्च विज्ञेया बद्धवर्च्चसः ॥” * ॥
क्ली, जलम् । इति निर्घण्टुः । १ । १२ ॥)

सतीनकः, पुं, (सतीन एव । स्वार्थे कन् ।) सती-

लकः । इत्यमरटीका ॥

सतीर्थः, पुं, (समानस्तीर्थो गुरुर्यस्य । समानस्य

सः ।) परस्परैकगुरुशिष्यः । इति शब्दरत्ना-
वली ॥

सतीर्थ्यः, पुं, (समाने तीर्थे वासीति । “समान-

तीर्थे वासी ।” ४ । ४ । १०७ । इति यत् । “तीर्थे
ये ॥” ६ । ३ । ८७ । इति समानस्य सः ।)
परस्परैकगुरुशिष्यः । इत्यमरः ॥ एकोऽभिन्नो
पृष्ठ ५/२२३
गुरुर्येषां तेऽन्योन्यं सतीर्थ्याः । समाने तीर्थे
गुरी वसन्ति सतीर्थ्याः । ढघेकादिति यः ।
ज्योतिर्जनपदेत्यादिना सः । तीर्थमृषियुष्टजले
गुरौ इति वक्षते । इति भरतः ॥ अपि च ।
“स्यात् सतीर्थः सतीर्थ्योऽपि तथैकगुरुरित्यपि ।”
इति शब्दरत्नावली ॥

सतीलः, पुं, वंशः । इति हारावली ॥ वायुः ।

इत्यमरटीकायां रायमुकुटः ॥ (“तीलेन तीलवत्
कृष्णवर्णचिह्नेन सह वर्त्तते इति । निपातनादि-
कारस्य दीर्घः ।” इति भरतः ॥) कलायः । यथा,
“कलायस्त्रिपुटः प्रोक्तः सतीलो वर्त्तुलो मतः ।”
इति भरतधृतव्याडिः ॥

सतीलकः, पुं, (सतील एव । स्वार्थे कन् ।)

कलायः । यथा, --
“कलायस्तु सतीलकः हरेणुखण्डिकौ चास्मिन्”
इत्यमरः ॥
“चत्वारि कलाये । मटर इति ख्याते । कलाय-
शब्दो विशेषे सामान्ये च अतएव माषकलाय
इत्यादिप्रयोगः । कड्यते भुज्यते कलायः । कड
भक्षणे नाम्नीति आयः मनीषादित्वात् डस्य
लः । तिलेन तिलवत् कृष्णवर्णचिह्नेन सह वर्त्तते
सतीलः निपातनादिकारस्य दीर्घः स्वार्थे के
सतीलकः दन्त्यादिः । ह्रियते भक्षणार्थं हरति
मनो वा हरेणुः नाम्नीति एणुः । खण्ड्यते
विदार्य्यते खण्डिकः पूर्व्वेण इकः ।
“कलायस्त्रिपुटः प्रोक्तः सतीलो वर्त्तुलो मतः ।
हरेणुः कण्टका ज्ञेया --
इति तु व्याडिः ।” इति भरतः ॥

सतीला, स्त्री, कलायविशेषः । तेओडा इति

भाषा । यथा । सतीला निण्डिका तिण्टीति
शब्दचन्द्रिका ॥

सतुषं, क्ली, (तुषेण सह वर्त्तमानम् ।) तुषयुक्त-

शस्यम् । धान्यम् । यथा, --
“शस्यं क्षेत्रगतं प्राहुः सतुषं धान्यमुच्यते ।
आमं वितुषमित्युक्तं खिन्नमन्नमुदाहृतम् ॥”
इति श्राद्धतत्त्वम् ॥

सतृट्, [ष्] त्रि, (तृषा सह वर्त्तमानः ।)

तृष्णायुक्तः । तत्पर्य्यायः । तृषितः २ तषितः ३ ।
इति त्रिकाण्डशेषः ॥

सतेरः, पुं, तुषः । इति संक्षिप्तसारोणादिवृत्तिः ।

सत्, क्ली, (अस्तीति । अस + शतृ) ब्रह्म ।

यथा । भगवद्गीतायाम् ।
“ओम् तत्सदिति निर्द्देशो ब्रह्मणस्त्रिविधः स्मृतः
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥”
ओम् तत् सदिति त्रिविधो ब्रह्मणो जगदी-
श्वरस्य निर्द्देशोऽभिधानं ब्रह्मविद्भिश्चिन्तितम् ।
तत्र तावदोमितिब्रह्मेत्यादि श्रुतिप्रसिद्धेरोमिति
ब्रह्मणो नाम । पातञ्जलिरप्याह अस्यव वाचकः
प्रणवः । अस्य ब्रह्मणः । ओम्कारो भगवान्
विष्णुरित्यादि तु वाच्यवाचकयोरभेदेन । तथा
च । जगत्कारणत्वेन प्रसिद्धत्वादविदुषां परोक्ष-
त्वाच्च तच्छब्दोऽपि ब्रह्मणो नाम । एवं पर-
मार्थसत्त्वसाधुत्वप्रशस्तत्वादिभिः सच्छब्दोऽपि
अतस्तेन त्रिविधनिर्द्देशेना यद्वा यस्यायं त्रिविधो
निर्द्देशस्तेन परमात्मना ब्राह्मणादयो निर्म्मिताः ॥
वैदिके कर्म्मणि तेषां प्रथमतो निर्द्देशो यथा, --
“तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः ।
प्रवर्त्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥”
यस्मादेवं ब्रह्मणो निर्द्देशस्तस्मादोमित्युदाहृत्य
उच्चार्य्य कृता वेदवादिनां यज्ञाद्याः शास्त्रोक्ताः
क्रियाः सततमङ्गवैकल्येऽपि प्रवर्त्तन्ते प्रकर्षेण
वर्त्तन्ते सगुणा भवन्तीति भगवान् शङ्कराचार्य्य-
चरणाः ॥
“तदित्यनभिसन्धाय यज्ञदानतपःक्रियाः ।
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥”
तदिति ब्रह्मणोऽभिधानमुदाहृत्य इत्यनुषङ्गः ।
अनभिसन्धाय कर्म्मणः फलमिति शेषः । तस्मात्
फलाभिसन्धानं विना मुमुक्षुणा कर्म्म कर्त्तव्य-
मित्यपि बोध्यम् ।
“सद्भावे साधुभावे च सदित्येतत् प्रयुज्यते ।
प्रशस्ते कर्म्मणि तथा सच्छब्दः पार्थ युज्यते ॥”
यतो विद्यमानजन्मनि उत्कृष्टचरिते च सदि-
त्येतत् प्रयुज्यते । अतो यज्ञादौ कर्म्मणि प्रथ-
मतः सच्छब्दः प्रयुज्यते । इत्येकादशीतत्त्वम् ॥ * ॥

सत्, त्रि, (अस्तीति । अस् + शतृ ।) सत्यम् ।

साधुः । (यथा, मुग्धबोधे ।
“रामं नमति सानन्दं धर्म्मानभिनिविश्य स सन् ।”)
विद्यमानम् । (यथा, हितोपदेशे ।
“दुर्ज्जनः परिहर्त्तव्यो विद्ययालङ्कृतोऽपि सन् ।
मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥”)
प्रशस्तम् । अभ्यर्हितम् । इत्यमरः ॥ धीरः ।
इति मेदिनी ॥

सत्कदम्बः, पुं, (सन् कदम्बः ।) केलिकदम्बः ।

यथा, --
“केलिवृक्षः सत्कदम्बो व्रजभूः शिशुपालकः ।”
इति शब्दचन्द्रिका ॥

सत्कर्त्ता, [ऋ] पुं, (सतां कर्त्ता ।) विष्णुः ।

यथा । सत्कर्त्ता सत्कृतः साधुरिति तस्य
सहस्रनामस्तोत्रम् ॥

सत्कर्म्म, [न्] क्ली, (सत् प्रशस्तं कर्म्म । वेद-

विहितक्रिया । यथा । विष्णुपुराणे ।
“सत्कर्म्मयोग्यो न जनो नैवापः शौचकारणम्
यस्मिन्ननुदिते तस्मै नमो देवाय भास्वते ॥”
इति प्रायश्चित्ततत्त्वम् ॥

सत्काञ्चनारः, पुं, (सन् काञ्चनारः ।) रक्त-

काञ्चनः । यथा, --
“कोविदाते चमरिकः कुद्दालो युगपत्रकः ।
सत्काञ्चनारः कामालुर्हयवाहनशङ्करः ॥”
इति शब्दचन्द्रिका ॥

सत्काण्डः, पुं, चिलः । इति शब्दचन्द्रिका ॥

सत्कारः, पुं, (सत्करणमिति । सत् + कृ + घञ् ।

पूजा । यथा । एवम्भूताः सभासदः सभायां
यथा सीदन्ति उपविशन्ति तथा दानमानसत्-
कारै राज्ञा कर्त्तव्या । इति व्यवहारतत्त्वम् ॥
(यथा, कुमारे । ६ । ५२ ।
“विधिप्रयुक्तसत्कारैः स्वय मार्गस्य दर्शकः ।
स तैराक्रमयामास शुद्धान्तं शुद्धकर्म्मभिः ॥”
उत्सवविशेषः । यथा, मनुः । २ । ५९ ।
“तस्मादेताः सदा पूज्या भूषणाच्छादनाशणैः ।
भूतिकामैर्नरैर्नित्यं सत्कारेषूत्सयेषु च ॥”
“सत्कारेषु कौमुद्यादिषु उत्सवेषु उपनयना-
दिषु ।” इति तट्टीकायां कुल्लूकः ॥ * ॥)
शवदाहादिक्रिया । इति लोकप्रसिद्धिः ॥

सत्कुलीनः, पुं, (सत्कुले जातः । सत्कुल + खः ।

सन् प्रशस्तः कुलीन इति वा ।) सत्कुलोद्भवः ।
यथा, --
“सत्कुलीनाय शान्ताय ऋजवे दम्भवर्ज्जिते ।
दद्यात् स्तोत्रमिदं पुण्यं सर्व्वकामफलप्रदम् ॥”
इति विश्वसारतन्त्रे वटुकभैरवस्तोत्रम् ॥

सत्कृतः, त्रि, (सत् + कृ + क्तः ।) पूजितः । कृत-

सत्कारः । यथा, --
“तस्थौ कञ्चित् स कालञ्च मुनिना तेन सत्-
कृतः ।”
इति देवीमाहात्म्यम् ॥
(महादेवे, पुं । इति महाभारतम् । १३ ।
१७ । ११३ ॥)

सत्कृतिः, स्त्री, (सत् + कृ + क्तिन् ।) सत्कारः ।

सत्क्रियाशब्दार्थदर्शनात् ॥ (यथा, भागवते ।
२० । १५ । ४३ ।
“तत्सत्कृतिं समधिगम्य विवेश गोष्ठं
सव्रीडहासविनयं यदपाङ्गमोक्षम् ॥”
पुं, विष्णुः । इति महाभारतम् । १३ । १४९ । ८८ ॥)

सत्क्रिया, स्त्री, (सती क्रिया ।) शवदाहादि-

क्रिया । तत्पर्य्यायः । संस्क्रिया २ । इति त्रिका-
ण्डशेषः । संस्कारः ३ । इति शब्दरत्नावली ॥
यथा, महाभारते । १ । ४४ । ५ ।
“ततो नृपे तक्षकतेजसा हते
प्रयुज्य सर्व्वाः परलोकसत्क्रियाः ।
शुचिर्द्विजो राजपुरोहितस्तदा
तथैव ते तस्य नृपस्य मन्त्रिणः ॥”
परिष्कारः । यथा, रघुः । ११ । ३ ।
“यावदादिशति पार्थिवस्तयो-
र्निर्गमाय पुरमार्गसत्क्रियाम् ।
तावदाशु विदधे मरुत्सखैः
सा सपुष्पजलवर्षिभिर्घनैः ॥”)
सम्मानम् । यथा, मनुः ।
“घटेऽपवर्ज्जिते ज्ञातिमध्यस्थो यवसं गवाम् ।
प्रदद्यात् प्रथमं गोभिः सत्कृतस्य हि सत्क्रिया ॥”
इति प्रायश्चित्ततत्त्वम् ॥

सत्तमः, त्रि, (अयमेषामतिशयेन सन् । सत् +

तमप् ।) अतिशोभनः । इत्यमरः ॥ पूज्यतमः ।
साधीयान् । उत्तमः । इति मेदिनी ॥ (यथा,
देवीभागवते । ११ । १६ । ३ ।
“तद्भेदानपि वक्ष्यामि शृणु देवर्षिसत्तम ! ॥”)

सत्ता, स्त्री, जातिविशेषः । इति भाषापरिच्छेदा ॥

(सतो भावः । सत् + तल् ।) विद्यमानता ।
पृष्ठ ५/२२४
यथा । यद्यपि पापस्य कार्य्यानन्वितत्वेन तत्-
सत्तायामप्रामाण्यं प्रतिभाति । इति प्राय-
श्चित्ततत्त्वम् ॥ साधुता । सतो भाय इत्यर्थे
सच्छब्दात् तप्रत्ययेन निष्पन्ना ॥

सत्त्रं, क्ली, (सतः साधून् त्रायते इति । त्रै + कः ।

यद्वा, सीदन्ति सज्जना यत्र । सद गतौ +
“गुधृवीपचिवचीति ।” उणा० ४ । १६६ । इति
त्रः ।) यज्ञः । (यथा, भनुः । ८ । ३०३ ।
“अभयस्य हि यो दाता संपूज्यः सततं नृपः ।
सत्त्रं हि वर्द्धते तस्य सदैवाभयदक्षिणम् ॥”)
सदादानम् । आच्छादनम् । अरण्यम् । (यथा,
किराते । १३ । ९ ।
“अयमेव मृगव्यसत्त्रकामः
प्रहरिष्यन् मयि मायया समस्थे ।
पृथुभिर्ध्वजिनीरवैरकार्षीत्
चकितोद्भ्रान्तमृगाणि काननानि ॥”)
कैतवम् इति मेदिनी ॥ (यथा, महाभारते ।
४ । ३६ । ३८ ।
“सत्त्रेण नूनं छन्नं हि चरन्तं पार्थमर्ज्जुनम् ।
उत्तरः सारथिं कृत्वा निर्य्यातो नगरात्
बहिः ॥”)
धनम् । गृहम् । दानम् सरोवरम् । इत्यने-
कार्थकोषः ॥ यागविशेषः । यथा, --
“नैमिषेऽनिमिषक्षेत्रे ऋषयः शौनकादयः ।
सत्त्रं स्वर्गाय लोकाय सहस्रसमभासत ॥
कलिमागतमाज्ञाय क्षेत्रेऽस्मिन् वैष्णवे वयम् ।
आसोना दीर्घसत्रेण कथायां सक्षणा हरेः ॥”
इति श्रीभागवते १ स्कन्धे १ अध्यायः ॥ * ॥
द्वादशाहसाध्यसत्त्रं यथा । ज्योतिष्टोमे द्वादश-
गोशतदक्षिणाविभागः षोडशर्त्विजां तद्विकृती-
भूते सत्त्रात्मके द्वादशाहसाध्ये शतेनाद्धिनी
दीक्षयन्तीत्यादिदर्शनेन निर्णीयते । तच्च सावन-
मानेन कर्त्तव्यम् । यथा, --
“सत्त्राण्युपास्यान्यथ सावनेन
लौक्यञ्च यत् स्याद्व्यवहारमर्म्म ।”
इति मलमासतत्त्वम् ॥ * ॥
सदक्षिणं सततान्नदानम् । तन्निन्दकस्पशनादि-
निषेधो यथा, --
“नालपेज्जनविद्विष्टान् वीरहीनां तथा स्त्रियम् ।
देवतापितृसच्छास्त्रयज्ञसत्त्रादिनिन्दकैः ।
कृत्या तु स्पर्शनालापं शुद्ध्येतार्कावलोकनात् ॥”
इति मार्कण्डेयपुराणे सदाचाराध्यायः ॥
सत्त्रं सदक्षिणं सततान्नदानम् । इति तट्टीका ॥

सत्त्रं, [म्] व्य, सह । इति शब्दरत्नावली जटा-

धरश्च ॥

सत्त्रशाला, स्त्री, (सत्त्रस्य शाला ।) अन्नादिदान-

गृहम् । तत्पर्य्यायः । प्रतिश्रयः २ । इति हेम-
चन्द्रः ॥ (यथा, कथासरित्सागरे । २१ ।
७४ ।
“ततः सा सत्त्रशालान्तः प्रविवेश बणिक्सुता ।
अन्वगात् राजपुत्त्रोऽपि स तां गुप्तमवेक्षितुम् ॥”
सत्त्रा, व्य, सह । इत्यमरः ॥

सत्राजित्, पुं, राजविशेषः । स तु श्रीकृष्णस्य

श्वशुरः । परे भल्लाटनगरे शशिध्वजराजो
बभूव । इति कल्किपुराणे २७ अध्यायः ॥

सत्त्रिः, पुं, मेघः । हस्ती । जयशीले, त्रि । इत्यु-

णादिकोषः ॥

सत्त्रिजातकं, क्ली, (सत् साधु त्रिजातकं तुल्यत्व-

गेलापत्रादिकं यत्र ।) व्यञ्जनविशेषः । यथा, --
“मांसं बहुघृते भृष्टं सिक्त्वा चोष्णाम्बूना
मुहुः ।
जीरकाद्यैः समायुक्तं परिशुस्कं तदुच्यते ।
तदेव घृततक्राढ्यं प्रदिग्धं सत्त्रिजातकम् ॥”
इति शब्दचन्द्रिका ॥

सत्त्री, [न्] पुं, (सत्त्रमस्त्यस्येति । इनिः ।)

गृहपतिः । इत्यमरः ॥ द्वे गृहस्थे । सत्त्रं सदा
दानं विद्यतेऽस्य सत्त्री इन् । सदेस्त्रं सत्त्रं
द्वितकारम् । सत्त्रमाच्छादने यज्ञे सदा दाने च
कैतवे । इति विश्वः । गृहस्य पतिर्गृहपतिः ।
इति भरतः ॥ नित्यप्रवृत्तान्नदानः । यथा विष्णुः ।
नाशौचं राज्ञां राजकर्म्मणि न व्रतिनां व्रते न
सत्त्रिणां सत्रेन कारुणां स्वकर्मणि न राजाज्ञा-
कारिणां तदिच्छया न देवप्रतिष्ठाविवाहयोः
पूर्व्वसंवृतयोः । इति । सत्त्रिणां नित्यप्रवृत्तान्न-
दानानां सत्त्रेऽन्नदाने । इति शुद्धितत्त्वम् ॥
(यज्ञान्धिते, त्रि । यथा, महाभारते । १४ । ७ । ३ ।
“सन्यमेतद्भवानाह स मां जानाति सत्त्रिणम् ।
कथयस्व तदेतन्मे क्व नु सम्प्रति नारदः ॥”)

सत्त्वं, क्ली, (सतो भावः । सत् + त्व ।) प्रकृते-

र्गुणविशेषः । अत्र सत्त्वं प्रकाशकज्ञानं सुख-
हेतुः । सतो भावः सत्त्वम् । त्वतौ भावे इति त्वं
निपातनात्तलोप इति केचित् । सत्त्वं हितकार
मिति बहवः । इत्यमरभरतौ ॥ * ॥ (यथा,
मनुः । १२ । २४ ।
“सत्त्वं रजस्तमश्चैव त्रीन् विद्यादात्मनो गुणान् ।
र्यैर्व्याप्येमान् स्थितो भावान् महान् सर्व्वान-
शेषतः ॥”)
महाभारतमते सुखजनकगुणः । तस्य धर्म्माः ।
प्रसादः १ हर्षः २ प्रीतिः ३ असन्देहः ४
धृतिः ५ स्मृतिः ६ । इति मोक्षधर्म्मः ॥ द्रव्यम् ।
असुः । (यथा, रामायणे । २ । ६० । १ ।
“ततो भूतोपसृष्टेव वेपमाना पुनः पुनः ।
धरण्यां गतसत्त्वेव कौशल्या सूतमब्रवीत् ॥)”
व्यवसायः ! इत्यमरः ॥ पिशाचादिः । (यथा,
रामायणे । २ । ३३ । १० ।
“अद्य नूनं दशरथः सत्त्वमाविश्य भाषते ।
न हि राजा प्रियं पुत्त्रं विवासयितुमर्हति ॥”)
बलम् । (यथा, रघुः । ४ । ७२ ।
“शशंस तुल्यसत्त्वानां सैन्यघोषेऽप्यसम्भ्रमम् ।
गुहाशयानां सिंहानां परिवृत्त्यावलो-
कितम् ॥”)
स्वभावः । (यथा, किराते । १२ । ३९ ।
“सत्त्वविहितमतुलम्भुजयो-
र्बलमस्य पश्यत मृधेऽधिकुप्यतः ॥”)
आत्मा । चित्तम् । इति मेदिनी ॥ रसः । आयुः ।
इति धरणिः ॥ कुबेरः । इति हेमचन्द्रः ॥
धनम् । आत्मता । इति शब्दरत्नावली ॥

सत्त्वः, पुं, क्ली, (सत्त्वमस्त्यस्येति । अर्शआदि-

त्वादच् ।) जन्तुः । इत्यमरः ॥ (यथा, रघुः ।
२ । ८ ।
“रक्षापदेशान्मुनिहोमधेनोः
वन्यान् विनेष्यन्निव दुष्टसत्त्वान् ॥”)

सत्त्वता, स्त्री, सत्त्वस्य भावः । सत्त्वशब्दात् भावे

तप्रत्ययानन्तरं आप्प्रत्ययेन निष्पन्ना ॥

सत्त्वसन्तन्नः, त्रि, (सत्त्वं सम्पन्नः ।) सत्त्वप्राप्तः ।

इति लोकप्रसिद्धिः ॥

सत्त्वस्थः, त्रि, (सत्त्वे तिष्ठतीति । स्था + कः ।)

सत्त्ववृत्तिशाली । सत्त्वप्रधानः । यथा, --
“ऊर्द्ध्वं गच्छन्तिसत्त्वस्था मध्ये तिष्ठन्ति राजसाः
जघन्यगुणवृत्तस्था अधो गच्छन्ति तामसाः ॥”
इति भगवद्गीताय्यम् । १४ । १८ ।

सत्पत्रं, क्ली, (सत्पत्रं यस्य ।) पद्मस्य नवदलम् ।

इति शब्दचन्द्रिका ॥

सत्पथः, पुं, (सन् पन्थाः । टच् ।) प्रशस्तपथः ।

तत्पर्य्यायः । अतिपन्थाः २ सुपन्थाः ३ अर्च्चि-
ताध्वा ४ । इत्यमरः ॥ सुपथः ५ । इति शब्द-
रत्नावली ॥ (यथा, भागवते । ४ । १२ । ५० ।
“ज्ञानमज्ञाततत्त्वाय यो दद्यात् सत्पथेऽमृतम्
कृपानोर्दीननाथस्य देवास्तस्यानु गृह्णते ॥”)

सत्पशुः, पुं, (सन् पशुः ।) यज्ञीयपशुः । इति

केचित् ॥ शोभनपशुश्च ॥

सत्पुत्त्रः, पुं, (सन् पुत्त्रः ।) उत्तमसन्तानः ।

वेदादिविहितपित्रादिकार्य्यकर्त्ता । यथा --
“पुन्नाम्नो नरकाद्यस्मात्त्रायते पितरं सुतः ।
मुखसन्दर्शनेनापि तदुत्पत्तौ यतेत सः ॥”
इति बृहस्पत्युक्तनरकनिस्ताराय ऋणमस्मिन्
समन्नयति अमृतत्वञ्च विन्दति । इति पिता
पुत्त्रस्य जातस्य पश्येच्च जीवतो मुखम् । इति वशि-
ष्ठोक्तर्णापनयनाय च यत् पश्येदिति नियम-
विधानं तदकृतपुत्त्रकार्य्यपुत्त्रपरम् । सत्पुत्त्रस्तु
मुखदर्शनं विनापि नरकनिस्तारकः । तथा च
विष्णुपुराणम् ।
“सत्पुत्त्रेण तु जातेन वेणोऽपि त्रिदिवं ययौ ।
पुन्नाम्नो नरकात्त्रातः स तेन सुमहात्मना ॥”
ब्रह्मपुराणेऽपि ।
“समुत्पन्नेन भो विप्राः सत्पुत्त्रेण महात्मना ।
त्रातः स पुरुषव्याघ्रः पुन्नाम्नो नरकात्तदा ॥”
इति शुद्धितत्त्वम् ॥

सत्पुरुषः, पुं, (सन् पुरुषः ।) पूज्यमानपुरुषः ।

इति संक्षिप्तसारसमासपादः । (यथा, रामा-
यणे । २ । ४८ । ८ ।
“एकः सत्पुरुषो लोके लक्षणः सह सीतया ।
योऽनुगच्छति काकुत्स्थं रामं परिचरन् वने ॥)”

सत्प्रतिग्रहः, पुं, सद्भ्यः साधुभ्यः प्रतिग्रहो दान-

ग्रहणम् । साधुजनदत्तद्रव्यग्रहणम् । यथा, --
“सप्तवित्तागमा धर्म्म्या दायो लाभः क्रयो जयः
पृष्ठ ५/२२५
प्रयोगः कर्म्मयोगश्च सत्प्रतिग्रह एव च ॥”
इति मानवे १० अध्यायः ॥

सत्प्रतिपक्षः, पुं, (सन् प्रतिपक्षः ।) तुल्यव्यक्तिः ।

प्रतियोगी । न्यायमते । साध्याभावव्वाप्यवत्
पक्षः । यथा । ह्रदो वह्निमान् धूमादित्यादौ
वह्न्यभाववाप्यवद्ध्रदादिः । इति सत्प्रतिपक्ष-
ग्रन्थः । तल्लक्षणं यथा । साध्यविरोध्यु पस्थापन-
समर्थसमानबलोपस्थित्या प्रतिरुद्धकार्य्यलिङ्गत्वं
तत्त्वं बलञ्च व्याप्तिपक्षधर्म्मतो विरोधिबोधका-
न्यगमकतौपयिकरूपसम्पत्तिमत्तया ज्ञाय-
मानेन प्रतिरुद्धकार्य्यत्वं वा तत्त्वम् । इति
गङ्गे शोपाध्यायकृतचिन्तामणिः ॥

सत्फलः, पुं, (सत् फलं यस्य ।) दाडिमवृक्षः ।

इति शब्दचन्द्रिका ॥ शोभनफलवद्वृक्षश्च ॥

सत्यं, क्ली, (सते हितम् । सत् + यत् ।) कृतयुगम् ।

शपथः । यथार्थम् । (यथा, रघुः । १२ । ७५ ।
“कामं जीवति मे नाथ इति सा विजहौ
शुचम् ।
प्राङ्मत्वा सत्यमस्यान्तं जीवितास्मीति
लज्जिता ॥”)
तद्वति, त्रि । इति मेदिनी ॥ (यथा, याज्ञ-
वल्क्ये । ३ । १४९ ।
“महाभूतानि सत्यानि यथात्मापि तथैव हि ॥”)
सिद्धान्तः । इति शब्दरत्नावली ॥ * ॥ यथार्थस्य
पर्य्यायः । तथ्यम् २ ऋतम् ३ सम्यक् ४ । इत्य-
मरः ॥ अवितथम् ५ भूतम् ६ । इति जटा-
धरः ॥ तल्लक्षणम् । यथा, --
“यथार्थकथनं यश्च सर्व्वलोकसुखप्रदम् ।
तत् सत्यमिति विज्ञेयमसत्यं तद्विपर्य्ययम् ॥”
इति पाद्मे क्रियायोगसारे १६ अध्यायः ॥ * ॥
तदाकारा यथा, --
“सत्यञ्च समता चैव दमश्चैव न संशयः ।
अमात्सर्य्यं क्षमा चैव ह्रीस्तितिक्षानसूयता ॥
त्यागो ध्यानमथार्य्यत्वं धृतिश्च सततं दया ।
अहिंसा चैव राजेन्द्र सत्याकारास्त्रयोदश ॥”
इति महाभारते राजधर्म्मः ॥ * ॥
तस्यापालने दोषो यथा, --
“कृत्वा शपथरूपञ्च सत्यं हन्ति न पालयेत् ।
स कृतघ्नः कालसूत्रे वसेद्देवचतुर्युगम् ॥
सप्तजन्मसु काकञ्च सप्तजन्मसु पेचकः ।
ततः शूद्रो महाव्याधी जन्मसप्त ततः शुचिः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४८ अध्यायः ॥ * ॥
अपि च ।
“सत्येन लोकं जयति सत्यन्तु परमं तपः ।
यथाभूतप्रसादन्तु सत्यमाहुर्म्मनीषिणः ॥”
इति कौर्म्मेउपविभागे १४ अध्यायः ॥ * ॥
तस्य प्रशंसा यथा, --
“सत्यमायास्यति हरिः सत्यं निष्कपटं वद ।
वद तत् स्वभयं त्यक्त्वा सत्यं ब्रूहि सुसंसदि ॥
वरं कूपशताद्वापी वरं वापीशतात् क्रतुः ।
वरं क्रतुशतात् पुत्त्रः सत्यं पुत्त्रशतात् किल ॥
नहि सत्यात् परो धर्म्मो नानृतात् पातकं परम
नहि मातुः परो बन्धुर्न गुरुर्मन्त्रदात् परः ॥”
इति ब्रह्मवैवर्त्ते जन्मखण्डे ९५ अध्यायः ॥ * ॥
अपि च ।
“तस्मात् सत्यं परं ब्रह्म सत्यमेव परं तपः ।
सत्यमेव परो यज्ञः सत्यमेव परं श्रुतम् ॥
सत्यं वेदेषु जागर्त्ति सत्यश्च परमं पदम् ।
कीर्त्तिर्यशश्च पुण्यश्च पितृदेवर्षिपूजनम् ॥
आद्यो विधिश्च विद्या च सर्व्वं सत्ये प्रतिष्ठितम् ।
सत्यं यज्ञस्तथा वेदा मन्त्रा देवाः सरस्वती ॥
व्रतचर्य्या तथा सत्यं ओङ्कारः सत्यमेव च ।
सत्येन वायुरभ्येति सत्येन तपते रविः ॥
सत्येनाग्निर्दहेन्नित्यं स्वर्गं सत्येन गच्छति ।
सत्येन चापः क्षिपति पर्जन्यो धरणीतले ॥
परेण सर्व्वदेवानां सर्व्वतीर्थावगाहनम् ।
सत्यस्य वचनाल्लोके सर्व्वमाप्नोत्यसंशयम् ॥
अश्वमेधसहस्रञ्च सत्यञ्च तुलया धृतम् ।
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥
सत्येन देवाः प्रीयन्ते पितर ऋषयस्तथा ।
मनुष्याः सिद्धगन्धर्व्वाः सत्यात् सिद्धिमितो
गताः ॥
अगाधे विपुले शुद्धे सत्यतीर्थे शुचिह्नदे ।
स्नातव्यं मनसा युक्तैः स्नानं तत् परमं स्मृतम् ॥
आत्मार्थे वा परार्थे वा पुत्त्रार्थे वापि मानवाः ।
अनृतं ये न भाषन्ते ते बुधाः स्वर्गगामिनः ॥
तस्मात् सत्यकृतं पञ्च तदनन्तफलं भवेत् ॥”
इति वह्निपुराणे दानावस्थानिर्णयनामाध्यायः ॥
अपि च ।
“तडागशतदानेन यत् पुण्यं लभते नरः ।
ततोऽधिकञ्च लभते वापीदानेन निश्चितम् ॥
दशवापीप्रदानेन यत् फलं लभते नरः ।
ततोऽधिकञ्च लभते पुण्यं कन्याप्रदानतः ॥
दशकन्याप्रदानेन यत् फलं लभते नरः ।
ततोऽधिकञ्च लभते यज्ञ केन नराधिपः ॥
शतयज्ञेन लभते यत् पुण्यं पुण्यकृज्जनः ।
ततोऽधिकञ्च लभते पुत्त्रास्यदर्शनेन च ॥
दर्शने शतपुत्त्राणां यत् पुण्यं लभते नरः ।
तत् पुण्यं लभते नूनं पुण्यवान् सत्यपालनात् ॥
नहि सत्यात् परो धर्म्मो नानृतात् पातकं नरः ।
नहि गङ्गास्रमं तीर्थं न देवः केशवात् परः ॥”
इति ब्रह्मवैवर्त्तपुराणम् ॥ * ॥
अन्यच्च ।
“सत्यमूलं जगत् सर्व्वं सर्व्वं सत्ये प्रतिष्ठितम् ।
सिद्धं लभन्ते सत्येन ऋषयो वेदपारगाः ॥
सत्येन दीयते कन्या सत्यं जल्पन्ति ब्राह्मणाः ।
सत्यं वदन्ति राजानः सत्येन वसुधा धृता ॥
सत्येन गम्यते स्वर्गं मोक्षं सत्येन प्राप्यते ।
सूर्य्यस्तपति सत्येन सोमः सत्येन राजते ॥
यमः सत्येन हरति सत्येनेन्द्रो विराजते ।
वरुणश्च कुबेरश्च तौ च सत्ये प्रतिष्ठितौ ॥
तत् सत्यं मम नश्येत यद्यहं नागमे पुनः ॥”
इति वाराहे मथुरामाहात्म्ये अन्धकतीर्थ-
प्रभाववर्णननामाध्यायः ॥ * ॥ अन्यच्च ।
“सत्यं सन्तोव आस्तिक्यं तथा चेन्द्रियनिग्रहः ।
देवताभ्यर्च्चनं पूजा ब्राह्मणानां विशेषतः ॥
सत्यं भूतहितं वाक्यमस्तेयं स्वागतम्परम् ।
नियमाः पञ्च सत्याद्या बाह्यमाभ्यन्तरं द्विधा ॥”
इति गारुडे ४९ अध्यायः ॥ * ॥
अपि च ।
“येऽर्था धर्म्मेण ते सत्या येऽधर्म्मेण गतश्रियः ।
सत्यशौचं मनःशौचं शौचमिन्द्रियनिग्रहः ॥
सर्व्वभूतदया शौचं जलशौचञ्च पञ्चमम् ।
यस्य सत्यञ्च शौचञ्च तस्य स्वर्गो न दुर्ल्लभः ॥
सत्यं हि वचनं यस्य सोऽश्वमेधाद्विशिष्यते ॥”
इति गारुडे ११३ अध्यायः ॥ * ॥
अपि च ।
“न सा सभा यत्र न सन्ति वृद्धा
वृद्धा न ते ये न वदन्ति धर्म्मम् ।
नासौ धर्म्मो यत्र नो सत्यमस्ति
नो तत् सत्यं यच्छलेनानुविद्धम् ॥
ब्राह्मणोऽपि मनुष्याणामादित्यश्चैव तेजसाम् ।
शिरोऽपि सर्व्वगात्राणां व्रतानां सत्यमुत्तमम् ॥”
इति गारुडे ११५ अध्यायः ॥
ब्रह्म । यथा । यः सर्व्वज्ञः सर्व्ववित् यस्य ज्ञान-
मयं तपः सर्व्वस्य वशी सर्व्वस्येशानः यः
पृथिव्यां तिष्ठन् पृथिव्या अन्तरः सोऽकामयत
बहुस्यां स ईक्षत तत्तेजोऽसृजत् सत्यं ज्ञान-
मनन्तं ब्रह्म इत्याद्याः । इति श्रीभागवतदशम-
स्कन्धीय ८७ अध्यायीयतृतीयश्लोकटीकायां
श्रीधरस्वामी ॥ * ॥ अपि च ।
“अहमात्मा परं ब्रह्म सत्यं ज्ञानमनन्तकम् ।
विज्ञानमानन्दो ब्रह्म सत्तत्त्वमसि केवलम् ॥
नित्यं शुद्धं बुद्धियुक्तं सत्यमानन्दमद्वयम् ।
योऽसावादित्यपुरुषः सोऽसावहमणण्डतः ।
इति ध्यायन् विमुच्येत ब्रह्मणो भवबन्धनात् ॥”
इति गारुडे ४९ अध्यायः ॥
तद्वैदिकपर्य्यायः । वट १ श्रत् २ सत्रा ३
अद्धा ४ इत्था ५ ऋतम् ६ । इति षट् सत्य-
नामानि । इति वेदनिघण्टौ । ३ । १० ॥

सत्यं, [म्] व्य, प्रश्नः । स्वीकारः । इति-

रत्नावली ॥

सत्यः, पुं, (सते हितः । सत् + यत् ।) श्रीरामः ।

यथा, --
“कौशल्यानन्दनः श्रीशः सत्यो दशमुस्त्रान्तकः ॥”
इति शब्दरत्नावली ॥
विष्णुः । यथा, --
“औत्तमेऽप्यन्तरे विष्णुः सत्यैः सह स्यधोत्तमैः ।
सत्यायामभवत् सत्यः सत्यरूपो जनार्द्दनः ॥”
इति कौर्न्मे ४८ अध्यायः ॥ * ॥
अन्यच्च ।
“सत्यव्रतं सत्यपरं त्रिसत्यं
सत्त्यस्य योनिं निहितञ्च सत्त्य ।
सत्त्यस्य सत्यमृतसत्यनेत्रं
सत्यात्मकं त्वां शरणं प्रपन्नाः ॥”
इति श्रीभागवते १० स्कन्धे १ अध्यायः ॥ * ॥
पृष्ठ ५/२२६
“प्रतिश्रुतं सत्यं कृतमिति हृष्टाः प्रथमं सत्यत्वेन
स्तुवन्ति सत्यव्रतमिति । सत्यं व्रतं सङ्कल्पो यस्य ।
सत्यं परं श्रेष्ठं प्राप्तिसाधनं यस्मिन् तम् ।
त्रिसत्यं त्रिष्वपि कालेषु सृष्टेः पूर्व्वं प्रलयानन्तरं
स्थितिसमये च सत्यं अव्यभिचारेण वर्त्तमानम् ।
तत एवाहुः । सत्त्यस्य योनिमिति । सच्छब्देन
पृथिव्यप्तेजांसि । त्यशब्देन वाय्वाकाशौ । एवं
सच्च त्यश्च सत्त्यं भूतपञ्चकम् । तं सत्त्यमित्या-
चक्षते इति श्रुतेः । तस्य योनिं कारणं अनेन
सृष्टेः पूर्व्वं वर्त्तमानातोक्ता । तथा सत्त्ये तस्मि-
न्नेव निहितं अन्तर्य्यामितया स्थितं अनेन स्थिति-
समये च सत्यत्वमुक्तम् । तथा सत्त्यस्य सत्यं
तस्यैव सत्त्यस्य सत्यं पारमार्थिकं नाशेऽपि
अवशिष्यमानं रूपं अनेन प्रलयेऽप्यवधित्वेन
सत्यत्वं दर्शितं एवं त्रिसत्यत्वमुपपादितम् । तथा
ऋतसत्यनेत्रम् । ऋतञ्च सूनृता वाणी सत्यञ्च
समदर्शनम् । तथा भगवता व्याख्यास्यमानत्वात्
सत्यञ्च समदर्शनमिति ऋतञ्च सूनृता वाणी
कविभिः परिकीर्त्तिता ॥ इति तयोर्नेत्रं नयन-
साधनं नेतारं प्रवर्त्तकमिति यावत् । एवं सर्व्व-
प्रकारेण सत्यात्मकं तां वयं शरणं प्रपन्ना
इत्यर्थः ।” इति श्रौधरस्वामी ॥ * ॥ अश्वत्थवृक्षः ।
इति राजनिर्घण्टः ॥ नान्दीमुखश्राद्धदेवः । यथा,
“इष्टिश्राद्धे क्रतुर्द्दक्षः सत्यो नान्दीमुखे वसुः ।
नैमित्तिके कालकामौ काम्येच धुरिलोचनौ ॥”
इति श्राद्धतत्त्वम् ॥ * ॥
(मुनिविशेषः । यथा, महाभारते । २ । ४ । १० ।
“असितो देवलः सत्यः सर्पमाली महाशिराः ॥”
देवगणविशेषः । यथा, मार्कण्डेये । ७१ । १ -- २
“मन्वन्तरे तृतीयेऽस्मिन् उत्तमस्य प्रजापतेः ।
देवानिन्द्रानृषीन् भूपान् निबोध गदतो मम ॥
स्वधामानस्तथा देवा यथानामानुकारिणः ।
सत्याख्यश्च द्वितीयोऽन्यस्त्रिदशानां तथा
गणः ॥”)
तपोलोकादूर्द्ध्वलोकः । इति विश्वः ॥ अस्य विव-
रणं सत्यलोकशब्दे द्रष्टव्यम् ॥

सत्यकं, क्ली, सत्यङ्कारः । इति केचित् ॥ (सत्यमेव ।

स्वार्थे कन् ।) सत्यम् । तद्युक्ते त्रि ॥ (वृष्टि-
वंशीयविशेषे, पुं, । यथा, भागवते । ९ । २४ । १३ ।
“अनमित्रसुतो योऽन्यः शिनिस्तस्य च सत्यकः ॥”

सत्यङ्कारः, पुं, (सत्यस्य कार इति । कृ + घञ् ।

“कारे सत्यागदस्य ।” ६ । ३ । ७० । इति
मुम् ।) अवश्यं मयैतत् क्रेतव्यमिति सत्या-
करणम् । तत्पर्य्यायः । सत्यापनम् २ सत्या-
कृतिः ३ । इत्यमरः ॥ सत्यापना ४ । इति
वोपालितः ॥ (यथा, राजतरङ्गिण्याम् । ६ । ७१ ।
“लेभिरे निधनन्तस्मात् सत्यङ्कारात् पदातयः ॥”

सत्यङ्कारकृतः, त्रि, (सत्यङ्कारेण कृतः ।) अवश्यं

मयेतत् क्र तष्यमिति सत्यं कृत्वा यद्देयम् ।
वायना इति भाषा । इति मिताक्षरा ॥
(यथा, याज्ञवल्क्यः । २ । ६१ ।
“सत्यङ्कारकृतं द्रव्यं द्विगुणं प्रतिपादयेत् ॥”)

सत्यतपाः, [स्] पुं, (सत्यं तपो यस्य ।) मुनि-

विशेषः । स तु पुरा व्याध आसीत् ततस्तपः
कृत्वा दुर्व्वाससो वरेण वेदादिसर्व्वशास्त्रज्ञो
भूत्वा एतन्नामा बभूव । यथा, --
“तमस्थिशेषं व्याधन्तु क्षुधादुर्ब्बलतां गतम् ।
उवाच वेदाः साङ्गास्ते सरहस्यपदक्रमाः ।
ब्रह्मविद्यापुराणानि प्रत्यक्षाणि भवन्तु ते ॥
एवं प्रादाद्वरं तस्य दुर्व्वासा नाम चाकरोत् ।
भवान् सत्यतपा नाम ऋषिराद्यो भविष्यति ॥”
इति वाराहे सत्यतपौपख्याननामाध्यायः ॥

सत्यधृतिः, पुं, (सत्या धृतिः ।) ऋषिविशेषः ।

यथा, --
“सरद्धतस्तु दायादमहल्या संप्रसूयते ।
शतानन्दं ऋषिश्रेष्ठं तस्यापि सुमहातपाः ।
तस्य सत्यधृतिर्नाम मुनिर्वेदस्य पारगः ॥”
इति मात्स्ये ४८ अध्यायः ॥
(सत्यशीले, त्रि । यथा, रामायणे । २ । ८२ । ६ ।
“रामस्तथा सत्यधृतिः सतां धर्म्ममनुस्मरन् ।
नाजहात् पितुरादेशं शशी ज्योस्नामि-
वोदितः ॥”)

सत्यनारायणः, पुं, (सत्यो नारायणः ।) देवता-

विशेषः । सत्यपीर इति भाषा । तस्य व्रतकथा
यथा, --
“एकदा मुनयः सर्व्वे सर्व्व लोकहिते रताः ।
सुरम्ये नैमिषारण्ये गोष्ठीञ्चक्रुर्म्मनोरमाम् ॥
तत्रान्तरे महातेजा व्यासविष्यो महायशाः ।
सूतः शिष्यगणैर्युक्तः समायातो हरिं स्मरन् ॥
तमायान्तं समालोक्य सूतं शास्त्रार्थपारगम् ।
नेमुः सर्व्वे समुत्थाय शौनकाद्यास्तपोधनाः ॥
सोऽपि तान् सहसा भक्त्या मुनीन् परमवैष्णवान्
ननाम दण्डवद्भूमौ सर्व्वधर्म्मविदांवरः ॥
वरासने महाबुद्विस्तैर्द्दत्ते मुनिपुङ्गवैः ।
उवास स सभामध्ये सर्व्वैः शिष्यगणैवृतः ॥
तत्रोपविष्टं तं सूतं शौनको मुनिसत्तमः ।
बद्धाञ्जलिरिमां वाचमुवाच विनयान्वितः ॥
शौनक उवाच ।
महर्षे सूत सर्व्वज्ञ कलिकाले समागते ।
केनोपायेन भगवन् हरिभक्तिर्भवेन्नृणाम् ॥
कलौ सर्व्वे भविष्यन्ति पापकर्म्मपरायणाः ।
वेदविद्याविहिनाश्च तेषां श्रेयः कथं भवेत् ॥
कलावन्नगतप्राणा लोकाः स्वल्पायुषस्तथा ।
निधनाश्च भविष्यन्ति नानापीडाप्रपीडिताः ॥
प्रयाससाध्यं सुकृतं शास्त्रेषु श्रूयते द्विज ।
तस्मात् केऽपि करिष्यन्ति कली न सुकृतं जनाः ॥
सुकृतेषु विनष्टेषु प्रवृत्ते पापकर्म्मणि ।
सवंशाः प्रलयं सर्व्वे गमिष्यन्ति दुराशयाः ॥
स्वल्पश्रमैरल्पवित्तैरल्पकालैश्च सत्तम ॥
यथा भवेन्महापुण्यं तथा कथय सूत नः ॥
यस्योपदेशतः पुण्यं पापं वा कुरुते जनः ।
स तद्भागी भवेन्मर्त्त्य इति शास्त्रेषु निश्चितम् ॥
पुण्योपदेशी सदयः कैतवैश्च विवर्ज्जितः ।
पापायनविरोधी च चत्वारः केशवोपमाः ॥
ज्ञानं संप्राप्य संसारे यः परेभ्यो न यच्छति ।
ज्ञानरूपी हरिस्तस्मै प्रसन्न इव नेक्षते ॥
ज्ञानरत्नैश्च रत्रैश्च परसन्तोषकृन्नरः ।
स ज्ञेयः सुकृतिर्नूनं नररूपधरो हरिः ॥
व्रतेन तपसा किंवा प्राप्यते वाञ्छितं फलम् ।
सर्व्वं तत् श्रोतुमिच्छामि कथयस्व महामते ॥
त्वमेव मुनिशार्दूल वेदवेदाङ्गपारगः ।
त्वदृते नहि वक्तान्यो यतस्त्वं व्यासशासितः ॥
सूत उवाच ।
धन्योऽसि त्वं मुनिश्रेष्ठ त्वमेव वैष्णवाग्रणीः ।
यतः समस्तलोकानां हितं वाच्छसि सर्व्वदा ।
शृणु शौनक वक्ष्यामि यत् त्वया श्रोतुमिष्यते ॥
नारदेनैवमुक्तः सन् भगवान् कमलापतिः ।
सुरर्षये यथैवाह तत् शृणुष्व समाहितः ॥ * ॥
एकदा नारदो योगी परानुग्रहकाङ्क्षया ।
पर्य्यटन् विविधान् लोकान् मर्त्त्यलोकमुपागतम् ॥
तत्र दृष्टा जनाः सर्व्वे नानादुःखसमन्विताः ।
नानायोनिसमुत्पन्नाः क्लिश्यन्ते पापकर्म्मभिः ॥
केनोपायेन चैतषां दुःखनाशो भवेद्ध्रुवम् ।
इति सञ्चिन्त्य मनसा विष्णुलोकं गतस्तदा ॥
तत्र नारायणं देवं शुक्लवणं चतुर्भुजम् ।
शङ्खचक्रधरं देवं वनमालाविभूषितम् ॥
दृष्ट्वा तं देवदेवेशं स्तोतुं समुपचक्रमे ।
नारद उवाच ।
नमस्ते वाङ्मनोऽतीतरूपायानन्तशक्तये ।
आदिमध्यान्तहीनाय निर्गुणाय गुणात्मने ॥
सर्व्वेषामादिभूताय भक्तानामार्त्तिनाशिने ।
श्रुत्वा स्तोत्रं ततो विष्णुर्नारदं प्रत्यभाषत ॥
श्रीभगवानुवाच ।
किमर्थमागतोऽसि त्वं किन्ते मनसि वर्त्तते ।
कथयस्व महाभाग तत् सर्व्वं कथयामि ते ॥
नारद उवाच ।
मर्त्त्यलोके जनाः सर्व्वे नानाशोकसमन्विताः ।
नानायोनिसमुत्पन्नाः पच्यन्ते पापकर्म्मणा ॥
तत् कथं शमयेन्नाथ लघूपायेन तद्वद ।
श्रोतुमिच्छामि तत् सर्व्वं कृपास्ति यदि ते मयि
श्रीभगवानुवाच ।
साधु पृष्टं त्वया वत्स ! लोकानुग्रहकाम्यया ।
यत् कृत्वा मुच्यते मोहात् तत् शृणुष्व वदामि ते
व्रतमस्ति महापुण्यं स्वर्गे च भुवि दुर्लभम् ।
तव स्नेहान्मया विप्र प्रकाशीक्रियतेऽधुना ॥ * ॥
सत्यनारायणस्यैतद्व्रतं सम्यग्विधानतः ।
कृत्वा सद्यः सुखं भुक्त्वा परत्र मोक्षमालभेत् ॥
तत् श्रुत्वा भगद्वाक्यं नारदः पुनरब्रवीत् ॥
किं फलं किं विधानञ्च कृतं केनेति वा व्रतम् ।
तत् सर्व्वं विस्तराद्ब्रूहि कदा कार्य्यं हि तद्-
व्रतम् ॥
श्रीभगवानुवाच ।
दुःखशोकादिशमनं धनधान्यविवर्द्धनम् ।
सौभाग्यसन्ततिकरं सर्व्वत्र विजयप्रदम् ॥
यस्मिन् कस्मिन् दिने मर्त्त्यो भक्तिश्रद्धासमन्वितः
सत्यनारायणं देवं यजेत्तुष्टो निशामुखे ॥
पृष्ठ ५/२२७
बान्धवैर्ब्राह्मणैश्चैव सहितो धर्म्मतत्परः ।
नैवेद्यं भक्तितो दद्यात् सपादं भक्ष्यमुत्तमम् ॥
रम्भाफलं घृतं क्षीरं गोधूमस्य च चूर्णकम् ।
अभावे शालिचूर्णं वा शर्करां वा गुडं तथा ॥
सपादसर्व्वभक्ष्याणि एकीकृत्य निवेदयेत् ।
विप्राय दक्षिणां दद्यात् कथां श्रुत्वा जनैः सह ॥
ततश्च बन्धुभिः सार्द्धं विप्रेभ्यः प्रतिपादयन् ।
प्रसादं भक्षयेत् भक्त्या नृत्यगीतादिकं चरेत् ॥
ततः स्तुत्वा गृहं गच्छेत् सत्यनारायणं स्मरन् ।
एवं कृते मनुष्याणां वाञ्छासिद्धिर्भवेद्ध्नुवम् ॥
विशेषतः कलियुगे नान्योपायोऽस्ति भूतले ।
कथामस्य प्रवक्ष्यामि कृतकृत्यो भवेत् द्विजः ॥ * ॥
कश्चित् काशीपुरे ग्रामे आसीद्विप्रश्च निर्द्धनः ।
क्षुधातृष्णाकुलो भूत्वा सततं भ्रमते महीम् ॥
दुःखितं ब्राह्मणं दृष्ट्वा भगवान् ब्राह्मणप्रियः ।
वृद्धब्राह्मणरूपः सन् पप्रच्छ द्विजमादरात् ॥
किमर्थंभ्रमसे विप्र ! महीं कृत्खाञ्च दुःखितः ।
तत् सर्व्वं श्रोतुमिच्छामि कथ्यतां यदि रोचते ॥
विप्र उवाच ।
ब्राह्मणोऽतिदरिद्रोऽहं भिक्षार्थं भ्रमते महीम्
उपायं यदि जानासि कृपया कथय प्रभो ॥
वृद्ध उवाच ।
सत्यनारायणो देवो वाञ्छितार्थफलप्रदः ।
तस्य त्वं द्विजशार्द्दूल कुरुष्व व्रतमुत्तमम् ॥
यत् कृत्वा सर्व्वदुःखेभ्यो मुक्तो भवति मानवः ॥
विधानञ्च व्रतस्यास्य विप्रायाभाष्य यत्नतः ।
सत्यनारायणो वृद्धस्तत्रैवान्तरधीयत ॥
ततः प्रातः करिष्यामि व्रतं मनसि चिन्तितम्
इति सञ्चिन्त्य विप्रोऽसौ रात्रौ निद्रां न चाल-
भत् ॥
ततः प्रातः समुत्थाय सत्यनारायणव्रतम् ।
करिष्येऽहञ्च सङ्कल्प्य भिक्षार्थमगमद्द्विजः ॥
तस्मिन्नेव दिने विप्रः प्रचुरं प्राप्तवान् धनम् ।
तेनैव बन्धुभिः सार्द्धं सत्यस्य व्रतमाचरत् ॥
सर्व्वदुःखविनिर्म्मुक्तः सर्वसम्पत्समन्वितः ।
बभूव स द्विजश्रेष्ठो व्रतस्यास्य प्रभावतः ।
ततः प्रभृतिकालञ्च मासि मासि व्रतं कृतम् ॥
सूत उवाच ।
एवं नारायणस्येदं व्रतं कृत्वा द्विजोत्तमः ।
सर्वपापविनिर्मुक्तो दुर्ल्लभं मोक्षमाप्नुयात् ॥
व्रतञ्च तद्यथा विप्रः पृथिव्यां सञ्चरिष्यति ।
तदैतत् सर्वदुःखं हि तराणाञ्च विनश्यति ॥
एवं नारायणेनोक्तं नारदाय महात्मने ।
मयापि कथितं विप्र किमन्यत् कथयामि ते ॥”
इति श्रीस्कन्दपुराणे रेवाखण्डे सत्यनारायण-
विप्रसंवादो नाम १ अध्यायः ॥ * ॥
शौनक उवाच ।
“तस्माद्विप्र व्रतं केन पृथिव्यां चरितं मुने ।
तत् सर्वं श्रोतुमिच्छामि श्रद्वास्माकं प्रजायते ॥
सूत उवाच ।
शृणुध्वं मुनयः सर्वे तस्माद्येन कृतं भुवि ।
एकदास द्विजवरो यथाविभवविस्तरेः ॥
बन्धुभिः स्वजनैः सार्द्धं व्रतं कर्त्तुं समुद्यतः ।
एतस्मिन्नेव काले तु काष्ठकेतुः समागतः ।
बहिः काष्ठञ्च संस्थाप्य विप्रस्य मन्दिरं ययौ ॥
तृष्णया पीडितात्मा स विप्रं दृष्ट्वा तथाविधम् ।
प्रणिपत्य द्विजश्रेष्ठं किमिदं क्रियते त्वया ।
कृते किं फलमाप्नोति विस्तराद्वद मे प्रभो ॥
विप्र उवाच ।
सत्यनारायणस्येदं व्रतं सर्व्वेप्सितप्रदम् ।
दुःखशोकादिशमनं सर्वत्र विजयप्रदम् ॥
धनादिसन्ततिकरं सर्वेषामीप्मितप्रदम् ।
यस्य प्रसादान्मे सर्वं धनधान्यादिकं महत् ॥
ततस्तु स व्रतं ज्ञात्वा काष्ठकर्त्तातिहर्षितः ।
पपौ जलं प्रसादञ्च भुक्त्वा तन्नगरं ययौ ॥
सत्यनारायणं देवं चिन्तयन् स्थिरमानसः ।
काष्ठं विक्रीय नगरे प्राप्स्यते चाद्य यद्धनम् ।
तेनैव सत्यदेवस्य व्रतमद्य करोम्यहम् ॥
इति सञ्चिन्त्य मनसा काष्ठं कृत्वा तु मस्तके ।
जगाम नगरे रम्य धनिनां यत्र सस्थितिः ।
तद्दिने काष्ठमूलञ्च द्विगुणं प्राप्तवानसौ ॥
ततः प्रसन्नहृदयः सुपक्वकदलीफलम् ।
शर्कराञ्च घृतं दुग्धं गोधूमस्य च चूर्णकम् ॥
प्रत्येकन्तु सपादञ्च गृहीत्वा गृहमाययौ ।
ततो बन्धून् समाहूय चकार विधिना व्रतम् ॥
तद्व्रतस्य प्रसादेन धनपुत्त्रान्वितोऽभवत् ।
इह लोके सुखं भुक्त्वा चान्ते सत्यपुरं ययौ ॥”
इति श्रीस्कन्दपुराणं रेवाखण्डे सत्यनारायण-
कथायां विप्रकाष्ठकेतुसंवादो नाम २ अध्यायः ॥
सूत उवाच ।
“पुनरन्यत् प्रवक्ष्यामि शृणुध्वं मुनिसत्तमाः ।
आसीदुल्कामुखो नाम नृपतिर्ब्बलिनां वरः ॥
जितेन्द्रियः सत्यवादी ययौ देवालयं प्रति ।
दिने दिने धनं दत्त्वा द्विजान् सन्तोषयेत् सुधीः
भार्य्या तस्य प्रमुग्धा च सरोजवदना सती ।
सस्मितास्या शरदिन्दुं सकटाक्षं च बिभ्रती ॥
काञ्चीञ्च बिभ्रती श्यामा मालतीमाल्यभूषिता
भद्रशीला व्रतं सत्यं सिन्धुतीरेऽकरोन्मुने ॥
एतस्मिन्नन्तरे नत्र साधुः कोऽपि समागतः ।
बाणिज्यार्थं बहुधनै रत्नाद्यैः परिपूरितः ॥
नावं संस्थाप्य तत्तीरे जगाम तत्तटं प्रति ।
दृष्ट्वा तत्र व्रतं सम्यक् पप्रच्छ विनयान्वितः ॥
साधुरुवाच ।
किमिदं कुरुषे राजन् भक्तियुक्तेन चेतसा ।
प्रकाशं कुरु तत् सर्वं श्रोतुमिच्छामि सम्प्रति ॥
राजोवाच ।
पूजनं क्रियते साधो विष्णोरतुलतेजसः ।
व्रतञ्च स्वजनैः सार्द्धं पुत्त्रादिप्राप्तये मया ॥
प्रत्युवाच ततो नत्वा राजानं मधुरं वचः ।
सत्यं कथय मे राजन् व्रतमेतत् करोम्यहम् ॥
ममापि सन्ततिर्नास्ति सत्यमेतत् सुतव्रतम् ।
ततो निवृत्त्य बाणिज्यात् सानन्दं गृहमागतः ॥
भार्य्यायै कथित सर्व्वं व्रतञ्च सन्ततिप्रदम् ।
तदा व्रतं करिष्यामि यदा मे सन्ततिर्भवेत् ॥
यत्किञ्चिद्दिवसे तस्य भार्य्या लीलावती सती ।
गर्भयुक्तानन्दचित्ताभवद्धर्म्मपरायणा ॥
पूर्णे गर्भे ततो जाता बालिका चातिनिर्म्मला ।
दिने दिने वर्द्धमाना शुक्लपक्षे यथा शशी ॥
ततो बणिक् सुतायाश्च जातकर्म्मादिकञ्चरन् ।
नाम्ना कलावती चेति तन्नामकरणं कृतम् ॥
ततो लीलावती प्राह स्वामिनं मधुरं वचः ।
न करोषि किमर्थं वा पुरा यच्च प्रतिश्रुतम् ॥
विवाहसमयेऽप्यस्याः करिष्यामि व्रतं प्रिये ।
इति भार्य्यां समाश्वास्य जगाम नगरं प्रति ॥
ततः कलावती कन्या वर्द्धिता पितृवेश्मनि ।
दृष्ट्वा कन्यां ततः साधुर्नगरे बन्धुभिः सह ।
मन्त्रयित्वा द्रुतं दूतं प्रेरयित्वा स धर्म्मवित् ।
विवाहार्थञ्च कन्याया वरं श्रेष्ठं विचारयन् ॥
तेनाज्ञप्तश्च दूतोऽसौ काञ्चनं नगरं ययौ ।
तस्मादेकं बणिक्पुत्त्रं समादायागतो हि सः ॥
दृष्ट्वा तं सुन्दरं बालं बणिक्पुत्त्रं गुणान्वितम् ।
ज्ञातिभिर्बन्धुभिः सार्द्धं परितुष्टेन चेतसा ॥
दत्तवान् साधुराहूय कन्यां विधिविधानतः ।
ततो भाग्यवशात्तेन विस्मृतं व्रतमुत्तमम् ॥
विवाहसमयेऽप्यस्यास्तेन रुष्टोऽभवद्विभुः ॥
ततः कालेन कियता निजधर्म्मविशारदः ।
बाणिज्यार्थं गतः शीघ्रं जामात्रा सहितो
बणिक् ॥
रत्नसारपुरे रम्ये गत्वा सिन्धुसमीपतः ।
बाणिज्यं कुरुते साधुर्जामात्रा श्रीमता सह ॥
पुरीं निर्म्माय नगरे चन्द्रकेतोर्नृपस्य च ।
एतस्मिन्नेव काले तु सत्यनारायणः प्रभुः ॥
भ्रष्टप्रतिज्ञमालोक्य शापं तस्मै प्रदत्तवान् ।
अद्यप्रभृति कालञ्च महादुःखं भविष्यति ॥
तस्मिन्नेव दिने राज्ञो धनमादाय तस्करः ।
तेनैव वर्त्मना यातः पृष्ठदेशं विलोकयन् ॥
तत्पश्चाद्धावकान् दूतान् दृष्ट्वा भीतेन चेतसा ।
धनं संस्थाप्य तत्रैव गतः शीघ्रमलक्षितः ॥
ततो दूताः सगायाता यत्रास्ते सज्जनो बणिक् ॥
दृष्ट्वा नृपधनं तत्र बद्ध्वा दूता बणिक्सुतौ ॥
हषयुक्ता धावमाना ऊचुर्नृपसमीपतः ।
तस्करौ द्वौ समानीतौ विलोक्याज्ञापय प्रभो ॥
ते नृपाज्ञां समदाय दृढं बद्ध्वा तु तावुभौ ।
स्थापितौ द्वौ महादुर्गे कारागरेऽविचारयन् ॥
सूत उवाच ।
मायया सत्यदेवस्य न श्रुतञ्च तयोर्वचः ।
ततस्तयोर्धनं यच्च गृहीतं चन्द्रकेतुना ॥
तच्छापाच्च तयोर्गेहे भार्य्या च दुःखिताभवत् ।
चौरेणापहृतं सर्व्वं गृहे यच्च स्थितं धनम् ॥
आधिव्याधिसमायुक्ता क्षुत्पिपासातिपीडिता ।
अन्नचिन्तापरा भूत्वा भ्रमते च गृहे गृहे ।
ततः कलावती कन्या बभ्राम प्रतिवासरे ॥
एकस्मिन् दिवसे रात्रौ क्षुधार्त्ता द्विजमन्दिरम् ।
गत्वापश्यद्व्रतं तत्र सत्यनारायणस्य सा ॥
उपविश्य कथां श्रुत्वा वरं प्रार्थयती मुदा ।
प्रसादभक्षणं कृत्वा ययौ रात्रौ गृहं प्रति ॥
पृष्ठ ५/२२८
ततो लीलावती कन्यां भर्त्सयामास तां भृशम् ।
पूत्रि । रात्रौ स्थिता कुत्र किन्ते मनसि वत्तते ॥
द्विजालये व्रतं भातर्दृष्टं वाञ्छितसिद्धिदम् ॥
तत् श्रुता कन्यकावाक्यं व्रतं कर्त्तुं समुद्यता ।
ससुता सा बणिग्भार्य्या सत्यनारायणस्य च ॥
व्रतं चक्रे च वै साध्वी बन्धुभिः स्वजनैः सह ।
भर्त्तृजामातरौ क्षिप्रमागच्छेतां ममाश्रमम् ॥
इति देवं वरं याचे सत्यदेवं पुनः पुनः ।
अपराधन्तु भर्त्तुर्म्मे जामातुः क्षन्तुमर्हसि ॥
व्रतेन तस्यास्तुष्टोऽसौ सत्यनारायणः प्रभुः ।
दर्शयामास स्वप्नं हि चन्द्रकेतुं नृपोत्तमम ॥
वन्दिनौ मोचय प्रातर्बणिजौ नृपसत्तम् ! ।
देयं धनञ्च तत् सर्व्वं विधिना द्विगुणीकृतम् ॥
नो चेत् त्वां नाशयिष्यामि सराज्यधनपुत्त्रकम् ।
एवमाभाष्य राजानं ध्यानगम्योऽभवत् प्रभुः ॥
ततः प्रभातसमये राजा च स्वजनैः सह ।
उपविश्य सभामध्ये प्राह दूतजनं प्रति ॥
बद्धौ महाजनौ शीघ्रं मोचयध्वं बणिक्सुतौ ।
इति राज्ञो वचः श्रुत्वा मोचयित्वा महाजनौ ॥
समानीय नृपस्याग्रे प्रोचुश्च विनयान्विताः ।
आनितौ द्वौ बणिक्पुत्त्रौ मुक्तौ निगडबन्धनात् ॥
ततो महाजनौ नत्वा चन्द्रकेतुं नृपोत्तमम् ।
स्मृत्वा च पूर्व्ववृत्तान्तं विस्मयाद्भयविह्वलौ ॥
राजा बणिक्सुतौ वीक्ष्य प्रोवाच सादरं वचः ।
दैवात् प्राप्तं महत् कष्टमिदानीं नास्ति ते भयम् ॥
इदानीमेव मुक्तस्त्वं क्षुरकर्म्मादिकञ्चर ॥
ततो नृपवरः श्रीमान् स्वर्णरत्नविभूषणैः ।
अलङ्कृत्य बणिक्पुत्त्रौ वचसाप्रीणयद्भृशम् ।
पुरानीतञ्च यद्द्रव्यं द्विगुणीकृत्य दत्तवान् ॥
प्रोवाच तौ ततो राजा गच्छ साधो निजा-
श्रमम् ।
राजानं प्रणिपत्याह गन्तव्यं त्वत्प्रसादतः ॥
यात्रां कृत्वा ततः साधुर्म्मङ्गलाचारपूर्व्विकाम् ।
ब्राह्मणेभ्यो धनं दत्त्वा सहर्षो नगरं ययौ ॥
कियद्दूरे गते साधौ सत्यनारायणः प्रभुः ।
जिज्ञासां कृतवान् साधो किमस्ति तरणौ तव ॥
ततो महाजनो मत्तो हेलया च प्रहस्य च ।
कथं पृच्छसि भो दण्डिन ! मुद्रां किं लब्धु-
मिच्छसि ॥
लतापत्रादिकञ्चैव वर्त्तते तरणौ मम ।
निष्ठुरञ्च वचः श्रुत्वा सत्यं भवतु ते वचः ॥
एवमुक्त्वा गतः शीघ्र दण्डी तस्य समीपतः ।
कियद्दूरे ततो गत्वा स्थितः सिन्धुसमीपतः ॥
गते दण्डिनि साधुश्च कृतनित्यक्रियस्तदा ।
उत्थितस्तरणीं दृष्ट्वा विस्मयं परमं ययौ ॥
लतापत्रादिकं दृष्ट्वा मूर्च्छितो न्यपतद्भुवि ।
लब्धसंज्ञो बणिक्पुत्रस्ततश्चिन्तापरोऽभवत् ॥
श्वश्रुरं दुहितुः कान्तो वचनञ्चेदमब्रवीत् ॥
जामातोवाच ।
किमथे कुरुते शोकं शापादेतच्च दण्डिनः ।
शक्यते तेन सर्व्वं हि कर्त्तुं हर्त्तुं न संशयः ॥
ततस्तच्छरण यामो वाञ्छितार्थो भविष्यति ।
जामातुश्च वचः श्रुत्वा तत्सकाशं गतस्तदा ॥
दृष्ट्वा च दण्डिनं भक्त्या नत्वा प्रोवाच सादरम् ।
क्षमस्व चापराधं मे यदुक्तं तव सन्निधौ ॥
मया दुरात्मना देव मुग्धोऽहं तव मायया ।
यदुक्तं तद्वचो नाथ दुष्टं मे क्षन्तुमर्हसि ॥
यतः परक्र्ताः सर्वे क्षमासारा हि साधवः ।
पुनः पुनस्ततो नत्वा रुरोद शोकविह्वलः ॥
तमुवाच ततो दण्डी विलपन्तं विलोक्य च ।
मा रोदीः शृणु मे वाक्यं मम पूजापराङ्मुखः ॥
मामवज्ञाय दुर्बुद्धे ! लब्धं दुःस्नं मुहुर्मुहुः ।
तत् श्रुत्वा भगवद्धाक्यं स्तुतिं कर्त्तुं समुद्यतः ॥
साधुरुवाच ।
त्वन्मायामोहिताः सर्व्वे ब्रह्माद्यास्त्रिदिवौकसः ।
न जानन्ति गुणं रूपं तवाश्चर्य्यमिदं प्रभो ॥
मूढोऽहं त्वां कथं जाने मोहितस्तव मायया ।
प्रसीद पूजयिष्यामि यथाविभवविस्तरैः ॥
पुत्त्रं वित्तञ्च मच्चित्तं पाहि मां शरणागतम् ॥
श्रुत्वा भक्तियुतं वाक्यं परितुष्टो जनार्द्दनः ।
वरञ्च वाञ्छितं दत्त्वा तत्रैवान्तरधीयत ॥
ततोऽसौ नावमारुह्य दृष्ट्वा रत्नादिपूरिताम् ।
कृपया सत्यदेवस्य यत् फलं वाञ्छितं मम ॥
इत्युक्त्वा स्वजनैः सार्द्धं पूजां कृत्वा यथाविधि ।
हर्षेण महता साधुः प्रयाणं चाकरोत् द्विजः ॥
नावं संयोज्य वेगेन स्वदेशमगमत्तदा ॥
ततो जामातरं प्राह पश्य वत्स पुरीं मम ।
दूतञ्च प्रेरयामास निजवित्तस्य रक्षकम् ॥
ततोऽसौ नगरं गत्वा साधुभार्य्यां विलोक्य च ।
उवाच वाञ्छितं वाक्यं नत्वा बद्धाञ्जलिस्तदा ॥
निकटे नगरस्यैव जामात्रा सहितो बणिक् ।
आगतौ बन्धुवर्गैश्च धनैर्बहुविधैस्तथा ॥
श्रुत्वा दूतमुखाद्वाक्यं महाहर्षयुता सती ।
सत्यपूजां ततः कृत्वा प्रोवाच तनुजां प्रति ।
व्रजामि शीघ्रमागच्छ साधुसन्दर्शनाय च ॥
इति मातृवचः श्रुत्वा व्रतं कृत्वा समाप्य च ।
प्रसादं संपरित्यज्य गता सा च पतिं प्रति ॥
तेन रुष्टः सत्यदेवो भर्त्तारं तरणीन्तथा ।
संहृत्य च धनैः सार्द्धं जले तस्मिन् समर्पयत् ॥
ततः कलावतीकन्या नालोक्य बणिजं पतिम् ।
शोकेन महता तत्र रुदन्ती चापतद्भुवि ॥
दृष्ट्वा तथाविधां कन्यां न दृष्ट्वा तत्पतिं तरीम् ।
भीतेन महता साधुः किमाश्चर्य्यमिदं महत् ॥
विचिन्त्यमानास्ते सर्व्वे बभूबुस्तरिवाहकाः ।
ततो लीलावती साध्वी दृष्ट्वा तद्विह्वला सती ।
विललापातिदुःखेन भर्त्तारञ्चे दमब्रवीत् ॥
इदानीं नौकया सार्द्धमदृश्योऽभूदलक्षितम् ।
न जाने केन दैवेन हेलया वापहारितम् ॥
सत्यदेवस्य माहात्म्यं किं ज्ञातुं नहि शक्यते ।
इत्युक्त्वा विललापाथ तत्रस्या स्वजनैः सह ॥
ततो लीलावती कन्यां क्रोडे कृत्वा रुरोद च ।
ततः कलावती कन्या नष्टे स्वामिनि दुःखिता ॥
गृहीत्वा पादुक्रां तस्य अनुगन्तुं मनो दधे ।
कन्यायाश्चरितं दृष्ट्वा सभार्य्यः सुजनो बणिक् ॥
अतिशोकेन सन्तप्तश्चिन्तयामास धर्म्मवित् ॥
हृतो हि सत्यदेवेन जामाता सत्यमायया ।
सत्यपूजां करिष्यामि यथाविभवविस्तरैः ॥
इति सर्व्वान् समाहूय कथितञ्च मनोरथम् ।
भत्वा च दण्डवद्भूमौ सत्यदेवं पुनः पुनः ॥
ततस्तुष्टः सत्यदेवो गगनाद्वणिजं प्रति ।
जगाद वचनञ्चेदं नैवेद्यमवमन्य च ।
आगता स्वामिनं द्रष्टुमतोऽदृश्योऽभवत् प्रभुः ॥
गृहं गत्वा प्रसादञ्च भुक्त्वा चायाति सा पुनः ।
लब्धभर्त्तृसुखा साधो भविष्यति न संशयः ॥
ततश्च प्राणदं वाक्यं श्रुत्वा गगनमण्डलात् ।
क्षिप्रं तदा गृहं गत्वा प्रसादं प्रतिभूज्य च ॥
अपश्यत् पुनरागत्य पतिं नावं जनैः सह ।
ततः कलावती तुष्टा जगाद पितरं प्रति ॥
एहि तात गृहं याहि विलम्बं कुरुषे कथम् ।
तत् श्रुत्वा कन्यकावाक्यं सन्तुष्टोऽभूद्धणिकसुतः
पूजनं सत्यदेवस्य कृत्वा विधिविधानतः ।
धनैर्बन्धुगणैः सार्द्धं जगाम निजमन्दिरम् ॥
पौर्णमास्याञ्च संक्रान्त्यां पूजां कृत्वा यथाविधि ।
इह लोके सुखं भुक्त्वा चान्ते सत्यपुरं ययौ ॥”
इति श्रीस्कन्दपुराणे रेवाखण्डे श्रीसत्यनारा-
यण कथायां बणिक्साधुमोक्षवर्णनो नाम
३ अध्यायः ॥ * ॥
सूत उवाच ।
“अथ चान्यत् प्रवक्ष्यामि शृणुध्वं मुनिसत्तमाः ।
आसीद्वंशध्वजो राजा प्रजापालनतत्परः ॥
प्रसादं सत्यदेवस्य त्यक्त्वा दुःखमवाप सः ।
एकदा स यनं गत्वा हत्वा च विविधान् मृगान्
आगत्य वटमूले च दृष्ट्वा सत्यस्य पूजनम् ।
गोपाः कुर्व्वन्ति सन्तुष्टा भक्तियुक्ताः सबान्धवाः
राजा दृष्ट्वा तु दर्पेण नागतो न ननाम सः ।
ततो गोपगणाः सर्व्वे प्रसादं नृपसन्निधौ ॥
संस्थाप्य पुनरागत्य भुक्त्वा सर्व्वे यथेप्सितम् ।
ततः प्रसादं संत्यज्य राजा दुःखमवास सः ॥
तस्य पुत्त्रशतं नष्टं धनधान्यादिकञ्च यत् ।
सत्यदेवेन तत् सर्व्वं नाशितं मम निश्चितम् ॥
अतस्तत्रैव गच्छामि यत्र देवस्य पूजनम् ।
मनसेति विनिश्चित्य ययौ गोपालसन्निधिम् ॥
ततोऽसौ सत्यदेवस्य पूजां गोपगणैः सह ।
भक्तिश्रद्धान्वितो भूत्वा चकार विधिवन्नृपः ॥
सत्यदेवप्रसादेन धनपुत्त्रान्वितोऽभवत् ।
इह लोके सुखं भुक्त्वा चान्ते विष्णुपरं ययौ ॥
य इदं कुरुते सत्यव्रतं परमदुर्लभम् ।
शृणोति च कथां पुण्यां भक्तिमुक्तिफलप्रदाम् ॥
धनधान्यादिकं तस्य भवेत् सत्यप्रसादतः ।
दरिद्रो लभते वित्तं बद्धो मुच्येत बन्धनात् ॥
भीतो भयात् प्रमुच्येत सत्यमेतन्न संशयः ।
ईप्सितञ्च फलं भुक्त्वा चान्ते सत्यपुरं व्रजेत् ॥
इति वः कथितं विप्राः सत्यनारासणव्रतम् ।
यत् कृत्वा सर्व्वदुःखेभ्यो मुक्तो भवति मानवः ॥
विशेषतः कलियुगे सत्यपूजाकथाफलम् ।
सत्यनारायणं केचित् सत्यदेवं तथापरे ॥
पृष्ठ ५/२२९
नानारूपधरो भूत्वा सर्व्वेषामीप्सितप्रदः ।
भविष्यति कलौ सत्यव्रतरूपी सनातनः ॥
य इदं पठते नित्यं शृणोति मुनिसत्तमाः ।
तस्य नश्यन्ति पापानि सत्यदेवप्रसादतः ॥”
इति श्रीस्कन्दपुराणे रेवाखण्डे सत्यनारायण-
कथानाम ४ अध्यायः ॥ * ॥ इति श्रीसत्यनारा-
यणव्रतकथा समाप्ता ॥ क्वचित् पुस्तके अध्याय-
नाम नास्ति । क्वचित् भविष्यपुराणे इति कृत्वा
एतत्कथा लिखिता ॥ * ॥ अथ सत्यनारायण
पूजापद्धतिः । आदौ स्वस्तिवाचनपूर्व्वकं सङ्कल्पं
कुर्य्यात् । अद्येत्यादि अमुकतिथौ रात्रौ
अर्मुकगोत्रः श्रीअमुकदेवशर्म्मा अमुककामः
गश्चेशादिदेवतापूजापूर्व्वकश्रीसत्यनारायणपूज-
नकथाश्रवणमहं करिष्ये । ततः सूक्तं पठेत् ।
तत आसनशुद्ध्यादिकं कृत्वा गणेशादिदेवत्रा-
नवग्रहदिक्पालान् पूजयेत् । लक्ष्मीसरस्वत्या-
दिपुरुषानादिपुरुषश्रीरामलक्ष्मणपूजां कृत्वा
यवतिलैः सत्यनारायणमावाहयेत् । प्रणवव्या-
हृतीः समुच्चार्य्य भगवन् सत्यनारायण इहागच्छ
इहागच्छ इह तिष्ठ इह तिष्ठ मम पूजां गृहाण
इत्यादिना आवाह्य पुष्पं गृहीत्वा ध्यायेत् ।
“ध्यायेत् सत्यं गुणातीतं गुणत्रयसमन्वितम् ।
लोकनाथं त्रिलोकेशं पीताम्बरधरं हरिम् ॥
इन्दीवरदलश्यामं शङ्खचक्रगदाधरम् ।
नारायणं चतुर्ब्बाहुं श्रीवत्सपदभूषितम् ।
गोविन्दं गोकुलानन्दं जगतः पितरं गुरुम् ॥”
इति ध्यात्वा एतत् पाद्यं सत्यनारायणाय नमः ।
अर्ध्यमन्त्रस्तु ।
“व्यक्ताव्यक्तस्वरूपाय हृषीकपतये नमः ।
मया निवेदितो भक्त्या अर्घ्योऽयं प्रतिगृह्य-
ताम् ॥”
एषोऽर्घ्यः श्रीसत्यनारणाय नमः । पुष्पा-
ञ्जलिं गृहीत्वा ।
“नमस्ते विश्वरूपाय शङ्खचक्रधराय च ।
पद्मनाभाय देवाय हृषीकपतये नमः ।
नमोऽतन्तस्वरूपाय त्रिगुणात्मविभासिने ॥”
नैवेद्यं गृहीत्वा ।
“त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पितम् ।
गृहाण सुमुखो भूत्वा प्रसीद पुरुषोत्तम ॥”
ततः अञ्जलिं बद्ध्वा पठेत् ।
“अच्युतं पुण्डरीकाक्षं नृसिंहं दैत्यसूदनम् ।
हृषीकेशं जगन्नाथं वागीशं वरदायकम् ॥
गुणत्रयं गुणातीतं गोविन्दं गरुडघ्वजम् ।
जनार्द्दनं जनानन्दं जानकीवल्लभं जयम् ॥
प्रणमामि सदा सत्यनारायणमतः परम्
दुर्गमे विषमे घोरे शत्रुभिः परिपीडिते ॥
विविधापत्सु दुष्टेषु तथान्ये ष्वपि यद्भयम् ।
नामान्येतानि सङ्कीर्त्त्यं ईप्सितं फलमाप्नुयात् ॥
सत्यनाराणं देवं वन्देऽहं कामदं शुभम् ।
लीलया च ततं विश्वं येन तस्मै नमो नमः ॥”
ततो दक्षिणान्दद्यात् । अच्छिद्रावधारणं
कुर्य्यात् । इति सत्यनारायणपूजापद्धतिः ॥

सत्यपुरं, क्ली, (सत्यं पुरम् ।) विष्णुलोकः । यथा,

“ईप्सितञ्च फलं भुक्त्वा चान्ते सत्यपुरं वसेत् ।
इति वः कथितं विप्राः सत्यनारायणव्रतम् ॥”
इति स्कन्दपुराणीयसत्यनारायणव्रतकथा ॥

सत्यफलः, पुं, (सत्यं फलं यस्य ।) विल्ववृक्षः ।

इति राजनिर्घण्टः ॥

सत्यभामा, स्त्री, कृष्णपत्नीभेदः । इति शब्दरत्ना-

वली ॥ सा च श्रीकृष्णस्याष्टमहिष्यन्तर्गत-
महिषीविशेषः । यथा, --
अष्टौ महिष्पस्ताः सर्व्वा रुक्मिण्याद्या महा-
त्मनः ।
रुक्मिणी सत्यभामा च कालिन्दी च शुचि-
स्मिता ॥
मित्रविन्दा जाम्बवती नाग्नजिती सुलक्षणा ।
सुशीला नाम तन्वङ्गी महिष्यश्चाष्टमाः
स्मृताः ॥”
इति पाद्मे उत्तरखण्डे ६९ अध्यायः ॥

सत्यभारतः, पुं, (सत्यं भारतं यस्य ।) वेदव्यासः ।

इति त्रिकाण्डशेषः ॥

सत्ययुगं, क्ली, (सत्यं युगम् ।) चतुर्युगानां प्रथम-

युगम् । यथा, --
“कृतं सत्ययुगं त्रेताग्नायी द्वापरयज्ञियौ ।
कलिर्झर्झरकः कर्म्मयुगं पापन्तु पातकम् ॥”
इति त्रिकाण्डशेषः ॥ * ॥
तस्य कृतनामकारणं यथा, --
“तदुपाधिकृतः कालो ब्रह्मणो जन्ममृत्युकृत् ।
शतसंवत्सरे ब्रह्मा लयं प्राप्नोति हि त्वयि ॥
लयान्ते तन्नाभिमध्यादुत्थितः सृजति प्रभुः ।
ततः कृतयुगान्तेऽहं कालं सद्धर्म्मपालकम् ॥
कृतकृत्याः प्रजा यत्र तन्नाम्ना मां कृतं विदुः ॥”
इति कल्किपुराणे १९ अध्यायः ॥ * ॥
तद्धर्म्मा यथा, --
“धर्म्मश्चतुष्पादमवत् कृते पूर्णे जगत्त्रयम् ।
देवा यथोक्तफलदाश्चरन्ति भुवि सर्व्वतः ॥
सर्व्वशस्या वसुमती हृष्टपुष्टजनावृता ।
शाठ्यचौर्य्यानृतैर्हीना आधिव्याधिविवर्ज्जिता ॥
विप्रा वेदविदह् सुमङ्गलयुता नार्य्यस्तु चर्य्याव्रतैः
पूजाहोमपराः पतिव्रतधरा यागोद्यताः
क्षक्षियाः ।
वैश्या वस्तुषु धर्म्मतो विनिमयैः श्रीविष्णुपूजापराः
शूद्रास्तु द्विजसेवनाद्धरिकथालापाः सपर्य्या-
पराः ॥”
इति कल्किपुराणे २८ अध्यायः ॥ * ॥
तद्युगमानं यथा,
“चत्वारि त्रीणि द्वे चैकं कृत्यादिषु यथाक्रमम्
संख्यातानि सहस्राणि द्विगुणानि शतानि च ॥”
इति श्रीभागवते १२ स्कन्धे ४ अध्याये २ श्लोक-
टीकायां श्रीधरस्वामी ॥ तस्योत्पत्त्यादिर्यथा ।
वैशाखशुक्लपक्षे तृतीयायां रविवारे सत्य-
युगोत्पत्तिः । तत्रावतारचतुष्टयं मत्स्यकूर्म्म-
वराहनृसिंहाः । पूर्णं पुण्यम् । पापं नास्ति ।
कुरुक्षेत्रं तीर्थम् । ग्रहांशो ब्राह्मणः । मज्जा-
गताः प्राणाः । इच्छामृत्युः । एकविंशति-
हस्तपरिमितो मानवदेहः । लक्षवर्षं परमायुः ।
सुवर्णनिर्म्मितभोजनपात्रम् । सत्ययुगाब्दाः
१७२८००० । सत्ययुगस्य राजा बलिः वेणः
मान्धाता पुरोरवा धुन्धुमारिकः कार्त्तवीर्य्यः
एते षट् चक्रवर्त्तिनः ॥ सत्ययुगस्य लक्षणम् ।
“सत्यधर्म्मरतो नित्यं तीर्थानाञ्च सदाश्रयम् ।
नन्दन्ति देवताः सर्व्वाः सत्ये सत्यपरा नराः ॥”
तत्र तारकब्रह्मनाम यथा, --
“नारायणपरा वेदा नारायणपराः क्षराः ।
नारायणपरा मुक्तिर्नारायणपरा गतिः ॥”
इति मुद्राङ्कितपञ्जिकातः संगृहीतम् ॥

सत्ययुगाद्या, स्त्री, (सत्ययुगस्य आद्या तिथि-

रित्यर्थः ।) कृतयुगारम्भकतिथिः । सा तु
वैशाखुशुक्लतृतीया । तद्विवरणं युगाद्याशब्दे
द्रष्टव्यम् ॥

सत्ययौवनः, पुं, (सत्यमेव यौवनमिव यस्य ।)

विद्याधरः । इति जटाधरः ॥

सत्यरतः, पुं, (सत्ये रतः ।) सत्यव्रतराजपुत्त्रः ।

यथा, --
“त्रिधन्वनः सुतो जातस्त्रय्यारुण इति स्मृतः ।
तस्य सत्यव्रतो नाम तस्मात् सत्यरतः स्मृतः ॥
तस्य पुत्त्रो हरिश्चन्द्रो हरिश्चन्द्राच्च रोहितः ।”
इति मात्स्ये १२ अध्यायः ॥

सत्यलोकः, पुं, (सत्यो लोकः ।) सप्तलोकान्तर्गत-

लोकविशेषः । यथा, --
“षड्गुणेन तपोलोकात् सत्यलोको विराजते ।
अपुनर्मारका यत्र ब्रह्मलोको हि स स्मृतः ॥”
इति विष्णुपुराणे २ अंशे ७ अध्यायः ॥
जनलोकापेक्षयैव षड्गुणेन द्वादशकोट्युच्छ्रा-
येण तपोलोकानन्तरं सत्यलोकः । न तु तपो-
लोकात् षड्गुणेनेति मन्तव्यम् । तथा सत्यष्ट-
चत्वारिंशत्कोट्युच्छ्रायत्वेन ब्रह्माण्डे तस्याव-
काशाभावात् । सूर्य्याण्डगोलयोरन्तःकोट्यः स्युः
पञ्चविंशतिरिति शुकोक्तेः । सत्यलोक एव कक्षा-
भेदेन ब्रह्मधिष्ट्यात् परं वैकुण्ठलोकादि ज्ञेयम् ।
एवञ्च भूतलादूर्द्ध्वं पञ्चदशलक्षोत्तरास्त्रयोविं-
शतिः कोट्यो भवन्ति । सत्यलोकादूर्द्ध्वञ्च पञ्च-
दशलक्षोनकोटिद्वयादण्डकटाह इति ज्ञेयम् ।
अपुनर्मारकाः पुनर्म्मृत्युशून्याः । इति तट्टीका ॥

सत्यवचाः, [स्] पुं, (सत्यं वचो यस्य ।) ऋषिः ।

इत्यमरः ॥ सत्यवादिनि, त्रि ॥

सत्यवती, स्त्री, (सत्यमस्त्यस्येति । सत्य + मतुप् ।

मस्य वः । ङीप् ।) व्यासमाता । तत्पर्य्यायः ।
काली २ योजनगन्धा ३ गन्धकाली ४ झषो-
दरी ५ व्यासमाता ६ सत्या ७ चित्राङ्गदप्रसुः ८
विचित्रवीर्य्यसूः ९ कस्त्रा १० दासेयी ११ दास-
नन्दिनी १२ । इति शब्दरत्नावली ॥ (यथा,
भागवते । १ । ३ । २१ ।
“ततः सप्तदशे जातः सत्यवत्यां पराशरात् ।
चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः ॥”)
पृष्ठ ५/२३०
नारदपत्नी । (यथा, महाभारते । ५ । ११७ । १५ ।
“दमयन्त्यां नलश्चैव सत्यवत्याञ्च नारदः ॥”)
ऋचीकमुनिपत्नी । इति मेदिनी ॥ (यथा, हरि-
वंशे । २७ । १८ ।
“गाधेः कन्या महाभागा नाम्ना सत्यवती
शुभा ।
तां गाधिः काव्यपुत्त्राय ऋचीकाय ददौ प्रभुः ॥”
सत्यविशिष्टे, त्रि ॥ यथा, भागवते । ४ । २१ । ४६ ।
“पुत्त्रेन जयते लोकानिति सत्यवती श्रुतिः ।
ब्रह्मदण्डहतः पापो यद्वेणोऽत्यतरत्तमः ॥”)
ऋचीकपत्न्याः प्रमाणान्तरं यथा, --
“ब्रह्मपुत्त्रो भृगुर्नाम ऋचीकस्तत्सुतोऽभवत् ।
स भार्य्यार्थी चरन् भूमौ कान्यकुब्जं गतः पुरा ॥
ददर्श चारण्यगतं जह्नोर्वंशसमुद्भवम् ।
कुशिकस्य सुतं गाधिं तपस्थं नृपसत्तमम् ॥
अरण्यस्थस्य तस्याथ पुत्त्रकामस्य भूभृतः ।
सभार्य्यस्य सुता जज्ञे देवकन्यासमा गुणैः ॥
ऋचीको भृगुपुत्त्रस्तां भार्य्यार्थं समयाचत ।
गाधिं नृपतिशार्द्दूलं स चोवाच नृपो मुनिम् ॥
एकतः श्यामकर्णानामश्वानां चन्द्रवर्च्चसाम् ।
सहस्रमेकं यो दद्यात्तस्मै पुत्त्री प्रतीयते ॥
ऋचीक उवाच ।
दास्याम्यश्वसहस्रन्तु तव राजंस्तथाविधम् ।
कञ्चित्कालं प्रतीक्षस्व यावत्तदहमानये ॥
गङ्गाजलादुत्थितन्तु दत्तं सम्यक् प्रचेतसा ।
आदायाश्वसहस्रं स मुनिर्गाधिमथाभ्ययात् ॥
तानश्वान् गाधिरादाय पुत्त्रीं सत्यवतीं स्वकाम्
ऋचीकाय ददौ लक्ष्मीं केशवायेव सागरः ॥
ऋचीको गाधितनयां लब्ध्वा भार्य्यामनिन्दिताम्
मुदितः स तया रेमे यथाकामं स्वमाश्रमे ॥
कृतदारं सुतं श्रुत्वा द्रष्टुं पुत्त्रं स्वकं भृगुः ।
अथाजगाम मतिमान् स्नुषां दृष्ट्वा ननन्द च ॥
दम्पती तं समासीनं भृगुं देवगणार्च्चितम् ।
पूजयित्वा समासीनं तस्थतुस्तौ कृताञ्जली ॥
ततो भृगुः स्नुषां स्वीयां सुप्रीत इदमब्रवीत् ।
वरं वृणीष्व दास्यामि वाञ्छितं वरवर्णिनि ।
अदेयं दुष्करं वापि यत्र ते वर्त्तते स्पृहा ॥
ततः सत्यवती पुत्त्रं तप आम्नायपारगम् ।
मातुश्च वीरमतुलं पुत्त्रं वरमयाचत ॥
स चैवमस्त्वित्युक्त्वैव भूत्वा ध्यानपरस्तदा ।
विश्वमावत्य मनसा यत्नात् श्वासं ससर्ज्ज सः ॥
तस्य निःश्वासवातात्तु निःसृतं वै चरुद्वयम् ।
तस्यै तत् द्वितयं दत्त्वा भृगुस्तामिदमब्रवीत् ॥
चरुद्वयं गृहाण त्वं स्नुषे सत्यवति स्वयम् ।
स्नात्वा ऋतौ ऋतौ माता तदा त्वञ्च करि-
ष्यथः ॥
आलिङ्ग्याश्वत्थवृक्षं ते माता पुंसवनाय वै ।
चरुमारक्तकं चमं सा भोक्ष्यति सुतस्ततः ॥
त्वञ्चोडुम्बरवृक्षन्तु समालिङ्ग्य सितं चरुम् ।
भक्षस्वैतेन पुत्त्रस्ते भविष्यति सनातनः ॥
एवमुक्त्वा भृगुर्यातो यथेच्छं सापि संमुदम् ।
अवाप मांत्रा महिता भर्त्रा पित्रा च भाविगी ॥
अथ स्नानदिनेऽश्वत्थमालिङ्ग्यारक्तकं चरुम् ।
अद्यात् सत्यवती तस्या माता फल्गुं सितं
चरुम् ॥ * ॥
परिवर्त्तन्तु तं ज्ञात्वा दिव्यज्ञानो भृगुर्म्मुनिः ।
अथागत्थ स्नुषां तान्तु वचनञ्चेदमब्रवीत् ॥
विपर्य्ययस्त्वया भद्रे वृक्षालिङ्गनकर्म्मणि ।
तथा चरुप्राशने च तत्रेदन्ते भविष्यति ॥
ब्राह्मणः क्षत्त्रियाचारस्तव पुत्त्रो भविष्यति ।
क्षत्त्रियो ब्राह्मणाचारो मातुस्ते भविता सुतः ॥
इत्युक्त्वा भृगुणा साध्वी तदा सत्यवती भृगुम् ।
पुनः प्रसादयामास पौत्त्रो मेऽस्त्विति तादृशः ।
एवमस्त्विति प्रोक्त्वा स तत्रैवान्तर्द्दधे भृगुः ॥
अथ काले सुतं दीप्तं जमदग्निञ्च गाधिजा ।
सुषुवे जननी तस्या विश्वामित्रं तपोधनम् ॥
जमदग्निस्ततो वेदान् चतुरः प्राप मा चिरम् ।
प्रादुरासद्धनुर्व्वेदः स्वयं तस्मिन् महात्मनि ॥
विश्वामित्रोऽपि सकलान् वेदानपि तथाचिरात्
धनुर्व्वेदं तथा कृत्स्नं विप्रश्चाभूत्तपोधनः ॥
जाज्वल्यमानस्तेजस्वी जमदग्निर्महातपाः ।
वेदैस्तपोभिः स मुनीनत्यक्रामच्च सूर्य्यवत् ॥”
इति श्रीकालिकापुराणे जामदग्न्योपाख्याने
८४ अध्यायः ॥

सत्यवतीसुतः, पुं, (सत्यवत्याः सुतः ।) व्यासः ।

इति शब्दरत्नावली ॥ (यथा, महाभारते ।
१ । १५७ । १२ ।
“एवं स तान् समाश्वास्य व्यासः सत्यवतीसुतः ।
एकचक्रामभिगतः कुन्तीमाश्वासयत् प्रभुः ॥”
जमदग्निः । इति पुराणम् ॥)

सत्यवाक्, [च्] पुं, (सत्या वाक् यस्य ।) ऋषिः ।

इति शब्दरत्नावली ॥ (कश्यपपत्न्या मुनेः पुत्त्र-
विशेषः । यथा, महाभारते । १ । ६५ । ४३ ।
“सत्यवागर्कपर्णश्च प्रयुतश्चापि विश्रुतः ॥”)
काकः । इति त्रिकाण्डशेषः ॥ (सावर्णमनु-
पुत्त्रविशेषः । यथा, मार्कण्डेये । ८० । ११ ।
“विरजाश्चार्व्ववीरश्च निर्म्मोहः सत्यवाक् कृतिः ।
विष्ण्वाद्याश्चैव तनयाः सावर्णस्य मनोर्नृपाः ॥”)
सत्यवादिनि, त्रि ॥ (यथा, रामायणे । २ ।
२९ । ११ ।
“कालश्चायं समुत्पन्नः सत्यवाग् भवतु द्विजः ॥”

सत्यवादी, [न्] त्रि, (सत्यं वदतीति । वद् +

णिनिः ।) यथार्थवक्ता । तत्पर्य्यायः । सत्योद्यः
२ । इति शब्दमाला ॥ (यथा, महानिर्व्वाण-
तन्त्रे । ३ । ९९ ।
“अस्मिन् धर्म्मे महेशि ! स्यात् सत्यवादी
जितेन्द्रियः ।
परोपकारनिरतो निर्व्विकारः सदाशयः ॥”)

सत्यवान्, [त्] पुं, (सत्यमस्त्यस्येति । सत्य +

मतुप् । मस्य वः ।) राजविशेषः । स तु सावित्री-
पतिः । इति मेदिनी ॥ (अस्य नामनिरुक्ति-
र्यथा, महाभारते । ३ । २९३ । १२ ।
“सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते ।
ततोऽस्य ब्राह्मणाश्चक्रुर्नामैतत् सत्यवानिति ॥”
अस्य विशेषवृत्तान्तस्तु तत्रैव २९२ अध्याय-
मारभ्य द्रष्टव्यः ॥ * ॥ चाक्षुषमनुपुत्तविशेषः ।
यथा, भागवते । ४ । १३ । १६ ।
“स चक्षुः सुतमाकुत्यां पत्न्यां मनुमवाप ह ।
मनोरसूत महिषी विरजान्नड्वला सुतान् ।
पुरुऽ कृत्स्नमृतं द्युम्नं सत्यवन्तं मृतं व्रतम् ॥”
सत्यवति त्रि ॥ (यथा, महाभारते । १३ ।
७५ । ३४ ।
“सत्यवन्तः स्वर्गलोके मोदन्ते भरतर्षभ ॥”)

सत्यवृत्तः, त्रि, (सत्यं वृत्तं यस्य ।) सत्यवादी ।

इति केचित् ॥ (सच्चरित्रे क्ली । यथा, महा-
भारते । १३ । ७३ । ११ ।
“यावज्जीवं सत्यवृत्ते रतश्च
दाने रतो यः क्षमी चापराधे ॥”)

सत्यव्रतः, पुं, (सत्यमेव व्रतं यस्य ।) त्रेतायुगे

सूर्य्यवंशीयपञ्चविंशराजः । यथा, --
“त्रिधन्वनः सुतो जातस्त्रय्यारुण इति स्मृतः ।
तस्य सत्यव्रतो नाम तस्मात् सत्यरतः स्मृतः ॥”
इति मात्स्ये १२ अध्यायः ॥
स च त्रिशङ्कु राजः । यथा, --
“त्रिधन्वनस्त्रय्यारुणन्त्रय्यारुणात् सत्यव्रतः ।
योऽसौ त्रिशङ्कुसंज्ञामवाप चाण्डालतामुपगतश्च
द्वादशवार्षिक्यामनावृष्ट्यां विश्वामित्रस्य कल-
त्रापत्यपोषणार्थे चाण्डालपरिग्रहपरिहरणार्थञ्च
जाह्नवोतीरे न्यग्रोधे मृगमांसमनुदिनं वबन्ध ।
परितुष्तेन च विश्वामित्रेण सशरीरः स्वर्गं
आरोपितः । त्रिशङ्कोर्हरिश्चन्द्रः ।” इतिविष्णु-
पुराणे ४ अंशे २ अध्यायः ॥ (धृतराष्ट्रस्य
पुत्त्रविशेषः । यथा, महाभारते । १ । ६३ । ११७ ।
“जयः सत्यव्रतश्चैव पुरुमित्रश्च भारत ॥”
महादेवः । इति महाभारतम् । १३ । १७ । १५० ॥
सत्यरूपव्रते, क्ली । यथा, रामायणे । २ । २६ । ३७ ।
“सा त्वं वसेह कल्याणि राज्ञः समनुवर्त्तिनी ।
भरतस्य रता धर्म्मे सत्यव्रतपरायणा ॥”
सत्यव्रतविशिष्टे, त्रि । यथा, हरिवंशे । ३१ । ५८ ।
“एतेऽहि वंशजाः सर्व्वे राजानः कीर्त्तिता
मया ।
सत्यव्रता महात्मानः प्रजावन्तो महारथाः ॥”)

सत्यसङ्काशः, त्रि, (सत्यस्य सङ्काशः सदृशः ।)

सत्यसन्निभः । इति केचित् ॥

सत्यसङ्गरः, पुं, (सत्यः सङ्गरः प्रतिज्ञा युद्धं वा

यस्य ।) कुबेरः । इति त्रिकाण्डशेषः ॥ अन्याय-
रहितयुद्धञ्च ॥ (ऋषिविशेषः । इति महा-
भारतम् । २ । ७ । १५ ॥)

सत्यसन्धः, पुं, (सत्य सन्धा अभिसन्धिर्यस्य ।)

रामानुजभरतः, । जनमेजयः । इति शब्दरत्ना-
वली ॥ (विष्णुः । इति महाभारतम् । १३ ।
१४९ । ६७ ॥ धृतराष्ट्रपुत्त्रः । इति च महा-
भारतम् । १ । ११७ । ८ ॥) सत्यप्रतिज्ञे, त्रि ॥
यथा, --
“राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्त-
मूर्त्तिं
पृष्ठ ५/२३१
वन्दे लोकाभिरामं रघुकुलतिलकं राघवं राव-
णारिम् ॥”
इति महानाटके १ अङ्कः ।

सत्यसन्धा, स्त्री, (सत्ये सन्धाभिसन्धिर्यस्याः ।)

द्रौपदी । इति शब्दरत्नावली ॥

सत्या, स्त्री, (सत्यमस्त्यस्या इति । सत्य + अच् ।

टाप् ।) सीता । सा च रामपत्नी । सत्यवती ।
सा तु व्यासमाता । इति शब्दरत्नावली ॥
दुर्गा । इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥ (सत्य-
भामा । सा च कृष्णपत्नी । यथा, भागवते ।
१ । १४ । ३७ ।
“यत्पादशुश्रू षणमुख्यकर्म्मणा
सत्यादयो द्ब्यष्ट-सहस्रयोषितः ।
निज्जित्य संख्ये त्रिदशांस्तदाशिषो
हरन्ति वज्रायुधवल्लभोचिताः ॥”
तथा च महाभारते । ३ । २३४ । २ ।
“आरुरुक्षू रथं सत्यामाह्वयामास केशवः ॥”
शंयुपत्नी । यथा, महाभारते । ३ । २१८ । ४ ।
“शंयोरप्रतिमा भार्य्या सत्या सत्याय धर्म्मजा ।
अग्निस्तस्य सुतो दीप्तस्तिस्रः कन्याश्च सुव्रताः ॥”)

सत्याकृतिः, स्त्री, (सत्यस्य आकृतिः करणम् ।

“सत्यादशपथे ।” ५ । ४ । ६६ । इति डाच् ।)
अवश्यं मयैतत् क्रेतव्यमिति सत्यकरणम् । तत्-
पर्य्यायः । सत्यङ्कारः २ सत्यापनम् ३ । इत्य-
मरः ॥

सत्याग्निः, पुं, (सस्यत्य अग्निः ।) अगस्त्यमुनिः ।

इति शब्दरत्नावली ॥

सत्यानृतं, क्ली, बाणिज्यम् । इत्यमरः किञ्चित्

सत्यं किञ्चदसत्यं सत्यसहितमनृतं वा यत्र ।
इति भरतः ॥ (यथा, मनुः । ४ । ६ ।
“सत्यानृतञ्च बाणिज्यं तेन चैवापि जीव्यते ।
सेवा श्ववृत्तिराख्याता तस्मात्तां परिवर्ज्जयेत् ॥”
सत्यञ्चानृतञ्चेति द्वन्द्वे कृते द्विवचनप्रयोगः
स्यात् । यथा, वाजसनेयसंहितायाम् । १९ । ७७ ।
“दृष्ट्वा रूपे व्याकरोत् सत्यानृते प्रजापतिः ॥”)

सत्यापनं, क्ली, (सत्यस्य करणम् । सत्य + सत्याप-

पाशेति । ३ । १ । २५ । इति णिच् आपुक्च
ततो ल्युट् ।) सत्याकृतिः । इत्यमरः ॥

सत्यापना, स्त्री, (सत्यस्य करणम् । सत्य +

सत्यापपाशेति । ३ । १ । २५ । इति णिच्
आपुक् च ततो युच् ।) सत्याकृतिः । इत्यमर-
टीकायां वोपालितः ॥

सत्याद्यः, त्रि, (सत्यस्य वदनम् । वद् + क्यप् ।)

सत्यवादी इति शब्दमाला ॥

सत्र, त् ङ क सम्बन्धे । सन्ततौ । इति कविकल्प-

द्रुमः ॥ (अदन्त-चुरा-आत्म-सक-सेट् ।)
दन्त्यवर्गाद्यमध्यः । सन्ततिर्निर्व्वाहक्रियेति भट्ट-
मल्लः । ङ सत्रयते । सत्रापयते प्रतिज्ञां साधुः ।
सन्ततिर्विस्तारणमिति गोविन्दभट्टः । इति
दुर्गादासः ॥

सत्रं, क्ली, (सत्र्यते संतन्यते इति । सत्र + घञ् ।)

यज्ञविशेषः । यथा, --
“नैमिषेऽनिमिषक्षेत्रे ऋषयः शौनकादयः ।
सत्रं स्वर्गाय लोकाय सहस्रसममासत ॥
कलिमागतमाज्ञाय क्षेत्रेऽस्मिन् वैष्णवे वयम् ।
आसीना दीर्घसत्रेण कथायां सक्षणा हरेः ॥”
इति श्रीभागवते १ स्कन्धे १ अध्यायः ॥

सत्राजित्, पुं, (सत्रेण आजयति लोकानिति ।

ता + जि + क्विप् ।) राजविशेषः । स च
श्रीकृष्णश्वशुरः । सत्यभामापिता । परे शशि-
ध्वजराजश्च बभूव । इति कल्किपुराणे २७
अध्यायः ॥ (त्रि, सन्ततजयशीलः । यथा,
ऋग्वेदे । २ । २१ । १ ।
“सत्राजिते नृजित उर्व्वराजिते ।”
“सत्राजिते सत्रा सन्ततं जयशीलाय ।” इति
तद्भाष्ये सायणः ॥)

सत्रिजातकं, क्ली, (त्रिजातकेन सह वर्त्तमानम् ।)

मांसव्यञ्जनविशेषः । यथा, --
“मांसं बहुघृते भृष्टं सिक्त्वा चोष्णाम्बुना मुहुः ।
जीरकाद्यैः समायुक्तं परिशुष्कं तदुच्यते ।
तदेव घृततक्राढ्यं प्रदिग्धं सत्रिजातकम् ॥”
इति शब्दचन्द्रिका ॥

सत्वरं, क्ली, सह त्वरया वर्त्तते इति । शीघ्रम् ।

इत्यमरः ॥ (यथा, रामायणे । २ । ३९ । १४ ।
“राजा सत्वरमाहूय व्यापृतं वित्तसञ्चये ।
उवाच देशकालज्ञो निश्चितं सर्व्वतः शुचिः ॥”)
तद्वति, त्रि, । इति भरतः ॥ (यथा, मनुः ।
९ । ९४ ।
“त्रिंशद्वर्षो वहेत् कन्यां हृद्यां द्बादशवार्षिकीम्
त्र्यष्टवर्षोऽष्टवर्षां वा धर्मे सीदति सत्वरः ॥”)

सत्सारः, पुं, (सन् सारो यस्य ।) वृक्षविशेषः ।

चित्रकरः । कविः । इति केचित् ॥ उत्तमसार-
युक्ते त्रि ॥
सथुत्कारं, क्ली, अम्बुकृतम् । इति हेमचन्द्रः ॥
थुत्कारेण सह वर्त्तमानञ्च ॥

सदंशकः, पुं, (दंशकेन सह वर्त्तमानः ।) कर्क्कटः ।

इति राजनिर्घण्टः ॥ दंशयुक्ते, त्रि ॥

सदंशवदनः, पुं, (सदंशं दंशाकारसहितं वदनं

यस्य ।) कङ्कपक्षो । इति राजनिर्घण्टः ॥

सदञ्जनं, क्ली, (सत् अञ्जनम् ।) कुसुमाञ्जनम् ।

यथा, --
“रीतिपुष्पं पुष्पकेतुं पौष्पकं कुसुमाञ्जनम् ।
सदञ्जनञ्च चाक्षुष्यं माक्षिकं धातुमाक्षिकम् ॥”
इति शब्दचन्द्रिका ॥

सदन, क्ली, (सीदन्त्यत्रेति । सद् + अधिकरणे

ल्युट् । गृहम् । इत्यमरः ॥ (यथा, रामा-
यणे । २ । ६४ । ३६ ।
तिष्ठ मा मागमः पुत्त्रः यमस्य सदनं प्रति ।
श्वो मया सह गन्तासि जनन्या च समे-
धितः ॥”)
जलम् । इति मेदिनी ॥

सदः, [स्] स्त्री, क्ली, (सीदन्त्यस्यामिति । सद् +

“सर्व्वधातुभ्योऽसुन् ।” उणा० ४ । १८८ । इति
असुन् ।) सभा । इत्यमरः ॥ (यथा, हितोपदेशे ॥
विपदि धैर्य्यमथाभ्युदये क्षमा
सदसि वाक्पटुता युधि विक्रमः ।
यशसि चाभिरुचौ व्यसनं श्रुतौ
प्रकृतिसिद्धमिदं हि महात्मनाम् ॥”)

सदस्यः, पुं, (सदसि साधुः । सदस् + यत् ।)

विधिदर्शी । इत्यमरः ॥ न्यूनातिरिक्ततां विप-
र्य्यासञ्च परिहर्त्तुं विधिं वेदोक्तयज्ञक्रियाकलार्प
द्रष्टं शीलं येषां ते सदस्याः । सदसि साधवः
कारका इतिविकारसंघेत्यादिना यः । इति
भरतः ॥ तस्य नामान्तरं प्रश्नवक्ता । यथा, --
“एकः कर्म्मनियुक्तः स्यात् द्वितीयस्तन्त्रधारकः ।
तृतीयः प्रश्नकं ब्रूयात्ततः कर्म्म समाचरेत् ॥”
कर्म्मनियुक्तः आचार्य्यः स च ब्रह्माङ्गके होम-
कर्म्मणि ब्रह्मा । स्वयं होमाकरणे होतापि ।
स्वयं प्रधानकर्म्माकरणे प्रतिनिधिरपि । तन्त्र-
धारकः पुस्तकधारकः । प्रश्नवक्ता सदस्यः ।
इति संस्कारतत्त्वम् ॥ * ॥ सभ्यः । यथा । सभ्याः
सदस्याः पार्षद्याः सभास्ताराः सभासदः ।
सामाजिका इत्यादि हेमचन्द्रः ॥

सदा, व्य सर्व्वकालः । सर्व्वदा । इत्यमरः ॥ यथा,

“परोपकारनियतः सदा भव महाजन ।”
इतिविष्णुपुराणम् ॥

सदागतिः, पुं, (सदा सर्व्वदा गतिर्यस्य ।) वायुः ।

इत्यमरः ॥ (यथा, महाभारते । १ । ७२ । १ ।
“एवमुक्तस्तया शक्रः सन्दिदेश सदागतिम् ।
प्रातिष्ठत तदा काले मेनका वायुना सह ॥)”
सूर्य्यः । निर्व्वाणम् । सदीश्वरः । इति मेदिनी ॥
(सर्व्वदा गमनशीले, त्रि । यथा, महाभारते ।
३ । १३३ । २५ ।
“चतुविंशतिपर्व्व त्वां षण्णाभि द्वादशप्रधि ।
तत्त्रिषष्टिशतारं वै चक्रं पातु सदागति ॥”)

सदाचारः, पुं, (सतां साधूनामाचारः ।) साधू-

नामाचरणम् । तल्लक्षणादि यथा, --
“सरस्वतीदृशद्वत्योर्देवनद्योर्यदन्तरम् ।
तद्देवनिर्म्मितं देशं ब्रह्मावर्त्तं प्रचक्षते ॥
तस्मिन् देशे य आचारः पारम्पर्य्यक्रमागतः ।
वर्णानां सान्तरालानां सदाचारः स उच्यते ॥”
इति मनुः ॥ * ॥
अन्यच्च ।
और्व्वौवाच ।
“सदाचारेषु राजेन्द्र विशेषान् शृणु संप्रति ।
यानवश्यं नृपः कुर्य्यात्तान्मत्तः सकलान् शृणु ॥
साधवः क्षीणदोषाश्च सच्छब्दः साधुवाचकः ।
तेषामाचरणं यत्तु सदाचारः स उच्यते ॥
आगमेषु पुराणेषु संहितासु यथोदितान् ।
समुद्दिष्टसदाचारांस्तान् गृह्णीयाद्गृहस्थवत् ॥
ऋषीन् यजेद्वेदपाठैर्द्देवान् होमैस्तु पूजयेत् ।
श्राद्धैः पितॄन् यजेदन्नैर्भूतानि बलिभिस्तथा ॥
मैत्रं प्रसाधनं स्नानं दन्तधावनमञ्जनम् ।
सर्व्वं गृहस्थवत् कुर्य्यात् निषेकाद्यं विधिं तथा ॥
षट्कर्म्मसु नियुञ्जीत राजा विप्रान् समन्ततः ।
तथैव क्षत्त्रियादीनि स्वे स्वे कर्म्मणि योजयेत् ॥
पृष्ठ ५/२३२
यः स्वधर्म्मं परित्यज्य परधर्मं समाचरेत् ।
तं शतेन नृपो दण्ड्यः पुनस्तस्मिन्नियोजयेत् ॥
सांवत्सरेषु कृत्येषु विशेष्यैतान् समाचरेत् ।
अवश्यं पार्थिवो राजन् विशेषांस्तु शृणुष्व मे ॥
शरत्काले महाष्टम्यां दुर्गायाः परिपूजनम् ।
नीराजनं दशम्यान्तु कुर्य्याद्वै बलवृद्धये ॥
पौषे मासि तृतीयायां कुर्य्यात् पुष्याभिषेचनम्
पूजयित्वा श्रियं देवीं श्रीपञ्चम्यां नृपश्चरेत् ॥
श्रीयज्ञं धनधान्यस्य वृद्धये नृपसत्तमः ।
ज्यैष्ठे दशहरायान्तु विष्णोरिष्टं समाचरेत् ॥
रवौ हरिस्थे द्वादश्यां शक्रपूजां समाचरेत् ।
विशेष्यैतांस्तु नृपतिः कुर्य्यात् सर्वं बहुव्ययैः ।
एभिः कृतैर्बलं राज्यं कोषश्चापि विवर्द्धते ॥
अकृतेष्वेषु यज्ञेषु दुर्भिक्षं मरकं तथां ।
जायते च नृपस्तस्मादेषु यज्ञं समाचरेत् ॥
शरत्काले महाष्टम्यां दुर्गायाः पूजने विधिः ।
पुरा प्रोक्तस्तु विधिना तेन कार्य्यन्तु पूजनम् ॥”
इति कालिकापुराणे ८६ अध्यायः ॥ * ॥
अपि च ।
“सदाचारे विशेषोऽयं कथितस्तव पार्थिव ! ।
निषेधेषु विशेषांस्तु शृणु येन श्रियेष्यते ॥
असंपूज्य तथा विष्णुं शिवामग्निं पुरन्दरम् ।
अदत्त्वा च तथा दानं न भुञ्जीयान्नृपः क्वचित् ॥
हावयेदग्निहोत्रन्तु नित्यमेव पुरोहितैः ।
अहुत्वा चाग्निहोत्रन्तु भुञ्जन्नरकमाप्नुयात् ॥
नारक्षिते गृहे राजा रत्नर्द्धिपरिवर्ज्जिते ।
स्वपेत्तथा स्त्रिया सार्द्धं न कदाचन संविशेत् ॥
भुक्त्वान्नं श्रीफलं नाद्यात्तथा धात्रीफलं नृपः ।
बुद्धिक्षयकरा एता माष आसवमृत्तिकाः ॥
निम्बाटरूषवृत्ताश्च बुद्धिवृद्धिकरा न ताः ।
बुद्धिवृद्धिहरान्नित्यं त्यजेद्राजा च भोजने ॥
भोजयेदन्वहं वुद्धिवृद्धिहेतुं नृपोत्तमः ।
न पर्य्यायविहीनन्तु प्रारोहेदासनं नृपः ॥
न यानं न गजानश्वमारोहेद्वीक्ष्य ब्राह्मणम् ।
नैकन्तु विचरेद्राजा कदाचिदपि निर्जने ॥
मदहेतुं न भुञ्जीयात् कदाचिदपि भोजने ॥
कदापि नोपसेवेत ह्यष्टम्यां मांसमैथुने ॥
अमास्नानं गयाश्राद्धं तिलैस्तर्पणमेव च ।
न जीवत्पितृको भूपः कुर्य्यात् कृत्वाघमाप्नुयात्
न क्षेत्रजादींस्तनयान् राजा राज्येऽभिषेचयेत् ।
पितॄणां श्राद्धयेन्नित्यमौरसे तनये सति ॥
औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च ।
गूढोत्पन्नोऽपविद्धश्च भागार्हास्तनया इमे ॥
कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा ।
स्वयंदत्तश्च पोष्यश्च षडिमे पुत्त्रपांशुलाः ॥
अभावे पूर्व्व पूर्व्वेषां परान् समभिषेचयेत् ।
पौनर्भवं स्वयं दत्तं दासं राज्ये न योजयेत् ॥
दत्ताद्याश्चापि तनया निजगोत्रेण संस्थिताः ।
आयान्ति पुत्त्रतां सम्यगन्यबीजसमुद्भवाः ॥
पितुर्गोत्रेण यः पुत्त्रः संस्कृतः पृथिवीपते ।
आचूडान्तं न पुत्त्रः सः पुत्त्रतां याति चान्यतः ॥
चूडाद्या यदि संस्कारा निजगोत्रेण वैकृताः ।
दत्ताद्यास्तनयास्ते स्युरन्यथा दास उच्यते ॥
ऊर्द्ध्वन्तु पञ्चमाद्वर्षद्दत्ताद्याश्च सुता नृप ।
गृहीत्वा पञ्चवर्षीयं पुत्त्रेष्टिं प्रथमं चरेत् ॥
पौनर्भवन्तु तनयं जातमात्रं समानयेत् ।
कृत्वा पौनर्भवं स्तोमं जातमात्रस्य तस्य वै ॥
सर्व्वांस्तु कुर्य्यात् संस्कारान्जातकर्म्मादिकान्नरः
कृते पुनर्भवस्तोमे सुतः पौनर्भवस्तथा ॥
एकोद्दिष्टं पितुः कुर्य्यान्न श्राद्धं पार्व्वणादिकम्
क्रीताद्या वनिता मूल्यैः सा दासीति निगद्यते ॥
तस्यां यो जायते पुत्त्रो दासः पुत्त्रस्तु स स्मृतः ।
न राज्ञो राज्यभाक् स्याद्विपुलानपि श्राद्धकृत् ।
अधमः सर्व्वपुत्त्रेभ्यस्तं तस्मात् परिवर्जयेत् ॥
पुराणधर्म्मशास्त्राणि संहिताञ्च मुनीरिताम् ।
नाध्यापयेन्नृपः शूद्रैर्व्विहितान्यत् यदृच्छया ॥
यस्य राज्ये सदा शूद्राः पुराणं संहितां तथा ।
पठन्ति स्यान्महीनाशो राजा राष्ट्रेण सान्वयः ।
मोहाद्वा कामतः शूद्रः पुराणं संहितां
स्मृतिम् ।
पठन्नरकमाप्नोति पितृभिः सह पापकृत् ॥
शूद्रोक्त्या विहितं यच्च यच्च मन्त्र उदाहृतः ।
तद्द्वयं विप्रवदानाद्ग्राह्यं शूद्रैः सदैव हि ॥
न योजयेन्नृपः शूद्रं व्यवहारस्य दर्शने ।
नियोज्य तत्र तं भूप ! तामिस्रे तेन पच्यते ।
हीनायुश्च भवेल्लोको राजा चापि सहान्वयः ॥
काणं व्यङ्गमन्धपुत्त्रं वानभिज्ञमजितेन्द्रियम् ।
न ह्रस्वं व्याधितं वापि नृपः कुर्य्यात्पुरोहितम् ॥
कृपणस्य धनं राजा न गृह्णीयात् कदाचन ।
न द्विजानां तथा दद्याद्धनानि विपुलान्यपि ॥
नारोहेत् कामुकोन्मत्तं गजं राजा कदाचन ।
आरुह्य कामुकं तन्तु परत्रेह विषीदति ॥
अनायुष्यं न कुर्य्यात्तु कर्म्म भूपः कदाचन ।
सततं आयुषो वृद्ध्यै यतेत सकलैर्बलैः ॥
न क्रूरवारे नाष्टम्यां न षष्ठ्यां नृपसत्तमः ।
अञ्जनाभ्यञ्जने कुर्य्यात्ताम्बूलस्यापि भोजनम् ॥
अतिसूक्ष्मं तथा पूर्णं ग्रहणं चन्द्रसूर्य्ययोः ।
नालोकयेत् स्वयं राजा रक्तं सूर्य्यं तथैव च ॥
उत्पातं जायते यत्तु दिव्यं भौमञ्च नाभसम् ।
नेक्षेत यत्नान्नृपतिर्दृष्ट्वा नाद्यात् त्र्यहं पनः ॥
सर्व्वदा मङ्गलं रत्नं धारयेत् सह दूर्व्वया ।
अवस्त्राच्छादितं गात्रं न विप्रेभ्यः प्रदर्शयेत् ॥
न तोये स्वं मुखं पश्ये न्नाद्यान्मांसानि पर्व्वसु ।
नारोहेत खरं चोष्ट्रं न वामीमपि गुर्व्विणीम् ॥
एवं नययुतो राजा चतुरङ्गं विवर्द्धयन् ।
आत्सानं सततं रक्षन् सदा वीर्य्यं विवर्द्धयेत् ॥
बीजक्षयकरं नित्यं भक्ष्यं भोज्यञ्च पानकम् ।
वर्ज्जयेत् क्षारशाकाद्यानत्यम्बु बहुतिक्तकम् ॥
कांस्यराजतरङ्गस्थं तोयं पानेऽप्यवर्द्धनम् ।
मूत्रवृद्धिकरं बीजक्षयकारि विवर्ज्जयेत् ॥
ताम्रायःस्वर्णसीसानां पात्रस्थं फलचर्म्मणोः ।
शुक्रवृद्धिकरं तोयं तदुपासीत यत्नतः ॥
सर्व्वमूलेषु कृत्येषु सदाचारेखनुष्ठितः ।
भुक्त्वेह विविधान् भोगानैन्द्रं स्थानं व्रजेत् परे ॥
श्रीमार्कण्डेय उवाच ।
एवमौर्व्वस्तु सगरं शशास मुनिपुङ्गवः ।
शास्त्राणि चैव सर्व्वाणि सदाचारान् संगुह्य-
कान् ।
बहुशः कथयामास सगराय महात्मने ॥
तन्नास्ति यत् पुरौर्व्वेण कथितं सगराय न ।
राजनीतिः सतां नीतिर्यच्चान्यच्छास्त्रसम्भवम् ॥
संहितासु पुराणेषु यच्चागमचये स्थितम् ।
सर्व्वं शुश्राव सगरो मुखादौर्व्वस्य धीमतः ॥
तेषान्तु कथितं किञ्चिदुद्धृत्य द्विजसत्तमाः ।
विष्णुधर्म्मोत्तरे पूर्वं मया रहसि भारते ॥
राजनीतिं सदाचारं वेदवेदाङ्गसङ्गतम् ।
रहस्यं सततं विष्णोर्वीक्षध्वं द्विजसत्तमाः ॥
यच्चानुदितमन्यत्र गदितं वा ससंशयम् ।
संशयच्छेदनं तेषु युष्मभ्यं कथितं त्विदम् ॥
अनुक्तं संशयच्छेदि पुराणं कालिकाह्वयम् ।
योऽभ्यसेत् सततं विप्रः स वेदानां फलं लभेत् ॥”
इति श्रीकाकिपुराणे ८९ अध्याये राजनीति-
सदाचारादिकं समाप्तम् ॥ * ॥ अन्यच्च ।
ऋषय ऊचुः ।
“सदाचारो निगदितस्तव योऽस्माभिरादरात् ।
लक्षणं तस्य वक्ष्यामस्तच्छृणुष्व निशाचर ॥
गृहस्थेन सदा कार्य्यमाचारपरिपालनम् ।
न ह्याचारविहीनस्य भद्रमत्र परत्र च ॥
यज्ञदानतपांसीह पुरुषस्य न भूतये ।
भवन्ति यः समुल्लङ्घ्य सदाचारं प्रवर्त्तते ॥
दुराचारो हि पुरुषो नेह नामुत्र नन्दति ।
कार्य्यो यत्नः सदाचारे आचारो हन्त्यलक्षणम् ॥
तस्य स्वरूपं वक्ष्यामः सदाचारस्य राक्षस ।
शृणुष्वैकमनास्त्वञ्च यदि श्रेयो हि वाञ्छसि ॥
धर्म्मोऽस्य मूलं धनमस्य शाखा
पुष्पञ्च कामः फलमस्य मोक्षः ।
असौ सदाचारतरुः सुकेशिन्
संसेवितो येन स पुण्यभोक्ता ॥
ब्राह्मे मुहुर्त्ते प्रथमे विबुध्ये
दनुस्मरेद्देववरं महर्षीन् ।
प्राभातिकं मङ्गलमेव वाक्यं
यदुक्तवान् देवपतिस्त्रिनेत्रः ॥
सुकेशी उवाच ।
किं तदुक्तं सुप्रभातं शङ्करेण महात्मना ।
प्रभाते यत् पठन् मर्त्यो मुच्यते पापबन्धनात् ॥
ऋषय ऊचुः ।
श्रूयतां राक्षसश्रेष्ठ सुप्रभात हरोदितम् ।
श्रुत्वा स्मृत्वा पठित्वा च सर्व्वपापैः प्रमुच्यते ॥
ब्रह्मा मुरारिस्त्रिपुरान्तकारी
भानुः शशी भूमिसुतो बुधश्च ।
गुरुः सशुक्रः सह भानुजेन
कुर्व्वन्तु सर्व्वे मम सुप्रभातम् ॥
भृगुर्वशिष्ठः क्रतुरङ्गिराश्च
मनुः पुलस्त्यः पुलहः सगोतमः ।
रैभ्यो मरीचिश्च्यवनो रिभुश्च
कुर्व्वन्तु सर्व्वे मम सुप्रभातम् ॥
पृष्ठ ५/२३३
सनत्कुमारः सनकः सनन्दनः
सनातनोऽप्यासुरिपिङ्गलौ च ।
सप्तस्वराः सप्त रसातलाश्च
कुर्व्वन्तु सर्व्वे मम सुप्रभातम् ॥
पृथ्वी सुगन्धा सरसास्तथापः
सस्यर्शवायुर्ज्वलितञ्च तेजः ।
नभः सशब्दं महता सहैव
कुर्व्वन्तु सर्व्वे मम सुप्रभातम् ॥
सप्तार्णवाः सप्त कुलाचलाश्च
सप्तर्षयो द्वीपवराश्च सप्त ।
भूरादि कृत्वा भुवनानि सप्त
कुर्व्वन्तु सर्व्वे मम सुप्रभातम् ॥
इत्थं प्रभाते परमं पवित्रं
यः संस्मरेद्वा शृणुयाच्च भक्त्या ।
दुःस्वप्ननाशो ननु सुप्रभाते
भवेच्च सत्यं भगवत्प्रसादात् ॥
ततः समुत्थाय विचिन्तयेच्च
धर्मं तथार्थञ्च विहाय शय्याम् ।
उत्थाय पश्चाद्धरिरित्युदीर्य्य
गच्छेत्तदोत्सर्गविधिं हि क्वर्त्तुम् ॥
न देवगोब्राह्मणवह्निमार्गे
न राजमार्गे न चतुष्पथे च ।
कुर्य्याद्यथोत्सर्गमपीह गोष्ठे
प्रच्छाद्य शीर्षं मुखनासिकञ्च ॥
ततश्च शौचार्थमुपाहरेन्मृदं
गुदे त्रयं पाणितले च सप्त ।
तथोभयोः पञ्च चतुस्तथैकां
लिङ्गे तथैकां मृदमाहरेच्च ॥
नान्तर्ज्जलाद्राक्षसमूषिकस्थला-
न्न चावशिष्टा सदनादिभग्ना ।
वल्मीकमृच्चैव हि शौचनाय
ग्राह्या सराचारविदा नरेण ।
उदङ्मुखः क्षाल्य पदौ भुविस्थः
समाचमेदद्भिरफेनिलाभिः ।
आचम्य च त्रिः परिमृज्य च द्वि-
स्ततः स्पृशेच्चात्मशिरः करेण ॥
सन्ध्यां स निर्वर्त्त्य ततः क्रमेण
केशांश्च संशोध्य च दन्तधावनम् ।
कृत्वा तथा दर्पणदर्शनञ्च
कृत्वा शिरःस्नानमथाह्निकञ्च ॥
संपूज्य तोयेन पितॄन् सदेवान्
होमञ्च कृत्वालभनं शुभानाम् ।
कृत्वा बहिर्निर्गमणं प्रशस्तं
दूर्व्वां दधि सर्पिरथोदकुम्भम् ॥
धेनुं सवत्सां वृषभं सुवर्णं
मृद्गोमयं स्वस्तिकमक्षतानि ।
लाजा मधु ब्राह्मणकन्यकाश्च
श्वेतानि पुप्पाण्यथ शोभनानि ॥
हुताशनं चन्दनमर्कविम्ब-
मश्वत्थवृक्षञ्च समालभेत ।
ततस्तु कुर्य्यान्निजजातिधर्म्मं
देशानुशिष्टं कुलधर्म्ममग्र्यम् ॥
स्वगोत्रधर्म्मं न हि सन्त्यजेत
तेनापि सिद्धिं समुपाचरेत ।
नासत्प्रलापं न च सत्यहीनं
न निष्ठुरं नागमशास्त्रहीनम् ॥
वाक्यं वदेत् साधुजनेन येन
निन्द्यो भवेन्नैव च धर्म्मभेदी ।
सङ्गं न चासत्सु जनेषु कुर्य्यात्
सन्ध्यासु भक्ष्यं सुरतं दिवा च ।
सर्व्वासु योनीषु पराबलासु
रजस्वलास्वेव जलेषु धीरः ॥
वृथाटनं वृथादानं वृथा च पशुमारणम् ।
न कर्त्तव्यं गृहस्थेन वृथा दारपरिग्रहम् ॥
वृथाटनान्नित्यहानिर्वृथादानाद्धनक्षयः ।
वृथापशुघ्नः प्राप्नोति घातनान्नरकं महत् ॥
सन्तत्या हानिरश्लाघ्या वर्णसङ्करतो भयम् ।
भेतव्यञ्च भवेल्लोके वृथादारपरिग्रहात् ॥
परस्वे परदारे च न कार्य्या बुद्धिरुत्तमैः ।
परस्वं नरकायैव परदाराश्च मृत्यवे ॥
नेक्षेत् परस्त्रियं नग्नां न सम्भाषेच्च तस्करान् ।
उदक्त्या दर्शनं स्पर्शं सम्भाषाञ्च विवर्जयेत् ॥
नैकासने तथा स्थेयं सुन्दर्य्या परजायया ।
तथैव् अस्यान्न मातुश्च तथैव दुहितुस्त्वपि ॥
न भार्य्या वीक्ष्यते नग्ना पुरुषेण कदाचन ।
न च स्नायीत वै नग्नो न शयीत कदाचने ॥
दिग्वाससोऽपि न तथा परिभ्रमणमिष्यते ।
भिन्नासनं भाजनादीन् दूरतः परिवर्जयेत् ॥
नन्दासु नाभ्यङ्गमुपाचरेत
क्षौरञ्च रिक्तासु जयासु माषम् ।
पूर्णासु योषित् परिवर्जनीया
भद्रासु सर्व्वाणि समालभेत ॥
नाभ्यङ्गमर्के न च भूमिपुत्त्रे
क्षौरञ्च शुक्रे रविजे च मांसम् ।
बुधेषु योषिन्न समाचरेत
शेषेषु सर्व्वाणि सदैव कुर्य्यात् ॥
चित्रासु हस्ते श्रवणेषु तैलं ।
क्षौरं विशाखास्वभिजित्सु वर्ज्यम् ।
मूले मृगे भाद्रपदासु मांसं
यौषिन्मघाकृत्तिकयोत्तरासु ॥
सदैव वर्ज्यं शयने ह्युदक्शिर-
स्तथा प्रतीच्यां रजनीचरेश ।
भुञ्जीत नैवेह च दक्षिणामुखो
न च प्रतीचीममिभोजनीयम् ॥
देवालयं चैत्यतरुं चतुष्पथं
विद्याधिकञ्चापि गुरुं प्रदक्षिणम् ।
कुर्य्यान्न वामं गमने च धीमान्
द्विजान् मृगान् गाश्च निशाचरेश ॥
माल्यानुलेपं वसनानि यत्नतो
नान्यैर्धृतान्येव हि धारयेत ।
स्नायाच्छिरःस्नानतया च नित्यं
निष्कारणं चैव विना निशामु ॥
ग्रहोपरागे स्वजनामिघाते
मुक्ता च जन्मर्क्षगते शशाङ्के ।
नाव्यङ्गितं कायमुपस्पृशेच्च
स्नातो न केशान् विधुनीत चापि ॥
गात्राणि चैवाम्बरपाणिना च
स्नातोऽवमृज्यद्रजनीचरेश ।
वसेच्च देशेषु सुराजकेषु
सुसंहितस्वीयजनेषु नित्यम् ॥
अक्रोधना न्यायपरा अमत्सराः
कृषीबला ह्यौषधिजातयश्च ।
न तेषु देशेषु वसेच्च बुद्धिमान्
यस्मिन्नृपो दण्डरुचिस्त्वशक्तः ।
जनोऽपि नित्योत्सवबद्धवैरः
सदा जिगीषुश्च निशाचरेन्द्र ॥
ऋचय ऊचुः ।
यन्न भोज्यं महाबाहो सदा धर्म्मस्थितैर्नरैः ।
यद्भोज्यञ्च समुद्दिष्टं कथयिष्यामहे वयम् ।
त्यज्यमन्नं पर्य्युषितं स्नेहाक्तं चिरसंभृतम् ।
अस्नेहा व्रीहयः श्लक्ष्णा विकाराः पायसा-
स्तथा ॥
शशकः शल्लको गोधा तथा खङ्गी च कच्छपः ।
तद्वद्द्विदलकादीनि भोज्यानि मनुरब्रवीत् ॥
मणिवस्त्रप्रबालानां तद्वन्मुक्ताफलस्ये च ।
शैलदारुमयानाञ्च तृणगुल्मौषधस्य च ॥
शाकधान्याजिनानाञ्च संहतानाञ्च वाससाम् ।
बल्कलानामशेषाणामम्बुना शुद्धिरिष्यते ॥
सस्नेहानामयोष्णेन तिलकल्केन चाविकम् ।
कार्पासिकानां वस्त्राणां शुद्धिः स्यात् सह
भस्मना ॥
नागदन्तास्थिशृङ्गाणां तक्षणाच्छुद्धिरिष्यत ।
पुनःपाकेन भाण्डानां मृण्मयानाञ्च शुद्धता ॥
शुद्धं भैक्ष्यं कारुहस्तः पुण्यं योषिन्मुखं तथा ।
रथ्यागतमविज्ञातं दासवर्गेण यत् कृतम् ॥
वाक्यपूतं चिरानीतमनेकान्तरितं लघु ।
चेष्टितं बालवृद्धानां बालस्य तु मुखं शुचि ॥
म्लेच्छानामपि गोशाला स्तनन्धयसुता स्त्रियः ।
वाग्विप्रुषो द्विजेन्द्राणां पाठे वागम्बुबिन्दवः ॥
भूमिर्व्विशुध्यते खातदाहगोक्रमसेचनैः ।
लेपादुल्लेखनात् सेकात् वेश्मसम्मार्ज्जनाज्जलात् ॥
केशकीटावपन्नेऽन्ने गोघ्राते मक्षिकान्विते ।
मृद्वारिभस्मक्षाराणि प्रक्षेप्तव्यानि शुद्धये ॥
उडुम्बराणाञ्चाम्लेन क्षारेण त्रपुसीसयोः ।
कांस्यानां भस्मना शुद्धिस्तोयाच्छुद्धिर्द्रवस्य च ॥
अमेध्याक्तस्य मृत्तोयैर्गन्धापहरणेन च ।
अन्येषामपि तद्द्रव्ये शुद्धिर्गन्धावहारतः ॥
मातुः प्रसवने वत्सः शकुनिः फलपातने ।
गर्द्दभो भारहारित्वे श्वा मृगग्रहणे शुचिः ॥
रथ्याकर्द्दमतोयानि गावः पथि तृणानि च ।
मारुतेनैव शुध्यन्ति पक्वेष्टकचितानि च ॥
शृतं द्रोणाढकस्यान्नममेध्याभिप्लुतं भवेत् ।
अग्रमुद्धृत्य सन्त्येज्यं शेषस्य प्रोक्षणं स्मृतम् ॥
उपवासं त्रिरात्रं वा दूषितान्नस्य भोजने ।
अज्ञाते ज्ञातपूर्व्वे च नैव शुद्धिर्व्विधीयते ॥
उदक्याश्च तु नग्नाश्च सूतिकान्तावशायिनः ।
पृष्ठ ५/२३४
स्पृष्ट्वा स्नायीत शौचार्थं तथैव मृतहारिणः ॥
सस्नेहमस्थि संस्पृश्य सवासाः स्नानमाचरेत् ।
आलभ्यैव तु निस्नेहं गामालभ्यार्कमीक्ष्य च ॥
न लङ्घयेत् नरं कृष्णवर्त्मानं दुर्ब्बलं तथा ।
गृहादुच्छिष्टविण्मूत्रपादाद्भांसि क्षिपेद्वहिः ॥
पञ्चपिण्डाननुद्धृत्य न स्नायात् परवारिणि ।
स्नायीत देवखातेषु सरोह्रदसरित्सु च ॥
नोद्यानादौ विकालेषु प्राज्ञस्तिष्ठेत् कदाचन ।
नालपेज्जनविद्विष्टं वीरहीनां तथा स्त्रियाम् ॥
देवतापितृसच्छास्त्रयज्ञसत्रादिनिन्दकैः ।
कृत्वा तु स्पर्शनालापं शुध्यतेऽर्कावलोकनात् ॥
अभोज्याः सूतिकाषण्ढमार्ज्याराखुश्वकुक्वुटाः
पतितापविद्धनग्नाश्च चाण्डालाश्चाधमाश्च ये ॥
सुकेशी उवाच ।
भवद्भिः कीर्त्तिता भोज्या य एते सूतिकादयः ।
अमीषां श्रोतुमिच्छामि तत्त्वतो लक्षणानि च ॥
ऋषय ऊचुः ।
ब्राह्मणी ब्राह्मणश्चैव यावच्छेषत्वमागतौ ।
ताबभौ सूतिकेत्युक्तौ तयोरन्नं विगर्हितम् ॥
न जुहोत्युचिते काले न स्नाति च ददाति च ।
पितृदेवार्च्चनाद्धीनः स षण्ढः परिगीयते ॥
दम्भार्थं जपते यश्च तप्यते यजते तथा ।
न परत्रार्थमुद्युक्तो मार्ज्जारः परिकीर्त्तितः ॥
विभवे सति नैवात्ति न ददाति जुहोति च ।
तमाहुराखुं तस्यान्नं भुक्त्वा कृच्छ्रेण शुध्यति ॥
सभागतानां यः सभ्यः पक्षपातं समाश्रयेत् ।
तामाहुः कुक्कुटं देवास्तस्याप्यन्नं विगर्हितम् ॥
स्वधर्म्मं यः समुत्सृज्य परधर्म्मं समाचरेत् ।
अनापदि स विद्वद्भिः पतितः परिकीर्त्त्यते ॥
वेदत्यागी पितृत्यामी गुरुवह्न्युह्यकस्तथा ।
गोब्राह्मणस्त्रीवधकृदपविद्धः स उच्यते ॥
येषां कुले न वेदोऽस्ति न शास्त्रं नैव च व्रतम् ।
ते नग्नाः कीर्त्तिताः सद्भिस्तेषामन्नं विगर्हितम् ॥
आशार्त्तानामदाता च दातुश्च प्रतिषेधकः ।
शरणागतं यस्त्यजति स चाण्डालाधमो नरः ॥
यो बान्धवैः परित्यक्तः साधुभिर्ब्राह्मणैरपि ।
कुण्डाशी यश्च अस्यान्नं भुक्त्वा चान्द्रायणं चरेत् ॥
यो नित्यकर्म्मणो हानिं कुर्य्यान्नैमित्तिकस्य च ।
भुक्त्वान्नं तस्य शुध्येत त्रिरात्रोपोषितो नरः ॥
नित्यस्य कर्म्मणो हानिः केवलं मृतजन्मसु ।
न तु नैमित्तिकोच्छेदः कर्त्तव्यो हि कथञ्चन ॥
जाते पुत्त्रे पितुः स्नानं सचेलस्य विधीयते ।
मृते च सर्व्वबन्धूनामित्याह भगवान् भृगुः ॥
प्रेताय सलिलं देयं बहिर्द्दग्ध्वा तु गोत्रजैः ।
प्रथमेऽह्नि चतुर्थे वा सप्तमे वास्थिसञ्चयम् ॥
ऊर्द्ध्वं सञ्चयनात्तेषामङ्गस्पर्शो विधीयते ।
सोदकैस्तु क्रिया कार्य्या अशुद्धैस्तु सपिण्डकैः ॥
विषोद्वन्धनशस्त्राम्बुवह्निपातमृतेषु च ।
तथा गृहीतसन्न्यासे देशान्तरमृते तथा ॥
मद्यःशौचं भवेद्विद्वन् तच्चाप्युक्तं चतुर्व्विधम् ।
गर्भम्रावे तदेवोक्तं पूर्णकाले न वै चरेत् ॥
ब्राह्मणानामहोरात्रं क्षत्त्रियाणां दिनत्रयम् ।
षड्रात्रं चैव वैश्यस्य शूद्राणां द्वादशाह्निकम् ॥
दशद्वादशमासार्द्धं माससंख्यादिनैश्च तैः ।
स्नात्वा कर्म्मक्रियाः कुर्य्युः सर्व्वे वर्णा यथाक्रमम् ॥
प्रेतमुद्दिश्य कर्त्तव्यमेकोद्दिष्टं विधानतः ।
सपिण्डीकरणं कार्य्यं प्रेतस्य वत्सरान्तरैः ॥
ततः पितृत्वमापन्ने दर्शपौर्णादिभिः शुभैः ।
प्रीणनन्तस्य कर्त्तव्यं यथाश्रुतिनिदर्शनम् ॥
पितुरर्थं समुद्दिश्य भूमिकोषादिकञ्च यत् ।
कुर्य्याद्येनास्य सुप्रीता पितरो यान्ति राक्षस ॥
यद्यदिष्टनमं किञ्चित् यच्चास्य दयितं गृहे ।
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ॥
अध्येतव्या त्रयी नित्यं भाव्यञ्च विदुषा सदा ।
धर्म्मतो धनमाहार्य्यं यष्टव्यञ्चापि शक्तितः ॥
आचारं कुर्व्वतो नात्मा जुगुप्सामेति राक्षस ।
तत् कर्त्तव्यमशङ्केन यत्न गोप्यं महाजने ॥
एवमाचर्तो लोके पुरुषस्य गृहे सतः ।
धर्म्मार्थकामसंप्राप्तिः परत्रेह च शोभना ॥
एष तूद्देशतः प्रोक्तो गृहस्थाश्रम उत्तमः ॥ * ॥
वानप्रस्थाश्रमं धर्म्मं ते वक्ष्यामोऽवधार्य्यताम् ।
अपत्यसन्ततिं दृष्ट्वा प्राज्ञो देहस्य चायतिम् ।
वानप्रस्थाश्रमं गच्छेदात्मनः शुद्धिकारणम् ॥
तत्रारण्योपभोगेन तपोभिश्चात्मकर्षणम् ।
भूमौ शय्या ब्रह्मचर्य्यं पितृदेवातिथिक्रिया ॥
होमस्त्रिसवनस्नानं जटावल्कलधारणम् ।
वन्यस्नेहनिषेवित्वं वानप्रस्थविधिस्त्वयम् ॥ * ॥
सर्व्वसङ्गपरित्यागो ब्रह्मचर्य्यममानिता ।
जितेन्द्रियत्वमावासे नैकस्मिन् वसते चिरम् ॥
अनारम्भस्तथाहारे भिक्षा विप्रे ह्यनिन्दिते ।
आत्मज्ञानं विवेकश्च तथाह्यात्मावबोधनम् ॥
चतुर्थे चाश्रमे धर्म्मा ह्यस्माभिस्ते प्रकीर्त्तिताः ॥
वर्णधर्म्माणि चान्यानि निशामय निशाचर ॥
गार्हस्थ्यं ब्रह्मचर्य्यञ्च वानप्रस्थं त्रयाश्रमाः ।
क्षत्त्रियस्यापि गदिता य आचारो द्विजस्य हि ॥
वैखानसत्वं गार्हस्थ्यमाश्रमद्वितयं विशः ।
गार्हस्थमुत्तमं त्वेकं शूद्रस्य क्षणदाचर ॥
स्वानि वर्णाश्रमोक्तानि धर्म्माणीह न हापयेत् ।
यो हापयति तस्यासौ परिकुप्यति भास्करः ॥
कुपितः कुलनाशाय देहरोगविवृर्द्धये ।
वर्ष्माशु पतते तस्य नरस्य क्षणदाचर ॥
तस्मात् स्वधर्म्मं न हि संत्यजेत
न हापयेच्चापि तथात्सवंशम् ।
यः संत्यजेच्चापि निजं हि धर्मं
तस्मै प्रकुप्येत दिवाकरश्च ॥
पुलस्त्य उवाच ।
इत्येवमुक्तो मुनिभिः सुकेशी
प्रणम्य तान् ब्रह्मऋषीन्महर्षीन् ।
जगाम चोत्पत्य पुरं स्वकीयं
मुहुर्मुहुर्धर्म्ममवेक्षमाणः ॥”
इति श्रीवामनपुराणे १४ अध्यायः ॥ * ॥
अन्यत् पाद्मे स्वर्गखण्डे २९ । ३० । ३१ अध्या-
येषु विष्णुपुराणे ३ अंशे ११ अध्याये मार्कण्डेय-
पुराणे सदाचारनामाध्याये चालोकनीयम् ।
(सन् साधुराचारो यस्य । सदाचारणशीले,
त्रि । यथा, कथासरित्सागरे । २ । ७ ।
“कात्थायनो जगादैनमुपविष्टः क्षणान्तरे ।
सदाचारो भवानेवं कथमेतां गतिं गता ॥”)

सदाचारवान्, [त्] त्रि, सदाचारविशिष्टः । सदा-

चारी । सदाचारशब्दादस्त्यर्थे वतुप्रत्यय-
निष्पन्नः ॥ (यथा, मनुः । ४ । १५८ ।
“सर्व्वलक्षणहीनोऽपि यः सदाचारवान् नरः ।
श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति ॥”
सदातनः, पुं, (सदा भवः । सदा + सायंचिर-
मिति । ४ । ३ । २३ । इति ट्यट्युलौ तुट्
च ।) विष्णुः । इति त्रिकाण्डशेषः ॥ नित्ये, त्रि ।
इत्यमरः ॥ (यथा, भट्टिः । ५ । ६५ ।
“सायन्तनीं तिथिप्रण्यः पङ्कजानां दिवातनीम् ।
कान्तिं कान्त्या सदातन्या ह्रेपयन्ती शुचि-
स्मिता ॥”)

सदातोया, स्त्री, (सदा तोयं यत्र ।) एलापर्णी ।

इति शब्दचन्द्रिका ॥ करतोया । इति सदा-
नीराशब्ददर्शनात् ॥

सदादानः, पुं, (सदा दानं मदजलं यस्य ।) ऐरा-

वतः । गणेशः । मत्तहस्ती । इति मेदिनी ॥
नित्यदाने, क्ली ॥

सदानन्दः, पुं, (सदा आनन्दो यस्य ।) शिवः ।

यथा, --
“सदाशिवः सदाकर्त्ता सदाहर्त्ता सदागतिः ।
सदानन्दः सदावर्त्ता सदासङ्गविवर्ज्जितः ॥”
इति श्रीशिवयामले पार्व्व तीश्वरसंवादे शिव-
सहस्रनामस्तोत्रम् ॥ सतताह्णादयुक्ते, त्रि । यथा,
“ममानन्दे सदानन्दः सदानन्दो भविष्यति ।
ममानन्दे निरानन्दो निरानन्दो भविष्यति ॥”
इति पुराणे भगवतीवाक्यम् ॥

सदानर्त्तः, पुं, (सदा नृत्यतीति । नृत् + अच् ।)

खञ्जनपक्षी । इति शब्दचन्द्रिका ॥ सर्व्वदा-
नृत्यकारके, त्रि ॥

सदानीरवहा, स्त्री, (वहतीति । वह + अच् । सदा

सर्व्वदा नीरस्य वहा ।) करतोया नदी । इति
शब्दरत्नावली ॥

सदानीरा, स्त्री, (सदा नीरं यस्याः ।) करतोया

नदी । इत्यमरः ॥ गौरीविवाहसयये शङ्कर-
करगलितसम्प्रदानतोयप्रभवत्वात् करस्य तोयं
विद्यते अत्रेति करतोया अर्श आदित्वादः ।
श्रावणे एतद्वर्ज्जं सर्व्वा नद्यो रजस्वला इयन्तु
न रजस्वला । अतएव सदा सर्व्वदा नीरमस्या
इति सदानीरा । तथा च स्मृतिः ।
“अथादौ कर्क्कटे देवी त्र्यहं गङ्गा रजस्वला ।
सर्व्वा रक्तवहा नद्यः करतोयाम्बुवाहिनी ॥”
इति भरतः ॥
(यथा, महाभारते । २ । २० । २७ ।
“गण्डकीञ्च सदानीरां शर्करावर्त्तमेव च ।
एकपर्व्वतके नद्यः क्रमेनैत्याव्रजन्तु ते ॥”
निरन्तरजलपूर्णे अश्रुजलपूर्णे च त्रि । यथा,
आर्य्यासप्तशत्याम् । २२४ ।
पृष्ठ ५/२३५
“चिरपथिकद्राघिममिलदलकलताशै-
बलावलिग्रथिता ।
करतोयेव मृगाक्ष्या दृष्टिरिदानीं सदानीरा ॥”)

सदापुष्पः, पुं, (सदा पुष्पं यस्य ।) नारिकेलवृक्षः ।

इति शब्दमाला ॥ सर्व्वदाकुसुमयुक्ते, त्रि ॥
(यथा, महाभारते । १४ । ३५ । २०-२२ ।
“अव्यक्तबीजप्रभवो बुद्धिस्कन्धमयो महान् ।
महाहङ्कारविटप इन्द्रियाङ्कुरकोटरः ॥
महाभूतविशेषश्च विशेषप्रतिशाखवान् ।
सदापर्णः सदापुष्पः सदाशुभफलोदयः ॥
आजीवः सर्व्वभूतानां ब्रह्मबीजः सनातनः ।
एतज्ज्ञात्वा च तत्त्वानि ज्ञानेन परमासिना ॥
छित्त्वा चामरतां प्राप्य जहाति मृत्युजन्मनी ॥”

सदापुष्पी, स्त्री, (सदा पुष्पं यस्याः । ङीष् ।)

रक्तार्कवृक्षः । इति रत्नमाला ॥

सदाप्रसूनः, पुं, (सदा प्रसूनं यस्य ।) रोहितकः ।

अर्कः । कुन्दः । इति राजनिर्घण्टः ॥

सदाफलः, पुं, (सदा फलमस्य ।) स्कन्धफलः ।

नारिकेलः । उडम्बरः । इति मेदिनी ॥ विल्वः ।
इति जटाधरः ॥

सदाफला, स्त्री, (सदा फलं यस्याः ।) त्रिसन्धि-

पुष्पम् । इति राजनिर्घण्टः ॥ वार्त्ताकुविशेषः ।
सला वेगुन इति कुली वेगुन इति दँको वेगुन
इति च भाषा । अस्या गुणाः ।
“सदाफला त्रिदोषघ्नी रक्तपित्तप्रसादनी ।
कण्डुकच्छूहरी चैव वार्त्ताकीगुणवत्तरा ॥”
इति राजवल्लभः ॥

सदाभद्रा, स्त्री, (सदा भद्रमस्याः ।) गम्भारी-

वृक्षः । इति रत्नमाला ॥

सदायोगी, [न्] पुं, (सदा सर्व्वस्मिन् काले योगी ।

विष्णुः । इति त्रिकाण्डशेषः ॥ हरिशयने मधु-
मांसवर्ज्जनफलभागी । यथा, --
“सदामुनिः सदायोगी मधुमांसस्य वर्जनात् ।
निराधीर्नीरुगोजस्वी विष्णुभक्तश्च जायते ॥”
इति तिष्यादितत्त्वम् ॥

सदृक्, [श्] त्रि, (समान इव दृश्यतेऽसौ ।

समान + दृश् + “समानान्ययोश्चेति वक्तव्यम् ।”
३ । २ । ६० । इत्यस्य वार्त्तिकोक्त्या क्विन् । “दृक्-
दृशवतुषु ।” ६ । ३ । ८९ । इति समानस्य
सः ।) तुल्यम् । इत्यमरः ॥ (यथा, कथा-
सरित्सागरे । ३९ । ८८ ।
“न त्वया सवृगन्योऽस्ति त्रैलोक्येऽपि धनुर्धर”

सदृक्षः, त्रि, (समान इव दृश्यते इति । समान +

दृश + क्सः । समानस्य सादेशः ।) सदृशः ।
इत्यमरः ॥ (यथा, भागवते । ३ । १ । २९ ।
“कश्चिद्धरेः सौम्य सुतः सदृक्ष
आस्तेऽग्रणी रथिनां साधु साम्बः ॥”)

सदृशः, त्रि, (समान इव दृश्यतेऽसौ । समान +

दृश + कञ् । “दृक्दृशवतुषु ।” ६ । ३ । ८९ ।
इति समानस्य सः ।) समः । इत्यमरः ॥
(यथा, रघुः । १ । १५ ।
“आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः ।
आगमैः सदृशारम्भ आरम्भसदृशोदयः ॥”)
उचितः । इति मेदिनी ॥

सदृशस्पन्दनं, क्ली, निष्पन्दः । इति त्रिकाण्डशेषः ॥

सदेशः, त्रि, (देशेन सह वर्त्तमानः ।) निकटः ।

इत्यमरः ॥ देशान्वितः । यथा, --
“सदेशसवेशौ निकटे देशवेशान्वितौ क्रमात् ।”
इति धरणिः ॥

सद्भूतः, त्रि, (सन् भूतः ।) सत्यम् । इति

हेमचन्द्रः ॥ (यथा, हरिवंशे । १४८ । ४४ ।
“तद्भवद्भिर्गुणा चाच्याः प्रद्युम्नस्य महात्मनः ।
सद्भूताः कुलरूपस्य शीलस्य वयसस्तथा ॥”)

सद्म, [न्] क्ली, (सीदन्त्यत्रेति सद + मनिन् ।)

गृहम् । इत्यमरः ॥ (यथा, रघुः । ३ । १९ ।
“न केवलं सद्मनि मागधीपतेः
पथि व्यजृम्भन्त दिवीकसामपि ॥” * ॥
“विशीर्य्यते शिलादिषु पातात् विशीर्य्यन्तेऽनेन
कुड्यादय इति वा । गच्छति वागच्छति निम्नं
गम्यते वा प्राणिभिः । अवसादयति पिपासा-
युक्तं वा । सदॢ विशरणगत्यवसादनेषु +
मनिन् ।” इति निघण्टुटीका । १ । १२ । ६६ ।)
जलम् । इति मेदिनी ॥ (साद्यन्त्ये अवसाद्यन्ते
प्राणिनो यत्रेति । संग्रामः । इति निघण्टुः ।
२ । १७ ॥)

सद्यः, [स्] व्य, (समानेऽहनि इति । “सद्यः

परुत्परार्य्यैषम इति ।” ५ । ३ । २२ । इति
द्यप्रत्ययः समानस्य सभावश्च निपात्यते ।)
तत्क्षणम् । तत्पर्य्यायः । सपदि २ । इत्यमरः ॥
द्वे तत्क्षणे तत्काले । समानेऽह्नि सद्यः कुतः क्व
कुह इत्यादिनानिपातः । सद्यः पतति मांसेन
इति सपदि मुकुलिताक्षीम् । द्बयं दन्त्यादि ।
इति भरतः ॥

सद्यःकृतं, क्ली, (सद्यस्तत्क्षणात् कृतम् ।) नाम ।

इति त्रिकाण्डशेषः ॥ तत्क्षणकृते, त्रि ॥

सद्यःप्राणकरः, त्रि, (सद्यस्तत्क्षणात् प्राणस्य

बलस्य करः ।) तत्क्षणात् बलकारकद्रव्यादिः ।
यथा, चाणक्ये ।
“सद्योमांसं नवान्नञ्च बाला स्त्री क्षीरभोजनम् ।
घृतमुष्णोदकञ्चैव सद्यःप्राणकराणि षट् ॥”

सद्यःप्राणहरः, त्रि, (सद्यः प्राणस्य बलस्य हरः ।

तत्क्षणात् बलायुषार्नाशकद्रव्यादि । यथा, --
“शुष्कं मांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि ।
प्रभाते मैथुनं निद्रा सद्यःप्राणहराणि षट् ॥
इति चाणक्यम् ॥

सद्यःशुद्धिः, स्त्री, (सद्यस्तत्क्षणात् शुद्धिः ।) सद्यः-

शौचम् । यथा, --
“देशान्तरमृते बाले सद्यःशुद्धिर्यतौ मृते ॥”
इति गारुडे १०७ अध्यायः ॥

सद्यःशोथा, स्त्री, (सद्यःशोथो यस्याः । कपि-

कच्छूः । इति शब्दचन्द्रिका ॥

सद्यःशौचं, क्ली, (सद्य एव शौचं शुद्धिः ।) तत्-

क्षणाच्छद्धिः । यथा, --
“शिल्पिनः कारवो वैद्या दासीदासाश्च भृत्यकाः
अग्निमान् श्रोत्रियो राजा सद्यःशौचाः प्रकी-
र्त्तिताः ॥”
इति गारुडे १०७ अध्यायः ॥ * ॥
अन्यच्च ।
“कारवः शिल्पिनो वैद्या दासीदासास्तथैव च ।
दातारो नियमी चेव ब्रह्मविद्व्रह्मचारिणौ ॥
सत्रिणो व्रतिनस्तावत् सद्यःशौचा उदाहृताः ।
राजा चैवाभिषिक्तश्च प्रातः सत्रिण एव च ॥
यज्ञे विवाहकाले च देवयागे तथैव च ।
सद्यःशौचं समाख्यातं दुर्भिक्षे वाप्युपद्रवे ॥
डिम्बाहवहतानाञ्च विद्युता पार्थिवर्द्दिजैः ।
सद्यःशौचं समाख्यातं सजातिमरणे तथा ॥
अग्नौ मरुप्रपतने वीराध्वस्याप्यनाशके ।
ब्राह्मणार्थे च संन्यस्ते सद्यःशौचं विधीयते ॥”
इति कौर्म्मे उपविभागे २२ अध्यायः ॥ * ॥
अपरञ्च । अथ सद्यःशौचम् । तत्र विष्णुः ।
नाशौचं राज्ञां राजकर्म्मणि न व्रतिनां व्रते न
सत्रिणां सत्रे न कारूणां स्वकर्म्मणि न
राजाज्ञाकारिणां तदिच्छया न देवप्रतिष्ठा-
विवाहयोः पूर्व्वसंवृतयोः इति । सत्रिणां
नित्यप्रवृत्तान्नदानानां सत्रे अन्नदाने । कारवः
सूपकाराद्याः । आदिपुराणे ।
“सूपकारेण यत् कर्म्म करणीयं नरेष्विह ।
तदन्यो नैव शक्नोति तस्माच्छुद्धः स सूपकृत् ॥”
कूर्म्मपुराणे ।
“कारवः शिल्पिनो वैद्या दासा दास्यस्तथैव च ।
दातारो नियमी चैव ब्रह्मविद्व्रह्मचारिणौ ।
सत्रिणो व्रतिनस्तावत् सद्यःशौचा उदाहृताः ॥”
आदिपुराणे ।
“शिल्पिनश्चित्रकाराद्याः कर्म्म यत् साधयन्त्युत ।
तत् कर्म्म नान्यो जानाति तस्मात् शुद्धः
स्वकर्म्मणि ॥
दासा दास्यश्च यत् कर्म्म कुर्व्वन्त्यपि च लीलया ।
तदन्यो न क्षमः कर्त्तुं तेन ते शुचयः स्मृताः ॥”
चित्रकराद्यरूपाः शिल्पिनः । आद्यशब्दाच्चेल-
निर्णेजकाद्याः । शातातपः ।
“मूल्यकर्म्मकराः शुद्रा दासा दास्यस्तथैव च ।
स्नाने शरीरसंस्कारे गृहकर्म्मण्यदूषिताः ॥”
स्मृतिः ।
“सद्यःस्पृश्यो गर्भदासो भक्तिदासस्त्र्यहा-
च्छुचिः ॥”
वैद्या अपि चिकित्सायामेव । तथा च स्मृतिः ।
“चिकित्सको यत् कुरुते तदन्येन न शक्यते ।
तस्मात् चिकित्सकः स्पर्शे शुद्धो भवतिनित्यशः ॥”
दातार आवश्यकप्रत्यहं गोभूमिहिरण्यादि-
दाने प्रवृत्ताः । तेषां तद्दान एव । प्रत्यहं
दानञ्च । दातव्यं प्रत्यहं पात्रे इति याज्ञ-
वल्क्यात् । कादाचित्कदानकारिणान्तु दाने
प्रक्रान्ते अशौचं नास्ति तावत् यावत्तत् कर्म्म
कुर्व्वन्ति इति । हारलताप्येवम् । पूर्व्वसङ्कल्पित-
द्रव्यदानेऽपि नाशौचम् । यथा च मिता-
क्षरायाम् ।
पृष्ठ ५/२३६
“पूर्व्वसङ्कल्पितं द्रव्यं दीयमानं न दुष्यति ॥”
इति ॥
आदिपुराणे ।
“निवृत्ते कृच्छ्रहोमादौ ब्राह्मणादिषु भोजने ।
गृहीतनियमस्यापि न स्यादन्यस्य कस्यचित् ॥
निमन्त्रितेषु विप्रेषु प्रारब्धे श्राद्धकर्म्मणि ।
निमन्त्रणाद्धि विप्रस्य स्वाध्यायाद्विरतस्य च ।
देहे पितृषु तिष्ठत्सु नाशौचं विद्यते क्वचित् ॥”
प्राजापत्यादिकृच्छ्रे समाप्ते होमयागजपेषु
समाप्तेषु सम्पूर्णार्थमवश्यं मया ब्राह्मणा
भोजयितष्या इति गृहीतनियमो यस्तस्या-
शौचेऽन्यकुलजातानामपि भुञ्जानानां दोषा-
भावः । कस्यचिद्दातृभोक्त्वोरित्यर्थः । एवं प्रारब्ध-
श्राद्धेऽपि क्वचिदित्यनेन दातृभोक्त्रोरशौचाभावः ।
तथा च विष्णुः ।
“व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्च्चने जपे ।
आरब्धे सूतकं न स्यादनारब्धे तु सूतकम् ॥”
इति ॥
पराशरः ।
“दीक्षितेष्वभिसिक्तेषु व्रततीर्थपरेषु च ।
तपोदानप्रसक्तेषु नाशौचं मृतसूतके ॥”
यजमानां सोमयागाङ्गदीक्षणीयेष्टौ कृतायां
दीक्षितत्वं भवति तेन दीक्षणीयेष्ट्युत्तरकालं
यजमानस्य यत् कर्म्म तत्राशौचं नास्ति ।
अभिषिक्तेषु क्षत्त्रियनृपतिषु । तीर्थं गङ्गादि ।
गुरुरिति कश्चित् ॥ कालमाधवीये कूर्म्मपुरा-
णम् ।
“काम्योपवासे प्रक्रान्ते अन्तरा मृतसूतके ।
तत्र काम्यव्रतं कुर्य्यात् दानार्च्चनविवर्ज्जितम् ॥”
तत्र दानार्च्चनं स्वयं वर्ज्जयेत् अन्यद्वारा तु
कारयेत् । तथा च मत्स्यपुराणम् ।
“गर्भिणी सूतिका नक्तं कुमारी च रजस्वला ।
यदाशुद्धा तदान्येन कारयेत् क्रियते सदा ॥”
उपवासाचरणे गर्भादिपीडासम्भावनायां नक्तं
भोजनं कुर्य्यात् ।
“उपवासेष्वशक्तस्य तदेव फलमिच्छतः ।
अनभ्यासेन रोगाणां किमिष्टं व्रतमुच्यताम् ॥”
इति नारदप्रश्नानन्तरम् ।
“उपवासष्वशक्तानां नक्तं भोजनमिष्यते ।”
इति मत्स्यपुराण एवेश्वरप्रतिवचनात् ।
स्वयमशुद्धा शुद्धद्वारा पूजादिकं कारयेत् ।
कायिकमुपवासादि सदा शुद्ध्यशुद्धिकाले स्वयं
क्रियते । स्मृतिपरिभाषायामप्येवम् । विष्णुः ।
“बहुकालिकसङ्कल्पो गृहीतश्च पुरा यदि ।
सूतके मृतके चैव व्रतं तन्नैव दुष्यति ॥”
एतत्काम्यव्रतपरम् । नित्यानान्त्वारब्धानामना-
रब्धानामविशेषेण कर्त्तष्यता । नाशौचमित्यनु-
वृत्तौ ब्रह्मपुराणम् ।
“नैष्ठिकस्याथवान्यस्य भिक्षार्थं प्रस्थितस्य च ॥”
नैष्ठिकस्य ब्रह्मचारिविशेषस्य । अन्यस्य चतुर्था-
श्रमिणः । अशौचिभिक्षाग्रहणे दोषाभावः ।
इति हारलताप्रभृतयः ॥ कौर्म्मे ।
“सद्यःशौचं समाख्यातं दुर्भिक्षे चाप्युपप्लवे ।
डिम्बाहवहतानाञ्च विद्युता पार्थिवैर्द्विजैः ।
सद्यःशौचं समाख्यातं शापादिमरणे तथा ॥”
उपप्लवे राजविप्लवे । औपसर्गिकात्यन्तमरक-
पीडने च सद्यःशौचमुक्तम् । तथा च पराशरः ।
“उपसर्गमृते चैव सद्यःशौचं विधीयते ।”
अतएव ।
“आपद्यपि च कष्टायां सद्यःशौचं विधीयते ।”
इति याज्ञवल्क्यवचने अनिरुद्धभट्टशूलपाणि-
प्रभृतिभिरौपसर्गिकात्यन्तमरकपीडायां सद्यः-
शौचं विधीयते इत्युक्तम् । उपसर्गश्च त्रिवि-
धोत्पातः । तथा च गर्गसंहिताबार्हस्पत्ययोः ।
“अतिलोभादसत्याद्वा नास्तिक्याद्वाप्य-
धर्म्मतः ।
नरापचारान्नियतमुपसर्गः प्रवर्त्तते ॥
अतोऽपचारान्नियतमपवर्ज्जन्ति देवताः ।
ताः सृजन्त्यद्भुतांस्तावद्दिव्यनाभसभूमिजान् ॥
त एव त्रिविधा लोके उत्पाता देवनिर्म्मिताः ।
विचरन्ति विनाशाय रूपैः सम्भावयन्ति च ॥”
यद्यप्युपसर्गः स्मृतो रोगभेदोपप्लवयोरपीति
विश्वकोषादुपसर्गस्योभयवाचकत्वं तथाप्यत्र
मुनिप्रयुक्तत्वेनान्तरङ्गत्वात् त्रिविधोत्पातात्म-
कोपसर्गो गृह्यते न तु रोगविशेषात्मक इति ।
एतेनोपसृजन्तीति व्युत्पत्त्या देहाभ्यन्तर एव
यावद्वर्त्तते तावत्कालमरण एव सद्यःशौचं बहि-
र्भावे व्रणपरम्परया मरणे सति स्वजात्युक्ता-
शौचमेवेति त्र्यहमिति दर्शनस्मृतिसारप्रदीपा
इति वाचस्पतिमिश्रोक्तं हेयम् । द्विजैर्ब्राह्मणैः
शापादीत्यादिशब्देनाभिचारमृतस्य ग्रहणम् ।
ब्रह्मकूर्म्मपुरणाभ्यां यद्ब्राह्मणहतस्याशौचा-
भाव उक्तः स बुद्धिपूर्व्वकहनने बोद्धव्यः । प्रमाद-
हते त्वशौचाद्यस्त्येव अन्यथा मरीचिवचनं
निर्व्विषयं स्यात् । यथा, --
“विषशस्त्रश्वापदाहितिर्य्यग्ब्राह्मणघातिनाम्
चतुर्द्दश्यां क्रिया कार्य्या अन्येषान्तु विगर्हिता
विषादिसाहचर्य्यात् ब्राह्मणकृतघातोऽस्या-
स्तीति प्रतीयते । यच्चात्र ये च वै ब्राह्मणैर्हता
इति ब्रह्मपुराणीयं साधकत्वेनोपन्यस्तं श्राद्ध-
विवेके तच्चिन्त्यम् ।
“महापातकिनो ये च पतितास्ते उदाहृताः ।”
इत्यत्तरार्द्धेन पातित्यमभिधाय तेषां श्राद्ध-
निषेधात् । जावालः ।
“दुर्भिक्षे राष्ट्रसम्पाते शस्त्रगोब्रह्मघातिते ।
पतितेऽनशनप्रेते विदेशस्थे शिशौ न च ॥”
नाशौचमित्यर्थः । इति शुद्धितत्त्वम् ॥

सद्यस्कः, त्रि, (सद्यः कायतीति । कै + कः ।)

नूतनम् । इति हेमचन्द्रः ॥ (यथा, सुश्रुते ।
१ । ४५ ।
“नवनीतं पुनः सद्यस्कं लघु सुकुमारं मधुर-
मिति ॥”)

सद्योजातः, पुं, (सद्यस्तक्षणात् जातः ।) वत्सः ।

इति शब्दचन्द्रिका ॥ शिवः । यथा, --
“भक्षैर्नानाविधैर्युक्तं ब्राह्मणाय निवेदयेत् ।
प्रीयतां देवदेवोऽत्र सद्योजातः पिनाकधृक् ॥”
इति म्मत्स्ये शिवचतुर्दशीव्रते ७९ अध्यायः ॥
सद्योजाताय नमः । इति शिवरात्रिव्रते शिवं-
स्नानमन्त्रः । इति तिथ्यादितत्त्वञ्च ॥ तत्क्षणोत्-
पन्ने त्रि ॥

सद्योभावी, [न्] पुं, (सद्यो भवतीति । भू +

णिनिः ।) तर्णकः । सद्योजातवत्सः । इति
शब्दचन्द्रिका ॥

सदुः, त्रि, (सीदति गच्छतीति । सद गतौ +

“दाधेट्सिशदसदो रुः ।” ३ । २ । १५९ । इति
रुः ।) गमनकर्त्ता । इति सिद्धान्तकौमुदी ॥

सद्वसथः, पुं, ग्रामः । सच्छब्दपूर्व्वकवसधातोरथच्

प्रत्ययेन निष्पन्नः । इति केचित् ॥ किन्तुसंपूर्व्व-
वसधातोरथप्रत्यये संवसथ इति सिद्धान्तकौ-
मुद्यां निष्पादितम् ॥

सद्वृत्तं, क्ली, (सत् वृत्तम् ।) साधुस्वभावः । सच्च-

रित्रम् । इति जटाधरः ॥ (यथा, कथा-
सरित्सागरे । ५१ । २२७ ।
“सच नरवाहनदत्तः सद्बृत्तमनोरमामुदारगुणाम्
प्राप्यालङ्कारवतीं वाणीमिव सुकविरास्त
तद्रसिकः ॥”)
तद्युक्ते त्रि । यथा, --
“नासमञ्जसशीलैस्तु सहासीत कदाचन ।
सद्वृत्तसन्निकर्षो हि क्षणार्द्धमपि शस्यते ॥”
इति तिथ्यादितत्त्वम् ॥

सद्वृत्तिभाक्, [ज्] त्रि, (सद्बृत्तिं भजतीति

भज + क्विप् ।) सद्वृत्तिविशिष्टः । यथा, सारा-
वल्याम् ।
“पथ्याशिनां शीलवतां नराणां
सद्वृत्तिभाजां विजितेन्द्रियाणाम् ।
एवंविधानामिदमायुरत्र
चिन्त्यं सदा वृद्धमुनिप्रवादः ॥”
इति मलमासतत्त्वम् ॥

सधर्म्मचारिणी, स्त्री, (सहधर्म्मं चरतीति । चर +

णिनिः । “वोपसर्ज्जनस्य । ६ । ३ । ८२ । इति
सहस्य सः ।) भार्य्या । यथा, --
“सधर्म्मचारिणी पत्नी जाया च गृहिणी गृहा ॥”
इति हलायुधः ॥
(यथा, महाभारते । १३ । १५० । ४८ ।
“एतन्मे संशयं सर्वं वक्तुमर्हसि वै प्रभो ।
सधर्म्मचारिणी चाहं भक्ता चेति वृषध्वजः ॥”

सधर्म्मा, [न्] त्रि, (समानो धर्म्मो यस्य । “धर्म्मा-

दनिच् केवलात् ।” ५ । ४ । १२४ । इति
अनिच् ।) सदृशः । यथा, --
“तुल्यः समानः सदृक्षः सरूपः सदृशः समः ।
साधारणसधर्म्माणौ सवर्णः सन्निभः सदृक् ॥”
इति हेमचन्द्रः ॥
समानधर्म्मयुक्तश्च ॥ (यथा, मनुः । १० । ४१ ।
“सजातिजानन्तरजाः षट्सुता द्विजर्म्मिणः ।
शुद्राणान्तु सधर्म्माणः सर्व्वेऽपध्वंसजाः
स्मृताः ॥”)
पृष्ठ ५/२३७

सधर्म्मिणी, स्त्री, (सह धर्म्मोऽस्या अस्तीति ।

“धर्म्मशीलवर्णान्ताच्च ।” ५ । २ । १३२ । इति
इनिः । “वोपसर्जनस्य ।” ६ । ३ । ८२ । इति
सहस्य सः ।) भार्य्या । यथा, --
“सुवासिनी बधूटी स्याच्चिरण्ट्यथ सधर्म्मिणी ।
पत्री सहचरी पाणिगृहिती गृहिणी गृहा ॥”
इति हेमचन्द्रः ॥

सधर्म्मो, [न्] त्रि, (सह धर्म्मोऽस्त्यस्येति ।

“धर्म्मशीलवर्णान्ताच्च ।” ५ । २ । १३२ । इति
इनिः । “वोपसर्ज्जनस्य ।” ६ । ३ । ८२ । इति
सहस्य सः ।) समानधर्म्माचारी । यथा, --
“पशूनां समजोऽन्येषां समाजोऽथ सधर्मि-
णाम् ॥”
इत्यमरः ॥

सधवा, स्त्री, (धवेन भर्त्त्रा सह वर्त्तमाना ।)

जीवत्पतिका । तत्पर्य्यायः । सभर्त्तृका २ पति-
वत्नी ३ सनाथा ४ । इति जटाधरः ॥ अस्या
धर्मा यथा, --
“भर्त्तुः शुश्रूषणं स्त्रीणां परो धर्मो ह्यमायया ।
तद्बन्धूनाञ्च कल्याण्यः प्रजानाञ्चानुपोषणम् ॥
दुःशीलो दुर्भगो वृद्धो जडो रोग्यधनोऽपि वा ।
पतिः स्त्रीभिर्नहातव्यो लोकेप्सुभिरपातकी ॥”
इति श्रीभागवते १० स्कन्धे २९ अध्यायः ॥

सधिः, पुं, अग्निः । इति त्रिकाण्डशेषः ॥

सधिः, [स्] पुं, (सहते इति । सह + सहेर्धश्च ।”

उणा० २ । ११४ । इति इसिन् धश्चान्तादेशः ।)
वृषभः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

सध्रीची, स्त्री, (सह अञ्चति या सा । अञ्च +

ऋत्विगादिना क्विन् । सहस्य सध्रिः । अञ्चते-
श्चोपसंख्यानं इति ङीप् । अच इत्यकारलोपः ।
चाविति दीर्घः ।) सखी । इति हेचन्द्रः ॥
(यथा, भट्टिः । ६ । ७ ।
“सीतांसौमित्रिणा त्यक्तां सध्रीचीं त्रस्नुमेकिकाम्
विज्ञायामंस्त काकुतस्थः क्षये क्षेमं सुदुर्लभम् ॥”)

सध्र्यङ्, [च्] त्रि, (सह अञ्चतीति । अञ्च गतौ +

ऋत्विगादिना क्विन् । सहस्य सध्रिः ।) सहचरः
इत्यमरः ॥ (यथा, भागवते । २ । ७ । ४७ ।
“सध्य्रङ् नियम्य यतयो यमकर्त्तहेतिं ।
जह्युः स्वराडिव निपानखनित्रमिन्द्रः ॥”
सम्यक् । यथा, तत्रैव । ४ । २७ । १ ।
“इत्थं पुरञ्जनं सन्ध्रग्वशमानीय विभ्रमैः ।
पुरञ्जनी महाराज रेमे रमयती पतिम् ॥”)

सन्, पुं, व्याकरणीयप्रत्ययविशेषः । तत्सूत्रादि

यथा । सन्निच्छायाम् । धोः परः सन् स्यादि-
च्छायाम् । अत्तु मिच्छति जिघत्सति । इति
मुग्धबोधव्याकरणे सनन्तपादः ॥ * ॥ प्रथमैक-
वचनान्तपुंलिङ्गसच्छब्दरूपोऽप्येवम् । तदुदा-
हरणम् । यथा, --
“रामं नमति सानन्दं धर्म्मानभिनिविश्य सन् ॥”
इति तत्रैव कारकपादः ॥

सनः, पुं, स्त्री, हस्तिकर्णास्फालः । यथा । कर्णा-

स्फाले सनः सनी । इति शब्दरत्नावली ॥

सनः, पुं, घण्टापाटलिवृक्षः । इति शब्दचन्द्रिका ॥

(सनत्कुमारः । सनकः । सनन्दनः । सनातनः ।
दाने, क्ली, । अखण्डिते, त्रि ॥ यथा, भागवते ।
२ । ७ । ५ ।
“तप्तं तपो विविधलोकसिसृक्षया म
आदौ सनात् स्वतपनः स चतुःसनोऽभूत् ॥”
“स हरिः चतुसनोऽभूत् । सनत्कुमारः सनकः
सनन्दनः सनातन इति चत्वारः सनशब्दा
नाम्नि यस्य सः । कथम्भूतात् स्वतपसः सनात्
अखण्डितात् यद्वा स्वतपसः सनात् दानात्
समर्पणादित्यर्थः सनु दाने ।” इति तट्टीकायां
श्रीधरस्वामी ॥)

सनकः, पुं, विष्णुपारिषभेदः । इति शब्दरत्ना-

वली ॥ स तु ब्रह्मणश्चतुष्पुत्त्रान्तर्गतपुत्त्रविशेषः ।
यथा, --
“दृष्ट्वा पापीयसीं सृष्टिं नात्मानं बह्वमन्यत ।
भगवद्ध्यानपूतेन मनसान्यांस्ततोऽसृजत् ॥
सनकञ्च सनन्दञ्च सनातनमथात्मभूः ।
सनत्कुमारञ्च मुनीन् निष्क्रयानूर्द्ध्वरेतसः ॥
तान् बभाषे स्वभूः पुत्त्रान् प्रजाः सृजत पुत्त्रकाः
तन्नैच्छन्मोक्षधर्म्माणो वासुदेवपरायणाः ॥”
इति श्रीभागवते ३ स्कन्धे १२ अध्यायः ॥
तस्य वासस्थानं जनलोकः । इति काशीखण्डम् ॥

सनत्, पुं, ब्रह्मा । इति त्रिकाण्डशेषशब्दरत्ना-

वल्यौ ॥

सनत् व्य सर्व्वदा । इत्यमरटीकायां रामाश्रयः ॥

सनत्कुमारः, पुं, (सनतो ब्रह्मणः कुमारः ।)

ब्रह्मणः पुत्त्रः । तत्पर्य्यायः । वैधात्रः २ । इत्य-
मरः ॥ वैधातकिः ३ । इति भरतः ॥ धातृ-
पुत्त्रः ४ वेधायः ५ । इति शब्दरत्नावली ॥
तन्नामव्युत्पत्तिर्यथा । सनत् ब्रह्मा तस्य कुमारः
सनत्कुमारः । सन्नित्यकुमारस्तेन सनत्कुमारो
वापीति स्वामिमतम् । इति भरतः ॥ तन्नाम-
कारणम् । यथा, --
“यथोत्पन्नस्तथैवाहं कुमार इति विद्धि माम् ।
तस्मात् सनत्कुमारेति नामैतन्मे प्रतिष्ठितम् ॥”
इति महाभारते हरिवंशः ॥ * ॥
स च धर्म्मस्यौरसेन अहिंसायां जातः पश्चात्
ब्रह्मणो दत्तपुत्त्रः । अयं साध्यगणः । यथा, --
श्रीनारद उवाच ।
“कोऽयं सनत्कुमारेति यस्योक्तं ब्रह्मणा स्वयम् ।
तवापि तेन गदितं वद मामनुपूर्व्वतः ॥
पुलस्त्य उवाच ।
धर्म्मस्य भार्य्याहिंसाख्या तस्यां पुत्त्रचतुष्टयम् ।
सस्पाप्तं मुनिशार्द्दूल योगशास्त्रविचारकम् ॥
ज्येष्ठः सनत्कुमाराऽभूत् द्वितीयश्च सनातनः ॥
तृतीयः सनको नाम चतुर्थश्च सनन्दनः ॥
सांख्यवेत्तारमपरं कपिलं वोढुमासुरिम् ।
दृष्ट्वा पञ्चशिखं श्रेष्ठं योगयुक्तं तपोनिधिम् ॥
ज्ञानयोगं न ते दद्युर्ज्यायांसोऽपिकनीयसाम् ।
ज्ञानमाद्यं महायोगं कपिलादिर्न चावदत् ॥
सनत्कुमारश्चाभ्येत्य ब्रह्माणं कमलोद्भवम् ।
अपृच्छद्योगविज्ञानं तमुवाच प्रजापतिः ॥
कथयिष्यामि ते सांख्यं यदि पुत्त्रेति मे वचः ।
शृणोषि कुरुषे तच्च ज्ञानं सांख्यं श्रुतो भव ॥
पितामहवचः श्रुत्वा साध्यः प्राह तपोधन ।
सत्यं हि तव पुत्त्रोऽहं देव योगं वदस्व माम् ॥
तमुवाच महायोगी त्वन्मातापितरौ यदि ।
दास्येते च ततः सूनुर्दायादो मेऽसि पुत्त्रकः ॥
सनत्कुमारः प्रोवाच दायादपरिकल्पना ।
येषां हि भवता प्रोक्ता तान् मे व्याख्यातुमर्हसि ॥
तदुक्तं साध्यमुख्येन वाक्यं श्रुत्वा पितामहः ॥
प्राह प्रहस्य भगवान् शृणु वत्मेति नारद ! ॥”
इति वामने ५७ । ५८ अध्यायौ ॥
स च पञ्चहायनवयस्कः चूडादिसंस्कारवेद-
सन्ध्याविहीनश्च । यथा, --
“तच्छुत्वा सृञ्जयो राजा रत्नभूषणभूषिताम् ।
गृहीत्वा कन्यकां रम्यां नारदाय ददौ मुदा ॥
गृहीत्वा च सभार्य्यं तं पुत्त्रं धाता मुदान्वितः ।
प्रययौ ब्रह्मलोकञ्च देवेन्द्रैर्मुनिभिः सह ॥
तत्राजगाम नग्नश्च प्रज्वलन् ब्रह्मतेजसा ।
सनत्कुमारो भगवान् साक्षाच्च बालको यथा ॥
सृष्टेः पूर्व्वञ्च वयसा यथैवं पञ्चहायनः ।
अचूडोऽनुपवीतश्च वेदसन्ध्याविहीनकः ॥
कृष्णेति मन्त्रं जपति यस्य नारायणो गुरुः ।
अनन्तकालकल्पञ्च भ्रातृभिश्च त्रिभिः सह ॥
वैष्णवानामग्रणीशो ज्ञानिनाञ्च गुरोर्गुरुः ।
आराद्द्वष्ट्वा नारदस्तं भ्रातरञ्च सतां वरम् ॥
सहसा शिरसा भूमौ दण्डवत् प्रणनाम तम् ।
उवाच नारदं बालः प्रहस्य परमार्थकम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १२९ अध्यायः ॥
जिनमते द्वादशसार्व्वभौमान्तर्गतसार्व्वभोमभेदः
इति हेमचन्द्रः ॥

सनन्दः, पुं, ब्रह्मणः पुत्त्रचतुष्टयान्तर्गतपुत्त्रविशेषः

स तु जनलोकवासी । इति काशीखण्डम् ॥ ॥
स एव दिव्यमनुष्यः । अस्य तर्पणं निवीतिना
प्रत्यङ्मुखेन प्राजापत्यतीर्थेन सागमेन कर्त्तव्यम्
तदितरेण उदङ्मु खेन कर्त्तव्यम् । यथा दक्षः ।
“प्रादेशमात्रमुद्धृत्य सलिलं प्राङ्मुखः सुरान् ।
उदङ्मनुष्यांस्तृप्येत पितॄन् दक्षिणतस्तथा ॥
अग्रैस्तु तर्पयेद्देवान् मनुष्यान् कुशमध्यतः ।
पितॄंस्तु कुशमूलाग्रे विधिः कौशो यथाक्रसम् ॥
कृतोपवीती देवेभ्यो निवीती च भवेत्ततः ।
मनुष्यांस्तर्पयेद्भक्त्या ऋषिपुत्त्रानृषींस्तथा ॥
सनकश्च सनन्दश्च तृतीयश्च सनातनः ।
कपिश्चासुरिश्चैव वोदुः पञ्चनिखस्तथा ।
सर्वे ते तृप्तिमायान्तु मद्दत्तेनाम्बुना सदा ॥”
अनेनाञ्जलिद्वयम् यथा, --
“एकैकमञ्जलिं देवा द्वौ द्वौ तु सनकादयः ।
अर्हन्ति पितरस्त्रीं स्त्रीन् स्त्रियस्त्वेकैकमञ्ज-
लिम् ॥”
परिशिष्टप्रकाशधृतं सामवेदीयषट्त्रिंशद्-
ब्राह्मणम् । मनुष्याणामेषा दिक् या प्रती-
चीति । तथा च ज्योतिष्टोमे श्रूयते । प्राचीं
देवा अभजन्त दक्षिणां पितरः प्रतीचीं मनुष्याः
उदीचीमसुराः अपरेषामुदीचीं मनुष्याः ।
विष्णुपुराणे ॥
“प्राजापत्येन तीर्थेन मनुष्यांस्तर्पयेत् पृथक् ।”
इत्याह्निकाचारतत्त्वम् ॥