शब्दकल्पद्रुमः/शेफालिः

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ५/१३६

शेफालिः, स्त्री, (शेरते इति शेफाः शयनशालिन-

स्तादृशा अलयो भृङ्गा यत्र ।) शेफालिका ।
इति शब्दरत्नावली ॥

शेफालिका, स्त्री, (शेफालि + स्वार्थे कन् ।) पुष्प-

वृक्षविशेषः । शिउली इति भाषा ॥ (यथा, --
“शेफालिकां विदलितामवलोक्यं तन्वी
पाणान् कथञ्चिदपि धारयितुं प्रभुः सा ।
आकर्ण्य सस्प्रति रुतं चरणायुधानां
किँवा व्यवस्यति न वेद्मि तपस्विनी सा ॥”
इत्यूद्भटः ॥)
तत्पर्य्यायः । सुवहा २ निर्गुण्डी ३ नीलिका ४ ।
इत्यमरः ॥ चत्वारि शेफालिकामात्रे । शिय-
लीति ख्यातनीलपुष्पायां शेफालिकामिति
केचित् । शेफालिकादिद्वयं शेफालिकामात्रे
निर्गुण्ड्यादिद्वयं नीलपुष्पशेफालिकायामिति
केचित् । इति तट्टीकायां भरतः ॥ शेफाली ५
मलिका ६ रजनीहासा ७ निशिपुष्पिका ८ ।
मा शुक्ला चेत् श्वेतसुरस ९ भूतवेशी १० ।
इति शब्दरत्नावली ॥ शुक्लाङ्गी ११ शीत-
मञ्जरी १२ विजया १३ वातारिः १४ भूत-
केशी १५ । अस्या मुणाः । कटुत्वम् । तिक्त-
त्वम् । उष्णत्वम् । रूक्षत्वम् । वातकफाङ्ग-
मन्धिवातगुदवातादिदोषनाशित्वञ्च । इति
राजनिर्घण्टः ॥

शेफाली, स्त्री, (शेफालि + कृदिकारादिति वा

ङीष् ।) शेफालिका । इति शब्दरत्नावली ॥
नीलसिन्धुवारः । इति भावप्रकाशः ॥

शेमुषी, स्त्री, (शेते इति शेः मोहः । शी + विच्

त मुष्णातीति । मुष स्तेये + मूलविभुजादित्वात्
कः । गौरादित्वात् ङीष् । इत्यमरटीका ।)
बद्धिः । इत्यमरः । १ । ५ । १ ॥ (यथा, राज-
तरङ्गिण्याम् । ३ । २०६ ।
“स्विन्नस्य हि विपर्य्येति तत्त्वज्ञस्यापि शेमुषी ॥”
शेल, ऋ चालगत्योः । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-सक०-सेट् ।) ऋ, अशिशेलत् ।
इति दुर्गादासः ॥

शेलुः, पुं, (शेलतीति । शेल गतौ + उः ।) बहु-

वारकवृक्षः । इत्यमरः ॥ (यथा, सुश्रुते । ४ । ३८ ।
“विदार्व्यैरावतीशेलुशाल्मलीधवलाङ्कुराः ॥”
तत्फलमपि । यथा, मनुः । ५ । ६ ।
“शेलुं गव्यञ्च पेयूषं प्रयत्नेन विवर्ज्जयेत् ॥”)

शेवः, पुं, (शेते रेतःपातानन्तरमिति । शी + “इण्

शीङ्भ्यां वन् ।” उणा० १ । १५२ । इति वन् ।
मेढ्रः । अहिः । उन्नते, त्रि । इत्युणादिकोषः ॥
(क्ली, सुखम् । इति निघण्टुः । ३ । ६ ॥ त्रि,
सुखकरम् । यथा, ऋग्वेदे । १ । ५८ । ६ ।
“मित्रं न शेवं दिव्याय जन्मने ॥”
“मित्रं न शेवं यथा सखा सुखकरो भवति
तद्वत् सुखकरमित्यर्थः ।” इति तद्भाष्ये सायणः ॥)

शेवधिः, पुं, (शेवं सुखं धीयतेऽस्मिन्निति । धा +

कः ।) निधिः । इत्यमरः ॥ (यथा, मनुः ।
२ । ११४ ।
“विद्या ब्राह्मणमेत्याह शेवधिस्तेऽस्मि रक्ष माम् ।
असूयकाय मां मादास्तथास्यां वीर्य्यवत्तमा ॥”

शेवलं, क्ली, शैवालम् । इति शब्दरत्नावली ॥

(मनुष्यनाम । इति पाणिनिः । ५ । ३ । ८४ ॥)

शेवलिनी, स्त्री, (शेवलं शैवालमस्या अस्तीति ।

इनिः ।) नदी । इति राजनिर्घण्टः ॥

शेवालं, क्ली, (शेते जले इति । शी + “शीङो

धुक्लग्वलञ् वालनः ।” उणा० ४ । ३८ । इति
वालन् ।) शैवालम् । इति शब्दरत्नावली ॥
(यथा राजेन्द्रकर्णपुरे । २५ ।
“शङ्के पङ्के पतति यतते बालशेवालमूले
कूले लोलः किमपि कुरुते कर्म्म वैकुण्ठकूर्म्मः ॥”

शेवाली, स्त्री, आकाशमांसी । इति, राजनिर्घः ॥

शेषं, क्ली, (शिष्यते यदिति । शिष + घञ् ।)

प्रसादः । इति मेदिनी । षे, २८ ॥

शेषः, पुं, (शेषति सङ्कर्षतीति । शिष हिसायाम्

+ अच् ।) सङ्कर्षणः । स तु बलदेवः । (यथा,
माघे । २ । ६८ ।
“निशम्य ताः शेषगवी रभिधातुमधोक्षजः ।
शिष्याय बृहतां पत्युः प्रस्तावमादिशत् दृशा ॥”
शिष वधे + भावे घञ् ।) वधः । अनन्तः । स
च सर्पराजः । इति मेदिनी ॥ (यथा, कुमारे ।
३ । ३ ।
व्यादिश्यते भूधरतामवेक्ष्य
कृष्णेन देहोद्वहनाय शेषः ॥”)
तस्य ध्यानं यथा, --
“फंणासहस्रसंयुक्तं चतुर्ब्बाहुं किरीटिनम् ।
नवाम्रपल्लवाकारं पिङ्गलश्मश्रुलोचनम् ॥
पीताम्बरधरं देवं शङ्ग्वचक्रगदाधरम् ।
कराग्रे दक्षिणे पद्मं गदां तस्याप्यधःकरे ।
दधानं सर्व्वलोकेशं सर्व्वाभरणभूषितम् ।
क्षीराब्धिमध्ये श्रीमन्तमनन्तं पूजयेत्ततः ॥”
इति भविष्यपुराणम् ॥
गजः । नागः । स्वीकृतेतरवस्तु । इत्यजयपालः ॥
भगवतो द्वितीया मूर्त्तिः । यथा, --
“एका भगवतो मूर्त्तिर्ज्ञानरूपा शिवामला ।
वासुदेवाभिधाना सा गुणातीता सुनिष्कला ॥
द्वितीया कालसंज्ञान्या तामसी शेषसंज्ञिता ।
निहन्ति सकलांश्चान्ते वैष्णवी परमा तनुः ॥”
इति कौर्म्मे ४८ अध्यायः ॥
शेषशयनप्रकारो यथा, --
“अनन्तस्तत्र गत्वा तु यत्र क्षीरोदसागरः ।
तत्र स्वयं श्रिया युक्तं सुषुप्सन्तं जनार्द्दनम् ॥
तस्योपधानमकरोदनन्तो दक्षिणां फणाम् ।
उत्तरां पादयोश्चक्रे उपधानं महाबलः ।
तालवृन्तं तदा चक्रे स शेषः पश्चिमां फणाम् ॥
स्वयन्तु बीजयामास शेषरूपी जनार्द्दनम् ॥
शङ्खं चक्रं नन्दकासिमिषुधी द्वे महाबलः ।
ऐशानयाथ फणया स दध्रे गरुडं तदा ॥
गवां पद्मञ्च शार्ङ्गञ्च तथैव विविधायुधम् ।
यानि चान्यानि तस्यासन्नाग्ने य्या फणया दधौ ॥
एवं कृत्वा स्वकं काय शयनीयं तदा हरेः ।
भूतभव्यजगन्नाथं परापरपतिं हरिम् ॥
दधार शिरसानन्तः स्वयमेव स्वकां तनुम् ।
एवं ब्रह्मदिनस्यैव प्रमाणेन निशां हरिः ।
सन्ध्याञ्च समधिप्राप्य शेते नारायणोऽव्ययः ॥”
इति कालिकापुराणे २७ अध्यायः ॥

शेषः, पुं, क्ली, (शिष्यते इति । शिष + घञ् ।)

उपयुक्तेतरवस्तु । इति मेदिनी ॥ शेषोऽवशिष्ट-
मवशिष्टता च शेषः शेषञ्चे त्यादि । अनन्ते तु
शेषः पुंलिङ्ग एव शिष्टप्रयोगात् । उक्तादन्यः
शेषः यथा । शङ्खपद्मौ निधिवाचकौ पुलिङ्गौ
जलजे तूभयलिङ्गौ इति सर्व्वानन्दः । इत्यमर-
टीकायां भरतः ॥ * ॥ ऋणादिशेषरक्षणनिवेधो
यथा, --
“ऋणशेषञ्चाग्निशेषं शत्रशेषं तथैव च ।
पुनः पुनः प्रवर्द्धन्ते तस्मात् शेषं न कारयेत् ॥”
इति गारुडे ११६ अध्यायः ॥
(अवशिष्टे, त्रि । यथा, रघुः । ४ । ६४ ।
“अपनीतशिरस्त्राणाः शेषास्तं शरणं ययुः ॥”
तथाच रामायणे । २ । २६ । ३२ ।
“वन्धितव्यस्त्वया नित्यं याः शेषा मम मातरः

शेषत्वं, क्ली, (शेषस्य भावः । शेष + त्व ।) उप-

कारित्वम् पारार्थ्यम् । परोद्देश्यप्रवृत्तिकत्वम् ।
यथा, --
“शेषत्वमुपकारित्वं द्रष्यादावाह वादरिः ।
पारार्थ्यं शेषता तच्च सर्व्वेष्वस्तीति जैमिनिः ॥”
इत्यधिकरणमालायां माधवाचार्य्यः ॥
शेषस्य भावः । इति व्याकरणम् ॥
शेषरात्रिः, स्त्री, (शेषा अवशिष्टा रात्रिः ।)
रात्रिशेषः । तत्पर्य्यायः । उच्चन्द्रः २ अपरात्रः
३ । इति शब्दरत्नावली ॥

शेषा, स्त्री, (शिष्यतेऽसौ । शिष् + घञ । टाप् ।)

स्वनिर्म्माल्यार्पणम् । इति मेदिनी । (यथा,
कुमारे । ३ । २२ ।
“तथेति शेषामिव भर्त्तूराज्ञा-
मादाय मूर्ध्ना मदनः प्रतस्थे ॥”)

शैक्षः, पुं, (शिज्ञामधीते इति । शिक्षा + अण् ।)

प्राथमकल्पिकः । इत्यमरः ॥ द्वे प्रथमारब्ध-
वेदाध्ययने । शिक्षणं शिक्षा । सेमक्तात् सरो-
रिति अः । शिक्षा प्रथमोपदेशः तत्साह-
चर्य्यात् ग्रन्थोऽपि शिक्षा तामधीयते शैक्षाः ।
ढघे कादिति ष्णः प्रथमं शिक्षणीयं कल्पं शास्त्रं
अधीयते प्राथमकल्पिकाः । इति भरतः ॥
(शिक्षा शीलमस्येति । “छत्रादिभ्यो णः ।”
४ । ६२ । इति णः । शिक्षाशीले, त्रि ॥)

शैक्षिकः, त्रि, शिक्षाशास्त्रवेत्ता । शिक्षां वेत्ति

अधीते वा इत्यर्थे ष्णिकप्रत्ययेन निष्पन्नः ॥

शैखरिकः, पुं, (शिखरे प्रायेण भवतीति शिखर

+ ठञ् ।) अपामार्गः इत्यमरः ॥

शैखरेयः, पुं, (शिखरे भवः । शिखर + ढ्२अञ् ।)

अपामार्गः । इति भरतधृतरत्नकोषः ॥

शैत्यं, क्ली, (शीतस्य भावः शीत + “वर्णदृढा-

दिभ्यः ष्यञ् च ।” ५ । १ । १२३ । इति ष्य ञ ।)
पृष्ठ ५/१३७
शीतलत्वम् । यथा, --
“शैत्यं नाम गुणस्तवैव सहजः स्वाभाविकी
स्वच्छता
किं ब्रुमः शुचितां भवन्ति शुचयः स्पर्शेन यस्या-
परे ।
किं वान्यत् कययामि ते स्तुतिपदं त्वं जीविनां
जीवनं
त्वञ्चेन्नीचपथेन गच्छसि पयः कस्त्वां निषेद्धुं
क्षमः ॥”
इति लक्ष्मणसेनः ॥

शैथिल्यं, क्ली, (शिथिल + भावे ष्यञ् ।) शिथि-

लत्वम् । शिथिलस्य भाव इत्यर्थे ष्ण्यप्रत्ययेन
निष्पन्नम् ॥ (यथा, मार्कण्डेये । १०९ । २२ ।
“भवन्तु केशाः पलिताः वलयः सन्तु मे शुभे ।
शैथिल्यमेतु मे कायः कृतकृत्योऽस्मि मानिनि ॥”

शैनेयः, पुं, (शिनेर्गोत्रापत्यमिति । शिनि + “इत-

श्चानिञः ।” ४ । १ । १२२ । इति ढक् ।) सात्यकिः ।
स तु श्रीकृष्णसारथिः । इति त्रिकाण्डशेषः ॥
(यथा, भागवते । १ । ८ । ७ ।
“आमन्त्र्य पाण्डुपुत्त्रांश्च शैनयोद्धवसंयुतः ।
द्वैपायनादिभिर्व्विप्रैः पूजितैः प्रतिपूजितः ॥”)

शैरीयकः, पुं, नीलझिण्टी ॥ इति रत्नमाला ॥

शैरेयकोऽपि पाठः । दन्त्यसादिश्च ॥

शैलं, क्ली, (शिलाया भवम् । शिला + अण् ।)

शैलेयम् । तार्क्ष्यशैलम् । इति मेदिनी ॥ शिला-
लतु । इति राजनिर्घण्टः ॥

शैलः, पुं, (शिलाः सन्त्यत्रेति । शिला + ज्योत्स्ना-

दित्वादण् ।) पर्व्वतः । इत्यमरः ॥ (यथा,
रघुः । ४ । ७१ ।
“ततो गौरीगुरु शैलमारुरोहाश्वसाधनः ।
वर्द्धयन्निव तत्कूटानुद्धूतैर्धातुरेणुभिः ॥”
शिलासम्बन्धिनि, त्रि । यथा, भागवते । ११ ।
२७ । १२ ।
“शैलीदारुमयी लौही लेप्या लेख्या च सैकती
मनोमयी दारुमयी प्रतिमाष्टविधा स्मृता ॥”)

शैलकं, क्ली, (शैलमेव । स्वार्थे कन् ।) शैलजम् ।

इति शब्दरत्नावली ॥ (यथा, बृहत्संहिता-
याम् । ७७ । १० ।
“हरीतकीशङ्खघनद्रवाम्बुभि-
र्गुडोत्पलैः शैलकमुस्तकान्वितैः ।
नवान्तपादादिविवर्द्धितैः क्रमात्
भवन्ति धूपा बहवो मनोहराः ॥”)

शैलगन्धं, क्ली, (शैलस्य गन्धो यत्र ।) शावर-

चन्दनम् । इति राजनिर्घण्टः ॥

शैलगर्भाह्वा, स्त्री, शिलावल्का । इति राज-

निर्घण्टः ॥

शैलजं, क्ली, (शैले पर्व्वते जायते इति । जन +

डः ।) सुगन्धिद्रव्यविशेषः । तत्पर्य्यायः । शीत-
शिवम् २ शैलेयम् ३ शिलासनम् ४ शिलेयम् ५
शीतलम् ६ शैलम् ७ कालानुसार्य्यम् ८ शैलकम्
९ वृद्धम् १० कालानुसारि ११ अश्वपुष्पम् १२
शैलख्यम् १३ शिलापुष्पम् १४ गृहम् १५ इतिड
रत्नमाला ॥ अस्य गुणाः शैलेयशब्दे द्रष्टव्याः ॥
पर्व्वतजाते, त्रि, ॥

शैलजा, स्त्री, (शैले जायतेऽसौ इति । जन +

डः । टाप् ।) सैंहली । गजपिप्पली । इति
राजनिर्घण्टः ॥ दुर्गा । हिमशैलजत्वात् । यथा,
“तत् श्रुत्वा भगवद्वाक्यं विस्मिता हिम-
शैलजा ।”
इति शिवरात्रिव्रतकथा ॥

शैलधन्वा [न्] (पुं, (शैलवत् दृढं धनुरस्य ।

धनुषो धन्वन्नादेशः ।) महादेवः । इति
त्रिकाण्डशेषः ॥

शैलधरः, पुं, (शैलस्य गोवद्धनस्यधरः ।) श्रीकृष्णः

इति धनञ्जयः ॥

शैलनिर्य्यासं, क्ली, (शैलस्य निर्य्यास इव रसो

यत्र ।) शैलेयम् । इति केचित् ॥

शैलपत्रः, पुं, (शैलवत् सुगन्धि पत्रमस्य ।) विल्व-

वृक्षः । इति राजनिर्घण्टः ॥

शैलवीजः, पुं, (शैलवत् कठिनं बीजमस्य ।)

भल्लातकवृक्षः । इति राजनिर्घण्टः ॥

शैलभित्तिः, स्त्री, (शैलानां भित्तिर्भेदो यस्याः ।)

टङ्कः । इति जटाधरः ॥

शैलराजः, पुं, (शैलानां राजा । “राजाहः

सखिभ्यष्टच् ।” ५ । ४ । ९१ । इति टच् ।) हिमालय-
पर्व्वतः । (यथा, कुमारे । ७ । ६८ ।
“मूर्द्धानमालि क्षितिधारणोच्च-
मुच्चैस्तरं वक्ष्यति शैलराजः ॥”)

शैलराजसुता, स्त्री, (मैलराजस्य सुता ।) दुर्गा

यथा, --
“अरूपा परभावत्वाद्वहुरूपा क्रियात्मिका ।
जाता शैलेन्द्रगेहे सा शैलराजसुता ततः ॥”
इति देवीपुराणे ४५ अध्यायः ॥
(गङ्गा । यथा, महाभारते । ३ । १०९ । ४
“प्रयाचस्व महाबाहो शैलराजसुतां नदीम् ।
पतमानां सरित्श्रेष्ठां धारयिष्ये त्रिपिष्टपात् ॥”

शैलवल्कला, पुं, (शैलं शिला वल्कलं यस्याः ॥)

शिलावल्कला । इति राजनिर्घण्टः ॥

शैलशिविरं, क्ली, (शैलानांशिविरमिव समुद्रगर्भे

बहुपर्व्वतावस्थानत्वात्तथात्वम् ।) समुद्रः । इति
त्रिकाण्डशेषः ॥

शैलसुता, स्त्री, (शैलस्य सुता ।) पार्व्वती ।

यथा, --
“मातः शैलसुतासपत्नि वसुधाशृङ्गारहारावलि
स्वर्गारोहणवैजयन्ति भवतीं भागीरथीं
प्रार्थये ॥”
इति वाल्मिकीयगङ्गाष्टकम् ॥
ज्योतिष्मती । इति राजनिर्घण्टः ॥

शैलाख्यं, क्ली, (शैलमिति आख्या यस्य ।) इति

रत्नमाला ॥

शैलाग्रं, क्ली, (शैलस्य अग्रम् ।) शिखरम् । इति

त्रिकाण्डशेषः ॥

शैलाजं, क्ली, (शैलादाजायते इति । आ + जन +

ः ।) शैलेयम् । इति राजनिर्घण्टः ॥

शैलाटः, पुं, (शैले अटतीति । अट + अच् ।)

देवलः । सिंहः । शुक्लकाचः । किरातः ।
इति मेदिनी ॥

शैलादिः, पुं, नदी । यथा, --

“निमित्तानीदृशान् दृष्ट्वा भूतभव्यभवो विभुः ।
शैलादिं प्राह वचनं सस्मितं शशिशेखरः ॥
हर उवाच ।
नन्दिन् जयोऽद्य भावी नो न कथञ्चित् परा-
जयः ।
निमित्तानीह दृश्यन्ते शुभदानि गणेश्वर ॥
तच्छम्भुवचनं श्रुत्वा शैलादिः प्राह शङ्करम् ।
कः सन्देहो महादेव यत् त्वं जयसि शात्र-
वान् ॥”)
इति वामने ६५ अध्यायः ॥

शैलाली, [न्] पुं, (शिलालिना प्रोक्तं नटसूत्र-

मधीते इति । शिलालि + “पाराशर्य्यशिला-
लिभ्यां भिक्षुनटसूत्रयोः ।” ४ । ३ । ११० इति
णिनिः ।) नटः । इत्यमरः ॥

शैलिक्यः, पुं, सर्व्वलिङ्गी । इति जटाधरः ॥

शैली, स्त्री, (शीलस्येयमिति । शील + अण् ।

ङीष् ।) सङ्केतः । यथा, --
“प्रज्ञप्तिः परिभाषा शैली सङ्केतसमयकाराश्च ।”
इति त्रिकाण्डशेषः ॥
आचार्य्याणामियं शैली यत् सामान्येनाभिधाय
विशेषेण विवृणोति । इति मुग्धबोधटीकायां
दुर्गादासः ॥ (शिलाप्रतिमा । यथा, रामा-
यणे । १ । ६४ । १२ ।
“यन्मां लोभयसे रम्भे कामक्रोधजयैषिणम् ।
दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे ॥”)

शैलूषः, पुं, शिलूषस्यापत्यमिति । शिलूष + अण्

नटः । (यथा, माघे । १ । ६९ ।
“अथोपपत्तिं छलनापरोऽपरा-
मवाप्य शैलूष इवैष भूमिकाम् ॥”)
विल्ववृक्षः । इत्यमरः ॥ धूर्त्तः । तालधारकः ।
इति शब्दरत्नावली ॥

शैलूषिकः, पुं, नटवृत्त्यन्वेषी । यथा, --

“वृत्त्यन्वेषी नटानान्तु स तु शैलूषिकः स्मृतः ॥
इति ब्रह्मपुराणोक्तम् ॥
इति प्रायश्चित्तविवेकः ॥

शैलूषिकी, स्त्री, शैलूषिकजातिस्त्री । तद्गमन-

प्रायश्चित्तं यथा । संवर्त्तः ।
नटीं शैलूषिकीं चैव रजकीं वेणुजीविनीम् ।
कामतस्तु यदा गच्छेच्चरेच्चान्द्रायणद्वयम् ॥”
ततश्चाज्ञानतश्चान्द्रायणम् । चान्द्रायणे धेन्व-
ष्टकम् । इति प्रायश्चित्ततत्त्वम् ॥)

शैलेन्द्रः, पुं, (शैलानामिन्द्रः ।) हिमालयः ।

यथा, --
“ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम् ।
सिंहस्योपरिशैलेन्द्रशृङ्गे महति काञ्चने ॥”
इति देवीमाहात्म्यम् ॥

शैलेन्द्रस्थः, पुं, (शैलेन्द्रे तिष्ठतीति । स्था + कः ।

भूर्जवृक्षः । इति राजनिर्घण्टः ॥
पृष्ठ ५/१३८

शैलेयं, क्ली, (शिलायां भवम् । शिला + ढक् ।)

शैलजाख्यगन्धद्रव्यम् । शेलेयक इति रन्दूच इति
छरिला इति च ख्यातम् । तत्पर्य्यायो यथा, --
“शेलेयं शैलजं वृद्धं शिलापुष्पं शिलोद्भवम् ।
स्थविरं पलितं जीर्णं तथा कालानुसार्य्यकम् ॥
शिलोत्थञ्च शिलादद्रुः शैलाजं गिरिपुष्पकम् ।
शिलाप्रसूनं सुभगं शैलकं षोडशाह्वयम ॥”
अस्य गुणाः ।
“शैलेयं शिशिरं तिक्तं सुगन्धि कफपित्तजित् ।
दाहतृष्णावमिश्वासव्रणदोषविनाशनम् ॥”
इति राजनिर्घण्टः ॥
आंप च ।
“शैलेयन्तु शिलापुष्पं वृद्धं कालानुसार्य्यकम् ।
शैलेयं शीतलं हृद्यं कफपित्तहरं लघु ।
कण्डूकुष्ठाश्मरीदाहविषहृद्गुदरक्तहृत् ॥”
इति भावप्रकाशः ॥ * ॥
तालपर्णी । सैन्धवम् । इति मेदिनी ॥

शैलेयं, त्रि, (शैले भवम् । शैल + ढक् ।) शैल-

सम्भवम् । इति हेमचन्द्रः ॥ शिलातुल्यम् ।
इति शब्दरत्नावली ॥ (शिलेव । शिला +
“शिलाया ढः ।” ५ । ३ । १०२ । इति योग-
विभागेन ढञ् ॥)

शैलेयः, पुं, (शैले भवः । शैल + ढक् ।) सिंहः ।

भ्रमरः । इति शब्दरत्नाली ॥

शैलेयी, स्त्री, (शैले भवा । शैल + ढक् । ङीष् ।)

पार्व्वती । इति त्रिकाण्डशेषः ॥

शैलोद्भवा, स्त्री, (शैलात् उद्भवो यस्याः ।) क्षुद्र-

पाषाणभेदी । इति राजनिर्घण्टः ॥

शैल्यं, त्रि, (शिला + ष्यञ् ।) शिलासम्बन्धि ।

शिलाया इदं इत्यर्थे ष्ण्यप्रत्ययेन निष्पन्नम् ॥

शैवं, क्ली, शैवालः । इति शब्दचन्द्रिका ॥

(शिवमधिकृत्य कृतो ग्रन्थः । शिव + अण ।)
शिवपुराणम् । यथा --
“अष्टादश पुराणानि पुराणज्ञाः प्रचक्षते ।
ब्राह्मं पाद्मं वैष्णवञ्च शैवं भागवतं तथा ॥”
इति मलमासतत्त्वे विष्णुपुराणम् ॥
(शिवस्येदमिति । शिव + अण् ।) शिवसम्ब-
न्धिनि, त्रि (यथा । कथासरित्सागरे । ४० । ८९ ।
“प्रापदायतनं शैवं नद्यास्तस्यास्तटस्थितम् ॥”)
शैवः, पुं, (शिव + अण् ।) वसुकः । धुस्तूरः ।
इति राजनिर्घण्टः ॥ आचारविशेषः । यथा, --
“अष्टाङ्गयोगसंयुक्तो यजेद्देवीं विधानतः ।
यावद्ध्यानं समाधिश्च तावत् शैवः प्रचक्षते ॥”
इत्याचारभेदतन्त्रम् ॥ * ॥
शिवोपासकः । तत्पर्य्यायः । और्द्ध्वश्रोतसिकः २
इति त्रिकाण्डशेषः । एतद्भेदा यथा --
“ततश्चकार भगवान् चातुर्व्वर्ण्यं हरार्च्चने ।
शास्त्राणि चैषां मुख्यानि नानोक्तिविदितानिच
आद्यं शैवं परिख्यातमन्यत् पाशुपतं मुने ! ।
तृतीयं कालवदनं चतुर्थञ्च कपालिनम् ॥
शैव आसीत् स्वयं शक्तिर्व्व शिष्टस्य प्रियः सुतः ।
तस्य शिष्यो बभूवाथ गोपायन इति श्रुतः ॥
महापाशुपतस्त्वासीद्भारद्वाजस्तपोधनः ।
तस्य शिष्योऽप्यभूद्राजा ऋषभः सोमकेश्वरः ॥
कालास्यो भगवानासीदापस्तम्बस्तपोधनः ।
तस्य शिष्यो वको वश्यो नाम्ना क्राथेश्वरो मुने ॥
महाव्रती च धनदस्तस्य शिष्यश्च वीर्य्यवान् ।
कुल्लोदर इति ख्यातो जात्या शूद्रो महातपाः ॥
एवं स भगवान् ब्रह्मा पूजनाय शिवस्य च ।
कृत्वा तु चातुराश्रम्यं स्वमेव भवनं गतः ॥”
इति वामने ६ अध्यायः ॥ * ॥
तस्य स्वरूपं यथा । आयान्तं शैवमालोक्याह ।
“श्रीमानसावेति जटालमौलि-
र्व्याघ्रत्वगालम्बितमध्यभागः ।
विभूतिसंभूषितभास्वदङ्गो
रुद्राक्षमालाकलितोर्द्ध्वदेहः ॥”
इति विद्वन्मोदतरङ्गिण्यां २ तरङ्गः ॥

शैवलं, क्ली, (शेते इति । शी + “शीङो धुग्लग्व-

लञ् वालनः ।” उणा ०४ । ३८ । इति वलञ् ।)
पद्मकाष्ठम् । शैवाले, पुं, । इति मेदिनी ॥ (यथा
कुमारे । ५ । ९ ।
“न षट्पदश्रेणिभिरेव पङ्कजं
सशैवलासङ्गमपि प्रकाशते ॥”
विन्ध्यसमीपदक्षिणभागवर्त्तिगिरिविशेषः । यथा,
रामायणे । ७ । ८८ । १३ ।
“शै वलस्योत्तरे पार्श्वे ददर्श सुमहत् सरः ॥”)

शैवलिनी, स्त्री, (शैवलमस्या अस्तीति । इनिः ।)

नदी । इत्यमरः ॥

शैवालं, क्ली, (शी + बाहुलकात् वालञ् ।)

जलजद्रव्यविशेषः । शेयाला इति भाषा ।
(यथा, महाभारते । ४ । ६० । १७ ।
“प्रावर्त्तयन्नदीं घोरां शोनितोदां तरङ्गिणीम् ।
केशशैवालसंवाधां युगान्ते कालनिर्म्मिताम् ॥”)
तत्पर्य्यायः । जलनीली २ शैवलः ३ । इत्यमरः ॥
शेपालम् ४ शेवलम् ५ शीवलम् ६ शेपालः ७
जलनीलिका ८ । इति वाचस्पतिः ॥ जल-
नीलः ९ । इति मुकुटादयः । इति भरतः ॥
सैवालम् १० शेबालम् ११ वारिचामरः १२
शैवलम् १३ सलिलकुन्तलम् १४ हटपर्णी १५
अम्बुतालम् १६ । इति शब्दरत्नावली ॥
अरकः १७ जलकेशः १८ कावारम् १९ । इति
हारावली ॥ जलजम् २० । अस्य गुणाः ।
शीतलत्वम् । स्निग्धत्वम् । सन्तापव्रणनाशि-
त्वञ्च । इति राजनिर्घण्टः ॥

शैव्यः, पुं, श्रीकृष्णस्य घोटकविशेषः । यथा, --

“तुरगाः शैव्यसुग्रीवमेघपुष्पबलाहकाः ।”
इति त्रिकाण्डशेषः ॥
(यथा च महाभारते । १ । २२१ । ३ ।
“रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि ।
शैव्यसुग्रीवयुक्तेन किङ्किणीजालमालिना ॥”)
पाण्डवसेनापतिविशेषः । यथा, --
धृष्टकेतुश्चेकितानः काशीराजश्च वीर्य्यवान् ।
पुरुजित् कुन्तिभोजश्च शैव्यश्च नरपुङ्गवः ॥”
इति श्नीभगवद्गीतायाम् । १ । ५ ।
(स्त्री, प्रतीपस्य राज्ञः पत्नी । इति महा-
भारतम् । १ । ९५ । ४४ ॥ सगरस्य राज्ञः पत्नी ।
सा तु असमञ्जसो जननी । यथा, महाभारते ।
३ । १०७ । ३९ ।
“असमञ्जा इति ख्यातः सगरस्य सुतोऽह्यभूत् ।
यं शैव्या जनयामास पौराणां स हि दारकान् ।
गलेषु क्रोशतो गृह्य नद्यां चिक्षेप दुर्ब्बलान् ॥”
शिवसम्बन्धिनि, त्रि ॥

शैशवं, क्ली, शिशोर्भावः । (शिशु + “इगन्ताच्च

लघुपूर्व्वात् ।” ५ । १ । १३१ । इति अण ।)
बाल्यम् । इत्यमरः ॥ यथा,
“शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् ।
वार्द्धके मुनीवृत्तीनां योगेनान्ते तनुत्यजाम् ॥”
इति रघुवंशे १ सर्गः ॥

शैशिरः, पुं, (शिशिरे ऋतौ भवः । शिशिर +

अण् । श्यामचटकः । इति राजनिर्घण्टः ॥
शिशिरसम्बनि, त्रि, । यथा । श्रुतिः । तप-
स्तपस्यौ शैशिरावृतुः । इति तिथ्यादितत्त्वम् ॥

शैष्योपाध्यायिका, स्त्री, (शिष्योपाध्यायानांभावः

कर्म्म वा । शिष्योपध्याय + “द्वन्द्वमनोज्ञादि-
भ्यश्च ।” ५ । १ । १३३ । इति वुञ् ।) शिष्या-
ध्यापना । इति सिद्धान्तकौमुदी ॥

शो, य निशाने । इति कविकल्पद्रुमः ॥ (दिवा०-

पर०-सक०-अनिट् ।) निशानमिहाल्पीकर-
णम् । य, श्यति शत्तुं शूरः । इति दुर्गादासः ॥

शोकः, पुं, शुच + घञ् ।) चित्तविकलता ।

इष्टवियोगानुचिन्तनम् । इति नागोजीभट्टः ॥
बन्ध्वादिवियोगजनिता मनःपीडा । इति भाव-
प्रकाशः ॥ तत्पर्य्यायः । मन्युः २ शुक् ३ । इत्य-
मरः ॥ शुचा ४ निशमः ५ । इति शब्दरत्ना-
वली ॥ शोचनम् ६ खेदः ७ । इति हेमचन्द्रः ॥
तन्निवारणहेतुर्यथा, --
“भरतं पतितं दीनं शोचन्तं सुभृशं तदा ।
शोचमानं वशिष्ठस्तु वारयामास हेतुभिः ॥
शोचमानस्तु सस्नेहा बान्धवाः सुहृदस्तथा ।
पातयन्ति गतं स्वर्गादश्रुपातेन राघव ॥
भूरिद्युम्नो गतः स्वर्गं पुण्येन पतितः पुनः ।
शोचितो बन्धुवर्गश्च मृतस्ने हं परित्यज ॥”
इति वह्निपुराणम् ॥
अपि च । अथ शोकापनोदनम् । याज्ञवल्क्यः ॥
“कृतोदकान् समुत्तीर्णान् मृदुशाद्वलसंस्थि-
तान् ।
स्नातानपनुदेयुस्तानितिहासैः पुरातनैः ॥
मानुष्ये कदलीस्तम्भे निःसारे सारमार्गणम् ।
यः करोति स संमूढो जलवुद्वुदसन्निभे ॥
पञ्चधा संभृतः कायो यदि पञ्चत्वमागतः ।
कर्म्मभिः स्वशरीरोत्थैस्तत्र का परिवेदना ॥
गन्त्री वसुमती नाशमुदधिर्दैवतानि च ।
फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति ॥
श्ले ष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः ।
अतो न रोदितव्यहि क्रियाकार्य्या विधानतः ॥”
इति शुद्धितत्त्वम् ॥
पृष्ठ ५/१३९
अन्यच्च ।
श्रीभगवानुवाच ।
“अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासंश्च नानुशोचन्ति पण्डिताः ॥
अव्यक्तोऽयमचिन्त्योऽयमविकार्य्योऽयमुच्यते ।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।
तथापि त्वं महाबाहो नैनं शोचितुमर्हसि ॥
जातस्य हि ध्रुवो मृत्युर्ध्नुवं जन्म मृतस्य च ।
तस्मादपरिहार्य्येऽर्थे न त्वं शोचितुमर्हसि ॥
देही नित्यमवध्योऽयं देहे सर्व्वस्य भारत ।
तस्मात् सर्व्वाणि भूतानि न त्वं शोचितुमर्हसि ॥”
इति श्रीभगवद्गीतायाम् २ अध्यायः ॥

शोकनाशः, पुं, (शोकस्य नाशो यस्मात् ।)

अशोकवृक्षः । इति राजनिर्घण्टः ॥

शोकहारी, स्त्री, (शोकं हरतीति । हृ + अण् ।

ङीष् ।) वनवर्व्वरिका । इति राजनिर्घण्टः ॥

शोकारिः, पुं, (शोकस्य अरिः ।) कदम्बवृक्षः ।

इति शब्दचन्द्रिका ॥

शोचनं, क्ली, (शुच् + ल्युट् ।) शोकः । इति

हेमचन्द्रः ॥ (शोचतीति । शुच शोके + “जुच-
ङ्क्रम्यदन्द्रम्यसृगृधीति ।” ३ । २ । १५० । इति
युच् । शोकशीले, त्रि ॥)

शोचना, स्त्री, शोकोत्पादना । शोचि णिङन्तात्

ङनप्रत्ययान्तादात्प्रत्ययनिष्पन्ना । इति संक्षिप्त-
सारव्याकरणम् ॥

शोचिः, [स्] क्ली, (शुच्यत्यनेनेति । शुच + “अर्चि-

शुचिहुसृपीति ।” उणा० २ । १०९ । इति इसिः ।)
प्रभा । इत्यमरः ॥ (यथा, भागवते । ३ । १५ । २६ ।
“तद्विश्वगुर्व्वधिकृतं भुवनैकवन्द्यं
दिव्यं विचित्रविबुधाग्र्यविमानशोचिः ॥”)

शोचिष्केशः, पुं, (शोचींषि केशा इव यस्य । नियतं

समासेऽनुत्तरपदस्थस्येति षत्वम् ।) अग्निः ।
चित्रकवृक्षः । इत्यमरः ॥ (क्वचित् वाच्यलिङ्गो
ऽपि । तथा, ऋग्वेदे । १ । ४५ । ६ ।
“शोचिष्केशं पुरुप्रियाग्ने हव्याय वोह्लवे ।”
“शोचिष्केशं दीप्तिरूपकेशोपेतम् ।” इति
तद्भाष्ये सायणः ॥)
शोच्यकः, त्रि, अवरः । क्षुद्रः । इति शब्दमाला ॥

शोटीर्य्यं, क्ली, वीर्य्यम् । इति शब्दरत्नावली ॥

शोठः, त्रि, मूर्खः । अलसः । इति मेदिनी ॥

धूर्त्तः । नीचः । पापरतः । इति शब्दरत्ना-
वली ॥

शोण, ऋ गतौ । वर्णे । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-सक०-वर्णे अक०-सेट् ।) वर्णश्चेह
रक्तीभावः । शोणति सूर्य्यः सन्ध्यायाम् । इति
दुर्गादासः ॥

शोणं, क्ली, (शोणतीति । शोण वर्णे + पचाद्यच् ।)

सिन्दूरम् । रुधिरम् । इति राजनिर्घण्टः ॥

शोणः, पुं, (शोण वर्णे + अच् ।) रक्तोत्पलतुल्य-

वर्णः । तत्पर्य्यायः । कोकनदच्छविः २ । इत्य-
मरः ॥ रक्तोत्पलनिभः ३ । इति शब्दरत्ना-
वली ॥ रक्तोत्पलाभः ४ । इति जटाधरः ॥
(यथा, भागवते । १ । ११ । २ ।
“स उच्चकाशे धवलोदरोदरो-
ऽप्युरुक्रमस्याधरशोणशोणिमा ॥”)
नदविशेषः । तत्पर्य्यायः । हिरण्यवाहुः ।
इत्यमरः ॥ हिरण्यवाहः ३ । इति भरतः ॥
स तु अमरकण्टकदेशात् पाटलिपुत्त्रे गङ्गायां
मिलितः । तज्जलगुणाः । रुचिदत्वम् । सन्ताप-
शोषापहत्वम् । पथ्यत्वम् । वह्निकरत्वम् ।
बलक्षीणाङ्गवृद्धिप्रदत्वञ्च । इति राजनिर्घण्टः ॥
अग्निः । श्योनाकः । लोहिताश्वः । कोकनद-
च्छाये, त्रि । इति मेदिनी ॥ समुद्रविशेषः ।
इति धरणिः ॥ रक्तेक्षुः । श्योनाकप्रभेदः ।
इति राजनिर्घण्टः ॥ (रक्तवर्णे, त्रि । यथा,
कुमारे । १ । ७ ।
“न्यस्ताक्षरा धातुरसेन यत्र
भूज्जत्वचः कुञ्जरबिन्दुशोणाः ॥”)

शोणकः, पुं, (शोण एव । स्वार्थे कन् ।) शोणाक-

वृक्षः । इत्यमरः ॥

शोणझिण्टिका, स्त्री, (शोणा रक्तवर्णा

झिण्टिका ।) रक्तसैरेयः । इति राजनिर्घण्टः ॥

शोणझिण्टी, स्त्री, (शोणा रक्तवर्णा, झिण्टी ।)

कुरुवकः । कण्टकिनी । इति राजनिर्घण्टः ॥

शोणपत्रः, पुं, (शोणवत् रक्तानि पत्राणि यस्य ।)

रक्तपुनर्नवा । इति राजनिर्घण्टः ॥

शोणपद्मकं, क्ली, (शोणं रक्तवर्णं पद्मकम् ।) रक्त

कमलम् । इति राजनिर्घण्टः ॥

शोणपुष्पकः, पुं, (शोणं पुष्पं यस्य । कन् ।)

कोविदारः । इति राजनिर्घण्टः ॥

शोणपुष्पी, स्त्री, (शोणवत् पुष्पमस्याः । ङीष् ।)

सिन्दूरपुष्पी । इति राजनिर्घण्टः ॥

शोणरत्नं, क्ली, (शोणं रक्तवर्णं रत्नम् ।) पद्म-

रागमणिः । इत्यमरः ॥

शोणा, स्त्री, (शोणो रक्तवर्णोऽस्त्यस्या इति ।

अच् । टाप् ।) शोणवर्णयुक्ता । इति जटाधरः ॥

शोणाकः, पुं, वृक्षविशेषः । शोणा इति ख्यातः ।

तत्पर्य्यायः । श्योनाकः २ शुकनासः ३ ऋक्ष्यः ४
दीर्घवृन्तः ५ कुटन्नटः ६ अरलुः ७ स्वर्ण-
वल्कलः ८ ध्वान्तशात्रवः ९ । इति शब्दमाला ॥
मण्डूकपर्णः १० पत्रोर्णः ११ नटः १२ कट्वकुः १३
टुण्टुकः १४ शोणकः १५ अरलः १६ । इत्य-
मरः ॥ स्योनाकः १७ अरटुः १८ । इति
तट्टीका ॥

शोणितं, क्ली, (शोण वर्णे + क्तः ।) शोण +

जातार्थे इतच् वा ।) रक्तम् । इत्यमरः ॥
(यथा, मनुः । ११ । २०८ ।
“शोणितं यावतः पांशून् संगृह्णाति महीतले ।
तावन्त्यब्दसहस्राणि तत्कर्त्ता नरके वसेत् ॥”)
तस्योत्पत्तिर्गर्भस्थस्य पञ्चमे मासि भवति । इति
सुखबोधः ॥ कुङ्कुमम् । इति राजनिर्घण्टः ॥

शोणितचन्दनं, क्ली, (शोणितवत् चन्दनम् ।)

रक्तचन्दनम् । इति राजनिर्घण्टः ॥

शोणितपुरं, क्ली, (शोणिताख्यं पुरम् ।) बाण-

पुरम् । इति त्रिकाण्डशेषः ॥

शोणिताह्वयं, क्ली, (शोणितं आह्वयो यस्य ।)

कुङ्कुमम् । इति रत्नमाला ॥

शोणितोत्पलं, क्ली, (शोणितवत् रक्तमुत्पलम् ।)

रक्तोत्पलम् । इति केचित् ॥

शोणी, स्त्री, (शोण + “शोणात् प्राचाम् ।” ४ ।

१ । ४३ । इति ङीष ।) रक्तोत्पलतुल्यवर्णा
स्त्री । इति व्याकरणं जटाधरश्च ॥ (बडवा ।
इति काशिका ॥)

शोणोपलः, पुं, (शोणो रक्तवर्ण उपलः ।) माणि-

क्यम् । इति राजनिर्घण्टः ॥

शोथः, पुं, (शवतीति । शु गतौ + बाहुलकात्

थन् । इत्युणादिवृत्तौ उज्ज्वलः । २ । ४ ।)
रोगविशेषः । तत्पर्य्यायः । शोफः २ श्वयथुः ३ ।
इत्यमरः ॥ शोथकः ४ । इति शब्दरत्नावली ॥
अथ शोथाधिकारः । तत्र शोथस्य विप्रकृष्टं
निदानमाह ।
“शुद्ध्यामयाभक्तकृशाबलानां
क्षाराम्लतीक्ष्णोष्णगुरूपसेवा ।
दध्याममृच्छाकविरोधिपिष्ट-
गरोपसृष्टान्ननिषेवणञ्च ॥
अर्शांस्यचेष्टा वपुषो ह्यशुद्धि-
र्मर्म्मोपघातो विषमा प्रसूतिः ।
मिथ्योपचारः प्रतिकर्म्मणाञ्च
निजस्य हेतुः श्वयथोः प्रदिष्टा ॥”
शुद्धिर्वमनविरेकादि । आमयाः पाण्डुरोगा-
दयः । अभक्तं अभोजनम् । आमः अपक्वो
भुक्तस्य रसः । पिष्टगरोपसृष्टान्नं पिष्टो यो
गरः संयोगजं विषं तेन उपसृष्टमन्नम् । वपुषो
ह्यशुद्धिः शोधनार्हस्य वपुषोऽशोधनम् । मर्मोप-
घातः दोषकृत एव ज्ञेयः । बाह्यहेतुकृतस्तु
मर्मोपघातः आगन्तुजशोथहेतुरेव । विषमा
प्रसूतिः आमगर्भपतनादिना । प्रतिकर्म्मणां
वमनादीनां पञ्चकर्म्मणाम् । मिथ्योपचारः
असम्यक्करणम् । श्वयथोः शोथस्य । निजस्य
आत्मीयस्य । सन्निकृष्टस्य हेतोर्वातादेः । हेतुः
रूक्षोष्णमधुरादि ॥ * ॥ सन्निकृष्टनिदानमाह ।
“दोषैः पुथक् द्वयैः सर्व्वैरभिघाताद्विषादपि ।
सर्व्वो हेतुविशेषैस्तु रूपभेदो नवात्मकः ॥” * ॥
संप्राप्तिपूर्व्वकं सामान्यं लक्षणमाह ।
“रक्तपित्तकफान् वायुर्दुष्टो दुष्टान् वहिःशिराः
नीत्वा रुद्धगतिस्तैर्हि कुर्य्यात् त्वङ्मांससंश्रयम्
उत्सेधं संहतं शोथं तमाहुर्निचयादतः ॥
सगौरवं स्यादनवस्थितत्वं
सोत्सेधमुष्माथ शिराततत्वम् ।
सलोमहर्षञ्च विवर्णता च
सामान्यलिङ्गं श्वयथोः प्रदिष्टम् ॥”
उत्सेधः उन्नतत्वं किं विशिष्टमुत्सेधं अतः
पूर्व्वोक्तान्निचयात् रक्तपित्तकफवातानां समु-
दायात् । संहतं घनम् । तमुत्सेधं शोथमाहु-
रित्यन्वयः ॥ * ॥ तस्य शोथस्य किं स्यादित्या-
पृष्ठ ५/१४०
काङ्क्षयामाह । अनवस्थितत्वं स्यादनियता
स्थितिः स्यादित्यर्थः । चिकित्साव्यतिरेकेणापि
निवृत्तेः । तच्चानवस्थितत्वं सगौरवं स्यात् ।
गौरवमप्यनवस्थितं स्यात् । अथ च सोत्सेधं
स्यात् । उन्नतत्वमप्यनवस्थितं स्यादित्यर्थः ॥ * ॥
वातिकं शोथमाह ।
“चरस्तनुस्त्वक्परुषोऽरुणोऽसितः
प्रसुप्तिहर्षार्त्तियुतो निमित्ततः ।
प्रशाम्यति प्रोन्नतमेति पीडितो
दिवा बली स्यात् श्वयथुः समीरणात् ॥”
चरः सञ्चारी । प्रसुप्तिः स्पर्शाज्ञता । हर्षोऽत्र
झिनिझिनी रोमाञ्चो वा । अर्त्तिः पीडा ।
एतद्युतः । दिवावलीविकृतिविषमसमवाया-
रब्धात् । अतएवोक्तं चरकेण ।
“स्नेहोष्ममर्दनाद्यैर्यः प्रशाम्येत् स च वातिकः ।
यश्चाप्यरुणवर्णः स्यात् शोथो नक्तं प्रशा-
म्यति ॥” * ॥
पैत्तिकमाह ।
“मृदुः सुगन्धोऽसितपीतरागवान्
भ्रमज्वरस्वेदतृषामदान्वितः ।
य उष्यते स्पर्शरुगक्षिरागकृत्
स पित्तशोथो भृशदाहपाकवान् ॥”
उष्यते सन्तप्यते । भृशदाहपाकवान् भृश-
दाहो यः पाकस्तद्युक्तः ॥ * ॥ श्लैष्मिकमाह ।
“गुरुः स्थिरः पाण्डररोचकान्वितः
प्रसेकनिद्रा वमिवह्निमान्द्यकृत् ।
स कृच्छ्रजन्मप्रशमो निपीडितो
न चोन्नमेद्रात्रिवलीकफात्मकः ॥” * ॥
द्वन्द्वजमाह ।
“निदानाकृतिसंसर्गात् ज्ञेयः शोथो द्विदोषजः ॥
सान्निपातिकमाह ।
“सर्वाकृतिः सन्निपाताच्छोथो व्यामिश्रलक्षणः
व्यामिश्रलक्षण इत्युक्ते सर्व्वाकृतिरिति उक्त-
वातजादिशोथसकललक्षणनियमार्थम् ॥ * ॥
अभिघातजमाह ।
“अभिघातेन शस्त्रादिच्छेदभेदक्षतादिभिः ।
हिमानिलोदध्यनिलैर्भल्लातकपिकच्छुजैः ॥
रसैः शूकैश्च संस्पर्शात् श्वयथुः स्याद्विसर्पवान् ।
भृशोष्मा लोहिताभासः प्रायशः पित्तलक्षणः ॥”
छेदः खड्गादिना भेदः पाषाणादिना क्षतं
शरादिना नाडीब्रणादि च । आदिशब्देन
लगुडप्रहारादि गृह्यते । भल्लातजैः रसैः । कपि-
कच्छुजैः शूकैः । विसर्पवान् प्रसरणशीलः ।
पित्तलक्षणः पैत्तिकशोथलक्षणणः ॥ * ॥ विषज-
माह ।
“विषजः सविषप्राणिपरिसर्पणमूत्रणात् ।
दंष्ट्रादन्तनखाघातादविषप्राणिनामपि ॥
विण्मूत्रशुक्रोपहतमलवद्वस्त्रसंकटात् ।
विषवृक्षानिलस्पर्शात् गरयोगावचूर्णनात् ॥
मृदुश्चलोऽवलम्बी च शीघ्रो बहुरुजाकरः ।”
परिसर्पणं शरीरोपरि सञ्चरणम् । दंष्ट्राद्विगुणी
कृता दन्तावली । चौ ह इति लोके । दन्ता
अग्रे भवाः । अविषप्राणिनामपीत्यनेन दंष्ट्रा
दन्तनखानां स्वभावादेव सविषत्वमुक्तम् । किन्तु
सर्पादिविषं मारकं भवति । अविषप्राणिनां
दंष्ट्रादिविषं शोथव्यथादिकरं भवतीति विशेषः
विण्मूत्रेत्यादिविडाद्युपहतं मलिनञ्च यद्वस्त्रम्
तथा सङ्करः संमार्जनीनिःक्षिप्तो धूल्यादिःतेषां
सम्पर्कात् । गरयोगावचूर्णनात् गरः संजोगजं
विषं तस्य योगो यस्य तेन वस्तुनावधूननात् ।
अवलम्बी लम्बमानः । अयमप्यागन्तुजस्तथापि
सामान्यागन्तुजशोथचिकित्सातोऽस्य विशिष्ट-
चिकित्साभिधानात् पृथक पठितः ॥ * ॥
यत्र स्थिता दोषा यत्र शोथं कुर्व्वन्ति तदाह ।
“दोषाः श्वयथुमूर्द्धंहि कुर्वन्त्यामाशये स्थिताः ।
पित्ताशयस्था मध्ये तु वर्च्चस्थानगतास्त्वधः ॥
कृत्स्रं देहमनुप्राप्ताः कुर्य्युः सर्व्वसरं तथा ।”
ऊर्द्धं उरःप्रभृत्यूर्द्धम् । मध्ये पक्काशयमध्ये । अघः
पक्वाशयादधः ॥ * ॥ उपद्रवानाह ।
“श्वासं पिपासा छर्द्दिश्च दौर्बल्यं ज्वर एव च ।
यस्य चान्ने रुचिर्नास्ति शोथिनं तं विवर्जयेत् ॥”
कष्टसाध्यत्वादिकमाह ।
“यो मध्यदेशे श्वयथुः स कष्टः सर्व्वगश्च यः ।
अर्द्धाङ्गेऽरिष्टभूतश्च यश्चोर्द्धं परिसर्पति ॥”
मध्यदेशे उरःपक्वाशयमध्ये । सर्व्वगः सकल-
शरीरभवः । सर्व्वज इति पाठे सान्निपातिकः ।
अर्द्धाङ्गे अर्द्धनारीश्वराकारे । यस्वोर्द्ध्वं परिसर्प-
तीति पुरुषविषयम् । तथा च ।
“ऊर्द्धगामी नरं पद्भ्यामधोगामी मुखात्
स्त्रियम् ।
उभयं वस्तिसंजातः शोथो हन्ति न संशयः ॥”
ऊर्द्धगामी मुखगामी । तथा च तन्त्रान्तरे ।
“पादप्रवृत्तः श्वयथुर्नृणां यः प्राप्नु यान्मुखम् ॥”
इति ॥ स न सिध्यतीति शेषः । अधोगामी
पादगामी । तथा च तन्त्रान्तते ।
“स्त्रीणां वक्त्रात् पदं याति वस्तिजश्च न
सिध्यति ।” इति ॥
उभयं नरं नारीञ्च । अपरञ्च ।
“अनन्योपद्रवकृतः शोथः पादसमुत्थितः ।
पुरुषं हन्ति वा नारोंमुखजो वस्तिजो द्वयम् ॥”
अयमर्थः । पादसमुत्थितः पादाभ्यामुत्थितो
मुखगामीति यावत् शोथः पुरुषं हन्ति स किं
विशिष्टः अनन्योपद्रवकृतः । शोफादन्ये व्याधयो
ऽतीसारग्रहण्यर्शःप्रभृतयः तेषामुपद्रवैः कृतः ।
तदुपद्रवेण जात इत्यर्थः । न अन्योपद्रवकृतः ।
अनन्योपद्रवकृतः । अर्थात् स्वहेतुभिरेव जातः ।
शोथव्याधिरेव तु पुनर्मुखजः मुखाज्जातः पद-
गामीति यावत् नारीं हन्ति । सोऽप्यनन्योप-
द्रवकृत एव । वस्तिजः द्वयं पुरुषं नारीञ्च हन्ति
सोऽप्यनन्योपद्रवकृत एव ॥ * ॥ अथ शोथस्य
चिकित्सा ।
“शुण्ठीपुनर्नवैरण्डपञ्चमूलीशृतं जलम् ।
वातिके श्वयथौ शस्तं पानाहारपरिग्रहैः ॥ * ॥
पटोलत्रिफलारिष्टदार्व्वीक्वाथः सगुग्गुलुः ।
हन्ति पित्तकृतं शोथंतृष्णाज्वरसमन्वितम् ॥ * ॥
स्नु क्क्षीरभाविताः कृष्णा पथ्या मूत्रेण वा युताः
योजिताः शमयन्त्याशु शोथं श्लेष्मसमुत्थितम् ॥
मिश्रे मिश्रक्रियां कुर्य्यात् सर्व्वजे सर्व्वमेव हि ।
विल्वपत्ररसं पूतं शोषणं त्रिभवे पिबेत् ॥ * ॥
शोथे त्वागन्तुजे कुर्य्यात् सेकलेपादिशीतलम् ।
भल्लातक्या हरेच्छोथं सतिला कृष्णमृत्तिका ।
महिष्या नवनीतञ्च लेपाद्दग्धतिलान्वितम् ॥”
अत्र दुग्धं महिष्या एव । यत आह ।
“महिषीक्षीरसंपिष्टैर्नवनीतसमन्वितैः ।
तिलैर्लिप्तः समं याति शोथो भल्लातकोत्थितः ॥
यष्टिदुग्धतिलैर्लेपो नवनीतेन संयुतः ।
शोथमारुस्करं हन्ति चूर्णैः शालदलस्य च ॥”
विषजशोथचिकित्सा तु विषचिकित्सायांद्रष्टव्या
त्रथ सामान्यचिकित्सा ।
“पथ्या निशा भार्ग्यमृताग्निदार्व्वी-
पुनर्नवा दारु महौषधञ्च ।
क्वाथं प्रपीयोदरपाणिपाद-
मुखागतं हन्त्यचिरेण शोथम् ॥”
इति पथ्यादिक्वाथः ॥ * ॥
फलत्रिकोद्भवं क्वाथं गोमूत्रेणैव साधयेत् ।
वातश्लेष्मभवं शोथं हन्याद्वृषणसम्भवम् ॥ * ॥
वृश्चीवदेवद्रुमनागरेण
दन्ती त्रिवृत्र्यूषणचूर्णकैर्व्वा ।
दुग्धं सुसिद्धं विधिना निपीतं
गीतं परं शोथहरं भिषग्भिः ॥”
वृश्चीवः वर्षाभूः ॥ * ॥
“केशस्तथार्कवर्षाभूर्निम्बक्वाथेन शोथहृत् ।
गोमूत्रेणापि कुर्व्वीत सुखोष्णे नावसेचनम् ॥ * ॥
पुनर्नवा दारु शुण्ठी शिग्रुः सिद्धार्थकस्तथा ।
अम्लपिष्टः सुखोष्णोऽयं प्रलेपः सर्व्वशोथहृत् ॥
गुडार्द्रकं वा गुडनागरं वा
गुडाभयां वा गुडपिप्पलीं वा
कर्षाभिवृद्ध्या त्रिपलप्रमाणं
खादेन्नरः पक्षमथापि मासम् ॥
शोथप्रतिश्यायगलास्यरोगान्
सश्वासकासारुचिपीनसादीन्
जीर्णज्वरार्शोग्रहणीविकारान्
हन्यात् तथान्यान् कफवातरोगान् ॥ * ॥
विश्वं गुडेन तुल्यं वृश्चीवरसानुपानमध्यस्तम् ।
विनिहन्ति सर्व्वशोथं घनवृन्दंचण्डवायुरिव ॥ * ॥
कणानागरजं चूर्णं सगुडं शोथनाशनम् ।
आमाजीर्णप्रशमनं शूलघ्नं वस्तिशोधनम् ॥ * ॥
गुडात् पलत्रयं ग्राह्यं शृङ्गबेरं पलत्रयम् ।
शङ्गबेरसमा कृष्णा लोहविट्तिलयोः पलम् ॥
चूर्णमेतत् समुद्दिष्टं सर्व्वश्वयथुनाशनम् ॥”
इति गुडादिवटिका ।
“मानकक्वाथकल्काभ्यां घृतप्रस्थं विपाचयेत्
एकजं द्वन्द्वजं शोथं त्रिदोषञ्च व्यपोहति ॥”
इति मानकघृतम ॥
“शुष्कमूलवर्षाभूदारुरास्नामहौषधैः ।
पक्वमभ्यञ्जनात्तैलं सशूलं श्वयथुं हरेत् ॥”
पृष्ठ ५/१४१
शुष्कमूलकतैलम् । इति शोथाधिकारः । इति
भावप्रकाशः ॥

शोथकः, पुं, (शोथ एव । स्वार्थे कन् ।) शोथः ।

इति शब्दरत्नावली ॥

शोथघ्नी, स्त्री, (शोथं हन्तीति । हन् + “अमनुष्य-

कर्त्तके च ।” ३ । २ । ५३ । इति टक् ।) पुनर्नवा ।
इत्यमरः । शालपर्णी । इति राजनिर्घण्टः ॥
शोथनाशके, त्रि ॥

शोथजित्, पुं, (शोथं जयतीति । जि + क्विप् ।)

भल्लातकः । इति त्रिकाण्डशेषः ॥

शोथजिह्मः, पुं, (शोथे जिह्मः कुटिल इव ।

तन्नांशकत्वात् ।) पुनर्नवा । इति त्रिकाण्ड-
शेषः ॥

शोथहृत्, पुं, (शोथं हरति नाशयतीति । हृ +

क्विप् ।) भल्लातकः । इति रत्नमाला ॥ शोफ-
हारके, त्रि ॥

शोधनं, क्ली, (शोधयतीति । शुध + णिच् + ल्युः )

कङ्कुष्ठम् । इति राजनिर्घण्टः ॥ (शुध + भावे
ल्युट् ।) शौचम् । इति शुधधात्वर्थदर्शनात् ॥
(प्रायश्चित्तम् । यथा, मनुः । ११ । १६१ ।
“अभोज्यमन्नं नात्तव्यमात्मनः शुद्धिमिच्छता ।
अज्ञानभुक्तन्तूत्तार्य्यं शोध्यं वाप्याशु शोधनैः ॥”)
विष्ठा । इति शब्दचन्द्रिका ॥ कासीसम् । इति
राजनिर्घण्टः ॥ विहिताविहितमासादिविचा-
रणम् । यथा, --
“सूर्य्यग्रहणकालेन समानो नास्ति कश्चन ।
तत्र यद्यत् कृतं सर्व्वमनन्तफलदं भवेत् ।
न मासतिथिवारादिशोधनं सूर्य्यपर्व्वणि ॥”
इति मलमासतत्त्वम् ॥ * ॥
धातुनिर्द्दोषीकरणम् । यथा, --
“पत्तलीकृतपत्राणि हेम्नो वह्रौ प्रतापयेत् ।
निषिञ्चेत्तप्ततप्तानि तैलचक्रे च काञ्जिके ॥
गोमूत्रे च कुलत्थानां कषाये तु त्रिधा त्रिधा ।
एवं हेम्नः परेषाञ्च धातूनां शोधनं भवेत् ॥” * ॥
व्रणादिपरिष्करणम् । यथा, --
“व्रणस्य त्वविशुद्धस्य क्वाथः शुद्धिकरः परः ।
पटोलनिम्बपत्रस्य सर्व्वत्रैव प्रयुज्यते ॥
वातिके दशमूलानां क्षीरिणां पैत्तिके व्रणे ।
आरग्वधादेः कफजे कषायः शोधनं हितम् ॥”
अपि च ।
“अष्टमेनांशशेषेण चतुर्थेनार्द्धकेन वा ।
अथवा क्वाथनेनैव सिद्धमुष्णोदकं वदेत् ।
श्लेस्मामवातमेदोघ्नं वस्तिशोधनदीपनम् ॥”
इति च भावप्रकाशः ॥ * ॥
लिखितपत्रादेः प्रमाणीकरणम् । यथा । लेख्य-
शोधनमाह कात्यायनः ।
“स्वहस्तलेख्यसन्देहे जीवतो वा मृतस्य च ।
तत् स्वहस्तकृतैरन्यैः पत्रैस्तल्लेख्यनिर्णयः ॥” *
विरुद्धलिखितस्य शुद्धीकरणम् । थथा । तच्छो-
धनमाह बृहस्पतिः ।
“न्यूनाधिकं पूर्व्वपक्षं तावद्वादी विशोधयेत् ।
न दद्यादुत्तरं यावत् प्रत्यर्थी सभ्यसन्निधौ ॥”
कात्यायनः ।
“शोधयेत् पूर्व्वपक्षन्तु यावन्नोत्तरदर्शनम् ।
उत्तरेणावरुद्धस्य निवृत्तं शोधनं भवेत् ॥”
इति व्यवहारतत्त्वम् ॥ * ॥
अङ्खस्य हरणम् । यथा, --
“भाज्याद्धरः शुध्यति यद्गुणः स्या-
दन्त्यात् फलं तत् खलु भागहारे ।
समेन केनाप्यपवर्त्त्य हार-
भाज्यौ भजेद्वा सति सम्भवे तु ॥
इति लीलावती ॥
अन्यत् शुद्धिशब्दे द्रष्टव्यम् ॥

शोधनः, पुं, (शोधयतीति । शुध + णिच् + ल्युः ।)

निम्बूकः । इति राजनिर्घण्टः ॥

शोधनः, त्रि, (शोधयतीति । शुध + णिच् + ल्युः ।)

शुद्धिकारकः । यथा, --
“महासान्तपनः शुद्ध्यै तप्तकृच्छ्रस्तु पावनः ।
जलोपवासकृच्छ्रस्तु ब्रह्मकूर्च्चस्तु शोधनः ॥”
इति प्रायश्चित्ततत्त्वधृतविश्वामित्रवचनम् ॥
यथा च ।
“तैलसैन्धवयष्ट्याह्वनिम्बपत्रनिशायुगैः ।
त्रिवृद्घनयुतैः पिष्टैः प्रलेपो ब्रणशोधनः ॥
इति भावप्रकाशः ॥

शोधनी, स्त्री, (शोध्यतेऽनयेति । शुध शौचे +

णिच् + करणे ल्युट् । ङीप् ।) संमार्ज्जनी ।
इत्यमरः ॥ ताम्रवल्ली । नीली । इति राज-
निर्घण्टः ॥

शोधनीबीजं, क्ली, (शोधन्या बीजमिव बीजं यस्य ।)

जयपालः । इति राजनिर्घण्ठः ॥

शोधनीयः, त्रि, शोधितव्यः । शोध्यः । शुधधातो-

रनीयप्रत्ययेन निष्पन्नः ॥ (यथा, कथासरित्-
सागरे । ५३ । १४१ ।
“भुक्तं मया तदन्नं यत्शोधनीयं मयापि तत् ॥”

शोधितं, त्रि, (शोध्यते स्मेति । शुध + णिच् + क्तः ।

मक्षिकाद्यपनयनेनकृतशोधनव्यञ्जनादि । तत्प-
र्य्यायः । संमृष्टम् २ । इत्यमरभरतौ ॥ अपि च ।
“व्यञ्चने केशकीटादिशुद्धे संमृष्टशोधिते ॥”
इति शब्दरत्नावली ॥
अपनीतमलम् । तत्पर्य्यायः । निनिक्तम् २
मृष्टम् ३ निःशोध्यम् ४ अनवस्करम् ५ ।
इत्यमरभरतौ ॥

शोफः, पुं, (शु गतौ । वाहुलकात् फः ।) शोथः ।

इत्यमरः ॥ (यथा, सुश्रुते । १ । १४ ।
“तद्दुष्टं शोणितमनिर्ह्रियमाणः कण्डूशोफ-
रागदाहपाकवेदना जनयेत् ॥”)

शोफघ्नी, स्त्री, (शोफं हन्तीति । हन + टक् ।

ङीप् ।) शालपर्णी । रक्तपुनर्नवा । इति राज-
निर्घण्टः ॥

शोफनाशनः, पुं, (शोफं नाशयतीति । नश +

णिच् + ल्यः ।) नीलवृक्षः । इति राजनिर्घण्टः ॥
शौथनाशके, त्रि ॥

शोफहृत्, पुं, (शोफं हरतीति । हृ + किप् ।) भल्ला-

तकः । इति भावप्रकाशः ॥ शोथहारके, त्रि ॥

शोभनं, क्ली, (शोभते इति । शुभ + ल्युः ।)

पद्मम् । इति शब्दचन्द्रिका ॥ (शुभ + भावे
ल्युट् । शुभम् । यथा, भागवते । ५ । १९ । २१ ।
“अहो वतैषां किमकारि शोभनं
प्रसन्न एषां स्विदुत स्वयं हरिः ॥”)

शोभनः, पुं, (शुभ + ल्युः ।) ग्रहः । इति धरणिः ॥

विष्कम्भादिसप्तविंशतियोगान्तर्गतपञ्चमयोनः ।
इति मेदिनी ॥ तत्र जातफलम् ।
“स्याच्छोभनः शोभनयोगजन्मा
दक्षो विपक्षप्रतिलब्धवित्तः ।
सदुत्तरश्चारुवपुः सुंधीरः
संमानयुक्तो मनुजः प्रवीणः ॥”
इति कोष्ठीप्रदीपः ॥

शोभनः, त्रि, (शोभते इति । शुभ + ल्युः ।)

सुन्दरः । इति मेदिनी ॥ अस्य पर्य्यायो मनोज्ञ-
शब्दे द्रष्टव्यः ॥

शोभनकः, पुं, (शोभते इति । शुभ + ल्युः । ततः

कन् ।) शोभाञ्जनवृक्षः । इति शब्दचन्द्रिका ॥
शोभनशब्दकारके, त्रि ॥

शोभना, स्त्री, (शोभन + टाप् ।) हरिद्रा । गोरो-

चना । इति राजनिर्घण्टः ॥

शोभा, स्त्री, शोभन्तेऽनया । (शुभ + करणे

घञ् । टाप् ।) दीप्तिः । तत्पर्य्यायः । कान्तिः २
द्युतिः ३ छविः ४ । इत्यमरः ॥ द्युती ५ छवी ६
इति तट्टीका ॥ अभिख्या ७ । इति जटाधरः ॥
शुभा ८ भाः ९ श्रीः १० भासा ११ भा १२
इति शब्दरत्नावलौ ॥ सुषमा १३ छाया १४
विभा १५ दृक्प्रिया १६ भानम् १७ भातिः १८
कमा १९ रमा २० । इति राजनिर्घण्टः ॥
तस्या लक्षणम् ।
“सा शोभा रूपभोगाद्यैर्यत् स्यादङ्गविभूषणम् ।
शोभैवकान्तिराख्याता मन्मथाप्यायनोज्ज्वला ॥”
इत्युज्ज्वलनीलमणिः ॥ * ॥
गोपीविशेषः । यथा, --
“दृष्टस्त्वं शोभया गोप्या युक्तश्चन्दनकानने ।
सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया ॥
शोभा देहं परित्यज्य जगाम चन्द्रमण्डलम् ।
ततस्तस्याः शरीरञ्च स्निग्धं तेजो बभूव ह ॥
संविभज्य त्वया दत्तं हृदयेन विदूयता ।
रत्नाय किञ्चित् स्वर्णायकिञ्चिन्मणिवराय च ॥
किञ्चित् स्त्रीणां मुखाब्जेभ्यः किञ्चिदब्जाय
किञ्चन ।
किञ्चित् किशलयेभ्यश्च पुष्पेभ्यश्चापि किञ्चन ॥
किञ्चिच्चन्दनपङ्के भ्यस्तोयेभ्यश्चापि किञ्चन ।
किञ्चित् फलेभ्यः शस्येभ्यः सुपक्के भ्यश्च किञ्चन ।
किञ्चिन्नूतनवस्त्रेभ्यो दुग्धे भ्यश्चापि किञ्चन ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ९ अध्यायः ॥ * ॥
हरिद्रा । गोरोचना । इति राजनिर्घण्टः ॥

शोभाञ्जनः, पुं, (शोभं रुचिरं अञ्जनं यस्मात् ।)

वृक्षविशेवः । शजिना इति भाषा । तत्पर्य्यायः ।
शिग्रुः २ तीक्ष्णगन्धकः ३ अक्षीवः ४ मोचकः ५ ।
इत्यमरः ॥ तीक्ष्णगन्धः ६ सुतीक्ष्णः ७ घन-
पृष्ठ ५/१४२
पल्लवः ८ श्वेतमरिचः ९ । इति जटाधरः ॥
तीक्ष्णः १० गन्धः ११ गन्धकः १२ काक्षीवकः १३
आक्षीवः १४ शुभाञ्जनः १५ स्त्रीचित्तहारी १६
द्रविणनाशनः १७ । इति शब्दरत्नावली ॥
कृष्णगन्धा १८ मूलकपर्णी १९ । इति रत्नमाला ॥
नीलशिग्रुः २० जनप्रियः २१ मुखमोदः २२
कृष्णशिग्रुः २३ चक्षुष्यः २४ रुचिराञ्जनः २५ ।
अस्य गुणाः । तीक्ष्णत्वम् । कटुत्वम् । स्वादु-
त्वम् । उष्णत्वम् । पिच्छिलत्वम् । जन्तुवातार्त्ति-
शूलनाशित्वम् । चक्षुर्हितत्वम् । रोचनत्वञ्च ।
इति राजनिर्घण्टः ॥ अपि च ।
“शोभाञ्जनः कटुस्तिक्तः शोथविद्रधिगुल्मनुत् ।”
इति राजवल्लभः ॥
अन्यच्च । अथ शोभाञ्जनः श्यामः श्वेतः रक्तश्च ।
“शोभाञ्जनशिग्रुतीक्ष्णगन्धकाक्षीवमोचकाः ।
तद्बीजं श्वेतमरिचं मधुशिग्रः सलोहितः ॥
शिग्रुः कटुः कटुः पाके तीक्ष्णोष्णो मधुरो लघुः ।
दीपनो रोचनो रूक्षः क्षवस्तिक्तो विदाहकृत् ॥
संग्राह्यशुक्रलो हृद्यः पित्तरक्तप्रकोपणः ।
चक्षुष्यः कफवातघ्नो विद्रधिश्वयथुकृमीन् ॥
मेदोपचीविषप्लीहगुल्मगण्डव्रणान् हरेत् ।
श्वेतः प्रोक्तगुणो ज्ञेयो विशेषाद्दाहकृद्भवेत् ॥
प्लीहानं विद्रधिं हन्ति व्रनघ्नः पित्तरक्तकृत् ।
मधुशिग्रुः प्रोक्तगुणो विशेषाद्दीपनः सरः ।
शिग्रुवल्कलपत्राणां स्वरसः परमार्त्तिहृत् ॥ * ॥
क्षक्षुष्यं शिग्रुजं बीञं तीक्ष्णोष्णं विषनाशनम् ।
सवृष्यं कफवातघ्नं तन्नस्येन शिरोऽर्त्तिनुत् ॥
शिग्रु शाकं हिमं स्वादु चक्षुष्यं वातपित्तहृत् ।
बृंहणं शुक्रकृत् स्निग्धं रुच्यं मदकृमिप्रणुत् ॥”
अस्य पुष्पगुणाः ।
“शिग्रोः पुष्पन्तु कटुकं तीक्ष्णोष्णं स्नायुशोथनुत् ।
कृमिहृत् कफवातघ्नं विद्रधिप्लीहगुल्मजित् ॥”
अस्य फलगुणाः ।
“शोभाञ्जनफलं स्वादु कषायं कफपित्तनुत् ।
शूलकुष्ठक्षयश्वासगुल्महृत् दीपनं परम् ॥”
इति भावप्रकाशः ॥
अथ रक्तशोभानपर्य्यायः ।
“सुरङ्गी स्वादुगन्धा च मधुलग्नः शुभाञ्जनः ॥”
इति रत्नमाला ॥
अन्यच्च ।
“रक्तशोभाञ्जने तुल्यौ मधुशिग्रु मधुद्रवौ ।”
इति शब्दरत्नावली ॥
अस्य पुष्पगुणाः ।
“मधुशिग्रोस्त्वक्षिहितं रक्तपित्तप्रसादनम् ॥”
इति भावप्रकाशः ॥
अन्यत् रक्तशिग्रु शब्दे द्रष्टव्यम् ॥

शोली, स्त्री, वनहरिद्रा । इति राजनिर्घण्टः ।

शोषः, पुं, (शुष् + भावे घञ् । शोषनम् । इति

मेदिनी ॥ (शुष्यत्यनेनेति । शुष् + करणे घञ् ।)
यक्ष्मरोगः । इत्यमरः ॥ तद्रोगस्यौपधं यथा, --
“वया त्रिकटुकञ्चैव करञ्जं देवदारु च ।
मञ्चिष्टा त्रिफला श्वेता शिरीषो रजनीद्वयम्
प्रियङ्गुनिम्बत्रिकटु गोमूत्रेणावघर्षितम् ।
नस्यमालेपनञ्चैव स्नानमुद्वर्त्तनं तथा ॥
अपस्मारविषोन्मादशोषालक्ष्मीज्वरापहम् ।
भूतेभ्यश्च भयं हन्ति राजद्वारे च शामनम् ॥”
इति गारुडे १९९ अध्यायः ॥

शोषणं, क्ली, (शुष् + ल्युट् ।) रसाकषणम् । चोषण

इति भाषा । तत्पर्य्यायः । रसादनम् २ । इति
हेमचन्द्रः ॥ स्ने हरहितीकरणम् । यथा, --
“शोषणेन शरीरस्य तपसाध्ययनेन च ।
पापकृन्मुच्यते पापाद्दानेन च दमेन च ॥”
इति प्रायश्चित्ततत्त्वम् ॥
शुण्ठी । इति राजनिर्घण्टः ॥

शोषणः, पुं, (शोषयतीति । शुष + णिच् + ल्युः ।)

कामदेवस्य बाणविशेषः । यथा, --
“उन्मादनः शोषणश्च तापनः स्तम्भनस्तथा ।”
इति जटाधरः ॥
श्योनाकवृक्षः । इति भावप्रकाशः ॥ (शोषण-
कारके, त्रि ॥)

शोषसम्भवं, क्ली, (शोषाय रसाकर्षणाय सम्भवो

यस्य ।) पिप्पलीमूलम् । इति राजनिर्घण्टः ॥

शोषापहा, स्त्री, (शोषं अपहन्तीति । हन + डः

टाप् ।) क्लीतनकम् । इति राजनिर्घण्टः ॥
शोषनाशके, त्रि ॥

शोषितः, त्रि, (शुष + णिच् + क्तः ।) कृतशोषणः ।

यथा, --
“आतापिर्भक्षितो येन वातापिश्च महासुरः ।
समुद्रः शोषितो येन स मेऽगस्त्यः प्रसीदतु ॥”
इति मलमासतत्त्वम् ॥

शौकं, क्ली, (शुकानां समूहः । शुक + “खण्डि-

कादिभ्यश्च ।” ४ । २ । ४५ । इत्यञ् ।) शुक-
गणः । इत्यमरः ॥ स्त्रीणां करणम् । इति
मेदिनी ॥

शौकरं, क्ली, (शूकरस्येदमिति । शूकर +

अण् ।) तीर्थविशेषः । यथा, --
वराह उवाच ।

शौकरवं, क्ली, (शूकरस्येदमिति । शूकर +

अण् ।) तीर्थविशेषः । यथा, --
वराह उवाच ।
“शृणु मे परमं गुह्यं यत्त्वया परिपृच्छितम् ।
मम क्षेत्रं परञ्चैव शुद्धं भागवतप्रियम् ॥
परं कोकामुखं स्थानं तथा कुब्जाम्रकं परम् ।
परं शौकरवं स्थानं सर्वसंसादमोक्षणम् ॥
यत्र संस्था च मे देदि ह्युद्धृतासि रसातलात् ।
यत्र भागीरथी गङ्गा मम शौकरवे स्थिता ॥
धरण्युवाच ।
केषु लोकेषु यान्तीश शौकरे ये मृताः प्रभो ! ।
किं वा पुण्यं भवेत्तत्र स्नातस्य पिबतस्तथा ॥
कति तीर्था विशालाक्ष । क्षेत्रे शौकरवे तव ।
धर्म्मसंस्थापनार्थाय तद्विष्णो ! वक्तुमर्हसि ॥
वराह उवाच ।
शृणु तत्त्वे न मे देवि ! यत्त्वं मां परिपृच्छसि ।
कां गतिं ते प्रपद्यन्ते नरा शौकरवे मृताः ॥
तेषां स्नानस्य वै पुण्यं गतस्यैव मृतस्य वा ।
तत्र यानि च तीर्थानि मम संस्थानसंस्थिताः ॥
शृणु पुण्यं महाभागे मम क्षेत्रेषु सुन्दरि ।
प्राप्नु वन्ति महाभागे गत्वा शौकरवं प्रति ॥
दश पूर्व्वापरांश्चापि अपरान् सप्त पञ्च च ।
स्वर्गं गच्छन्ति ते तत्र ये मृतास्तेषु जन्तवः ॥
गमनादेव सुश्रोणि ! मुखस्य मम दर्शनात् ।
सप्तजन्मान्तरे भद्रे जायते विपुले कुले ॥
धनधान्यसमृद्धेषु रूपवान् गुणवान् शुचिः ।
मद्भक्तश्चैव जायेते मम कर्म्मपरायणः ॥
एवं वै मानुषो भूत्वा अपराधविवर्ज्जितः ।
गमनं तस्य क्षेत्रस्य मरणं तत्र कारणम् ॥
ये मृतास्तत्र सुश्रोणि क्षेत्रे शौकरवे मम ।
शङ्खचक्रगदापद्मचतुर्हस्ताश्चतुर्भुजाः ।
त्यक्त्वा कलेवरं तूर्णं मम लोकाय गच्छति ॥”
इति वाराहे शौकरतीर्थमाहात्म्ये आदित्यवर-
प्रदानगृध्रजम्बुकोपाख्याननामाध्यायः ॥

शौक्तिकेयं, क्ली, (शुक्तिकायां भवमिति । शुक्तिका

+ ढक् ।) मुक्ता । इति राजनिर्घण्टः ॥

शौक्तेयं, क्ली, (शुक्तौ भवभिति । शुक्ति + ढक् ।)

मुक्ता । इति राजनिर्घण्टः ॥ शुक्तिसम्बन्धिनि,
त्रि ॥

शौक्ल्यं, क्ली, (शुक्लस्य भावः । शुक + “वर्णदृढा-

दिभ्यः ष्यञ् च ।” ५ । १ । १२३ । इति ष्यञ ।)
शुक्लता यथा --
“पलितं जरसा शौक्ल्यं केशादौ विस्रसा जरा ।”
इत्यमरः ॥
(यथा, बृहत्संहितायाम् । ४ । ३ ।
“त्यजतोऽर्कतलं शशिनः
पश्चादवलम्बते यथा शौक्ल्यम् ॥”)

शौचं, क्ली, (शुचेर्भावः । शुचि + “इगन्ताच्च लघु

पूर्व्वात् ।” ५ । १ । १३१ । इत्यण् ।) शुचिता ।
शुचित्वम् । शुद्धिः । तस्य लक्षणादि यथा, --
“अभक्ष्यपरिहारस्तु संसर्गश्चाप्यनिन्दितैः ।
स्वधर्म्मे च व्यवस्थानं शौचमेतत् प्रकीर्त्तितम् ॥”
इत्येकादशीतत्त्वे बृहस्पतिवचनम् ॥
अन्यच्च ।
“सर्व्वेषामेव शौचानामर्थशौचं विशिष्यते ।
योऽर्थार्थैरशुचिः शौचान्न मृदा वारिणा
शुचिः ॥
सत्यशौचं मनःशौचं शौचमिन्द्रियनिग्रहः ।
सर्व्व भूतदयाशौचं जलशौचन्तु पञ्चमम् ॥
यस्य सत्यञ्च शौचञ्च तस्य स्वर्गो न दुर्लभः ॥”
इति गारुडे ११० अध्यायः ॥
अपिच ।
“यावता शुद्धिं मन्येत तावच्छौचं समाचरेत् ।
प्रमाणं शौचसंख्याया न शिष्टैरुपदिश्यते ॥
शौचन्तु द्विविधं प्रोक्त बाह्यमाभ्यन्तरं तथा ।
मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिरथान्त-
रम् ॥”
इति गारुडे २१५ अध्यायः ॥
पादादिशौचगुणा यथा, --
“मेध्यं पवित्रमायुष्यमलक्ष्मीकलिनाशनम् ।
पादयोर्मलसर्गाणां शौचाधानमभीक्ष्णशः ॥”
इति राजवल्लभः ॥
पृष्ठ ५/१४३
अपि च ।
“उद्धृताम्भोमृत्तिकाभ्यामित्थं नारद यत्नतः ।
कृत्वोत्सर्गं ततः कुर्य्यात् शौचं मूत्रपुरीषयोः ॥”
इति पाद्मोत्तरखण्डे १०९ अध्यायः ॥
प्रसङ्गादशौचञ्चात्र लिख्यते ।
व्यास उवाच ।
“दशाहं प्राहुरशौचं सपिण्डेषु विपश्चितः ।
मृतेषु चाथ जातेषु ब्राह्मणानां द्विजोत्तमाः ॥
नित्यानि चैव कर्म्माणि काम्यानि च विशेषतः ।
न कुर्य्याद्विहितं किञ्चित् स्वाध्यायं मनसापि च
शुचीननिधनांस्त्वन्यान् शालाग्नौ हावयेद्द्विजान्
शुष्कांन्नेन फलैर्व्वापि वैतानाजुहुयात्ततः ॥ * ॥
न स्पृशेयुरिमानन्ये न च तेभ्यः समाहरेत् ।
चतुर्थे पञ्चमे वाह्नि संस्पर्शः कथितो बुधैः ॥
सूतके तु सपिण्डानां संस्पर्शो न प्रदुष्यति ।
सूतकं सूतिकाञ्चैव वर्ज्जयित्वा नृणां पुनः ॥
दशाहं निर्गुणे प्रोक्तमशौचं चातिनिर्गुणे ।
एकद्वित्रिगुणैर्युक्तं चतुस्त्र्येकदिनैः शुचिः ॥
दशाहात्तु परं सम्यगधीयीत जुहोति च ।
चतुर्थे तस्य संस्पर्शं मनुः प्राह प्रजापतिः ॥ * ॥
क्रियाहीनस्य मूर्खस्य महारोगिण एव च ।
यथेष्टाचरणस्याहुर्म्मरणान्तमशौचकम् ॥ * ॥
त्रिरात्रं दशरात्रं वा ब्राह्मणानान्तु शावकम् ।
प्राक् संस्कारात् त्रिरात्रं स्यादस्मादूर्द्धं दशा-
हकम् ॥
ऊनद्विवार्षिके प्रेते मातापित्रोस्तदिष्यते ।
त्रिरात्रेण शुचिस्त्वन्यो यदि ह्यत्यन्तनिर्गुणः ॥
आदन्तजातमरणे पित्रोरेकाहमिष्यते ।
जातदन्ते त्रिरात्रं स्याद्यदि स्यातान्तु
निर्गुणौ ॥
आदन्तजननात् सद्य आचूडादेकरात्रकम् ।
त्रिरात्रमौपनयनात् सपिण्डानामुदाहृतम् ॥
जातमात्रस्य बालस्य यदि स्यान्मरणं पितुः ।
सद्यःशौचं सपिण्डानां कर्त्तव्यं सोदरस्य च ॥
ऊर्द्ध्वं दशाहादेकाहं सोदरो यदि निर्गुणः ।
अथोर्द्धं दन्तजननात् सपिण्डानामशौचकम् ॥
एकाहं निर्गुणानान्तु चूडादूर्द्धं त्रिरात्रकम् ।
अदन्तजातमरणं सम्भवेद्यदि सत्तमाः ॥
एकरात्रं सपिण्डानां यदि तेऽत्यन्तनिर्गुणाः ।
व्रतादेशात् सपिण्डानामर्व्वाक् स्नानं विधीयते ।
सर्व्वेषामेव गुणिनामूर्द्ध्वन्तु विषमं पुनः ॥ * ॥
अर्व्वाक् षण्मासतः स्त्रीणां यदि स्याद्गर्भसंस्रवः ।
तदा माससमैस्तासामशौचं दिवसैः स्मृतम् ॥
अतऊर्द्ध्वन्तु पतने स्त्रीणां स्याद्दशरात्रकम् ।
सद्यःशौचं सपिण्डानां गर्भस्रावाच्च वा ततः ॥
गर्भच्युतावहोरात्रं सपिण्डेऽत्यन्तनिर्गुणे ।
यथेष्टाचरणे ज्ञातौ त्रिरात्रमिति निश्चयः ॥ * ॥
यदि स्यात् सूतके सूतिर्म्मरणे वा मृतिर्भवेत् ।
शेषेणैव भवेच्छुद्धिरहःशेषे त्रिरात्रकम् ।
मरणोत्पत्तियोगे तु मरणाच्छुद्धिरिष्यते ॥
अघवृद्धिमदाशौचमूर्द्धञ्चेत्तेन शुध्यति ।
अथ चेत् पञ्चमों रात्रिमतीत्य परतो भवेत् ।
अघवृद्धिमदाशौचं तदा पूर्व्वेण शुध्यति ॥ * ॥
देशान्तरगतं श्रुत्वा सूतकं शावमेव तु ।
तावदप्रयतो मर्त्यो यावच्छेषः समाप्यते ॥ * ॥
अतीते मृतके प्रोक्तं सपिण्डानां त्रिरात्रकम् ।
तथैव मरणे स्नानमूर्द्ध्वं संवत्सराद्यदि ॥
वेदार्थविदधीयानो योऽग्निमान् वृत्तिकर्षितः ।
सद्यःशौचं भवेत्तस्य सर्व्वावस्थासु सर्व्वदा ॥
स्त्रीणामसंस्कृतानान्तु प्रदानात् परतः सदा ।
सपिण्डानां त्रिरात्रं स्यात् संस्काराद्भर्त्तुरेव च ॥
अतस्तद्दत्तकन्यानामशीचं मरणे स्मृतम् ।
ऊनद्विवर्षान्मरणे सद्यःशौचमुदाहृतम् ॥
आदन्तात् सोदरे सद्य आचौडादेकरात्रकम् ।
आप्रदानात् त्रिरात्रं स्याद्दशरात्रमतः परम् ॥
मातामहानां मरणे त्रिरात्रं स्यादशौचक म् ।
एकोदकानां मरणे सूतके चैतदेव हि ।
पक्षिणी योनिसम्बन्धे बान्धवेषु तथैव च ॥
एकरात्रं समुद्दिष्टं गुरौ सब्रह्मचारिणाम् ।
प्रेते राजनि सज्योतिर्यस्य स्याद्विषये स्थितिः ॥
गृहे मृतासु दत्तासु कन्यकासु त्र्यहं पितुः ।
परपूर्व्वासु भार्य्यासु पुत्त्रेषु कृतकेषु च ॥
त्रिरात्रं स्यात्तथाचार्य्ये स्वभार्य्यास्वन्यगासु च ॥
आचार्य्यपुत्त्रे पत्न्याश्च अहोरात्रमुदाहृतम् ॥
एकाहं स्यादुपाध्याये स्वग्रामे श्रोत्रियेऽपि च ।
त्रिरात्रमसपिण्डेषु स्वगृहे संस्थितेषु च ॥
एकाहं वा श्वशुर्य्ये स्यादेकरात्रञ्च शिष्यके ।
त्रिरात्रं श्वश्रूमरणे श्वशुरे चैतदेव हि ॥
सद्यःशौचः समुद्दिष्टं सगोत्रे संस्थिते सति ॥ * ॥
शुध्येद्विप्रो दशाहेन द्वादशाहेन भूमिपः ।
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ॥ * ॥
क्षत्त्रविट्शूद्रदायादा ये स्युर्विप्रस्य बान्धवाः ।
तेषामशौचे विप्रस्य दशाहाच्छुद्धिरिष्यते ॥
राजन्यवैश्यावप्येवं हीनवर्णासु योनिषु ।
स्वमेव शौचं कुर्य्यातां विशुद्ध्यर्थं न संशयः ॥
सर्व्वेतूत्तमवर्णानां शौचं कुर्य्युरतन्द्रिताः ।
उद्वर्णविधिदृष्टेन स्वन्तु शौचं स्वयोनिषु ॥
षड्रात्रं वा त्रिरात्रं स्यादेकरात्रं क्रमेण तु ।
वैश्यक्षत्त्रियविप्राणां शूद्रे ष्वाशौचमेव तु ॥
अर्द्धमासोऽथ षड्रात्रं त्रिरात्रं द्विजपुङ्गवाः ।
शूद्रक्षत्त्रियविप्राणां वैश्येष्वाशौचमिष्यते ॥
षड् रात्रं द्वादशाहञ्च विप्राणां वैश्यशूद्रयोः ।
अशौचं क्षत्त्रिये प्रोक्तं क्रमेण द्विजपुङ्गव ॥
शूद्रविट्क्षत्त्रियाणान्तु ब्राह्मणे संस्थिते सति ।
दशरात्रेण शुद्धिः स्यादित्याह कमलोद्भवः ॥ * ॥
असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् ।
अशित्वा च सहोषित्वा दशरात्रेण शुध्यति ॥
यद्यन्नमत्ति तेषान्तु त्रिरात्रेण ततः शुचिः ।
अनदन्नन्नमह्नै व न च तस्मिन् गृहे वसन् ॥
सोदरेष्वेतदेव स्यान्मातुराप्तेषु बन्धुषु ।
दशाहेन शवस्पर्शे सपिण्डश्चैव शुध्यति ॥
षड्रात्रेणाथवा सर्व्वे त्रिरात्रेणाथवा पुनः ।
अनाथञ्चैव निर्हृत्य ब्राह्मणं धनवर्ज्जितम् ॥
स्नात्वा संप्राश्य तु घृतं शुध्यन्ति व्राह्मणादयः ।
अवरश्चेद्वरं वर्णमवरं वा वरो यदि ॥
अशौचे संस्पृशेत् स्नेहात्तदाशौचेन शुध्यति ॥ * ॥
प्रेतीभूतं द्विजं विप्रो योऽनुगच्छति कामतः ।
स्नात्वा सचेलं स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति ॥
एकाहात् क्षत्त्रिये शुद्धिर्वैश्यानां स्यात् द्व्यहेन
तु ।
शूद्रे दिनत्रयं प्रोक्तं प्राणायामशतं पुनः ॥ * ॥
अनस्थिसञ्चिते शूद्रे रौति चेद्ब्राह्मणः स्वकः ।
त्रिरात्रं स्यादथाशौचमेकाहं त्वन्यथा स्मृतम् ॥
अस्थिसञ्चयनादर्व्वागेकाहं वेश्यशूद्रयोः ।
अन्यथा चैव सज्योतिर्ब्राह्मणे स्नानमेव तु ॥
अनस्थिसञ्चिते विप्रे ब्राह्मणो रौति चेत्तदा ।
स्नानेनैतद्भवेच्छुद्धिः सचेलेन न संशयः ॥ * ॥
यस्तैः सहाशनं कुर्य्याच्छयनादीनि चैव हि ।
बान्धवो वा परो वापि स दशाहेन शुध्यति ॥ * ॥
यस्तेषामन्नमश्नाति सकृदेवापि कामतः ।
तदाशौचे निवृत्तेऽसौ स्नानं कृत्वा विशुध्यति ॥
यावत्तदन्नमश्नाति दुर्भिक्षोपहतो नरः ।
तावन्त्यहान्यशौचं स्यात् प्रायश्चित्तं ततश्चरेत् ॥
दाहाद्यशौचं कर्त्तव्यं द्बिजानामग्निहोत्रिणाम् ।
सपिण्डानान्तु मरणे मरणादितरेषु च ॥ * ॥
सपिण्डता तु पुरुषे सप्तमे विनिवर्त्तते ।
समानोदकभावम्तु जन्मनाम्नोरवेदने ॥
पिता पितामहाश्चै व तथैव प्रपितामहः ।
लेपभाजश्चतुर्थाद्याः सापिण्ड्यं साप्तपौरुषम् ॥
अनूढानां तथा स्त्रीणां सापिण्ड्यं साप्तपौरुषम्
जायानां भर्त्तृसापिण्ड्यं प्राह देवः पितामहः ॥
ये चैकजाता बहवो भिन्नयोनय एव च ।
भिन्नवर्णास्तु सापिण्ड्यं भवेत्तेषां त्रिपौरुषम् ॥ *
कारवः शिल्पिनो वैद्या दासी दासस्तथैव च ।
दातारो नियमी चैव ब्रह्मविद्ब्रह्मचारिणौ ॥
सत्रिणो व्रतिनस्तावत् सद्यःशौचा उदाहृताः ।
राजा चैवाभिषिक्तश्च विप्राः सत्रिण एव च ॥
यज्ञे विवाहकाले च देवयागे तथैव च ।
सद्यःशौचं समाख्यातं दुर्भिक्षे वाप्यवद्रवे ॥
डिम्बाहवहतानाञ्च विद्युता पार्थिवैर्द्विजैः ।
सद्यःशौचं समाख्यातमज्ञातिमरणे तथा ॥
अग्नौ मरुप्रपतने वीराध्वन्यप्यनाशके ।
ब्राह्मणार्थे च संन्यस्ते सद्यःशौचं विधीयते ॥ * ॥
नैष्ठिकानां वनस्थानां यतीनां ब्रह्मचारिणाम् ।
नाशौचं कीर्त्त्यते सद्भिः पतिते च तथा मृते ॥
पतितानां न दाहः स्यान्नान्त्येष्टिर्नास्तिसञ्चयः ।
न चाश्रुपातः पिण्डो वा कार्य्यं श्राद्धादिकं
क्वचित् ॥
व्यापादयेदथात्मानं स्वयं योऽग्निं विषादिभिः ।
विहितंतस्य नाशौचं नाग्निर्नाप्युदकादिकम् ॥ *
अथ कश्चित् प्रमादेन मृइयतेऽग्निविषादिभिः ।
तस्याशौचं विधातव्यं कार्य्यञ्चैवोदकादिकम् । * ।
जाते कुमारे तदहः कामं कुर्य्यात् प्रतिग्रहम् ।
हिरण्यधान्यगोवासस्तिलान्नगुडसर्षपान् ॥
फलानि पुष्पं शाकञ्च लवणं काष्ठमेव च ।
तोयं दधि घृतं क्षीरमौषधं तैलमेव च ।
पृष्ठ ५/१४४
अशौचिनां गृहाद्ग्राह्यं शुष्कान्नमेवनित्यशः ॥”
इति कौर्म्मे उपविभागे २२ अध्यायः ॥
अन्यत् पाद्मोत्तरखण्डे १०९ अध्याये द्रष्टव्यम् ॥

शौचाचारः, पुं, (शौचः आचारः ।) शुद्धिकर्म्म ।

यथा, --
“शौचाचारविहीनस्य समस्ता निष्फलाः
क्रियाः ॥”
इत्याह्निकाचारतत्त्वे ब्रह्मपुराणम् ॥
अन्यच्च ।
“उपनीय गुरुः शिष्यं महाव्याहृतिपूर्व्वकम् ।
वेदमध्यापयेदेनं शौचाचारांश्च शिक्षयेत् ॥”
इति याद्मवल्क्यः ॥

शौचिकः, पुं, (शौचं गृहादेः शुचिता कार्य्यत्वे-

नास्त्यस्येति । शौच + ठन् ।) वर्णसङ्करविशेषः ।
यथा, --
“कैवर्त्तस्य च कन्यायां शौण्डिकादेवशौचिकः ॥”
इति पराशरपद्धतिः ॥

शौचेयः, पुं, (शौचेन वस्त्रादिशुचित्वेन व्यवहर-

तीति । शौच + ढक् ।) रजकः । इति शब्द-
रत्नावली ॥

शौट, ऋ गर्व्व । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सेट् ।) चतुर्द्दशस्वरी । ऋ, अशु-
शौटत् । शौटति वीरः । इति दुर्गादासः ॥

शौटीरः, पुं, (शौटतीति । शौट गर्व्वे + “कॄशॄपॄ

कटिपटिशौटिभ्यः ईरन् ।” उणा० ४ । ३० ।
इति ईरन् ।) त्यागी । वोरः । इत्युणादिकोषः ॥
गर्व्वान्विते, त्रि । इति सिद्धान्तकौमुद्यामुणादि-
वृत्तिः ॥ (यथा, महाभारते । १२ । ८३ । ४३ ।
“सन्तुष्टः सम्मतः सत्यः शौटीरो द्वेष्यपापकः ।
मन्त्रवित् कालवित् शूरः समन्त्रं श्रोतुमर्हति ॥”

शौटीर्य्यं, क्ली, (शौटीरस्य भावः कर्म्म वा ।

शौटीर + “गुणवचनब्राह्मणादिभ्यः कर्म्मणि
च ।” ५१ । १२४ । इति ष्यञ् ।) वीर्य्यम् । इति
शब्दरत्नावली ॥ गर्व्वः । शौटीरशब्दात् भावे
ष्ण्यप्रत्ययेन निष्पन्नम् ॥

शौड ऋ गर्व्वे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सेट् ।) चतुर्द्दशस्वरी । ऋ, अशु-
शौडत् । इति दुर्गादासः ॥

शौण्डः, त्रि, (शुण्डायां मद्ये रतः । शुण्डा + अण् ।

मत्तः । इत्यमरः ॥ (यथा, महाभारते । ३
२३३ । ११ ।
“चण्डाश्च शौण्डाश्च महाशनाश्च
चौराश्च दुष्टाश्च पलाश्च वर्ज्ज्याः ॥”)

शौण्डिकः, पुं, (शुण्डापण्यभस्य । शुण्डा + “तदस्य

पण्यम् ।” ४ । ४ । ५१ । इति ठक् ।) जातिविशेषः ।
शुडौ इति भाषा । तत्पर्य्यायः । मण्डहारकः २
इत्यमरः ॥ शुण्डारः ३ शौण्डी ४ शुण्डकः ५ ।
इति शब्दरत्नावली ॥ ध्वजः ६ पानः ७ पणः ८ ।
इति जटाधरः ॥ कल्पपालः ९ सुराजीवी १० ।
वापिवामः ११ पानबणिक् १२ ध्वजी १३ ।
आसुतीबलः १४ । इति हेमचन्द्रः ॥ तस्योत्-
पतिर्यथा, --
ततो गान्धिककन्यायां कैवर्त्तादेव शौण्डिकः ।
कैवर्त्तस्य च कन्यायां शौण्डिकादेव शौचिकः ॥”
इति पराशरपद्धतिः ॥
(अस्य गृहे भोजननिषेधो यथा, मनुः । ४ ।
२१६ ।
“श्ववतां शौण्डिकानाञ्च चेलनिर्नेजकस्य च ।
रञ्जकस्य नृशंसस्य यस्य चोपपतिर्गृहे ॥”
एषां गेहे नाद्यात् इत्यर्थः ॥ * ॥ शुण्डिका-
दागते, त्रि, । अत्र “शुण्डिकादिभ्योऽण् ।” ४ ।
३ । ७६ । इत्यण् ॥)

शौण्डी, [न्] पुं, (शुण्डा सुरा एव शौण्डं मद्यम् ।

स्वार्थे अण् । तत् पण्यत्वेनास्त्यस्येति । शौण्ड +
इन् ।) शौण्डिकः । इति शब्दरत्नावली ॥

शौण्डी, स्त्री, (शुण्डायां मद्यपानगेहे भवा ।

मत्तानां रुचिप्रदत्वात् । शुण्डा + अण् । ङीप् ।)
पिप्पली । चव्यम् । इति विश्वः ॥

शौण्डीरः, त्रि, (शौटतीति । शौट + ईरन् ।

पृषोदरादित्वात् साधुः ।) अहङ्कारी । यथा, --
“शौण्डीरो गर्व्वि तस्तब्धो मानी चाहङ्कृदुद्धतः ।
उद्ग्रीव उद्धरोऽकॢप्तो नीचश्च पिशुनो-
ऽधमः ॥”
इति धनञ्जयकोषः ॥

शौद्धोदनिः, पुं, (शुद्धोदनस्यापत्यं पुमानिति ।

शुद्धोदन + “अत इञ् ।” ४ । १ । ९५ । इति
इञ् ।) शाक्यवंशावतीर्णबुद्धमुनिविशेषः । इत्य
मरः ॥ “शुद्धमोदनस्य इति मनीषादिः ।
शुद्धोदनो नाम राजा । तथाहि ।
“शुद्धोदनो यतो भुङ्क्ते न्यायवत् शुद्धमोदनम् ।”
इत्यार्षाभिधानम् ॥
शुद्धोदनस्यापत्यं शौद्धोदनिः । बाह्वाद्यत इति
ष्णिः ।” इति भरतः ॥

शौद्रः, पुं, (शूद्रायां भवः । शूद्रा + अण् ।) द्वादश-

विधपुत्त्रान्तर्गतपुत्त्रविशेषः । स तु ब्राह्मण-
क्षत्त्रियवैश्यान्यतमात् शूद्रायां जातः । यथा, --
“औरसः क्षेत्रजो दत्तो मूढोत्पन्नश्च कृत्रिमः ।
क्रीतापविद्धकानीनशौद्रपौनर्भवा अपि ॥
स्वयं दत्तः सहोढोऽपि द्वावुरस्यौरसौ समौ ॥”
इति जटाधरः ॥
(यथा, मनुः । ९ । १६० ।
“कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा ।
स्वय दत्तश्च शौद्रश्च षडदायादबान्धवाः ॥” * ॥
शूद्रस्येदमिति । अण् ।) शूद्रसम्बन्धिनी, स्त्रि, ॥
(यथा, महाभारते । १२ । ६२ । ४ ।
“क्षात्त्राणि वैश्यानि च सेवमानः
शौद्राणि कर्म्माणि च ब्राह्मणः सन् ।
अस्मिंल्लोके निन्दितो मन्दचेताः
परे च लोके निरयं प्रयाति ॥”)

शौधिका, स्त्री, रक्तकङ्गः । इति हेमचन्द्रः ॥

शौनकः, पुं, (शुनकस्यापत्यमिति । शुनक + “अनृ-

ष्यानन्तर्थे विदादिभ्योऽञ्” । ४ । १ । १०४ ।
इति अञ् । मुनिविशेषः । यथा, --
“सपिण्डीकरणादूर्द्ध्वं न दद्यात् प्रतिमासिकम् ।
एकोद्दिष्टविधानेन दद्यादित्याह शौनकः ॥”
इति तिथ्यादितत्त्वम् ॥

शौनिकः, (शूना प्राणिवधस्थानं प्रयोजनमस्य ।

शूना + ठक् ।) मांसविक्रयकर्त्ता । यथा, --
‘वैतं सिकःकौटिकश्च मांसिकः शौनिकः समाः ।’
इति जटाधरः हेमचन्द्रश्च ॥
मृगया । इति शब्दमाला ॥

शौभं, क्ली, (शोभायै हितम् । शोमा + अण् ।)

हरिश्चन्द्रपुरम् । इति त्रिकाण्डशेषः ॥ तत्प-
र्य्यायः । व्योमचारिपुरम् २ । इति भूरिप्रयोगः
(पुरमेतत् शाल्वस्य नृपतेरासीत् । कृष्णेनेदं
विनाशितम् । एतद्वृत्तान्तस्तु भागवते १०
स्कन्धे ७७ अध्याये द्रष्टव्यः ॥)

शौभः, पुं, (शुभाय हितः । शुभ + अण् ।) देवता

इति त्रिकाण्डशेषः ॥ गुवाकः । इति शब्द-
माला ॥

शौभनेयः, त्रि, शोभनसम्बन्धी । शोभनशब्दात्

ष्णेयप्रत्ययेन निष्पन्नः ॥

शौभाञ्जनः, पुं, (शोभाञ्जन एव । स्वार्थे अण् ।)

शोभाञ्जनवृक्षः । इति भरतद्विरूपकोषः ॥

शौभिकः, पुं, (शौभं व्योमचारिपुरं उपलक्षणेन

तद्वदाश्चर्य्यकरं वस्तु साधनत्वेनास्त्यस्येति । शौभ
+ ठन् ।) इन्द्रजालिकः । इति शब्दशाला ॥

शौभ्रेयः, त्रि, (शुभ्रा + “शुभ्रादिभ्यश्च ।” ४ । १ ।

१२३ । इति ढक् ।) शुभ्राया अपत्यम् । इति
मुग्धबोधव्याकरणम् ॥ शुभ्रसम्बन्धिनि च ॥

शौरिः, पुं, (शूरस्यापत्यमिति । शूर + इञ् ।)

विष्णुः । (यथा, आनन्दलहर्य्याम् २ ।
“तनीयांसं पांशु तव चरणपङ्केरुहभवं
विरिञ्चिः सञ्चिन्वन् विरचयति लोकानविकलम्
वहत्येनं शौरिः कथमपि सहस्रेण शिरसां
हरः संक्षुभ्यैनं भजति भसितोद्धूननविधिम् ॥”)
शनैश्चरग्रहः । इत्यमरभरतौ ॥ (शूरवंशीय-
मात्रे । वसुदेवः । यथा, भागवते । ३ । १ । २६ ।
“क्वचित् कुरूणां परमः सुहृन्नो
भामः स आस्ते सुखमङ्गशौरिः ॥”
बलदेवः । यथा, महाभारते । ५ । ७ । २५ ।
“ततोऽभ्ययाद्भीमबलो रौहिणेयं महाबलम् ।
सर्व्वञ्चागमने हेतुं स तस्मै संन्यवेदयत् ।
प्रत्युवाच ततः शौरिर्धार्त्तराष्ट्रमिदं वचः ॥”
कृष्णः । यथा, भागवते । १ । १० । ३३ ।
“अथ दूरगतान् शौरिः कौरवान् विरहा-
तुरान् ।
संनिवर्त्त्य दृढं स्निग्धान् प्रायात् स्वनगरीं
प्रियैः ॥”)

शौर्पः, त्रि, (शूर्प + “शूर्पादन्यतरस्याम् ।”

५ । १ । २६ । इति अञ् पक्षे ठञ् ।
शूर्पपरिमितम् । शूर्पशब्दात् ष्णप्रत्ययेन ष्णिक-
प्रत्ययेन च निष्पन्नौ ॥

शौर्पिकः, त्रि, (शूर्प + “शूर्पादन्यतरस्याम् ।”

५ । १ । २६ । इति अञ् पक्षे ठञ् ।
शूर्पपरिमितम् । शूर्पशब्दात् ष्णप्रत्ययेन ष्णिक-
प्रत्ययेन च निष्पन्नौ ॥

शौर्य्यं, क्ली, (शूरस्य भावः कर्म्म वा । शूर ×

व्यञ् ।) शक्तिः । (यथा, रामायणे । ६ ।
१५ । ३ ।
पृष्ठ ५/१४५
“सत्त्वेन वीर्य्येण पराक्रमेण
धैर्य्येण शौर्य्येण च तेजसा च ॥”)
आरभटी । इति मेदिनी ॥

शौल्कं, त्रि, शुल्कसम्बन्धि । शुल्कशब्दात् ष्णप्रत्य-

येन निष्पन्नम् ॥

शौल्किकः, पुं, (शुल्के अधिकृतः । शुल्क + ठञ् ।)

शुल्काध्यक्षः । इति हेमचन्द्रः ॥ (यथा, याज्ञ-
वल्क्ये । २ । १७६ ।
“शौल्किकैः स्थानपालैर्व्वा नष्टापहृतमाहृतम् ।
अर्व्वाक्संवत्सरात् स्वामी हरेत परतो नृपः ॥”)

शौल्किकेयः, पुं, विषभेदः । इत्यमरः ॥ शुल्किको

देशभेदस्तत्र भवः शौल्किकेयः । ष्णेयः । ताल-
व्यांदिः । इति भरतः ॥

शौल्फं, क्ली, शाकविशेषः । शुल्फा इति भाषा ।

भूतचतुर्द्दश्यां चतुर्दशशाकमध्ये तद्भक्षणीयम् ।
यथा, निर्णयामृते ।
“ओलं केमुकवास्तूकं सर्षपं कालञ्च निम्बं
जयां
शालीञ्चीं हिलमोचिकाञ्च पटुकं शौल्फं
गुडुचीन्तथा ।
भण्टाकीं सुनिसन्नकं शिवदिने खादन्ति ये
मानवाः
प्रेतत्वं न च यान्ति कार्त्तिकदिने कृष्णे च भूते
तिथौ ॥”
इति तिथ्यादितत्त्वम् ॥
अस्य पर्य्यायगुणाः शतपुष्पाशब्दे द्रष्टव्याः ॥

शौल्विकः, पुं, कंसकारः । काँसारि इति भाषा ।

तत्पर्य्यायः । ताम्रकुट्टकः २ । इत्यमरः ॥ काम-
न्दमी ३ कांस्यकारः ४ । इति जटाधरः ॥
ताम्रिकः ५ ताम्रकारकः ६ । इति शब्दरत्ना-
वली ॥

शौवं, क्ली, (श्वन् + “शुनः सङ्कोच उपसंख्यानम् ।”

६ । ४ । १४४ । इत्यस्य वार्त्तिकोक्त्या अणि
साधु ।) शुनः सङ्कोचः । शुनो वृन्दम् । श्वो-
भवम् इति संक्षिप्तसारव्याकरणम् ॥

शौवनं, क्ली, (श्वन् + अण् ।) शुनो भावः । शुनो-

ऽपत्यम् । इति संक्षिप्तसारव्याकरणम् ॥ (शुनः
समूहः । श्वन् + “खण्डिकादिभ्यश्च ।” ४ । २ । ४५ ।
इत्यञ् । कुक्कुरसमूहः । इति व्याकरणम् ॥
शुनो मांसम् । इति काशिका । ६ । ४ । १३३ ॥)

शौवस्तिकं, त्रि, (श्वो भवम् । श्वस् + “श्वसस्तुट्

च ।” ४ । ३ । १५ । इति ठञ तुडागमश्च ।)
भाविदिनस्थायिवस्तु । यथा, --
आत्मम्भरिस्त्वं पिशितैर्नराणां
फलेग्रहीन् हंसि वनस्पतीनाम् ।
शौवस्तिकत्वं विभवा न येषां
व्रजन्ति तेषां दयसे न कस्मात् ॥”
इति भट्टौ २ सर्गः ॥
“येषां विभवाः सम्पदः शौवस्तिकत्वं भाविदिन-
स्थितत्वं न व्रजन्ति तेषां कस्मान्न दयसे । श्वो-
भवः शौवस्तिकः श्वसो भवार्थे कण्विधानात्
कणि मनीषादित्वात् त्यागमः द्वारस्वरेतिउम्
णित्त्वे व्रिरिति व्रिः त्वतौ भावे इति त्वम् ।”
इति तट्टीकां ॥

शौवापदं, त्रि, (श्वापदस्येदमिति । श्वापद +

अण् । “पादान्तस्यान्यतरस्याम् ।” ७ । ३ । ९ । इति
पक्षे ऐच् ।) श्वापदसम्बन्धि । श्वापदशब्दात्
ष्णप्रत्ययेन निष्पन्नम् । इति मुग्धबोधव्याकर-
णम् ॥ (यथा, अनर्घराघवे । १ । २५ ।
“कच्चित् कान्तारभाजां भवति परिभवः
कोऽपि शौवापदो वा
प्रत्यूहेन क्रतूनां न खलु मखभुजो भुञ्जते
वा हवींषि ॥”)

शौष्कलः, पुं, (शुष्कलं पण्यमस्येति । अण् ।)

शुष्कमांसस्य पणकः । इति मेदिनी ॥

शौष्कलः, त्रि, (शुष्कलीमत्तीति । शुष्कली +

अण् ।) आमिषाशी । इत्यमरः ॥ मत्स्यमांस-
भोजनशीलः । आमिषं अश्नाति आमिषाशी
ग्रहादित्त्वाण्णिन् । शुष्कली शुष्कमांसे स्या-
न्मांसमात्रेऽपि दृश्यते । तामत्ति शौष्कलः ष्णः ।
तालव्यादिमूर्द्धन्यमध्यः । शुष्कं मांसं लाति इति
शुष्कलः प्रज्ञादित्वात् अणि शौष्कलः । इति
विद्याविनोदः । शाष्कलः इति पाठः । इति
स्वामी । इति भरतः ॥

श्चुत इर् क्षरणे । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-अक०-सेट् ।) द्वौतालव्य-
वर्गाद्ययुक्ततालव्यादी । शेषोऽन्तःस्थादियुक्तश्च ।
नकारजावनुस्वारपञ्चमावित्यादिनियमेऽप्यनयो-
स्तालव्यादित्वं तद्वचनस्य व्यभिचारसूचनार्थं
तेन चुलुम्प लोपे इत्यादीनामोष्ठ्यवर्गशेषोप-
धत्वं सङ्गच्छते । तेन क्विपि संयोगान्तलोपे
चुलुम् इत्यादि सिद्धम् । किन्तु द्वौ दन्त्यादी
इति धातुप्रदीपक्रमदीश्वरौ । तेन घृतं श्चोतति
इति घृतश्चुत् तमाचष्टे इति ञौ ञीमंश्चेति
डित्वाट्टिलोपे घृतश्चयति पुनः क्विपि ञेर्लोपे
घृतस्क इति स्थिते संयोगादेः सस्य लोपे घृतक्
इति केचित् ॥ इर, अश्चुतत् अश्चोतीत् ।
अश्च्युतत् अश्च्योतीत् । क्षर इति आसेचनं
क्षरणञ्च । रक्तमाश्च्योतति क्षुर इति । इदं
कवचमश्च्योतीदिति । निश्च्योतन्ते सुतनुकवरी
बिन्दवो यावदेते । इति मालत्यां गणकृतानि-
त्यत्वम् । इति दुर्गादासः ॥

श्च्युत इर् क्षरणे । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-अक०-सेट् ।) द्वौ तालव्य-
वर्गाद्ययुक्ततालव्यादी । शेषोऽन्तःस्थादियुक्तश्च ।
नकारजावनुस्वारपञ्चमावित्यादिनियमेऽप्यनयो-
स्तालव्यादित्वं तद्वचनस्य व्यभिचारसूचनार्थं
तेन चुलुम्प लोपे इत्यादीनामोष्ठ्यवर्गशेषोप-
धत्वं सङ्गच्छते । तेन क्विपि संयोगान्तलोपे
चुलुम् इत्यादि सिद्धम् । किन्तु द्वौ दन्त्यादी
इति धातुप्रदीपक्रमदीश्वरौ । तेन घृतं श्चोतति
इति घृतश्चुत् तमाचष्टे इति ञौ ञीमंश्चेति
डित्वाट्टिलोपे घृतश्चयति पुनः क्विपि ञेर्लोपे
घृतस्क इति स्थिते संयोगादेः सस्य लोपे घृतक्
इति केचित् ॥ इर, अश्चुतत् अश्चोतीत् ।
अश्च्युतत् अश्च्योतीत् । क्षर इति आसेचनं
क्षरणञ्च । रक्तमाश्च्योतति क्षुर इति । इदं
कवचमश्च्योतीदिति । निश्च्योतन्ते सुतनुकवरी
बिन्दवो यावदेते । इति मालत्यां गणकृतानि-
त्यत्वम् । इति दुर्गादासः ॥

श्च्योतः, पुं, (श्च्योतनमिति । श्च्यु + घञ् ।)

प्राघारः । इत्यमरः ॥

श्म, [न्] क्ली, मुखम् । इति श्मश्रुशब्दटीकायां

भरतः ॥ (शरीरम् । इति निरुक्तिः । ३ । ५ ॥
शवः । इति पुराणम् । अस्य प्रमाणं श्मशान-
शब्दे द्रष्टव्यम् ॥)

श्मशानं, क्ली, (श्मनां शवानां शानं शयनं यत्र ।

यद्वा, शवानां शयनमिति । “पृषोदरादीनि
यथोपदिष्टानि ।” ६ । ३ । १०९ । इति शव-
शब्दस्य श्मादेशः शयनशब्दस्यापि शानशब्द
आदेशः ।) शवदाहस्थानम् । तत्पपर्य्यायः ।
पितृवनम् २ । इत्यमरः ॥ शतानकम् ३ रुद्रा
क्रीडः ४ दाहसरः ५ इति त्रिकाण्डशेषः ॥
अन्तशय्या ६ पितृकाननम् ९ । इति जटा-
धरः ॥ * ॥ तस्य व्युत्पत्तिर्यथा, --
“श्मशब्देन शवः प्रोक्तः शानं शयनमुच्यते ।
निर्व्वचन्ति श्मशानार्थं मुने शब्दार्थकोविदाः ॥
महान्त्यपि च भूतानि प्रलये समुपस्थिते ।
शेरतेऽत्र शवा भूत्वा श्मशानन्तु ततो भवेत् ॥”
महाश्मशानं यथा, --
“वाराणसीति विख्याता रुद्रावास इति द्विजाः ।
महाश्मशानमित्येवं प्रोक्तमानन्दकाननम् ॥”
इति श्रीस्कान्दे काशीखण्डे ३० अध्यायः ॥ * ॥
“उत्सवे व्यसने चैव दुर्भिक्षे शत्रु विग्रहे ।
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥”
इति चाणक्यम् । १७ ॥ * ॥
श्मशाने गत्वा विष्णुस्पर्शे दोषो यथा, --
वराह उवाच ।
“श्मशानं यो नरो गत्वा अस्नात्वैव तु मां-
स्पृशेत् ।
मम दोषापराधस्य शृणु तत्त्वेन यत् फलम् ॥
जम्बुको जायते भूमे वर्षाणां नव पञ्च च ।
गृध्रस्तु सप्तवर्षाणि जायते खचरेश्वरः ॥
चरन्तौ मानुषं मांसं उभौ तौ गृध्रजम्बु कौ ।
पिशाचो जायते तत्र वर्षाणि नव पञ्च च ॥
ततस्तु कुणपोच्छिष्टं त्रिं शद्धर्षाणि खादति ।
ततो नारायणाच्छ्रु त्वा धरणी वाक्यमब्रवीत् ॥
एतन्मे परमं गुह्यं लोकनाथ जनार्द्दन ।
परं कौतूहलं देव निखिलं वक्तुमर्हसि ॥
श्मशानं पुण्डरीकाक्ष ईश्वरेण प्रशंसितम् ।
तत्र किं विगुणं देव पावित्रे शिवभाषिते ॥
स तत्र रमते नित्यं भगवांस्तु महाद्युतिः ।
कपालं गृह्य देवोऽत्र दीप्तिमन्तं महौजसम् ॥
प्रशंसितञ्च रुद्रेण भवता किं विनिन्दितम् ।
श्मशाणं पद्मपत्राक्ष रुद्रस्य च निशि प्रियम् ॥
वराह उवाच ।
शृणु तत्त्वे न मे देवि इदमाख्यानमुत्तमम् ।
अद्यापि ते न जानन्ति अनघे शंसितव्रताः ॥
कृत्वा सुदुष्करं कर्म्म सर्व्वभूतपतिर्हरः ।
हत्वा च बालवृद्धानि त्रिपुरे रूपिणीः स्त्रियः ॥
तेन पापेन सम्बद्धो न शक्नोति विचेष्टितुम् ।
तत ईशो मया चोक्तो वाक्यमेव सुखावहम् ॥
किमिदं तिष्ठसे रुद्र कश्मलेन समावृतः ।
तव चैव प्रियार्थाय येनाहमिदमागतः ॥
ततो मम वचः श्रुत्वा लब्धसंज्ञो महेश्वरः ।
उवाच मधुरं वाक्यं पापसन्तप्तलोचनः ॥
तव विष्णो प्रसादेन मया तत्त्रिपुरं हतम् ।
निहता दानवास्तत्र गर्भिण्यश्च निपातिताः ॥
बालवृद्धा हतास्तत्र विष्फुरन्तो दिशो दश ।
तस्य पापस्य दोषेण न शक्नोमि विचेष्टितुम् ॥
प्रनष्टयोगमायश्च नष्टेश्वर्य्यश्च माधव ।
किं मया विप्रकर्त्तव्यमेनोऽवस्थेन माधव ॥
विष्णो तत्त्वेन मे ब्रूहि शोधनं पापनाशनम् ।
येन वै कृतमात्रेण शीघ्नं मुच्येत किल्विषात ॥
पृष्ठ ५/१४६
एवं चिन्तात्मनस्तत्र मया रुद्रस्य भाषितम् ।
कपालमालां संगृह्य समलं गच्छ शङ्कर ॥
ममैवं वचनं श्रुत्वा भगवान् परमेश्वरः ।
उवाच मां पुनर्व्यक्तं मां बोधय जगत्पते ॥
कीदृशः समलो विष्णो यत्र गच्छामहे वयम् ॥
ततस्तस्य वचः श्रुत्वा शङ्करस्य यशस्विनि ।
तत्पापशोधनार्थाय मयावासं प्रभाषितम् ॥
श्मशानं समलो रुद्र पूतिको व्रणगन्धिकः ।
स्वयं तिष्ठति वै तत्र मनुजा विगतस्पृहाः ॥
तत्र गृह्य कपालानि रम तत्रैव शङ्कर ।
तत्र वर्षसहस्राणि दिव्यान्येव दृढव्रतः ॥
ततो भक्षय मांसानि पापक्षयचिकीर्षुकः ।
हिंस्यमानानि भोज्यानि ये च भोज्यास्तव
प्रियाः
एवं सर्व्वैर्गणैः सार्द्धं रम तत्र सुनिश्चितः ।
पूर्णे वर्षसहस्रे तु स्थित्वा त्वं समले पुनः ॥
एष्यसि स्वाश्रमं पुण्यं गौतमस्य महामुनेः ।
तत्र ज्ञास्यसि चात्मानं आश्रमे विधिसंस्थिते ॥
प्रसादात् गोतमस्याथ भविता गतकिल्विषः ।
एवं तस्य वरं दत्त्वा तत्रै वान्तरधीयत ॥
रुद्रोऽपि भ्रमते तत्र श्मशाने पापसंवृते ।
एवं न रोचते भूमे श्मशानं मे कदाचन ॥
यत्र रुद्रकृतं पापं स्थितं किल भयावहम् ।
एतत्ते कथितं भद्रे श्मशानं मे जुगुप्सितम् ॥
विष्ट्वापि कृतसंस्कारो मम कर्म्मपरायणः ।
प्रायश्चित्तं प्रवक्ष्यामि येन शुध्यति किल्विषात्
कृत्वा चतुर्थभक्षन्तु दिनानि दश पञ्च च ।
आकाशशयनं कुर्य्यात् एकभक्तः कुशास्तरे ॥
प्रभाते पञ्चगव्यन्तु पातव्यं कर्म्मशोधनम् ।
प्रमुक्तः सर्व्वपापेभ्यो मम लोकाय गच्छति ॥”
इति वाराहे श्मशानप्रवेशापराधप्रायश्रित्त-
नामाध्यायः ॥

श्मशानकाली, स्त्री, (श्मशानस्य काली ।)

कालिकाविशेषः । अथ श्मशानकाली । तदुक्तं
कालीतन्त्रे ।
“वाणीं मोयां ततो लक्ष्मीं कामबीजमतः परम्
कालिके संपुटत्वेन चतुष्कं बीजमालिखेत् ॥
एकादशार्णा देवेशि चतुवर्गप्रदायिनी ॥” * ॥
अस्या यन्त्रम् ।
“पद्ममष्टदलं वृत्तं तद्बाह्ये धरणीतलम् ।
चतुर्द्वारसमायुक्त मध्ये मूलं समालिखेत् ॥
दलेष्वष्टसु विलेखेत् कवर्गाद्यष्टवर्गकम् ।
धरण्यां विलिस्वेदाद्यं चतुष्कञ्च चतुष्कके ।
पूर्व्वादि उत्तरान्तञ्च मध्ये देवीं प्रपूजयेत् ॥” * ॥
अस्याः पूजाक्रमः । प्रातः कृत्यादिप्राणायामान्तं
कर्म्म कृत्वा ऋष्यादिन्यासं कुर्य्यात् यथा ।
शिरसि भृगुऋषये नमः । हृदि श्मशानकाकि-
कायै देवतायै नमः । गुह्ये वाग्वीजाय नमः ।
पादयोर्मायाशक्तये नमः । सर्व्वाङ्गे कामबीज-
कीलकाय नमः । ततः कराङ्गन्यासौ । ऐँ अङ्ग-
ष्ठाभ्यां नमः । ह्रीँ तर्ज्जनीभ्यां स्वाहा । श्रीँ
मध्यमाभ्यां वषट । क्लीँ आनामिकाभ्यां हुँ ।
कालिके कनिष्ठाभ्यां वौषट् । क्लीमादिवाग्-
भवान्तं करतलपृष्ठाभ्यां फट् । एवं हृदया-
दिषु ॥ * ॥ ततो ध्यानम् ।
“अञ्जनाद्रिनिभां देवीं श्मशानालयवासिनीम्
रक्तनेत्रां मुक्तकेशीं शुष्कमांसातिभैरवाम् ॥
पिङ्गाक्षीं वामहस्तेन मद्यपूर्णं समांसकम् ।
सद्यःकृत्तशिरो दक्षहस्तेन दधतीं शिवाम् ।
स्मितवक्त्रां सदा चाममांसचर्व्वणतत्पराम् ।
नानालङ्कारभूषाङ्गीं नग्नां मत्तां सदासवैः ॥
एवं ध्यात्वा जपेद्देवीं श्मशाने तु विशेषतः ।
गृहे वापि गृहस्थोऽपि मत्स्यमांसैः सुभोजनैः ।
नग्नो भूत्वा महापूजां कुर्य्याद्रात्रौ विशेषतः ॥” * ॥
पूजनन्तु ध्यात्वा मानसैः संपूज्यार्घ्यस्थापनं
कुर्य्यात् । पुनर्ध्यात्वा यथोपचारैः संपूज्य पत्रेषु
ब्राह्यादिकं पूजयेत् । तद्वहिरसिताङ्गादिकं
पूजयेत् । अस्याः पुरश्चरणं एकादशलक्षजपः ।
तथा च ।
“वर्णलक्षं जपेन्मन्त्रं तद्दशांसेन होमयेत् ।”
मन्त्रान्तरम् । तत्रैव ।
“कामबीजं समालिख्य कालिकायै समालिखेत्
नमोऽन्तेन च देवेशि सप्तार्णो मनुरुत्तमः ।
सर्व्वाङ्गे कालिका देवी अन्यत् सर्व्वन्तु पूर्ववत् ॥”
इति तन्त्रसारः ॥

श्मशानवासी, [न्] पुं, (श्मशाने वसतीति ।

वस + णिनिः ।) शिवः । यथा, --
“क्षेत्रपः क्षेत्रपालश्च क्षेत्रज्ञः क्षत्रियो विराट् ।
श्मशानवासौ मांसाशी खर्पराशी मखान्तकृत् ॥”
इति वटुकभैरवस्तोत्रम् ॥ * ॥
श्मशाने वासकर्त्तरि, त्रि, । यथा । शवसम्बन्धि
वस्त्रादिकं श्मशानवासिचण्डालादिभ्यो दद्यात्
इति शुद्धितत्त्वम् ॥

श्मशानवेश्मा, [न्] पुं, (श्मशानं वेश्म यस्य ।)

महादेवः । इति हेमचन्द्रः ॥

श्मशानवासिनी, स्त्री, (श्मशाने वसति या ।

वस + णिनिः । ङीप् ।) काली । यथा, --
“श्मशानवासिनी सौम्या शिवानी शिववल्लभा ।”
इति कालिकाशतनामस्तोत्रम् ॥

श्मशानालयवासिनी, स्त्री, (श्मशानालये श्मशान-

गृहे वसतीति । वस + णिनिः । ङीप् ।) काली ।
यथा, --
“घोररावां महारोद्रीं श्मशानालयवासिनीम् ।”
इति तन्त्रसारे दक्षिणकालिका ध्यानम् ॥

श्मश्रु, स्त्री, (श्म मुखं श्रयति आश्रयतीति ।

श्म + श्रि + “श्मनि श्रयतेर्डुम् ।” उणा० ५ ।
२८ । डुन् ।) पुंमुखे वर्द्धितलोम । इत्यमरः ॥
दाडी इति भाषा ॥ पुंमुखे पुरुषास्ये तेषां वृद्धौ
सत्यां तल्लोम श्मश्रु उच्यते । श्मन्निति मुख
नामेति स्मुतिः श्मनि मुखे श्रूयते उपलभ्यते
श्मश्रु नाम्नाति डुः श्मश्रु क्लीवमुदन्तम् । श्म
मुखं श्रयति श्मनः श्रयतेर्डुन्निति डुनि श्मश्रु
नान्तमित्यन्ये । इति भरतः ॥ * ॥ तस्य श्रुभा-
शुभलक्षणं यथा, --
“निस्नं वक्त्रमपुत्त्राणां कृपणानाञ्च ह्रस्वकम् ।
संपूर्णं भोगिनां कान्तं श्मश्र स्निग्धं शुभं मृदु ॥
संहतं चास्फु टिताग्रं रक्तश्मश्रुश्च चौरकः ।
रक्ताल्पपरुषश्मश्रुकर्णाः स्युः पापमृत्यवः ॥”
इति गारुडे ६६ अध्यायः ॥ * ॥
क्रोधार्त्तस्यावर्त्तनं यथा, --
मार्कण्डेय उवाच ।
“इति प्रतिज्ञाय तदा नरिष्यन्तसुतो दमः ।
कोपामर्षविवृत्ताक्षः श्मश्रु मावर्त्त्य पाणिना ॥
हा हतोऽस्मीति पितरं ध्यात्वा दैवं विनिन्द्य च ।
प्रोवाच मन्त्रिणः सर्व्वानानिनाय पुरोहितम् ॥”
इति मार्कण्डेयपुराणे शेषाध्यायः ॥ * ॥
अस्य धारणफलं यथा । दानधर्म्मे ।
“केशश्मश्रु धारयतामग्र्या भवति सन्ततिः ॥” *
तस्य क्षौरक्रमो यथा । वराहपुराणम् ।
“श्मश्रु कर्म्म कारयित्वा नखच्छेदमनन्तरम् ।”
गोभिलः ।
“केशश्मश्रुलोमनखानि वापयीत शिखावर्जम ।”
इति शुद्धितत्त्वम् ॥

श्मश्रुमुखी, स्त्री, (श्मश्रु मुखे यस्याः । ङीष् ।)

श्मश्रु युक्ता नारी । तत्प्रर्य्यायः । पालिः २ पाली
३ । इति शब्दरत्नावली ॥ पोटा ४ । इति
जटाधरः ॥

श्मील, निमिषणे । इतिकविकल्पद्रुमः ॥ (भ्वा० पर०

अक०-सेट् ।) ओष्ठ्यवर्गशेषयुक्तः । श्मीलति
चक्षुः पक्ष्मभिरावृतं स्यादित्यर्थः । इति दुर्मा-
दासः ॥

श्यानः, त्रि, गतः । श्यैधातोः क्तप्रत्ययेन निष्पन्नः ॥

श्यामं, क्ली, (श्यैङ गतौ + “इषियुधीन्धीति ।”
उणा० १ । १४४ । इति मक् ।) मरिचम् ।
सिन्धुलवणम् । इति मेदिनी ॥

श्यामः, त्रि, (श्यायते मनो यस्मात् । श्यै + मक् ।)

कृष्णगुणविशिष्टः । (यथा, मनुः । ७ । २५ ।
“यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा ।
प्रजास्तत्र न मुह्यन्ति नेता चेत् साधु पश्यति ॥”)
हरिद्गुणविशिष्टः । इत्यमरः ॥

श्यामः, पुं, (श्यै + मक् ।) प्रयागस्य वटः । (यथा

रघुः । १३ । ५३ ।
“त्वया पुरस्तादुपयाचितो यः
सोऽयं वटः श्याम इति प्रतीतः ।
राशिर्मणीनामिव गारुडानां
सपद्मरागः फलितो विभाति ॥”)
मेघः । वृद्धदारकः । कोकिलः । कृष्णवर्णः ।
हरिद्वर्णः । इति मेदिनी ॥ धुस्तूरः । पीलु-
वृक्षः । श्यामाकः । इति राजनिर्घण्टः ॥ दम-
नकवृक्षः । गन्धतृणम् । इति विश्वः ॥ * ॥
श्यामवस्तूनि यथा, --
कृष्णानि केशवः सीरिचीरं चन्द्राङ्कराहवः ।
विन्ध्याञ्जनाद्रिवृक्षाहिवनभैरवराक्षसाः ॥
शिवकण्ठघनद्वैपायनरामधनञ्जयाः ।
शनिर्द्रुपदजा काली कलिकोलयमासुराः ॥
केशकज्ज्वलकस्तूरीराजपट्टविदूरजम् ।
पृष्ठ ५/१४७
विषकोषकुहूशस्त्रागुरुपापतमोनिशाः ॥
मसीपङ्कमदाम्भोधियमुनाधूमकोकिलाः ।
गोलाङ्गुलास्यगुञ्जास्ये कण्ठः खञ्जनकेकिनोः ॥
शवलं तालतापिञ्जतिलेन्दीवरवल्लयः ।
रसविद्भूतशृङ्गारौ कटाक्षोऽलिः कणीनिका ॥
नीली जम्बूफलं मुस्ता काककृत्याकुकीर्त्तयः ।
भिन्नश्छाया गजाङ्गारखलान्तःकरणादयः ॥”
इति कविकल्पलतायां २ श्लेषस्तवके ४ कुसुमम् ॥

श्यामकं, क्ली, (श्याम + संज्ञायां कन् ।) रोहिष-

तृणम् । इति राजनिर्घण्टः ॥ (कृष्णवर्णे, त्रि ।
यथा, बृहत्सं हितायाम् । ६१ । ८ ।
“श्यामकपुष्पचिताङ्गो
भस्मारुणसन्निभो विडालाक्षः ॥”)

श्यामकः, पुं, (श्यामं तद्वर्णं अकतीति । अक गतौ

+ अण् । शकन्ध्वादित्वात् साधुः ।) श्यामाकः ।
इति हेमचन्द्रः ॥ (शूरस्य पुत्त्रविशेषः । स तु वसु-
देवस्य भ्राता । इति भागवतम् । ९ । २४ । २९ ॥)

श्यामकण्ठः, पुं, (श्यामः कण्ठो यस्य ।) मयूरः ।

इति हलायुधः ॥ शिवः । पक्षिविशेषः । इति
नीलकण्ठशब्ददर्शनात् ॥

श्यामकन्दा, स्त्री, (श्यामः कन्दो यस्याः ।)

अतिविषा । इति राजनिर्घण्टः ॥

श्यामकाण्डा, स्त्री, (श्यामः काण्डो यस्याः ।)

गण्डदूर्व्वा । इति राजनिर्घण्टः ॥

श्यामग्रन्थिः, स्त्री, (श्यामो ग्रन्थिर्यस्य ।) गण्ड-

दूर्व्वा । इति राजनिर्घण्टः ॥

श्यामपत्रः, पुं, (श्यामानि पत्राणि यस्य ।) तमाल-

वृक्षः । इति शब्दचन्द्रिका ॥

श्यामलः, पुं, (श्यामवर्णः अस्त्यस्येति । श्याम +

“सिध्मादिभ्यश्च ।” ५ । २ । ९७ । इति लच् ।) कृष्ण-
वर्णः । पिप्पलः । इतिमेदिनी ॥ कृष्णगुणवति,
त्रि । इत्यमरः ॥ (यथा मुकुन्दमालायाम् । २ ।
“जयतु जयतु मेघश्यामलः कोमलाङ्गो
जयतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥”)

श्यामलचूडा, स्त्री, (श्यामला चूडा यस्याः ।)

गुञ्जा । इति राजनिर्घण्टः ॥

श्यामलता, स्त्री, (श्यामा लता ।) स्वनामख्यात-

लता । तत्पर्य्यायः । यथा, शब्दरत्नावल्याम् ।
“गोपी गोपा गोपवल्ली सारिवोल्पलसारिवा ।
अनन्ता शारिवा श्यामा ह्यष्टौ श्यामलताह्वये ॥”
अपि च ।
“कालपेषी महाश्यामा सुभद्रोत्पलसारिवा ।
दीर्घमूला च पालिन्दी मसूरविदला च सा ॥”
इति रत्नमाला ॥
राजनिर्घण्टोक्तपर्य्यायगुणौ सारिवाशब्दे द्रष्टव्यौ

श्यामला, स्त्री, पार्व्वती । श्यामं श्रीकृष्णं लाति

ददातीति व्युत्पत्तिसिद्धा । इति केचित् ॥ अश्व-
गन्धा । कटभी । जम्बूः । कस्तूरी । इति राज-
निर्घण्टः ॥

श्यामलिका, स्त्री, नीली । इति राजनिर्घण्टः ॥

श्यामलेक्षुः, पुं, (श्यामलः कृष्णवर्णः इक्षुः ।)

कृष्णेक्षुः । इति राजनिर्घण्टः ॥

श्यामसुन्दरः, पुं, (श्यामः सुन्दरश्च ।) श्रीकृष्णः ।

यथा, --
“यावन्ति च शरीराणि भोगार्हाणि महामुने ।
प्राकृतानि च सर्व्वाणि श्रीकृष्णविग्रहं विना ॥
ध्यायन्ते योगिनस्तञ्च शुद्धं ज्योतिः स्वरूपिणम्
हस्तपादादिरहितं निर्गुणं प्रकृतेः परम् ॥
वैष्णवास्तं न मन्यन्ते तद्भक्ता सूक्ष्मदर्शिनः ।
कुतो बभूव तज्ज्योतिरहो तेजस्विनं विना ।
ज्योतिरभ्यन्तरे नित्यं शरीरं श्यामसुन्दरम् ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे ४१ अध्यायः ॥ * ॥
अन्यच्च ।
श्यामसुन्दर ते दास्यः करवाम तवोदितम् ।
देहि वासांसि धर्म्मज्ञ नो चेद्राज्ञे ब्रुवामहे ॥”
इति श्रीमागवते दशमस्कन्धे २२ अध्यायः ॥ * ॥
अपि च ।
“ददर्श श्रीहरिं ब्रह्मा शङ्करश्च सुरैः सह
वसन्तं तन्मध्यदेशे यथेन्द्रं तारकावृतम् ॥
अमूल्यरत्ननिर्म्माणसर्व्वभूषणभूषितम् ।
किरीटिनं कुण्डलिनं वनमालाविभूषितम् ॥
शङ्खचक्रगदापद्मधारिणञ्च चतुर्भुजम् ।
नवीननीरदश्यामसुन्दरं सुमनोहरम् ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १४ अध्यायः ॥

श्यामा, स्त्री, (श्यामो वर्णोऽस्त्यस्या इति । अच् ।

टाप् ।) शारिवौषधी । अप्रसूताङ्गना ।
प्रियङ्गुः । वागुजिः । यमुना । रात्रिः । कृष्ण-
त्रिवृतिका । नीलिका । इति मेदिनी ॥ गुग्-
गुलुः । सोमलता । गुन्द्रा । कृष्णा । अम्बिका ।
इति विश्वः ॥ गुडूची । कस्तूरी । वटपत्री ।
वन्दा । नीलपुनर्नवा । पिप्पली । हरिद्रा ।
नीलदूर्व्वा । तुलसी । पद्मवीजम् । गौः ।
स्त्री । छाया । कृष्णसारिवा । शिंशपा । इति
राजनिर्घण्टः ॥ (नारीविशेषः । यथा, भट्टिः ।
५ । १८ ।
“योषिद्वृन्दारिका तस्य दयिता हंसनादिनी ।
दूर्व्वाकाण्डमिव श्यामा न्यग्रोधपरिमण्डला ॥”
तल्लक्षणं यथा, तट्टीकायाम् ।
“शीते सुखोष्णसर्व्वाङ्गी ग्रीष्मे च सुख-
शीतला ।
तप्तकाञ्चनवर्णाभा सा स्त्री श्यामेति कथ्यते ॥”)
पक्षिविशेषः । शामा इति भाषा । तत्पर्य्यायः ।
वराही २ शकुनी ३ कुमारी ४ दुर्गा ५ देवी ६
चटका ७ कृष्णा ८ पोतकी ९ पाण्डविका १०
वामा ११ कालिका १२ शितिसिम्बिनी १३ ।
इति राजनिर्घण्टः ॥ * ॥ श्यामाया उत्पत्तिर्यथा,
“ततः सा कालिका देवी योगनिद्रा जगन्मयी ।
पूर्व्वत्यक्तसतीरूपा जन्मार्थं मेनकां ययौ ॥
समयस्यानुरूपेण मेनका जठरे शिवा ।
सम्भूय च समुत्पन्ना सा लक्ष्मीरिव सागरात् ॥
वसन्तसमये देवी नवम्यां मृगयोगतः ।
अर्द्धरात्रौ समुत्पन्ना गङ्गेव शशिमण्डनात् ॥
ततस्तस्यान्तु जातायां प्रसन्नाश्चाभवन् दिशः ।
सानुकूलो ववौ वायुर्गम्भीरो गन्धिलः शुभः ॥
बभूव पुष्पवृष्टिश्च तोयवृष्टिः परा तथा ।
जज्वलुश्चाग्नयः शान्ता जगर्ज्जुश्च घना घनम् ॥
तस्यान्तु जायमानायां सर्व्वं स्वास्थ्यमपद्यत ।
तान्तु दृष्ट्वा यथाजातां नीलोत्पलदलानुगाम् ॥
श्यामां सा मेनका देवी मुदमापाति हर्षिता ।
देवाश्च हर्षमतुलं प्रापुस्तत्र मुहुर्मुहुः ॥
तुष्टुवुस्तामन्तरीक्षे गन्धर्व्वाश्चाप्सरोगणाः ।
तान्तु नीलोत्पलदलश्यामां हिमवतः सुताम् ॥
कालीति नाम्ना हिमवानाजुहाव कृते दिने ।
बान्धावास्तु स्वसन्तानां नाम्ना तां पार्व्वतीति
च ।
कालीति च तथा नाम्ना कीर्त्तिता गिरि-
नन्दिनी ॥”
इति कालिकापुराणे ४० अध्यायः ॥ * ॥
अथ श्यामामन्त्राः । क्रीँ क्रीँ क्रीँ हूँ हूँ ह्रीँ
ह्रीँ दक्षिणे कालिके क्रीँ क्रीँ क्रीँ हूँ हूँ ह्रोँ
ह्रीँ स्वाहा । यथा, कालीतन्त्रे ।
“कामत्रयं वह्निसंस्थं रतिबिन्दुसमन्वितम् ।
कूर्च्चयुग्मं तथा लज्जायुगलं तदन्तरम् ॥
दक्षिणे कालिके चेति पूर्व्वबीजानि चोच्चरेत् ।
अन्ते वह्निबधूं दद्यात् विद्या राज्ञी प्रकी-
र्त्तिता ॥”
मन्वर्थमाह यामले ।
“ककाराज्जलरूपत्वात् केवलं मोक्षदायिनी ।
ज्वलनार्णसमायोगात् सर्व्व तेजोमयी शुभा ।
मायात्रयेण देवेशि सृष्टिस्थित्यन्तकारिणी ॥
बिन्दूनां निष्फलत्वाच्च कैवल्यफलदायिनी ।
वीजत्रया शाम्भवी सा केवलं ज्ञानचित्कला ॥
शब्दबीजद्वयेनैव शब्दराशिप्रबोधिनी ।
लज्जाबीजद्वयेनैव सृष्टिस्थित्यन्तकारिणी ॥
सम्बोधनपदेनैव सदा सन्निधिकारिणी ।
स्वाहया जगतां माता सर्व्वपापप्रणाशिनी ॥”
अस्याः पूजाप्रयोगः । प्रातःकृत्यादिकं कृत्वाँ
मन्त्राचमनं कुर्य्यात् । यथा, --
“कालिकाभिः स्त्रिभिः पीत्वा काल्यादिभि-
रुपस्पृशेत् ।
द्वाभ्यामोष्ठौ द्विरुन्मृज्य चकेन क्षालयेत् करम् ॥
मुखघ्राणेक्षणश्रोत्रनाभ्युरस्कं भुजौ क्रमात् ।
आचम्यैवं भवेत् काली वत्सरात्तां प्रपश्यति ॥”
कं शिरः । तद्यथा । क्रीमिति त्रिराचामेत् ।
ॐ काल्यै नमः कपालिन्यै नमः इति ओष्ठौ
द्विरुन्मृजेत् । ॐ कुल्लायै नमः इति करं क्षाल-
येत् । ॐ कुरुकुल्लायै नमः इति मुखे । ॐ
विरोधिन्यै नमः इति दक्षिणनासायाम् । ॐ
विप्रचित्तायै नमः इति वामनासायाम् । ॐ
उग्रायै नमः ॐ उग्रप्रभायै नमः इति नेत्रयोः ।
ॐ दीप्तायै नमः ॐ नीलायै नमः इति
श्रोत्रयोः । ॐ घनायै नमः इति नाभौ । ॐ
वलाकायै नमः इति वक्षसि । ॐ मात्रायै नमः
इति शिरसि । ॐ मुद्रायै नमः ॐ मितायै
नमः इत्यंसयोः । इति मन्त्राचमनम् । * । ततो
भूतशुद्ध्यन्तं विधाय मायाबीजेन यथाविधि
पृष्ठ ५/१४८
प्राणायामत्रयं कुर्य्यात् ॥ * ॥ ऋष्यादिन्यासः ।
यथा । अस्य मन्त्रस्य भैरव ऋषिरुष्णिक् छन्दो
दक्षिणकालिका देवता ह्रीँ बीजं हूँ शक्तिः
क्रीँ कीलकं पुरुषार्थचतुष्टयसिद्ध्यर्थे विनि-
योगः । तथा च कालीक्रमे ।
“कीलकं चाद्यबीजं स्यात् चतुर्व्वर्गफलप्रदम् ।”
शिरसि वैरवाय ऋषये नमः । मुखे उष्णिक-
छन्दसे नमः । हृदि दक्षिणकालिकायै देवतायै
नमः । गुह्ये ह्रीँ बीजाय नमः । पादयोः हूँ
शक्तये नमः । सर्व्वाङ्गे क्रीँ कीलकाय नमः ॥
ततः कराङ्गन्यासौ । तदुक्तं कालीतन्त्रे ।
“अङ्गन्यासकरन्यासौ यथावदभिधीयते ।
भैरवोऽस्य ऋषिः प्रोक्तः उष्णिक् छन्द उदा-
हृतम् ।
देवता कालिका प्रोक्ता लज्जाबीजन्तु बीजकम् ॥
कीलकं चाद्यबीजं स्याच्चतुर्व्वर्गफलप्रदम् ॥
शक्तिश्च कूर्च्चबीजं स्यादनिरुद्धा सरस्वती ।
कवित्वार्थे नियोगः स्यादित्यादि तेन मायया ॥”
षडङ्गन्यासः ।
“षड्दीर्घभाजा बीजेन प्रणवाद्येन कल्पयेत् ।”
वीरतन्त्रेऽपि ।
“दीर्घषट्कयुताद्येन प्रणवाद्येन कल्पयेत् ।”
इति वा । तट्यथा । ॐ क्राँ अङ्गष्ठाभ्यां नमः ।
ॐ क्रीँ तर्ज्जनीभ्यां स्वाहा । ॐ क्रूँ मध्यमाभ्यां
वषट् । ॐ क्रैँ अनामिकाभ्यां हुँ । ॐ क्रौँ
कनिष्ठाभ्यां वौषट् । ॐ क्रः करतलपृष्ठाभ्यां
फट् । एवं हृदयादिषु । ॐ क्राँ हृदयाय नमः
इत्यादि । एवं ॐ ह्राँ अङ्गुष्ठाभ्यां नमः इत्यादि
वा ॥ * ॥ ततो वर्णन्यासः । अं आं इं ईं उं
ऊं ऋं ॠं ऌं ॡं नमः इति हृदये । एं ऐं
ॐ औँ अं अः कं खं गं घं नमः इति दक्षिण-
बाहौ । ङं चं छं जं झं ञं टं ठं डं ढं नमः ।
इति वामबाहौ । णं तं थं दं धं नं पं फं बं भं
नमः इति दक्षिणपादे । मं यं रं लं वं शं षं सं
हं व्वं क्षं नमः इति वामपादे । विरूपाक्षमते
सबिन्दुरयं न्यासः । यथा वीरतन्त्रे । अं आं
इं ईं उं ऊं ऋं ॠं ऌं ॡं वै हृदये
न्यसेदित्यादि । पुनर्निर्बिन्दुर्यथा । अ आ इ ई
उ ऊ ऋ ॠ ऌ ॡ वै हृदयं स्पृशेदित्यादि ।
किन्तु सबिन्दून् वा न्यसेदेतान् निर्बिन्दून् वाथ
वर्णकान् इत्याचार्य्यपरिगृहितभैरवीयवाक्यात्
उभयमेव युक्तम् ॥ * ॥ अथ षोढान्यासः ।
तदुक्तं वीरतन्त्रे ।
“केवलां मातृकां कृत्वा मातृकां तारसंपुटाम् ।
मातृकापुटितं तारं न्यसेत् साधकसत्तमः ॥
श्रीबीजपुटितां तान्तु मातृकापुटितन्तु तत् ।
कामेन पुटितां देवों तत्पुटं काममेव च ॥
शक्त्या च पुटितां देवीं शक्तिञ्च तत्पुटां न्यसेत् ।
कों द्वन्द्वञ्च पुनर्न्यस्त्वा ऋ-ॠ-ऌ-ॡ-ञ्च पूर्ववत्
“मूलेन पुटितां देवीं तत्पुटं मन्त्रमेव च ॥
अनुलोमविलोमेन न्यस्त्वा मन्त्रं यथाविधि ।
मूलेनाष्टशतं कुर्व्याद्व्यापकं तदनन्तरम् ॥”
यथा ॐ अं ॐ एवं मातृकापुटिततारम् । एवं
श्रीबीजपुटितां ताम् । तत्पुटितं श्रीबीजम् ।
एवं कामेन पुटितां मातृकाम् । मातृकापुटितं
कामम् । एवं शक्त्या पुटितां मातृकां मातृका-
पुटितां शक्तिं न्यसेत् । तथा क्रीं द्वन्द्वञ्च ऋ-ॠ-
ऌ-ॡ-ञ्च पूर्व्ववत् । तत्पुटितां मातृकां न्यसेत्
मातृकापुटितञ्च तत् । मन्त्रपुटितां मातृकां
तत्पुटितं मनुम् । पुनरनुलोमविलोमेन केवलं
मातृकास्थाने न्यस्य मूलेनाष्टशतेन व्यापकं
कुर्य्यात् अयं न्यासस्ताराया अपि कार्य्यः ।
“इति गुप्ते न दुर्गाया अङ्गषोढाः प्रकीर्त्तिताः ।
तारायाः कालिकायाश्च उन्मुखाश्च तथापरे ॥
एतस्मिन् न्यामवर्य्ये च सर्व्वं पापं प्रणश्यति ॥”
ततस्तत्त्वन्यासः । यथामूलं त्रिखण्डं विधाय
प्रथमखण्डान्ते ॐ आत्मतत्त्वाय स्वाहेति पादा-
दिनाभिपर्य्यन्तम् । द्वितीयखण्डान्ते ॐ विद्या-
तत्त्वाय स्वाहा इति नाभ्यादिहृदयान्तम् ।
तृतीयखण्डान्ते ॐ शिवतत्त्वाय स्वाहा इति
हृदयादिशिरःपर्य्यन्तं न्यसेत् । तदुक्तं स्वतन्त्रे ।
“मूलविद्यात्रिखण्डान्ते प्रणवाद्यैर्यथाविधि ।
आत्मविद्या शिवैस्तत्त्वैस्तत्त्वन्यासं समाचरेत् ॥”
अथ वीजन्यासः । तदुक्तं कुमारीकल्पे ।
“ब्रह्मरन्धे भ्रुवोर्म्मध्ये ललाटे नाभिदेशके ।
गुह्ये वक्त्रे च सर्व्वाङ्गे सप्तबीजं क्रमान्न्यसेत् ॥”
यथा आद्यबीजं ब्रह्मरन्ध्रे द्वितीयबीजं भ्रूमध्ये
तृतीयबीजं ललाटे चतुर्थबीजं नाभौ पञ्चमबीजं
गुह्ये षष्ठबीजं वक्त्रे सप्तमबीजं सर्व्वाङ्गे । एत-
त्त्रयं काम्यम् ॥ * ॥ ततो मूलेन सप्तधा व्यापक-
न्यासं कृत्वा यथाविधि मुद्रां प्रदर्श्य ध्यायेत् ।
यथा कालीतन्त्रे ।
“करालवदनां घोरां मुक्तकेशीं चतुर्भुजाम् ।
कालिकां दक्षिणां दिव्यां मुण्डमालाविभूषिताम्
सद्यश्छिन्नशिरःखङ्गवामाधोर्द्धकराम्बुजाम् ।
अभयं वरदञ्चैव दक्षिणोर्द्ध्वाधःपाणिकाम् ॥
महामेघप्रभां श्यामां तथा चैव दिगम्बरीम् ।
कण्ठावसक्तमुण्डालीगलद्रुधिरचर्च्चिताम् ॥
कर्णावतंसतानीतशवयुग्मभयानकाम् ।
घोरदंष्ट्रां करालास्यां पीनोन्नतपयोधराम् ॥
शवानां करसंघातैः कृतकाञ्चीं हसन्मुखीम् ।
सृक्कद्वयगलद्रक्तधाराविस्फुरिताननाम् ॥
घोररावां महारौद्रीं श्मशानालयवासिनीम् ।
बालार्कमण्डलाकारलोचनत्रितयान्विताम् ॥
दन्तुरां दक्षिणव्यापिमुक्तालम्बिकचोच्चयाम् ।
शवरूपमहादेवहृदयोपरिसंस्थिताम् ॥
शिवाभिर्घोररावाभिश्चतुर्द्दिक्षु समन्विताम् ।
महाकालेन च समं विपरीतरतातुराम् ॥
सुखप्रसन्नवदनां स्मेराननसरोरुहाम् ।
एवं सञ्चिन्तयेत् कालीं सव्वकामार्थसिद्धि-
दाम् ॥” * ॥
शवयुरमेति घोरबाणावतंसेति प्रेतकर्णावतंसेति
च । शकुन्तपक्षसंयुक्तबाणकर्णविभूषितामिति
विगतासुकिशोराभ्यां कृतकर्णावतंमिनीमितिच
दर्शनादुभयमेव पाठः ॥ * ॥ ध्यानान्तरं स्वतन्त्रे
“अञ्जनाद्रिनिभां देवीं करालवदनां शिवाम् ।
मुण्डमालावलीकीर्णां मुक्तकेशीं स्मिताननाम् ॥
महाकालहृदम्भोजस्थितां पीनपयोधराम् ।
विपरीतरतासक्तां घोरदंष्ट्रां शिवैः सह ॥
नागयज्ञोपवीताढ्यां चन्द्रार्द्धकृतशेखराम् ।
सर्व्वालङ्कारयुक्ताञ्च मुण्डमालाविभूषिताम् ॥
मृतहस्तसहस्रैस्तु बद्धकाञ्चीं दिगंशुकाम् ।
शिवाकोटिसहस्रेस्तु योगिनीभिर्विराजिताम् ॥
रक्तपूर्णमुखाम्भोजां मद्यपानप्रमत्तिकाम् ।
वह्न्यर्कशशिनेत्राञ्च रक्तविस्फुरिताननाम् ॥
विगतासुकिशोराभ्यां कृतकर्णावतंसिनीम् ।
कण्ठावसक्तमुण्डालीगलद्रुधिरचर्च्चिताम् ॥
श्मशानवह्निमध्यस्थां ब्रह्मकेशववन्दिताम् ।
सद्यःकृत्तशिरःखङ्गवराभीतिकराम्बुजाम् ॥”
ध्यानान्तरं रहस्ये । यथा, --
“शवारूढां महाभीमां घोरदंष्ट्रां हसन्मुखीम ।
चतुर्भुजां खङ्गमुण्डवराभयकरा पराम् ॥
मुण्डमालाधरां देवीं ललज्जिह्वां दिगम्बरीम् ।
एवं सञ्चिन्तयेत् कालों श्मशानालयवासिनीम् ॥”
एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं कुर्य्यात्
यथा । स्ववामे भूमौ हूङ्कारगर्भं त्रिकोणं वि-
लिख्य अर्घ्यपात्रं संस्थाप्य मूलेन शुद्धजलादिना ।
शङ्खादिपात्रमापूर्य्य गन्धादिकं दत्त्वा ॐ गङ्गे
चेत्यादिना तीर्थमावाह्य मं वह्निमण्डलाय दश
कलात्मने नमः इत्याधारम् । अं सूर्य्यमण्डलाय
द्वादशकलात्मने नमः इति शङ्खम् । उं सोम-
मण्डलाय षोडषकलात्मने नमः इति जलं
सम्पूज्य । ॐ ह्रां हृदयाय नमः । ॐ ह्रीं शिरसे
स्वाहा । ॐ ह्रूँ शिखायै वषट् । ॐ ह्रैँ कव-
चाय हूँ इत्यग्नीशासुरवायुषु । अग्रे ॐ ह्रौँ
नेत्रत्रयाय वौषट् । चतुर्दिक्षु ॐ ह्रः अस्त्राय
फट् । इत्यभ्यर्च्च्य तदुपरि मत्स्यमुद्रयाच्छाद्य
मूलं दशधा जप्त्वा धेनुमुद्रया अमृतीकृत्य अस्त्रेण
संरक्ष्य भूतिनीयोनिमुद्रे प्रदर्श्य तज्जलं किञ्चित्
प्रोक्षणीपात्रे निःक्षिप्य मूलेन तेनोदकेनात्मानं
पूजोपकरणञ्चाभ्युक्ष्य पीठपूजामारभेत् ॥ * ॥
अस्याः पूजायन्त्रम् । आदौ बिन्दुं स्वबीजं
भुवनेशीञ्च विलिख्य ततस्त्रिकोणं तद्वाह्ये
त्रिकोणचतुष्टयं वृत्तमष्टदलं पद्मं पुनर्वृत्तं चतु-
र्द्वारात्मकं भूगृहं लिखेत् । तदुक्तं कालीतन्त्रे ।
“आदौ त्रिकोणमालिख्य त्रिकोणं तद्वहिर्लिखेत्
ततो वै विलिखेन्मन्त्री त्रिकोणत्रयमुत्तमम् ॥
ततो वृत्तं समालिख्य लिखेदष्टदलं ततः ।
वृत्तं विलिख्य विधिवल्लिखेद्भूपुरमेककम् ॥”
कुमारीकल्पे ।
“मध्ये तु बैन्दवं चक्रं बीजमायाविभूषितम् ॥
इति ॥ * ॥
अत्र विशेषाधारो मुण्डमालायाम् ।
“ताम्रपात्रे कपाले वा श्मशानकाष्ठनिर्म्मिते ।
शनिभीमदिने वापि शरीरे मृतसम्भवे ॥
स्वर्णे रौप्ये ऽथ लौहे वा चकं कार्य्यं विधानतः ॥”
पृष्ठ ५/१४९
यन्त्रान्तरमाह तन्त्रे ।
“शक्त्यग्निभ्याञ्च षट्कोणं शक्तिभिश्च नवात्मकम्
पद्मे वसुदले भूमिपुश्चतुर्द्वारसंयुतेति ॥ * ॥
पीठपूजां ततः कुर्य्यादाधारशक्तिपूर्व्वकम् ।
प्रकृतिं कमठञ्चैव शेषं पृथ्वीं तथैव च ॥
सुधाम्बधिं मणिद्वीपं चिन्तामणिगृहं तथा ।
श्मशानं पारिजातञ्च तन्मूले रत्नवेदिकाम् ॥
तस्योपरि मणेः पीठं न्यसेत् साधकसत्तमः ।
चतुर्दिक्षु मुनीन् देवान् शिवाश्च शवमुण्ड-
कान् ॥”
धर्म्माद्यधर्म्मादींश्चे त्यादि ह्रीँ ज्ञानात्मने नमः
इत्युन्तं संपूज्य केशरेषु पूर्व्वादिक्रमेण पूजयेत् ।
“इच्छा ज्ञाना क्रिया चैव कामिनी काम-
दायिनी ॥
रती रतिप्रिया नन्दा मध्ये चैव मनोन्मनी ॥”
सर्व्वत्र प्रणवादिनमोऽन्तेन पूजयेत् । तदुपरि
हसौः सदाशिवमहाप्रेतपद्मासनाय नमः ॥ * ॥
ततः पुनर्ध्यात्वा पुष्पाञ्जलावानीय मूलमन्त्र-
कल्पितमूर्त्तावावाहयेत् ।
“ॐदेवेशि भक्तिसुलभे परिवारसमन्विते ।
यावत्त्वां पूजयिष्यामि तावत् त्वं सुस्थिरा भव ॥”
ततो मूलमुच्चार्य्य अमुकीदेवि इहावह इह
तिष्ठ इह सन्निधेहि इह सन्निरुध्यस्व इह सन्नि-
हिता भव । ततः हूमित्यवगुण्ठ्य अङ्गमन्त्रैः
सकलीकृत्य धेनुमुद्रया अमृतीकृत्य परमी-
करणमुद्रया परमीकृत्य भूतिन्याकर्षिणीयोनि-
मुद्राः प्रदर्श्य प्राणप्रतिष्ठां विधाय मूलेन पाद्या-
दिभिः पूजयेत् । ततो मूलमुच्चार्य्य एतत् पाद्य
ममुकदेवतायै नमः । एवमर्ध्यं स्वाहा । आच-
मनीयं स्वधा । स्नानीयं निवेदयामि । पुनरा-
चमनीयं स्वधा । एष गन्धो नमः । एतानि
पुष्पाणि वौषट् । ततो मूलेन पञ्च पुष्पाञ्जलीन्
दत्त्वा धूपदीपौ दद्यात् । वनस्पतीत्यादि पठन्
मूलमुच्चार्य्य एष धूपो नमः । दीपमन्त्रस्तु ।
“सुप्रकाशो महादीपः सर्व्वतस्तिमिरापहः ।
सबाह्याभ्यन्तरं ज्योतिर्दीपोऽयं प्रतिगृह्यताम् ॥”
मूलमुच्चार्य्य एष दीपो नमः । ततः ॐ जय-
ध्वनिमन्त्रमातः स्वाहा इति घण्टां संपूज्यवाम
हस्तेन तां वादयन् नीचैर्धूपं दत्त्वा दृष्टिपर्य्यन्तं
दीपं दद्यात् । ततो मूलेन पुष्पाञ्जलित्रयं दत्त्वा
यथोपपन्नं नैवेद्यं दत्त्वा आवरणपूजां कुर्य्यात् ॥
श्रीअमुकीदेवि आवरणं ते पूजयामि इत्याज्ञां
गृहीत्वा केशरेष्वग्न्यादिकोणेषु ॐ ह्राँ ह्वद-
यायनमः । ॐ ह्रीँ शिरसे स्वाहा । ॐ हूँ
शिखायै वषट् । ॐह्रैँ कवचाय हूँ । ॐह्रौँ
नेत्रत्रयाय व्रौषट् । चतुर्दिक्षु ॐ ह्रः अस्त्राय
फट् । बहिःषट्कोणे ॐ काल्यै नमः । सर्व्वत्र
प्रणवादिनमोऽन्तेन कपालिन्यै कुल्लायै कुरु-
कुल्लायै विरोधिन्यै विप्रचित्तायै उग्रायै उग्र-
प्रभायै दीप्तायै इत्यन्तस्त्र्यस्ने । ॐनीलायै नमः
एवं धनायै वलाकायै इति द्वितीयत्र्यस्रे । एवं
मात्रायै मुद्रायै मितायै इति तृतीयत्र्यस्रे ।
“सर्व्वाः श्यामा असिकरा मुण्डमालाविभूषिताः
तर्ज्जनीं वामहस्तेन धारयन्त्यः शुचिस्मिताः ॥
दिगम्बर्य्यो हसन्मुख्यः स्वस्ववाहनभूषिताः ॥”
एवं ध्यात्वार्च्चयेत् ॥ * ॥ ततोऽष्टपत्रेषु पूर्व्वादि-
क्रमेण ॐ ब्राह्म्यै नमः । एवं नारायण्यै माहे-
श्वर्य्यै चामुण्डायै कौमार्य्यै अपराजितायै वाराह्यै
नारसिंह्यै एता गन्धादिभिः पूजयेत् । पत्राग्रे
असिताङ्गादिभैरवान् पूजयेत् । ततो मूलेन
पुष्पाञ्जलित्रयं दत्त्वा पाद्यादिना महाकालं
पूजयेत् ॥ * ॥ तस्य ध्यानम् ।
“महाकालं यजेद्देव्या दक्षिणे धूम्रवर्णकम् ।
बिभ्रतं दण्डखदृआङ्गौ दंष्ट्राभीममुखं शिशुम् ॥
व्याघ्रचर्म्मावृतकटिं तुन्दिलं रक्तवाससम् ।
त्रिनेत्रं मुक्तकेशञ्च मुण्डमालाविभूषितम् ॥
जटाभारलसच्चन्द्रखण्डमुग्रं ज्वलन्निभम् ॥”
तथा च कुमारीकल्पे ।
“देव्यास्तु दक्षिणे भागे महाकालं प्रपूजयेत् ।”
हूँ क्ष्रौँ यां रां लां वां आं क्रों महाकाल-
भैरव सर्व्वविघ्नान्नाशय नाशय ह्रीँ श्रीँ फट्
स्वाहा इत्यनेन पाद्यादिभिराराध्यत्रिस्तर्पयित्वा
मूलेन देवीं पञ्चोपचारैः पूजयेत् । तथा च
कालीतन्त्रे ।
“महाकालं यजेद्यत्नात् पश्चाद्देवीं प्रपूजयेत् ।”
कालीकल्पे ।
“कवचं क्ष्रौं समुद्वृत्य यां रां लां वां आं च
क्रोन्ततः ।
महाकालभैरवेति सर्व्वविघ्नान्नाशयेति च ॥
नाशयेति पुनः प्रोच्य मायां लक्ष्मीं समुद्धरेत् ।
फट् स्वाहया समायुक्तो मन्त्रः सर्व्वार्थसाधकः ॥”
ततो देवीं ध्यात्वा यथाशक्ति जप्त्वा गुह्ये त्यादिना
वामहस्ते जपं समर्प्य आत्मसमर्पणं कुर्य्यात् ।
ततः स्तुत्वा प्रदक्षिणीकृत्य अष्टाङ्गप्रणामं कृत्वा
श्रीजगन्मङ्गलं नाम कवचं पठेत् ॥ * ॥ तत
आवरणदेवता देव्यङ्गे विलोप्य संहारमुद्रया
अमुकीदेवी क्षमस्वेति विसृज्य तत्तेजःपुष्पेण
समं स्वहृद्यारोपयेत् ।
“उत्तरे शिखरे देवि भूम्यां पर्व्व तवासिनि ।
ब्रह्मयोनिसमुत्पन्ने गच्छ देवि ममान्तरम् ॥”
इति मन्त्रेण ॥ * ॥
ततस्तन्नैवेद्यं किञ्चिदुच्छिष्टचाण्डालिन्यै नमः
इत्यैशान्यां दिशि दत्त्वा शेषमिष्टेभ्यो दत्त्वा
किञ्चित् स्वीकृत्य पादोदकं पीत्वा निर्म्माल्यं
शिरसि विधृत्य यथेच्छं विहरेत् ॥ * ॥ ततो
यन्त्रलेपं वामहस्ते कृत्वा सव्यहस्तकनिष्ठया
मायाबीजं विलिख्य तया तिलकं कुर्य्यात् ।
तथा त्र ।
“वामे कृत्वा यन्त्रलेपं मायां सव्यकनिष्ठया ।
विलिख्य तिलकं कुर्य्यात् मन्त्रेणानेन साधकः ॥
ॐ यं यं स्पृशामि पादेन यो मां पश्यति
चक्षुषा ।
स एव दासतां यातु राजानो दुष्टदस्यवः ॥”
जपकाले तु कर्पूरयुक्ता जिह्वा कार्य्या ।
“कर्पूराढ्या सदा जिह्ला कर्त्तव्या जपकर्म्मणि ।”
इति विश्वसारवाक्यात् इयं काम्यजप इति
तत्त्वम् । ततोमूलेनाष्टोत्तरशताभिमन्त्रितं पुष्पं
चन्दनञ्च धृत्वा त्रैलोक्यं वशमानयेत् ।
“सर्व्वसिद्धियुतो भूत्वा भैरवो वत्सराद्भवेत् ।”
अस्य पुरश्चरणं लक्षद्वयजपः । तथा च काली-
तन्त्रे ।
“लक्षमेकं जपेन्मन्त्रं हविष्याशी दिवा शुचिः ।
रात्रौ ताम्बूलपूरास्यः शय्यायां लक्षमानतः ॥”
व्यवस्थामाह स्वतन्त्रे ।
“दिवा लक्षं शुचिर्भूत्वा हविष्याशी जपेन्नरः ॥”
ततस्तु तद्दशांशेन होमयेत् हविषा प्रिये ॥”
अत्राङ्गस्य कालान्तरमाह नीलसारस्वते ।
“लक्षमेकं जपेन्मन्त्रं हविष्याशी दिवा शुचिः ।
अशुचिश्च तथा रात्रौ लक्षमेकं तथैव च ॥”
“दशांशं होमयेन्मन्त्री तपयेदभिषेचयेत् ।” इति
साम्प्रदायिकाः । वस्तुतस्तु । कुमारीकरपे ।
“लक्षमेकं जपेद्विद्यां हविष्याशी दिवा शुचिः ।
रात्रौ ताम्बूलपूरास्यः शय्यायां लक्षमानतः ॥
रात्रिजपे तु कालो मुण्डमालायाम् ।
“गते तु प्रथमे यामे तृतीयप्रहरावधि ।
निशायास्तु प्रजप्तव्यं रात्रिशेषे जपेन्न तु ॥
एवं लक्षद्वयं जप्त्वा तद्दशांशेन मन्त्रवित् ।
अयुतं होमयेद्देवि दिवारात्रिविभेदतः ॥”
तेन दिवा लक्षं जप्त्वा तद्दाशांशं होमं कुर्य्यात् ।
रात्रौ लक्षं जप्त्वा तद्दशांशं होमं कुर्य्या दिति
रहस्यार्थः ।
“द्विजातीनाञ्च सर्वेषां दिवा विधिरिहोच्यते ।
शूद्राणाञ्च तथा प्रोक्तं रात्राविष्टं महाफलम् ॥”
अन्यत्र च ।
“दिवैव प्रजपेन्मन्त्रं न तु रात्रौ कदाचन ॥” * ॥
अथ मन्त्रभेदाः ।
क्रीँ । १ । क्रीँ क्रीँ क्रीँ । ३ । अनयोः पूजा-
प्रयोगः सर्वं पूर्व्ववत् । ध्यानं सिद्धेश्वरतन्त्रे ।
“शवारूढां महाभीमां घोरदंष्ट्रां वरप्रदाम् ॥
हास्ययुक्तां त्रिनेत्राञ्च कपालकर्त्तृकाकराम् ॥
मुक्तकेशीं ललज्जिह्वां पिबन्तीं रुधिरं मुहुः ।
चतुर्ब्बाहुयुतां देवीं वराभयकरां स्मरेत् ॥”
अनयोः पुरश्चरणं लक्षजपः ॥ * ॥ ॐ ह्रीँ ह्रीँ
हूँ हूँ क्रीँ क्रीँ क्रीँ दक्षिणे कालिके क्रीँ क्रीँ
क्रीँ हूँ हूँ ह्रीँ ह्रीँ । २१ । अस्याः पूजादिकं
दक्षिणावत् कार्य्यम् । पुरश्चरणं लक्षजपः ॥ * ॥
ॐ ह्रीँ ह्रीँ हूँ हूँ क्रीँ क्रीँ क्रीँ दक्षिणे
कालिके क्रीँ क्रीँ क्रीँ हूँ हूँ ह्रीँ ह्रीँ
स्वाहा । २३ ॥ * ॥ ह्रीँ ह्रीँ हूँ हूँ क्रीँ क्रीँ
क्रीँ दक्षिणे कालिके क्रीँ क्रीँ क्रीँ हूँ हूँ ह्रीँ
ह्रीँ स्वाहा । २२ ॥ * ॥ ह्रीँ ह्रीँ हूँ हूँ क्रीँ
क्रीँ क्रीँ दक्षिणे कालिके क्रीँ क्रीँ क्रीँ हूँ हूँ
ह्रीँ ह्राँ २० । ध्यानपूजादिकं दक्षिणावत् ॥ * ॥
क्रीँ क्रीँ क्रूँ । ३ ॥ * ॥ ॐ ह्रीं क्रीँ मे स्वाहा । ६
अस्याः पूजाप्रयोगः । अस्य भैरव ऋषिर्विराट्
च्छन्दः सिद्धकाली ब्रह्मरूपा भुवनेश्वरी देवता
पृष्ठ ५/१५०
निजबीजं बीजं लज्वाबीजं शक्तिः । वर्ण-
न्यासादि दक्षिणावत् । ध्यानन्तु ।
“खङ्गाद्भिन्नेन्दुखण्डस्रवदमृतरसाप्लाविताङ्गी
त्रिनेत्रा ।
सव्ये पाणौ कपालोद्गलदसृजमथो मुक्तकेशी
पिबन्ती ।
दिग्वस्त्राबद्धकाञ्चीमणिमयमुकुटाद्यैर्युतां दीप्त-
जिह्वा
पायान्नीलोत्पलाभा रविशशिविसत्कुण्डला-
लीढपादा ॥”
एवं ध्यात्वा दक्षिणावत् सर्व्वं कार्य्यम् । पुश्चर-
णन्तु एकविंशतिसहस्रजपः ॥ * ॥ क्रीँ ह्रीँ ह्रीँ
३ ॥ * ॥ क्रीँ क्रीँ क्रीँ स्वाहा । ५ ॥ * ॥ क्रीँ
क्रीँ क्रीँ फट स्वाहा । ६ ॥ * ॥ क्रीँ क्रीँ क्रीँ
क्रीँ क्रीँ क्रीँ स्वाहा । ८ ॥ * ॥ ऐँ नमः । क्रीँ
ऐँ नमः । क्रीँ कालिकायै स्वाहा । १४ ॥ * ॥
एतस्याः पूजाप्रयोगः । अस्य दक्षिणा मूर्त्ति-
ऋषिः पंक्तिच्छन्द्रः कालिका देवता । ध्यानन्तु
“चतुर्भुजा कृष्णवर्णा मुण्डमालाविभूषिता ।
खङ्गञ्च दक्षिणे पाणौ बिभ्रतीन्दीवरद्वयम् ॥
कर्त्तृञ्च खर्परञ्चैव क्रमाद्वामेन बिभ्रती ।
द्यां लिखन्तीं जटामेकां बिभ्रती शिरसाद्वयी ॥
मुण्डमालाधरा शीर्षे ग्रीवायामथ चापराम् ।
वक्षसा नागहारञ्च बिभ्रती रक्तलोचना ॥
कृष्णवस्त्रधरा कठ्यां व्याघ्राजिनसमन्निता ।
बामपादं शवहृदि संस्थाप्य दक्षिणं पदम् ॥
विलाप्य सिंहपृष्ठे तु लेलिहाना शवं स्वयम् ।
साट्टहासा महाघोररावयुक्ता सुभीषणा ॥”
ध्यानमेवं अन्यत् सर्व्वं दक्षिणावत् । पुरश्चरणं
लक्षद्वयजपः । अन्यासां मन्त्रवर्णसंख्यलक्ष-
जपः ॥ * ॥ क्रीँ ह्रीँ ह्रीँ दक्षिणे कालिके
स्वाहा ॥ ११ ॥ क्रीँ हूँ ह्रीँ दक्षिणे कालिके
फट् । १० ॥ * ॥ क्रीँ क्रीँ हूँ हूँ ह्रीँ ह्रीँ दक्षिणे
कालिके क्रीँ क्रीँ हूँ हूँ ह्रीँ ह्रीँ स्वाहा । २०
एतासां दक्षिणा मूर्त्तिऋषिः पंक्तिच्छन्दो दक्षिण
कालिका देवता । अन्यत् सर्व्वं दक्षिणावत् ॥ * ॥
क्रीँ स्वाहा ३ । भैरवोऽस्य ऋषिः ॥ * ॥ क्रीँ
क्रीँ हूँ हूँ ह्रीँ ह्रीँ स्वाहा । ८ ॥ * ॥ क्रीँ
हूँ ह्रीँ स्वाहा । ५ । अस्य पञ्चवक्त्र ऋषिः ॥ * ॥
क्रीँ क्रीँ क्रीँ हूँ हूँ ह्रीँ ह्रीँ स्वाहा । ९ ॥ *
क्रीँ दक्षिणे कालिके स्वाहा । ९ ॥ * ॥ क्रीँ ॥
हूँ ह्रीँ क्रीँ हूँ ह्रीँ स्वाहा । ८ ॥ * ॥ क्रीँ ॥
क्रीँ क्रीँ ह्रीँ ह्रीँ हूँ हूँ क्रीँ क्रीँ क्रीँ ह्रीँ
ह्रीँ हूँ हूँ स्वाहा । १६ ॥ * ॥ नमः ऐँ क्रीँ
क्रीँ कालिकायै स्वाहा । ११ ॥ * ॥ नमः आँ
आं क्रोँ क्रोँ फट् स्वाहा कालि कालि
हूँ । १४ ॥ * ॥ एतासां ऋष्यादिकं पूजादिकञ्च
दक्षिणावत् । पुरश्चरणं लक्षजपः ॥ * ॥ अथ
गुह्यकालिकामन्त्राः । क्रीँ क्रीँ क्रीँ हूँ हूँ
ह्रीँ ह्रीँ गुह्ये कालिके क्रीँ क्रीँ क्रीँ हूँ हूँ
ह्रीँ ह्रीँ स्वाहा । २१ ॥ * ॥ क्रीँ हूँ ह्रीँ
गुह्ये कालिके क्रीँ क्रीँ हूँ हूँ ह्रीँ ह्रीँ
स्वाहा । १६ ॥ * ॥ क्रीँ क्रीँ क्रीँ हूँ हूँ ह्रीँ
ह्रीँ गुह्ये कालिके स्वाहा । १४ ॥ * ॥ क्रीँ
हूँ ह्रीँ गुह्ये कालिके हूँ हूँ ह्रीँ ह्रीँ
स्वाहा । १४ ॥ * ॥ क्रीँ हूँ ह्रीँ दक्षिणे
कालिके हूँ हूँ ह्रीँ ह्रीँ स्वाहा । १५ ॥ * ॥
हूँ ह्रीँ गुह्ये कालिके क्रीँ क्रीँ हूँ हूँ ह्रीँ
ह्रीँ स्वाहा १५ ॥ * ॥ क्रीँ गुह्ये कालिके
क्रीँ स्वाहा । ९ ॥ * ॥ क्रीँ दक्षिणे कालिके
क्रीँ स्वाहा । १० ॥ * ॥ एतासां सर्वं पूर्ववत् ।
बलिमन्त्रस्तु । एह्ये हि जगन्मातर्ज्जगतां जननि
गृह्ण गृह्ण मम बलिं सिद्धिं देहि देहि शत्रुक्षयं
कुरु कुरु क्रूँ क्रूँ ह्रीँ ह्रीँ फट् फट् ॐकालि
कायै नमः फट् स्वाहा ॥ * ॥ यद्वा गुह्यकाल्या
अयं मन्त्रः । एह्येहि गुह्यकालि मम बलिं गृह्ण
गृह्ण मम शत्रन् नाशय नाशय खादय खादय
स्फु र स्फु र छिन्धि छिन्धि सिद्धिं देहि देहि
क्रूँ फट् स्वाहा ॥ * ॥ अथ भद्रकाल्यादिमन्त्राः
क्रीँ क्रीँ क्रीँ हूँ हूँ ह्रीँ ह्रीँ भद्रकाल्यै
क्रीँ क्रीँ क्रीँ हूँ हूँ ह्रँ ह्रँ स्वाहा । २० । * ॥
क्रीँ क्रीँ क्रीँ हूँ हूँ ह्रीँ ह्रीँ श्मशानकालि
क्रीँ क्रीँ क्रीँ हूँ हूँ ह्रीँ ह्रीँ स्वाहा । २१ ॥ * ॥
क्रीँ क्रीँ क्रीँ हूँ हूँ ह्रीँ ह्रीँ महाकालि
क्रीँ क्रीँ क्रीँ हूँ हूँ ह्रीँ ह्रीँ स्वाहा । २० ॥ * ॥
एतासां पूजादिकं दक्षिणावत् । ध्यानन्तु ।
“महामेघप्रभां देवीं कृष्णवस्त्रपिधायिनीम् ।
ललज्जिह्वां घोरदंष्ट्रां कोटराक्षीं हसन्मुखीम् ॥
नागहारलतोपेतां चन्द्रार्द्धकृतशेखराम् ।
द्यां लिखन्तीं जटामेकां लेलिहानां शवं स्वयम् ॥
नागयज्ञोपवीताङ्गीं नागशय्यानिषेदुषीम् ।
पञ्चाशन्मुण्डसंयुक्तवनमालां महोदरीम् ॥
सहस्रफणसंयुक्तमनन्तं शिरसोपरि ।
चतुर्दिक्षु नागफणावेष्टितां गुह्यकालिकाम् ॥
तक्षकसर्पराजेन वामकङ्कणभूषिताम् ।
अनन्तनागराजेन कृतदक्षिणकङ्कणाम् ॥
नागेन रसनाहारकल्पितां रत्ननूपुराम् ।
वामे शिवस्बरूपन्तं कल्पितं वत्सरूपकम् ॥
द्विभुजां चिन्तयेद्देवीं नागयज्ञोपवीतिनीम् ।
नरदेहसमाबद्धकुण्डलश्रुतिमण्डिताम् ॥
प्रसन्नवदनां सौम्यां नवरत्नविभूषिताम् ।
नारदाद्यैर्म्मुनिगणैः सेवितां शिवमोहिनीम् ।
साट्टहासां महाभीमां साधकाभीष्टदायिनीम् ॥”
गुह्यकाली इत्युपलक्षणम् ॥ * ॥ भद्रकालीमन्त्रा-
न्तरम् ।
“प्रसादबीजमुद्धृत्य कालीति पदमुद्धरेत् ।
महाकालीपदं चोक्त्वा किलियुग्मं ततः परम् ॥
अस्त्रमग्निप्रियान्तोऽयं भद्रकाल्या महामनुः ॥”
ॐ कालि महाकालि किलि किलि फट्
स्वाहा ॥ * ॥ ध्यानं यथा, --
“क्षुत्क्षामा कोटराक्षी मसिमलिनमुखी
मुक्तकेशी रुदन्ती
नाहं तृप्ता वदन्ती जगदखिलमिदं ग्रासमेकं
करोमि ।
हस्ताभ्यां धारयन्ती ज्वलदनलशिखासन्निभं
पाशयुगमं
दन्तैर्ज्जम्बूफलाभैः परिहरतु भयं पातु मां
भद्रकाली ॥”
अस्याः पुरश्चरणादिकं दक्षिणकालीतन्त्रवत् ।
इति केचित् ॥ वस्तुतस्तु पुरश्चरणमष्टोत्तर-
सहस्रजपः । इति कृष्णानन्दकृततन्त्रसारः ॥ * ॥
श्मशानकालीमन्त्रादिकं तच्छब्दे द्रष्टव्यम् ॥ * ॥
अथ दीपन्विताश्यामापूजा । यामले ।
“कार्त्तिके मासि कृष्णायां पञ्चदश्यां महानिशि
पूजयेत् योऽतियत्नेन काली विद्या प्रसीदति ॥
मृण्मयीं प्रतिमां कृत्वा महाकालीं प्रपूजयेत् ॥”
व्योमकेशसंहितायाम् ।
“तुलार्के यस्त्वमावास्यां निशार्द्धे घोरदक्षिणाम्
पूजयेद्विधिवद्भक्त्या सर्व्वसिद्धीश्वरो भवेत् ॥” इति ॥
एवञ्च अर्द्धरात्रं पूजाया मुख्यकालः । स च
कालो यद्यु भयदिने तदा पूर्व्वदिने पूजा । यथ
तत्रैव ।
“तत्रोभयदिने शस्तकाले भूतयुता यदि ।
उमा माहेश्वरी सा च तिथिः सिद्धिप्रदा
सताम् ॥
वलिदानं वलितिथावात्मनाशकरं परम् ।
ततस्तत्र न कर्त्तर्व्ये बलिदानविसर्ज्जने ॥
मन्त्रसिद्धिकरं तत्र परेऽह्नि जपसाधनम् ।
रात्रौ पूजा प्रकर्त्तव्या रात्रावेव विसर्ज्जनम् ।
प्रकाशे सिद्धिहानिः स्याद्गोपने सिद्धिरुत्तमा ॥”
तथा कालीकल्पे ।
“तुलार्के बहुले पक्षे पञ्चदश्यां महेश्वरीम् ।
यथोपचारैः संपूज्य महानिशि नृपो भवेत् ।
शनिभौमदिने चेत् स्यात्ततः शतगुणं फलम् ॥
तत्रोभयदिने भूतयुक्तकुह्वां महानिशि ॥
इमां यात्रां कारयित्वा चक्रवर्त्ती भवेन्नृपः ॥”
इति ॥
महेश्वरीं दक्षिणकालीं तत्प्रकरणोक्तत्वात् ॥ * ।
कार्त्तिकामावास्यायां कालीपूजाहेतुमाह विश्व-
सारे ।
“कार्त्तिके कृष्णपक्षेतु पञ्चदश्यां महानिशि ।
आविर्भूता महाकाली योगिनीकोटिभिः
सह ॥
अतोऽत्र पूजनीया सा तस्मिन्नहनि मानवैः ।
बलिपूजादिकं सर्व्वं निशायां क्रियते तु यत् ।
तत्तदक्षयतां याति काली विद्या प्रसीदति ॥”
महानिशि अर्द्धरात्रे । तथा च उत्तरकामाख्या-
तन्त्रे ।
“शरत्काले च देवेशि दीपयात्रादिनेऽपि च ।
अमावास्यां समासाद्य मध्यरात्रौ विचक्षणः ॥
मृण्मयीं पुत्तलीं कृत्वा दीपादिभिरलङ्कृताम् ।
बलिं नानाविधं दद्यात् वाद्यभाण्डसमन्वितम् ॥
नृत्यगीतं कौतुकञ्च यावत् सूर्य्योदयं भवेत् ।
प्रातःकाले शुद्धतोये स्थापयेदरिनाशिनीम् ॥”
इति ॥
एतेनास्या दीपयात्राप्यर्द्धरात्रे बोध्या । आवि-
पृष्ठ ५/१५१
र्भुतेत्यनेनार्द्धरात्रे जन्मश्रवणात् तत्रैव पूजा
मुख्येति । तथा बृहद्धर्म्मपुराणे ।
“रात्रौ निशीथव्याप्तायाममावास्यामिहैव तु ।
पृथ्वीतलं ममायाता काली दिग्वसनाम्बिका ॥
अतस्तामत्र वै भक्त्या देवदेवीं द्विजातयः ।
पूजयेदात्मनो भक्त्या पशुपुष्पार्घ्यसम्पदा ॥” इति
तथा गुप्तसाधनतन्त्रे ।
“निशा तु परमेशानि सूर्य्ये चास्तमुपागते ।
प्रहरे च गते रात्रौ घटिके द्वे परे च ये ॥
महानिशा समाख्याता ततश्चातिमहानिशा ।
अर्द्धरात्रे गते देवि पशुभावो न पूजयेत् ॥”
अर्द्धरात्रे गते अर्द्धरात्रात् परम् । तथा ।
“दशदण्डे तु या पूजा तत् सर्व्वमक्षयं भवेत् ।
षष्ठक्रोशे महेशानि तत् सर्व्वममृतोपमम् ॥
सप्तमक्रोशके देवि सर्व्वं क्षीरोपमं भवेत् ।
अष्टमक्रोशके देवि ! द्रव्यतुल्यं न संशयः ॥
अतः परं महेशानि विषतुल्यं न संशयः ।
एतत् सर्वं महेशानि पशुभावे मयोदितम् ॥”
अर्द्धरात्रस्य गौणत्वश्रवणात् पशूनां यत्र पूर्व्व-
दिने अर्द्धरात्रव्यापिन्यमावास्या न तु तत्पूर्व्वं
प्राप्तिः परदिने च रात्रेः पञ्चममुहूर्त्तव्यापिनी
तदा परेद्युः पूजेति चेन्न गुप्तसाधनतन्त्रोक्तव च
नञ्च नित्यपूजादिपरम् । कार्त्तिकामावास्याया-
मर्द्धरात्रे जन्मनिमित्तकपूजाया विशेषेणाभि-
धानात् । पशुभिरपि एवंभूतस्थले पूर्व्वदिने-
अर्द्धरात्र एव पूजा कार्य्या । यथा श्रीकृष्ण-
पूजायाः सामान्यतो निशायामकर्त्तव्यत्वेऽपि
जन्माष्टम्यामर्द्धरात्रकर्त्तव्यता मुख्यतमेति परन्तु
यत्र पूर्व्वदिने अर्द्धरात्रात् परममावास्या पर-
दिने अर्द्धरात्रात् पूर्वमेव तत्र पशुभाविनः पर
दिने वीरदिव्ययोश्च पूर्व्वदिने पूजा कार्य्या इति
प्रमाणं गोप्यगोपनलीलागमीयषष्ठपटले । एवं
यत्र पूर्व्वदिने अर्द्धरात्रव्यापिन्यमावास्या पर-
दिने तथा भूतापि कुजवारादियुक्ता तत्रापि
पूर्व्वदिने पूजा गुणफलकुजवारादिकमपेक्ष्य चतु-
र्द्दशीयोगस्य मुख्यत्वात् । तथोक्तं व्योमकेश-
तन्त्रे
“कुजवारे लक्षगुणं पूर्व्वविद्धा ततोऽधिकेति ।”
कुजवार इति शनिवारोपलक्षणम् ।
“शनिभौमदिने चेत् स्यात्ततः शतगुणं फलम् ।
इति श्रवणात् ॥
कार्त्तिकामावास्यायां कालीपूजाया नित्यता-
माह मायातन्त्रे ।
“वर्षे वर्षे च कर्त्तव्यं कालिकाया महोत्सवम् ।
कार्त्तिके तु विशेषेण अमावास्यां निशार्द्धके ॥”
इति ॥
देव्यागमे च ।
प्रतिसंवत्सरं कुर्य्यात् कालिकाया महोत्सवम्
कार्त्तिके तु विशेषेण अमावास्यां निशार्द्धके ।
त्र संपूजयेद्देवीं भोगमोक्षप्रदायिनीम् ॥”
इति ।
एवञ्चात्र कार्त्तिकपदं गौणचान्द्रकार्त्तिकपरं
जन्मतिथिकृत्यत्वात् । न तु नानावचने तुलार्क
श्रवणात् सौरकार्त्तिकपरम् । तथा सति यस्मिन्
वर्षे तुलार्के रात्रौ नामावास्याप्राप्तिस्तद्वर्षे
कृत्यलोपः स्यात् । एवं यत्र वर्षे तुलार्के दर्शद्वयं
तत्रानध्यवसायापत्तेः । स्पष्टमुक्तं विद्योत्पत्तितन्त्रे
“कार्त्तिकस्याप्यमाबास्या गौणचान्द्रप्रमाणतः ।
निशीथव्यापि नी या तु तस्यां पूजां समाचरेत् ॥”
निशीथमर्द्धरात्रम् । एव यत्र पूर्वदिने निशीथ-
व्यापिन्यमावास्या कन्यार्के परदिने च तुलार्के-
ऽर्द्धरात्रात् परं मुहूर्त्तादिव्यापिनी तत्रापि-
पूर्वदिने निशीथस्य मुख्यकालत्वानुरोधात् भूत-
तिथियोगानुरोधाच्च तुलार्कस्य दिनभेदनिया-
मकत्वेन श्रुतत्वात् । परन्तु तुलार्कपदं नाना-
वचने यद्यस्ति तत्प्रायिकाभिप्रायेणगुणफलाभि-
प्रायेण वा बोध्यम् । अतएव तिथितत्त्वधृत-
मादिपुराणम् ।
“ऋक्षराशिविशेषेण यत् कर्म्म विहितं नरैः ।
दैवं वाप्यथवा पैत्र्यं तदन्यत्रापि दृश्यते ॥”
इति ।
अगस्त्यसंहितायाम् ।
“मेषं पूषणि संप्राप्ते लग्ने कर्क्कटकाह्वये ।
आविरासीत् सकलया कौशल्यायांपरःपुमान् ॥”
इति ॥
अत्र मेषार्के जन्मश्रवणं मीनार्केऽपि कदाचित्
उपवासः । यत्तु तन्त्रीयमिति कृत्वा पठन्ति ।
“तुलार्के त्वर्द्धरात्रे या दीपयात्रा तिथिर्भवेत् ।
तत्र संपूजयेत् कालीं सर्वकामार्थसिद्धये ॥
निशार्द्धे सा तिथिर्नास्ति तदधःकालसंयुता ।
तत्रापि पूजयेत् कालीं तुलार्कं नैव लङ्घयेत् ॥”
इति तदमूलम् । समूलकत्वेऽपि तुलार्के इत्यत्र
तुशब्दः कन्यार्कग्राहकः । तेन तुलार्के कन्यार्के
वा इत्यर्थः । तुलार्कमात्रपरत्वे प्रतिसंवत्सर
इत्यस्य वाधापत्ते रुक्तत्वात् । तुलार्क नैव लङ्घ-
येदित्यस्य तुलार्कविहितपूजां न त्यजेत् इत्यर्थः
तुलार्कविहितपूजायागौणकार्त्तिकत्वेनकर्त्तव्य-
तायां विधेस्तात्पर्य्यस्योक्तत्वात् । यद्वा सर्वत्र
तुलार्कघटितवचनेषु तुलार्कस्यामावास्यायामुप-
लक्षणतयान्वयः । न तु विशेषणतया । न वा
पूजायामपि तदन्वयः । तेन तुलार्कोपलक्षिता-
मावास्यायां निशीथे कालीं पूजयेत् इतिविधि-
स्तेनगौणचान्द्रकार्त्तिकामावास्यालाभः । तस्या-
मेव तुलार्कसम्बन्धनियमात् । अन्यथा तुलास्थ-
रव्यारब्धत्वाभावेन कदाचित् तत्परप्रतिपदादि-
दर्शान्तस्य मुख्यकार्त्ति कत्वानुपपत्तिः । मुख्य-
कार्त्ति कामावास्यायाः कदाचित्वृश्चिके सत्त्वात्
न तु तुलार्के नियमः । तथा च तुलार्कनियता-
मावास्यायां निशीथे कालीं पूजयेदिति पर्य्यव-
सितम् । तुलार्कं नैव लङ्घयेदित्यत्र तुलार्कपदञ्च
तुलार्कोपलक्षितामावास्यापूजापरम् । संकल्प-
वाक्ये तु कार्त्तिके मासीत्युल्लेख्यं न तु राश्युल्ले-
खोऽपि गौणचान्द्रेण विधानात् । केचित्तु उपल-
क्षणतया अमावास्यायां अन्वयतात्पर्य्येण
तुलाराशिस्थे भास्करे इत्युल्लेख्यं इति भास्कर
पदोत्तरसप्तम्या उपलक्षणतया तत्कालसम्बन्ध-
बोधनसामर्थ्यात् इति वदन्ति ॥ * ॥ तन्त्रान्तरे ।
“तुलाराशिं गते भानौ दीपयात्रानिशासु च ।
पूजयेत् कालिकां देवीं धर्म्मकामार्थसिद्धये ॥”
तन्त्रे ।
“अर्द्धरात्रात् पुरस्तात्तु यावद्वै घटिकाद्वयम् ।
सा महारात्रिरुद्दिष्टा यद्दत्तमक्षयं भवेत् ॥
महानिशात्र विज्ञे या अर्द्धरात्रात् परं शिवे ।
नाडीचतुष्टयं शस्तं तत्र पूजा महाफला ॥”
विद्योत्पत्तितन्त्रे ।
“दीपोत्सवचतुर्द्दश्याममाया योग एव च ।
कालरात्रिर्म्महेशानि काली तारा प्रियङ्करी ॥”
ज्ञानार्णवे ।
“महारात्रावमावास्यां दक्षिणायाः प्रपूजनम् ।
कार्त्तिके मासि सुश्रोणि कालीप्रीतिकरं परम् ॥
तत्रापि च निशीथे तन्माहासिद्धिप्रदं नृणाम् ।
निशीथात् परतो देवि यत्तु नाडीचतुष्टयम् ॥
सा महारात्रिरुत्कृष्टा तत्र पूजा महाफला ।
तारतम्येन देवेशि पूजायाः फलकल्पनम् ॥”
कुलार्णवेऽपि ।
“भूतयुक्ता महेशानि महारात्रौ तु या कुहूः ।
सा कालरात्रिरुद्दिष्टा कालीतारा प्रियङ्करी ॥
तत्र पूजा तयोः कार्य्या नानापशुविहिंसनम् ।
बलिदानं बलिताथावात्मनाशकरं शिवे ! ॥”
कुलचूडामणौ ।
“तिथिभ्यः शतगुणं पर्व्व दर्शः कोटिगुणोत्तरः ।
फलोपचारबहुलैज्यैष्ठे सूर्य्येन्दुसङ्गमे ।
पूजयित्वा महाकालीं नरो निर्व्वाणमृच्छति ॥
चतुर्वर्गप्रदं दर्शे कार्त्तिके कालिकार्च्चनम् ।
अनन्तफलदं तत्र पर्व्वयुक्ते च पर्व्वणि ॥
निशार्द्धे पूजयद्देवों नृमुण्डां मुण्डमालिनीम् ।
पश्चाज्झिल्लीरवे घोरे सर्व्वप्राणिभयङ्करे ॥”
कालीकुलसद्भावे ।
“दीपोत्सर्गचतुर्द्दश्या संमिश्रा या भवेत् कुहूः ।
तस्यां या तामसी रात्रिः सोच्यते काल-
रात्रिका ॥
तस्यां पूजा प्रकर्त्तव्या काली तारा प्रियङ्करी ॥
तुलामकरमेषेषु कन्यायां मिथुने तथा ।
भूतविद्धाप्यमावास्या पूज्या भवति यत्रतः ॥”
इति जीमूतवाहनकृतधर्म्मरत्ने कालविवेकधृत
हारीतवचनम् ॥ * ॥ शिवरात्रिप्रकरणे देव-
लोक्तमहानिशा यथाः, --
“महानिशे द्वे घटिके रात्रेर्म्मध्यमयामयोः ॥”
इति गङ्गामाहात्म्यप्रकरणे गृहस्थरत्नाकर-
धृता तु ।
“महानिशा तु विज्ञेया मध्यमं प्रहरद्वयम् ।
तत्र स्नानं न कुर्व्वीत नित्यनैमित्तिकादृते ॥”
ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ।
“षण्मुहूर्त्ते व्यतीते तु रात्रावेव महानिशा ।”
कृत्यतत्त्वार्णवे बौधायनः ।
“महानिशा तु विज्ञेया मध्यं मध्यमयामयोः ।”
पृष्ठ ५/१५२
दव्यागमे ।
“अमावास्यामर्द्धरात्रे दक्षिणां पूजयेत्पराम् ।
कुलऋक्षे च यः कुर्य्यात् स गच्छेच्छिवसन्नि-
धिम् ॥
तुलायां भौमवारे च अमावास्या यदा भवेत् ।
तिथिः सापि महापुण्या शिवेन परिकीर्त्तिता ॥
वर्षेश्चतुर्भिर्यत् पुण्यं विधिवत् पूज्य चण्डिकाम्
तत्फलं लभते वीर अमावास्यां निशार्द्धके ॥”
कालीकुलतन्त्रे ।
“निशार्द्धे पूजयेद्देवीं श्मशानालयवासिनीम् ॥”
इति ॥
मालिनीतन्त्रे ।
“एतत्सन्ध्यात्रयेणैव अर्द्धरात्रौ तु वन्दना ।
महारात्रावपि तथा कार्य्या देशिकसत्तमैः ॥” *
स्वापकालो यथा, --
श्रीदेव्युवाच ।
“देवदेव महादेव संसारार्णवतारक ।
देवतायाः स्वापकालं कथयस्व दयानिधे ॥
श्रीशिव उवाच ।
चतुर्द्दण्डात् परं देवि रात्रेः प्रथमयामकः ।
स्वापकालस्तु कथितः पूजानर्थफलप्रदा ।
पूजा होमस्तोत्रनती जाग्रत्काले प्रशस्यते ॥”
इति कालीकुलामृततन्त्रे ॥ * ॥
“समुद्रमथने देवि देवासुरगणाः पुरा ।
नाराध्य त्वां प्रमथ्नीयुरतस्त्वं विषरूपिणी ॥
आविर्भूता महाकाली ब्रह्माण्डनाशनाशिनी ।
तद्दृष्ट्वा देवा दैत्याश्च भीता मां शरणं गताः ॥
तेषामपि भयं दृष्ट्वा भीतोऽहं विषसन्निधौ ।
गत्वा ध्यानपरो भूत्वा विषं पातुं समारभे ॥
पूर्व्वोक्ता या महाविद्या आविर्भूता च मे
हृदि ।
तुलां कुह्वां निशार्द्धे च देवदानवनिद्रिते ॥
मनुष्यपशुपक्ष्यादौ निद्रिते चान्यजन्तुषु ।
तस्मिन् काले मया पूज्या इन्द्रेणाप्यसुरेण तु ॥
देव्युवाच ।
कुत्र काले त्वया पूज्या इन्द्रेणाप्यसुरेण च ॥
महादेव उवाच ।
अर्द्धरात्रान्मुर्त्ते च मया चेन्द्रेण पूजिता ।
ततो मुहूर्त्ते संपूज्या वीरेणाप्यसुरेण च ॥
अत आद्यः पाशवः स्यात् वैरः शेषः प्रकी-
र्त्तितः ।
म्वायम्भुवेन मनुना मर्त्त्ये तेन प्रपूजिता ॥”
इति गोप्यगोपनलीलागमे ६ पटलः ॥ * ॥
कालीकुलसर्व्वस्वे ।
“निशार्द्धे सा तिथिर्नास्ति तदूर्द्ध्वे भूतसंयुता ।
तत्रापि पूजयेद्देवों भूतयुक्तां न लङ्घयेदिति ॥”
अथ रक्षाकालीपूजाप्रमाणम् । उत्तरकामाख्या-
तन्त्रे ।
“मारीभये समायाते दुर्भिक्षभयपीडिते ।
पूजयेत् परया भक्त्या कालीं कालविनाशिनीम् ॥
रक्षणात् सर्व्वभूतानां रक्षाकालीतिं सा
स्मृता ॥”
ज्ञानार्णवे ।
“सर्व्वविघ्नोपशान्त्यर्थं रक्षाकालीं प्रपूजयेत् ।
शनिमङ्गलवारे च प्रदोषे पूजयेत् शिवाम् ॥
चतुर्द्दश्याममायां वा नवम्यामष्टमीतिथौ ।
पूजनात् वरदा काली यथेप्सितफलप्रदा ॥”
कालीकूलसर्व्वस्वे ।
“निशामुखे महेशानी काली रक्षार्थमादरात्
पूजनीया नृभिः सर्व्वैरुपचारसमन्वितैः ।
वित्तशाठ्यं न कर्त्तव्यं यथाविभवविस्तरैः ॥”
निरुत्तरतन्त्रे ।
“बलिदानन्तु विधिवत् मधुभिः पायसे न च ।
पूपैर्म्मोदकसंघैश्च पृथुकैः श्रीफलैरपि ॥
नानाफलैः शाकसूपैः पञ्चतत्त्वै र्म्महेश्वरीम् ।
पूजयेद्विघ्नशान्त्यर्थं कालीं रक्षाविधायिनीम् ॥
प्रदोषसमये पूजा कर्त्तव्या भूतिमिच्छता ।
रात्रौ विसर्ज्जनं कार्य्यं क्रीडाकौतुकमङ्गलैः ॥
भैरवतन्त्रे ।
“अथ वक्ष्ये महेशानि घोरे मारीभये तथा ।
औत्पातिके च दुर्भिक्षे युद्धे राष्ट्रभयागते ।
पूजां कुर्य्यात् महाकाल्या रक्षार्थं पञ्चपर्व्वसु ॥
प्रदोषकाले संपूज्य निशायान्तु विसर्ज्जयेत् ।
मुहूर्त्तद्वितयं कालः प्रदोषोऽस्तमयात्ततः ॥”
तन्त्रान्तरे ।
“निशामुखे महाकालीं महामारीभये शिवाम्
कालीं त्रैलोक्यरक्षार्थं पूजयेत् रक्षणात्मि-
काम् ॥” * ॥
अथ फलहारीपूजाप्रमाणम् ।
“मधुमासे सिताष्टम्यां वैशाखत्रितयेऽहनि ।
पौर्णमास्यां तथा ज्यैष्ठे अमायाञ्च महेश्वरि ॥”
इत्यादि ।
“आमायां कार्त्तिके चैवनवम्यां शुक्लपक्षके ।”
इति कात्यायनीतन्त्रे ७८ पटलः ॥
“ज्यैष्ठे मासि तथामायां सफलं कालिकार्च्च
नम् ।”
इत्युत्तरकामाख्यातन्त्रे ११ पटलः ॥
“ज्यैष्ठे मासि अमायां वै मध्यरात्रे महेश्वरि ।
पूजयेत् कालिकां देवीं नानाद्रव्योपहारकैः ॥
तत्रैव सितपक्षे तु पञ्चदश्यां निशार्द्धके ।
पूजयेच्च फलैर्लक्षैः शक्तितो वापि कालिकाम् ॥”
इति मायातन्त्रे २७ पटलः ॥
अथ रटन्तीपूजाप्रमाणम् ।
“माघे मास्यसिते पक्षे रटन्त्याख्या चतुर्द्दशी ।
तस्यां निशार्द्ध समये पूजयेन्मुण्डमालिनीम् ॥”
इति मायातन्त्रे १७ पटलः ॥
“मकरस्थे रवौ कृष्णचतुर्द्दश्यां निशार्द्धके ।
पूजयेद्दक्षिणां कालीं धर्म्मकामार्थसिद्धये ॥”
इत्युतरकामाख्यातन्त्रे ९ पटलः ॥

श्यामाकः, पुं, (श्यामं श्यामवर्णमकतीति । अक

गतौ + अण् ।) तृणधान्यमेदः । शामा इति
भाषा । तत्पर्य्यायः । श्यामकः २ श्यामः ३
त्रिबीजः ४ अविप्रियः ५ सुकुमारः ६ राज-
धान्यम् ७ तृणवीजोत्तमः ८ । अस्य गुणाः ।
मधुरत्वम् । तिक्तत्वम् । कषायत्वम् । लघुत्वम् ।
शीतलत्वम् । वातकारित्वम् । कफपित्तव्रणदोष-
नाशित्वम् । सुग्राहित्वञ्च । इति राजनिर्घण्टः ॥
अपि च ।
“श्यामाकः शोषणो रूक्षो वातलः कफपित्त-
कृत् ॥”
इति भावप्रकाशः ॥

श्यामाङ्गः, पुं, (श्यामानि अङ्गानि यस्य । बुध-

ग्रहः । इतित्रिकाण्डशेषः ॥ कृष्णकलेवरे, त्रि
यथा, --
“श्यामाङ्गीं शशिशेखरां निजकरैर्दानञ्च रक्तो-
त्पलं
रत्नाढ्यं चसकं परं भयहरं संबिभ्रतीं शाश्व-
तीम् ।
मुक्ताहारलसत्पयोधरनतां नेत्रत्रयोल्लालिनीं
वन्देऽहं सुरपूजितां हरबधूं रक्तारविन्द-
स्थिताम् ॥”
इति तन्त्रसारे भुवनेश्वरीध्यानम् ॥

श्यामाम्ली, स्त्री, (श्यामा चासौ अम्ली चेति

कर्म्मधारयः ।) नीलाम्ली । इति राज-
निर्घण्टः ॥

श्यालः, पुं, (श्यायते नर्म्मार्थं प्राप्यतेऽसौ इति ।

श्यै + बाहुलकात् कालन् ।) पत्नीभ्राता ।
इत्यमरः ॥ शाला इति भाषा ॥ (यथा, गीता-
याम् । १ । ३४ ।
“मातुलाः श्वशुराः पौत्त्राः श्यालाः सम्बन्धिन-
स्तथा ।
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ॥”)
तत्पर्य्यायः । वाक्कीरः २ श्यालिकः ३ । इति
शब्दरत्नावली ॥ श्वशुर्य्यः ४ आत्मवीरः । इति
जटाधरः ॥ तन्मरणे एकरात्राशौचं यथा ।
आचार्य्यपत्रीपुत्त्रोपाध्यायमातुलश्वशुरश्वशुर्य्य-
सहाध्यायिशिष्येष्वे करात्रेणेति । इति शुद्धि-
तत्त्वम् ॥ दन्त्यसादिश्च । (भगिनीपतिः । यथा,
ब्रह्मवैवर्त्ते । १ । १० । १५१ ।
“भग्नी पुत्त्रो भागिनेयो भ्रातृपुत्त्रश्च भ्रातृजः
श्यालस्तु भगिनीकान्तो भगिनीपतिरेव ॥”)

श्यालकः, पुं, श्याल एव । स्वार्थे कन् ।) श्यालः ।

इति रत्नावली ॥ (यथा, ब्रह्मवैवर्त्ते । १ ।
१० । १४९ ।
“पत्नीभ्राता श्यालकश्च पत्नीभग्नी च
श्यालिका ॥”)

श्यालिका, स्त्री, पत्न्या भगिनी । शाली इति

भाषा । तत्पर्य्यायः । (श्याली २ केलिकुञ्चिका ३
इति शब्दरत्नावली ॥ (यथा, ब्रह्मवैवर्त्ते । १ ।
१० । १४९ ।
“पत्नीभ्राता श्यालकश्च पत्नीभग्नी च
श्यालिका ॥”)

श्यावः, पुं, (श्यै + बाहुलकात् वः ।) कपिशः ।

इत्यमरः ॥ स तु कृष्णपीतमिश्रवर्णः । इति
भरतः ॥ तद्युक्ते, त्रि ॥ (यथा बृहत्संहि-
तायाम् । ४ । २९ ।
पृष्ठ ५/१५३
“श्यावतनुः स्फुटितः स्फुरणो वा
क्षुत्समरामयचौरभयाय ॥”)

श्यावदन्, [त्] त्रि, (श्यावा दन्ता यस्य । “विभाषा

श्यावारोकाभ्याम् ।” ५ । ४ । १४४ । इति दत्रा-
देशः ।) कृष्णपीतमिश्रितवर्णदन्तयुक्तः । इति
सिद्धान्तकौमुदी ॥

श्यावदन्तः, त्रि, (श्यावा दन्ता यस्य । “विभाष ।

श्यावारोकाभ्याम् ।” ५ । ४ ।
१४४ । इति विभाषया दत्रादेशो न । स्वार्थे
कन् च ।) स्वाभाविककृष्णवर्णदशनयुक्तः ।
प्रधानदन्तद्वयमध्यस्थक्षुद्रदन्तविशिष्टः । प्रधान-
दन्तोपरिदन्तान्तरयुक्तः । यथा विष्णुः । अथ नर-
कानुभूतदुःखानां तिर्य्यक्त्वमुत्तीर्णानां मानुष्ये
लक्षणानि भवन्ति । कुष्ठ्यतिपातकी । ब्रह्महा
यक्ष्मी । सुरापः श्यावदन्तकः । सुवर्णहारी
कुनखी । गुरुतल्पगो दुश्चर्म्मा इत्यादि । श्याव-
दन्तकः स्वभावकृष्णदन्तः । प्रधानदन्तद्वयमध्य-
वर्त्तिक्षुद्रदन्तः । प्रधानदन्तोपरि दन्तान्तर-
मिति केचित् ॥ कुनखी सङ्कचितनखः । दुश्चर्म्मा
स्वभावतः अनावृतमेढ्रः । अतएव महारोगिणो
यावज्जीवमशीचमाह कूर्म्मपुराणम् ।
“क्रियाहीनस्य मूर्खस्य महारोगिण एव च ।
यथेष्टाचरणस्याहुर्म्मरणान्तमशौचकम् ॥”
क्रियाहीनस्य नित्यनैमित्तिकक्रियाननुष्ठायिनः ।
मूर्खस्य गायत्रीरहितस्य । सार्थगायत्रीरहि-
तस्येति रुद्रधरः ॥ महारोगिणः पापरोगाष्ट-
कान्यतमरोगवतः । ते च उन्मादस्त्वग्दोषो
राजयक्ष्मा श्वासो मधुमेहो भगन्दर उदरो-
ऽश्मरी इत्यष्टौ पापरोगा नारदोक्ताः । यथेष्टा-
चरणस्य द्यूतवेश्याद्यासक्तस्य । एवञ्च भविष्य-
पुराणोक्तं यतिचान्द्रायणप्रायश्चित्तं अकृतप्राय-
श्चित्तानां कुष्ठ्यादीनां दाहे बोद्धव्यम् । अन्य-
थैषां प्रायश्चित्तोपदेशो विफलः स्यात् । यथा
विष्णुः । कुनखी श्यावदन्तश्चद्वादशरात्रं कृच्छ्रं
चरित्वोद्धरेयातां तद्दन्तनखौ इति । अत्र द्वादश-
रात्रं पराकरूपं तत्र पञ्चधेनवः । न तु प्राजा-
पत्यम् । तद्दाहकर्त्तुर्यतिचान्द्रायणेन विषम-
शिष्टत्वात् । अत्र बहूनामेकधर्म्माणामिति वच-
नात् आकाङ्क्षितत्वात् कुष्ठ्यादीनामपि प्रायश्चि-
त्तम् । अतएव प्रायश्चित्तविवेकेऽप्युक्तं एवं
दुश्चर्म्मादिष्वप्यूह्यमिति । महापातकादतिपात-
कस्य गुरुत्वात् तच्छेषेऽपि प्रायश्चित्तं द्विगुणम् ।
इति शुद्धितत्त्वम् ॥

श्यावदन्तकः, त्रि, (श्यावा दन्ता यस्य । “विभाष ।

श्यावारोकाभ्याम् ।” ५ । ४ ।
१४४ । इति विभाषया दत्रादेशो न । स्वार्थे
कन् च ।) स्वाभाविककृष्णवर्णदशनयुक्तः ।
प्रधानदन्तद्वयमध्यस्थक्षुद्रदन्तविशिष्टः । प्रधान-
दन्तोपरिदन्तान्तरयुक्तः । यथा विष्णुः । अथ नर-
कानुभूतदुःखानां तिर्य्यक्त्वमुत्तीर्णानां मानुष्ये
लक्षणानि भवन्ति । कुष्ठ्यतिपातकी । ब्रह्महा
यक्ष्मी । सुरापः श्यावदन्तकः । सुवर्णहारी
कुनखी । गुरुतल्पगो दुश्चर्म्मा इत्यादि । श्याव-
दन्तकः स्वभावकृष्णदन्तः । प्रधानदन्तद्वयमध्य-
वर्त्तिक्षुद्रदन्तः । प्रधानदन्तोपरि दन्तान्तर-
मिति केचित् ॥ कुनखी सङ्कचितनखः । दुश्चर्म्मा
स्वभावतः अनावृतमेढ्रः । अतएव महारोगिणो
यावज्जीवमशीचमाह कूर्म्मपुराणम् ।
“क्रियाहीनस्य मूर्खस्य महारोगिण एव च ।
यथेष्टाचरणस्याहुर्म्मरणान्तमशौचकम् ॥”
क्रियाहीनस्य नित्यनैमित्तिकक्रियाननुष्ठायिनः ।
मूर्खस्य गायत्रीरहितस्य । सार्थगायत्रीरहि-
तस्येति रुद्रधरः ॥ महारोगिणः पापरोगाष्ट-
कान्यतमरोगवतः । ते च उन्मादस्त्वग्दोषो
राजयक्ष्मा श्वासो मधुमेहो भगन्दर उदरो-
ऽश्मरी इत्यष्टौ पापरोगा नारदोक्ताः । यथेष्टा-
चरणस्य द्यूतवेश्याद्यासक्तस्य । एवञ्च भविष्य-
पुराणोक्तं यतिचान्द्रायणप्रायश्चित्तं अकृतप्राय-
श्चित्तानां कुष्ठ्यादीनां दाहे बोद्धव्यम् । अन्य-
थैषां प्रायश्चित्तोपदेशो विफलः स्यात् । यथा
विष्णुः । कुनखी श्यावदन्तश्चद्वादशरात्रं कृच्छ्रं
चरित्वोद्धरेयातां तद्दन्तनखौ इति । अत्र द्वादश-
रात्रं पराकरूपं तत्र पञ्चधेनवः । न तु प्राजा-
पत्यम् । तद्दाहकर्त्तुर्यतिचान्द्रायणेन विषम-
शिष्टत्वात् । अत्र बहूनामेकधर्म्माणामिति वच-
नात् आकाङ्क्षितत्वात् कुष्ठ्यादीनामपि प्रायश्चि-
त्तम् । अतएव प्रायश्चित्तविवेकेऽप्युक्तं एवं
दुश्चर्म्मादिष्वप्यूह्यमिति । महापातकादतिपात-
कस्य गुरुत्वात् तच्छेषेऽपि प्रायश्चित्तं द्विगुणम् ।
इति शुद्धितत्त्वम् ॥

श्येतः, पुं, (श्यैङ गतौ + “हृश्याभ्यामितन् ।”

उणा ०३ । ९३ । इति इतन् ।) शुक्लवर्णः ।
तद्वति, त्रि । इत्यमरः ॥

श्येतकोलकः, पुं, (श्येतः कोलः क्रोडदेशो यस्य ।

कन् ।) मत्स्यविशेषः । पुँटी इति भाषा ।
यथा । सफरः श्येतकोलकः । इति हारावली ॥

श्येनः, पुं, (श्यै ङ गतौ + श्यास्त्याहृञविभ्य

इनच् ।” उणा० २ । ४६ । इति इनच् ।)
पाण्डुरवर्णः । इति मेदिनी ॥ पक्षिविशेषः ।
सञ्चालः इति वाज् इति च भाषा । तत्पर्य्यायः ।
शशादनः २ पत्री ३ । इत्यमरः ॥ कपोतारिः ४
पतद्भीरुः ५ । इति शब्दरत्नावली । घाति-
पक्षी ६ ग्राहकः ७ मारकः ८ । इति जटा-
धरः ॥ शशादः ९ क्रव्यादः १० क्रूरः ११ वेगी १२
खगान्तकः १३ करगः १४ नीलपिच्छः १५
लम्बकर्णः १६ रणप्रियः १७ रणपक्षी १८
पिच्छवाणः १९ स्थूलनीलः २० भयङ्करः २१ ।
इति राजनिर्घण्टः ॥ शशघातकः २२ । इति
भावप्रकाशः ॥ अस्य मांसगुणाः प्रसहशब्दे
द्रष्टव्याः ॥ * ॥ तस्य शुभाशुभसूचकत्वं यथा, --
“प्रदक्षिणीकृत्य नरं व्रजन्तो
यात्रासु वामेन गताः प्रवेशे ।
श्येनाः प्रशस्ताः प्रकृतस्वरास्ते
शान्ताः प्रदीप्ता विततस्वरास्ते ॥
श्येनो नृणां दक्षिणवामपृष्ठ-
भागेषु भाग्यैः स्थितिमादधाति ।
तिष्ठन् पुरस्तान्मृतये करोति
युद्धे जयं छन्नरथध्वजस्थः ॥”
इति वसन्तराजशाकुने अष्टमवर्गः ॥

श्येनघण्टा, स्त्री, दन्तीवृक्षः । इति राज-

निर्घण्टः ॥

श्येनचित्, पुं, (श्येनेन चयति अन्यपक्षिण इति ।

चि + क्विप् ॥) श्येनपक्षिरक्षकः । इतिकेचित्
(श्येन इव चीयते इति । कर्म्मण्यग्न्याख्या-
याम् ।” ३ । २ । ९२ । इति क्विप् । अग्न्यर्थ
इष्टकाचयः । इति काशिका ॥)

श्येनी, स्त्री, श्वेतवर्णा । इति जटाधरः ॥ श्येन-

पत्नी च ॥ (सा तु कश्यपात् दक्षकन्यायां
ताम्रायां समुत्पन्ना । यथा, मार्कण्डेये । १०४ । ८ ।
“ताम्रा च सुषुवे श्ये नीप्रमुखाः कन्यका द्विज ।
यासां प्रसूताः खगमाः श्येनभासशुका-
दयः ॥”)

श्यै, ङ गतौ । इति कविकल्मद्रुमः ॥ (भ्वा०-

आत्म०-सक०-अनिट् ।) तालव्यादिरन्तस्था-
द्योपधः । ङ, श्यायते । इति दुर्गादासः ॥

श्यैनम्पाता, स्त्री, (श्ये नपातोऽस्यां वर्त्तते इति ।

“घञः सास्यां क्रियेति ञः ।” ४ । २ । ५८ ।
इति ञः । “श्येनतिलस्य पाते ञे ।” ६ । ३ । ७१ ।
इति मुमागमः ।) मृगया । इत्यमरः । (यथा,
नैषधे । १९ । १२ ।
“नभसिमहसां ध्वान्तध्वाङ्क्षप्रमापणपत्रिणा-
मिह विहरणैः श्यैनम्पातां रवेरवधारयन् ॥”)

श्यो(णा)नाकः, पुं, (श्यायते इति । श्यै ङगतौ +

पिणाकादश्चेति निपातनात् साधुः ।) वृक्ष-
विशेषः । शोनागाछ इति भाषा । तत्पर्य्यायः ।
मण्डूकपर्णः २ पत्रोर्णः ३ नटः ४ कट्वङ्गः ५
टुण्टुकः ६ शुकनासः ७ ऋक्षः ८ दीर्घवृन्तः ९
कुटन्नटः १० शोणकः ११ अरलुः १२ । इत्य-
मरः ॥ स्योनाकः १३ । इति भरतः ॥ शोणः
१४ अवटुः १५ दीर्घवृन्दकः १६ । इति शब्द-
रत्नावली ॥ पृथुशिम्बिः १७ शल्लकः १८ ।
इति जटाधरः ॥ कटम्भरः १९ मयूरजङ्घः २०
अरलुकः २१ प्रियजीवः २२ । तद्भेदा यथा, --
“श्योनाकः पृथुशिम्बोऽन्यो भल्लूको दीर्घवृन्तकः
टेन्द्रकः पीतवृक्षश्च भूतसारो मुनिद्रुमः ॥
निःसारः फलवृन्ताकः पूतिपत्रो वसन्तकः ।
मण्डूकवर्णः पीताङ्गो जम्बुकः पीतपादकः ॥
वातारिः पीतकः शोणः कुलटश्च विरोचनः ।
भ्रमरेष्टो वह्निजङ्घो नेत्रनेत्रमिताभिधः ॥”
पुस्तकान्तरे टेन्द्रकस्थाने टुण्टकः फलवृन्ताक-
स्थाने फल्गुवृन्ताकः पीतपादकस्थाने पीत-
पादपः कुलटस्थाने कुनटः वह्निजङ्घस्थाने वर्हि-
जङ्घ इति च पाठः ॥ तयोर्गुणाः ।
“श्योनाकयुगलं तिक्तं शीतलञ्च त्रिदोषजित् ।
पित्तश्लेष्मातिसारघ्नं सन्निपातज्वरापहम् ॥”
इति राजनिर्घण्टः ॥ * ॥
अपिच ।
“श्योनाकः शोषणश्च स्यान्नटकट्वङ्गटुण्टुकाः ।
मण्डूकपर्णपत्रोर्णशुकनासकुटन्नटाः ॥
दीर्घवृन्तोऽरलुश्चापि पृथुशिम्बः कटम्भरः ।
श्योनाको दीपनः पाके कटुकस्तुवरो हिमः ॥
ग्राही तिक्तोऽनिलश्ले ष्मपित्तक्राशामनाशनः ।
कटुकस्य फलं बालं रूक्षं वातकफायहम् ॥
हृद्यं कषायं मधुरं रोचनं लघु दीपनम् ।
गुल्मार्शः कृमिहृत् प्रोक्तं गुरु वातप्रकोपणम्” ॥
इति भावप्रकाशः ॥

श्रक, इ ङ सर्पे इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) रेफयुक्ताद्यः । इ, श्रङ्क्यते
ङ, श्रङ्कते । सर्पो गतिः । इति दुर्गादासः ॥

श्रग, इ व्रजे । इति कविकल्पद्रुमः ॥ (स्वा०-

पर०-सक०-प्लुतौ अक०-सेट् ।) रेफान्तताल-
व्यादिः । अयं प्लुतगताविति भट्टमल्लः । इ,
श्रङ्ग्यते । इति दुर्गादासः ॥

श्रण, कन्दाने । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-सक०-सेट् ।) क, श्राणयति । स्वमते
अस्यञ्यङि ह्नस्वविकल्पनेऽप्यष्टमस्वरानुबन्धा-
भावोऽन्ये षामनुरोधात् । इति दुर्गादासः ॥

श्रण, म दाने । इति कविकल्पद्रुमः ॥ (भ्वा० पर०

सक०-सेट् । तालव्यादी रेफयुक्तः । म, श्रण-
यति । इति दुर्गादासः ॥
श्रत्, व्य, श्रद्वा । इति मुग्धबोधटीकायां दुर्गा-
दासः ॥ (सत्यम् । इति निघण्टुः । ३ । १० ॥)

श्रथ, इ ङ शैथिल्ये । इति कविकल्पद्रुमः ॥ (भ्वा०

आत्म०-अक०-सक०-च सेट् ।) शैथिल्यमिह
शिथिलीभावस्तत्करणञ्च ॥ इ, श्रन्थ्यते । ङ,
श्रन्थते वस्त्रं शिथिलं स्यादित्यर्थः । श्रन्थते वस्त्रं
लोकः शिथिलं करोति इत्यर्थः । इति दुर्गा-
दासः ॥

श्रथ, क यत्ने । प्रतिहृषि । इति कविकल्पद्रुमः ॥

(चुरा०-पर०-यत्ने अक०-प्रतिहर्षे सक० सेट् ।
क, श्राथयति पठितुं शिष्यः । श्राथयति शिशुं
लोकः पुनःपुनर्हर्षयति इत्यर्थः । इति दुर्गा-
दासः ॥