शब्दकल्पद्रुमः/वैजयन्ती

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ४/५०९

वैजयन्ती, स्त्री, पताका । इत्यमरः ॥

(यथा, रघुः । ६ । ८ ।
“सञ्चारिते चागुरुसारयोनौ
धूपे समुत्सर्पति वैजयन्तीः ॥”)
जयन्तीवृक्षः । इति मेदिनी ॥ अग्निमन्थवृक्षः ।
इति हेमचन्द्रः ॥ पञ्चवर्णमयी जानुपर्य्यन्त-
लम्बिता माला । यथा, --
“उपगीयमान उद्गायन् वनिताशतयूथपः ।
मालां बिभ्रद्वैजयन्तीं व्यचरन् मण्डयन् वनम् ॥”
इति श्रीभागवते १० स्कन्धे ३१ अध्यायः ॥

वैजयिः, पुं, मघवा । स तु जिनचक्रवर्त्तिविशेषः ।

इति हेमचन्द्रः ॥

वैजयिकं, त्रि, (विजयस्य निमित्तं विजयिना

संयोग इति वा । विजय + “तस्य निमित्तमिति ।”
५ । १ । ३८ । इति ठञ् ।) विजयसम्बन्धि । इति
सिद्धान्तकौमुदी ॥ (यथा, हरिवंशे । २४२ । ३१ ।
“रणे प्रवेशसदृशं कर्म्म वैजयिकं कृतम् ॥”)

वै(बै)जिकं, क्ली, (वीजादुत्पन्नम् । वीज + ठक् ।)

शिग्रुतैलम् । हेतुः । इति मेदिनी ॥ आत्मा ।
इति शब्दमाला ॥

वै(बै)जिकः, पुं, सद्योऽङ्कुरः । इति मेदिनी ॥ बीज,

सम्बन्धिनि, त्रि ॥ (वीर्य्यसम्बन्धिनि च त्रि ।
यथा, मनौ । २ । २७ ।
“गार्भैर्होमैर्जातकर्म्मचौडमौञ्जीनिबन्धनैः ।
वैजिकं गार्भिकञ्चैनो द्विजानामपमृज्यते ॥”)

वैज्ञानिकः, त्रि, (विज्ञाने युक्तः । विज्ञान + “तत्र

नियुक्तः ।” ४ । ४ । ६९ । इति ठक् ।) निपुणः ।
इत्यमरः ॥

वै(बै)डालव्रतं, क्ली, (वैडालं विडालसम्बन्धि

व्रतम् ।) दुष्टाचारविशेषः । यथा, --
“यस्य धर्म्मध्वजो नित्यं शक्रध्वज इवोच्छ्रितः ।
प्रच्छन्नानि च पापानि वैडालं नाम तद्व्रतम् ॥”
इति दानसागरे यमवचनम् ॥

वै(बै)डालव्रतिः, पुं, अङ्गनाद्यभावात् कृतब्रह्म-

चर्य्यः । इति जटाधरः ॥

वै(बै)डालव्रतिकः, पुं, (विडालव्रतेन चरतीति ।

विडालव्रत + ठक् ।) छद्मतपस्वी । तत्पर्य्यायः ।
छद्मतापसः ३ सर्व्वाभिसन्धी ३ । इति त्रिकाण्ड-
शेषः ॥ तस्यासंभाष्यत्वं यथा, --
“पाषण्डिनो विकर्म्मस्थान् वैडालव्रतिकान्
शठान् ।
हैतुकान् वकवृत्तींश्च वाङ्मात्रेणापि नार्च्चयेत् ॥”
इति विष्णुपुराणे ३ अंशे १८ अध्यायः ॥
“यस्य धर्म्मध्वजो नित्यं सुरध्वज इवोच्छ्रितः ।
प्रच्छन्नानि च पापानि वैडालं नाम तद्व्रतम् ॥”
तद्वान् वैडालव्रतिकः । इति तट्टीका ॥

वै(बै)डालव्रती, [न्] पुं, (वैडालव्रतमस्त्यस्येति ।

इनिः ।) भण्डतापसः । विडालतपस्वी । इति
भाषा । यथा, कौर्म्मे उपविभागे ५ अध्याये ।
“छद्मना चरितं तच्च व्रतं रक्षसि गच्छति ।
अलिङ्गी लिङ्गवेशेन यो लिङ्गमुपजीवति ।
स लिङ्गिनां हरेदेनस्तिर्य्यग्योनौ च जायते ॥
वैडालव्रतिनः पापाः सर्व्वधर्म्मविनाशकाः ।
सद्यः पतन्ति पापेषु कर्म्मणस्तस्य तत्फलम् ॥
पाषण्डिनो विकर्म्मस्थान् वामाचारांस्तथैव च ।
पञ्चरात्रान् पाशुपतान् वाङ्मात्रेणापि नार्च्चयेत् ॥”

वैणः, पुं, वेणुजीवी । वेणुशब्दादण्प्रत्ययेन उका-

रस्य लोपेन च निष्पन्नमिदम् । इति सिद्धान्त-
कौमुदी ॥ (यथा, याज्ञवल्क्ये । १ । १६१ ।
“वैणाभिशस्तवार्द्धूषिगणिका गणदीक्षिणाम् ॥”)

वैणवं, क्ली, (वेणोरिदम् । वेणु + अण्) वेणु-

फलम् । इत्यमरः ॥ वेणुसम्बन्धिनि, त्रि ॥
(यथा, भागवते । ११ । ३० । २४ ।
“ब्रह्मशापोपसृष्टानां कृष्णमायावृतात्मनाम् ।
स्पर्द्धाक्रोधः क्षयं निन्ये वैणवोऽग्निर्यथा वनम् ॥”)

वैणवः, पुं, (वेणोरवयवो विकारो वा । वेणु +

“विल्वादिभ्योऽण् ।” ४ । ३ । १३६ । इत्यण् ।)
उपनयने वेणुदण्डः । तत्पर्य्यायः । राम्भः २ ।
इत्यमरः ॥ (वेणुः । यथा, महाभारते । ५ ।
९० । १६ ।
“भेरीमृदङ्गनिनदैः शङ्खवैणवनिस्वनैः ॥”)

वैणविकः, त्रि, (वैणवो वेणुस्तद्बादनं शिल्पमस्य ।

वैणव + “शिल्पम् ।” ४ । ४ । ५५ । इति ठक् ।)
वेणुवादकः । तत्पर्य्यायः । वेणुघ्माः २ । इत्य-
मरः ॥ वैणुकः ३ । इति शब्दरत्नावली ॥

वैणवी, स्त्री, (वेणोर्विकृतिः । वेणु + “विल्वादिभ्यो-

ऽण् ।” ४ । ३ । १३६ । इत्यण् । ततो ङीष् ।)
वंशलोचना । इति राजनिर्घण्टः ॥ (वेणुसम्ब-
न्धिनी । यथा, मनुः । ४ । ३६ ।
वैणवीं धारयेद्यष्टिं सोदकञ्च कमण्डलुम् ॥”)

वैणिकः, त्रि, (वीणावादनं शिल्पमस्य । वीणा +

“शिल्पम् ।” ४ । ४ । ५५ । इति ठक् ।) वीणा-
वादकः । इत्यमरः ॥ (यथा, कथासरित्सागरे ।
६३ । १६२ ।
“तच्छ्रुत्वा विहताशोऽपि हसित्वा वैणिको
ययौ ॥”)

वैणुकं, क्ली, गजस्य तोदनदण्डम् । तत्तु हस्ति-

चालनार्थं लौहमुखवंशदण्डम् । तत्पर्य्यायः ।
तोत्रम् २ । इत्यमरः ॥ वैणुकम् ३ । इति भरतः ॥

वैणुकः, पुं, (वेणुना कायति शब्दायते इति ।

कै + कः । ततः स्वार्थे अण् ।) वेणुवादकः । इति
शब्दरत्नावली ॥

वैणुकीयः, त्रि, (वेणुकस्यायमिति । “वेणुकादिभ्य-

श्छण् ।” ४ । २ । १३८ । इत्यस्य वार्त्तिकोक्त्या
छण् ।) वेणुसम्बन्धीयः । इति सिद्धान्तकौमुदी ॥

वैण्यः, पुं, (वेणोरपत्यमिति । वेण + ष्यञ् ।)

पृथुः । स तु सूर्य्यवंशीयपञ्चमराजः । यथा, --
“आदिराजः पृथुर्वैण्यो मान्धाता यौवनाश्वकः ॥”
इति जटाधरः ॥

वैतंसिकः, त्रि, (वीतंसो मृगपक्ष्यादिबन्धनोपाय-

स्तेन चरतीति । वितंस + “चरति ।” ४ । ४ ।
८ । इति ठक् ।) मांसविक्रेता । तत्पर्य्यायः ।
कौटिकः २ मांसिकः ३ । इत्यमरः ॥ कौट-
किकः ४ । इति शब्दरत्नावली ॥ मृगपक्ष्यादिबन्ध-
नोपायो वीतंसः तेन चरतीति वैतंसिकः । इति
भरतः ॥ (यथा, महाभारते । ३ । ३३ । ३३ ।
“इमान् शकुनकान्राजन् हन्ति वैतंसिको यथा ।
एतद्रूपमधर्म्मस्य भूतेषु हि विहिंसता ॥”)

वैतनिकः, त्रि, (वेतनेन जीवतीति । वेतन +

“वेतनादिभ्यो जीवति ।” ४ । ४ । १२ । इति
ठक् ।) वेतनभुग्भृत्यः । तत्पर्य्यायः भृतकः २
भृतिभुक् ३ कर्म्मकरः ४ । इत्यमरः ॥ (यथा,
उपदेशशतके । २० ।
“वीरो वैतनिकः सन्विराटनगरोषितः कुमा-
रीणाम् ।
नर्त्तयितार्ज्जुन आसीत् भजेदवस्थोचितां
वृत्तिम् ॥”)

वैतरणिः, स्त्री, नरकसिन्धुः । इत्यमरः ॥ “वित-

रणेन दानेन तीर्य्यते वैतरणी । ष्णः
षित्त्वादीप् ष्णौ वैतरणिश्च । अटविपटिघाटी-
वैतेरण्यर्च्चिशुण्ठीरिति ह्नस्वान्तेषु रुद्रः । ततो-
ऽपि पाच्छोणादीति वा ईप् । विरुद्धं तरणं
वितरणं तदस्यामस्तीति वैतरणीत्यन्ये । वित-
रणौ विसूर्य्ये पाताले भवा वैतरणीत्यन्ये ।
वितरणिर्विनौका तरणशून्येत्यर्थः स्वार्थे ष्णे
वैतरणीत्येके । सिन्धुर्नदी ।

वैतरणी, स्त्री, नरकसिन्धुः । इत्यमरः ॥ “वित-

रणेन दानेन तीर्य्यते वैतरणी । ष्णः
षित्त्वादीप् ष्णौ वैतरणिश्च । अटविपटिघाटी-
वैतेरण्यर्च्चिशुण्ठीरिति ह्नस्वान्तेषु रुद्रः । ततो-
ऽपि पाच्छोणादीति वा ईप् । विरुद्धं तरणं
वितरणं तदस्यामस्तीति वैतरणीत्यन्ये । वित-
रणौ विसूर्य्ये पाताले भवा वैतरणीत्यन्ये ।
वितरणिर्विनौका तरणशून्येत्यर्थः स्वार्थे ष्णे
वैतरणीत्येके । सिन्धुर्नदी ।
‘नारका जन्तवः प्रेता नदी वैतरणी स्मृता ॥’
इति त्रिकाण्डम् ॥”
इति भरतः ॥ * ॥ सा नदी दुर्गन्धा तप्तजला
महावेगा अस्थिकेशरक्तपरिपूर्णा यमद्बारे
वर्त्तते । यथा, --
“नदी वैतरणी नाम दुर्गन्धा रुधिरावहा ।
उष्णतोया महावेगा अस्थिकेशतरङ्गिणी ॥”
इति प्रायश्चित्तविवेकधृतयमदग्निवचनम् ॥ * ॥
अस्य उत्पत्तिर्यथा, --
मार्कण्डेय उवाच ।
“ततो ब्रह्मादयो देवाः सर्व्वे ते शङ्करान्तिकम् ।
गत्वा हरं संमुमुहुः सांसार्य्या योगमायया ॥
शनैश्चरोऽपि भूतेशमासाद्यान्तर्हितस्तदा ।
वाष्पवृष्टिं दुराधर्षामवजग्राह मायया ॥
यदा स नाशकद्वाष्पान् सन्धारयितुमर्कजः ।
तदा महागिरौ क्षिप्ता वाष्पास्ते जलधारके ॥
लोकालोकस्य निकटे जलधाराह्वयो गिरिः ।
पुष्करद्वीपपृष्ठस्थस्तोयसागरपश्चिमे ॥
स तु सर्व्वप्रमाणेन मेरुपर्व्वतसन्निभः ।
तस्मिन् विन्यस्तवान् षाष्पान् न धर्त्तुं क्षम
ईशितुः ॥
विदीर्णस्तैस्तु वाष्पौघैर्भग्नमध्योऽभवद्द्रुतम् ।
ते वाष्पाः पर्व्वतं भित्त्वा विविशुस्तोयसागरम् ॥
सागरोऽपि ग्रहीतु तान्न शशाक खरानति ।
ततस्तु सागरं मध्ये भित्त्वा वाष्पाः समागताः ॥
तोयधेः प्राग्भवां वेलां स्पर्शमात्राद्बिभेद ताम् ।
विभिद्य वेलां ते वास्पाः पुष्करद्वीपमध्यगाः ॥
नदी वैतरणी भूत्वा पूर्व्वसागरगाभवन् ।
जलधारस्य वेगेन संसर्गात् सागरस्य च ॥
अवाप्य सौम्यतां किञ्चिद्वाष्पास्ते नाभिदन्
क्षितिम् ।
त्वद्वाष्पव्याकुला पृथ्वी विदीर्णा स्यान्न चेच्छनिः ॥
पृष्ठ ४/५१०
अवजग्राह ते वास्पं सोऽपि कृष्णोऽभवद्धठात् ।
शनैश्चरेण ते वोढमसमर्थेन लोतकैः ॥
क्षिप्तैर्वि दारितः सोऽसौ जलधारो महागिरिः ।
विभिद्य पर्व्वतं शम्भोर्व्वास्पास्ते सागरं ययुः ॥
वैवस्वतपुरद्बारे योजनद्वयविस्तृता ।
अद्यापि तिष्ठत्यपगा हरलोतकसम्भवा ॥
भित्त्वा वेलां ततः पृथ्वीं विभिद्याशु तरङ्गिणीम् ।
चक्रुर्वैतरणीनाम्ना पूर्व्वसागरगामिनीम् ॥
नानायानविमानेन न द्रौण्या स्यन्दनेन च ।
तर्त्तुं शक्या सा तु नदी तप्ततोया विभीषणा ॥
दुःखेन तां तु पृथिवी बिभर्त्ति महताधुना ।
सदा चोर्द्ध्वगतैर्वाष्पैर्विक्षिपन्ति नभश्चरान् ॥
तस्या उपरि नो यान्ति देवा अपि भयाद्धर ।
यमद्धारं समावृत्य योजनद्वयविस्तृता ।
निम्नं वहति संपूर्णा भीषयन्ती जगत्त्रयम् ॥”
इति कालिकापुराणे १८ अध्यायः ॥ * ॥
आसन्नमृत्युकाले वैतरणीगवीदानं यथा, --
“आसन्नमृत्युना देया गौः सवत्सा च पूर्ब्बवत् ।
तदभावे च गौरेका नरकोद्धारणाय वै ॥
तदा यदि न शक्नोति दातुं वैतरणीञ्च गाम् ।
शक्तोऽन्योऽरुक् तदा दत्त्वा श्रेयो दद्यान्मृतस्य
च ॥”
पूर्ब्बवद्धेमशृङ्गादिना । अत्र मृतस्य चेति श्रवणा-
देकादशाहेऽपि वैतरणीदानाचारः । इति
शुद्धितत्त्वम् ॥ * ॥ वैतरणीगोदानानन्तरं
प्रार्थनामन्त्रो यथा, --
“यमद्वारे महाघोरे तप्ता वैतरणी नदी ।
ताञ्च तर्त्तुं ददाम्येनां कृष्णां वैतरणीञ्च गाम् ॥”
इति तत्प्रयोगः ॥ अन्यत् मुमूर्षुशब्दे द्रष्टव्यम् ॥
पितृकन्या । यथा, --
“अयज्वानश्च यज्वानः षितरो ब्रह्मणः स्मृताः
अग्निस्वात्ता वर्हिषदो द्विधा तेषां व्यवस्थितिः ।
तेभ्यः स्वधा मुतां जज्ञे मेनां वैतरणीं तथा ॥”
इति कौर्म्मे १३ अध्यायः ॥ * ॥
(कलिङ्गदेशस्थ-नदीविशेषः । यथा, महा-
भारते । ३ । ११४ । ४ ।
“एते कलिङ्गाः कौन्तेय ! यत्र वैतरणी नदी ।
यत्रायजत धर्म्मोऽपि देवाञ्छरणमेत्य वै ॥”)

वैतसः, पुं, (वेतस एव । स्वार्थे अण् ।) अम्ल-

वेतसः । इति जटाधरः ॥ (पुंस्प्रजननम् ।
शिश्नदण्डम् । इति निघण्टुः । ३ । २९ ॥ यथा,
ऋग्वेदे । १० । ९५ । ४ ।
“दिवा नक्तं श्नथिता वैतसेन ।”
“वैतसेन शेपो वैनस इति पुंस्प्रजननस्येति
निरुक्तम् । ३ । २१ । पुंस्प्रजननेन श्नथिता
ताडिता भवति ।” इति तद्भाष्ये सायणः ॥ * ॥
वेतसस्यायमिति । तस्येदमिति अण् । वेतस-
सम्बन्धिनि, त्रि । यथा, रघुः । ४ । ३५ ।
“आत्मा संरक्षितः सुह्मैर्वृ त्तिमाश्रित्य वैत-
सीम् ॥”)

वैतानिकः, पुं, (विताने भवः । वितान + ठक् ।)

श्रौतहोमः । यथा, --
“मरणादेव कर्त्तव्यं संयोगो यस्य नाग्निना ।
दाहादूर्द्ध्वमशौचं स्याद्यस्य वैतानिको विधिः ॥”
इति शुद्धितत्त्वम् ॥
वितानसम्बन्धीये, त्रि । वितानशब्दात् ष्णिक-
प्रत्ययेन निष्पन्नमेतत् ॥ (यज्ञादिकार्य्यकारी ।
यथा च भागवते । १० । ४० । ५ ।
“त्रय्या च विद्यया केचित् त्वां वै वैतानका
द्विजाः ।
यजन्ते विततैर्यज्ञैर्नानारूपामराख्यया ॥”)

वैतालिकः, पुं, (विविघेन तालेन चरतीति ।

विताल + ठक् ।) बोधकरः । इत्यमरः ॥ द्वे
निशान्ते बोधकारके । विविधो मङ्गलगीति-
वाद्यादिकृतस्तालशब्दः तेन व्यवहरन्ति वैता-
लिकाः ढघे कादिति ष्णिकः । निशान्तं निवे-
दयन्तो ये नृपं बोधयन्ति जागरयन्ति ते बोध-
कराः सृकुष्ट इति टः । इति भरतः ॥ (यथा,
शिशुपालवधे । ५ । ६७ ।
“वैतालिकाः स्फुटपदप्रकटार्थमुच्चै-
र्भोगावलीः कलगिरोऽवसरेषु पेठुः ॥”)
खेट्टितालः । यथा, --
“वैतालिकः पुमान् खेट्टिताले बोधकरे त्रिषु ॥”
इति मेदिनी ॥
हेमचन्द्रे तु पाठान्तरं यथा, --
“वैतालिकः खड्जताले मङ्गलपाठकेऽपि च ॥”
वेतालसम्बन्धिनि, त्रि ॥

वैत्रकः, त्रि, वेत्रसम्बन्धी । वेत्रशब्दात् कण्प्रत्ययेन

निष्पन्नमिदम् ॥

वैत्रकेयः, त्रि, वेत्रसम्बन्धीयः । वेत्रशब्दात् ष्णेय-

प्रत्ययेन निष्पन्नमेतत् ॥

वैदः, त्रि, पण्डितसम्बन्धी । विच्छन्दात् ष्णप्रत्ययेन

निष्पन्नमेतत् ॥

वैदग्धं, क्ली, (विदग्धस्य भावः । अण् ।) विदग्ध-

त्वम् । यथा । वैदग्धमपि वैदग्धी । इति भरत-
द्विरूपकोषः ॥ (यथा, साहित्यदर्पणे । १ ।
“वाग्वैदग्धप्रधानेऽपि रस एवात्र जीवितम् ॥”)

वैदग्धी, स्त्री, (विदग्धस्येयमिति । विदग्ध + अण् ।

स्त्रियां ङीप् ।) भङ्गिः । यथा, --
“छलं मिषञ्च वैदग्धी भङ्गिश्चेभनिमीलिका ॥”
इति त्रिकाण्डशेषः ॥
(यथा, कथासरित्सागरे । २० । १०९ ।
“धात्रा वैरूप्यनिर्म्माणवैदग्धीं दर्शितामिब ॥”)

वैदग्ध्यं, क्ली, (विदग्ध + ष्यञ् ।) विदग्धस्य

भावः । विदग्धशब्दात् ष्ण्यप्रत्ययेन निष्पन्न-
मेतत् ॥ (यथा, कथासरित्सागरे । १ । १२ ।
“वैदग्ध्यख्यातिलोभाय मम नैवायमुद्यमः ॥”)

वैदर्भं, क्ली, वाक्यवक्रत्वम् । इति मेदिनी ॥ विदर्भ-

सम्बन्धिनि, त्रि ॥

वैदर्भः, पुं, (विदर्भो निवासोऽस्येति । विदर्भ +

अण् ।) विदर्भदेशीयराजः । (यथा, रघुः ।
५ । ६२ ।
“मेने यथा तत्र जनः समेतो
वैदर्भमागन्तुमजं गृहेशम् ॥”)
दमयन्तीपिता भीमसेनः । रुक्मिणीपिता भीष्म-
कश्च । वाक्यवक्रिमा । इति धरणिः ॥

वैदर्भी, स्त्री, वाक्यरीतिभेदः । इति मेदिनी ॥

यथा, रीतिमाह ।
“पदसंघटना रीतिरङ्गसंस्था विशेषवत् ।
उपकर्त्ती रसादीनां -- ॥”
रसादीनामर्थात् शब्दार्थशरीरस्य काव्यस्यात्म-
भूतानाम् ।
“--सा पुनः स्याच्चतुर्व्विधा ।
वैदर्भी चाथ गौडी च पाञ्चाली लाटिका
तथा ॥”
सा रीतिः । तत्र ।
“माधुर्य्यव्यञ्जकैर्वर्णै रचना ललितात्मिका ।
अवृत्तिरल्पवृत्तिर्वा वैदर्भी रीतिरिष्यते ॥”
यथा । अनङ्गमङ्गलभुव इत्यादि । रुद्रटस्त्वाह ।
“असमस्तैकसमस्ता युक्ता दशभिर्गुणैश्च वैदर्भी ।
वर्गद्वितीयबहुला स्वल्पप्राणाक्षरा च सुवि-
धेया ॥
अत्र दशगुणास्तन्मतोक्ताः श्लेषादयः ।
“ओजः प्रकाशकैर्व्वर्णैर्ब्बन्ध आडम्बरः पुनः ।
समासबहुला गौडी -- ॥”
यथा । चञ्चद्भुजेत्यादि । पुरुषोत्तमस्त्वाह ।
बहुतरसमासयुक्ता सुमहाप्राणाक्षरा च
गौडीया ।
रीतिरनुप्रासमहिमपरतन्त्रा स्तोभवाक्या च ॥”
“--वर्णैः शेषैः पुनर्द्वयोः ।
समस्तपञ्चषपदो बन्धः पाञ्चालिका मता ॥”
द्बयोर्वैदर्भीगौड्योः । यथा, --
“मधुरया मधुबोधितमाधवी-
मधुसमृद्धिसमेधितमेधया ।
मधुकराङ्गनया मुहुरुन्मद-
ध्वनिभृता निभृताक्षरमुज्जगे ॥” * ॥
भोजस्त्वाह ।
“समस्तपञ्चषपदामोजःकान्तिसमन्विताम् ।
मधुरां सुकुमाराञ्च पाञ्चालीं कवयो विदुः ॥”
“लाटी तु रीतिर्व्वैदर्भी पाञ्चाल्योरन्तरा
स्थिता ॥”
यथा, --
“अयमुदयति मुद्राभञ्जनः पद्मिनीना-
मुदयगिरिवनालीबालमन्दारपुष्पम् ।
विरहविधुरकोकद्बन्द्बन्धुर्विभिन्दन्
कुपितकपिकपोलक्रोडताम्रस्तमांसि ॥”
कश्चिदाह ।
“मृदुपदसमाससुभगा युक्तैर्बर्णैर्न चातिभूयिष्ठा ।
उचितविशेषणपूरितवस्तुन्यासा भवेल्लाटी ॥”
अन्ये त्वाहुः ।
“गौडी डम्बरबन्धा स्यात् वैदर्भी ललिता क्रमात् ।
पाञ्चाली मिश्रभावेन लाटी तु मृदुभिः पदैः ॥”
क्वचित्तु वक्त्राद्यौचित्यादन्यथा वचनादयः ।
वक्त्रादीत्यादिशब्दाद्वाच्यप्रबन्धौ वचनादीत्यादि-
शब्दाद्वृत्तिवर्णौ । तत्र वक्त्रौचित्याद्यथा ।
मन्थायस्तार्णवाम्भ इत्यादि । अत्र वाच्यस्य
पृष्ठ ४/५११
क्रोधाद्यव्यञ्जकत्वेऽपि भोमसेनवक्तृत्वेनोद्धता वच-
नादयः । वाच्यौचित्याद्यथोदाहृते । मूर्द्ध-
व्याधूयमानेत्यादौ ॥ * ॥ प्रबन्धौचित्याद्यथा ।
नाटकादौ रौद्रेऽप्यभिनयप्रतिकूलत्वेन न दीर्घ-
समासादयः । एवमाख्यायिकायां शृङ्गारेऽपि
न मसृणवर्णादयः । कथायां रौद्रेऽपि नात्यन्त-
मुद्धताः । एवमन्यदपि ज्ञेयम् । इति साहित्य-
दर्पणे रीतिविवेको नाम ९ परिच्छेदः ॥ * ॥
अगस्त्यपत्नी । इति शब्दरत्नावली ॥ दमयन्ती ।
यथा, --
“वैदर्भी विपुलानुरागकलना सौभाग्यमत्राखिल-
क्षौणीचक्रशतक्रतौ निजगदे तद्वृत्तवृत्तक्रमैः ।
किञ्चास्माकनरेन्द्रभूसुभगता संभूतये लग्नकं
देवेन्द्रावरणप्रसादितशचीविश्राणिताशीर्व्वचः ॥
इति उत्तरनैषधे १५ सर्गः ॥
रुक्मिणी । यथा, --
“वैदर्भ्याः स तु सन्देशं निशम्य यदुनन्दनः ।
प्रगृह्य पाणिना पाणिं प्रहसन् द्विजमब्रवीत् ॥”
इति श्रीभागवते १० स्कन्धे ५३ अध्यायः ॥

वैदलं, क्ली, भिक्षुकस्य मृण्मयादिपात्रम् । यथा,

“पात्रन्तु दारवालायुमृण्मयान्यपि वैदलम् ॥”
इति जटाधरः ॥

वैदलः, पुं, (विदलो दालिस्तस्मात् जातः । विदल

+ अण् ।) पिष्टकः । यथा, --
“पूपोऽपूपः पिष्टकः स्याद्वैदलो विदलोऽपि च ।”
इति शब्दचन्द्रिका ॥
विदलो दालिस्तन्निर्म्मितपिष्टको वैदलः । तद्-
गुणाः ।
“वैदला गुरवो भक्ष्या विष्टम्भिसृष्टमारुताः ॥”
इति राजवल्लभः ॥

वैदिकः, पुं, (वेदं जानातीति । वेद + ठञ् ।)

वेदज्ञब्राह्मणः । वेदोक्ते, त्रि । यथा, तन्त्रसारे ।
“वैदिकी तान्त्रिकी सन्ध्या यथानुक्रमयोगतः ॥”

वैदिश्यं, त्रि, विदिशाया अदूरभवं नगरम् । इति

सिद्धान्तकौमुदी ॥

वदुष्यं, क्ली, (विदुषः कर्म्म भावो वा । विद्बस् +

ष्यञ् ।) विदुषो भावः । विद्बस्शब्दात् ष्ण्य-
प्रत्ययेन निष्पन्नमिदम् ॥ (यथा, राजतरङ्गि-
ण्याम् । १ । १२ ।
“पाटवं दुष्टवैदुष्यतीव्रा सुव्रतभारती ॥”)

वैदूर्य्यं, क्ली, (विदूरात् प्रभवतीति । विदूर +

“विदूरात् ञ्यः ।” ४ । ३ । ८४ । इति ञ्यः ।)
मणिविशेषः । स तु कृष्णपीतवर्णः । लहसुनीया
इति हिन्दी भाषा । अस्य देवता केतुः ।
तत्पर्य्यायः । बालवायजम् २ । इति हेमचन्द्रः ॥
केतुरत्नम् ३ कैतवम् ४ प्रावृष्यम् ५ अभ्र-
रोहम् ६ खराब्दाङ्कुरकम् ७ विदूररत्नम् ८
विदूरजम् ९ । अस्य गुणाः । अम्लत्वम् । उष्ण-
त्वम् । कफवायुनाशित्वम् । गुल्मशूलप्रशमन-
त्वम् । भूषितञ्चेत् शुभावहत्वञ्च । इति राज-
निर्घण्टः ॥ अपि च ।
“मुक्ताविद्रुमवज्रेन्द्रवैदूर्य्यस्फटिकादिकम् ।
मणिरत्नं सरं शीतं कषायं स्वादु लेखनम् ।
चाक्षुष्यं धारणात्तच्च पापालक्ष्मीविनाशनम् ॥”
इति राजवल्लभः ॥ * ॥
तच्छायलक्षणं यथा, --
“एकं वेणुपलाशकोमलरुचा मायूरकण्ठत्विषा
मार्जारेक्षणपिङ्गलच्छविजुषा ज्ञेयं त्रिधा
च्छायया ।
यद्गात्र गुरुतां दधाति नितरां स्निग्धन्तु
दोषोषितं
वैदूर्य्यं विशदं वदन्ति सुधियः स्वच्छञ्च तच्छो-
भनम् ॥”
तस्य कुलक्षणं यथा, --
“विच्छायं मृच्छिलागर्भं लघु रूक्षञ्च सक्षतम् ।
सत्रासं परुषं कृष्णं वैदूर्य्यं दूरतां नयेत् ॥”
तत्परीक्षा यथा, --
“घृष्टं यदात्मना स्वच्छं स्वच्छायां निकषाश्मनि ।
स्फुटं प्रदर्शयेदेतद्वैदूर्य्यं जात्यमुच्यते ॥”
इति राजनिर्घण्टः ॥ * ॥
सूत उवाच ।
“वैदूर्य्यपुष्परागाणां कर्क्केतभीष्मके वदे ।
परीक्षां ब्रह्मणा प्रोक्तां व्यासेन कथितां द्विज ॥
कल्पान्तकालक्षुभिताम्बुराशि-
निर्ह्रादकल्पाद्दितिजस्य नादात् ।
वैदूर्य्यमुत्पन्नमनेकवर्णं
शोभाभिरामं द्युतिवर्णबीजम् ॥
अविदूरे वैदूर्य्यस्य गिररुत्तुङ्गरोधसः ।
कामभूतिकसीमानमनु तस्याकरोऽभवत् ॥
तस्य नादसमुत्थत्वादाकरः सुमहागुणः ।
अभूदुत्तरितो लोके लोकत्रयविभूषणः ॥
तस्यैव दानवपतेर्निनदानुरूप-
प्रावृट्पयोदवरदर्शितचारुरूपाः ।
वैदूर्य्यरत्नमणयो विविधावभासा-
स्तस्मात् स्फुलिङ्गनिवहा इव सम्बभूवुः ॥
पद्मरागमुपादाय मणिवर्णा हि ये क्षितौ ।
सर्व्वांस्तान् वर्णशोभाभिर्वैदूर्य्यमनुगच्छति ॥
तेषां प्रधानं शिखिकण्ठनीलं
यद्बा भवेद्वेणुदलप्रकाशम् ।
चाषाग्रपक्षप्रतिमश्रियो ये
न ते प्रशस्ता मणिशास्त्रविद्भिः ॥
गुणवान् वैदूर्य्यमणिर्योजयति स्वामिनं वरभाग्यैः ।
दोषेर्युक्तो दोषैस्तस्माद्यत्नात् परीक्षेत ॥
गिरिकाचशिशुपालौ काचस्फटिकाश्च भूमि-
निर्भिन्नाः ।
वैदूर्य्यमणेरेते विजातयः सन्निभाः सन्ति ॥
लिख्याभावात् काचं लघु भावाच्छैशुपालकं
विद्यात् ।
गिरिकाचमदीप्तित्वात् स्फटिकं वर्णोज्ज्वलत्वेन ॥
यदिन्द्रनीलस्य महागुणस्य
सुवर्णसंख्याकलितस्य मूल्यम् ।
तदेव वैदूर्य्यमणेः प्रदिष्टं
पलद्वयोन्मापितगौरवस्य ॥
जातस्य सर्व्वेऽपि मणेस्तु यादृग्-
विजातयः सन्ति समानवर्णाः ।
तथापि नानाकरणानुमेय-
भेदप्रकारः परमः प्रदिष्टः ॥
सुखोपलक्ष्यश्च सदा विचार्य्यो
ह्ययं प्रभेदो विदुषा नरेण ।
स्नेहप्रभेदो लघुता मृदुत्वं
विजातिलिङ्गं खलु सार्व्वजन्यम् ॥
कुशलाकुशलैः प्रयुज्यमानाः
प्रतिबद्धाः प्रतिसत्क्रियाप्रयोगैः ।
गुणदोषसमुद्भवं लभन्ते
मणयोऽर्थान्तरमूल्यमेव भिन्नाः ॥
क्रमशः समतीतवर्त्तमानाः
प्रतिबद्धा मणिबन्धकेन यत्नात् ।
यदि नाम भवन्ति दोषहीना
मणयः षड्गुणमाप्नुवन्ति मूल्यम् ॥
आकरान् समतीतानामुदधेस्तीरसन्निधौ ।
मूल्यमेतन्मणीनान्तु न सर्व्वत्र महीतले ॥
सुवर्णो मनुना यस्तु प्रोक्तः षोडशमाषकः ।
तस्य सप्ततिमो भागः संज्ञारूपं करिष्यति ॥
शाणश्चतुर्माषमानो माषकः पञ्चकृष्णलः ।
पलस्य दशमो भागो धरणः परिकीर्त्तितः ॥
इति मानविधिः प्रोक्तो रत्नानां मूल्यनिश्चये ॥”
इति गारुडे वैदूर्य्यपरीक्षा ७३ अध्यायः ॥ * ॥
अन्यच्च ।
“सितञ्च धूम्रसङ्काशमीषत्कृष्णसितं भवेत् ।
वैदूर्य्यं नाम तद्रत्नं रत्नविद्भिरुदाहृतम् ॥
ब्रह्मक्षत्त्रियविट्शूद्रजातिभेदाच्चतुर्व्विधम् ।
सितनीलो भवेद्विप्रः सितारक्तस्तु बाहुजः ॥
पीतानीलस्तु वैश्यः स्यात् नील एव हि शूद्रकः ॥”
अथ गुणाः ।
“मार्ज्जारनयनप्रख्यं रसोनप्रतिमं हि वा ।
कलिलं निर्म्मलं व्यङ्गं वैदूर्य्यं देवभूषणम् ॥
सुतारं घनमत्यच्छं कलिलं व्यङ्गमेव च ।
वैदूर्य्याणां समाख्याता एते पञ्च महागुणाः ॥”
तद्यथा, --
“उद्गिरन्निव दीप्तिं योऽसौ सुतार इति गद्यते
प्रमाणताल्पं गुरु यत् घनमित्यभिधीयते ॥
कलङ्कादिविहीनं तदत्यच्छमिति कीर्त्तितम् ।
ब्रह्मशूद्रं कलाकारश्चञ्चलो यत्र दृश्यते ॥
कलिलं नाम तद्राज्ञः सर्व्वसम्पत्तिकारकम् ।
विश्लिष्टाङ्गन्तु वैदूर्य्यं व्यङ्गमित्यभिधीयते ॥ * ॥
कर्करं कर्कशं त्रासः कलङ्को देह इत्यपि ।
एते पञ्च महादोषा वैदूर्य्याणामुदीरिताः ॥
शर्करायुक्तमिव यत् प्रतिभाति च कर्करम् ।
स्पर्शेऽपि च यत्तज्ज्ञेयं कर्कशं बन्धुनाशनम् ।
भिन्नभ्रान्तिकरस्त्रासः स कुर्य्यात् कुलसंक्षयम्
विरुद्धवर्णो यस्याङ्के कलङ्कः क्षयकारकः ।
मलदिग्ध इवाभाति देहो हेहविनाशनः ॥
जयति यदि सुवर्णं त्यागहीनो यदा वा
बहुविधमणिहारी भूपतिर्व्वा यतिर्व्वा ।
पृष्ठ ४/५१२
दधदपि धृतदोषं जातु वैदूर्य्यरत्नं
प्रतिशतफलरूपः पातमेध्यत्यवश्यम् ॥”
इति युक्तिकल्पतरौ वैदूर्य्यपरीक्षा ॥
अन्यत् गरुडपुराणवत् ॥

वैदेहः, पुं, बणिक् । इत्यमरटीकायां भरतः ॥

(विदेहस्यापत्यमिति । विदेह + अञ् ।) निमि-
राजपुत्त्रः । अस्योत्पत्तिर्यथा । अपुत्त्रस्य तस्य
भूभुजः शरीरमराजकभीरवस्ते मुनयः अरण्यां
ममन्थुः । तत्र च कुमारो जज्ञे । जननाज्जनक-
संज्ञां चासाववाप । अभूद्बिदेहोऽस्य पितेति
वैदेहः । मथनान्मिथिरभूत्तस्योदावसुः पुत्त्रो-
ऽभवत् । इति विष्णुपुराणे ४ अंशे निमिवंश-
कथनं नाम ५ अध्यायः ॥ तस्य विदेहनाम-
कारणं निमिशब्दे द्रष्टव्यम् ॥ (वर्णसङ्करजाति-
विशेषः । स तु वैश्यात् ब्राह्मण्यां जातः । यथा,
मनुः । १० । ११ ।
वैश्यान्मागधवैदेहौ राजविप्राङ्गनासुतौ ॥”)

वैदेहकः, पुं, (वैदेह एव । स्वार्थे कन् ।) बणिक् ।

इत्यमरः ॥ शूद्रात् वैश्यासुतः । इति मेदिनी ॥
(वैश्याद्ब्राह्मण्यां जातो वर्णसङ्करविशेषः ।
यथा, मनुः । १० । १९ ।
“वैदेहकेन त्वम्बष्ठ्यामुत्पन्नो वेण उच्यते ॥”
अस्यान्तःपुररक्षणं कार्य्यम् । यथा, तत्रैव ।
१० । ४७ ।
“वैदेहाकानां स्त्रीकार्य्यं मागधानां बणिक्-
पथः ॥”)

वैदेहिकः, पुं, बणिक् । इत्यमरटीकासारसुन्दरी ॥

(वर्णसङ्करविशेषः । यथा, मनुः । १० । ३६ ।
“वैदेहिकादन्ध्रमेदौ वहिर्ग्रामप्रतिश्रयौ ॥”)

वैदेही, स्त्री, (विदेहेषु भवा विदेहस्यापत्यं स्त्री

वा । विदेह + अण् । ङीप् ।) रोचना ।
सीता । (यथा, रघुः । १२ । २० ।
“रामोऽपि सह वैदेह्या वने वन्येन वर्त्तयन् ।
चचार सानुजः शान्तो वृद्धेक्षाकुव्रतं युवा ॥”
यथा च ।
“वैदेहि ! याहि कलसोद्भवधर्म्मपत्नीं
तस्याः पुरः कथय पूर्व्वकथाः समस्ताः ।
पृष्टापि मा वद पयोनिधिबन्धनं मे
सेयं पुनश्चुलुकिताम्बुनिधेः कलत्रम् ॥”
इत्युद्भटः ॥)
बणिक्स्त्री । पिप्पली । इति मेदिनी ॥ (वैदेह-
पत्नी । यथा, मनुः । १० । ३७ ।
“आहिण्डिको निषादेन वैदेह्यामेव जायते ॥”
विदेहदेशोत्पन्नमात्रे च । यथा, महाभारते ।
१ । ९५ । २३ । “देवातिथिः खलु वैदेहीमुप-
येमे मर्य्यादां नाम तस्यामस्य जज्ञे अरिहो
नाम ॥”)

वैद्यः, पुं, (विद्यां वेदेति । विद्या + “तदधीते

तद्वेद ।” ४ । २ । ५९ । इति अण् ।) पण्डितः ।
यथा । कात्यायनः ।
“नाविद्यानान्तु वैद्येन देयं विद्याधनं क्वचित् ।
समविद्याधिकानान्तु देयं वैद्येन तद्धनम् ॥”
वैद्येन विदुषा । इति दायतत्त्वम् ॥ वासकवृक्षः ।
इति शब्दचन्द्रिका ॥ आयुर्व्वेदवेत्ता । स चाम्बष्ठ-
जातिश्चिकित्सावृत्तिश्च । तत्पर्य्यायः । रोग-
हारी २ अगदङ्कारः ३ भिषक् ४ चिकित्सकः
५ । इत्यमरमरतौ ॥ स्रष्टा ६ विधिः ७ विद्वान्
८ आयुर्व्वेदी ९ । इति राजनिर्घण्टः ॥ स चतु-
र्व्विधः । रोगहरः १ विषहरः २ शल्यहरः ३
कृत्याहरः ४ । इति महाभारते राजधर्म्मः ॥
अस्योत्पत्तिर्यथा, --
“वैद्योऽश्विनीकुमारेण जातश्च विप्रयोषिति ।
वैद्यवीर्य्येण शूद्रायां बभूवुर्ब्बहवो जनाः ॥
ते च ग्रामगुणज्ञाश्च मन्त्रौषधिपरायणाः ।
तेभ्यश्च जाताः शूद्रायां ते व्यालग्राहिणो भुवि ॥
शौनक उवाच ।
कथं ब्राह्मणपत्न्यान्तु सूर्य्यपुत्त्रोऽश्विनीसुतः ।
अहो केन विपाकेन वीर्य्याधानं चकार सः ॥
सौतिरुचाच ।
गच्छन्तीं तीर्थयात्रायां ब्राह्मणीं कुरुनन्दन ।
ददर्श कामुकीं कान्तः पुष्पोद्याने मनोहरे ॥
तया निवारितो यत्नात् बलेन बलवान् सुरः ।
अतीव सुन्दरीं दृष्ट्वा वीर्य्याधानं चकार सः ॥
द्रुतं तत्याज गर्भं सा पुष्पोद्याने मनोरमे ।
सद्यो बभूव पुत्त्रश्च तप्तकाञ्चनसन्निभः ॥
सपुत्त्रा स्वामिनो गेहं जगाम व्रीडिता तदा ।
स्वामिनं कथयामास यस्माद्दैवादिसङ्कटम् ।
विप्रो रोषेण तत्याज तञ्च पुत्त्रं स्वकामिनीम् ।
सरिद्बभूव योगेन सा च गोदावरी स्मृता ॥
पुत्त्रं चिकित्साशास्त्रञ्च पाठयामास यत्नतः ।
नानाशिल्पञ्च शस्त्रञ्च स्वयं स रविनन्दनः ॥
विप्रश्च ज्योतिर्गणनात् वेदनाच्च निरन्तरम् ।
वेदधर्म्मपरित्यक्तो बभूव गणको भुवि ॥”
इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १० अध्यायः ॥ * ॥
नरकभोगान्ते वैद्यजन्म यथा, --
“यः करोत्यपहारञ्च देवब्राह्मणयोर्धनम् ।
पातयित्वा स्वपुरुषान् दश पूर्व्वान् दशापरान् ॥
स्वयं याति च धूमान्धं धूमध्वान्तसमन्वितम् ।
धूमक्लिष्टो धूमभोगी वसेत्तत्र चतुर्युगम् ॥
ततो मूषिकजातिश्च शतजन्मनि भारते ।
ततो नानाविधाः पक्षिजातयः कृमिजातयः ॥
ततो नानाविधा वृक्षजातयश्च ततो नरः ।
भार्य्याहीनो वंशहीनः शवरो व्याधिसंयुतः ॥
ततो भवेत् स्वर्णकारः स सुवर्णबणिक् ततः ।
ततो जवनसेवी च ब्राह्मणो गणकस्ततः ।
विप्रो दैवज्ञोपजीवी वैद्यजीवी चिकित्सकः ॥” *
अपि च ।
“लाक्षालोहादिव्यापारी रसादिविक्रयी च यः ।
स याति नागवेष्टञ्च नागैर्व्वेष्टित एव च ।
वसेत् स लोममानाब्दं तत्रैव नागदंशितः ॥
ततो भवेत् स गणको वैद्यश्च सप्तजन्मसु ।
गोपश्च कर्म्मकारश्च रङ्गकारस्ततः शुचिः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २८ अध्यायः ॥ * ॥
राजवैद्यस्य लक्षणं यथा, --
“परं पारं गतो यः स्यादष्टाङ्गे तु चिकित्सिते ।
अनाहार्य्यः स वैद्यः स्याद्धर्म्मात्मा च कुलो-
द्गतः ।
प्राणावार्य्यः स विज्ञेयो वचनं तस्य भूभुजः ।
राजन् राज्ञा सदा कार्य्यं यथा कार्य्यं पृथग्-
जनैः ॥”
इति मात्स्ये १८९ अध्यायः ॥ * ॥
सामान्यवैद्यलक्षणं यथा, --
“चिकित्सां कुरुते यस्तु स चिकित्सक उच्यते ।
स च यादृक् समीचीनस्तादृशोऽपि निगद्यते ॥
तत्त्वाधिगतशास्त्रार्थो दृष्टकर्म्मा स्वयं कृती ।
लघुहस्तः शुचिः शूरः स्वच्छोपस्करभेषजः ॥
प्रत्युत्पन्नमतिर्धीमान् व्यवसायी प्रियंवदः ।
सत्यधर्म्मपरो यश्च वैद्य ईदृक् प्रशस्यते ॥”
दृष्टकर्म्मा दृष्टा परेण कृता चिकित्सा येन सः ।
स्वयंकृती स्वयंचिकित्साकुशलः । लघुहस्तः
सिद्धिमद्धस्तः ॥ * ॥ निषिद्धवैद्यो यथा, --
“कुचेलः कर्कशः स्तब्धो ग्रामीणः स्वयमागतः ।
पञ्च वैद्या न पूज्यन्ते घन्वन्तरिसमा अपि ॥”
कर्कशः अप्रियवादी । स्तब्धः साभिमानः ।
ग्रामीणः व्यवहाराचतुरः ॥ * ॥
अथ वैद्यस्य कर्म्म आह ।
“व्याधेस्तत्त्वपरिज्ञानं वेदनायाश्च निग्रहः ।
एतद्वैद्यस्य वैद्यत्वं न वैद्यः प्रभुरायुषः ॥”
अस्यायमर्थः । व्याधेः सम्यक् परिचयः । व्यथा-
शान्तिकरणं वैद्यस्य कर्म्म । न तु वैद्यः आयुषः
प्रभुरित्यर्थः । अपरे त्वेवं व्याचक्षते । व्याधे-
स्तत्त्वपरिचयः । वेदनायाः शान्तिकरणञ्च ।
एतदेव वैद्यस्य वैद्यत्वं न किन्तु वैद्य आयुषः
प्रभुरित्यर्थः ॥ * ॥
अथ वैद्यानयनदूतस्य लक्षणम् ।
“यश्चिकित्सकमानेतुं याति दूतः स कथ्यते ।
स च यादृक् समुचितस्तादृगत्र निगद्यते ॥
दूताः सुजातयोऽव्यङ्गाः पटवो निर्म्मलाम्बराः ।
सुखिनोऽश्ववृषारूढाः शुभ्रपुष्पफलैर्युताः ॥
सजातयः सुचेष्टाश्च स्वजीवदिशि सङ्गताः ।
भिषजं समये प्राप्ता रोगिणः सुखहेतवः ॥”
सजातयः रोगिसमानजातयः ।
“यस्यां प्राणमरुद्वाति सा नाडी जीव-
संश्रिता ॥” * ॥
अथ दूतयात्रायां शकुनविचारः ।
“वैद्याह्वानाय दूतस्य गच्छतो रोगिणः कृते ।
न शुभं सौम्यशकुनप्रदीप्तन्तु सुखावहम् ॥”
प्रदीप्तमग्निः । दूतो रोगी च रिक्तहस्तो वैद्यं
न पश्येत् । तथा च ।
“रिक्तहस्तो न पश्येत्तु राजानं भिषजं गुरुम् ।”
अथ आयुर्व्विदां प्रादुर्भावः । तत्रादौ ब्रह्म-
प्रादुर्भावः ।
“विधाताथर्व्वसर्व्वस्वमायुर्व्वेदं प्रकाशयन् ।
स्वनाम्ना संहितां चक्रे लक्षश्लोकमयीमृजुम् ॥
ततः प्रजापतिं दक्षं दक्षं सकलकर्म्मसु ।
विधिर्धीनीरधिः साङ्गमायुर्व्वेदमुपादिशत् ॥” * ॥
पृष्ठ ४/५१३
अथ दक्षप्रादुर्भावः ।
“अथ दक्षः क्रियादक्षः स्वर्व्वैद्यौ वेदमायुषः ।
वेदयामास विद्वांसौ सूर्य्यांशौ सुरसत्तमौ ॥” * ॥
अथाश्विनीसुतप्रादुर्भावः ।
“दक्षादधीत्य दस्रौ वितेनतुः संहितां स्वीयाम् ।
सकलचिकित्सकलोकप्रतिपत्तिविवृद्धये धन्याम् ॥
स्वयम्भु वः शिरश्छिन्नं भैरवेण रुषाथ तत् ।
अश्विभ्यां संहितं तस्मात्तौ जातौ यज्ञभागिनौ ॥
देवासुररणे देवा दैत्यैर्ये सक्षताः कृताः ।
अक्षतास्ते कृताः सद्यो दस्राभ्यामद्भुतं महत् ॥
वज्रिणोऽभूद्भुजस्तम्भः स दस्राभ्यां चिकित्सितः ।
सोमान्निपतितश्चन्द्रस्ताभ्यामेव सुखीकृतः ॥
विशीर्णा दशनाः पुष्णो नेत्रे नष्टे भगस्य च ।
शशिनो राजयक्ष्माभूदश्विभ्यां ते चिकित्सिताः ॥
भार्गवश्च्यवनः कामी वृद्धः सन् विकृतिं गतः ।
वीर्य्यवर्णस्वरोपेतः कृतोऽश्विभ्यां पुनर्युवा ॥
एतैश्चान्यैश्च बहुभिः कर्म्मभिर्भिषजां वरौ ।
बभूवतुर्भृशं पूज्याविन्द्रादीनां दिवौकसाम् ॥” *
अथेन्द्रप्रादुर्भावः ।
“संदृश्य दस्रयोरिन्द्रः कर्म्माण्येतानि यत्नवान् ।
आयुर्व्वेदं निरुद्वेगं तौ ययाचे शचीपतिः ॥
नासत्यौ सत्यसन्धेन शक्रेण किल याचितौ ।
आयुर्व्वेदं यथाधीतं ददतुः शतमन्यवे ॥
नासत्याभ्यामधीत्यैष आयुर्व्वेदं शतक्रतुः ।
अध्यापयामास बहूनात्रेयप्रमुखान् मुनीन् ॥” *
अथात्रेयप्रादुर्भावः ।
“एकदा जगदालोक्य गदाकुलमितस्ततः ।
चिन्तयामास भगवानात्रेयो मुनिपुङ्गवः ॥
किं करोमि क्वगच्छामि कथं लोका निरामयाः ।
भवन्ति सामयानेतान्न शक्नोमि निरीक्षितुम् ॥
दयालुरहमत्यर्थं स्वभावो दुरतिक्रमः ।
एतेषां दुःखतो दुःखं ममापि हृदयेऽधिकम् ॥
आयुर्व्वेदं पठिष्यामि नैरुज्याय शरीरिणाम् ।
इति निश्चित्य गतवानात्रेयस्त्रिदशालयम् ॥
तत्र मन्दिरमिन्द्रस्य गत्वा शक्रं ददर्श सः ।
सिंहासनसमासीनं स्तूयमानं सुरर्षिभिः ॥
भासयन्तं दिशो भासा भास्करप्रतिमं त्विषा ।
आयुर्व्वेदमहाचार्य्यं शिरोधार्य्यं दिवौकसाम् ॥
शक्रस्तु तं निरीक्ष्यैव त्यक्तसिंहासनो ययौ ।
तदग्रे पूजयामास भृशं भूरितपःकृशम् ॥
कुशलं परिपप्रच्छ तथागमनकारणम् ।
स मुनिर्व्वक्तुमारेभे निजागमनकारणम् ॥
देवराज न राजासि दिव एव यतो भवान् ।
विधात्रा विहितो यत्नात्त्रिलोकी लोकपालकः ॥
व्याधिभिर्व्यथिता लोकाः शोकाकुलितचेतसः ।
भूतेले सन्ति सन्तापं तेषां हर्त्तुं कृपां कुरु ॥
आयुर्व्वेदोपदेशं मे कुरु कारुण्यतो नृणाम् ।
तथेत्युक्त्वा सहस्राक्षोऽध्यापयामास तं मुनिम् ॥
मुनीन्द्र इन्द्रतः साङ्गमायुर्व्वेदमधीत्य सः ।
अभिनन्द्य तमाशीर्भिराजगाम पुनर्महीम् ॥
अथात्रेयो मुनिश्रेष्ठो भगवान् करुणापरः ।
स्वनाम्ना संहितां चके नरचक्रानुकम्पया ॥
ततोऽग्निवेशं भेडञ्च जातूकर्णं पराशरम् ।
क्षीरपाणिञ्च हारीतमायुर्व्वेदमपाठयत् ॥
तन्त्रस्य कर्त्ता प्रथममग्निवे शोऽभवत् पुरा ।
ततो भेडादयश्चक्रुः स्वं स्वं तन्त्रं कृतानि च ॥
श्रावयामासुरात्रेयं मुनिवृन्देन वन्दितम् ।
श्रुत्वा च तानि तन्त्राणि हृष्टोऽभूदत्रिनन्दनः ॥
यथावत् सूत्रितं तस्मात् प्रहृष्टा मुनयोऽभवन् ।
दिवि देवर्षयो देवाः श्रुत्वा साध्विति चाब्रुवन् ॥”
अथ भरद्बाजप्रादुर्भावः ।
“एकदा हिमवत्पार्श्वे दैवादागत्य संगताः ।
मुनयो बहवस्तांश्च नामभिः कथयाम्यहम् ॥
भरद्वाजो मुनिवरः प्रथमं समुपागतः ।
ततोऽङ्गिरास्ततो गर्गो मरीचिर्भृगुभार्गवौ ॥
पुलस्त्योऽगस्तिरसितो वशिष्ठः सपराशरः ।
हारीतो गोतमः सांख्यो मैत्रेयश्च्यवनोऽपि च ॥
यमदग्निश्च गार्ग्यश्च काश्यपः कश्यपोऽपि च ।
नारदो वामदेवश्च मार्कण्डेयः कपिष्ठलः ॥
शाण्डिल्यः सहकौण्डिन्यः शाकुनेयः सशौनकः ।
आश्वलायनसांकृत्यौ विश्वामित्रः परीक्षितः ॥
देवलो गालवो धौम्यः काप्यकात्यायनावुभौ ।
काङ्कायनो वैजवापः कुशिको वादरायणिः ॥
हिरण्याक्षश्च लोकाक्षिः शरलोमा च गोभिलः ।
वैखानसा वालखिल्लास्तथैवान्ये महर्षयः ॥
ब्रह्मज्ञानस्य निधयो यमस्य नियमस्य च ।
तपसस्तेजसा दीप्ता हूयमाना इवाग्नयः ॥
सुखोपविष्टास्ते तत्र सर्व्वे चक्रुः कथामिमाम् ।
धर्म्मार्थकाममोक्षाणां मूलमुक्तकलेवरम् ॥
तत्र सर्व्वार्थसंसिद्ध्यैभवेद्यदि निरामयम् ।
तपःस्वाध्यायधर्म्माणां ब्रह्मचर्य्यव्रतायुषाम् ॥
हर्त्तारः प्रसृता रोगा यत्र तत्र च सर्व्वतः ।
रोगाः कार्श्यकरा बलक्षयकरा देहस्य चेष्टाहरा-
दृश्यादीन्द्रियशक्तिसंक्षयकराः सर्व्वाङ्गपीडा-
कराः ।
धर्म्मार्थाखिलकाममुक्तिषु महाविघ्नस्वरूपा
बलात्
प्राणानाशु हरन्ति सन्ति यदि ते क्षेमं कुतः
प्राणिनाम् ॥
तत्तेषां प्रशमाय कश्चन विधिश्चिन्त्यो भवद्भि-
र्ब्बुधै-
र्योगैरित्यभिधाय संसदि भरद्बाजं मुनिं तेऽब्रु-
वन् ।
त्वं योग्यो भगवान् सहस्रनयनं याचस्व लब्धुं
क्रमात्
आयुर्व्वेदमधीत्य यं गदभयान्मुक्ता भवामो
वयम् ॥
इत्थं स मुनिभिर्योग्यैः प्रार्थितो विनयान्वितैः ।
भरद्वाजो मुनिश्रेष्ठो जगाम त्रिदशालयम् ॥
तत्रेन्द्रभवनं गत्वा सुरर्षिगणमध्यगम् ।
दृष्टवान् वृत्रहन्तारं दीप्यमानमिवानलम् ॥
दृष्ट्वैव स मुनिं प्राह भगवान् मघवा मुदा ।
धर्म्मज्ञ स्वागतं तेऽथ मुनिं तं समपूजयत् ॥
सोऽधिगम्य जयाशीर्भिरभिवन्द्य सुरेश्वरम् ।
ऋषीणां वचनं सम्यगश्रावयत सत्तमम् ॥
व्याधयो हि समुत्पन्नाः सर्व्वप्राणिभयङ्कराः ।
तेषां प्रशमनोपायं यथावद्वक्तुमर्हसि ॥
तमुवाच मुनिं साङ्गमायुर्व्वेदं शतक्रतुः ।
जीवेद्बर्षसहस्राणि देही नीरुङ्निशम्य यम् ॥
सोऽनन्तागारं त्रिस्कन्धमायुर्व्वेदं महामतिः ।
यथावदचिरात् सर्व्वं बुबुधे तन्मना मुनिः ॥
तेनायुः सुचिरं लेभे भरद्वाजो निरामयम् ।
अन्यानपि मुनींश्चक्रे नीरुजः सुचिरायुषः ॥
तत्तत्र जनितज्ञानचक्षुषा ऋषयोऽखिलाः ।
गुणान् द्रव्याणि कर्म्माणि दृष्ट्वा तद्विधि-
माश्रिताः ॥
आरोग्यं लेभिरे दीर्घमायुश्च सुखसंयुतम् ।
आयुर्व्वेदोक्तविधिनान्येऽपि स्युर्मुनयो यथा ॥”
अथ चरकप्रादुर्भावः ।
“यदा मत्स्यावतारेण हरिणा वेद उद्धृतः ।
तदा शेषश्च तत्रैव वेदं साङ्गमवाप्तवान् ॥
अथर्व्वान्तर्गतं सम्यगायुर्व्वेदञ्च लब्धवान् ।
एकदा स महद्वृत्तं द्रष्टुं चर इवागतः ॥
तत्र लोकान् गदैर्ग्रस्तान् व्यथया परिपीडितान् ।
स्थलेषु बहुषु व्यग्रान् म्रियमाणांश्च दृष्टवान् ॥
तान् दृष्ट्वातिदयायुक्तस्तेषां दुःखेन दुःखितः ।
अनन्तश्चिन्तयामास रोगोपशमकारणम् ॥
सञ्चिन्त्य स स्वयं तत्र मुनेः पुत्त्रो बभूव ह ।
यतश्चर इवायातो न ज्ञातः केनचिद्यतः ॥
तस्माच्चरकनामासौ विख्यातः क्षितिमण्डले ।
स भाति चरकाचार्य्यो देवाचार्य्यो यथा दिवि ॥
सहस्रवदनस्यांशो येन ध्वंसो रुजां कृतः ।
आत्रेयस्य मुनेः शिष्या अग्निवेशादयोऽभवन् ॥
मुनयो बहवस्तैश्च कृतं तन्त्रं स्वकं स्वकम् ।
तेषां तन्त्राणि संस्कृत्य समाहृत्य विपश्चिता ।
चरकेणात्मनो नाम्ना ग्रन्थोऽयं चरकः कृतः ॥”
अथ धन्वन्तरिप्रादुर्भावः ।
“एकदा देवराजस्य दृष्टिर्निपतिता भुवि ।
तत्र तेन नरा दृष्टा व्याधिभिर्भृशपीडिताः ॥
तान् दृष्ट्वा हृदयं तस्य दयया परिपीडितम् ।
यदार्द्रहृदयः शक्रो धन्वन्तरिमुवाच ह ॥
धन्वन्तरे सुरश्रेष्ठ भगवन् किञ्चिदुच्यते ।
यीग्यो भवति भूतानामुपकारपरो भव ॥
उपाकाराय लोकानां केन किं न कृतं पुरा ।
त्रैलोक्याधिपतिर्व्विष्णुरभून्मत्स्यादिरूपवान् ॥
तस्मात्त्वं पृथिवीं याहि काशीमध्ये नृपो भव ।
प्रतीकाराय रोगाणामायुर्व्वेदं प्रकाशय ॥
इत्युक्त्वा सुरशार्दूलः सर्व्वभूतहितेप्सया ।
समस्तमायुषो वेदं धन्वन्तरिमुपादिशत् ॥
अधीत्य चायुषो वेदमिन्द्राद्धन्वन्तरिः पुरा ।
आगत्य पृथिवीं काश्यां जातो बाहुजवेश्मनि
नाम्ना तु सोऽभवत् ख्यातो दिवोदास इति
क्षितौ ।
बाल एव विरक्तोऽभूच्चचार च महत्तपः ॥
यत्नेन महता ब्रह्मा तं काश्यामकरोन्नृपम् ।
पृष्ठ ४/५१४
ततो धन्वन्तरिर्लौकैः काशीराजोऽभिधीयते ॥
हिताय देहिनां स्वीयसंहिता विहितामुना ।
अयं विद्यार्थिनो लोकान् संहितां तामपाठ-
यत् ॥”
अथ सुश्रुतप्रादुर्भावः ।
“अथ ज्ञानदृशा विश्वामित्रप्रभृतयोऽवदन् ।
अयं धन्वन्तरिः काश्यां काशीराजोऽयमुच्यते ॥
विश्वामित्रो मुनिस्तेषु पुत्त्रं सुश्रुतमुक्तवान् ।
वत्स ! वाराणसों गच्छ तां विश्वेश्वरवल्लभाम् ॥
तत्र नाम्ना दिवोदासः काशीराजोऽस्ति
बाहुजः ।
स हि धन्वन्तरिः साक्षादायुर्व्वेदविदां वरः ॥
आयुर्व्वेदं ततोऽधीत्य लोकोपकृतिहेतवे ।
सर्व्वप्राणिदया तीर्थमुपकारो महामखः ॥
पितुर्व्वचनमाकर्ण्य सुश्रुतः काशिकां गतः ।
तेन सार्द्धं समध्येतुं मुनिसूनुशतं ययौ ॥
अथ धन्वन्तरिं सर्व्वेवानप्रस्थाश्रमे स्थितम् ।
भगवन्तं सुरश्रेष्ठं मुनिभिर्ब्बहुभिः स्तुतम् ॥
काशीराजं दिवोदासं तेऽपश्यन् विनयान्विताः ।
स्वागतञ्च इति स्माह दिवोदासो यशोधनः ॥
कुशलं परिपप्रच्छ तथागमनकारणम् ।
ततस्ते सुश्रुतद्वारा कथयामासुरुत्तरम् ॥
भगवन् मानवान् दृष्ट्वा व्याधिभिः परिपीडितान् ।
क्रन्दतो म्रियमाणांश्च जातास्माकं हृदि व्यथा ॥
आमयानां शमोपायं विज्ञातुं वयमागताः ।
आयुर्व्वेदं भवानस्मानध्यापयतु यत्नतः ॥
अङ्गीकृत्य वचस्तेषां नृपतिस्तानुपादिशत् ।
व्याख्यातं तेन ते यत्नाज्जगृहुर्मुनयो मुदा ॥
काशीराजं जयाशीर्भिरभिनन्द्य मुदान्विताः ।
सुश्रुताद्याः सुसिद्धार्था जग्मुर्गेहं स्वकं स्वकम् ॥
प्रथमं सुश्रुतस्तेषु स्वं तन्त्रं कृतवान् स्फुटम् ।
सुश्रुतस्य सखायोऽपि पृथक् तन्त्राणि तेनिरे ।
सुश्रुतेन कृतं तन्त्रं सुश्रुतं बहुभिर्यतः ।
तस्मात्तं सुश्रुतं नाम्ना विख्यातं क्षितिमण्डले ॥”
इति भावप्रकाशः ॥
अथ मतान्तरे वैद्योत्पत्तिकथनम् ।
“सत्यत्रेताद्वापरेषु युगेषु ब्राह्मणाः किल ।
ब्रह्मक्षत्त्रियविट्शूद्रकन्यका उपयेमिरे ॥
तत्र वैश्यसुतायां ये जज्ञिरे तनया अमी ।
सर्व्वे ते मुनयः ख्याता वेदवेदाङ्गपारगाः ॥
तेषां मुख्योऽमृताचार्य्यस्तस्थावम्बा कुले हि तत् ।
अम्बष्ठ इत्यसावुक्तस्ततो जातिप्रवर्त्तनात् ॥
परे सर्व्वेऽपि चाम्बष्ठा वैश्या ब्राह्मणसम्भवाः ।
जननीतो जनुर्लब्धा यज्जाता वेदसंस्कृतैः ॥
अम्बष्ठास्तेन ते सर्व्वे द्विजा वैद्याः प्रकीर्त्तिताः ।
अथ रुक्प्रतिकारित्वाद्भिषजस्ते प्रकीर्त्तिताः ॥
सत्ये वैद्याः पितुस्तुल्यास्त्रेतायाञ्च तथा स्मृताः ।
द्वापरे क्षत्त्रवत्प्रोक्ताः कलौ वैश्योपमाः स्मृताः ॥
अथाम्बष्ठेषु सर्व्वेषु विख्याता अभवन्नमी ।
सेनो दासश्च गुप्तश्च दत्तो देवः करो धरः ॥
राजः सोमश्च नन्दिश्च कुण्डश्चन्द्रश्च रक्षितः ।
एषां वंशाः समुत्पन्ना एतत्पद्धतयो मताः ॥
अन्यपद्धतयोऽप्येवं सन्ति वैद्या न ते श्रुताः ।
बहवश्चैकनामानो नानागोत्रसमुद्भवाः ॥
यथाष्टौ विश्रुताः सेना इत्येवमपरे मताः ।
यस्य यस्य मुनेर्यो यः सन्तानः स स विश्रुतः ॥
तत्तद्गोत्रादिना वैद्यः श्रैष्ठ्याद्यन्तु स्वकर्म्मणा ॥”
तथा हि ।
“तिस्रो वर्णानुपूर्ब्बेण द्वे तथैका यथाक्रमम् ।
ब्राह्मणक्षत्त्रियविशां भार्य्याः स्वाः शूद्रजन्मनः ॥
यदुच्यते द्विजातीनां शूद्रादारोपसंग्रहः ।
नैतन्मम मतं यस्मात्तत्रात्मा जायते स्वयम् ॥
पाणिं भर्त्तुः सवर्णासु गृह्णीयात् क्षत्त्रिया शरम् ।
वैश्या प्रतोदमादद्याद्वेदने त्वग्रजन्मनः ॥
सवर्णेभ्यः सवर्णासु जायन्ते च सजातयः ।
अनिन्द्येषु विवाहेषु पुत्त्राः सन्तानवर्द्धनाः ॥
विप्रान्मूर्द्धाभिषिक्तो हि क्षत्त्रियायां विशः
स्त्रियाम् ।
जातोऽम्बष्टस्तु शूद्रायां निषादः पार्श्ववोऽपि वा ॥
वैश्याशूद्र्योश्च राजन्यान्महिष्यौ द्वौ सुतौ
स्मृतौ ।
वैश्यात्तु करणः शूद्र्यां विन्नास्वेष विधिः स्मृतः ॥”
एते षट् श्लोका याज्ञवल्क्यीयाः ॥
“शूद्रैव भार्य्या शूद्रस्य सा च स्वा च विशःस्मृते ।
ते च स्वा चैव राज्ञस्तु ताश्च स्वा चाग्रजन्मनः ॥
पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते ।
असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्म्मणि ॥
शरः क्षत्त्रियया ग्राह्यः प्रतोदो वैश्यकन्यया ।
वसनस्य दशा ग्राह्याः शूद्रयोत्कृष्टवेदने ॥”
इति पद्यत्रयम् ॥
“ब्राह्मणाद्बश्यकन्यायामम्बष्ठो नाम जायते ॥”
इति च पद्यार्द्धं मानवीयम् ॥
“वैश्यायां ब्राह्मणाज्जातोऽम्बष्ठो हि नुनि-
सत्तम ।
ब्राह्मणानां चिकित्सार्थं निर्द्दिष्टो मुनिपुङ्गवैः ॥”
इति पराशरः ॥
“वेदाज्जातो हि वैद्यः स्यादम्बष्ठो ब्रह्मपुत्त्रकः ।”
इति शङ्खः ॥
ब्रह्मा मूर्द्धाभिषिक्तश्च वैद्यः क्षत्त्रविशावपि ।
अमी पञ्च द्बिजा एषां यथापूर्ब्बञ्च गौरवम् ॥”
इति हारीतः ॥
“मातुर्यदा प्रजायन्ते द्वितीयं मौञ्जिबन्धनात् ।
ब्राह्मणक्षत्त्रियविशस्तस्मादेते द्बिजाः स्मृताः ॥”
इति याज्ञवल्क्यवचनम् ॥
मूर्द्धाभिषिक्ताम्बष्ठयोरपि पितृवत्त्वात् द्विजत्वम् ॥
इति बृद्धाः ॥
“आयुर्व्वेदोपनयनाद्वैद्यो द्बिज इति स्मृतः ॥”
इति वैद्यकेऽग्निवेशः ॥
“तपोयोगात् पुरा वैद्यस्तेजसा पितृवत् स्मृताः ।
विप्रात् क्षत्त्राद्यतो न्यूनाः क्रियया वैश्यवत्
कृताः ॥
शनैः शनैः क्रियालोपादथ ता वैद्यजातयः ।
कलौ शूद्रत्वमापन्ना यथा क्षत्त्रा यथा विशः ॥”
इति विष्णुः ॥
“युगे जघन्ये द्वे जाती ब्राह्मणः शूद्र एव च ।”
इति यमः ॥
“शनकैश्च क्रियालोपादिमाः क्षत्त्रियजातयः ।
वृषलत्वङ्गता लोके ब्राह्मणादर्शनेन च ॥”
इति मनुवचनं धृत्वा एवमम्बष्ठादीनामपि कलौ
शूद्रत्वमिति स्वस्वग्रन्थेषु वाचस्पतिमिश्रादिभि-
स्तथा शुद्धितत्त्वे स्मार्त्तभट्टाचार्य्येणाप्युक्तम् ।
अतएव कुलपञ्जिकायामुक्तम् । अतिदिष्टं हि
वैद्यस्य शूद्रत्वं क्षत्त्रियादिवदिति । तस्मात्
क्षत्त्रविशोस्तुल्यो वैद्यः शूद्रस्य पूजित इति ॥ * ॥
“युगे युगे कर्म्मणैवोत्कर्षापकर्षावाह मनुः ।
तपोरीतिप्रभावैश्च ते गच्छन्ति युगे युगे ॥”
मनुष्येष्विह जन्मत इति ॥
“अम्बष्ठेष्वमृताचार्य्यः ख्यातोऽभूद्भुवनत्रये ।
सिद्धविद्याह्वयां कन्यां स्वर्वैद्यस्य तु मानसीम् ॥
उपयेमे महौजा यश्चिकितसतकया श्रुतः ।
अथैतस्य वरेणैव ख्याता वैद्या महौजसः ॥
सेनो दासश्च गुप्तश्च दत्तो देवः करो धरः ।
राजः सोमश्च नन्दिश्च कुण्डश्चन्द्रश्च रक्षितः ॥
सन्ताना वहवश्चैषां बभूवुश्च चिकित्सकाः ।
कुलानुरूपतश्चैषां जाताः पद्धतयोऽप्यमूः ॥
तेषां प्रशंसा निन्दा च बभूव स्वेन कर्म्मणा ।
उत्तमौ सेनदासौ च गुप्तदत्तौ तथैव च ॥
देवः करश्च मध्यस्थौ राजसोमौ कुलाधमौ ।
नन्दिप्रभृतयो निन्द्या लुप्तपद्धतयोऽपि च ॥
केचिज्जात्या परिख्यातास्तथा वृत्त्यनुसारतः ।
सर्व्वासामेव जातीनां वृत्तिरेव गरीयसी ।
वृत्तिः स्वर्ग्या च पथ्या च वृत्त्या जातिः प्रव-
र्त्तते ॥”
इति प्राचीनकुलपञ्जिकाधृतव्यासवचनानि ॥
इति वैद्योत्पत्तिकथनम् ॥ * ॥ अथ वैद्यानां
गोत्राणि ।
“अष्टाविंशदमी गोत्राः सर्व्वेषां भिषजामपि ।
प्रत्येकन्ते विलिख्यन्ते सेनदासादितः क्रमात् ॥
धन्वन्तरिश्च शक्त्रिश्च तथा वैश्वानराद्यकौ ।
मौद्गल्यकौशिकौ कृष्णात्रेय आङ्गिरसोऽपि च ॥
अष्टौ गोत्राणि सेनानां दासानां तदनन्तरम् ।
मौद्गल्योऽथ भरद्वाजः शालङ्कायन एव च ॥
शाण्डिल्यश्च वशिष्ठश्च वात्स्यश्च षडमी मताः ।
गुप्तानां त्रीणि गोत्राणि काश्यपो गौतमस्तथा ॥
सावर्णिरपि दत्तानां चत्वारः परिकीर्त्तिताः ।
कौशिकः काश्यपश्चैव शाण्डिल्यश्चापि तत्परः ॥
मौद्गल्य इति विज्ञेयाश्चत्वारो देवसम्भवाः ।
आत्रेयकृष्णात्रेयौ च शाण्डिल्य आलमालकः ॥
धरस्य काश्यपः प्रोक्तो भरद्वाजश्च कुण्डजः ।
काश्यपो रक्षितस्यैको गोत्रा एते प्रकीर्त्तिताः ॥
दत्तानामाद्यगोत्राणां देशभेदेऽस्ति सन्ततिः ।
एवमात्रेयगोत्रोऽपि दत्तो देशान्तरे श्रुतः ॥
दत्ताः कृष्णात्रेयगोत्रा दृश्यन्ते बहवस्तथा ।
तस्माद्दत्तस्य गोत्राणि सप्त ज्ञेयानि पण्डितैः ॥
कराणां काश्यपो गोत्रो वात्स्यमौद्गल्यकावपि ।
देशभेदे हि विद्यन्ते तत्करः सप्तगोत्रकः ॥
पृष्ठ ४/५१५
राजः काश्यपगोत्रोऽप्यस्ति तद्राजस्त्रिगोत्रकः ।
श्रूयन्ते च जामदग्न्यगोत्रा देशान्तरे धराः ॥
बहवोऽपि भरद्वाजगोत्रजाः सन्ति रक्षिताः ।
इन्द्रादित्यौ परौ यौ द्वौ वैद्यौ गोत्रास्तयोरिमे ॥
इन्द्रस्य काश्यपो गोत्र एक एव प्रकीर्त्तितः ।
आदित्यानामिमौ गोत्रावादित्यकौशिकौ
स्मृतौ ॥
पञ्चाशदेते विख्यातास्तस्माद्गोत्रा भिषक्कुले ।
यत्तु देशान्तरे गोत्रमन्यत् किमपि च श्रुतम् ।
दत्तादीनां न तत् प्रोक्तमप्रसिद्धमतीव तत् ॥” *
अथ पञ्जिकान्तरोक्तराढीयवैद्यकुलाष्टकीय-
गोत्रसंख्याश्रेष्ठत्वादि लिख्यते ।
“काञ्जीशाद्वुषिसेनस्य गोत्राण्यष्टौ भवन्ति
च ।
शक्त्रिधन्वन्तरी श्रेष्ठौ मध्यौ वैश्वानराद्यकौ ।
मौद्गल्यकौशिकौ कृष्णात्रेय आङ्गिरसोऽधमाः ॥”
अथ राढीयाष्टगृहवैद्यानां प्रवरानाह ।
“प्रवराः पञ्च सेनानां धन्वन्तरिकुलोद्भुवाम् ।
विनिर्द्दिष्टा यथा ते च धन्वन्तर्य्यपराशरौ ॥
नैयध्रुवश्चाङ्गिरसो बार्हस्पत्य इति क्रमात् ।
शक्त्रिगोत्रे त्रयः शक्त्रिपराशरवशिष्ठकाः ॥
प्रवराः पञ्च दासानामौर्व्वच्यषनभार्गवाः ।
जामदग्न्यश्चाप्नुवानः प्रोक्ता मौद्गल्यगोत्रजाः ॥
गुप्तानां त्रय एवैते काश्यपोऽप्यपसारकः ।
नैयध्रुवोऽमी प्रवराः काश्यपान्वयसम्भुवाम् ॥
दत्ते त्रयं कौशिकानां शाण्डिल्यासितदेवलाः ।
कृष्णात्रेयो वशिष्ठश्च आत्रेयश्चेति ते त्रयः ॥
दत्तानां प्रवरा एते दत्तात्रेयकुलोद्भुवाम् ।
आत्रेयगोत्रजातानां देवानाञ्च तथा त्रयः ॥
आत्रेय आङ्गिरसको बार्हस्पत्य इति क्रमात् ।
करे भरद्बाजगोत्रे त्रयोऽमी प्रवराः स्मृताः ॥
भरद्वाजो भार्गवश्च च्यवनश्च क्रमादमी ।
राजवंशे वात्स्यगोत्रे कथिताः प्रवरास्त्रयः ॥
वात्स्येऽसितस्तथा मार्कण्डेय एवं क्रमादिति ।
अथ कौशिकगोत्रस्य सोमस्य प्रवरास्त्रयः ॥
कौशिकः काश्यपश्चैव भार्गवश्चेत्यमी क्रमात् ।
सेनादीनामनुक्ता ये आद्यगोत्रादिसम्भुवाम् ॥
प्रवरास्तेऽपि विज्ञेयास्तत्तत्कुलभुवां मुखात् ।
नन्द्यादीनां वरेन्द्रेषु चतुर्णां प्रवराश्च ये ।
विज्ञेयास्ते च निखिलास्तेषां कुलभुवां मुखात् ॥”
इति वैद्यानां प्रवराः ॥ * ॥
अथ वैद्येषु राढीयादिकथनम् ।
“सेनो दासश्च गुप्तश्च दत्तो देवः करस्तथा ।
राजसोमावपीत्यष्टौ राढीयाः परिकीर्त्तिताः ॥
नन्दिश्चन्द्रो धरः कुण्डो रक्षितश्चेति पञ्च ये ।
ते वरेन्द्रेषु विख्याता दासदत्तकरा अपि ॥
राढीया भिषजो ये ये प्रायस्ते वङ्गगा अपि ।
नन्द्यादयो महाराष्ट्रे निवसन्ति च केचन ॥”
तथा च पञ्जिकान्तरे ।
“सेनो दासश्च गुप्तश्च पञ्च दत्तादयस्तथा ।
अष्टौ राढासु विख्याताः प्रायोऽमी वङ्गगा
अपि ॥”
तथान्यत्र ।
“नन्दिचन्द्रधरदत्तरक्षिता-
स्ते स्वनामनि वरेन्द्रविश्रुताः ।
बीजिपूरुष इहैव वक्ष्यते
तत्कुलं खलु वरेन्द्रजं पुनः ॥”
तथा हि नारायणदासोऽन्तरङ्गखानश्च ।
“दासो दत्तो धरश्चैव नन्दिकुण्डौ करस्तथा ।
चन्द्रश्च रक्षितश्चेति वरेन्द्रकुलमष्टकम् ॥” इति ॥
तथान्यत्र ।
“अष्टौ सेनादयो राढे वङ्गेष्वपि वसन्त्यमी ।
नन्द्यादयो महाराष्ट्रे लुप्तपद्धतयोऽपि च ।
केचिज्जात्या परिख्याता दृष्टा देशान्तरेष्वपि ॥”
इति ॥
“सम्बन्धः स्तूयते सर्व्वैरेकदेशनिवासिनोः ।
निन्द्यते किल सम्बन्धो भिन्नदेशनिवासिनोः ॥”
इति वैद्येषु राढीयादिकथनम् ॥ * ॥
अथ सेनादीनां पूर्व्वस्थानमाह ।
“श्रीकाञ्जीशा गोनगरं करङ्ककोठ एव च ।
मोरशासनकान्तारौ समानुस्थानमेव च ॥
मेढ्यशासनमप्यन्यो यासग्रामस्तथैव च ।
अष्टानां सेनमुख्यानां राढायां स्थानमष्टकम् ॥”
तथाह दुर्ज्जयः ।
“काञ्जी गोरं करङ्कश्च मोरकान्तासमानुकाः ।
मेढ्यो मालश्च राढायां वैद्यानां कुलमष्टकम् ॥”
इति वैद्यानां पूर्ब्बस्थानकथनम् ॥ * ॥
अथ स्थानभेदेन सेनादिभेदमाह ।
“ऊनविंशतिधा सेना अष्टाविंशतिधा पुरम् ।
भवन्ति भेदेनैतेषां वक्ष्यते कुललक्षणम् ॥
एको विनायकः सेनो भेदेन नवधाभवत् ।
मालञ्चो धलहण्डीयः खानाजः सेनहाटिकः ॥
नारहट्टो निरोलीयस्तथा मङ्गलकोठजः ।
रायिग्रामी वैतजीयो नव वैनायका अमी ॥
विशेषतो विनिर्दिष्टा ज्ञेयाश्चान्यस्थलोद्भवाः ।
सामान्यस्थानकथने सम्बन्धभाषणे तथा ।
सर्व्वेषामेव वैद्यानामितरेषामयं क्रमः ॥”
इति विनायकसेनवंश्यनिर्णयः ॥
“एकः पुनर्गयीसेनो भेदेनैव चतुर्विधः ।
विषपाडाभवः श्रेष्ठस्तिकायिपुरजस्तथा ।
अन्यः कडयिसम्भूतो धाडाग्रामी ततः परः ॥”
इति गयीसेनवंश्यनिर्णयः ॥
“एको राघवसेनोऽभूत् खण्डग्रामेण विश्रुतः ।
स खण्डज इति ख्यातो नापरा तस्य च स्थली ॥”
इति राघवसेनवंश्यनिर्णयः ॥
“राजा विमलसेनोऽभूत् सेनभूमिकृताश्रयः ।
स सेनभूमौ विख्यातो नापरं तस्य च स्थलम् ॥”
इति राज्ञो विमलसेनस्य वंश्यनिर्णयः ॥
“पात्रदामोदरः सेनः पात्रः शिखरभूपतेः ।
असौ शिखरभूजातो नापरं तस्य च स्थलम् ॥”
इति पात्रदामोदरवंश्यनिर्णयः ॥
“विनसेनोऽपि यस्त्वेको धलभूमिकृताश्रयः ।
स एव धलभूमिष्ठो नापरा तस्य च स्थली ॥”
इति विनसेनवंश्यनिर्णयः ॥
“सप्तमो वुषिसेनो यो वङ्गभूमौ प्रतिष्ठितः ।
हाण्डियाग्रामसम्भूतस्तन्नाम्ना तस्य तत्कुलम् ॥”
इति हाण्डियावुषिसेनवंश्यनिर्णयः ॥
इति धन्वन्तरिगोत्रजातानां सप्तविधानां
सेनानां भेदेनाष्टादशप्रकारनिर्णयः ॥
“श्रीवत्ससेनप्रमुखाः षडमी शक्त्रिगोत्रजाः ।
भेदेन सप्तधा ज्ञेया यथाक्रमममी पुनः ॥
एकः श्रीवत्ससेनोऽभूत्तेहट्टग्रामविश्रुतः ।
तेहदृज इति ख्यातो नापरं तस्य च स्थलम् ॥”
इति श्रीवत्ससेनवंश्यनिर्णयः ॥
“एकः शियालसेनोऽसौ भेदेन द्बिविधोऽभवत् ।
पोडागाच्छाभवः श्रेष्ठः परः पोखरियाभवः ॥”
इति शियालसेनवंश्यनिर्णयः ॥
“एको यः पुरुसेनोऽभूद्भुठिनागडिमाश्रितः ।
भूठिनागडिजत्वेन ख्यातोऽसौ नापरं स्थलम् ॥”
इति पुरुसेनवंश्यनिर्णयः ॥
“चन्द्रसेनोऽपरस्त्वेकश्चन्द्रद्वीपनिवासकृत् ।
शक्त्रिगोत्रसमुद्भूत इदीलपुरमाश्रितः ॥”
इति चन्द्रसेनवंश्यनिर्णयः ॥
“एको मुण्डीरसेनोऽसौ स्वर्णपीठीनृपाश्रयात् ।
स एव स्वर्णपीठीति विख्यातो मल्लभूभवः ॥”
इति मुण्डीरसेनवंश्यनिर्णयः ॥
“रामसेनः परस्तस्यैवान्तर्भूतो बभूव यः ।
स मल्लभूमिवसतौ विदितानेकपौरुषः ॥”
इति शक्त्विगोत्रजातानां श्रीवत्ससेनप्रमुखानां
षण्णां सप्तप्रकारनिर्णयः ॥
“आद्यसेनस्तु षड्बीजी भेदेन विविधोऽभवत् ।
नपाडासम्भवस्त्वेकः शालग्रामभवोऽपरः ॥
मानकरीय एवान्यस्त्रय आद्याः प्रकीर्त्तिताः ।
आद्यर्षिगोत्रसम्भूताः स्वतन्त्राः सर्व्व एव हि ॥”
इति सकलसेनानां भेदनिर्णयः ॥ * ॥
अथ दासानां भेदमाह ।
“पञ्चदशविधा दासास्तेऽमी विंशतिधा पुनः ।
एकः पुनश्चायुदासो भेदेन द्विविधोऽभवत् ।
एकस्तेहट्टसम्भूतो मालिकाहारजः परः ॥”
इति चायुवंश्ये द्विविधनिर्णयः ॥
“पन्थदासः पुनस्त्वेको भेदेन पञ्चधाभवत् ।
वालिनाछीभवश्चैकः परो मण्डलजानिकः ।
मौडेश्वरभवः पालिग्रामजः पाजनौरजः ॥”
इति पन्थवंश्ये पञ्चविधनिणयः ॥
“एकोऽपरः कायुदासो वङ्गभूमौ प्रतिष्ठितः ।
कोग्रामीण इति ख्यातो दासो मौद्गल्यगोत्रजः ॥”
इति कायुदासवंश्यनिर्णयः ॥
भोयीदासोऽपि तत्पुत्त्रौ ख्यातौ दीघलकेकरौ ।
अमी त्रयो वङ्गभूमौ प्रसिद्धाः सर्व्व एव हि ॥”
इति भोयीदासस्य तत्पुत्त्रयोश्च वंश्यनिर्णयः ॥
“एको वराहदासोऽसौ वौहारिग्रामवासकृत् ।
स वौहारिजदासोऽपि मतो मौद्गल्यगोत्रजः ॥”
इति वौहारीयवराहदासवंश्यनिर्णयः ॥
“नृसिंहनामदासौ द्वौ वङ्गदेशे प्रतिष्ठितौ ।
तौ वङ्गजाविति ख्यातौ कुलकार्य्यपरायणौ ॥”
इति नृसिंहदासयोर्वंश्यनिर्णयः ॥
पृष्ठ ४/५१६
“वीरदासोऽपि यस्त्वेकः स वङ्गज इति स्मृतः ।
तत्रैव वङ्गे सम्बन्धस्तस्याभूद्बरकन्ययोः ॥”
इति वीरदासवंश्यनिर्णयः ॥
“ख्यातः पाथरडाग्रामे रामदासोऽपि तादृशः ।
सूनवस्तस्य चत्वारो बीजिनस्तेपि विश्रुताः ॥
ख्याता डभेड-गाभेड-धाड-वीडालदासकाः ।
मौद्गल्यगोत्रसम्भूताः स्वतन्त्राः सर्व्व एव हि ॥”
इति रामदासस्य तत्पुत्त्राणाञ्च वंश्यनिर्णयः ॥
इति मौद्गल्यगोत्रजानां सकलदासानां पञ्च-
दशप्रकाराणां भेदेन विंशतिप्रकारनिर्णयः ॥ *
अथ गुप्तानां भेदमाह ।
“गुप्ताश्च षड्विधा भेदास्त्रयोदशविधाः पुनः ।
काश्यपान्वयसंभूताः स्वतन्त्राः सर्व्व एव हि ॥
एकः पुनः कायुगुप्तो भेदेनाष्टविधोऽभवत् ।
वराह नगरीयश्च श्रेष्ठोऽभूत् कुलकर्म्मणि ॥
पणिनालाभवश्चान्यस्तथैव कुलशीलवान् ।
वाराशतसमुद्भूतस्तृतीयस्तदनन्तरम् ॥
नीलगुप्तभवा ये ते निरोलत्रिपुराश्रिताः ।
भद्रखालीनिवासस्थाः कायुगुप्तोद्भवाश्च ये ॥
माटियारीभवाः केचिल्लोकगुप्तस्य वंशजाः ।
पश्चिमस्थानमाश्रित्य केचित्सन्ति निजेच्छया ॥”
इति कायुगुप्तवंश्येऽष्टविधनिर्णयः ॥
“परमेश्वरगुप्तो यः श्रेष्ठस्तद्बंशसम्भवः ।
योऽभूत्त्रिपुरगुप्तोऽसौ धौडालाविहितस्थितिः ॥”
इति धौडालीयत्रिपुरगुप्तवंश्यनिर्णयः ॥
“परमेश्वरगुप्तस्य वंशजौ द्बौ प्रतिष्ठितौ ।
भीँपुरीखाडिग्रामस्थौ महत्स्वल्पाधि-
कारिणौ ॥”
इति महाधिकारिस्वल्पाधिकारिणोर्वं श्यनिर्णयः ॥
“अडालगुप्तो यः प्रोक्तः स तु शिङ्गानसम्भवः ।
काश्यपान्वयसंभूतः कुलकार्य्यपरायणः ॥”
इत्यडालगुप्तवंश्यनिर्णयः ॥
“वीरगुप्तस्तु यः प्रोक्तो भीँ पुरग्रामवासकृत् ।
भीँ पुरीय इति ख्यातः स च काश्यपगोत्रजः ॥”
इति वीरगुप्तवंश्यनिर्णयः ॥ इति काश्यपगोत्र-
जातानां सकलगुप्तानां षड्विधानां भेदेन त्रयो-
दशप्रंकारनिर्णयः ॥
“दत्तौ च द्बिविधौ ज्ञेयौ रामदत्तश्च पाविता ।
पूर्व्वः शाण्डिल्यगोत्रीयो वटग्रामसमुद्भवः ॥
अपरः पाविता दत्तः खाँगडीयः स एव हि ।
जातः कौशिकगोत्रे च खतन्त्रौ द्वौ गुणान्वितौ ॥”
इति दत्तवंश्यनिर्णयः ॥
“विकारणस्य देवस्य वंश्या आत्रेयगोत्रजाः ।
समानुस्थानसंभूताः केतुग्रामेऽधुना तु ते ॥
केतुग्रामीणदेवोऽसौ निकारुणकुलोद्भवः ।
निजैश्च पौरुषैरेव कुलकार्य्यपरायणः ॥
कृष्णात्रेयभवा ये च ये च शाण्डिल्यगोत्रजाः ।
आलमालभवा ये च ते नानादेशवासिनः ॥”
इति देववंश्यनिर्णयः ॥
“एकः कान्तारवासी च करो भेदादमी त्रयः ।
वशिष्ठशक्त्विगोत्रे द्वौ वङ्गदेशे च विश्रुतौ ॥
यस्तु धर्म्मकरो बीजी भरद्वाजकुलोद्भवः ।
तद्वंश्याः सांप्रतं सन्ति हिमोडायाजिगाँपुरे ॥”
इति करवंश्यनिर्णयः ॥
“मेढ्यशासनसंभूतौ राजवंशोद्भवावुभौ ।
शशिराजमसीराजौ वात्स्यगोत्रसमुद्भवौ ॥
एलाचिधामनगरे शशिराजः कृताश्रयः ।
मसीराजः खेपडीयो वङ्गभूमौ च संस्थितः ॥”
इति राजवंश्ये द्बिविधनिर्णयः ॥
“मालग्रामसमुद्भूतो धर्म्मसोमो महामतिः ।
जातः कौशिकगोत्रे च तद्वंश्या बहुदेशगाः ॥”
इति सोमवंश्यनिर्णयः ॥ इति राढाप्रसिद्धाना-
मष्टानां सेनादीनां भेदेन वंश्यनिर्णयः ॥ * ॥
“अपरे ये नन्दिचन्द्रौ धरकुण्डौ च रक्षितः ।
वारेन्द्रा अपि पञ्चैते प्रसिद्धास्तत्र ते पुनः ॥”
इति त्रयोदशगृहाणां वैद्यानां यथाक्रमभेदेन
कुलनिर्णयः ॥ * ॥ अथ सेनादीनां सामान्यतः
सम्बन्धलिखनानुरोधाद्वसतिस्थानमाह ।
“श्रीखण्डनामनगरी राढे वङ्गे च विश्रुता ।
सर्व्वेषामेव वैद्यानामाश्रयो यत्र विद्यते ॥
यत्र गोष्ठी कृता वैद्यैर्यः खण्डोऽभूद्भिषक्प्रियः ।
विशेषतः कुलीनानां सर्व्वेषामेव वासभूः ॥”
इति सामान्यतः सकलवैद्यानां वासस्थान-
मुक्तम् ॥ * ॥ इति गौराङ्गमल्लिकात्मजभरत-
सेनकृतवैद्यकुलतत्त्वम् ॥

वैद्यः, त्रि, वेदसम्बन्धीयः । वेदशब्दात् ष्ण्यप्रत्ययेन

निष्पन्नमेतत् ॥

वैद्यकं, क्ली, आयुर्व्वेदः । चिकित्साशास्त्रम् ।

यथा, --
“यस्य व्याकरणे वरेण्यघटनास्फीताः प्रबन्धा
दश
प्रख्याता नव वैद्यकेऽपि तिथिनिर्द्धारार्थमेको-
ऽद्भुतः ।
साहित्ये त्रय एव भागवततत्त्वोक्तौ त्रयस्तस्य भु-
व्यन्तर्व्वाणि शिरोमणेरिह गुणाः के के न
लोकोत्तराः ॥”
इति मुग्धबोधव्याकरणशेषे वोपदेवप्रशंसा-
श्लोकः ॥ * ॥ तच्छास्त्रकृन्नामानि यथा, --
“ऋग्यजुःसामाथर्व्वाख्यान् दृष्ट्वा वेदान् प्रजा-
पतिः ।
विचिन्त्य तेषामर्थञ्चैवायुर्व्वेदं चकार सः ॥
कृत्वा तु पञ्चमं वेदं भास्कराय ददौ विभुः ।
स्वतन्त्रसंहितां तस्माद्भास्करश्च चकार सः ॥
भास्करश्च स्वशिष्येभ्य आयुर्व्वेदं स्वसंहिताम् ।
प्रददौ पाठयामास ते चक्रुः संहितास्ततः ॥
तेषां नामानि विदुषां तन्त्राणि तत्कृतानि च ।
व्याधिप्रणाशबीजानि साध्वि मत्तो निशामय ॥
धन्वन्तरिर्दिवोदासः काशीराजस्तथाश्विनौ ।
नकुलः सहदेवोऽर्किश्च्यवनो जनको बुधः ॥
जावालो जाजलिः पैलः कवथोऽगस्त्य एव च ।
एते वेदाङ्गवेदज्ञाः षोडश व्याधिनाशकाः ॥ * ॥
चिकित्सातत्त्वविज्ञानं नाम तन्त्रं मनोरमम् ।
धन्वन्तरिश्च भगवांश्चकार प्रथमे सति ! ॥
चिकित्सादर्पणं नाम दिवोदासश्चकार सः ।
चिकित्साकौमुदीं दिव्यां काशीराजश्चकार सः ॥
चिकित्सासारतन्त्रञ्च भ्रमघ्नं चाश्विनीसुतौ ।
तन्त्रं वैद्यकसर्व्वस्वं नकुलश्च चकार सः ॥
चकार सहदेवश्च व्याधिसिन्धुविमर्द्दनम् ।
ज्ञानार्णवं महातन्त्रं यमराजश्चकार सः ॥
च्यवनो जीवदानञ्च चकार भगवानृषिः ।
चकार जनको योगी वैद्यसन्देहभञ्जनम् ॥
सर्व्वसारं चन्द्रसुतो जावालस्तन्त्रसारकम् ।
वेदाङ्गसारं तन्त्रञ्च चकार जाजलिर्मुनिः ॥
पैलो निदानं कवथस्तन्त्रं सर्व्वधरं परम् ।
द्वैधनिर्णयतन्त्रञ्च चकार कुम्भसम्भवः ॥
चिकित्साशास्त्रबीजानि तन्त्राण्येतानि षोडश ।
व्याधिप्रणाशबीजानि बलाधानकराणि च ॥
मथित्वा ज्ञानमन्थानैरायुर्व्वेदपयोनिधिम् ।
ततस्तन्त्राण्युज्जहरुर्नवनीतानि कोविदाः ॥
एतानि क्रमशो दृष्ट्वा दिव्यां भास्करसंहिताम् ।
आयुर्व्वेदं सर्व्वबीजं सर्व्वं जानामि सुन्दरि ! ॥”
इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १६ अध्यायः ॥

वैद्यनाथः, पुं, देशषिशेषः । यथा, --

“करवीरे महालक्ष्मीरुमादेवी विनायके ।
अरोगा वैद्यनाथे तु महाकाले महेश्वरी ॥”
इति मात्स्ये गौरीनामाष्टशतं १३ अध्यायः ॥
(तथा देवीभागवते पीठस्थान माहात्म्ये । ७ ।
३० । ७१ ॥) अपि च ।
“वैद्यनाथं समारभ्य भुवनेशान्तगं शिवे ।
तावदङ्गाभिधो देशो यात्रायां न हि दुष्यति ॥”
इति शक्तिसङ्गमतन्त्रे ७ पटलः ॥
भैरवविशेषः । यथा, --
“हार्द्दपीठं वैद्यनाथे वैद्यनाथस्तु भैरवः ॥
देवता जयदुर्गाख्या नेपाले जानुनी मम ॥”
इति तन्त्रचूडामणौ पीठनिर्णयः ॥
अपि च ।
“हरिद्रानगरे यत्र वैद्यनाथो महेश्वरः ।
तत्राक्षयो विल्ववृक्षः स्वर्णवृक्ष उदाहृतः ॥”
इति बृहद्धर्म्मपुराणे ११ अध्यायः ॥
अन्यच्च ।
“झारखण्डे वैद्यनाथो वक्रेश्वरस्तथैव च ।
वीरभूमौ सिद्धिनाथो राढे च तारकेश्वरः ॥”
इति महालिङ्गेश्वरतन्त्रे पीठादिक्रमेण शिव-
शतनामस्तोत्रम् ॥

वैद्यबन्धुः, पुं, (वैद्यानां बन्धुरिव ।) आरग्वधवृक्षः ।

इति शब्दचन्द्रिका ॥ वैद्यस्य बन्धुश्च ॥

वैद्यमाता, [ऋ] स्त्री, (वैद्यानां मातेव ।) वासकः ।

इत्यमरः ॥ भिषग्जननी च ॥

वैद्यसिंही, स्त्री, (वैद्ये वैद्यशास्त्रोक्तौषधादौ

सिंहीव प्रभूतवीर्य्यवत्त्वात् ।) वासकवृक्षः ।
इति शब्दरत्नावली ॥

वैद्या, स्त्री, काकोली । इति शब्दचन्द्रिका ॥

वैधः, त्रि, (विधिना बोधितः । विधि + अण् ।)

विधिबोधितः । यथा । अदृष्टार्थैकजातीय-
कर्म्मणः कालदेशकर्त्रादीनां प्रयोगानुबन्धवैध-
हेतुभूतानामभेदे उद्दिश्यविशेषाग्रहः । इति
पृष्ठ ४/५१७
प्रायश्चित्ततत्त्वम् ॥ * ॥ अथ वैधहिंसाविचारः ।
“मा हिंस्यात् सर्व्वा भूतानि इत्यत्र सर्व्वशब्दस्य
व्यापकार्थपरतया एतद्विधिमनुल्लङ्घ्य वायव्यं
श्वेतमालभेत । इत्यादिविधेर्विषयाप्राप्तेरगत्या
वैधातिरिक्तविषयत्वम् । सर्व्वाः सर्व्वाणि छन्दसि
वा इत्यनेन तत् पदं सिद्धम् । यदपि नाना-
दर्शनटीकाकृद्भिर्व्वाचस्पतिमिश्रैस्तत्त्वकौमुद्याम-
भिहितम् । ‘न च मा हिंस्यात् सर्व्वा भूतानि
इति सामान्यशास्त्रं विशेषशास्त्रेण अग्नीसोमीयं
पशुमालभेत इत्यनेन वाध्येत इति वाच्यं
विरोधाभावात् । विरोधे हि बलीयसा दुर्ब्बलं
वाध्यते । न चास्ति विरोधः भिन्नविषयत्वात् ।
तथा हि । मा हिंस्यादिति निषेधेन हिंसाया
अनर्थहेतुभावो ज्ञाप्यते न पुनरक्रत्वर्थत्वमपि ।
न चानर्थहेतुत्वक्रतूपकारकत्वयोः कश्चिदस्ति
विरोधः । हिंसा हि पुरुषस्य दोषमावक्ष्यति
क्रतोश्च उपकरिष्यति’ इत्यन्तेन । तदपि सांख्य-
नये । मीमांसकमते तु विरोध एव । तथा हि ।
गुरुनये न खलु सर्व्वभूतहिंसाभावविषयकं
कार्य्यमिति निषेधविध्यर्थस्य वाधं विना अग्नी-
सोमीयपश्वालम्भनविषयकं कार्य्यमिति भाव-
विध्यर्थ उपपद्यते । भट्टनये तु अङ्गे यथा
तथास्तु । न च मुख्यपशुयागे पुरुषार्थे पशु-
हिंसनस्यार्थसाधनत्वमनर्थ-साधनत्वञ्चोपपद्यते
विरोधात् । वस्तुतस्तु अङ्गेऽपि विरोधोऽस्त्येव
कुतः विधेरेष स्वभावो यः स्वविषयस्य साक्षात्
परम्परया वा पुरुषार्थसाधनत्वमवगमयति ।
अन्यथा अङ्गानां प्रधानोपकारकत्वमपि नाङ्गी-
क्रियते । अर्थसाधनत्वं बलवदनिष्टाननुबन्धीष्ट-
साधनत्वं अनर्थसाधनत्वं बलवदनिष्टसाधनत्वं
न चानयोरेकत्र समावेश इति । अतएवोक्तं
तस्माद्यज्ञे वधोऽवधः इति । नन्वेवं श्येनेनाभि-
चरन् यजेत इत्यत्र श्येनस्य शत्रुवधरूपेष्ट-
साधनत्वमवगतम् । अभिचारो मूलकर्म्म च
इति मनुना उपपातकगणमध्ये पाठादनिष्ट-
साधनत्वमवगतम् । तदेतत् कथमुपपद्यतामिति
चेन्मैवम् । आततायिनमायान्तं हन्यादेवा-
विचारयन् इत्येकवाक्यतया आततायिस्थले
इष्टसाधनत्वं अनाततायिस्थले तूपपातकत्वेन
बलवदनिष्टसाधनत्वमित्यविरोध इति । गुरु-
चरणा अप्येवम् ।” इति तिथ्यादितत्त्वम् ॥

वैधात्रः, पुं, (विधातुरपत्यं पुमान् । विधातृ +

अण् ।) सनत्कुमारः । स च विधातृपुत्त्रः ।
इत्यमरः ॥

वैधात्री, स्त्री, (विधातुरियमिति । विधातृ + अण् ।

ङीप् ।) ब्राह्मी । इति राजनिर्घण्टः ॥ (विधातृ-
सम्बन्धिनि, त्रि । यथा, राजतरङ्गिण्याम् ।
४ । ४१३ ।
“अभङ्गुरास्तेऽभिमानास्तस्यैवासन् मनस्विनः ।
अभ्यवर्त्तत यैरेष वैधात्रीरपि वामताः ॥”)

वैधूमाग्नी, स्त्री, शाल्वदेशीयनगरी । इति

सिद्धान्तकौमुदी ॥

वैधृतिः, पुं, विष्कम्भादिसप्तविंशतियोगान्तर्गतशेष-

योगः । तस्य त्याज्यत्वं यथा, --
“परिघस्य त्यजेदर्द्धं सप्त शूले च नाडिकाः ।
गण्डव्याघातयोः षट् च नव हर्षणवज्रयोः ।
वैधृतिव्यतिपातौ च समस्तौ परिवर्ज्जयेत् ॥”
इति ज्योतिस्तत्त्वम् ॥ * ॥
तत्र जातफलं यथा, कोष्ठीप्रदीपे ।
“मैत्रीविहीनः कुटिलः खलश्च
मूर्खो दरिद्रः परवञ्चकश्च ।
कुकर्म्मकर्त्ता परदारभर्त्ता
भवेन्नरों वैधृतिलब्धजन्मा ॥”
अमृतयोगे तस्य वर्ज्यत्वमवर्ज्यत्वञ्च यथा, --
“यदि वृष्टिव्यतीपातौ दिनं वाप्यशुभं भवेत् ।
हन्यतेऽमृतयोगेन भास्करेण तमो यथा ॥
हन्त्यमृताख्यो योगः सर्व्वाण्यशुभानि हेलया
नियतम् ।
न भवति पुनरिह शक्तो वैधृतिवृष्टिव्यतीपाते ॥”
इति ज्योतिस्तत्त्वम् ॥
(देवताविशेषः । यथा, भागवते । ८ । १ । २९ ।
“देवा वैधृतयो नाम विधृतेस्तनया नृप ।
नष्टाः कालेन यैर्वेदा विधृताः स्वेन तेजसा ॥”)

वैधेयः, त्रि, (विधिं पद्धतिमेवानुसृत्य व्यवहरति ।

विधि + ढक् । यद्वा, विधेये कर्त्तव्ये अनभिज्ञः ।
विधेय + अण् । यद्बा, विरुद्धं धेयमस्य । ततः
स्वार्थे अण् । पद्धतिमाश्रित्य क्रियाकारित्वात्
युक्तायुक्तविवेकशून्यत्वाच्च तथात्वमस्य ।) मूर्खः ।
इत्यमरः । ३ । १ । ४८ ॥ (यथा, राजतर-
ङ्गिण्याम् । ६ । १५९ ।
“पुंश्चली जाल्मवैधेयबालकाद्रोग्धृनिभरा ।
समभूदप्रवेशार्हा राजपर्षन्मनस्विनाम् ॥”)
विधिसम्बन्धी विधेयसम्बन्धी च ॥

वैध्यतः, पुं, यमप्रतीहारः । इति हेमचन्द्रः ॥

वैनतेयः, पुं, (विनताया अपत्यमिति । विनता +

“स्त्रीभ्यो ढक् ।” ४ । १ । १२० । इति ढक् ।)
गरुडः । इत्यमरः ॥ (यथा, देवीभागवते ।
२ । १२ । २९ ।
“समानीयामृतं मात्रे वैनतेयः समर्पयत् ॥”)
अरुणः । इति मत्स्यपुराणम् ॥ (विनतापत्य-
मात्रे । यथा, महामारते । १ । ६५ । ४० ।
“तार्क्ष्यश्चारिष्टनेमिश्च तथैव गरुडारुणौ ।
आरुणिर्वारुणिश्चैव वैनतेयाः प्रकीर्त्तिताः ॥”)

वैनयिकः, पुं, शस्त्राभ्यासरथः । तत्पर्य्यायः ।

योग्यरथः २ । इति हेमचन्द्रः । ३ । ४१६ ॥
(विनय एव । “विनयादिभ्यष्ठक् ।” ५ । ४ । ३४ ।
इति स्वार्थे ठक् । विनयः ॥) विनयसम्बन्धिनि,
त्रि ॥ (यथा, महाभारते । १२ । ६८ । ४ ।
“सर्व्वं वैनयिकं कृत्वा विनयज्ञो बृहस्पतिम् ।
दक्षिणानन्तरो भूत्वा प्रणम्य विधिपूर्व्वकम् ।
विधिं पप्रच्छ राज्यस्य सर्व्वलोकहिते रतः ॥”)

वैनायिकः, पुं, बौद्धः । इति त्रिकाण्डशेषः ॥ यथा,

“भिन्नकः क्षपणोऽह्रीको बौद्धो वैनायिकः स्मृतः ॥”
इति त्रिकाण्डशेषः ॥

वैनाशिकं, क्ली, (विनाशं सूचयतीति । विनाश +

ठक् ।) नाडीनक्षत्रविशेषः । स तु जन्मर्क्षा-
वधित्रयोविंशनक्षत्रम् । यथा । जन्माद्यं कर्म्म
ततोऽपि दशमं सांघातिकं षोडशभम् । समु-
दयमष्टादशभं विनाशसंज्ञं त्रयोविंशं आद्यात्तु
पञ्चविंशं मानसमेवं नरः षडृक्षः स्यात् ॥
तत्फलं यथा, --
“ईहादेहार्थहानिः स्याज्जन्मर्क्ष उपतापिते ।
कर्म्मर्क्षे कर्म्मणां हानिः पीडा मनसि मानसे ॥
मूर्त्तिद्रविणबन्धूनां हानिः सांघातिके तथा ।
संतप्ते सामुदयिके मित्रभृत्यार्थसंक्षयः ॥
वैनाशिके विनाशः स्यात् देहद्रविणसम्पदाम् ॥”
इति ज्योतिस्तत्त्वम् ॥
निधनतारा । यथा, --
“वैनाशिकर्क्षे दृष्टं ग्रहणं सुधांशुभास्करयोः ।
जनयति रोगं बहुधा क्लेशं वित्तक्षयञ्चाशु ॥”
वैनाशिकर्क्षे त्रयोविंशनक्षत्रे । इति केचित् ।
वस्तुतस्तु वैनाशिकपदं निंधनतारापरम् । निधने-
ऽपि चेत्येकवाक्यत्वात् । इति तिथ्यादितत्त्वम् ॥

वैनाशिकः, पुं, (विनाशो मतमस्य । विनाश +

ठक् । सर्व्वं दृश्यं क्षणिकमिति क्षणिकविज्ञान-
वादित्वादस्य तथात्वम् ।) क्षणिकः । परतन्त्रः ।
ऊर्णनाभः । इति मेदिनी ॥ विनाशसम्बन्धीये, त्रि ॥

वैनीतकः, पुं, क्ली, परम्परावाहनम् । इत्यमरः ॥

आरूढं वाह्यं यत् साक्षात् न वहति परम्परयैव
वहति तद्वैनीतकम् । यथा दोलां वहन् दोला-
वाहकः विनीयते स्मेति क्तात् विकारसंघेति के
विनीतकः तेनैव स्वार्थे ष्णे वृद्धौ वैनीतकम् ।
इति भरतः ॥ विनीतसम्बन्धिनि, त्रि ॥

वैन्यः, पुं, (वेनस्यापत्यं पुमान् । वेन + “कुर्व्वा-

दिभ्यो ण्यः ।” ४ । १ । १५१ । इति ण्यः ।)
वेनपुत्त्रः । स तु पृथुराजः । यथा, --
“वेनस्य मथिते पाणौ स बभूव महापुमान् ।
वैन्यो नाम महीपालो यः पृथुः परिकीर्त्तितः ।
येन दुग्धा मही पूर्व्वं प्रजानां हितकारणात् ॥”
इति वह्रिपुराणे सर्गानुशासननामाध्यायः ॥
(यथाच ऋग्वेदे । ८ । ९ । १० ।
“पृथी यद्बां वैन्यः सादनेष्वेव ।”
“वैन्यो वेनस्य पुत्त्रः पृथी एतत्संज्ञो राजर्षिः ।”
इति तद्भाष्ये सायणः ॥)

वैपरीत्यं, क्ली, (विपरीत + ष्यञ् ।) विपरीतस्य

भावः । तत्पर्य्यायः । व्यत्यासः २ विपर्य्यासः ३
विपर्य्ययः ४ व्यत्ययः ५ । इति हेमचन्द्रः ॥
(यथा, मार्कण्डेये । ४३ । ३४ ।
“स्वभाववैपरीत्यन्तु प्रकृतेश्च विपर्य्ययः ॥”)

वैपरीत्यलज्जालुः, स्त्री, पुं, (वैपरीत्या लज्जालुः ।)

स्वल्पक्षुपबृहत्फला लज्जालुः । यथा, --
“लज्जालुर्व्वैपरीत्यान्या स्वल्पक्षुपबृहत्फला ।
वैपरीत्या च लज्जालुर्ह्याभिधाने प्रयोजयेत् ॥
लज्जालुर्व्वैपरीत्याह्वः कटुरुष्णः कफापनुत् ।
रसे नियामकश्चैव नानाविज्ञानकारकः ॥”
इति राजनिर्घण्टः ॥
पृष्ठ ४/५१८

वैभवं, क्ली, विभवस्य भावः । विभवशब्दात्

ष्णप्रत्ययेन निष्पन्नमिदम् ॥ (यथा, कथासरित्-
सागरे । ६६ । १९१ ।
“सोऽप्यावेद्य यथार्थमम्बरचराधीशः क्षणात्
कल्पिता-
शेषस्वोचितदिव्यवैभवविधिः सिद्धिप्रभावात्ततः ॥”
अतिशयः । यथा, भागवते । ५ । १८ । ११ ।
“यत्सङ्गलब्धं निजवीर्य्यवैभवं
तीर्थं मुहुः संस्पृशतां हि मानसम् ॥”
विभोर्भाव इत्यर्थे अण्प्रत्यये ऐश्वर्य्यम् । यथा,
भागर्वते । १० । १४ । ३८ ।
“जानन्त एव जानन्तु किं बहूक्त्या न मे प्रभो ।
मनसो वपुषो वाचो वैभवं तव गोचरः ॥”)

वैभाजित्रं, क्ली, (विभाजयितुर्धर्म्म्यम् । विभाजयितृ

+ “ऋतोऽञ् ।” ४ । ४ । ४९ । इति अञ् ।
विभाजयितुर्णिलोपश्चेति काशिकाक्व्या णि-
लोपः ।) विभाजयितुर्धर्म्म्यम् । इति सिद्धान्त-
कौमुदी ॥

वैभ्राजं, क्ली, देवोद्यानम् । इति त्रिकाण्डशेषः ॥

(यथा, मार्कण्डेये । ५५ । २ ।
“पूर्व्वं चैत्ररथं नाम दक्षिणे नन्दनं वनम् ।
वैभ्राजं पश्चिमे शैले सावित्रञ्चोत्तराचले ॥”
विभ्राजराजस्य तपःस्थानम् । यथा, हरि-
वंशे । २३ । १४ ।
“ततो विभ्राजितं तेन वैभ्राजं नाम तद्वनम् ॥”
पुं, पर्व्वतविशेषः । यथा, मार्कण्डेये । ५६ । १३ ।
“तरक्षुरिति विख्याता वैभ्राजं साचलं ययौ ।”
लोकविशेषः । यथा, हरिवंशे । १८ । ४६ ।
“वैभ्राजा नाम ते लोका दिवि भान्ति सुद-
र्शनाः ॥”)

वैमात्रः, पुं, (विमातुरपत्यमिति । विमातृ + अण् ।)

वैमात्रेयः । इति जटाधरः ॥

वैमात्रा, स्त्री, (विमातुरपत्यं स्त्री ।) विमातृ-

कन्या । वैमात्रशब्दादाप्प्रत्ययेन निष्पन्नम् ॥

वैमात्रेयः, पुं, (विमातुरपत्यम् । विमातृ + “शुभ्रा-

दिभ्यश्च ।” ४ । १ । १२३ । इति ढक् ।) विमातृपुत्त्रः ।
तत्पर्य्यायः । विमातृजः २ वैमात्रः ३ । इति
जटाधरः ॥ (“तयोरभावे तथाविधौ वैमा-
त्रेयौ ।” इति शुद्धितत्त्वे प्रेतश्राद्धाधिकारि-
प्रस्तावे ॥)

वैमात्रेयी, स्त्री, (विमातुरपत्यं स्त्री । विमातृ +

ढक् । ततो डीप् ।) विमातृकन्या । वैमात्रेय-
शब्दादीप्प्रत्ययेन निष्पन्नमिदम् ॥

वैमुक्तः, त्रि, विमुक्तिविशिष्टः । तद्भावे, क्ली ।

विमुक्तशब्दात् ष्णप्रत्ययेन निष्पन्नमिदम् ॥

वैमेयः, पुं, विनिमयः । इति हेमचन्द्रः ॥

वैयाकरणः, त्रि, (व्याकरणं वेत्ति अधीते वा ।

व्याकरण + “अणृगयनादिभ्यः ।” ४ । ३ । ७३ ।
इति अण् । “नय्वाभ्यां पदान्ताभ्यामिति ।” ७ ।
३ । ३ । इति यकारात् पूर्व्वं ऐच् ।) व्याकरण-
वेत्ता । व्याकरणाध्येता । व्याकरणशब्दात्
ष्णप्रत्ययेन य्वोर्युमेति इमा णित्त्वे व्रिरिति वृद्धौ
च निष्पन्नमिदम् । व्याकरणसम्बन्धी च ॥ (यथा,
पाणिनौ । ६ । ३ । ७ ।
“वैयाकरणाख्यायां चतुर्थ्याः ॥”
यथा च महाभारते । ५ । ४३ । ६१ ।
“सर्व्वार्थानां व्याकरणाद्वैयाकरण उच्यते ।
तन्मूलतो व्याकरणं व्याकरोतीति तत्तथा ॥”)

वैयाकरणभार्य्यः, पुं, वैयाकरणी भार्य्या यस्य ।

इति मुग्धबोधव्याकरणम् ॥

वैयाघ्रः, पुं, (व्याघ्रस्य विकारः । व्याघ्र + “प्राणि-

रजतादिभ्यः ।” ४ । ३ । १५४ । इति अञ् ।
ततः वैयाघ्रेण चर्म्मणा परिवृतो रथः । “द्वैप-
वैयाघ्रादञ् ।” ४ । २ । १२ । इति अञ् ।) व्याघ्र-
चर्म्माच्छादितरथः । तत्पर्य्यायः । द्बैपः २ । इत्य-
मरः । २ । ८ । ५२ ॥ (यथा, महाभारते । २ । ५८ । ४ ।
“अयं सहस्रसमितो वैयाघ्रः सुप्रतिष्ठितः ।
सुचक्रोपस्करः श्रीमान् किङ्किणीजाल-
मण्डितः ॥”)
व्याघ्रसम्बन्धिनि, त्रि । यथा, --
“उत्तराभिमुखी भूत्वा निराहारा निरन्तरम् ।
वैयाघ्रचर्म्मवसना सोर्द्ध्वमूर्द्धानना सती ॥
ज्योतिर्मयं शिवं शान्तं परं शिवकरं परम् ॥”
इति कालिकापुराणे ४४ अध्यायः ॥
(यथा च बृहत्संहितायाम् । ४४ । १३ ।
“पूर्व्वाभिमुखः श्रीमान् वैयाघ्रे चर्म्मणि स्थितो
राजा ॥”)

वैयाघ्रपद्यः, पुं, (व्याघ्रपदोऽपत्यमिति । व्याघ्रपद् +

ष्यञ् । यद्वा, व्याघ्रस्येव पादावस्य इति बहु-
ब्रीहौ “पादस्य लोपः इति ।” ५ । ४ । १३८ । इति
अकारलोपे गर्ग्यादित्वात् यञ् । “पादः पत् ।”
६ । ४ । १३० । इति पदादेशः । “न य्वाभ्यामिति ।”
७ । ३ । ३ । यकारात् पूर्ब्बमैच् ।) गोत्रकारक-
मुनिविशेषः । यथा, तिथ्यादितत्त्व ।
“वैयाघ्रपद्यगोत्राय सांकृतिप्रवराय च ।
अपुत्त्राय ददाम्येतत् सलिलं भीष्मवर्म्मणे ॥”
(यथा, महाभारते । ४ । ६ । ११ ।
“युधिष्ठिरस्यासमहं पुरा सखा
वैयाघ्रपद्यः पुनरस्मि विप्रः ॥”)

वैयासकिः, पुं, (व्यासस्यापत्यम् । “व्यासवरुडनिषा-

देति ।” ४ । १ । ९७ । इत्यस्य काशिकोक्त्या
इञ् अकञादेशश्च । न य्वाभ्यामिति ऐच् ।)
व्यासस्यापत्यम् । इति मुग्धबोधव्याकरणम् ॥
(यथा, भागवते । १० । १ । १४ ।
“एवं निशम्य भृगुनन्दन साधुवादं
वैयासकिः स भगवानथ विष्णुरातम् ।
प्रत्यर्च्य कृष्णचरितं कलिकल्मषघ्नं
व्याहर्त्तुमारभत भागवतप्रधानः ॥”)

वैयासिकः, त्रि, (व्यासेन कृतः । व्यास + ठञ् ।

तत ऐच् ।) व्यासकृतसंहितादिः । इति
श्रीभागवतम् ॥

वैयुष्टः, त्रि, (व्युष्टे दीयते कार्य्यम् । “व्युष्टादिभ्यो-

ऽण् ।” ५ । १ । ९७ । इति अण् । नय्वभ्यामित्यैच् ।)
प्रातर्भवः । इति सिद्धान्तकौमुदी ॥

वैरं, क्ली, (वीरस्य कर्म्म भावो वा । वीर + अण् ।)

विरोधः । इत्यमरः ॥ (यथा, भागवते । ८ ।
७ । ३९ ।
“बद्धवैरेषु भूतेषु मोहितेष्वात्ममायया ॥”)
तस्य समुत्थानं पञ्च । स्त्रीकृतम् १ यथा कृष्ण-
शिशुपालयोः । वास्तुजम् २ यथा कौरव-
पाण्डवानाम् । वाग्जम् ३ यथा द्रोणद्रुपदयोः ।
सापत्नम् ४ यथा मूषिकमार्जारयोः । अप-
राधजम् ५ यथा पूजनीब्रह्मदत्तयोः । इति
महाभारतम् ॥

वैरक्तं, क्ली, (विरक्तस्य भावः । विरक्त + अण् ।)

विरक्तता । विरक्तशब्दाद्भावार्थे ष्णप्रत्ययेन
निष्पन्नमिदम् ॥

वैरङ्गिकः, त्रि, (विरङ्गं नित्यमर्हतीति । “छेदा-

दिभ्यो नित्यम् ।” ५ । १ । ६४ । इति ठञ् ।)
विरागार्हः । इति हेमचन्द्रः ॥

वैरनिर्यातनं, क्ली, (वैरस्य निर्यातनम् ।) कृताप-

कारस्य प्रत्यपकारः । तत्पर्य्यायः । वैरशुद्धिः २
प्रतीकारः ३ । इत्यमरः ॥

वैरप्रतिक्रिया, स्त्री, (वैरस्य प्रतिक्रिया ।) वैर-

निर्यातनम् । इति हेमचन्द्रः ॥

वैरशुद्धिः, स्त्री, (वैरस्य शुद्धिः ।) वैरनिर्यातनम् ।

इत्यमरः ॥

वैरागिकः, त्ति, (विरागं नित्यमर्हतीति । विराग +

ठञ् ।) विरागार्हः । इति सिद्धान्तकौमुदी ॥

वैरागी, [न्] त्रि, (विरागस्य भावो वैरागम् ।

तदस्यास्तीति इनिः ।) विषयेच्छारहितः ।
वैराग्ययुक्तः । यथा, --
“सनकश्च सनन्दश्च तृतीयश्च सनातनः ।
सनत्कुमारो वैरागी चतुर्थः पुत्त्र एव च ॥”
इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे २४ अध्यायः ॥

वैराग्यं, क्ली, (विरागस्य भावः । विराग +

ष्यञ् ।) विषयतुच्छधीः । यथा, --
“ज्ञानवैराग्ययोर्भक्तिप्रवेशायोपयोगिता ।
ईषत् प्रथममेवेति नाङ्गत्वमुचितं तयोः ॥
यदुभे चित्तकाठिन्यहेतू प्रायः सतां मते ।
सुकुमारस्वभावेयं भक्तिस्तद्धेतुरीरिता ॥”
यथा एकादशस्कन्धे ।
“तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः ।
न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिह ॥”
इति ॥
किन्तु ज्ञानविरक्त्यादिसाध्यं भक्त्यैव सिद्ध्यति ।
यथा तत्रैव ।
“यत् कर्म्मभिर्यत्तपसा ज्ञानवैराम्यतश्च यत् ।
योगेन दानधर्म्मेण श्रेयोभिरितरैरपि ॥
सर्व्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसा ।
स्वर्गापवर्गं मद्धाम कथञ्चिद्यदि वाञ्छति ॥
रुचिमुद्वहतस्तत्र जनस्य भजने हरेः ।
विषयेषु गरिष्ठोऽपि रागः प्रायो विलीयते ॥
अनासक्तस्य विषयान् यथार्हमुपयुञ्जतः ।
निर्व्वन्धः कृष्णसम्बन्धे युक्तं वैराग्यमुच्यते ॥
प्रापञ्चिकतया बुद्ध्या हरिसम्बन्धिवस्तुनः ॥
पृष्ठ ४/५१९
मुमुक्षुभिः परित्यागो वैराग्यं फल्गु कथ्यते ॥”
इति भक्तिरसामृतसिन्धौ पूर्ब्बभागे साधन-
लहरी ॥

वैराटः, पुं, इन्द्रगोपकीटः । इति हेमचन्द्रः ॥

विराटसम्बन्धिनि, त्रि ॥ (क्ली, विपाटपर्व्व ।
यथा, महाभारते । १ । २ । ५७ ।
“आरण्येयन्ततः पर्व्व वैराटन्तदनन्तरम् ॥”
विराटकन्यायां स्त्री । यथा, तत्रैव । १ । २ । ५८ ।
“अभिमन्योश्च वैराठ्या पर्व्व वैवाहिकं स्मृतम् ॥”
तथा च देवीभागवते । २ । ७ । ४ ।
“अभिमन्योर्वरा भार्य्या वैराटी चाति-
सुन्दरी ॥”
विस्तृते च त्रि । यथा, महाभारते । १३ । ७९ । २१ ।
“वैराटपृष्ठमुक्षाणं सर्व्वरत्नैरलङ्कृतम् ।
प्रदाय मरुतां लोकान् स राजन् प्रतिपद्यते ॥”)

वैराट्या, स्त्री, जिनषोडशविद्यादेव्यन्तर्गतदेवी-

विशेषः । इति हेमचन्द्रः ॥

वैरातङ्कः, पुं, अर्ज्जुनवृक्षः । इति राजनिर्घण्टः ॥

वैरी, [न्] पुं, (वैरमस्यास्तीति । इनिः ।) शत्रुः ।

इत्यमरः ॥ (यथा, मनौ । ४ । १३३ ।
“वैरिणं नोपसेवेत सहायञ्चैव वैरिणः ॥”)
वीरसम्बन्धिनि, त्रि ॥

वैरूप्यं, क्ली, (विरूपस्य भावः ।) विरूपता ।

यथा, --
“वैरूप्यमङ्गेषु कशानिपातो
मौण्ड्यं तथा लक्ष्मणसन्निवेशः ।
एतान् वधानर्हति रूक्षवादी
शास्त्रेषु दूतस्य वधो न दृष्टः ॥”
इति महानाटके ५ अङ्कः ॥
(असाधारणत्वम् । यथा, महाभारते । ५ ।
४३ । ७ ।
“निर्द्दिश्य सम्यक् प्रवदन्ति वेदा-
स्तं विश्ववैरूप्यमुदाहरन्ति ॥”
विसदृशत्वम् । यथा, तत्रैव । १२ । २४० । २ ।
“एतच्चान्नोन्यवैरूप्ये वर्त्तेते प्रतिकूलतः ॥”)

वैरोचनः, पुं, (विरोचनस्यापत्यम् । विरोचन +

अण् ।) बुद्धः । बलिराजः । (यथा, महा-
भारते । ३ । २८ । १७ ।
“अथ वैरोचने दोषानिमान् विद्ध्यक्षमा-
वताम् ॥”)
अग्निपुत्त्रः । सूर्य्यपुत्त्रः । सिद्धगणः । इति
शब्दरत्नावली ॥

वैरोचननिकेतनं, क्ली, (वैरोचनस्य बलेर्निके-

तनम् ।) पातालम् । इति हलायुधः ॥

वैरोचनिः, पुं, (विरोचनस्यापत्यम् । विरोचन +

इञ् ।) बुद्धः । बलिराजः । (यथा, विष्णु-
पादादिकेशवर्णनस्तोत्रे । १ ।
“याभ्यां वैरोचनीन्द्रौ युगपदपि विपत्संपदो-
रेकधाम ॥”)
सूर्य्यपुत्त्रः । इति मेदिनी ॥

वैरोचिः, पुं, बाणदैत्यः । यथा । वैरोचिर्ब्बलि-

नन्दनः । इति शब्दरत्नावली ॥

वैरोद्धारः, पुं, (वैरस्योद्धारः ।) कृतापकारस्य

प्रत्यपकारः । यथा, --
“प्रतिकारः प्रतीकारो वैरनिर्यातनं तथा ।
निर्यातनं वैरशुद्धिर्वैरोद्धारो निगद्यते ॥”
इति शब्दरत्नावली ॥

वैलक्षण्यं, क्ली, (विलक्षणस्य भावः । विलक्षण +

ष्यञ् ।) विलक्षणत्वम् । विलक्षणस्य भाव
इत्यर्थे ष्ण्यप्रत्ययेन निष्पन्नमिदम् । (यथा,
भागवते । १० । ५५ । २९ ।
“अवधार्य्य शनैरीषद्वैलक्षण्येन योषितः ॥”
विभिन्नत्वम् । यथा, मनौ कुल्लूकः । १ । ८५ ।
“त्रेतादिष्वपि युगापचाररूपेण धर्म्मवैल-
क्षण्यम् ॥”)

वैल्वं, क्ली, (विल्वस्येदम् । अण् ।) विल्वफलम् ।

इत्यमरटीका ॥ विल्वसम्बन्धिनि, त्रि ॥ (यथा,
मनौ । २ । ४५ ।
“ब्राह्मणो वैल्वपालाशौ क्षत्त्रियो वाट-
खादिरौ ॥”)

वैवधिकः, त्रि, (विवधेन धान्यतण्डुलादिना व्यव-

हरति । “विभाषा विवधवीवधात् ।” ४ । ४ ।
१७ । इति ठक् ।) विवधेन धान्यतण्डुलादिना
व्यवहरति यः । पसारि इति भाषा । (यथा,
राजतरङ्गिण्याम् । ६ । ३०८ ।
“वल्गाभिधा वैवधिकी वल्गामठमकारयत् ॥”)
तत्पर्य्यायः । वार्त्तावहः २ । इत्यमरभरतौ ॥
वार्त्तोवहः ३ । इति शब्दरत्नावली ॥

वैवर्ण्यं, क्ली,) विवर्णस्य भावः ।) विवर्णता ।

विवर्णस्य भाव इत्यर्थे ष्ण्यप्रत्ययेन निष्पन्न-
मिदम् ॥ (यथा, कथासरित्सागरे । १६ । ६८ ।
“सा वार्त्ता कर्णमागत्य तस्या वैवर्ण्यदायिनी ॥”
तत्तु स्त्रीणां सात्त्विकभावानामन्यतमम् । यथा,
साहित्यदर्पणे । ३ । १६६ ।
“स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः ।
वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥”)

वैवस्वतः, पुं, (विवस्वतोऽपत्यमिति । अण् ।) यमः ।

इत्यमरः ॥ (यथा, बृहत्संहितायाम् । ६९ । २३ ।
“एवं शशः सप्ततिहायनोऽयं
वैवस्वतस्यालयमभ्युपैति ॥”
यथा च ऋग्वेदे । १० । १४ । १ ।
“वैवस्वतं संगमनं जनानां
यमं राजानं हविषादुवस्य ॥”
“वैवस्वतं विवस्वतः सूर्य्यस्य पुत्त्रम् ।” इति तद्-
भाष्ये सायणः ॥ यथा च राजतरङ्गिण्याम् ।
४ । १५१ ।
“वनराजिश्यामलेन दिशं वैवस्वताङ्किताम् ॥”)
रुद्रविशेषः । इति जटाधरः ॥ शनिः । सप्तमो
मनुः । (यथा, रघुवंशे । १ । ११ ।
“वैवस्वतो मनुर्नाम माननीयो मनीषिणाम् ॥”)
वर्त्तमानोऽयम् । अस्मिन्मन्वन्तरे वामनोऽव-
तारः । पुरन्दरः इन्द्रः । आदित्या वसवो
रुद्रा विश्वेदेवा मरुद्गणाः । अश्विनावृषभः ।
इत्याद्या देवा । कश्यपः अत्रिः वशिष्ठः
विश्वामित्रः गोतमः जमदग्निः भरद्वाजः एते
सप्तर्षयः । इक्ष्वाकुः नृगः शर्यातिः दिष्टः धृष्टः
करूषकः नरिष्यन्तः पृषध्रः नाभागः कविः
एते मनुपुत्त्रा दश । इति श्रीभागवतमतम ॥ * ॥
अपि च ।
“सप्तमञ्च प्रवक्ष्यामि यद्वैवस्वतमुच्यते ।
अत्रिश्चैव वशिष्ठश्च कश्यपो गौतमस्तथा ॥
भरद्वाजस्तथा योगी विश्वामित्रः प्रतापवान् ।
यमदग्निश्च सप्तैते सांप्रतं ये महर्षयः ॥
साध्या विश्वाश्च रुद्राश्च मरुतो वसवोऽश्विनौ ।
आदित्याश्च सुरास्तद्वत् सप्त देवगणाः स्मृताः ॥
इक्ष्वाकुप्रमुखाश्चास्य दशपुत्त्राः स्मृता भुवि ।
मन्वन्तरेषु सर्व्वेषु सप्त सप्त महर्षयः ॥
कृत्वा धर्म्मव्यवस्थानं प्रयान्ति परमं पदम् ॥”
इति मात्स्ये मन्वन्तरानुकीर्त्तनो नाम ९ अः ॥
अन्यच्च ।
श्रीमार्कण्डेय उवाच ।
“आदित्या वसवो रुद्राः साध्या विश्वे मरुद्-
गणाः ।
भृगवोऽङ्गिरसश्चाष्टौ यत्र देवगणाः स्मृताः ॥
आदित्या वसवो रुद्रा विज्ञेयाः कश्यपात्मजाः ।
साध्याश्च मरुतो विश्वे धर्म्मपुत्त्रा गणास्त्रयः ॥
भृगोस्तु भृगवः पुत्त्राः ह्यङ्गिरोऽङ्गिरसः सुताः ।
एष सर्गस्तु मारीचो विज्ञेयः सांप्रताधिपः ॥
तेजस्वी नाम चेन्द्रोऽपि महात्मा यज्ञभागभुक् ।
अतीतानागता ये च वर्त्तन्ते ये च सांप्रतम् ॥
सर्व्वे ते त्रिदशेन्द्रास्तु विज्ञेयास्तुल्यलक्षणाः ।
सहस्राक्षाः कुलिशिनः सर्व्व एव पुरन्दराः ॥
मघवन्तो वृषाः सर्व्वे शृङ्गिणो गजगामिनः ।
ते शतक्रतवः सर्व्वे भूताभिभवतेजसः ॥
धर्म्माद्यैः कारणैरेतैराधिपत्यगुणान्विताः ।
भूतभव्यभवन्नाथाः शृणु चैतत् त्रयं द्बिज ॥
भूर्लोकोऽयं स्मृतो भूमिरन्तरीक्षं भुवः स्मृतम् ।
स्वराख्यश्च तथा स्वर्गस्त्रैलोक्यमिति गद्यते ॥
अत्रिश्चैव वशिष्ठश्च कश्यपश्च महानृषिः ।
गौतमश्च भरद्बाजो विश्वामित्रश्च कौशिकः ॥
तथैव पुत्त्रो भगवानृचीकस्य महात्मनः ।
जमदग्निश्च सप्तैते मुनयोऽत्र तथान्तरे ॥
इक्ष्वाकुर्नभगश्चैव धृष्टः शर्यातिरेव च ।
नरिष्यन्तश्च विख्यातो नाभागो दिष्ट एव च ॥
करूषश्च पृषध्रश्च भूमिपा लोकविश्रुताः ।
मनोर्व्वैवस्वतस्यैते नव पुत्त्राः प्रकीर्त्तिताः ॥
वैवस्वतमिदं देवि ! कथितं ते मयान्तरम् ।
अस्मिन् श्रुते नरः सद्यः पठिते चैव सत्तम ।
मुच्यते पातकैः सर्व्वैः पुण्यञ्च महदश्नुते ॥”
इति मार्कण्डेयपुराणे वैवस्वतमन्वन्तरं समाप्तम् ॥

वैवस्वती, स्त्री, (वैवस्वतस्य इयम् । अण् । ततो

ङीप् ।) दक्षिणदिशा । इति राजनिर्घण्टः ॥

वैवाहिकः, पुं, (विवाहाद्भवः । विवाह + ठञ् ।)

कन्यापुत्त्रयोः श्वशुरः । वेयाइ इति वङ्गभाषा ॥
सम्धी इति हिन्दीभाषा । (तत्पर्य्यायः । सम्बन्धी
२ ॥ यथा, कौतुकसर्व्वस्वे । ३ ।
पृष्ठ ४/५२०
“अस्मन्नामसमानतासखसुतावैवाहिक-
श्यालक-
श्वश्रूकामुकरथ्यया गतवती न्याय्या तदेषा मम ॥”)
विवाहसम्बन्धिनि, त्रि । यथा, --
“पञ्चमे सप्तमे चैव येषां वैवाहिकी क्रिया ।
ते च सान्तानिनः सर्व्वे पतिताः शूद्रतां गताः ॥”
इत्युद्बाहतत्त्वम् ॥
अपि च ।
“कन्याभ्यश्च पितृद्रव्याद्देयं वैवाहिकं वसु ।
अपुत्त्रकस्य कन्या स्वा धर्म्मजा पुत्त्रवद्धरेत् ॥”
इति दायतत्त्वे देवलः ॥
(यथा च मनुः । २ । ६७ ।
“वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः
स्मृतः ॥”)

वैशम्पायनः, पुं, (विशम्पस्य गोत्रापत्यम् । “अश्वा-

दिभ्यः फञ् ।” ४ । १ । ११० । इति फञ् ।)
मुनिविशेषः । यथा, --
“अथ शिष्यान् प्रजग्राह चतुरो वेदपारगान् ।
जैमिनिञ्च सुमन्तुञ्च वैशम्पायनमेव च ॥
पैलं तेषां चतुर्थञ्च परमं मां महामुनिः ।
ऋग्वेदश्रावकं पैलं जग्राह स महामुनिः ।
यजुर्व्वेदप्रवक्तारं वैशम्पायनमेव च ॥”
इति कौर्म्मे ४९ अध्यायः ॥
स च वज्रवारकः । यथा, --
“जैमिनिश्च सुमन्तुश्च वैशम्पायन एव च ।
पुलस्त्यः पुलहश्चैव पञ्चैते वज्रवारकाः ॥”
इति पुराणम् ॥

वैशस्त्रं, क्ली, (विशसितुर्धर्म्म्यम् । विशसितृ +

“ऋतोऽञ् ।” ४ । ४ । ४९ । इति अञ् । तत्र
“विशशितुरिङ्लोपश्च ।” इति काशिकोक्त्या
इङ्लोपः ।) अधिकारः । शस्त्राभावविशि-
ष्टत्वम् । विगतं शस्त्रं यत्र । विपूर्ब्बशस्त्रशब्दा-
दण्प्रत्ययेन निष्पन्नमिदम् । इति सिद्धान्त-
कौमुदी ॥

वैशाखं, क्ली, (विशाख एव । स्वार्थे अण् ।) धनु-

र्व्विदां सं स्थानभेदः । यथा, --
“स्थानान्यालीढवैशाखप्रत्यलीढानि मण्डलम् ।
समपादञ्च -- ॥”
इति हेमचन्द्रः ॥
(यथा, हरिवंशे । ११० । ४४ ।
“वज्रपातनिभं वेगं पातयित्वा ममोपरि ।
भूयः प्रहर्त्तुकामो मां वैशाखेनास्थितो
महीम् ॥”
पुरविशेषः । यथा, कथासरित्सागरे । ६७ । ५ ।
“वै शाखाख्ये पुरे राज्ञः पुत्रावावां द्विमातृकौ ॥”)

वैशाखः, पुं, (विशाखा प्रयोजनमस्य । विशाखा

+ “विशाखाषाढादिति ।” ५ । १ । ११० ।
इति अण् ।) मन्थानदण्डः । (यथा, शिशुपाल-
वघे । ११ । ८ ।
“द्रुततरकरदक्षाः क्षिप्तवैशाखशैले ॥”
वैशाखी पौर्णमासी अस्मिन् । “सास्मिन्
पौर्णमासीति ।” ४ । २ । २१ । इति अण् ।)
द्बादशमासान्तर्गतप्रथममासः । तत्पर्य्यायः ।
माधवः २ राधः ३ । इत्यमरः ॥ चान्द्रस्य
तस्य लक्षणम् ।
“विशाखातारकायुक्ता वैशाखी पूर्णिमा भवेत् ।
सा वैशाखी यत्र मासे स वैशाखः प्रकीर्त्तितः ॥”
इति शब्दरत्नावली ॥
स तु मेषस्थरविकः सौरः । तत्र जातफलम् ।
“पुमान् विनीतो द्बिजदेवभक्तो
धर्म्मस्य कर्त्ता सुजनस्य भर्त्ता ।
गुणाभिरामोऽथ जगत्प्रियः स्यात्
वैशाखमासे खलु जन्म यस्य ॥”
इति कोष्ठीप्रदीपः ॥ * ॥
अथ वैशाखकृत्यम् । तत्र पद्मपुराणम् ।
“तुलामकरमेषेषु प्रातःस्नानं विधीयते ।
हविष्यं ब्रह्मचर्य्यञ्च महापातकनाशनम् ॥”
वैष्णवामृते ।
“गवामर्द्धप्रसूतानां लक्षं दत्त्वा तु यत् फलम् ।
तत् फलं लभते राजन् मेषे स्नात्वा तु जाह्र-
वीम् ॥”
पितामहः ।
“कार्त्तिकस्य तु यत् स्नानं माघे मासि विशेषतः ।
कृच्छ्रांदिनियमानाञ्च चान्द्रमानप्रमाणतः ॥”
आभ्यां कार्त्तिकादिस्नाने सौरचान्द्रयोर्व्विकल्पे-
नानुष्ठानम् । तत्र चान्द्रमपि द्बिविधम् । तथा
च विष्णुः ।
“दर्शं वा पौर्णमासीं वा प्रारभ्य स्नानमाचरेत् ।
पुण्यान्यहानि त्रिंशत्तु मकरस्थे दिवाकरे ॥”
दर्शं दर्शान्तयागसम्बन्धिनीं प्रतिपदमारभ्य
त्रिंशत्तिथिम् । नारायणोपाध्यायस्तु दर्शपोर्ण-
मासीति पूर्व्वदिनसङ्कल्पपरमिति । तत्र सौर-
कृत्ये राश्युल्लेखः कार्य्यः ।
“संक्रान्तिविहिते कार्य्ये संक्रान्तिः परि-
कीर्त्तिता ।
मासोल्लेखश्चेतरस्मिन् रविराशिस्थितिस्तथा ॥”
इति गारुडात् ॥ * ॥
ततश्चारुणोदयकाले मज्जनं कृत्वाचम्य उदङ्-
मुखः ॐ तत् सदित्युच्चार्य्य अद्य वैशाखे मासि
अमुकपक्षे अमुकतिथावारभ्य मेषस्थरविं यावत्
प्रत्यहं अमुकगोत्रः श्रीअमुकदेवशर्म्मा श्रीविष्णु-
प्रीतिकामः प्रातःस्नानमहं करिष्ये । इति ।
गङ्गायान्तु अर्द्धप्रसूतगवीलक्षदानजन्यफलसम-
फलप्राप्तिकामो विष्णुप्रीतिकामो वा इति
सङ्कल्प्य यथोक्तविघिना स्नायात् । प्रतिदिन-
सङ्कल्पे तु आरभ्य मेषस्थरविं यावत् प्रत्यह-
मिति न वक्तव्यं किन्तु मासीत्यनन्तरं मेष-
राशिस्थरवौ इत्यधिकं वक्तव्यम् । चान्द्रे तु
मास्यनन्तरं शुक्लपक्षे प्रतिपदि तिथावारभ्य
दर्शपर्य्यन्तमित्यूहनीयम् । प्रतिदिनसङ्कल्पे
त्वारभ्य प्रत्यहमित्यन्तं न वक्तव्यम् । एवं कृष्ण-
प्रतिपदारम्भे ऊहनीयम् । एवं मासान्तरे
चोहनीयम् । सङ्कल्पाकरणे फलहानिमाह
भविष्यपुराणम् ।
“सङ्कल्पेन विना राजन् यत्किञ्चित् कुरुते नरः ।
फलञ्चाल्पाल्पकं तस्य धर्म्मस्यार्द्धक्षयो भवेत् ॥” *
महार्णवे ।
“यो ददाति हि मेषादौ शक्तूनम्बुघटान्वितान् ।
पितॄनुद्दिश्य विप्रेभ्यः सर्व्वपापैः प्रमुच्यते ॥
विप्रेभ्यः पादुकां छत्रं पितृभ्यो विषुवे शुभम् ।”
पितृभ्यः पितॄनुद्दिश्य । अत्र विष्णुरहस्यम् ।
“अयने कोटिगुणितं लक्षं विष्णुपदीषु च ।
षढशीतिसहस्रन्तु षडशीत्यामुदाहृतम् ॥
शतमिन्दुक्षये पुण्यं सहस्रन्तु दिनक्षये ।
विषुवे शतसाहस्रमा-का-मा-वैष्वनन्तकम् ॥”
इति मत्स्यपुराणोक्तशतसहस्रगुणिततत्कर्म्मफल-
जनकत्वेन विवक्षणीयत्वान्मेषादावित्यपि विषुव-
संक्रान्तिपुण्यकालपरम् । अन्यथा कालद्बय-
कल्पनापत्तेः । व्यवहारोऽपि तथा ॥ * ॥ संक्र-
मणपुण्यकालस्तु दिनसंक्रमणे कृत्स्नं दिनम् ।
“षडशीतिमुखेऽतीते वृत्ते च विषुवद्वये ।
भविष्यत्ययने पुण्यमतीते चोत्तरायणे ॥”
इति तु पुण्यतरकालपरं दिनवृत्तोत्तरायणादि-
विहितविंशतिदण्डादीनां रात्रिप्रविष्टभाग-
स्यापि पुण्यत्वम् । रात्रिसंक्रमे तु दण्डन्यून-
प्रथमयामद्बयाभ्यन्तरे तद्दिवसीयशेषयामद्वयं
पुण्यम् । दण्डद्वयात्मकमध्यरात्रे तद्दिवसीय-
तिथेरभेदे तु तद्दिवसीयशेषयामद्वयं पुण्यम् ।
भेदे तु तद्दिवसीयशेषयामद्बयं पुण्यं परदिव-
सीयाद्ययामद्बयञ्च । तिथ्यभेदभेदयोर्दक्षिणायने
तद्दिवसीयशेषयामद्बयम् । उत्तरायणे पर-
दिवसीयशेषयामद्बयम् । दण्डाधिकशेषार्द्ध-
रात्रिसंक्रमणे परदिनाद्ययामद्बयम् । सन्ध्या-
संक्रमणे तु दिनदण्डे दिनस्य रात्रिदण्डे रात्रे-
र्व्यवस्थेति ॥ * ॥ संक्रान्त्यां स्नानमावश्यकम् ।
अनिष्टसंक्रमणे तु तद्दोषशान्त्यर्थं धुस्तूरबीज-
सलिलेन सर्व्वौषधिजलेन च स्नानं विष्णुपूजनं
तन्मन्त्रजपः । संक्रान्तिकाल एव स्त्रीतैलमांस-
वर्ज्यम् । इन्दुक्षयेऽमावास्यायाम् । दिनक्षये तिथि-
क्षये । आ-का-मा-वैषु आषाढकार्त्तिकमाघ-
वैशाखपौर्णमासीषु ॥ * ॥ ततः कृतस्नानादिः
प्राङ्मुख उदङ्मुखं ब्राह्मणं गन्धपुष्पाभ्यां पूज-
यित्वा जलघटान्वितशक्तूंश्च जलघटान्वित-
शक्तुभ्यो नमः इति पूजयित्वा ब्राह्मणहस्ते जलं
दत्त्वा घटं संप्रोक्ष्य वामहस्ते स्पृष्ट्वा कुशत्रय-
तिलजलान्यादाय ॐ तत् सदित्युच्चार्य्य ओम्
अद्यामुके मास्यमुकपक्षेऽमुकतिथौ महाविषुव-
संक्रान्त्यां अमुकगोत्रस्य पितुरमुकदेवशर्म्मणः
सर्व्वपापविमुक्तिकामः एतान् जलघटान्वित-
शक्तून् विष्णुदेवताकान् अमुकगोत्राय अमुक-
देवशर्म्मणे ब्राह्मणाय तुभ्यमहं संप्रददानीति
ब्राह्मणहस्ते जलं दद्यात् ब्राह्मणस्तु दक्षिण-
हस्ततलमध्यभागाग्नेयतीर्थेन ओमित्यनेन गृ-
हीत्वा स्वस्तीत्युक्त्वा गायत्त्रीं कामस्तुतिञ्च पठेत् ।
जलघटान्विताः शक्तवो विष्णुदेवताकाः । इति
वदेत् । ततो दक्षिणां दद्यात् । यथा ॐ अद्ये-
पृष्ठ ४/५२१
त्यादि कृतैतत् जलघटान्वितशक्तुदानकर्म्मणः
प्रतिष्ठार्थं दक्षिणां किञ्चित् काञ्चनमूल्यं ब्राह्म-
णायाहं ददानीति । ततः अच्छिद्रावधारणम् ।
ब्राह्मणविशेषानुपदेशे यथासम्भवगोत्रनाम्ने
ब्राह्मणायेति विशेषः । तत्र ब्राह्मणासन्निधाने
तुभ्यमिति न देयम् । भूमौ त्यागजलप्रक्षेपः ।
एवमन्यत्रापि सम्प्रददे इति वाक्ये विशेषः ।
सत्पात्राभावे तत्सत्त्वेऽपि तत्तत्कामो विष्णुप्रीति-
कामो वा विष्णवे दत्त्वा ब्राह्मणाय पश्चात्
प्रतिपादयेत् ।
“देवे दत्त्वा तु दानानि देवे दत्त्वा तु दक्षिणाम् ।
तत् सर्व्वं ब्राह्मणे दद्यादन्यथा निष्फलं भवेत् ॥”
इति मत्स्यसूक्तात् ॥
दत्त्वेत्यत्र देयानीति वाराहीये पाठः ॥ * ॥
“वैशाखे यो घटं पूर्णं सभोज्यं वै द्विजन्मने ।
ददात्यभुक्त्वा राजेन्द्र स याति परमां गतिम् ॥”
अत्रापि यथायोग्यं संपूज्य पूर्व्ववद्वाक्येन मनो-
रथफलार्थिना सभोज्यघटो देयः ॥ * ॥ स्मृतिः ।
“मेषादौ शक्तवो देया वारिपूर्णा च गर्गरी ॥”
तत्रापि यथायोग्यं संपूज्य पूर्ब्बवत् वाक्यं कृत्वा
पठेत्
“ॐ एष धर्म्मघटो दत्तो ब्रह्मविष्णुशिवात्मकः ।
अस्य प्रदानात् सफला मम सन्तु मनोरथाः ॥”
इति मन्त्रलिङ्गान्मनोरथफलत्वं ज्ञेयम् ॥ * ॥
कृत्यचिन्तामणौ ।
“मसूरं निम्बपत्राभ्यां योऽत्ति मेषगते रवौ ।
अपि रोषान्वितस्तस्य तक्षकः किं करिष्यति ॥”
उत्तरार्द्धे तु ।
“मेषस्थे च विधौ तत्र नास्त्यङ्गे विषजं भयम् ॥”
इति संवत्सरप्रदीपे पाठः ॥
ततश्च मेषस्थरविस्थितिकाले मसूरं निम्बपत्र-
द्वयञ्च भक्षयेत् ॥ * ॥ भविष्ये ।
“या शुक्ला नरशार्दूल वैशाखे मासि वै तिथिः
तृतीया साक्षया ख्याता गीर्व्वाणैरपि वन्दिता ॥
योऽस्यां ददाति करकान् वारिवाजसमन्वितान् ।
स याति पुरुषो वीर लोकान् वै हेममालिनः ॥”
वाजमन्नम् । हेममालिनः सूर्य्यस्य । ततो जलान्न-
समन्वितकरकदाने सूर्य्यलोकगमनं फलम् ।
दानानुष्ठानं पूर्व्ववत् ॥ * ॥ ब्रह्मपुराणम् ।
“वैशाखे शुक्लपक्षे तु तृतीयायां कृतं युगम् ।
कार्त्तिके शुक्लपक्षे च त्रेता च नवमेऽहनि ॥
अथ भाद्रपदे मासि त्रयोदश्यान्तु द्बापरम् ।
माघे तु पौर्णमास्यान्तु घोरं कलियुगं स्मृतम् ॥
युगारम्भास्तु तिथयो युगाद्यास्तेन विश्रुताः ॥”
तत्र वैशाखादयः पौर्णमास्यन्ता एव तथैव
तिथिकृत्याभिधानात् । मुख्यवाचित्वे कार्त्तिके
नवमेऽहनीति सिद्धौ शुक्लपक्ष इति व्यर्थं
स्यात् ॥ * ॥ आसां प्रशंसामाह विष्णुपुराणम् ।
“एता युगाद्याः कथिताः पुराणै-
रनन्तपुण्यास्तिथयश्चतस्रः ।
उपप्लवे चन्द्रमसो रवेस्त्रि-
ष्वप्यष्टकास्वप्ययनद्बये च ॥
पानीयमप्यत्र तिलैश्च मिश्रं
दद्यात् पितृभ्यः प्रणतो मनुष्यः ।
श्राद्धं कृतं तेन समाः सहस्रं
रहस्यमेतत् पितरो वदन्ति ॥”
उपप्लवे ग्रहणे ॥ * ॥ देवीपुराणम् ।
“युगाद्या वर्षवृद्धिश्च सप्तमी पार्व्वतीप्रिया ।
रवेरुदयमीक्षन्ते न तत्र तिथियुग्मता ॥” * ॥
अक्षयतृतीयामधिकृत्य ब्रह्मपुराणम् ।
“तस्यां कार्य्यो यवैर्होमो यवैर्विष्णुं समर्च्चयेत् ।
यवान् दद्यात् द्बिजातिभ्यः प्रयतः प्राशयेद्-
यवान् ॥
पूजयेच्छङ्करं गङ्गां कैलासञ्च हिमालयम् ।
भगीरथञ्च नृपतिं सागराणां सुखावहम् ॥” * ॥
स्कान्दे ।
“वैशाखस्य सिते पक्षे तृतीयाक्षयसंज्ञिता ।
तत्र मां लेपयेद्गन्धैर्लेपनैरतिशोभनैः ॥”
मां जगन्नाथम् ॥ * ॥ अन्यत्रापि ।
तथा च जगन्नाथस्नानमधिकृत्य भविष्ये ।
“संवत्सरफलं राजन् नवम्यां कार्त्तिके तथा ।
मन्वादौ च युगादौ च मासत्रयफलं भवेत् ॥” *
मन्वादयस्तु भविष्यमात्स्ययोः ।
“अश्वयुक्शुक्लनवमी द्वादशी कार्त्तिकी तथा ।
तृतीया चैत्रमासस्य यथा भाद्रपदस्य च ॥
फाल्गुनस्याप्यमावास्या पौषस्यैकादशी तथा ।
आषाढस्यापि दशमी तथा माघस्य सप्तमी ॥
श्रावणस्याष्टमी कृष्णा तथाषाढस्य पूर्णिमा ।
कार्त्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी
सिताः ॥
मन्वन्तरादयस्त्वेता दत्तस्याक्षयकारिकाः ॥”
अमावास्याष्टमीव्यतिरिक्ताः शुक्लाः उपक्रमोप-
संहारयोः शुक्लात्वकीर्त्तनात् ॥ * ॥ नारदीये ।
“वैशाखे शुक्लपक्षे तु द्वादशी वैष्णवी तिथिः ।
तस्यां शीतलतोयेन स्नापयेत् केशवं शुचिः ॥”
इयं पिपीतकद्वादशी । नात्र युग्मादरापेक्षा ।
तत्र विष्णुपूजने उपवासोत्तरविधानात् ॥ * ॥
अथ यवान्नश्राद्धम् । तत्र वैशाखशुक्लपक्षे कुज-
शनिशुक्रेतरवारे नन्दारिक्तात्रयोदशीतरतिथौ
जन्मचन्द्राष्टमचन्द्रजन्मतिथिजन्मनक्षत्रत्रयपञ्च-
मतारात्रयेतरेषु पूर्ब्बफल्गुनीपूर्ब्बभाद्रपदपूर्ब्बा-
षाढामघाभरण्यश्लेषार्द्रेतरनक्षत्रेषु यवश्राद्धं
कर्त्तव्यम् । तच्छेषभोजनन्तु एतादृग्निषिद्धायां
विषुवसंक्रान्तौ अक्षयतृतीयायाञ्च विशेषतः
कर्त्तव्यम् । वैशाखाकरणे ज्यैष्ठशुक्लपक्षे
आषाढशुक्लपक्षे च हरिशयनेतरत्र कर्त्तव्यम् ।
इति कृत्यतत्त्वम् ॥ * ॥ * ॥ अथ वैशाख-
माहात्म्यम् ।
“ये कार्त्तिकव्रतपरा ये माघपरिनिष्ठिताः ।
ये वैशाखव्रतासक्तास्तेषां तुष्टः सदा हरिः ॥
सर्व्वेषामेव मासानां वैशाखः प्रवरः स्मृतः ।
पुरा हरिमुखे राजन् श्रुतमेतन्न संशयः ॥
तत्र स्नानं जपो होमः श्राद्धं दानादि यत्
कृतम् ।
तत् सर्व्वं भूपतिश्रेष्ठ सत्यमक्षयमुच्यते ॥
एकतः सर्व्वतीर्थानि सर्व्वे यज्ञाः सदक्षिणाः ।
भूप वैशाखमासाद्य कोट्यंशेनापि नो समाः ॥
मेरुतुल्यानि हेमानि सर्व्वदानानि चैकतः ।
एकतः सर्व्वदा भूप माधवो माधवप्रियः ॥
असंख्यानि च पापानि वहुजन्मार्ज्जितानि च ।
निमेषार्द्धेन राजेन्द्र विलयं यान्ति माधवे ॥
वैशाखमागतं दृष्ट्वा पितॄणामुत्सवो भवेत् ।
पुत्त्रो नियममाचर्य्य अस्मभ्यमुद्धरिष्यति ॥
आगतं माधवं दृष्ट्वा कम्पन्ते पापसञ्चयाः ।
अस्माकं नाशकालोऽयं भूपते ध्रुवमागतः ॥
वैशाखं परमं मासं माधवस्येति ह प्रियम् ।
नियमेन समाचर्य्य न भूयो जायते नरः ॥
मनसा संस्मरेद्यस्तु नियमं माधवोद्भवम् ।
पूयते पातकैः सर्व्वैः शक्रेण सह मोदते ॥
वचसा यो वदेद्भूप वैशाखं माधवप्रियम् ।
अहं समाचरिष्यामि स गच्छेद्ब्रह्मणः पुरम् ॥
यः समाचरते भूप नियमेन तु माधवम् ।
स विष्णो रूपमासाद्य विष्णुना सह मोदते ॥
नियनेन समाचर्य्य एकाहमपि भूपते ।
पितरस्तारितास्तेन यास्यन्ति परमां गतिम् ॥
तस्मिन् स्नात्वा विशुद्धात्मा दम्भमात्सर्य्यवर्ज्जितः ।
ईप्सितान् लभते कामान् श्रीविष्णोर्दयितो भवेत् ॥
ब्रह्मघ्नो वा कृतघ्नो वा मित्रघ्नस्त्रीविघातकः ।
नियमेन नयेन्मासं स मुक्तः सर्व्वपातकात् ॥
पातकानामेकमेव प्रायश्चित्तं विदुर्ब्बुधाः ।
सर्व्वपापसमुद्भूतौ नात्र कार्य्या विचारणा ॥
वैशाखस्नायिनो लोकाः श्रीविष्णुसेवनोत्सुकाः ।
पापं न तेषां मतिमन्निह लोके परत्र च ॥
सर्व्वस्वदानं विधिवत् सर्व्वदा परिशोधनम् ।
चान्द्रायणञ्च विधिना कृच्छ्रं चैवातिकृच्छ्रकम् ॥
पुण्यक्षेत्राभिगमनं सर्व्वपापप्रणाशनम् ।
देवताभ्यर्च्चनं चैव तथैवातिथिसेवनम् ॥
कदापि यैर्नाचरितं वाङ्मनःकायकर्म्मभिः ।
संप्राप्य ते तु कुर्व्वन्तु माधवे नियमं नराः ॥
समाचरन्ति ये मासं माधवं कृतबुद्धयः ।
सदा प्रीतिमनास्तेषां श्रीकृष्णो देवकीसुतः ॥
या नारी विधावा भूत्वा माधवे नियमं चरेत् ।
कुलायुतसहस्रन्तु नयते परमं पदम् ॥
पुत्त्रेणापीह किं कार्य्यं येन नाचरितं नृप ।
वैशाखं पुत्त्रशतकात् नारी घन्या हरिप्रिया ॥
यो माधवेऽर्च्चयेद्राजन् गोविन्दं गोपवल्लभम् ।
न तस्य विद्यते संख्या पूजनस्य फलस्य च ॥
वैष्णवस्य तु धर्म्मस्य पारं गन्तुं यदीच्छसि ।
नरेन्द्र माधवं मासं नियमेन समाचर ॥
किं करिष्यति सांख्येन योगेन नरनायक ।
मुक्तिमिच्छसि चेद्राजन् माधवं माधवेऽर्च्चय ॥
अभक्षसम्भवं राजन् कुप्रतिग्रहसम्भवम् ।
तत्पापं संक्षयं याति माधवे नियमे कृते ॥
रणे यदि रिपुं जेतुं त्वमिच्छसि नराधिप ।
नियमेन तदा विष्णोः प्रियं माधवमाचर् ॥
यदि सांसारिकं दुःखं हन्तुमिच्छसि भूमिप ।
पृष्ठ ४/५२२
तदा नियममास्थाय माधवे माधवं भज ॥
राज्यभोगांश्च विपुलान् पुत्त्रमित्रादिसम्पदम् ।
यदिच्छसि तदा विष्णोः प्रियं माधवमाचर ॥
त्यक्तुमिच्छसि राजेन्द्र जन्ममृत्युजरादिकम् ।
भयं यदि तदा विष्णोः प्रियं माधवमाचर ॥
यैर्नाचरितो मासो माधवः पापबुद्धिभिः ।
नरकान्न निवर्त्तन्ते दग्धाः कोपाग्निना हरेः ॥
न वैशाखसमो मासो विशेषः केशवप्रियः ।
अव्रतेन क्षिपेद्यस्तु तं विद्यान्निकषात्मज ॥
यतिश्च विधवा चैव विशेषेण वनाश्रमी ।
वैशाखे नरकं याति ह्यकृत्वा नियमं नरः ॥
तस्माद्राजन् प्रयत्नेन कुरु त्वं माधवव्रतम् ।
यस्याचरणमात्रेण हरिस्तुष्टो भविष्यति ॥
तावद्गर्जन्ति पुण्यानि स्वर्गे मर्त्ये रसातले ।
यावन्नायाति राजेन्द्र माधवो माधवप्रियः ॥
अणुमात्रन्तु यत्किञ्चिद्यो ददाति च माधवे ।
काले वा यदि वाकाले कोटिकोटिगुणं भवेत् ॥
ययोदधीनां राजर्षे ! क्षयो नैवोपपद्यते ।
तथैव माधवे मासि न क्षयं प्रापपुण्ययोः ॥
नाचारि धर्म्माचरणेन माधवं
नाराधितो यैः पुरुषप्रधानः ।
यैर्न श्रुता भूप कथा मुरारे-
स्तेषां वृथा जन्म नराधमानाम् ॥
न पीडयन्ति ग्रहराक्षसा गणा
यक्षाः पिशाचोरगभूतदानवाः ।
यो माधवे मासि नरेन्द्रवर्य्य
ध्रुवं मुरारेर्व्रतमाचरन्ति ह ॥”
इति पाद्मोत्तरखण्डे वैशाखमाहात्म्यकथने १६८
अध्यायः ॥

वैशाखी, स्त्री, (विशाखया युक्ता पौर्णमासी ।

“नक्षत्रेण युक्तः कालः ।” ४ । २ । ३ । इत्यण् ।
ततो ङीप् ।) वैशाखमासस्य पूर्णिमा । यथा,
“विशाखातारकायुक्ता वैशाखी पूर्णिमा
भवेत् ।”
इति शब्दरत्नावली ॥
तत्र तर्पणफलम् । वैशाखीमुपक्रम्य यमः ।
“गौरान् वा यदि वा कृष्णान् तिलान् क्षौद्रेण
संयुतान् ।
प्रीयतां धर्म्मराजेति पितॄन् देवांश्च तर्पयेत् ॥
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ।
अब्दायुतञ्च तिष्ठेत्तु स्वर्गलोके न संशयः ॥”
इति तिथ्यादितत्त्वम् ॥ * ॥
रक्तपुनर्नवा । इति राजनिर्घण्टः ॥ (वसुदेवस्य
स्त्रीणामन्यतमा । यथा, हरिवंशे । ३५ । २ ।
“वैशाखी च तथा भद्रा सुनामा चैव
पञ्चमा ॥”)

वैशिकः, पुं, (वेशेन जीवतीति । वेश + “वेतना-

दिभ्यो जीवति ।” ४ । ४ । १२ । इति ठक् ।)
त्रिविधनायकान्तर्गतनायकविशेषः । यथा, --
शृङ्गारस्य उभयसाध्यत्वान्नायकोऽपि निरूप्यते ।
स च त्रिविधः । पतिरुपपतिर्व्वैशिकश्च । बहु-
वेश्याभोगोपरसिको वैशिकः । यथा, --
“काञ्चीकलक्वणितकोमलनाभिकान्तिं
पारावतध्वनिविचित्रितकण्ठपालिम् ।
उद्भ्रान्तलोचनचकोरमनङ्गरङ्ग-
माशास्महे कमपि वारविलासवत्याः ॥” * ॥
वैशिकस्तूत्तममध्यमाधमभेदात् त्रिविधः । दयिता-
श्रमप्रकोपे अपि उपचारपरायणः उत्तमः ।
यथा, --
“चक्षुःप्रान्तमुदीक्ष्य पक्ष्मलदृशः शोणारविन्द-
श्रियं
नोच्चैर्जल्पति न स्मितं वितनुते गृह्णाति वीढीं
न वा ।
तल्पोपान्तमुपेत्य किन्तु पुलकभ्राजत्कपोलद्युतिः
कान्तः केवलमानतेन शिरसा मुक्तास्रजं
गुम्फति ॥” * ॥
प्रियायाः प्रकोपे यः प्रकोपमनुरागं वा न
प्रकटयति चेष्टया मनोभावं गृह्णाति स मध्यमः ।
यथा, --
“आस्यं यद्यपि हास्यवर्ज्जितमिदं लास्येन हीनं
वचो
नेत्रं शोणसरोषकान्तिरुचिरे क्वापि क्षणं
स्थीयते ।
मालायाः करणोद्यमो न कविकारम्भः कुचा-
म्भोजयो-
र्घूपः कुन्तलधोरणीषु सुतनोः सायन्तनो
दृश्यते ॥” * ॥
भयकृपालज्जाशून्यः कामक्रीडायामकृतकृत्या-
कृत्यविचारोऽधमः । यथा, --
“उदयति हृदि नैव यस्य लज्जा
न च करुणा न च कोऽपि भीतिलेशः ।
वकुलमुकुलकोषकोमलां मां
पुनरपि तस्य करेण सातयेथाः ॥” * ॥
मानी चतुरः शठ एवान्तर्भवति । मानी यथा,
“बाह्याकूतपरायणं तव वचो वज्रोपमेयं मनः
श्रुत्वा वाचमिमामपास्य विनयं व्याजाद्बहिः
प्रस्थिते ।
प्रातर्व्वक्रविलोकने परिहृतालापे विवृत्तानने
प्राणेशे नियतं पतन्ति कृपणा वामभ्रुवो
दृष्टयः ॥”
वाक्चेष्टाव्यङ्ग्यसमागमश्चतुरः । वचनव्यङ्ग्य-
समागमो यथा, --
“तमोजटाले हरिदन्तराले
काले निशायास्तव निर्गतायाः ।
तटे नदीनां निकटे वनानां
घटेत शातोदरि ! कः सहायः ॥”
चेष्टाव्यङ्गसमागमो यथा, --
“कान्ते कनकजम्बीरं करे कमपि कुर्व्वति ।
अगारलिखिते भानौ बिन्दुमिन्दुमुखी ददौ ॥”
इति रसमञ्जरी ॥
(वेशसम्बन्धिनि, त्रि । यथा, मृच्छकटिके ।
१ अङ्के ।
“ऋग्वेदं सामवेदं गणितमथ कलां वैशिकीं
हस्तिशिक्षां
ज्ञात्वा शर्व्वप्रासादात् व्यपगततिमिरे चक्षुषी
चोपलभ्य ॥”)

वैशिष्टं, क्ली, (विशिष्टस्य भावः ।) विशिष्टत्वम् ।

तत्तु सम्बन्धपदार्थः । विशिष्टधीनियामक इति
यावत् । यथा । “विशिष्टवैशिष्टेत्याद्यभ्युपगम-
वादः ।” इति शिरोमणिः ॥ दण्डसंयोगवान् इति
शाब्दबोधो न विशिष्टवैशिष्टावगाही । खले
कपोतन्यायेनैव तत्स्वीकारात् । इति भावः ।
इति जागदीशी सामान्यलक्षणा ॥ * ॥
(असाधारणत्वम् । यथा, महाभारते । १३ ।
१५९ । ४१ ।
“त्रिषु लोकेषु तावच्च वैशिष्टं प्रतिपत्स्यसे ।
सुप्रियः सर्व्वलोकस्य भविष्यसि जनार्द्दन ॥”)

वैशेषिकः, पुं, (विशेषं वेत्ति अधीते वा । विशेष +

ठक् ।) कणादमुनिकृतदर्शनशास्त्रवेत्ता । तत्-
पर्य्यायः । औलुक्यः २ । इति हेमचन्द्रः ॥
(विशेषमधिकृत्य कृतो ग्रन्थः । विशेषः + “अधि-
कृत्यकृते ग्रन्थे ।” ४ । ३ । ८७ । इति ठक् ।)
कणादमुनिकृतदर्शनशास्त्रविशेषः । स तु विशेष-
पदार्थनिरूपकग्रन्थः । अस्य मतं न्यायदर्शनमत-
तुल्यम् । अत्र जगतः कारणं परमाणुपर्य्यन्तं
निरूपितम् ॥ * ॥ इह खलु निखिलप्रेक्षावन्-
निसर्गप्रतिकूलवेदनीयतया निखिलात्मसंवेदन-
सिद्धं दुःखं जिहासतस्तद्धानोपायं जिज्ञासुः
परमेश्वरसाक्षात्कारमुपायमाकलयति ।
“यदा चर्म्मवदाकाशं वेष्टयन्तीह मानवाः ।
तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति ॥”
इत्यादिवचननिचयप्रामाण्यात् । परमेश्वरस्य
साक्षात्कारश्च श्रवणमननभावनाभिर्भावनीयः ।
यदाह ।
“आगमेनानुमानेन ध्यानाभ्यासबलेन च ।
त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तमम् ॥”
इति ॥
तत्र मननमनुमानाधीनम् । अनुमानञ्च व्याप्ति-
ज्ञानाधीनम् । व्याप्तिज्ञानञ्च पदार्थविवेकसा-
पेक्षम् । अतः पदार्थषट्कम् “अथातो धर्म्मं
व्याख्यास्यामः ।” इत्यादिकायां दशलक्षण्यां
कणभक्षेण भगवता व्यवस्थापि । तत्राह्निकद्बया-
त्मके प्रथमेऽध्याये समवेताशेषपदार्थकथनम-
कारि । तत्रापि प्रथमाह्रिके जातिमन्निरूपणम् ।
द्वितीयाह्रिके जातिविशेषयोर्निरूयणम् ।
आह्निकद्वयात्मके द्बितीये भूतदिक्काललक्षणम् ।
तत्रापि प्रथमाह्निके भूतविशेषलक्षणम् । द्बितीये
दिक्कालप्रतिपादनम् । आह्निकद्वयात्मके तृतीये
आत्मान्तःकरणलक्षणम् । तत्राप्यात्मलक्षणं
प्रथमे । द्वितीये अन्तःकरणलक्षणम् । आह्निक-
द्वययुक्ते चतुर्थे शरीरतदुपयोगिविवेचनम् ।
तत्रापि प्रथमे तदुपयोगिविवेचनम् । द्बितीये
शरीरविवेचनम् । आह्रिकद्वयवति पञ्चमे कर्म्म-
प्रतिपादनम् । तत्रापि प्रथमे शरीरसम्बन्धि-
कर्म्मचिन्तनम् । आह्रिकद्वयशालिनि षष्ठे
श्रौतधर्म्मनिरूपणम् । तत्रापि प्रथमे दानप्रति-
पृष्ठ ४/५२३
ग्रहधर्म्मविवेकः । द्वितीये चातुराश्रम्योचित-
धर्म्मनिरूपणम् । तथाविधे सप्तमे गुणसमवाय-
प्रतिपादनम् । तत्रापि प्रथमे बुद्धिनिरपेक्षगुण-
प्रतिपादनम् । द्वितीये तत्सापेक्षगुणप्रतिपादनं
समवायप्रतिपादनञ्च । अष्टमे निर्व्विकल्पक-
सविकल्पकप्रत्यक्षप्रमाणचिन्तनम् । नवमे बुद्धि-
विशेषप्रतिपादनम् । दशमे अनुमानप्रतिपाद-
नम् । तत्र उद्देशो लक्षणं परीक्षा चेति
त्रिविधास्य शास्त्रस्य प्रवृत्तिः । इति वैशेषिक-
ग्रन्थविवरणम् ॥ * ॥
(न्यायमते आत्मादिगतपारिभाषिकगुणः । यथा,
भाषापरिच्छेदे ।
“बुद्ध्यादिषट्कं स्पर्शान्ताः स्नेहः सांसिद्धिको-
द्रवः ।
अदृष्टभावना शब्दा अमी वैशेषिका गुणाः ॥”
विशेष एव । “विनयादिभ्यष्ठक् ।” ५ । ४ ।
३४ । इति स्वार्थे ठक् ॥ असाधारणे, त्रि ।
यथा, महाभारते । ७ । ५ । १५ ।
“युगपन्नतु ते शक्या कर्त्तुं सर्व्वे पुरःसरा ।
एक एव तु कर्त्तव्यो यस्मिन् वैशेषिका गुणाः ॥”)

वैश्यः, पुं, (विश् + ष्यञ् ।) ब्रह्मोरुदेशजाततृतीय-

वर्णः । (यथा, ऋग्वेदे । १० । ९ । १२ ।
“ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः ।
ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥”)
तत्पर्य्यायः । ऊरव्यः २ ऊरुजः ३ अर्य्यः ४
भूमिस्पृक् ५ विट् ६ । इत्यमरः ॥ द्विजः ७ ।
इति जटाधरः ॥ भूमिजीवी ८ । इति शब्द-
रत्नावली ॥ व्यवहर्त्ता ९ वार्त्तिकः १० बणिकः
११ पणिकः १२ । इति राजनिर्घण्टः ॥ प्लक्ष-
द्बीपे अस्य संज्ञा ऊर्द्ध्वायनः । शाल्मलद्बीपे
वसुन्धरः । कुशद्वीपे अभियुक्तः । क्रौञ्चद्बीपे
द्रविणः । शाकद्बीपे दानव्रतः । पुष्करद्बीपे
सर्व्वे एकवर्णाः । इति भागवतमतम् ॥ अस्य
शास्त्रनिरूपितधर्म्मास्त्रयः । अध्ययनम् १ यज-
नम् २ दानम् ३ । चतस्रो जीविकाः । कृषिः १
गोरक्षणम् २ बाणिज्यम् ३ कुशीदम् ४ ।
अस्याश्रमास्त्रयः । ब्रह्मचर्य्यम् १ गार्हस्थ्यम् २
बानप्रस्थम् ३ ॥ तस्य लक्षणादिर्यथा, --
“विशत्याशु पशुभ्यश्च कृष्यादानरुचिः शुचिः ।
वेदाध्ययनसम्पन्नः स वैश्य इति संज्ञितः ॥
वैश्यस्य च प्रवक्ष्यामि यो धर्म्मो वेदसम्मतः ।
दानमध्ययनं शौचं यज्ञश्च धनसञ्चयः ॥
पालयेच्च पशून् वैश्यः पितृवद्धर्म्ममर्ज्जयन् ।
विकर्म्म तद्भवेदन्यत् कर्म्म यत् स समाचरेत् ॥
रक्षया स हि तेषां वै महत् सुखमवाप्नुयात् ।
प्रजापतिर्हि वैश्याय सृष्ट्वा परिददे प्रजाः ॥
ब्राह्मणेभ्यश्च राज्ञे च सर्व्वाः परिददे प्रजाः ।
तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम् ॥
षण्णामेका पिबेद्धेनुं शताच्च मिथुनं भवेत् ।
लब्धाच्च सप्तमं भागं तथा शृङ्गैकलक्षुरे ॥
शस्यानां सर्व्वबीजानि एषा सांवत्सरी भृतिः ।
न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति ॥
वैश्ये रक्षति नान्येन रक्षितव्याः कथञ्चन ॥”
इति पाद्मे स्वर्गखण्डे वर्णविभागः २६ अः ॥
अन्यच्च ।
“दानमध्ययनं यज्ञो धर्म्मः क्षत्त्रियवैश्ययोः ।
दण्डस्तथा क्षत्त्रियस्य कृषिर्वैश्यस्य शस्यते ॥
स्थानमैन्द्रं क्षत्त्रियाणां संग्रामेष्वपलायिनाम् ।
वैश्यानां मारुतं स्थानं स्वधर्म्ममनुवर्त्तताम् ॥”
इति गारुडे ४९ अध्यायः ॥
(वैश्यसम्बन्धिनि, त्रि । यथा, महाभारते ।
१२ । ६२ । ४ ।
“क्षात्त्राणि वैश्यानि च सेवमानः
शौद्राणि कर्म्माणि च ब्राह्मणः सन् ।
अस्मिल्लोके निन्दितो मन्दचेताः
परे च लोके निरयं प्रयाति ॥”)

वैश्या, स्त्री, (वैश्य + टाप् ।) वैश्यजातिस्त्री ।

तत्पर्य्यायः । अर्य्याणी २ अर्य्या ३ । इति जटा-
धरः ॥ (यथा, मनौ । ८ । ३८२ ।
“वैश्यश्चेत् क्षत्त्रियां गुप्तां वैश्यां वा क्षत्त्रियो
व्रजेत् ॥”)

वैश्रवणः, पुं, (विश्रवणस्यापत्यम् । “शिवादिभ्यो-

ऽण् ।” ४ । १ । ११२ । इति अण् ।) कुबेरः ।
इत्यमरः ॥ (यथा, महाभारते । २ । १० । २ ।
“तपसा निर्म्मिता राजन् स्वयं वैश्रवणेन
सा ॥”
शिवः । यथा, महाभारते । १३ । १७ । १०३ ।
“धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा ॥”)

वैश्रवणालयः, पुं, (वैश्रवणस्यालयः ।) वटवृक्षः ।

इति हेमचन्द्रः ॥ (यथा, देवीभागवते । ७ ।
३० । ८१ ।
“अश्वत्थे वन्दनीया तु निधिर्वैश्रवणालये ॥”)
कुबेरपुरी च ॥

वैश्रवणावासः, पुं, (वैश्रवणस्यावासः ।) वट-

वृक्षः । इति जटाधरः ॥ कुबेरगृहञ्च ॥

वैश्रवणोदयः, पुं, (वैश्रवणस्योदयो यस्मिन् ।)

वटवृक्षः । इति रत्नमाला ॥

वैश्वदेवः, पुं, (विश्वदेवस्यायम् । विश्वदेव + अण् ।)

विश्वदेवसम्बन्धिहोमादिः । यथा, --
ब्रह्मोवाच ।
“वैश्वदेवं प्रवक्ष्यामि होमलक्षणमुत्तमम् ।
पर्य्युक्षणमग्निं पर्य्युक्ष्य । क्रव्यादमग्निं प्रहिणोमि
दूरं यमराज्यं गच्छतु रिप्रवाहः । इहैवाय-
मितरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानन् ।
ॐ पावक वैश्वानर इदमासनम् । अवनीगर्भ-
संस्कृतः तेजोरूपो महाब्रह्मन्नमुहूर्त्तास्त्रिषु
वैश्वानरं प्रतिबोधयामि । वैश्वानरोऽत्र उभयं
प्रायातु परावतः । अग्निर्नः मुष्णतीरुपपृष्टे
दिवि पृष्टोऽग्निः पृथिव्यां पृष्टो विश्वा ओषधी-
राविवेश । वैश्वानरः सहसा पृष्टोऽग्निः स
वोऽग्निः खं दिवा सर्व्वस्मात्तु नक्तं ॐ प्रजापतये
स्वाहा । सोमाय स्वाहा । बृहस्पतये स्वाहा ।
अग्नीषोमाभ्यां स्वाहा । इन्द्राग्नीभ्यां स्वाहा ।
द्यावापृथिवीभ्यां स्वाहा । धन्वन्तरये स्वाहा ।
इन्द्राय स्वाहा । विश्वेभ्यो देवेभ्यः स्वाहा
भूः स्वाहा । भुवः स्वाहा । स्वः स्वाहा । भूर्भुव
स्वः स्वाहा । देवकृतस्यैनसोऽवयजनमसि
स्वाहा । मनुष्यकृतस्यैनसोऽवयजनमसि स्वाहा ।
पितृकृतस्यैनसोऽवयजनमसि स्वाहा । आत्म-
कृतस्यैनसोऽवयजनमसि स्वाहा । एनस एनसो-
ऽवयजनमसि स्वाहा । यच्चाह मे विद्वांश्चकार
यच्चाविद्वांस्तस्य सर्व्वस्यैनसोऽवयजनमसि
स्वाहा । अग्नये स्विष्टिकृते स्वाहा । सूर्य्याय
स्वाहा । प्रजापतये स्वाहा । वनस्पतये स्वाहा ।
अद्भ्यः स्वाहा । ओषधिवनष्पतिभ्यः स्वाहा ।
गृहाय स्वाहा । देहदेवताभ्यः स्वाहा । वास्तु-
देवताभ्यः स्वाहा । इन्द्राय स्वाहा । इन्द्र-
पुरुषेभ्यः स्वाहा । यमाय स्वाहा । यमपुरुषेभ्यः
स्वाहा । वरुणाय स्वाहा । वरुणपुरुषेभ्यः
स्वाहा । सोमाय स्वाहा । सोमपुरुषेभ्यः
स्वाहा । ब्रह्मणे स्वाहा । ब्रह्मपुरुषेभ्यः स्वाहा ।
विश्वेभ्यो देवेभ्यः स्वाहा । सर्व्वेभ्यो भूतेभ्यः
स्वाहा । दिवारात्रिभ्यः स्वाहा । रक्षोभ्यः
स्वाहा । स्वधा पितृभ्यः स्वाहा । ये भूताः
प्रचरन्ति दिवा चरन्ति दिवाचरमिच्छन्तो
भुवनस्य मध्ये तेभ्यो बलिं पुष्टिकामो ददामि ।
मयि पुष्टिं पुष्टिपतिर्ददातु । श्वचाण्डालपतित-
वायसेभ्यः ।” इति गारुडे वैश्वदेवविधिः २१९
अध्यायः ॥ * ॥ तस्य प्रयोगो यथा । पूर्व्वाभि-
मुखः शुचिरुपवीती कुशहस्तः कुशासनोपविष्टः
कर्त्ता घृताक्तं दुग्धाक्तं तैलाक्तं जलाक्तं अन्नं
आमान्नं वा फलं जलं वा जुहुयात् । यथा जले
ॐ भूः स्वाहा । ॐ भुवः स्वाहा । ॐ स्वः
स्वाहा । ॐ भूर्भुवः स्वः स्वाहा । ॐ देव-
कृतस्यैनसोऽवयजनमसि स्वाहा । ॐ पितृ-
कृतस्यैनसोऽवयजनमसि स्वाहा । ॐ मनुष्य-
कृतस्यैनसोऽवयजनमसि स्वाहा । ॐ आत्म-
कृतस्यैनसोऽवयजनमसि स्वाहा । ॐ यद्दिवा
च नक्तञ्चैनश्चकृम तस्यावयजनमसि स्वाहा ।
ॐ यत् स्वपन्तश्च जाग्रतश्चैनश्चकृम तस्याव-
यजनमसि स्वाहा । ॐ यद्विद्वांसश्चाविद्बांस-
श्चैनश्चकृम तस्यावयजनमसि स्वाहा । ॐ एनसः
एनसोऽवयजनमसि स्वाहा । ॐ अग्नये स्विष्टि-
कृते स्वाहा । इत्यनेन जुहुतात् । इति वैश्व-
देवकर्म्म । इत्याह्रिकप्रयोगतत्त्वम् ॥
(विश्वदेव एव । स्वार्थे अण् । गणदेवताविशेषः ।
बन्धुभिरकृतविवादस्यैव वैश्वदेवलोकप्राप्तिः ।
यथा, मनौ । ४ । १८३ ।
“यामयोऽप्सरसां लोके वैश्वदेवस्य बान्धवाः ।
सम्बन्धिनो ह्यपां लोके पृथिव्यां मातृमातुलौ ॥”
विश्वदेवसम्बन्धिनि, त्रि । यथा, महाभारते ।
१२ । ३०१ । ८ ।
“आसुरान् विषयान् ज्ञात्वा वैश्वदेवांस्तथेव
च ॥”)

वैश्वानरः, पुं, (विश्वश्चासौ नरश्चेति । “नरे

संज्ञायाम् ।” ६ । ३ । १२९ । इति दीर्घः । ततो
पृष्ठ ४/५२४
विश्वानर एव । स्वार्थे अण् । यद्वा, “विश्वान्
नरान् इतो लोकात् लोकान्तरं नयति । इद-
मर्थेन विश्वानराणां नेतृत्वेन सम्पद्यन्ते वा
कर्म्मार्थप्रणेतृत्वेन सम्पादिनोऽस्य वैश्वानरः ।
‘अन्येषामपि दृश्यते ।’ ६ । ३ । १३७ । इति
दीर्घः । अपि वा विश्वान् जन्तून् अरः । ऋ
गतौ इत्यस्य छान्दसत्वात् पदाद्यच् उपपदविभ-
क्तेश्चालुक् । सर्व्वाणि भूतानि अरः प्रत्यृतः
प्रतिगतः प्रविष्टति विश्वानरः प्राणः । तेन
जन्यमानत्वात् तस्यापत्यं वैश्वानरः ॥” इति
निघण्टुटीकायां देवराजयज्वा । ५ । १ ।) अग्निः ।
(यथा, गीतायाम् । १५ । १४ ।
“अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापानसमायुक्तः पचाभ्यन्नं चतुर्व्विधम् ॥”)
चित्रकवृक्षः । इत्यमरः ॥ अग्नेस्तन्नामकारणं
यथा, --
“तथापि दद्मि वो रूपे द्वे द्बे प्रत्येकशोऽधुना ।
भूतकार्य्येष्वभूतेन देवलोके तु मूर्त्तिना ॥
तिष्ठध्वमपि कालान्ते लयं त्वाविशत् द्रुतम् ।
शरीराणि पुनर्न्नैवं कर्त्तव्योऽहमिति क्वचित् ॥
मूर्त्तानाञ्च तथा तुभ्यं दद्मि नामानि वोऽधुना ।
अग्निर्व्वैश्वानरो नाम प्राणापानौ तथाश्विनौ ॥
भविष्यति तथा गौरी हिमशैलसुता तथा ।
पृथिव्यादिगणस्त्वेष गजवक्त्रो भविष्यति ॥
शरीरधातवस्त्वेते नानाभूतानि एव तु ।
अहङ्कारस्तथा स्कन्दः कार्त्तिकेयो भविष्यति ॥”
इति वाराहे आदित्रेतायां महातपोपाख्यान-
नामाध्यायः ॥

वैश्वी, स्त्री, उत्तराषाढानक्षत्रम् । इतिहेमचन्द्रः ॥

वैषम्यं, क्ली, (विषम + भावे ष्यञ् ।) विषमत्वम् ।

विषमशब्दात् भावे ष्ण्यप्रत्ययेन निष्पन्नम् ॥
(नतोन्नतत्वम् । यथा, महाभारते । १२ ।
५९ । ११४ ।
“समतां वसुधायाश्च स सम्यगुदपादयत् ।
वैषम्यं हि परं भूमेरासीदिति च नः श्रुतम् ॥”
तारतम्यम् । यथा, महाभारते । ३ । २०८ । २१ ।
“महच्च फलवैषम्यं दृश्यते कर्म्मसन्धिषु ॥”
दुःखम् । यथा, तत्रैव । ३ । ६१ । २० ।
“वैषम्यं परमं प्राप्तो दुःखितो गतचेनतः ।
भर्त्ता तेऽहं निबाधेदं वचनं हितमात्मनः ॥”)

वैषयिकः, त्रि, विषयसम्बन्धी । विषयशब्दात् ष्णिक-

प्रत्ययेन निष्पन्नः ॥ (यथा, साहित्यदर्पणे । ३ ।
२४० ।
“यश्चाम्मिन् सुखाभावोऽप्युक्तस्तस्य वैषयिक-
सखपरत्वान्न विरोधः ॥”)

वैष्टुतं, क्ली, होमभस्म । इति हेमचन्द्रः ॥

वैष्ट्रं, क्ली, (विश + “भ्रम्जिगमिनमिहनिविश्यशां

वृद्धिश्च ।” उणा० ४ । १५९ । इति ष्ट्रन्
वृद्धिश्च ।) पिष्टपम् । इत्युणादिकोषः ॥ द्यौः ।
वायुः । विष्णुः । इति संक्षिप्तसारोणादिवृत्तिः ॥

वैष्णवं, क्ली, (विष्णोरिदम् । विष्णु + अण् ।)

होमभस्म । इति शब्दरत्नावली ॥ (महापुराण-
विशेषः । यथा, देवीभागवते । ३ । १ । ८ ।
“त्रयोविंशतिसाहस्रं वैष्णवं परमाद्भुतम् ॥”)
विष्णुसम्बन्धिनि, त्रि ॥ (यथा, रघुः । ११ । ८५ ।
“गां गतस्य तव धाम वैष्णवं
कोपितो ह्यसि मया दिदृक्षुणा ॥”)

वैष्णवः, पुं, (विष्णुर्द्देवता अस्य । अण् ।) विष्णु-

मन्त्रोपासकः । विष्णुभक्तः । तत्पर्य्यायः । कार्ष्णः
२ हारः ३ । तस्य लक्षणं यथा, --
“गृहीतविष्णुदीक्षाको विष्णुसेवापरो नरः ।
वैष्णवश्चात्र संग्राह्यः स्कान्दाद्युक्तानुसारतः ॥”
तथा च स्कान्दे ।
“परमापदमापन्नो हर्षे वा समुपस्थिते ।
नैकादशीं त्यजेद्यस्तु यस्य दीक्षास्ति वैष्णवी ॥
समात्मा सर्व्वजीवेषु निजाचारादविप्लुतः ।
विष्ण्वर्पिताखिलाचारः स हि वैष्णव उच्यते ॥”
इति श्रीहरिभक्तिविलासे १२ विलासः ॥ * ॥
अथ श्रीवैष्णवनिन्दादिदोषः । स्कान्दे मार्कण्डेय-
भगीरथसंवादे ।
“यो हि भागवतं लोकमुपहासं नृपोत्तमः ।
करोति तस्य नश्यन्ति अर्थधर्म्मयशःसुताः ॥” *
अथ वैष्णवसमागमविधिः । तेजोद्रविणपञ्च-
रात्रे ।
“वैष्णवो वैष्णवं दृष्ट्वा दण्डवत् प्रणमेद्भुवि ।
उभयोरन्तरा विष्णुः शङ्खचक्रगदाधरः ॥” * ॥
अथ वैष्णवसन्मानननित्यता । स्कान्दे श्रीमार्क-
ण्डेयभगीरथसंवादे ।
“दृष्ट्वा भागवतं दूरात् संमुखे यो न याति हि ।
न गृह्णाति हरिस्तस्य पूजां द्वादशवार्षिकीम् ॥”
अथ वैष्णवस्तुतिः । स्कान्दे ।
“धन्योऽहं कृतकृत्योऽहं यद्यूयं गृहमागताः ।
दुर्ल्लभं दर्शनं नूनं वैष्णवानां यथा हरेः ॥” * ॥
अथ वैष्णवाभिगमनमाहात्म्यम् । स्कान्दे
श्रीमार्कण्डेयभगीरथसंवादे ।
“संमुखं व्रजमानस्य वैष्णवानां नराधिप ।
पदे पदे यज्ञफलं प्राहुः पौराणिका द्बिजाः ॥”
अथ वैष्णवस्तुतिमाहात्म्यम् । तत्रैव ।
“प्रत्यक्षं वा परोक्षं वा यः प्रशंसति वैष्णवम् ।
ब्रह्महा मद्यपः स्तेयी गुरुगामी सदा नृणाम् ।
मुच्यते पातकात् सद्यो विष्णुराह नृपोत्तम ॥” *
अथ वैष्णवसम्माननमाहात्म्यम् । तत्रैवामृत-
सारोद्धारे ।
“श्रद्धया दत्तमन्नञ्च वैष्णवाग्निषु जीर्य्यति ।
तदन्नं मेरुणा तुल्यं भवते च दिने दिने ॥” * ॥
अथ वैष्णवशास्त्रमाहात्म्यम् । स्कान्दे श्रीब्रह्म-
नारदसंवादे ।
“वैष्णवानि च शास्त्राणि ये शृण्वन्ति पठन्ति च ।
धन्यास्ते मानवा लोके तेषां कृष्णः प्रसीदति ॥”
इति च श्रीहरिभक्तिविलासे १० विलासः ॥
तस्य लक्षणमाहात्म्यादि यथा, --
“फलसन्धानरहिता विष्णुभक्ताश्च वैष्णवाः ।
मत्प्रीतिभक्तिकामास्ते सर्व्वदा सर्व्वकर्म्मसु ॥
गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे प्रवेक्ष्यति ।
जीवन्मुक्तं वैष्णवन्तं वेदाः सर्व्वे वदन्ति च ॥
पुरुषाणां शतं पूर्व्वं पैतृकञ्च शतं परम् ।
मातामहस्य च शतं मातरं मातृमातरम् ॥
भगिनीं भ्रातरञ्चैव भागिनेयञ्च मातुलम् ।
श्वश्रूञ्च श्वशुरञ्चैव गुरुपत्नीं गुरोः सुतम् ॥
गुरुञ्च ज्ञानदातारं मित्रञ्च सहचारिणम् ।
भृत्यं शिष्यं तथा चेटीं प्रजाः स्वाश्रमसन्निधौ ॥
उद्धरेदात्मना सार्द्धं मन्त्रग्रहणमात्रतः ।
मन्त्रग्रहणमात्रेण जीवन्मुक्तो भवेन्नरः ॥
तस्य संस्पर्शमात्रेण पूतं तीर्थञ्च भारतम् ।
तस्यैव पादरजसा सद्यः पूता वसुन्धरा ॥
पादोदकप्लुतं स्थानं तीर्थमेव भवेत् घ्रुवम् ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ८ अध्यायः ॥ * ॥
अपि च ।
श्रीशिव उवाच ।
“शिवमस्तु च साधूनां वैष्णवानां सतामिह ।
अवैष्णवानामसतामशिवञ्च पदे पदे ॥
ददाति वैष्णवेभ्यश्च यो दुःखं मूर्च्छितो जनः ।
श्रीकृष्णस्य च संहर्त्ता विघ्नस्तस्य पदे पदे ॥
अवैष्णवानां हृदयं न हि शुद्धं सदा मलम् ।
श्रीकृष्णमन्त्रस्मरणं मनोनैर्म्मल्यकारणम् ॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्व्वसंशयाः ।
विष्णुमन्त्रोपासनया क्षीयते कर्म्म वै नृणाम् ॥
ये ब्राह्मणा वैष्णवाश्च स्वतन्त्राः परमं पदम् ।
यान्त्यन्योपासकाश्चान्यैः सार्द्धञ्च प्रकृतेर्लये ॥
वर्णानां ब्राह्मणाः श्रेष्ठाः साधवो वैष्णवा यदि ।
विष्णुमन्त्रविहीनेभ्यो द्बिजेभ्यः श्वपचो वरः ॥
परिपक्वाश्चाविपक्वा वैष्णवाः साधवश्च ते ।
सन्ततं पतितांश्चैव विष्णुचक्रं सुदर्शनम् ॥
यथा वह्रौ शुष्कतृणं भस्मीभूतं भविष्यति ।
तथा पापं वैष्णवेषु तेजम्विषु हुताशनात् ॥
गुरुवक्त्वाद्विष्णुमन्त्रो यस्य कर्णे प्रवेक्ष्यति ।
तं वैष्णवं महापूतं प्रवदन्ति मनीषिणः ॥
प्रशंसितं पितॄणाञ्च शतं मातामहस्य च
स्वसोदरांश्च जननीमुद्धरन्त्येव वैष्णवाः ॥
गयायां पिण्डदानेन पिण्डदाः पिण्डभोजिनम् ।
समुद्धरन्ति पुंसाञ्च वैष्णवाश्च शतं शतम् ॥
मन्त्रग्रहणमात्रेण जीवन्मुक्तो भवेन्नरः ।
यमस्तस्मान्महाभीतो वैनतेयाद्यथोरगः ॥
निष्पुणन्त्येव तीर्थानि गङ्गादीनि च भारते ।
कृष्णमन्त्रोपासकाश्च स्पर्शमात्रेण वाक्पते ॥
पापानि पापिनां तीर्थे यावन्ति प्रभवन्ति च ।
नश्यन्ति तानि सर्व्वाणि वैष्णवस्पर्शमात्रतः ॥
कृष्णमन्त्रोपासकानां रजसा पादपद्मयोः ।
सद्यो मुक्ता पातकेभ्यो हृष्टा पूता वसुन्धरा ॥
वायुश्च वरुणो वह्निः सूर्य्यः सर्व्वं पुनाति च ।
एते पूता वैष्णवानां स्पर्शमात्रेण लीलया ॥
अहं ब्रह्मा च शेषश्च साक्षी धर्म्मश्च कर्म्मणाम् ।
एते हृष्टाश्च वाञ्छन्ति वैष्णवानां समागमम् ॥
फलं कर्म्मानुसारेण सर्व्वेषां भारते भवेत् ।
न भवेत्तद्वैष्णवे च सिद्धधान्ये यथाङ्कुरम् ॥
हन्ति तेषां कर्म्म पूर्व्वं भक्तानां भक्तवत्सलः ।
पृष्ठ ४/५२५
कृपया स्वपदं तेभ्यो ददात्येव कृपानिधिः ॥”
इति ब्रह्मवैबर्त्ते प्रकृतिखण्डे ५७ अध्यायः ॥ * ॥
अन्यच्च ।
श्रीभगवानुवाच ।
“अहं प्राणा वैष्णवानां मम प्राणाश्च वैष्णवाः ।
तानेव द्वेष्टि यो मूढो ममासूनां स हिंसकः ॥
पुत्त्रान् पौत्त्रान् कलत्रांश्च राजलक्ष्मीं विधाय च ।
ध्यायन्ते सन्ततं ये मां को मे तेभ्यः परः प्रियः ॥
परा भक्ता नु मे प्राणा न च लक्ष्मीर्न शङ्करः ।
न भारती न च ब्रह्मा न दुर्गा न गणेश्वरः ॥
न ब्राह्मणा न वेदाश्च न वेदजननी सुराः ।
न गोपी न च गोपाला न राधा प्राणतः प्रिया ॥
इत्येवं कथितं सर्व्वं सत्यं सारञ्च वास्तवम् ।
न प्रशंसापरं तेषां ते च प्राणाधिकाः प्रियाः ॥
मां द्बिषन्ति च ये मूढा ज्ञानहीनाश्च वञ्चिताः ।
स्वात्मानञ्च न जानन्ति ते यान्ति निरयं चिरम् ॥
ये द्बिषन्ति च मद्भक्तान् प्राणानामधिकप्रियान् ।
तेषां शास्ताहं तूर्णञ्च परत्र निरयं चिरम् ॥
प्रभवोऽहञ्च सर्व्वेषामीश्वरः परिपालकः ।
तथापि न स्वतन्त्रोऽहं भक्ताधीनो दिवानिशम् ॥
गोलोके वाथ वैकुण्ठे द्बिभुजञ्च चतुर्भुजम् ।
रूपमात्रमिदं सर्व्वं प्राणा मे भक्तसन्निधौ ॥
यद्भक्तं भक्तदत्तञ्च भक्षणीयञ्च तन्मम ।
अभक्ष्यं द्रव्यमन्येन दत्तञ्चेदमृतोपमम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २५ अध्यायः ॥
अपि च ।
“सर्व्वान् कामान् परित्यज्य इष्टभक्तिञ्च साधयेत्
स एव वैष्णवाचारः कामसङ्कल्पवर्ज्जितः ॥”
इत्याचारभेदतन्त्रम् ॥ * ॥
अपरञ्च ।
“रजस्वलायाः संभोगे कर्म्मक्षेत्रे च भारते ।
त्वयोक्तञ्च भवेत् पापं नात्र स्वर्गे च सुन्दरि !
कर्म्मक्षेत्रे च तत् कर्म्म यद्वेदोक्तं शुभाशुभम् ॥
न भवेद्वैष्णवानाञ्च ज्वलतां ब्रह्मतेजसा ॥
यथा प्रदीपवह्रौ च शुष्काणि च तृणानि च ।
भवन्ति भस्मीभूतानि तथा पापानि वैष्णवे ॥
वह्रिसूर्य्यब्राह्मणेभ्यस्तेजीयान् वैष्णवः सदा ।
रक्षितो विष्णुचक्रेण स्वतन्त्रो मत्तकुञ्जरः ॥
न विचारो न भोगश्च वैष्णवानां स्वकर्म्मणाम् ।
लिखितं साम्नि कौथुम्यां कुरु प्रश्नं बृहस्मतिम् ॥
अस्मांश्च सर्व्वे जानन्ति चन्द्रवंश्यांश्च वैष्णवान् ।
देवमन्यं न सेवन्ते चन्द्रवंश्या हरिं विना ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ६ अध्यायः ॥
अपि च ।
सूत उवाच ।
“अथ वेण इयाजाथ सोऽश्वमेधेन भूपतिः ।
ब्राह्मणेभ्यो ददौ दानं नानारूपमनेकधा ॥
जगाम वैष्णवं लोकं सकायो जगतीपतिः ।
विष्णुना सह धर्म्मात्मा नित्यमेव प्रवर्त्तते ।
एतत्ते सर्व्वमाख्यातं चरितं तस्य भूपतेः ॥
यद्वेणो वैष्णवद्वेषी सर्व्वघर्म्मबहिष्कृतः ।
पृथुना पुत्त्रतीर्थेन पवित्रोऽगात् परं पदम् ॥
सत्पुत्त्रं परमं तीर्थं प्राप्य मुच्यन्ति पूर्ब्बजाः ।
पितापि ऋणमुक्तः स्यात् जाते पुत्त्रे महात्मनि ॥
वैष्णवो यदि पुत्त्रः स्यात् स तारयति पूर्ब्बजान् ।
पितॄनधस्तना वंशास्तारयन्त्यतिपावनाः ॥”
इति पाद्मे भूमिखण्डे १२० अध्यायः ॥ * ॥
अथ वैष्णवधर्म्मतत्कर्त्तव्यपञ्चविधपूजे । यथा, --
श्रीपार्व्वत्युवाच ।
“वैष्णवानाञ्च यद्धर्म्मं कर्म्मापि तस्य तद्बद ।
यत् कृत्वा मानवाः सर्व्वे भवाम्भोधौ तरन्ति वै ॥
ईश्वर उवाच ।
अथ द्बादश शुद्धिञ्च वैष्णवानामिहोच्यते ।
गृहोपसर्पणञ्चैव तथानुगमनं हरेः ॥
भक्त्या प्रदक्षिणञ्चैव पादयोः शोधनं पुनः ॥ १ ॥ २
पूजार्थं पत्रपुष्पाणां भक्त्यैवोत्तोलनं हरेः ।
करयोः सर्व्वशुद्धीनामियं शुद्धिर्विलिख्यते । ३ । ४ ॥
तन्नामकीर्त्तनञ्चैव गुणानाञ्चैव कीर्त्तनम् ।
भक्त्या श्रीकृष्णदेवस्य वचसः शुद्धिरिष्यते ॥ ५ ॥
तत्कथाश्रवणञ्चैव तस्योत्सवनिरीक्षणम् ।
श्रोत्रयोर्नेत्रयोश्चैव शुद्धिः सम्यगिहोच्यते । ६ ।
७ । ८ । ९ ॥
पादोदकञ्च निर्म्माल्यं मालानामपि धारणम् ।
उच्यते शिरसः शुद्धिः प्रणतस्य हरेः पुनः ॥ १० ॥
आघ्राणं गन्धपुष्पादेर्निर्माल्यस्य तपोधने ।
विशुद्धिः स्यादनन्तस्य घ्राणस्यापि विधीयते । ११ ।
१२ ॥
तत्र पुष्पादिकं यच्च कृष्णपादयुगार्पितम् ।
तदेव पावनं लोके तद्धि सर्व्वं विशोधयेत् ॥ * ॥
पूजा च पञ्चधा प्रोक्ता तासां भेदान् शृणुष्व
मे ।
अभिगमनमुपादानं योगः स्वाध्याय एव च ॥
इष्टाः पञ्चप्रकारार्च्चाः क्रमेण कथयामि ते ।
तत्राभिगमनं नाम देवतास्थानमार्जनम् ॥
उपलेपननिर्म्माल्यदूरीकरणमेव च । १ ।
उपादानं नाम गन्धपुष्पादिचयनं यथा ॥ २ ॥
इष्टा नाम हि चेष्ठादेः पूजनञ्च यथार्थतः । ३ ।
स्वाध्यायो मन्त्रराजस्य अर्थसन्धानतो जपः ॥
सूक्तस्तोत्रादिपाठश्च हरेः संकीर्त्तनं तथा ।
तन्नामशास्त्राभ्यासश्च स्वाध्यायः परिकीर्त्तितः ॥
४ ॥
योगो नाम सुदेबस्य चात्मने यैव भावना । ५ ।
इति पञ्चप्रकारार्च्चाः कथितास्तव सुव्रते ॥”
इति पाद्मे पातालखण्डे १० अध्यायः ॥ * ॥
अथ वैष्णवानां खाद्याखाद्यम् ।
“सायं प्रातर्द्विजातीनां श्रुत्युक्तमशनं तथा ।
विष्णुभुक्तावशिष्टेन दिनपापात् प्रमुच्यते ॥
अन्नं ब्रह्मा रसो विष्णुः खादयन्नाम चोच्चरन् ।
एवं ज्ञात्वा तु यो भुङ्क्ते सोऽन्नदोषैर्न लिप्यते ॥
अलावुं वर्त्तुलाकारं मसूरञ्च सवल्कलम् ।
तालं शुक्लन्तु वार्त्ताकुं न स्वादेद्वैष्णवो जनः ॥
वटाश्वत्थार्कपत्रेषु कुम्भीतिभ्दुकपत्रयोः ।
कोविदारकदम्बे च न खादेद्वैष्णवो नरः ॥
श्रावणे वर्जयेच्छक्तुं दधि भाद्रपदे त्यजेत् ।
दुग्धन्तु आश्विने मासि कार्त्तिके चामिषं
त्यजेत् ॥
दुग्धमन्नञ्च जम्बीरं यद्विष्णोरनिवेदितम् ।
बीजपूरञ्च शाकञ्च प्रत्यक्षलवणन्तथा ॥
यदि दैवाच्च भुज्यन्ते तदा तन्नामकं स्मरेत् ॥
कलायं कङ्गुधान्यानि शाकञ्च हिलमोचिकाम् ।
षष्टिकाकालशाकञ्च मुस्तकं क्रमुकं तथा ॥
लवणे सैन्धवं प्रोक्तं वचा च दधिसर्पिषी ।
पयोऽनुद्धृतसारञ्च पनसाम्रे हरीतकी ॥
पिप्पलीजीरकञ्चैव नागरङ्गकतिन्तिडी ।
कदलीलवलीधात्रीफलान्यगुडमैक्षवम् ।
अतैलपक्वं भुञ्जीत हविष्येषु प्रचक्षते ॥”
इति पाद्मे पातालखण्डे ११ अध्यायः ॥ * ॥
अथ वैष्णवलक्षणविशेषादिः ।
“माहात्म्यमथ भक्तानां यत् कार्य्यं यच्च लक्ष-
णम् ।
करणीयं हरेर्विप्र सावधानमनाः शृणु ॥
हरिरेव सदा सेव्यो नान्यो यस्य महात्मनः ।
लोकस्य जगदाराध्यो हरिभक्तः स उच्यते ॥
अनन्यनिर्म्माल्यभुजो भक्तास्तेऽनन्यमानसाः ।
गोविन्दोपासका ये तु नित्यं देवान्तरं विना ॥
अनन्यधिषणोऽनन्यहृदयोऽनन्यसेवकः ।
केवलं हरिसेव्यङ्ग स भक्तः परिकीर्त्तितः ॥
सत्त्वं सत्त्वाश्रयं सत्त्वगुणं सेवेत केशवम् ।
योऽनन्यत्वेन मनसा सात्त्वतः समुदाहृतः ॥
सर्व्वदेवान् परित्यज्य नित्यं भगवदाश्रयः ।
रतस्तदीयसेवायां स भागवत उच्यते ॥
विहाय काम्यकर्म्मादीन् भजेदेकाकिनं हरिम् ।
सत्यं सत्त्वगुणोपेतो भक्त्या तं सात्त्वतं विदुः ॥
मुकुन्दपादसेवायां तन्नामश्रवणेऽपि च ।
कीर्त्तने च रतो भक्तो नाम्नः स्यात् स्मरणे
हरेः ॥
वन्दनार्च्चनयोर्भक्तिरनिशं दास्यसख्ययोः ।
रतिरात्मार्पणे यस्य दृढानन्तस्य सात्त्वतः ॥
स्मर्त्तव्यः कीर्त्तनीयश्च श्रोतव्यः पूज्य एव च ।
यस्यैको विष्णुराराध्यो वैष्णवः समुदाहृतः ॥
यथालब्धोऽपि सन्तुष्टः समचित्तो जितेन्द्रियः ।
हरिपादाश्रयो लोके विप्राः साधुरनिन्दकः ॥
निर्व्वैरः सदयः शान्तो दम्भाहङ्कारवर्जितः ।
निरपेक्षो मुनिर्वीतरागः साधुरिहोच्यते ॥
लोभमोहमदक्रोधकामादिरहितः सुखी ।
कृष्णाङ्घ्रिशरणः साधुः सहिष्णुः समदर्शनः ॥
यद्विष्णूपासना नित्यं विष्णुर्यस्येश्वरो मुने ।
पूज्यो यस्यैकविष्णुः स्यादिष्टो लोके स वैष्णवः ।
हरेः सर्व्वावताराणां मत्स्यादीनामुपासकाः ।
तन्मन्त्रेष्टा अनन्याश्चेद्वैष्णवास्ते न संशयः ॥
यदिष्टो रघुनाथस्तु नृसिंहो वामनो हरिः ।
एतन्मन्त्रो वराहादिर्वासुदेवः स वैष्णवः ॥
विष्णोरुपासको दासस्तन्मन्त्रेष्टस्तदाशयः ।
तमाहुर्वैष्णवं लोके विष्णुसेवापरायणम् ॥
साध्वी यथा पतिं नारी नान्यं जानाति तं
विना ।
पृष्ठ ४/५२६
जगदीशं तथानन्यो यदि विष्णुं स वैष्णवः ॥
समचित्तो मुनिः पूतो गोविन्दचरणाश्रयः ।
सर्व्वभूतदयः कार्ष्णो विवेकी साधुरुत्तमः ॥
कृष्णार्पितप्राणशरीरबुद्धिः
शान्तेन्द्रियस्त्रीसुतसम्पदादिः ।
आसक्तचित्तः श्रवणादिभक्ति-
ष्वस्येह साधुः सततं हरेर्यः ॥
कृष्णाश्रयः कृष्णकथानुरक्तः
कृष्णेष्टमन्त्रस्मृतिपूजनीयः ।
कृष्णानिशध्यानमनास्त्वनन्यो
यो वै स साधुर्मुनिवर्य्य कार्ष्णः ॥
यस्येष्टं श्रीभागवतं शास्त्रं श्रीभगवान् हरिः ।
भगवत्या समं लक्ष्म्या भक्त्या भागवतश्च सः ॥
ये कृष्णश्रवणाद्यर्हा ये तदुच्छिष्टभोजिनः ।
ये कृष्णोपासका लोका दासास्ते परि-
कीर्त्तिताः ॥”
इति पाद्मे उत्तरखण्डे ९९ अध्यायः ॥ * ॥
अपि च ।
ब्रह्मोवाच ।
“अहो ध्यानैरपि ध्यातुं देवैस्त्वं न हि शक्यसे ।
स त्वं वैष्णवदेहेषु तिष्ठसीत्यद्भुतं महत् ॥
क्षणमात्रमपि स्वामिंस्तुष्टे त्वयि न किं भवेत् ।
स त्वं वैष्णवसङ्गेन भ्रमसीत्यद्भुतं महत् ॥
के वैष्णवाः कैटभारे ! किं वा तेषाञ्च लक्षणम् ।
कथं ज्ञेयाश्च ते सर्व्वे तन्मे कथय केशव ॥
भगवानुवाच ।
वैष्णवानां लक्षणानि कल्पकोटिशतैरपि ।
सम्यग्वक्तुं न शक्नोमि संक्षेपात् शृणु सत्तम ॥
संसारो वैष्णवाधीनो देवा वैष्णवपालिताः ।
अहञ्च वैष्णवाधीनस्तस्मात् श्रेष्ठाश्च वैष्णवाः ॥
क्षणमात्रमपि ब्रह्मन् विहाय वैष्णवं जनम् ।
तिष्ठामि नाहमन्यत्र वैष्णवो मम बान्धवः ॥
कामक्रोधविहीना ये हिंसादम्भविवर्ज्जिताः ।
लोभमोहविहीनाश्च ते ज्ञेया वैष्णवा जनाः ॥
अमत्सरा दयायुक्ताः सर्व्वभूतहितैषिणः ।
सत्योक्तिभाषिणश्चैव ज्ञेयास्ते वैष्णवा जनाः ॥
पितृभक्ता मातृभक्ता जातिपोषणतत्पराः ।
धर्म्मोपदेशिनो ये च ज्ञेयास्ते वैष्णवा जनाः ॥
समानं ये च पश्यन्ति त्वाञ्च माञ्च महेश्वरम् ।
कुर्व्वन्ति पूजामतिथेर्ज्ञेयास्ते वैष्णवा जनाः ॥
वेदविद्यानुरक्ता ये द्बिजभक्तिरताः सदा ।
नपुंसकाः परस्त्रीषु ज्ञेयास्ते वैष्णवा जनाः ॥
एकादशीव्रतं ये च भक्तिभावेन कुर्व्वते ।
गायन्ति मम नामानि ज्ञेयास्ते वैष्णवा जनाः ॥
देवायतनकर्त्तारस्तुलसीमाल्यधारिणः ।
रुद्राक्षधारिणो ये च ज्ञेयास्ते वैष्णवा जनाः ॥
मत्पादसलिलैर्येषां सिक्तानि मस्तकानि वै ।
मम नैवेद्यमश्रन्ति ज्ञेयास्ते वैष्णवा जनाः ॥
शङ्खचक्रगदापद्मैरङ्कितानि ममायुधैः ।
ब्रह्मन् येषां शरीराणि ज्ञेयास्ते वैष्णवा जनाः ॥
कर्णयोश्चैव शीर्षेषु तुलसीपत्रमुत्तमम् ।
सततं दृश्यते येषां ज्ञेषास्ते वैष्णवा जनाः ॥
तृणानि तुलसीमूलाद्ये चिन्वन्ति नरोत्तमाः ।
सिञ्चन्ति बुलसीं ये च विज्ञेयास्ते च वैष्णवाः ॥
तुलसीमूलमृद्भिश्च तिलकानि नयन्ति ये ।
तुलसीकाष्ठपङ्कैश्च विज्ञेया वैष्णवा जनाः ॥
गङ्गास्नानपरा ये च गङ्गानामपरायणाः ।
गङ्गामाहात्म्यवक्तारो विज्ञेयास्ते च वैष्णवाः ॥
धात्रीफजस्रजो येषां गलेषु कमलासन ।
यजन्ति ये च तत्पत्रैर्व्विज्ञेयास्ते च वैष्णवाः ॥
शालग्रामशिला येषां गृहे वसति सर्व्वदा ।
शास्त्रं भागवतञ्चैव ज्ञेयास्ते वैष्णवा जनाः ॥
सन्मार्जयन्ति ये नित्यं मम स्थानानि सर्व्वदा ।
दीपं यच्छन्ति तत्रैव ज्ञेयास्ते वैष्णवा जनाः ॥
शीर्ण्णं मन्मन्दिरं ये च कुर्व्वते नूतनं पुनः ।
तत्रायनञ्च शोभाञ्च ज्ञेयास्ते वैष्णवा जनाः ॥
अभयं ये च यच्छन्ति भीरुभ्यश्चतुरानन ।
विद्यादानञ्च विप्रेभ्यो ज्ञेयास्ते वैष्णवा जनाः ॥
क्षुत्तृट्प्रपीडितेभ्यश्च ये यच्छन्त्यन्नमम्बु च ।
कुर्य्युर्ये रोगिशुश्रूषां ज्ञेयास्ते वैष्णवा जनाः ॥
आरामकारिणो ये च पिप्पलारोपिणोऽपि च ।
गोसेवां ये च कुर्व्वन्ति ज्ञेयास्ते वैष्णवा जनाः ॥
अत्यन्तभक्ता ये ब्रह्मन् पितृयज्ञं प्रकुर्व्वते ।
कुर्व्वन्ति दीनशुश्रूषां ज्ञेयास्ते वैष्णवा जनाः ॥
तडागग्रामकर्त्तारः कन्यादानप्रदाश्च ये ।
सेवन्ते स्वगुरौ ये च ज्ञेयास्ते वैष्णवा जनाः ॥
सेवन्ते ज्येष्ठांभगिनीं ज्येष्ठं भ्रातरमेव च ।
परनिन्दां न कुर्व्वन्ति ज्ञेयास्ते वैष्णवा जनाः ॥
देवस्वं ब्राह्मणद्रव्यं परस्वञ्च चतुर्म्मख ।
पश्यन्ति विषवद्ये च ज्ञेयास्ते वैष्णवा जनाः ॥
पाषण्डसङ्गरहिताः शिवभक्तिपरायणाः ।
चतुर्द्दशीव्रतरता ज्ञेयास्ते वैष्णवा जनाः ॥
बहुनात्र किमुक्तेन भाषितेन पुनः पुनः ।
मदर्च्चां ये च कुर्व्वन्ति ज्ञेयास्ते बष्णवा जनाः ॥
वैष्णवेषु मुणाः सर्व्वे दोषलेशो न विद्यते ।
तस्माच्चतुर्मुख त्वञ्च वैष्णवो भव साम्प्रतम् ॥
समाराधय मां नित्यं क्रियायोगैः प्रजापते ।
सर्व्वमेव सुभद्रं ते भविष्यति न संशयः ॥
भूयः पूर्व्वस्थितमिव सृज्यतां सकलं जगत् ।
इत्युक्त्रान्तर्द्दधे देवस्तत्रैव जगदीश्वरः ॥
ततस्तु पूर्व्ववद्ब्रह्म सृष्टवान् सकलं जगत् ।
क्रियायोगैर्हरिं यष्ट्वा जगाम परमं पदम् ॥
ये पठन्ति ममाध्यायं भक्त्या नारायणाग्रतः ।
सर्व्वपापविनिर्म्मुक्ता अन्ते यान्ति हरेः पदम् ॥”
इति पाद्मे क्रियायोगसारे २ अध्यायः ॥ * ॥
कालिङ्ग उवाच ।
“जातिस्मरेण कथितो रहस्यः परमो मम ।
यमकिङ्करयोर्योऽभूत् संवादस्तं ब्रवीमि ते ॥
स्वपुरुषमभिवीक्ष्य पाशहस्तं
वदति यमः किल तस्य कर्णमूले ।
परिहर मधुसूदनप्रपन्नान्
प्रभुरहमन्यनृणां न वैष्णवानाम् ॥”
इति श्रीविष्णुपुराणे तृतीयेऽंशे यमगीतं ७
अध्यायः ॥ * ॥ अपि च ।
“कर्म्मक्षयाणि कर्म्माणि यतः साधुर्हरिः
स्वयम् ।
मन्ये न भौतिको देहो वैष्णवस्य जगत्त्रये ॥”
इति कल्किपुराणे ३० अध्यायः ॥

वैष्णवाचमनं, क्ली, (वैष्णवस्याचमनम् ।) विष्णु-

पूजादिपूर्ब्बकर्त्तव्यकर्त्तृसं स्कारकाङ्ग--ॐकारादि-
नमोऽन्तचतुर्थ्यन्ततत्तन्नामोच्चारणपूर्ब्बकत्रिर्ज्जल-
पानादि । यथा, --
“त्रिःपाने केशवं नारायणं माधवमप्यथ ।
प्रक्षलने द्बयोः पाण्योर्गोविन्दं विष्णुमप्युभौ ॥
मधुसूदनमेकञ्च मार्ज्जनेऽन्यं त्रिविक्रमम् ।
उन्मार्ज्जनेऽप्यधरयोर्व्वामनश्रीधरावुभौ ॥
प्रक्षालने पुनः पाण्योर्हृषीकेशञ्च पादयोः ।
पद्मनामं प्रोक्षणे तु मूर्द्ध्नि दामोदरं ततः ॥
वासुदेवं मुखे सङ्कर्षणं प्रद्युम्नमित्युभौ ।
नासयोर्नेत्रयुगलेऽनिरुद्धं पुरुषोत्तमम् ॥
अधोक्षजं नृसिंहञ्च कर्णयोर्नाभितोऽच्युतम् ।
जनार्द्दनञ्च हृदये उपेन्द्रं मस्तके ततः ॥
दक्षिणे तु हरिं बाहौ वामे कृष्णं यथाविधि ।
नमोऽन्तञ्च चतुर्थ्यन्तमाचामेत् क्रमतो जपन् ॥
अशक्तः केवलं दक्षं स्पृशेत् कर्णं तथा च वाक् ॥
कुर्व्वीतालभनं वापि दक्षिणश्रवणस्य वै ॥”
तथा च वाक् इति यतस्तथैव वचनमस्ति ।
कुर्व्वीतालभनं वापीति मार्कण्डेयपुराणवचन-
मतो न पौनरुक्तम् । इति श्रीहरिभक्तिविलासे
३ विलासः ॥

वैष्णवाचारः, पुं, (वैष्णवानामाचारः ।) विष्णु-

भक्तानामाचरणम् । यथा, --
“अथाचारा बहुविधाः शिष्टाचारानुसारतः ।
श्रीवैष्णवानां कर्त्तव्या लिख्यन्तेऽत्र समासतः ॥”
अथाचाराः श्रीविष्णुपुराणे और्व्वसगरसंवादे
गृहस्थाचारकथनारम्भे ।
“देवगोब्राह्मणान् सिद्धान् वृद्धाचार्य्यांस्तथा-
र्च्चयेत् ।
द्विकलञ्च नमेत् सन्ध्यामग्नीनुपचरेत्तथा ॥
सदानुपहते वस्त्रे प्रशस्ताश्च तथौषधीः ।
गारुडानि च रत्नानि विभृयात् प्रयतो नरः ॥
प्रसिद्धामलकेशश्च सुगन्धिश्चारुवेशधृक् ।
किञ्चित् परस्वं न हरेत् नाल्पमप्यप्रियं वदेत् ।
प्रियञ्च नानृतं ब्रूयान्नान्यदोषानुदीरयेत् ।
नान्याश्रयं तथा वैरं रोचयेत् पुरुषेश्वरः ॥
न दुष्टयानमारोहेत् कुलच्छायां न संश्रयेत् ।
विद्बिष्टपतितोन्मत्तबहुवैरातिकीटकैः ॥
बन्धकीबन्धकीभर्त्तृक्षुद्रानृतकथैः सह ।
तथातिव्ययशीलैश्च परिवादरतैः शठैः ॥
बुधो मैत्रीं न कुर्व्वीत नैकः पन्थानमाश्रयेत् ।
नावगाहेज्जलौघस्य वेगमग्रे जनेश्वर ॥
प्रदीप्तं वेश्म न विशेन्नारोहेच्छिखरं तरोः ।
न कुर्य्याद्दन्तसङ्घर्षं न कृष्णीयाच्च नासिकाम् ।
नासंवृतमुखो जृम्भेत् श्वासकासौ विवर्ज्जयेत् ।
नोच्चैर्हसेत् सशब्दञ्च न मुञ्चेत् पवनं त्वधः ॥
नखान्न वादयेच्छिन्द्यान्न तृणं न महीं लिखेत् ।
पृष्ठ ४/५२७
न श्मश्रु भक्षयेल्लोष्ट्रान्न गृह्णीयाद्विचक्षणः ॥
ज्योतींष्यमेध्याशस्तानि नाभिवीक्षेत च प्रभो ।
न हुङ्कुर्य्याच्छवं चैव शवगन्धो हि सोमजः ॥
चतुष्पथं चैत्यतरुं श्मशानोपवनानि च ।
दुष्टस्त्रीसन्निकर्षञ्च वर्ज्जयेन्निशि सर्व्वदा ॥
पूज्यदेवद्बिजज्योतिश्छायां नातिक्रमेद्बुधः ।
नैकः शून्याटवीं गच्छेन्न च शून्यं गृहं व्रजेत् ॥
केशास्थिकण्ठकामेध्यबलिभस्मतुषांस्तथा ।
स्नानार्द्रां धरणीं चैव दूरतः परिवर्ज्जयेत् ॥
नानार्य्यानाश्रयेत् कांश्चिन्न जिह्मं रोचयेद्बुधः ।
उपसर्पेन्न च व्यालांश्चिरं तिष्ठेन्न चोत्थितः ॥
यथेष्टभोजकांश्चैव तथा देवपराङ्मुखान् ।
वर्णाश्रमक्रियातीतान् दूरतः परिवर्ज्जयेत् ॥
अतीवजागरस्वप्नौ तद्बत् स्थानासने बुधः ।
न सेवेत तथा शय्यां व्यायामञ्च नरेश्वर ॥
दंष्ट्रिणः शृङ्गिणश्चैव प्राज्ञो दूरेण वर्ज्जयेत् ।
अवश्यायञ्च राजेन्द्र पुरोवातातपौ तथा ॥
न स्नायान्न स्वपेन्नग्नो न चेवोपस्पृशेद्बुधः ।
मुक्तकच्छश्च नाचामेद्देवाद्यर्च्चाञ्च वर्ज्जयेत् ॥
नैकवस्त्रः प्रवर्त्तेत द्विजवाचनके जपे ॥” * ॥
किञ्च ।
“न च निर्धूनयेत् केशान्नाचामेन्नैव चोत्थितः ।
पादेन नाक्रमेत् पादं न पूज्याभिमुखं नयेत् ॥
अपसव्यं नैव गच्छेद्देवागारचतुष्पथान् ।
मङ्गल्यपूज्यांश्च तथा विपरीतान्न दक्षिणाम् ॥
सोमार्काग्न्यम्बुवायूनां पूज्यानाञ्च न संमुखम् ।
कुर्य्यात् ष्ठीवनविण्मूत्रसमुत्सर्गञ्च पण्डितः ॥
तिष्ठन्न मूत्रयेत्तद्वत् पन्थानं नावमूत्रयेत् ।
श्लेष्मविण्मूत्ररक्तानि सर्व्वदैव न लङ्घयेत् ॥
श्लेष्मष्ठीवनकोत्सर्गो नान्नकाले प्रशस्यते ।
वलिमङ्गलजप्यादौ न होमे न महाजने ॥
योषितो नावमन्येत न चासां विश्वसेद्बुधः ।
न चैवेर्षी भवेत्तासु नाधिकुर्य्यात् कदाचन ॥
मङ्गल्यपुष्परत्नाज्यपूज्याननभिवाद्य च ।
न निष्क्रामेत् गृहात् प्राज्ञः सदाचारपरो नरः ॥
आकालगर्ज्जितादौ तु पर्व्वस्वशौचकादिषु ।
अनध्यायं बुधः कुर्य्यादुपरागादिके तथा ॥
वर्षातपादिके च्छत्री दण्डी रात्र्यटवीषु च ।
शरीरत्राणकामो वै सोपानत्कः सदा व्रजेत् ॥
नोर्द्धं न तिर्य्यक् दूरं वा निरीक्षन् पर्य्यटेद्बुधः ।
युगमात्रं महीपृष्ठं नरो गच्छेद्बिलोकयन् ॥” * ॥
किञ्च ।
“प्रियमुक्तं हितं नैतदिति मत्वा न तद्वदेत् ।
श्रेयस्तद्रहितं वाच्यं यद्यप्यत्यन्तमप्रियम् ॥
प्राणिनामुपकाराय यदेवेह परत्र च ।
कर्म्मणा मनसा वाचा तदेव मतिमान्
भजेत् ॥” * ॥
बृहन्नारदीये सदाचारप्रसङ्गे ।
“असावहमिति ब्रूयाद्द्विजो वै ह्यभिवादने ।
श्राद्धं व्रतं जपं दानं देवताभ्यर्च्चनं तथा ॥
यज्ञञ्च तर्पणञ्चैव कुर्व्वन्तं नाभिवादयेत् ।
तथा स्नानं प्रकुर्व्वन्तं धावन्तमशुचिन्तथा ॥
भुञ्जानञ्च शयानञ्च अभ्यक्तशिरसन्तथा ।
भिक्षान्नधारिणं चैव रमन्तं जलमध्यगम् ॥
कृताभिवादनो यो न कुर्य्यात् प्रत्यभिवादनम् ।
नाभिवाद्यः स विज्ञेयो यथा शूद्रस्तथैव सः ॥” *
मार्कण्डेयपुराणे मदालसालर्कसंवादे ।
“असत्प्रलापमनृतं वाक्पारुष्यञ्च वर्ज्जयेत् ।
असच्छास्त्रमसद्वादमसत्सेवाञ्च पुत्त्रक ॥
केशप्रसाधनादर्शदर्शनं दन्तधावनम् ।
पूर्च्चाह्ण एव कार्य्याणि देवतानाञ्च तर्पणम् ॥
उदक्यादर्शनं स्पर्शं वर्जेत् सभाषणं तथा ।
न चाभीक्ष्णं शिरःस्नानं कुर्य्यान्निष्कारणं नरः ॥
शिरःस्नातश्च तैलेन नाङ्गं किञ्चिदपि स्पृशेत् ।
पन्था देयो ब्राह्मणानां राज्ञो दुःखातुरस्य च ॥
विद्याधिकस्य गुर्व्विण्या भारार्त्तस्य महीयसः ।
मूकान्पवधिराणाञ्च मत्तस्योन्मत्तकस्य च ॥
पुश्चल्याः कृतवैरस्य बालस्य पतितस्य च ।
उपानद्बस्त्रमाल्यानि धृतान्यन्यैर्न धारयेत् ॥
उपवीतमलङ्कारं करकञ्चैव वर्जयेत् ।
न क्षिप्तबाहुजङ्घश्च प्राज्ञस्तिष्ठेत् कदाचन ॥
न चापि विक्षिपेत् पादौ वाससी न च धूनयेत् ।
मूर्खोन्मत्तव्यसनिनो विरूपान् मायिनस्तथा ॥
न्यूनाङ्गानधमांश्चैव नोपहासेन्न दूषयेत् ।
परस्य दण्डं नोद्यच्छेत् शिक्षार्थं पुत्त्रशिष्ययोः ॥
नानुलेपनमादद्यादस्नातः स्नातकी क्वचित् ।
न चापि रक्तवासाः स्याच्चित्रवासधरोऽपि वा ॥
क्षुरकर्म्माणि चान्ते च स्त्रीसम्भोगे च पुत्त्रक ।
स्नायीत तैलवान् प्राज्ञः कटभूमिमुपेत्य च ।
युगपज्जलमग्निञ्च विभृयान्न विचक्षणः ॥”
कटमूमिं श्मशानम् ।
“नाचक्षीत धयन्तीं गां जलं नाञ्जलिना
पिबेत् ॥”
धयन्तीं पिबन्तीम् ।
“शौचकालेषु सर्व्वेषु गुरुष्वल्पेषु वा पुनः ।
न विलम्बेत शौचार्थं न मुखेनानलं धमेत् ॥
विप्रुषो मक्षिकाद्याश्च दुष्टसङ्गाददोषिणः ।
अजाश्वौ मुखतो मेध्यौ न गोर्व्वत्सस्य चाननम् ॥
मातुः प्रस्नवने मेध्यं शकुनिः फलपातने ।
उदक्याशौचिलग्नांश्च सूतिकान्त्यावसायिनः ।
स्पृष्ट्वा स्नायीत शौचार्थं तथैव मृतहारिणः ॥
नारं स्पृष्ट्वास्थि सस्नेहं स्नातः शुध्यति मानवः ।
आचम्यैव तु निःस्नेहं गामालभ्यार्कमीक्ष्य वा ॥
न चालपेत् जनं द्बिष्टं वीरहीनां तथा स्त्रियम् ॥
देवतातिथिसच्छास्त्रयज्ञसिद्धादिनिन्दकैः ।
कृत्वा तु स्पर्शनालापं शुद्ध्येदर्कावलोकनात् ॥
अवलोक्य तथोदक्यामन्त्यजान् पतितं शठम् ।
विधर्म्मिसूतिकाषण्डविवस्त्रान्त्यावसायिनः ॥
मृतनिर्यातकाश्चैव परदाररताश्च ये ।
एतदेव हि कर्त्तव्यं प्राज्ञैः शोधनमात्मनः ॥” * ॥
किञ्च ।
“यच्चापि कुर्व्वतो नात्मा जुगुप्सामेति पुत्त्रक ।
तत् कर्त्तव्यमशङ्केन यन्न गोप्यं महाजने ॥” * ॥
भविष्योत्तरे श्रीकृष्णयुधिष्ठिरसंवादे ।
“उपासते न ये पूर्ब्बां द्विजाः सन्ध्यां न पश्चि-
माम् ।
सर्व्वांस्तान् धार्म्मिको राजा शूद्रकर्म्मणि योज-
येत् ॥
दूरादावसथान्मूत्रं दूरात् पादावसेचनम् ।
उच्छिष्टोत्सर्ज्जनं भूप सदा कार्य्यं हितैषिणा ॥
उच्छिष्टो न स्पृशेच्छीर्षं सर्व्वे प्राणास्तदाश्रयाः ।
केशग्रहान् प्रहारांश्च शिरस्येतानि वर्ज्जयेत् ॥
न पाणिभ्यामुभाभ्यान्तु कण्डूयाज्जातु वै शिरः ॥”
किञ्च ।
“सुवासिनीं गुर्व्विणीञ्च वृद्धं बालातुरौ तथा ।
भोजयेत् संस्कृतान्नेन प्रथमं चरमं गृही ॥
अघं स केवलं भुङ्क्ते बद्धे गोवाहनादिके ।
यो भुङ्क्ते पाण्डवश्रेष्ठ प्रेक्षतामप्रदाय च ॥
वर्ज्जयेद्दधि शक्तुञ्च रात्रौ धानाश्च वासरे ॥”
किञ्च ।
“स्रजश्च नावकर्षेत न वहिर्घारयीत च ।
गृहे पारावता धन्याः शुकाश्च सहकारिकाः ॥”
कौर्म्मे व्यासगीतायाम् ।
“तृणं वा यदि वा शाकं मूलं वा जलमेव वा ।
परस्यापहरन् जन्तुर्नरकं प्रतिपद्यते ॥
न राज्ञः प्रतिगृह्णीयान्न शूद्रात् पतितादपि ।
नान्यस्माद्याचकत्वञ्च निन्दिताद्बर्ज्जयेद्बुधः ॥
नित्यं याचनको न स्यात् पुनस्तत्रैव याचयेत् ।
प्राणानपहरत्येष याचकस्तस्य दुर्म्मतिः ॥
न देवद्रव्यहारी स्याद्बिशेषेण द्विजोत्तमाः ।
ब्रह्मस्वञ्च नापहरेदापद्यपि कदाचन ॥
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ।
देवस्वं वापि यत्नेन सदा परिहरेत्ततः ॥
न धर्म्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् ।
व्रतेन पापं प्रच्छाद्य कुर्व्वन् स्त्रीशूद्रदम्भनम् ॥
प्रेत्येह चेदृशो विप्रो गर्ह्येत ब्रह्मवादिभिः ।
देवद्रोहाद्गुरुद्रोहः कोटिकोटिगुणाधिकः ॥
ज्ञानापवादो नास्तिक्यं तस्मात् कोटिगुणा-
धिकम् ॥” * ॥
किञ्च ।
“हिमवद्बिन्ध्ययोर्मध्ये पूर्व्वपश्चिमयोः शुभम् ।
मुक्त्रा समुद्रयोर्द्देशं नान्यत्र निवसेद्द्विजः ॥
कृष्णो वा यत्र चरति मृगो नित्यं स्वभावतः ।
पुण्याश्च विश्रुता नद्यस्तत्र वा निवसेद्द्विजः ॥
अर्द्धक्रोशान्नदीकूलं वर्ज्जयित्वा द्विजोत्तमाः ॥”
किञ्च ।
“अग्निना भस्मना चैव सलिलेन विशेषतः ।
द्वारेण स्तम्भमार्गेण षड्भिः पङ्क्तिर्व्विभिद्यते ॥
परक्षेत्रे चरन्तीं गां न चाचक्षीत कस्यचित् ।
न सूर्य्यपरिवेशं वा नेन्द्रचापं न चाग्निकम् ॥
परस्मै कथयेद्बिद्वान् शशिनं वा कथञ्चन ।
तिथिं पक्षस्य न ब्रू यान्नक्षत्राणि विनिर्द्दिशेत् ॥
न देवगुरुविप्राणां दीयमानन्तु वारयेत् ।
निन्दयेद्यो गुरून् देवान् वेदं वा सोपबृंहणम् ॥
कल्पकोटिशतं साग्रं रौरवे पच्यते नरः ।
तूष्णीमासीत निन्दायां न ब्रूयात् किञ्चिदुत्तरम् ॥
पृष्ठ ४/५२८
कर्णौ पिधाय गन्तव्यं न चैनमवलोकयेत् ।
वर्ज्जयेद् वै रहस्यञ्च परेषां गूहयेद्बुधः ॥
विवादं स्वजनैः सार्द्धं न कुर्य्याद्वै कदाचन ।
न पापं पापिनां ब्रूयादपापं वा द्विजोत्तमाः ॥
नेक्षेतोद्यन्तमादित्यं शशिनं वानिमित्ततः ।
नास्तं यान्तं न वारिस्थं नोपसृष्टं न मध्यगम् ॥
तिरोहितं वाससा वा न दशान्तरगामिनम् ।
नग्नां स्त्रियं पुमांसं वा पुरीषं मूत्रमेव वा ॥
पतितव्यङ्गचाण्डालानुच्छिष्टान्नावलोकयेत् ।
न युक्तबन्धनाङ्गां वा नोन्मत्तं मत्तमेव वा ॥
स्पृशेन्न भोजने पत्नीं नैनामीक्षेत मेहतीम् ।
क्षुवन्तीं जम्भमाणां वा नासनस्थां यथासुखम् ॥
नोदके चात्मनो रूपं न कुलं श्वभ्रमेव वा ।
न शूद्राय मतिं दद्यात् कृषरं पायसं दधि ॥
नोच्छिष्टं वा घृतमधु न च कृष्णाजिनं हविः ।
न कुर्य्यात् कस्यचित् पीडां मुतं शिष्यञ्च ताड-
येत् ॥
नात्मानमवमन्येत दैन्यं यत्नेन वर्ज्जयेत् ।
न च शिष्यान्न सत् कुर्य्यान्नात्मानं शंसयेद्बुधः ॥
न नद्याञ्च नदीं ब्रूयात् पर्व्वतेषु न पर्व्वतम् ।
आवसेत्तेन नैवापि यस्त्यजेत् सहवासिनम् ॥
शिरोऽभ्यङ्गावशिष्टेन तैलेनाङ्गं न लेपयेत् ।
रोमाणि च रहस्यानि स्वानि खानि च न
स्पृशेत् ॥
न पानिपादवाङ्नेत्रचापलानि समाश्रयेत् ।
नाभिहन्याज्जलं पद्भ्यां पाणिना न कदाचन ॥
न घातयेदिष्टिकाभिः फलानि न फलेन च ।
न म्लेच्छभाषणं शिक्षेन्न कर्षेश्च पदासनम् ॥
नोत्सङ्गे भक्षयेद्भक्ष्यान् गाञ्च संवेशयेन्न हि ।
नाक्षैः क्रीडेन्न धावेत स्त्रीभिर्व्वादं न चाचरेत् ॥
न दन्तैर्नखलोमानि छिन्द्यात् सुप्तं न वोधयेत् ।
न वालातपमासेवेत् प्रेतधूमं विवर्ज्जयेत् ॥
नैकः सुप्यात् शून्यगृहे स्वयं नोपानहौ वहेत् ।
नाकारणाद्बा निष्ठीवेन्न बाहुभ्यां नदीं तरेत् ॥
न पादक्षालनं कुर्य्यात् पादेनैव कदाचन ।
नाग्नौ प्रतापयेत् पादौ न कांस्ये धावयेद्बुधः ॥
नाभिप्रतारयेद्देवान् ब्राह्मणान् गामथापि वा ।
न स्पृशेत् पाणिनोच्छिष्टो विप्रगोब्राह्मणा-
नलान् ॥
न चैवान्नं पदा वापि न देवप्रतिमां स्पृशेत् ।
नोत्तरेदनुपस्पृश्य स्रवन्तीं नो व्यतिक्रमेत् ॥
चैत्यं वृक्षं नैव छिन्द्यान्नाप्सु ष्ठीवनमुत्सृजेत् ।
न चाग्निं लङ्गयेद्धीमान् नोपदध्यादधः क्वचित् ॥
न चैवं पादतः कुर्य्यात् तिलबद्धं निशि त्यजेत् ।
न कूपमवरोहेत नाचक्षीताशुचिः क्वचित् ॥
अग्नो न प्रक्षिपेदग्निं नाद्भिः प्रशमयेत्तथा ।
सुहृन्मरणमार्त्तिं वा न स्वयं श्रावयेत् परान् ॥
अपण्यमथ पण्यं वा विक्रयं न प्रयोजयेत् ।
पुण्यस्थानोदकस्थाने सीमान्तं वा कृषेन्न तु ॥
न भिन्द्यात् पूर्ब्बसमयं सत्योपेतं कदाचन ।
परस्परं पशून् व्यालान् पक्षिणो न च
योधयेत् ॥
कारयित्वा स्वकर्म्माणि कारून् विद्वान् न
वञ्चयेत् ।
वहिर्गन्धञ्च कुद्वारप्रवेशञ्च विवर्ज्जयेत् ॥
नैकश्चरेत् सभां विप्रः समवायञ्च वर्ज्जयेत् ।
न बीजयेद्वा वस्त्रेण न देवायतने स्वपेत् ।
नाग्निगोब्राह्मणादीनामन्तरेण व्रजेत् क्वचित् ।
नाक्रामेत् कामतश्छायां ब्राह्मणानां गवामपि ॥
स्वान्तु नाक्रामयेच्छायां पतिताद्यैर्नरोगिभिः ।
वर्जयेन्मार्जनीरेणुं वस्त्रस्नानघटोदकम् ॥
नाश्नीयात् पयसा तक्रं न बीजान्युपवीजयेत् ॥
विवत्सायाश्च गोक्षीरमौष्ट्रं वा निर्द्दशस्य च ।
आविकं सन्धिनीक्षीरमपेयं मनुरब्रवीत् ॥
हन्तकारमथाग्र्यं वा भिक्षां वा शक्तितो द्विजः ।
दद्यादतिथये नित्यं बुध्येत परमेश्वरम् ॥
भिक्षामाहुर्ग्रासमात्रमग्र्यं तस्माच्चतुर्गुणम् ।
पुष्कलं हन्तकारन्तु तच्चतुर्गुणमिष्यते ॥”
मार्कण्डेये ।
“भोजनं हन्तकारं वा अग्र्यं भिक्षामथापि वा ।
अदत्त्वा तु न भोक्तव्यं यथा विभवमात्मनः ॥” *
काशीखण्डे ।
“नैवोत्कटासनेऽश्नीयान्नाग्नौ वस्त्वशुचि क्षिपेत् ॥
श्राद्धं कृत्वा परश्राद्धे योऽश्रीयात् ज्ञानवर्जितः ।
दातुः श्राद्धफलं नास्ति भोक्ता किल्विषभुग्-
भवेत् ॥
नोत्पाटयेल्लोमनखं दशनेन कदाचन ।
करजैः करजच्छेदं करेणैव विवर्ज्जयेत् ॥
अपद्वारे न गन्तव्यं स्ववेश्मपरवेश्मनोः ।
उत्कोचद्यूतदेवार्थद्रव्यं दूरात् परित्यजेत् ॥
निष्ठीवनञ्च श्लेष्माणं गृहात् दूरे विनिःक्षिपेत् ॥
उद्धृत्य पञ्चमृत्पिण्डान् स्नायात् परजलाशये ।
अनुद्धृत्य च तत्कर्त्तुरेनसः स्यात्तुरीयभाक् ॥”
ब्राह्मे ।
“यस्तु पाणितले भुङ्क्ते यस्तु फत्कारसंयुतम् ।
प्रसृताङ्गुलिभिर्यस्तु तस्य गोमांसवच्च तत् ॥”
अत्रिस्मृतौ ।
“न्यूनाधिकस्तनी या गौर्याथवाभक्षचारिणी ।
तयोर्दुग्धं न होतव्यं न पातव्यं कदाचन ॥
अजा गावो महिष्यश्च यामेध्यमपि भक्षयेत् ।
हव्ये कव्ये च तद्दुग्धं गोमयञ्च विवर्ज्जयेत् ॥
अङ्गुल्या दन्तकाष्ठञ्च प्रत्यक्षलवणन्तथा ।
मृत्तिकाप्राशनञ्चैव तुल्यं गोमांसभक्षणैः ॥”
अत्रापवादो मनुस्मृतौ ।
“सामुद्रं सैन्धवञ्चैव लवणे परमाद्भुते ।
प्रत्यक्षे अपि ते ग्राह्ये निषेधस्त्वन्यगोचरः ॥”
अत्रिस्मृतौ ।
“दिवा कपित्थच्छाया च निशायां दधिभो-
जनम् ।
कार्पासं दन्तकाष्ठञ्च शक्रादपि हरेत् श्रियम् ॥”
विष्णुस्मृतौ च ।
“कपिलायाः पयः पीत्वा शूद्रस्तु नरकं व्रजेत् ।
होमशेषं पिबेद्बिप्रो विप्रः स्यादन्यथा पशुः ॥
परिहर्त्तुं पुनर्लेखं तत्तच्छास्त्रोक्तमन्यथा ।
यदत्र लिखितं किञ्चित्तत् क्षन्तव्यं महात्मभिः ॥
आचाराश्चेदृशाः सन्ति परेऽपि बहुलाः सताम् ।
ते लोकशास्त्रतो ज्ञेया अपेक्ष्या यदि वैष्णवैः ॥
नित्यत्वमेषां माहात्म्यमप्यत्र लिखितात् पुरा ।
सदाचारस्यनित्यत्वान्माहात्म्याच्च सुसिद्ध्यति ॥”
इति श्रीहरिभक्तिविलासे तित्यकृत्यसमापनो
नाम ११ विलासः ॥

वैष्णवी, स्त्री, (विष्णोरियम् । विष्णु + अण् ।

स्त्रियां ङीप् ।) विष्णुशक्तिः । यथा, --
“एषा त्रिशक्तिरुद्दिष्टा नयसिद्धान्तगामिनी ।
एषा श्वेता परा सृष्टिः सात्त्विकी ब्रह्मसंहिता ॥
एषैव कृष्णा तमसि रौद्री देवी प्रकीर्त्तिता ॥
अष्टादश यथा कोट्यो वैष्णव्या भेद उच्यते ।
या विष्णो राजसी शक्तिः पालिनी चैव
वैष्णवी ॥”
इति वाराहे त्रिशक्तिमाहात्म्यनामाध्यायः ॥
अपि च ।
“शङ्खचक्रगदाधारी विष्णुमाता तथारिहा ।
विष्णुरूपाथवा देवी वैष्णवी तेन गीयते ॥”
इति देवीपुराणे ४५ अध्यायः ॥
अपरञ्च ।
“विष्णुभक्ता विष्णुरूपा विष्णोः शक्तिस्वरूपिणी ।
सृष्टौ च विष्णुना सृष्टा वैष्णवी तेन कीर्त्तिता ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५४ अध्यायः ॥
दुर्गा । इति शब्दरत्नावली ॥ गङ्गा । यथा,
पद्मपुराणम् ।
“विष्णोः पादप्रसूतासि वैष्णवी विष्णुपूजिता ।
पाहि नस्त्वेनसस्तस्मादाजन्ममरणान्तिकात् ॥”
इत्यादि आह्रिकाचारतत्त्वे स्नानार्थगङ्गावाहन-
मन्त्रः ॥ अन्यच्च ।
“विष्णुपादप्रसूतासि वैष्णवीनामधारिणी ।
सर्व्वत्र रक्ष मां नित्यं गङ्गा त्रिपथगामिनी ॥”
इति गङ्गाकवचम् ॥
अपराजिता । इति शब्दचन्द्रिका ॥ शतावरी ।
इति राजनिर्घण्टः ॥ तुलसी । इति शब्द-
माला ॥

वैसारिणः, पुं, (विशेषेण सरतीति विसारी मत्स्यः

स एव । “विसारिणो मत्स्ये ।” ५ । ४ । १६ ।
इति अण् ।) मत्स्यः । इत्यमरः ॥

वैसूचनं, क्ली, (विशेषेण सूचयतीति विसूचनम् ।

तदेव । स्वार्थे अण् ।) नाट्ये पुरुषस्य स्त्रीवेश-
धारणम् । इति केचित् ॥

वैहार्य्यः, त्रि, (विशेषेण ह्रीयते इति । वि + हृ +

ण्यत् । विहार्य्य एव । स्वार्थे अण् ।) परि-
हासेन लालनीयः । श्यालसम्बन्ध्यादि । इत्य-
र्ज्जुनमिश्रः ॥ यथा, --
“यथा बालेषु नारीषु वैहार्य्येषु तथैव च ।
सङ्गरेषु निपातेषु तथापद्व्यसनेषु च ।
अनृतं नोक्तपूर्व्वं मे तेन सत्येन खं व्रज ॥”
इति महाभारते उद्योगपर्व्व ॥

वैहासिकः, पुं, (विहास + ठक् ।) विहासं

करोति यः । भण्ड इति ख्यातः । तत्पर्य्यायः ।
वासन्तिकः २ केलिकिलः ३ विदूषकः ४
प्रहासी ५ प्रीतिदः ६ । इति हेमचन्द्रः ॥
(यथा, नैषधे । १९ । ६४ ।
“दूरारूढस्तिमिरजलधेर्वाडवश्चित्रभानु-
र्भानुस्ताम्यद्वनरुहवनीकेलिवैहासिकोऽयम् ॥”)