सामग्री पर जाएँ

शब्दकल्पद्रुमः/वृहती

विकिस्रोतः तः
पृष्ठ ४/४९२

वृ(बृ)हती, स्त्री, (वृहत् + गौरादित्वात् ङीष् ।)

क्षुद्रवार्त्ताकी । व्याकुड इति भाषा । तत्पर्य्यायः ।
महती २ क्रान्ता ३ वार्त्ताकी ४ सिंहिका ५
कुली ६ राष्ट्रिका ७ स्थूलकण्टा ८ भण्टाकी ९
महोटिका १० बहुपत्री ११ कण्टतनुः १२
कण्टालुः १३ कट्फला १४ डोरडी १५ वन-
वृन्ताकी १६ । इति राजनिर्घण्टः ॥ सिंही १७
प्रसहा १८ रक्तपाकी १९ लतावृहतिका २० ।
इति रत्नमाला ॥ अस्या गुणाः । कटुत्वम् ।
तिक्तत्वम् । उष्णत्वम् । वातज्वरारोचकाम-
काशश्वासहृद्रोगनाशित्वञ्च । इति राज-
निर्घण्टः ॥ अपि च ।
“वृहती पाचनी सोष्णा ग्राहिणी वात-
नाशिनी ॥”
इति राजवल्लभः ॥ * ॥
महती । इत्यमरः ॥ (इयन्तु नारदस्य वीणा ।
केचित्तु विश्वावसोर्गन्धर्व्वराजस्य वीणां बृहती-
माहुः । तथा च ।
“विश्वावसोस्तु बृहती तुम्बुरोस्तु कलावती ।
महती नारदस्य स्यात् सरस्वत्यास्तु कच्छपी ॥”
इति माघटीकायां मल्लिनाथधृतवैजयन्ती ।
१ । १० ॥ * ॥) उत्तरीयवस्त्रम् । वारिधानी ।
वाक् ॥ कण्टकारी । इति मेदिनी ॥ (मर्म्म-
स्थानविशेषः । यथा, सुश्रुते । ३ । ६ ।
“स्तनमूलादुभयतः पृष्ठवंशस्य बृहती नाम
तत्र शोणितातिप्रवृत्तिनिवृत्तिनिमित्तैरुपद्रवै-
र्म्रियते ॥”) छन्दोभेदः । स तु नवाक्षरपादः ।
यथा, --
“उक्थात्युक्था तथा मध्या प्रतिष्ठान्या सुपू-
र्व्विका ।
गायत्त्र्युष्णिगनुष्टुप् च वृहती पंक्तिरेव च ॥
इत्यादि । तद्भेदानाह । वृहती नवाक्षरा यथा,
भुजगशिशुसुता नौ मः ।
ह्रदतटनिकटक्षौणी भुजगशिशुसुता यासीत् ।
मुररिपुदलिते नागे व्रजजनसुखदा साभूत् ॥
युतेत्येवं शम्भुप्रभृतिषु पाठः । भृतेत्येवमाधु-
निकाः पठन्ति । स्यान्मणिमध्यं चेद्भमसाः ।
कालियभोगा भोगगतस्तन्मणिमध्यस्फीतरुचा ।
चित्रपदा भो नन्दसुतश्चारु ननर्त्त स्मेरमुखः ॥
सजरैर्भुजङ्गसङ्गता ।
तरला तरङ्गरिङ्गितैर्यमुना भुजङ्गसङ्गता ।
कथमेतु वत्सचारकश्चपलः सदैव तां हरिः ॥”
इति छन्दोमञ्जरी ॥

वृ(बृ)हतीपतिः, पुं, (वृहतीनां वाचां पतिः ।)

बृहस्पतिः । इति हेमचन्द्रः ॥

वृ(बृ)हत्, त्रि, (वृह वृद्धौ + “वर्त्तमाने पृषद्वृहन्मह-

ज्जगच्छतृवच्च ।” उणा० २ । ८४ । इति अतिप्रत्ययेन
निपातनात् साधु ।) महत् । इत्यमरः ॥
(यथा, माघे । २ । १० ।
“वृहत्सहायः कार्य्यान्तं क्षोदीयानपि गच्छति ।
संभूयाम्भोधिमभ्येति महानद्या नगापगा ॥”)

वृ(बृ)हत्कः, त्रि, (वृहत्प्रकारः । वृहत् + “चञ्च-

द्वृहतोरुपसंख्यानम् ।” ५ । ४ । ३ । इत्यस्य वार्त्ति-
कोक्त्या कन् ।) वृहत् । वृहच्छब्दात् कन्प्रत्ययेन
निष्पन्नमिदम् ॥

वृ(बृ)हत्कन्दः, पुं, (वृहत् कन्दं यस्य ।) गृञ्जनः । इति

रत्नमाला ॥ विष्णुकन्दः । इति राजनिर्घण्टः ॥

वृ(बृ)हत्कालशाकः, पुं, (वृहन् महान् काल-

शाकः ।) शोथजिह्मः । इति त्रिकाण्डशेषः ॥
वृहत्कालकासुन्दिया इति भाषा ॥

वृ(बृ)हत्काशः, पुं, (वृहन् काशः ।) खड्गटः ।

इति हारावली ॥ खाग्डा इति भाषा ॥

वृ(बृ)हत्कुक्षिः, त्रि, (वृहन् कुक्षिर्यस्य ।) तुन्दिलः ।

इत्यमरः ॥

वृ(बृ)हत्तालः, पुं, (वृहन् तालः ।) हिन्तालः ।

इति राजनिर्घण्टः ॥

वृ(बृ)हत्तिका, स्त्री, (वृहन् तिक्तो यस्याः ।)

पाठा । इति राजनिर्घण्टः ॥

वृ(बृ)हत्तृणः, पुं, वंशः । इति शब्दचन्द्रिका ॥

(क्वचित् क्लीवेऽपि दृश्यते ॥)

वृ(बृ)हत्त्वक्, [च्] पुं, (वृहती त्वक् यस्य ।) ग्रहना-

शनवृक्षः । इति रत्नमाला ॥ छातियान् इति
भाषा ॥

वृ(बृ)हत्पत्रः, पुं, (वृहत्पत्रं यस्य ।) हस्तिकन्दः ।

इति राजनिर्घण्टः ॥

वृ(बृ)हत्पत्रा, स्त्री, (वृहत्पत्रं यस्याः ।) त्रिपर्ण्णिका ।

इति राजनिर्घण्टः ॥

वृ(बृ)हत्पाटलिः, पुं, धुस्तूरः । इति त्रिकाण्ड-

शेषः ॥

वृ(बृ)हत्पादः पुं, (वृहन् पादो यस्य ।) वटवृक्षः ।

इति शब्दचन्द्रिका ॥

वृ(बृ)हत्पारेवतं, क्ली, (वृहत् महत् पारेवतम् ।)

महापारेवतम् । इति राजनिर्घण्टः ॥

वृ(बृ)हत्पाली, [न्] पुं, वनजीरः । इति राज-

निर्घण्टः ॥

वृ(बृ)हत्पीलुः, पुं, (वृहन् पीलुः ।) महापीलुः ।

इति राजनिर्घण्टः ॥

वृ(बृ)हत्पुष्पी, स्त्री, (वृहत् पुष्पं यस्याः । ङीष् ।)

घण्टारवा । इति जटाधरः ॥

वृ(बृ)हत्फलः, पुं, (वृहत् फलं यस्य ।) चचेण्डा ।

इति राजनिर्घण्टः ॥

वृ(बृ)हत्फला, स्त्री, (वृहत् फलं यस्याः ।) कटु-

तुम्बी । महेन्द्रवारुणी । कुष्माण्डी । महाजम्बूः ।
इति राजनिर्घण्टः ॥

वृ(बृ)हदङ्गः, पुं, (वृहदङ्गं यस्य ।) मतङ्गजः । इति

शब्दचन्द्रिका ॥

वृ(बृ)हदम्लः, पुं, (वृहन् अम्लो यस्य ।) रुजाकरः ।

इति शब्दचन्द्रिका ॥ काम्राङ्गा इति भाषा ॥

वृ(बृ)हदेला, स्त्री, (वृहती एला ।) स्थूलैला । इति

राजनिर्घण्टः ॥

वृ(बृ)हत्गृहः, पुं, (वृहद्गृहं यस्मिन् ।) कारूष-

देशः । स तु विन्ध्यपर्व्वतस्य पश्चात् मालव-
देशस्य निकटे वर्त्तते । इति हेमचन्द्रः ॥
त्रिकाण्डशेषे वृहद्गुह इति पाठः ॥

वृ(बृ)हद्गोलं, क्ली, (वृहत् गोलं गोलाकारफलं

यस्य ।) शीर्णवृन्तम् । इति शब्दचन्द्रिका ॥
तरमूज इति भाषा ॥

वृ(बृ)हद्दलः, पुं, (वृहद्दलं यस्य ।) पट्टिकालोध्रः ।

हिन्तालः । इति राजनिर्घण्टः ॥

वृ(बृ)हद्धलं, क्ली, (वृहत् हलं यस्य ।) महालाङ्गलम् ।

तत्पर्य्यायः । हलिः २ । इति त्रिकाण्डशेषः ॥

वृ(बृ)हद्वीजः, पुं, (वृहत् बीजं यस्य ।) आम्रातकः ।

इति शब्दचन्द्रिका ॥

वृ(बृ)हद्भट्टारिका, स्त्री, दुर्गा । इति शब्दमाला ॥

वृ(बृ)हद्भानुः पुं, (वृहन् भानू रश्मिर्यस्य ।) अग्निः ।

(यथा, महाभारते । ३ । २२० । ८ ।
“तपसश्च मनुं पुत्त्रं भानुञ्चाप्यङ्गिराः सृजत् ।
बृहद्भानुन्तु तं प्राहुर्ब्राह्मणा वेदपारगाः ॥”)
चित्रकवृक्षः । इत्यमरः ॥ (सत्यभामापुत्त्रः ।
यथा, भागवते । १ । ६१ । १० ।
“चन्द्रभानुर्व्वृहद्भानुरतिभानुस्तथाष्टमः ॥”
सत्रायणपुत्त्रः । यथा, भागवते । ८ । १३ । ३५ ।
“सत्रायणस्य तनयो वृहद्भानुस्तदा हरिः ॥”
पृथुलाक्षस्य पुत्त्रः । यथा, भागवते । ९ । २३ । ११ ।
“चतुरङ्गो रोमपादात् पृथुलाक्षस्य तत्सुतः ।
वृहद्रथो वृहत्कर्म्मो वृहद्भानुश्च तत्सुताः ॥”
वृहद्रश्मिविशिष्टे, त्रि । यथा, ऋग्वेदे । १ ।
३६ । १५ ।
“वृहद्भानो यविष्ठ्य ॥”
“हे अग्ने हे वृहद्भानो वृहन्तो भानवो यस्य
तादृश ।” इति तद्भाष्ये सायणः ॥)

वृ(बृ)हद्रथः, पुं, (वृहन् रथो यस्य ।) इन्द्रः । यज्ञ-

पात्रम् । मन्त्रविशेषः । सामवेदांशः । नदी-
विशेषे, स्त्री । इति केचित् ॥ (तिग्मपुत्त्रः
यथा, मात्स्ये । ५० । ८५ ।
“तिग्माद्बृहद्रथो भाव्यो वसुदामा वृहद्रथात् ॥”
शतधन्वपुत्त्रः । यथा, भागवते । १२ । १ । १३ ।
“शतधन्वा ततस्तस्य भविता तद्वृहद्रथः ॥”
देवरातपुत्त्रः । यथा, भागवते । ९ । १३ । १५ ।
“तस्माद्वृहद्रथस्तस्य माहावीर्य्यः सुधृत्पिता ॥”
तिमिराजपुत्त्रः । यथा, तत्रैव । ९ । २२ । ४३ ।
“तिमेर्व्वृहद्रथस्तस्मात् शतानीकः सुदासजः ॥”
पृथुलाक्षस्य पुत्त्रः । यथा, तत्रैव । ९ । २३ । ११ ।
“वृहद्रथो वृहत्कर्म्मा वृहद्भानुश्च तत्सुताः ॥”
प्रभूतरथे, त्रि । यथा, ऋग्वेदे । ५ । ८० । २ ।
वृहद्रथा वृहती विश्वमिन्वा ।”
“वृहद्रथा प्रभूतरथा ।” इति तद्भाष्ये सायणः ॥)

वृ(बृ)हद्रावी, [न्] पुं, (वृहदतिशयं द्रवतीति । द्रु +

णिनिः ।) क्षुद्रोलूकः । इति राजनिर्घण्टः ॥

वृ(बृ)हद्वल्कः, पुं, (वृहद्वल्कः वल्कलं यस्य ।)

पट्टिकालोध्रः । इति राजवल्लभः ॥

वृ(बृ)हद्वातः, पुं, (वृहन् वातो यस्मात् । अश्मरी-

हरः । इति रत्नमाला ॥ देधान इति भाषा ॥

वृ(बृ)हद्वारुणी, स्त्री, महेन्द्रवारुणी । इति राज-

निर्घण्टः ॥

वृ(बृ)हन्नलः, पुं, (वृहन् नलः ।) महापोटगलः ।

इति मेदिनी ॥ अर्ज्जुनः । यथा, --
“पार्थः किरीटी गाण्डीवी गुडाकेशो वृहन्नलः ।
अर्ज्जुनः फाल्गुनो जिष्णुर्विजयश्च धनञ्जयः ॥
पृष्ठ ४/४९३
सव्यसाची सुभद्रशः शब्दभेदी कपिध्वजः ।
वार्त्ताघ्नश्चापि वीभत्सुः ॥” इति त्रिकाण्डशेषः ॥
अपि च ।
“अर्ज्जुनः फाल्गुनः पार्थः सव्यसाची धनञ्जयः ।
राधावेधी किरीट्यैन्द्री जिष्णुः श्वेतहयो नरः ॥
वृहन्नलो गुडाकेशः सुभद्रेशः कपिध्वजः ।
वीभत्सुः कर्णजित्तस्य गाण्डीवं गाण्डिवं धनुः ॥”
इति हेमचन्द्रः ॥

वृहन्नला, स्त्री, अर्ज्जुनः । इति मेदिनी ॥ द्वादशवर्ष-

वनवासानन्तरमज्ञातवासे विराटभवने विराट-
कन्याया नृत्यगीतादिशिक्षार्थं स्त्रीक्लीववेशे-
नार्जुनो वृहन्नलेति नाम्ना ख्यातोऽभूत् । यथा,
अर्ज्जुन उवाच ।
“गायामि नृत्याम्यथ वादयामि
भद्रोऽस्मि नृत्ये कुशलोऽस्मि गीते ।
त्वमुत्तरायै प्रदिशस्व मां स्वयं
भवामि देव्या नरदेव ! नर्त्तकः ॥
इदन्तु रूपं मम येन किन्तव
प्रकीर्त्तयित्वा भृशशोकवर्द्धनम् ।
वृहन्नलां मां नरदेव विद्धि
सुतं सुतां वा पितृमातृवर्जिताम् ॥
विराट उवाच ।
ददामि ते हन्त वरं वृहन्नले
सुताञ्च मे नर्त्तय याश्च तादृशीः ॥”
इति भहाभारते विराटपर्व्व ॥

वृ(बृ)हस्पतिः, पुं, (वृहतां वाचां पतिः । “पार-

स्करेति ।” ६ । १ । १५७ । इति सुट् निपात्यते ।)
अङ्गिरसः पुत्त्रः । स च देवानां गुरुः धर्म्मशास्त्र-
प्रयोजकः नवग्रहमध्ये पञ्चमग्रहश्च । तत्-
पर्य्यायः । सुराचार्य्यः २ गीष्पतिः ३ धिषणः ४
गुरुः ५ जीवः ६ आङ्गिरसः ७ वाचस्पतिः ८
चित्रशिखण्डिजः ९ । इत्यमरः ॥ उतथ्या-
नुजः १० गोविन्दः ११ चारुः १२ द्बादश-
रश्मिः १३ गिरीशः १४ दिदिवः १५ पूर्ब्ब-
फल्गुनीभवः १६ । इति जटाधरः ॥ सुरगुरुः
१७ वाक्पतिः १८ वचसांपतिः १९ इन्द्रेज्यः २०
देवेज्यः २१ वृहताम्पतिः २२ इज्यः २३
वागीशः २४ चक्षाः २५ दीदिविः २६ द्बादश-
करः २७ प्राक्फाल्गुनः २८ गीरथः २९ ।
इति शब्दरत्नावली ॥ स च पीतवर्णः । ईशान-
कोणपुरुषब्राह्मणजातिऋग् वेदसत्त्वगुण-मधुर-
रसधनुर्मीनराशिपुष्यनक्षत्रवस्त्रपुष्परागमणि-
सिन्धुदेशानां अधिपतिः । षडङ्गुलशरीरः ।
पद्मस्थः । चतुर्भुजः । अक्षवरकमण्डलुदण्डधारी ।
अस्याधिदेवता ब्रह्मा । प्रत्यधिदेवता इन्द्रः । स
तु सूर्य्यास्यः । अङ्गिरोमुनिपुत्त्रः । प्रातःकाले
प्रबलः । शुभग्रहः । देवगृहस्वामी । वृद्धः ।
रक्तद्रव्यस्वामी । वातपित्तकफात्मकः । बणिक्-
कर्म्मकर्त्ता । अङ्गिरोगोत्रः । इति ग्रहयाग-
तत्त्वादयः ॥ * ॥ तद्वारजातफलम् ।
“नृपेन्द्रमन्त्री नृपलब्धकामो
विद्याविनोदो चतुरः प्रगल्भः ।
आचार्य्यपूज्यो मधुरस्वभावो
वारे भवेद्देवगुरोर्मनुष्यः ॥”
इति कोष्ठीप्रदीपः ॥ * ॥
स च शिवस्य गुरुपुत्त्रः यथा, --
महेन्द्र उवाच ।
“कथं वा देवकर्त्तुश्च सिद्धानां योगिनां गुरोः ।
मृत्युञ्जयस्य शम्भोश्च गुरुपुत्त्रो बृहस्पतिः ।
ततो ज्ञानी महादेवः कथं शिष्यो गुरोः पितुः ॥
ब्रह्मोवाच ।
कथेयमतिगुप्ता च पुराणेषु पुरन्दर ।
इमां पुरा प्रवृत्तिञ्च कथयामि निशामय ॥
मृतवत्सा कर्म्मदोषाद्भार्य्या अङ्गिरसः पुरा ।
व्रतं चकार मद्बाक्यात् कृष्णस्य परमात्मनः ॥
व्रतं पुंसवनं नाम वर्षमेकं चकार सा ।
सनत्कुमारो भगवान् कारयामास तां व्रतम् ॥
स्वेच्छामयः परं ब्रह्म भक्तानुग्रहविग्रहः ।
तदागत्य च गोलोकात् परमात्मा कृपामयः ॥
स व्रतानशनक्षीणां तामुवाच कृपानिधिः ।
प्रणतां साश्रुनेत्राञ्च विनीताञ्च तया स्तुतः ॥
श्रीकृष्ण उवाच ।
गृहाणेदं यज्ञफलं मम तेजःसमन्वितम् ।
भुङ्क्ष्व मद्वरपुत्त्रस्ते भविष्यति मदंशतः ॥
पतिर्गुरुश्च देवानां वृहतां ज्ञानिनां वरः ।
पुत्त्रस्ते भविता साध्वि ! मद्वरेण भविष्यति ॥
मद्वरेण भवेद्यो हि स च मद्वरपुत्त्रकः ।
त्वद्गर्भे मम पुत्त्रोऽयं चिरजीवी भविष्यति ॥
वरजो वीर्य्यजश्चैव क्षेत्रजः पालकस्तथा ।
विद्यामन्त्रसुतानाञ्च गृहीतः सप्तमः सुतः ॥
इत्युक्त्वा राधिकानाथः स्वर्लोकञ्च ययौ पुरा ।
श्रीकृष्णवरपुत्त्रोऽयं ज्ञानी सुरगुरुः स्वयम् ॥
मृत्युञ्जयं महाज्ञानं शिवाय प्रददौ पुरा ।
दिव्यं वर्षत्रिलक्षञ्च तपःकर्त्रे हिमालये ॥
सुयोगज्ञानममलं तेजः स्वात्मा समं परम् ।
स्वशक्तिविष्णुमायाञ्च स्वांशञ्च वाहनं वृषम् ॥
स्वशूलञ्च स्वकवचं स्वमन्त्रं द्वादशाक्षरम् ।
कृपामयः स्तुतस्तेन श्रीकृष्णश्च परात्परः ॥
शिवलोके शिवा सा च विष्णुमाया शिव-
प्रिया ।
शक्तिर्नारायणस्येयं तेन नारायणी स्मृता ॥
तेजःसु सर्व्वदेवानां साविर्भूता सनातनी ।
जघान दैत्यनिकरं देवेभ्यः प्रददौ पदम् ॥
कल्पान्ते दक्षकन्या च सा मूलप्रकृतिः सती ।
पितृयज्ञे तनुं त्यक्त्वा योगेन सिद्धयोगिनी ॥
बमूव शैलकन्या सा साध्वी च भर्त्तृनिन्दया ।
कालेन कृष्णतपसा शङ्करं प्राप शङ्करी ॥
श्रीकृष्णो हि गुरुः शम्भोः परमात्मा परात्परः ।
कृष्णस्य वरपुत्त्रोऽयं स्वयमेव वृहस्पतिः ।
अतो हेतोः सुरगुरुर्गुरुपुत्त्रः शिवस्य च ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५६ अध्यायः ॥
(पुरोहितः । मन्त्रपालके तु त्रि । यथा, ऋग्वेदे ।
४ । ५० । ७ ।
“वृहस्पतिं यः सुभृतं बिभर्त्ति ॥”
“वृहस्पतिं वृहतां महतां मन्त्राणां पालयितारं
देवं उक्तलक्षणं पुरोहितं वा ।” इति तद्भाष्ये
सायणः ॥)

वृ(बृ)हस्पतिचक्रं, क्ली, (वृहस्पतेः चक्रम् ।)

नृणां शुभाशुभज्ञानार्थं वृहस्पतिसञ्चारकालीन-
अश्विन्यादिसप्तविंशतिनक्षत्रयुक्तनराकारचक्रम् ।
यथा, --
“शीर्षे चत्वारि राज्यं जलधिरपि करे दक्षिणे
चापि सौख्यं
चैकं कण्ठे विभूतिं मदनशरमितं वक्षसि
प्रीतिसंहम् ।
पादस्थाः षट् च पीडां पुनरपि जलधिर्वामहस्ते
च मृत्युं
नेत्रे त्रीणि प्रदद्युः सुखमथ निजभे वाक्पतेः
संक्रमर्क्षात् ॥”
इति ज्योतिस्तत्त्वम् ॥

वॄ, गि ञ वृत्याम् । इति कविकल्पद्रुमः ॥ (क्य्रा०-

उभ०-सक०-सेट् ।) गिं, ञ, वृणाति वृणीते ।
वूर्णः । वूर्णिः । इति दुर्गादासः ॥

वे, ऐ ञ स्यूतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

उभ०-सक०-अनिट् ।) स्यूतिस्तन्तुसन्तानम् ।
ऐ, ऊयात् । ञ, वयति वयते तन्त्रं तन्त्रवायः ।
इति दुर्गादासः ॥

वेकटः, पुं, वैकटिकः । मत्स्यभेदः । भेट्की इति

भाषा । युवा । इति मेदिनी ॥ विदूषकः । इति
शब्दरत्नावली ॥ तत्र पवर्गीयबकारादौ
लिखितः ॥

वेगः, पुं, (विज + घञ् ।) प्रवाहः । तत्पर्य्यायः ।

ओघः २ वेणी ३ धारा ४ । इति हेमचन्द्रः ॥
जवः । तत्पर्य्याथः । रंहः २ तरः ३ रयः ४
स्यदः ५ । इत्यमरः ॥ (यथा, मनौ । ५ ।
१०८ ।
“मृत्तोयैः शुध्यते शोध्यं नदी वेगेन शुध्यति ॥”)
महाकालफलम् । इति मेदिनी ॥ रेतः । इति
हेमचन्द्रः ॥ मूत्रविष्ठादिनिर्गमप्रवृत्तिः । इति
भरतः ॥ संस्कारविशेषः । यथा, --
“स्पर्शादयोऽष्टौ वेगाख्यसंस्कारो मरुतो
गुणाः ।
अष्टौ स्पर्शादयो रूपं द्रवो वेगश्च तेजसि ॥
स्पर्शादयोऽष्टौ वेगश्च द्रवत्वञ्च गुरुत्वकम् ।
रूपं रसस्तथा स्नेहो वारिण्येते चतुर्द्दश ॥”
इति भाषापरिच्छेदः ॥ * ॥
(यथा, भागवते । ७ । ८ । २५ ।
“ततोऽभिपद्याभ्यहनन्महासुरो
रुषा नृसिंहं गदयोरुवेगया ॥”)
वेगधारणनिषेधो यथा, --
“वेगरोधो न कर्त्तव्यश्चान्यत्र क्रोधवेगतः ॥”
इति आह्निकतत्त्वधृतविष्णुधर्म्मोत्तरवचनम् ॥
अपि च ।
“स्वभावतः प्रवृत्तानां मलादीनां जिजीविषुः ।
न वेगान्वारयेद्धीरः कामादीनाञ्च धारयेत् ॥”
इति राजवल्लभः ॥
पृष्ठ ४/४९४

वेगनाशनः, पुं, (वेगस्य नाशनं येन ।) श्लेष्मा ।

इति शब्दरत्नावली ॥

वेगसरः, पुं, (वेगेन सरति गच्छतीति । सृ +

अच् ।) वेगगामिहयः । तत्पर्य्यायः । वेसरः २
अश्वतरः ३ । इति हेमचन्द्रः ॥

वेगितः, त्रि, (वेगः सञ्जातोऽस्य । तारकादित्वा-

दितच् ।) वेगविशिष्टः । यथा, आयुर्व्वेदीये ।
“न वेगितोऽन्यसिद्धिः स्यात् नाजित्वा साध्य-
मामयम् ॥”
इत्याह्निकतत्त्वम् ॥

वेगिहरिणः, पुं, (वेगी वेगवान् हरिणः ।)

श्रीकारी मृगः । इति राजनिर्घण्टः ॥

वेगी, [न्] त्रि, (वेगोऽस्यास्तीति । वेग + इनिः ।)

वेगवान् । तत्पर्य्यायः । जङ्घाकारिकः २
जाङ्घिकः ३ तरस्वी ४ त्वरितः ५ प्रजवी ६
जवनः ७ जवः ८ । इत्यमरः ॥ (यथा, हरिवंशे
भविष्यपर्व्वणि । २० । १४ ।
“अश्वाश्च वेगिनः सन्ति रथा वायुजवा मम ॥”)
श्येनपक्षी । इति राजनिर्घण्टः ॥

वेचा, स्त्री, (विच पृथक्भावे + अच् । टाप् ।)

मूल्यम् । विचिर्लिधौ ञ पृथक्त्वे इत्यस्मात्
अन् तत आप् । यथा । वेचा मूल्यञ्च वेतनम् ।
इति हलायुधः ॥

वेजानी, स्त्री, (विज + अच् । तमानयतीति । आ

+ नी + डः । गौरादित्वात् ङीष् ।) सोमराजी ।
इति शब्दचन्द्रिका ॥

वेडं, क्ली, (विड + अच् ।) सान्द्रविच्छिन्नचन्दनम् ।

इति राजनिर्घण्टः ॥

वेडा, स्त्री, (वेड + टाप् ।) नौका । इति हेम-

चन्द्रः ॥ वेडीति क्वचित् पाठः ॥

वेढमिका, स्त्री, रोटिकाविशेषः । यथा, --

“माषपिष्टिकया पूर्णगर्भा गोधूमचूर्णतः ।
रचिता रोटिका सैव प्रोक्ता वेढमिका बुधैः ॥
भवेद्वेढमिका बल्या वृष्या रुच्यानिलापहा ।
उष्णा संतर्पणी गुर्व्वी वृंहणी शुक्रला परम् ॥
भिन्नमूत्रमलास्तन्यमेदःपित्तकफप्रदा ।
गुदकीलार्द्दितश्वासयकृच्छूलानि नाशयेत् ॥”
इति भावप्रकाशः ॥

वेण, ऋ ञ निशामने । वादित्रादानगमनज्ञान-

चिन्तासु । इति कविकल्पद्रुमः ॥ (भ्वा०-उभ०-
सक०-सेट् ।) ऋ, अविवेणत् । ञ, वेणति
वेणते । निशामनं चाक्षुषज्ञानम् । वादित्रं
मुरजादि तस्यादानं वादित्रादानम् । वादित्रं
वादित्रविषयक्रिया इत्येकोऽर्थः इत्येके । इति
दुर्गादासः ॥

वेणः, पुं, (वेण + अच् ।) वर्णसङ्करजातिविशेषः ।

स तु अम्बष्ठ्यां वैदेहकाज्जातः । यथा, --
“वैदेहकेन त्वम्बष्ठ्यामुत्पन्नो वेण उच्यते ॥”
इति मानवे । १० । १९ ॥
त्रेतायुगीयसूर्य्यवंशीयचतुर्थनृपः । स तु पृथु-
राजपिता । यथा, विष्णुपुराणे ।
“सत्पुत्त्रेण तु जातेन वेणोऽपि त्रिदिवं ययौ ।
पुन्नाम्नो नरकात्त्रातः स तेन सुमहात्मना ॥”
तेन सुपुत्त्रेण मृतवेणदक्षिणहस्तमन्थनजातेन
पृथुना । इति शुद्धितत्त्वम् ॥

वेणिः, स्त्री, (वी + “वीज्याज्वरिभ्यो निः ।” उणा०

४ । ४८ । इति निः । पृषोदरादित्वात् णत्वम् ।)
प्रोषितभर्त्तृकादिधार्य्यकेशरचनाविशेषः । इति
भरतः ॥ विरहिणीबद्धकचः । इति जटाधरः ॥
(यथा, माघे । १४ । ३० ।
“तत्र नित्यविहितोपहूतिषु
प्रोषितेषु पतिषु द्युयोषिताम् ।
गुम्फिताः शिरसि वेणयोऽभव-
न्न प्रफुल्लसुरपादपस्रजः ॥”)
तत्पर्य्यायः । प्रवेणिः २ । इत्यमरः ॥ वेणी ३
प्रवेणी ४ । इति भरतः ॥ वेणिका ५ । इति
शब्दमाला ॥ जलसमूहः । इति जटाधरः ॥
यथा । प्रयागे गङ्गायमुनासरस्वतीमेलनं
त्रिवेणी ॥

वेणिका, स्त्री, (वेणि + कन् । टाप् ।) केशबन्धन-

विशेषः । इति शब्दमाला ॥

वेणिवेधनी, स्त्री, जलौका । इति त्रिकाण्डशेषः ॥

वेणिमाधवः, पुं, प्रयागस्थपाषाणमयचतुर्भुज-

देवताविशेषः । इति लोकप्रसिद्धः ॥

वेणी, स्त्री, (वेणि + वा ङीष् ।) प्रवेणी । चुलेर

विउणी इति भाषा । इति भरतः ॥ तत्पर्य्यायो
वेणिशब्दे द्रष्टव्यः । (यथा, कुमारे । २ । ६१ ।
“तस्यात्मा शितिकण्ठस्य सैनापत्यमुपेत्य वः ।
मोक्ष्यते सुरवन्दीनां वेणीर्वीर्य्यविभूतिभिः ॥”)
देवताडवृक्षः । इत्यमरः ॥ मेषी । प्रवाहः ।
इति हेमचन्द्रः ॥ नदीविशेषः । इति मेदिनी ॥
तस्या उत्पत्तिर्यथा, --
पृथुरुवाच ।
“कृष्णावेण्योस्तटाद्यस्माच्छिवविष्णुगणैः पुरा ।
बणिक्शरीरात् कलहा निरस्ता कथिता
त्वया ॥
प्रभावस्तु तयोर्नद्योः किंवा क्षेत्रस्य तस्य वा ।
तन्मे कथय सर्व्वज्ञ ! विस्मयोऽत्र महान् मम ॥
नारद उवाच ।
कृष्णा कृष्णतनुः साक्षाद्बेणी साक्षान्महेश्वरः ।
तत्सङ्गमप्रभावन्तु नालं वक्तुं चतुर्म्मुखः ॥
तथापि तत्समुत्पत्तिं कीर्त्तयिष्यामि ते शृणु ।
चाक्षुषस्यान्तरे पूर्ब्बं मनोर्देवपितामहः ॥
स ह्यद्रिशिखरे रम्ये यजनायोद्यतोऽभवत् ।
स कृत्वा यज्ञसम्भारान् सर्व्वदेवगणैर्व्वृतः ॥
युक्ता हरिहराभ्यां हि तद्गिरेः शिखरं ययौ ।
भृग्वादयो मुनिगणा मुहूर्त्ते ब्रह्मदैवते ॥
तस्य दीक्षाविधानाय समाजं चक्रुरादृताः ।
अथ ज्येष्ठां स्वरां पत्नीमाहूयाञ्चक्रुरीश्वराः ॥
सा शनैराययौ तावत् भृगुर्विष्णुमुवाच ह ॥
भृगुरुवाच ।
विष्णो स्वरा त्वयाहूता साप्यायाति न हि
त्वरम् ।
मुहूर्त्तातिक्रमे चैव कार्य्यो दीक्षाविधिः कथम् ॥
विष्णुरुवाच ।
नायाति चेत् स्वरा शीघ्रं गायत्त्र्यत्र विधीयताम् ।
एषापि न भवेदस्य भार्य्या किं पुण्यकर्म्मणि ॥
नारद उवाच ।
एवमेव हि रुद्रोऽपि विष्णुवाक्यममन्यत ।
तच्छ्रुत्वा स भृगुर्व्वाक्यं गायत्त्रीं ब्रह्मणस्तदा ॥
निवेश्य दक्षिणे भागे दीक्षाविधिमथाकरोत् ।
यावद्दीक्षाविधिं तस्य विधेश्चक्रुर्मु नीश्वराः ॥
तावदभ्याययौ तत्र स्वरा यज्ञस्थले नृप ।
ततस्तां दीक्षितां दृष्ट्वा गायत्त्रीं ब्रह्मणा सह ।
सपत्नी सा परा क्रोधात् स्वरा वचनमब्रवीत् ॥
स्वरोवाच ।
अपूज्या यत्र पूज्यन्ते पूज्यानाञ्च व्यतिक्रमः ।
त्रीणि तत्र भविष्यन्ति दुर्भिक्षं मरणं भयम् ॥
मदासने कनिष्ठेयं भवद्भिः सन्निवेशिता ।
तस्मात् सर्व्वे जडीभूता नदीरूपा हि निश्चितम् ॥
इयञ्च दक्षिणे भागे ह्युपविष्टा मदासने ।
तस्माल्लोके सदादृश्या तनुरूपास्तु निम्नगा ॥
नारद उवाच ।
ततस्तच्छापमाकर्ण्य गायत्त्री कम्पिताधरा ।
समुत्थायाशपद्देवैर्वार्य्यमाणापि तां स्वराम् ॥
गायत्त्र्युवाच ।
तव भर्त्ता यथा ब्रह्मा ममाप्येष तथा खलु ।
वृथा शपसि यस्मान्मां भव त्वमपि निम्नगा ॥
नारद उवाच ।
ततो हाहाकृताः सर्व्वे शिवविष्णुमुखेश्वराः ।
प्रणम्य दण्डवत् भूमौ स्वरां तत्र विजिज्ञपुः ॥
देवा ऊचुः ।
देवि शप्ता वयं सर्व्वे ब्रह्माद्याश्च त्वयाधुना ।
यदि सर्व्वे जडीभूता भविष्यामोऽत्र निम्नगाः ॥
तदा लोकत्रयं चैतत् विनश्यति च निश्चितम् ।
अविवेककृतस्तस्मात् शापोऽयं विनिवर्त्तताम् ॥
स्वरोवाच ।
नार्च्चितो हि गणाध्यक्षो भवद्भिर्यत् सुरोत्तमाः ।
तस्माद्विघ्नं समुत्पन्नमबोधजनितं खलु ॥
नापि मद्वचनं ह्येतदसत्यं खलु जायते ।
तस्मात् स्वांशैर्जडीभूता यूयं भवत निम्नगाः ॥
आवामपि सपत्न्यौ च स्वांशाभ्यामपि निम्नगे ।
भविष्यावोऽत्र भो देवाः पश्चिमाभिमुखावहे ॥
नारद उवाच ।
इति तद्वचनं श्रुत्वा ब्रह्मविष्णुमहेश्वराः ।
जडरूपाभवन्नद्यः स्वांशेनैव तदा नृप ।
तस्माद्विष्णुरभूत् कृष्णा वेणी देवो महेश्वरः ॥
ब्रह्मा ककुद्मिनी चान्या पृथगेव बभूव तु ॥”
इति पाद्मोत्तरखण्डे १५६ अध्यायः ॥
अन्यच्च ।
“सरस्वती रजोरूपा तमोरूपा कलिङ्गजा ।
सत्त्वरूपा च गङ्गात्र नयन्ति ब्रह्मनिर्गुणम् ॥
इयं वेणी हि निःश्रेणी ब्रह्मवर्त्म प्रयास्यतः ।
जन्तोर्व्विशुद्धदेहस्य श्रद्धा श्रद्धाप्लुतस्य च ॥
काशीति काचिदबला भुवनेषु रूढा
लोलार्ककेशवविलोलविलोचना च ।
पृष्ठ ४/४९५
तद्दीर्यु गञ्च वरणासिरियं तदीया
वेणीति यात्र गदिताक्षयशर्म्मभूमिः ॥”
इति काशीखण्डे ७ अध्यायः ॥

वेणीरः, पुं, अरिष्टवृक्षः । इति शब्दचन्द्रिका ॥

वेणीसंहारः, पुं, (वेण्याः द्रौपदीवेणिकायाः

संहारो भीमेन मारितदुर्य्योधनशोणितेन मोचनं
यत्र ।) भट्टनारायणकृतसप्ताङ्कयुक्तनाटक-
विशेषः । तत्र दुर्य्योधनकर्त्तृकद्रौपदीकेशाकर्षणा-
वधि तद्वधानन्तरं तस्या वेणीबन्धनपर्य्यन्तविव-
रणमस्ति । तस्यायमाद्यश्लोकः ।
“निषिद्धैरप्येभिर्लुलितमकरन्दो मधुकरैः
करैरिन्दोरन्तश्छुरित इव सम्भिन्नमुकुलः ।
विधत्तां सिद्धिं नो नयनसुभगामस्य सदसः
प्रकीर्णः पुष्पाणां हरिचरणयोरञ्जलिरयम् ॥”

वेणुः, पुं, (अज + “अजिवृरीभ्यो निच्च ।” उणा० ३ ।

३८ । इति णुः । सच नित् । अजेर्वीभावो गुणश्च ।)
वंशः । इत्यमरः ॥ (यथा, रामायणे । ४ । ४३ । १७ ।
“तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा ।
उभयोस्तीरयोस्तस्याः कीचका नाम वेणवः ॥”)
वंशी । इति शब्दरत्नावली ॥ वेणोरुत्पत्ति-
र्यथा, --
“वेणुर्यः शृणु तं विप्र तथापि विदितं तथा ।
द्विज आसीच्छान्तमनाः कृतसान्तपनादिभिः ॥
नाम्ना देवव्रतो दान्तः कर्म्मकाण्डविशारदः ।
अवैष्णवजनव्रातमध्यवर्त्ती क्रियापरः ॥
एकदापि न शुश्राव यज्ञेशोऽस्तीति भूपते ।
तस्य गेहमथाभ्यागाद्वेदान्तकृतनिश्चयः ॥
मद्भक्तः कोऽपि पूजां स तुलसीदलवारिणा ।
कृतवांस्तु गृहे किञ्चित् फलमूलं न्यवेदयत् ॥
स्नानवारि फलं किञ्चित् तस्मै प्रीत्या ददौ सुधीः ।
अश्रद्धयान्वितं कृत्वा सोऽप्यगृह्णात् द्विजन्मनः ॥
तेन पापेन संजातं वेणुत्वमतिदारुणम् ।
तेन पुण्येन तस्यार्थो मदीयप्रियतां गतः ॥
अधुना सोऽपि राजेव केतुमाले विराजते ।
युगान्ते तु विष्णुपरो भूत्वा ब्रह्मत्वमाप्स्यति ॥”
इति पाद्मे पातालखण्डे ५ अध्यायः ॥
नृपविशेषः । इति मेदिनी ॥

वेणुकं, क्ली, तोत्रम् । इति हेमचन्द्रः ॥ (पुं, ह्रस्वो

वेणुः । “संज्ञायां कन् ।” ५ । ३ । ८७ । इति कन् ।
क्षुद्रवेणुः । यथा, हरिवंशे भविष्यपर्व्वणि ।
३९ । ५९ ।
“पश्येदं बहुधा देव भिन्नं भिन्नं सहस्रशः ।
शिक्यञ्च दारवं पात्रं द्बिदलान् वेणुकान् बहून् ॥”)

वेणुकर्करः, पुं, करीरवृक्षः । इति त्रिकाण्डशेषः ॥

वेणुजः, पुं, (वेणोर्ज्जायते इति । जन + डः ।)

वेणुयवः । इति राजनिर्घण्टः ॥ (वेणुजात-
मात्रे, त्रि । यथा, भागवते । ३ । १ । २० ।
“वनं यथा वेणुजवह्निसंश्रयम् ॥”)

वेणुध्मः, पुं, (वेणुं धमतीति । ध्मा + डः ।)

वेणुवादकः । इत्यमरः ॥

वेणुनं, क्ली, मरिचम् । इति रत्नमाला ॥ वेणुज-

मिति च पाठः ॥

वेणुपत्री, स्त्री, (वेणोरिव पत्रं यस्याः ।) वंश-

पत्रीवृक्षः । तत्पर्य्यायः । हिङ्गुपर्णी २ नाडी ३
हिङ्गुशिराटिका ४ । इति रत्नमाला ॥

वेणुबीजं, क्ली, (वेणोर्बीजम् ।) वेणुयवः । इति

राजनिर्घण्टः ॥

वेणुयवः, पुं, (वेणोर्यवः ।) वंशफलम् । वाँशेर

चाउल इति भाषा ॥ (यथा, विष्णुपुराणे । १६ । २५ ।
“तथा वेणुयवाः प्रोक्तास्तद्वन् मर्कटका मुने ॥”)
तत्पर्य्यायः । वेणुजः २ वेणुबीजम् ३ वंशजः ४
वंशतण्डुलः ५ वंशधान्यम् ६ वंशाह्वः ७ । अस्य
गुणाः । रूक्षत्वम् । कषायत्वम् । कटुपाकित्वम् ।
बद्धमूत्रत्वम् । कफघ्नत्वम् । वातपित्तकरत्वम् ।
सारकत्वञ्च । इति राजनिर्घण्टः ॥ अपि च ।
“तद्यवास्तु सरा रूक्षाः कषायाः कटुपाकिनः ।
वातपित्तकरा उष्णा बद्धमूत्राः कफापहाः ॥”
इति भावप्रकाशः ॥

वेणुवादः, पुं, (वेणुं वादयतीति । वद + णिच् +

अण् ।) वैणुकः । इति रत्नमाला ॥

वेतः, पुं, वेत्रः । इति राजनिर्घण्टः ॥

वेतनं, क्ली, (वी + “वीपतिभ्यां तनन् ।” उणा०

३ । १५० । इति तनन् ।) कर्म्मदक्षिणा ।
माहिना इति मजुरि इति च भाषा । तत्-
पर्य्यायः । कर्म्मण्या २ विधा ३ भृत्या ४ भृतिः
भर्म्म ६ भरण्यम् ७ भरणम् ८ मूल्यम् ९
निर्व्वेशः १० पणः ११ । इत्यमरः ॥ विष्टिः १२ ।
इति जटाधरः ॥ (यथा, मनौ । ७ । १२६ ।
“पणो देयोऽवकृष्टस्य षडुत्कृष्टस्य वेतनम् ॥”)
जीवनोपायः । तत्पर्य्यायः । आजीवः २ जीव-
नम् ३ वार्त्ता ४ जीविका ५ वृत्तिः ६ । इति
हेमचन्द्रः ॥ रूप्यम् । इति शब्दचन्द्रिका ॥

वेतसः, पुं, (वे + “वेञस्तुट् च ।” उणा० ३ । ४४८ ।

इति असच् । तुडागमश्च ।) लताविशेषः ।
वयसा इति भाषा । इति भरतः ॥ वेति जल-
प्लवतां गच्छति इति वेतसः । वील ईलवत्
नाम्नीति तसः । इत्यमरटीकायां भरतः ॥ तत्-
पर्य्यायः । रथः २ अभ्रपुष्पः ३ विदुलः ४ शीतः
५ वानीरः ६ वञ्जुलः ७ । इत्यमरः ॥ प्रियः ८ ।
इति रत्नमाला ॥ गन्धपुष्पः ९ रथाभ्रः १० वेतसी
११ । इति शब्दरत्नावली ॥ निचुलः १२ दीर्घ-
पत्रकः १३ कलमः १४ मञ्जरीनम्रः १५ सुषेणः
१६ गन्धपुष्पकः १७ । (यथा, भागवते । ३ । २ । १७ ।
“कदम्बवेतसनलनीपवञ्जुलकैर्व्वृतम् ॥”)
अस्य गुणाः । स्वादे कटुत्वम् । शीतत्वम् ।
भूतरक्तपित्तोद्भवरोगकुष्ठदोषनाशित्वञ्च । इति
राजनिर्घण्टः ॥ अस्य पर्य्यायगुणाः ।
“वेतसो नम्रकः प्रोक्तो वानीरो रञ्जनस्तथा ।
अभ्रपुष्पञ्च विदुलो रथः शीतश्च कीर्त्तितः ॥
वेतसः शीतलो दाहशोथार्शोयोनिरुग्व्रणान् ।
हन्ति वीसर्पकृच्छ्रास्रपित्ताश्मरिकफानिलान् ॥”
इति भावप्रकाशः ॥
जलवेतसस्य पर्य्यायगुणाः । अथ जलवेतसः ।
“निकुञ्चकः परिव्याघो नादेयो जलवेतसः ।
जलजो वेतसः शीतः संग्राही वातकोपनः ॥”
इति भावप्रकाशः ॥
(जलजाताग्निः । यथा, ऋग्वेदे । ४ । ५८ । ५ ।
“हिरण्ययो वेतसो मध्य आसाम् ॥”
“वेतसोऽप्सम्भवोऽग्निः ।” इति तद्भाष्ये
सायणः ॥”)

वेतसाम्लः, पुं, (वेतसप्रधानोऽम्लः ।) अम्लवेतसः ।

इति जटाधरः ॥

वेतसी, स्त्री, वेतसः । इति शब्दरत्नावली ॥

(यथा, साहित्यदर्पणे । १ ।
“रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥”)

वेतस्वान्, [त्] त्रि, (वेतसाः सन्त्यत्र । “कुमुदनडवे-

तसेभ्यो ड्मतुप् ।” ४ । २ । ८७ । इति ड्मतुप् ।
“मादुपधायाः ।” ८ । २ । ९ । इति मस्य
वत्वम् ।) वेतसलताबहुलदेशः । इत्यमरभरतौ ॥

वेतालः, पुं, द्वारपालकः । इति शब्दरत्नावली ॥

भूताधिष्ठितशवः । इत्यमरः ॥ मल्लभेदः । इति
भरतः ॥ शिवगणाधिपविशेषः । यथा, --
सगर उवाच ।
“कोऽसौ भैरवनामाभूत् को वा वेतालसंज्ञकः ।
कथं वा तौ शरीरेण मानुषेण गणाधिपौ ।
अभूतां द्विजशार्द्दूल तन्मे वद महामुने ॥
श्रीऔर्व्व उवाच ।
शृणु राजन् प्रवक्ष्यामि महाकालस्य भृङ्गिणः ।
भैरवस्यापि चरितं वेतालस्य महात्मनः ॥
सोऽसौ भृङ्गी हरसुतौ महाकालोऽपि भर्गजः ।
तावेव गौरीशापेन संभूय नरयोनिजौ ।
वेतालभैरवौ जातौ पृथिव्यां नृपवेश्मनि ॥”
इति कालिकापुराणे ४५ अध्यायः ॥
तस्योत्पत्त्यादि यथा, --
श्रीदेव्युवाच ।
“ममैव मानुषी मूर्त्तिरियं वृषभकेतन ! ।
विशामि तेऽत्र वचनादुत्पादय सुतद्वयम् ॥
प्रविवेश ततो देवी स्वयं तारावतीतनौ ।
महादेवोऽपि तस्यास्तु कामार्थं समुपस्थितः ॥
ततः सापर्णयाविष्टा देवी तारावती सती ।
कामयानं महादेवं स्वयमेवाभवन्मुदा ॥
तस्मिन् कालेऽभवद्गर्भः कापाली चास्थिमाल्य-
धृक् ।
कामावसाने तस्यास्तु सद्यो जातं सुतद्वयम् ॥
अभवन्नृपशार्दूल तथा शाखामृगाननम् ।
अथ तारावती देवी सुतौ दृष्ट्वा क्षितिस्थितौ ॥
भूमौ मलिनवेशेन मन्युना समुपार्विशत् ।
भर्त्तुरागमनं शश्वत् काङ्क्षन्ती भर्गभाषितम् ॥
अथ क्षणान्महाभागः स राजा चन्द्रशेखरः ।
प्रासादपृष्ठे आगच्छद्द्रष्टुं तारावतीं तदा ॥
ददर्श पतितां भूमौ मुक्तकेशीं निरुत्सवाम् ।
सुतौ च पतितौ भूमौ चन्द्रसूर्य्यसमप्रभौ ॥
वानरास्यौ स ददृशे पदक्षोभं वृषस्य च ।
ततः स राजा न्यगदत् तं मुनिं प्रहसन्मुदा ॥
पालयिष्ये शम्भुसुतौ यथा लभ्यं सदैव हि ।
किन्त्वेतौ मुनिशार्दूल त्वं संस्कुरु यथाविधि ॥
पृष्ठ ४/४९६
और्व्व उवाच ।
ततस्तयोर्नाम चक्रे नारदो वचनान्नृप ।
ज्येष्ठो भैरवनामाभूत् वीरः पुत्त्रो भयङ्करः ॥
वेतालसदृशः कृष्णो वेतालोऽभूत्तथापरः ।
इति चक्रे तयोर्नाम देवर्षिर्ब्रह्मणः सुतः ॥”
इति कालिकापुराणे ४९ अध्यायः ॥

वेतालभट्टः, पुं, राजविक्रमादित्यस्य नवरत्नान्त-

र्गतरत्नविशेषः । यथा, --
“धन्वन्तरिः क्षपणकामरसिंहशङ्कु-
वेतालभट्टघटकर्परकालिदासाः ।
ख्यातो वराहमिहिरो नृपतेः सभायां
रत्नानि वै वररुचिर्नव विक्रमस्य ॥”
इति नवरत्नश्लोकः ॥

वेत्ता, [ऋ] त्रि, ज्ञाता । वेत्तीति विदधातोस्तृण्-

प्रत्ययेन निष्पन्नमिदम् ॥ (यथा, हितोपदेशे ।
“यथा खरश्चन्दनभारवाही
भारस्य वेत्ता नतु चन्दनस्य ॥”)

वेत्रः, पुं, (वी + “गुधृवीपचीति ।” उणा० ४ ।

१६६ । इति त्रः ।) स्वनामख्यातवृक्षः । तत्प-
र्य्यायः । वेतः २ योगिदण्डः ३ सुदण्डः ४ मृदु-
पर्व्वकः ५ ॥ (यथा, शाकुन्तले । ५ ।
“आचार इत्यधिकृतेन मया गृहीता
या वेत्रयष्टिरवरोधगृहेषु राज्ञः ॥”)
स तु पञ्चविधः । तेषां गुणाः । शीतलत्वम् ।
कषायत्वम् । भूतपित्तहरत्वञ्च । इति राज-
निर्घण्टः ॥ तस्याग्रं वेताग् इति ख्यातम् ।
तद्गुणाः । दीपनत्वम् । रुच्यत्वम् । तिक्तत्वम् ।
पित्तकफनाशित्वञ्च । तत्फलगुणाः । वातपित्त-
नाशित्वम् । अम्लत्वञ्च । इति राजवल्लभः ॥
असुरविशेषः । तस्य प्रमाणं वेत्रासुरशब्दे
द्रष्टव्यम् ॥

वेत्रकीयः, त्रि, (वेत्र + “नडादीनां कुक् च ।” ४ ।

२ । ९१ । इति कुक् छश्च ।) वेत्रसमूहयुक्तदेशादिः ।
इति सिद्धान्तकौमुदी ॥ (एकचक्रा नगरी तु
वेत्रप्राचुर्य्यवत्त्वेन तदाख्ययापि प्रसिद्धा । यथा,
महाभारते । १ । १६१ । ९ ।
“वेत्रकीयगृहे राजा नायं नयमिहास्थितः ।
उपायं तं न कुरुते यत्नादपि स मन्दधीः ॥”)

वेत्रधरः, पुं, (वेत्रस्य धरः ।) द्वारपालः । इति

हलायुधः ॥ यष्टिधारके, त्रि ॥

वेत्रधारकः, पुं, (वेत्रस्य धारकः ।) द्वारपालः ।

इति जटाधरः ॥

वेत्रवती, स्त्री, नदीविशेषः । इत्यमरः ॥ सा तु

मालवदेशात् कालपीनामनगरे यमुनायां
मिलिता । वेत्रासुरमाता । यथा, वराहपुराणे ।
“वेत्रवत्युदरे जातो नाम्ना वेत्रासुरोऽभवत् ॥”

वेत्रहा, [न्] पुं, (वेत्रं हतवान् । हन + क्विप् ।)

इन्द्रः । इत्यमरः ॥

वेत्रावती, स्त्री, वेत्रवती नदी । यथा, --

“तत्रान्या दधते जलं सुमधुरं कान्तिप्रदं पुष्टिदं
वृष्यं दीपनपाचनं बलकरं वेत्रावती तापिनी ॥”
इति राजनिर्घण्टः ॥

वेत्रासनं, क्ली, (वेत्रस्यासनम् ।) वेत्रनिर्म्मिता-

सनम् । तत्पर्य्यायः । आसन्दी २ । इति हेम-
चन्द्रः ॥

वेत्रासुरः, पुं, (वेत्रनामकोऽसुरः ।) स्वनाम-

ख्यातासुरः । तस्योत्पत्तिर्यथा, --
महातपा उवाच ।
“आसीद्राजा पुरा राजन् सिन्धुद्वीपः प्रताप-
वान् ।
वारुणांशो महाराजोऽसौऽरण्ये तपसि स्थितः ॥
पुत्त्रो मे शत्रुनाशाय भवेदिति नराधिपः ।
एवं कृतमतिः सोऽथ महता तपसा स्वकम् ।
कलेवरं स्थिरो भूत्वा शोषयामास सुव्रतः ॥
प्रजापाल उवाच ।
कथं तस्य द्विजश्रेष्ठ शक्रेणापकृतं भवेत् ।
येनासौ तद्विनाशाय पुत्त्रमिच्छन् व्रते स्थितः ॥
महातपा उवाच ।
सोऽन्यजन्मनि पुत्त्रोऽभूत् त्वष्टुर्बलवतां वरः ।
अवध्यः सर्व्वशस्त्रौघैरपां फेनेन नाशितः ॥
जलफेनेन निहितस्तस्मिल्लयमवाप्नुयात् ।
पुणर्ब्रह्मान्वयो जातः सिन्धुद्बीपेतिसंज्ञितः ॥
स तेपे परमं तीव्रं शक्रवैरमनुस्मरन् ।
ततः कालेन महता नदी वेत्रवती शुभा ॥
मानुषं रूपमास्थाय सालङ्कारा मनोरमम् ।
आजगाम यतो राजा तेपे परमकं तपः ॥
तां दृष्ट्वा रूपसम्पन्नां स राजा क्रुद्धमानसः ।
उवाच कासि सुश्रोणि सत्यं कथय भामिनि ॥
नद्युवाच ।
अहं जलपतेः पत्नी वरुणस्य महात्मनः ।
नाम्ना वेत्रवती पुण्या त्वामिच्छन्तीह आगता ॥
साभिलाषां परस्त्रीं यो भजमानां विसर्ज्जयेत् ।
स पापपुरुषो ज्ञेयो ब्रह्महत्याञ्च विन्दति ॥
एवं ज्ञात्वा महाराज भजमानां भजस्व माम् ।
एवमुक्तस्तया राजा साभिलाषोपभुक्तवान् ॥
तस्य सद्योऽभवत् पुत्त्रो द्वादशार्कसमप्रभः ।
वेत्रवत्युदरे जातो नाम्ना वेत्रासुरोऽभवत् ॥
बलवानतितेजस्वी प्राग्ज्योतिषः पतिर्भवेत् ।
स कालेन युवा जातो बलवान् दृढविक्रमः ॥
महायोगेन संयुक्तो जिगाय च वसुन्धराम् ।
सप्तद्वीपवतीं पश्चान्मेरुपर्व्वतमारुहन् ।
तत्रेन्द्रं प्रथमं जिग्ये पश्चादग्निं यमं ततः ॥”
इति वराहपुराणे देवोत्पत्तिनामाध्यायः ॥

वेत्री, [न्] पुं, (वेत्रोऽस्यास्तीति । वेत्र + इनिः ।)

द्वारपालकः । इति हेमचन्द्रः ॥ वेत्रयुक्ते, त्रि ॥

वेथ, ऋ ङ याचे । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-द्विक०-सेट् ।) ङ, वेथते । इति दुर्गा-
दासः ॥

वेदः, पुं, (विद + घञ् ।) विष्णुः । यथा, --

“वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः ॥”
इति विष्णुसहस्रनामस्तोत्रम् ॥
वृत्तम् । इति मेदिनी ॥ क्वचित् पुस्तके वित्त-
मित्यपि पाठः । यज्ञाङ्गम् । इति नानार्थरत्न-
माला ॥ मीनशरीरावच्छेदेन भगवद्बाक्यम् ।
इति न्यायशास्त्रम् ॥ धर्म्मब्रह्मप्रतिपादकमपौ-
रुषेयवाक्यम् । इति वेदान्तशास्त्रम् ॥ ब्रह्ममुख-
निर्गतधर्म्मज्ञापकशास्त्रम् । इति पुराणम् ॥
तत्पर्य्यायः । श्रुतिः २ आम्नायः ३ । इत्य-
मरः ॥ छन्दः ४ ब्रह्म ५ निगमः ६ । इति
शब्दरत्नावली ॥ प्रवचनम् ७ । इति जटा-
धरः ॥ * ॥ वेदस्य प्रादुर्भावो । यथा । कदाचित्
कथं सृक्ष्यामीति ध्यायतो ब्रह्मणो मुखचतु-
ष्टयेभ्यश्चत्वारो वेदाः प्रादुरासन् । यथा । एक-
विंशतिशाखात्मक-ऋक् १ शतशाखात्मक-
यजुः २ सहस्रशाखामयसाम ३ नवशाखा-
मयाथर्व्व ४ । इति पुराणम् ॥ अपि च ।
श्रीमार्कण्डेय उवाच ।
“तस्मादण्डाद्विनिर्भिन्नाद्ब्रह्मणोऽव्यक्तजन्मनः ।
ऋचो बभूवुः प्रथमं प्रथमाद्वदनान्मुने ॥
जवापुष्पनिभाः सद्यस्तेजोरूपा ह्यसंवृताः ।
पृथक् पृथग्विभिन्नाश्च रजोरूपा महात्मनः ॥
यजूंषि दक्षिणाद्वक्त्रादनिबद्धानि कानिचित् ।
यादृक्वर्णं तथा वर्णान्यसंहतिचराणि वै ॥
पश्चिमं यद्विभोर्व्वक्त्रं ब्रह्मणः परमेष्ठिनः ।
आविर्भूतानि सामानि ततः कुन्दसितान्यथा ॥
अथर्व्वाणमशेषेण भृङ्गाञ्जनचयप्रभम् ।
घोराघोरस्वरूपं तदाभिचा रिकशान्तिमत् ॥
उत्तरात् प्रकटीभूतं वदनात्तत्तु वेधसः ।
मुखं सत्त्वतमःप्रायं सौम्यासौम्यस्वरूपवत् ॥
ऋचो रजोगुणाः सत्त्वं यजुषाञ्च गुणो मुने ।
तमोगुणानि सामानि तमःसत्त्वमथर्व्वसु ॥
एतानि ज्वलमानानि तेजसाप्रतिमेन वै ।
पृथक् पृथगवस्थानं भाञ्जि पूर्व्वमिवाभवत् ॥
ततस्तदाद्यं यत्तेज ओमित्युक्त्वाभिशस्यते ।
तस्यानुभावादृक्तेजस्तमांस्यावृत्य संस्थितम् ॥
यथा यजुर्म्मयं तेजो यच्च साम्नां महामुने ।
एकत्वमुपयातानि परतेजसि संश्रयात् ॥
शान्तिकं पौष्टिकञ्चैव तथा चैवाभिचारिकम् ।
ऋगादिषु लयं ब्रह्मंस्त्रितयं त्रिष्वथागमत् ॥
ततो विश्वमिदं सद्यस्तमोनाशात् सुनिर्म्मलम् ।
बभावतीव विप्रर्षे तिरश्चोर्द्ध्वमधस्तथा ॥
ततस्तन्मण्डलीभूतं छान्दसं तेज उत्तमम् ।
परेण तेजसा ब्रह्मन् ! एकत्वमुपगम्य तत् ॥
आदित्यसंज्ञामगमदादावेव यतोऽभवत् ।
विश्वस्यास्य महाभाग कारणञ्चाव्ययात्मकम् ॥
प्रातर्मध्यन्दिने चैव तथा चैवापराह्णिके ।
त्रयी तपति सा काले ऋग्यजुःसामसंज्ञिता ॥
ऋचस्तपन्ति पूर्व्वाह्णे भध्याह्ने च यजूंषि वै ।
सामानि चापराह्णे तु तपन्ति मुनिसत्तम ॥
शान्तिकं ऋक्षु पूर्ब्बाह्णे यजुः स्वनृचपौष्टिकम् ।
अपराह्णे स्थितं नित्यं सामस्वेवाभिचारिकम् ॥
सृष्टौ च ऋङ्मयो ब्रह्मा स्थितौ विष्णुर्यजुर्म्मयः ।
रुद्रः साममयोऽन्ते च तस्मात्तस्या शुचिर्ध्वनिः ॥
तदेवं भगवान् भास्वान् वेदात्मा वेदसंस्थितः ।
वेदविद्यात्मकश्चैव परः पुरुष उच्यते ॥
स्वर्गस्थित्यन्तहेतुः स रजःसत्त्वादिकैर्गुणैः ॥
पृष्ठ ४/४९७
आश्रित्य ब्रह्मविष्ण्वादिसंज्ञामभ्येति शाश्वतः ॥
वेदैः स वेद्यः स तु वेदमूर्त्ति-
रमूर्त्ति-राद्योऽखिलविश्वमूर्त्तिः ।
विश्वाश्रयं ज्योतिरवेद्यवर्त्मा
धर्म्मावदातः परमः परेभ्यः ॥”
इति श्रीमार्कण्डेयपुराणे सूर्य्यमाहात्म्ये सूर्य्यो-
त्पत्तिनामाध्यायः ॥ * ॥ अन्यच्च ।
“अष्टाविंशे पुनः प्राप्ते ह्यस्मिन् वै द्बापरे द्बिजाः ।
पराशरसुतो व्यासः कृष्णद्वैपायनोऽभवत् ॥
ए सव सर्व्ववेदानां पुराणानां प्रदर्शकः ।
पाराशर्य्यो महायोगी कृष्णद्वैपायनो हरिः ॥
आराध्य देवमीशानं दृष्ट्वा साम्बं त्रिलोचनम् ।
तत्प्रसादादसौ व्यासो वेदानामभवत् प्रभुः ॥
अथ शिष्यान् प्रजग्राह चतुरो वेदपारगान् ।
जैमिनिञ्च सुमन्तुञ्च वैशम्पायनमेव च ॥
पैलं तेषां चतुर्थञ्च पञ्चमं मां महामुनिः ।
ऋग्वेदश्रावकं पैलं प्रजग्राह महामुनिः ॥
यजुर्व्वेदप्रवक्तारं वैशम्पायनमेव च ।
जैमिनिं सामवेदस्य श्रावकं सोऽन्वपद्यत ॥
तथैवाथर्व्ववेदस्य सुमन्तुमृषिसत्तमम् ।
इतिहासपुराणानि प्रवक्तुं मामयोजयत् ॥
एक आसीद्यजुर्व्वेदस्तञ्चतुर्द्धा व्यकल्पयत् ।
चातुर्होत्रमभूद्यस्मिंस्तेन यज्ञमथाकरोत् ॥
अध्वर्य्यवं यजुर्भिः स्यादृग्भिर्होत्रं द्विजोत्तमाः ।
औद्गात्रं सामभिश्चक्रे ब्रह्मत्वञ्चाप्यथर्व्वभिः ॥
ततः स ऋच उद्धृत्य ऋग्वेदं कृतवान् प्रभुः ।
यजूंषि च यजुर्व्वेदं सामवेदञ्च सामभिः ॥
एकविंशतिभेदेन ऋग्वेदं कृतवान् पुरा ।
शाखानान्तु शतेनाथ यजुर्व्वेदमथाकरोत् ॥
सामवेदं सहस्रेण शाखानाञ्च विभेदतः ।
अथर्व्वाणमथो वेदं बिभेद नवकेन तु ॥
भेदैरष्टादशैर्व्यासः पुराणं कृतवान् प्रभुः ।
योऽयमेकश्चतुष्पादो वेदः पूर्व्वं पुरातनात् ॥
ॐकारो ब्रह्मणो जातः स दोषविषशोधनः ।
वेदवेद्यो हि भगवान् वासुदेवः सनातनः ॥
स गीयते वरो देवो यो वेदैनं स वेदवित् ।
एतत् परतरं ब्रह्मज्योतिरानन्दमुत्तमम् ॥
वेदवाक्योदितं तत्त्वं वासुदेव परं पदम् ।
वेदवेद्यमिदं वेत्ति वेदं वेदपरो मुनिः ॥
अवेदं परमं वेत्ति वेदनिष्ठः सदेश्वरः ।
स एव वेदो वेद्यश्च तमेवाश्रित्य मुच्यते ॥
इत्येतदक्षरं वेद्यमोङ्कारं वेदमव्ययम् ।
अवेदञ्च विनाजाति पाराशर्य्यो महामुनिः ॥”
इति कौर्म्मे ४९ अध्यायः ॥ * ॥
वेदाध्ययनपात्रं यथा, --
व्यास उवाच ।
“एवं दण्डादिभिर्युक्तं शौचाचारसमन्वितः ।
आहूतोऽध्ययनं कुर्य्याद्वीक्षमाणो गुरोर्म्मुखम् ॥
नित्यमुद्यतपाणिः स्यात् साध्वाचारः सुसंयतः ।
आस्यतामिति चोक्तः सन्नासीताभिमुखं
गुरोः ॥
प्रतिश्रवणसम्भाषे शयानो न समाचरेत् ।
नासीनो न च भुञ्जानो न तिष्ठन्न पराङ्मुखः ॥
नीचं शय्यासनं चास्य सर्व्वदा गुरुसन्निधौ ।
गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत् ॥
नोदाहरेदस्य नाम परोक्षमपि केवलम् ।
न चैवास्यानुकुर्व्वीत गतिभाषितचेष्टितम् ॥
गुरोर्यत्र परीवादो निन्दा वापि प्रवर्त्तते ।
कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥
दूरस्थो नार्च्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः ।
न चैवास्योत्तरं ब्रूयात् स्थिते नासीत सन्निधौ ॥
उदकुम्भं कुशान् पुष्पं समिधोऽस्याहरेत् सदा ।
मार्ज्जनं लेशनं नित्यमङ्गानां वै समाचरेत् ॥
नास्य निर्म्माल्यशयनं पादुकोपानहावपि ।
नाक्रामेदासनञ्चास्य छायादीन् वै कदाचन ॥
साधयेद्दण्डकाष्ठादीन् लब्धञ्चास्मै निवेदयेत् ।
अनापृच्छन्न गन्तव्यं भवेत् प्रियहिते रतः ॥
न पादौ धावयेदस्य सन्निधाने कदाचन ।
जृम्भितं हसितञ्चैव कण्ठप्रावरणं तथा ॥
वर्ज्जयेत् सन्निधौ नित्यमवस्फोटनमेव च ।
यथाकालमधीयीत यावन्न विमना गुरुः ॥
आसीताधो गुरोर्दर्भे फलके वा समाहितः ।
आसने शयने याने नैव तिष्ठेत् कथञ्चन ॥
धावन्तमनुधावेत्तं गच्छन्तमनुगच्छति ।
गोऽश्वोष्ट्रयानप्रासादप्रस्तरेषु कटेषु च ॥
आसीत गुरुणा सार्द्धं शिलाफलकनौषु च ।
जितेन्द्रियः स्यात् सततं वश्यात्माक्रोधनः
शुचिः ॥
प्रयुञ्जीत सदा वाचं मधुरां हितकारिणीम् ।
गन्धं माल्यं रसं कन्यां शुक्तं प्राणिविहिंसनम् ॥
अभ्यङ्गञ्चाञ्जनोपानच्छत्रधारणमेव च ।
कामं लोभं भयं निद्रां गीतं वादित्रनृत्यकम् ॥
आतर्ज्जनं परीवादं स्त्रीप्रेक्षालभनन्तथा ।
परोपघातपैशुन्यं प्रयत्नेन विवर्ज्जयेत् ॥
उदकुम्भं सुमनसो गोशकृन्मृत्तिकाकुशान् ।
आहरेद्यावदर्थानि भैक्षञ्चाहारमाचरेत् ॥
कृतञ्च लवणं सर्व्वं वर्ज्यं पर्य्युषितञ्च यत् ।
अनृत्यदर्शी सततं भवेद्गीतादिनिस्पृहः ॥
नादित्यं वै समीक्षेत नाचरेद्दन्तधावनम् ।
एकान्तमशुचिस्त्रीभिः शूद्रान्त्यैरभिभाषणम् ॥
गुरूच्छिष्टं भैषजार्हं प्रभुञ्जीत न कामतः ।
मलापकर्षणं स्नानं नाचरेद्धि कथञ्चन ॥
न कुर्य्यान्मानसं विप्र गुरोस्त्यागे कथञ्चन ।
मोहाद्वा यदि वा लोभात्त्यक्तेन पतितो भवेत् ॥
लौकिकं वैदिकञ्चापि तथाध्यात्मिकमेव वा ।
आददीत यतो ज्ञानं तन्न द्रुह्येत् कदाचन ॥
गुरोरप्यवलिप्तस्य कार्य्याकार्य्यमजानतः ।
उत्पथप्रतिपन्नस्य मनुस्त्यागं समब्रवीत् ॥
गुरोर्गुरोः सन्निहिते गुरुवद्वृत्तिमाचरेत् ।
न चाविसृष्टगुरुणा स्वान् गुरूनभिवादयेत् ॥
विद्यागुरुष्वेतदेव नृत्यवृत्तिस्वयोनिषु ।
प्रतिषेधान्न चाधर्म्मा द्बिजञ्चोपदिशत्स्वपि ॥
श्रेयः स्वगुरुवद्वृत्तिं नित्यमेव समाचरेत् ।
गुरुपुत्त्रेषु दारेषु गुरोश्चैव स्वबन्धुषु ॥
बालः समानजन्मा वा शिष्यो वा यज्ञकर्म्मणि ।
अध्यापयन् गुरुसुतो गुरुवन्मानमर्हति ॥
उत्सादनं वा गात्राणां स्नपनोच्छिष्टभोजने ।
न कुर्य्याद्गुरुपुत्त्रस्य पादयोः शौचमेव च ॥
गुरुवत् प्रतिपूज्यास्तु सवर्णा गुरवस्तथा ।
असवर्णास्तु संपूज्याः प्रत्युत्थानाभिवादनैः ॥
अभ्यञ्जनं स्नापनञ्च गात्रोत्सादनमेव च ।
गुरुपत्न्या न कार्य्याणि केशानाञ्च प्रसाधनम् ॥
गुरुपत्नीन्तु युवतीं नाभिवाद्येत पादयोः ।
कुर्व्वीत वन्दनं भूमावेषोऽहमिति च ब्रुवन् ॥
विप्रोष्य पादग्रहणमन्वहञ्चाभिवादनम् ।
गुरुदारेषु कुर्व्वीत सतां धर्म्ममनुस्मरन् ॥
मातृस्वसा मातुलानी श्वश्रूश्चाथ पितुः स्वसा ।
प्रपूज्या गुरुपत्नी च समास्ता गुरुभार्य्यया ॥
भ्रातृभार्य्योपसंग्राह्या सवर्णाहन्यहन्यपि ।
विप्रस्य तूपसंग्राह्या ज्ञातिसम्बन्धियोषितः ॥
पितुर्भगिन्यां मातुश्च ज्यायस्याञ्च स्वसर्य्यपि ।
मातृवद्वृत्तिमातिष्ठेन्माता ताभ्यो गरीयसी ॥
एवमाचारसम्पन्नमात्मवश्यमदाम्भिकम् ।
वेदमध्यापयेद्धर्म्मं पुराणाङ्गानि नित्यशः ॥
तथा चिरोषिते शिष्ये गुरुर्ज्ञानमनिर्द्दिशन् ।
हरते दुष्कृतं तस्य शिष्यस्यैवं ततो गुरुः ॥
आचार्य्यपुत्त्रः शुश्रूषुर्ज्ञानदो धार्म्मिकः शुचिः ।
आप्तः शक्तोऽर्थदः साधुरध्याप्या दश धर्म्मतः ॥
कृतज्ञश्च तथाद्रोही मेधावी शुभकृन्नरः ।
आप्तः प्रियोऽथ विधिवत् षडध्याप्या द्बिजातयः ।
एतेषु ब्रह्मणो दानमन्यत्र तु यथोदितात् ॥” * ॥
वेदाध्ययनविधिर्यथा, --
“आचम्य संयतो नित्यमधीयीत उदङ्मुखः ।
उपसंगृह्य तत्पादौ वीक्षमाणो गुरोर्भुखम् ॥
अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति चारमेत् ।
प्राक् भूतान् पर्य्युपासीनः पवित्रैश्चैव पावितः ॥
प्राणायामैस्त्रिभिः पूतस्तत ओङ्कारमर्हति ।
ब्राह्मणः प्रणवं कुर्य्यादन्ते च विधिवद्द्विजाः ॥
कुर्य्यादध्यापनं नित्यं स ब्रह्मादीनि पूर्व्वतः ।
सर्व्वेषामेव भूतानां देवश्चक्षुः सनातनः ॥
अधीतानध्ययन्नित्यं ब्राह्मण्याद्धीयतेऽन्यथा ।
अधीयीत ऋचो नित्यं क्षीरहुत्या सदेवताः ॥
प्रीणाति तर्पयन्त्येनं कामैस्तृप्ताः सदेवताः ।
यजूंष्यधीते नियतं दध्ना प्रीणाति देवताः ॥
सामान्यधीते प्रीणाति घृताहुतिभिरन्वहम् ।
अथर्व्वाङ्गिरसो नित्यं मध्वा प्रीणाति देवताः ॥
धर्म्मार्थञ्च पुराणानि मांसैस्तर्पयते सुरान् ।
अपां समीपे प्रयतो नैत्यिकं विधिमाश्रितः ॥
गायत्त्रीमप्यधीयीत गत्वारण्यं समाहितः ।
सहस्रपरमां देवीं शतमध्यां दशावराम् ॥
गायत्त्रीं वै जपेन्नित्यं जपयज्ञः प्रकीर्त्तितः ॥
गायत्त्रीञ्चैव वेदांश्च तुलयातोलयत् प्रमुः ।
एकतश्चतुरो वेदान् गायत्त्रीञ्च तथैकतः ॥
ॐकारमादितः कृत्वा व्याहृतीस्तदनन्तरम् ।
ततोऽधीयीत सावित्रीमेकाग्रः श्रद्धयान्वितः ॥
पुराकल्पे समुत्पन्ना भूर्भुवःस्वःसनातनाः ।
पृष्ठ ४/४९८
महाव्याहृतयस्तिस्रः सर्व्वाशुभनिवर्हणाः ॥
प्रधानं पुरुषः कालो ब्रह्मविष्णुमहेश्वराः ।
सत्त्वं रजस्तमस्तिस्रः क्रमाद्व्याहृतयः स्मृताः ॥
ॐकारस्तत्परं ब्रह्म सावित्री स्यात्तदक्षरम् ।
एष मन्त्रो महाभागः सारात्सार उदाहृतः ॥
योऽधीतेऽहन्यहन्येतां सावित्रीं वेदमातरम् ।
विज्ञायार्थं ब्रह्मचारी स याति परमां गतिम् ॥
गायत्त्री वेदजननी गायत्त्री लोकपावनी ।
न गायत्त्र्याः परं जप्यं एतद्विज्ञाय मुच्यते ॥
श्रावणस्य च माघस्य पौर्णमास्यां द्बिजोत्तमाः ।
आषाढ्यां प्रौष्ठपद्यां वा वेदोपकरणे स्मृतः ॥
उत्सृज्य ग्रामनगरं मासान् विप्रोऽर्द्धपञ्चमान् ।
अधीयीत शुचौ देशे ब्रह्मचारी समाहितः ॥
पुष्ये तु छन्दसां कुर्य्याद्बहिरुत्सर्ज्जयेद्द्विजः ।
माघशुक्लस्य तु प्राप्ते पूर्ब्बाह्णे प्रथमेऽहनि ॥
छन्दांस्यूर्द्ध्वमथो जप्यात् शुक्लपक्षे तु वै द्बिजः ।
वेदाङ्गानि पुराणानि कृष्णपक्षे तु मानवः ॥ * ॥
इमान्नित्यमनध्यायानधीयानो विचक्षणः ।
अध्यापनञ्च कुर्व्वाणो अभ्यस्यन्नपि यत्नतः ॥
कर्णश्रवेऽनिले रात्रौ दिवा पांशुससूहने ।
विद्युत्स्तनितसर्व्वेषु महोल्कानाञ्च संप्लवे ॥
आकालिकमनध्यायमेतेष्वाह प्रजापतिः ।
एतानभ्युदितान् विद्याद्यदा प्रादुष्कृताग्निषु ॥
तदा विद्यादनध्यायमनृतौ चात्र दर्शने ।
सज्योतिः स्यादनध्यायः शेषे रात्रौ यथा दिवा ॥
नित्यानध्याय एव स्याद्ग्रामेषु नगरेषु च ।
धर्म्मनैपुण्यकामानां पूतिगन्धेषु नित्यशः ॥
अन्तःशवगते ग्रामे वृषलस्यैव सन्निधौ ।
अनध्यायो रुद्यमाने समवाये जनस्य च ॥
उदके मध्यरात्रे च विण्मूत्रस्य विसर्ज्जने ।
उच्छिष्टः श्राद्धं भुक्त्वैव मनसापि न चिन्तयेत् ॥
प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य केतनम् ।
त्र्यहं न कीर्त्तयेद्ब्रह्म राज्ञो राहोश्च सूतके ॥
यावदेकान्तदुष्टस्य स्नेहो लेपश्च तिष्ठति ।
विप्रस्य विदुषो देहे तावद्ब्रह्म न कीर्त्तयेत् ॥
शयानः प्रौढपादश्च तथा चैवावशक्थिकः ।
नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यमेव च ॥
निराहारे बाणशब्दे सन्ध्ययोरुभयोरपि ।
अमावास्याचतुर्द्दश्योः पौर्णमास्यष्टमीषु च ॥
उपाकर्म्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम् ।
अष्टकासु त्वहोरात्रमृत्वन्तासु च रात्रिषु ॥
मार्गशीर्षे तथा पौषे माघमासे तथैव च ।
तिस्रोऽष्टकाः समाख्याताः कृष्णपक्षेषु सूरिभिः ॥
श्लेष्मातकस्य च्छायायां शाल्मलेर्मधुकस्य च ।
कदाचिदपि नाध्येयं कोविदारकपित्थयोः ॥
समानविद्ये तु मृते तथा सब्रह्मचारिणि ।
आचार्य्ये संस्थिते वापि त्रिरात्रं क्षपणं स्मृतम् ॥
छिद्राण्येतानि विप्राणां येऽनध्यायाः प्रकी-
र्त्तिताः ।
हिंसन्ति राक्षसास्तेषु तस्मादेतानि वर्ज्जयेत् ॥
नित्यके नास्त्यनध्यायः सन्ध्योपासन एव च ।
उपाकर्म्मणि कर्म्मान्ते होममन्त्रे तथैव च ॥
एकामृचमथैकं वा यजुः सामाथवा पुनः ।
अष्टकाद्यास्वधीयीत मारुते चातिवायति ॥
अनध्यायस्तु नाङ्गेषु नेतिहासपुराणयोः ।
न धर्म्मशास्त्रेष्वन्येषु पर्व्वस्वेतानि वर्ज्जयेत् ॥ * ॥
एष धर्म्मः समासेन कीर्त्तितो ब्रह्मचारिणाम् ।
ब्रह्मणाभिहितः पूर्व्वमृषीणां भावितात्मनाम् ॥
योऽन्यत्र कुरुते यत्नमनधीत्य श्रुतिं द्विजाः ।
स संमूढो न संभाव्यो वेदवाह्यो द्बिजातिभिः ॥
न वेदपाठमात्रेण सन्तुष्टो वै भवेत् द्विजः ।
पाठमात्रावसन्नस्तु पङ्के गौरिव सीदति ॥
अधीत्य विधिवद्बेदं वेदार्थं न विचारयेत् ।
स सान्वयः शूद्रकल्पः पात्रतां न प्रपद्यते ॥
पठित्वात्यन्तिकं वासं कर्त्तुमिच्छति वै गुरोः ।
युक्तः परिचरेदेनं न शरीरविमोक्षणम् ॥
गत्वा वनं यो विधिवज्जुहूयाज्जातवेदसम् ।
अधीयीत सदा नित्यं ब्रह्मनिष्ठः समाहितः ॥
सावित्रीं शतरुद्रीयं वेदान्तांश्च विशेषतः ।
अभ्यसेत् सततं मुक्तो भस्मस्नानपरायणः ॥
एतद्विधानं परमं पुराणं
वेदागमे सम्यगिहेरितं वः ।
पुरा महर्षिप्रवराभिपृष्टः
स्वायम्भुवो यन्मनुराह देवः ॥
एतमीश्वरसमीरितं नरो
योऽनुतिष्ठति विधिं विधानवित् ।
मोहजालमपहाय सोऽमृतो
याति ततपदमनामयं शिवम् ॥”
इति कौर्म्मे उपविभागे १३ अध्यायः ॥
अथ ऋग्वेदस्य संहिता ।
“बिभेद प्रथमं विप्र पैल ऋग्वेदपादपम् ।
इन्द्रप्रमितये प्रादात् वास्कलाय च संहिते ॥
चतुर्द्धा सा विभेदाथ वास्कलो निजसंहिताम् ।
बोध्यादिभ्यो ददौ तास्तु शिष्येभ्यः स महामतिः ॥
बोध्याग्निमातुरौ तद्वत् जातुकर्णपराशरौ ।
प्रतिशाखास्तु शाखायास्तस्यास्ते जगृहुर्मुने ॥
इन्द्रप्रमितिरेकान्तु संहितां स्वसुतं ततः ।
माण्डूकेयं महात्मानं मैत्रेयाध्यापयत्तदा ॥
तस्य शिष्यप्रशिष्येभ्यः पुत्त्रशिष्यक्रमाद्ययौ ।
वेदमित्रस्तु शाकल्यः संहितां तामधीतवान् ॥
चकार संहिताः पञ्च शिष्येभ्यः प्रददौ च ताः ।
तस्य शिष्याश्च ये पञ्च तेषां नामानि मे शृणु ॥
मुद्गलो गालवश्चैव वात्स्यः शालीय एव च ।
शैशिरः पञ्चमश्चासीन्मैत्रेय सुमहामतिः ॥
संहितात्रितयञ्चक्रे शाकपूर्णिरथेतरः ।
निरुक्तमकरोत्तद्बच्चतुर्थं मुनिसत्तम ॥
क्रौञ्चो वैतालिकस्तद्बद्बलाकश्च महामतिः ।
निरुक्तकृच्चतुर्थोऽभूद्वेदवेदाङ्गपारगः ॥
इत्येताः प्रतिशाखाभ्यो ह्यनुशाखा द्विजोत्तम ।
वास्कलिश्चापरास्तिस्रः संहिताः कृतवान्
द्विजः ॥
शिष्यः कालायनिर्गार्ग्यस्तृतीयश्च तथा जवः ।
इत्येते बह्वृचाः प्रोक्ताः संहिता यैः प्रव-
र्त्तिताः ॥
इति विष्णुपुराणे ३ अंशे वेदविभक्तिर्नाम ४
अध्यायः ॥ * ॥ यजुर्व्वेदस्य संहिता यथा, --
“यजुर्व्वेदतरोः शाखाः सप्तविंशन्महामतिः ।
वैशम्पायननामासौ व्यासशिष्यश्चकार वै ।
शिष्येभ्यः प्रददौ ताश्च जगृहुस्तेऽप्यनुक्रमात् ॥
याज्ञवल्क्यस्तु तस्याभूद्ब्रह्मरातसुतो द्विज ।
शिष्यः परमधर्म्मज्ञो गुरुवृत्तिपरः सदा ॥
ऋषिर्य्योऽद्य महामेरोः समाजे नागमिस्यति ।
तस्य वै सप्तरात्रन्तु ब्रह्महत्या भविष्यति ।
पूर्ब्बमेव मुनिगणैः समयोऽयं कृतो द्बिज ॥
वैशम्पायन एकस्तु तं व्यतिक्रान्तवांस्ततः ।
स्वस्रीयं बालकं सोऽथ पदा स्पृष्टमघातयत् ॥
स शिष्यानाह भोः शिष्याः ब्रह्महत्यापहं
व्रतम् ।
चरध्वं मत्कृते सर्व्वे न विचार्य्यमिदं तथा ॥
अथाह याज्ञवल्क्यस्तं किमेभिर्भगवन्द्विजैः ।
क्लेशितैरल्पतेजोभिश्चरिष्येऽहमिदं व्रतम् ॥
ततः क्रुद्धो गुरुः प्राह याज्ञवल्क्यं महामतिम् ।
मुच्यतां यत् त्वयाधीतं मत्तो विप्रावमन्यक ! ॥
निस्तेजसो वदस्वेतान् यस्त्वं ब्राह्मणपुङ्गवान् ।
तेन शिष्येण नार्थोऽस्ति ममाज्ञाभङ्गकारिणा ॥
याज्ञवल्क्यस्ततः प्राह भक्त्यैतत्ते मयोदितम् ।
ममाप्यलं त्वयाधीतं यन्मया तदिदं द्विज ॥
श्रीपराशर उवाच ।
इत्युक्त्वा रुधिराक्तानि स्वरूपाणि यजूंषि सः ।
छर्द्दयित्वा ददौ तस्मै ययौ च स्वेच्छया मुनिः ॥
यजूंष्यथ विसृष्टानि याज्ञवल्क्येन वै द्विज ।
जगृहुस्तित्तिरा भूत्वा तैत्तिरीयास्तु ते ततः ॥
ब्रह्महत्याव्रतं चीर्णं गुरुणा चोदितैस्तु यैः ।
चरकाध्वर्य्यवस्ते तु चरणान्मुनिसत्तम ॥
याज्ञवल्क्योऽपि मैत्रेय प्राणायामपरायणः ।
तुष्टाव प्रयतः सूर्य्यं यजूंष्यभिलषंस्ततः ॥
श्रीयाज्ञवल्क्य उवाच ।
नमःसवित्रे द्वाराय मुक्तेरमिततेजसे ।
ऋग्यजुःसामभूताय त्रयीधामवते नमः ॥
श्रीपराशर उवाच ।
इत्येवमादिभिस्तेन स्तूयमानः स्तवै रविः ।
वाजिरूपधरः प्राह व्रियतामभिवाञ्छितम् ॥
याज्ञवल्क्यस्ततः प्राह प्रणिपत्य दिवाकरम् ।
यजूषि तानि मे देहि यानि सन्ति न मे गुरौ ॥
श्रीपराशर उवाच ।
एवमुक्तो ददौ तस्मै यजुंषि भगवान् रविः ।
अयातयामसंज्ञानि यानि वेत्ति न तद्गुरुः ॥
यजूंषि यैरधीतानि तानि वेप्रैर्द्बिजोत्तम ।
वाजिनस्ते समाखाताः सूर्य्योऽश्वः सोऽभवद्-
यतः ॥
शाखाभेदास्तु तेषां वै दश पञ्च च वाजिनाम् ।
काण्वाद्याः सुमहाभाग याज्ञवल्क्यप्रवर्त्तिताः ॥”
इति श्रीविष्णुपुराणे ३ अंशे वाजिनामाख्यार्न
५ अध्यायः ॥ * ॥ सामवेदस्य संहिता यथा, --
“सामवेदतरोः शाखा व्यासशिष्यः स जैमिनिः ।
क्रमेण येन मैत्रेय विभेद शृणु तन्मम ॥
पृष्ठ ४/४९९
सुमन्तुस्तस्य पुत्त्रोऽभूत् सुकर्म्मास्याप्यभूत् सुतः ।
अधीतवन्तावेकैकां संहितां तौ महामुनी ॥
साहस्रं संहिताभेदं सुकर्म्मा तत्सुतस्ततः ।
चकार तञ्च तच्छिष्यौ जगृह्णाते महाव्रतौ ॥
हिरण्यनाभिः कौशल्यः पौष्यञ्जिश्च द्विजोत्तमः ।
उदीच्याः सामगाः शिष्यास्तस्य पञ्चशताः
स्मृताः ॥
हिरण्यनाभात्तावत्यः संहिता यैर्द्वि जोत्तम ।
गृहीतास्तेऽपि चोच्यन्ते पण्डितैः प्राच्य सामगाः ॥
लोकाक्षिः कुथमिश्चैव कुषीदिर्लाङ्गलिस्तथा ।
पौष्यञ्जिशिष्यास्तद्भेदैः संहिता बहुलीकृताः ॥
हिरण्यनाभशिष्यश्च चतुर्विंशतिसंहिताः ।
प्रोवाच कृतिनामासौ शिष्येभ्यः सुमहामतिः ॥
तैश्चापि सामवेदोऽसौ शखाभिर्बहुलीकृतः ॥” *
अथर्व्ववेदस्य संहिता यथा, --
“अथर्व्वणामथो वक्ष्ये संहितानां समुच्चयम् ।
अथर्व्ववेदं स मुनिः सुमन्तुरमितद्युतिः ॥
शिष्यमध्यापयामास कबन्धं सोऽपि तद्द्विधा ।
कृत्वा तु वेददर्शाय तथा पथ्याय दत्तवान् ॥
वेददर्शस्य शिष्यास्तु मोदो ब्रह्मवलिस्तथा ।
शौल्कायनिः पिप्पलादस्तथान्यो मुनिसत्तमः ॥
पथ्यस्यापि त्रयः शिष्याः कृतायैर्द्विज संहिताः ।
जाजलिः कुमुदादिश्च तृतीयः शौनको द्विज ॥
शौनकस्तद्द्विधा कृत्वा ददावेकान्तु वभ्रवे ।
द्वितीयां संहितां प्रादात् सैन्धवायनसंज्ञिने ॥
सैन्धवा मुञ्जकेशाश्च भिन्नवेदा द्बिधा पुनः ।
नक्षत्रकल्पो वेदानां संहितानान्तथैव च ॥
चतुर्थः स्यादङ्गिरसः शान्तिकल्पश्च पञ्चमः ।
श्रेष्ठाश्चाथर्व्वणामेते संहितानां विकल्पकाः ॥”
इति विष्णुपुराणे ३ अंशे ६ अध्यायः ॥
अन्यत् कूर्म्मपुराणवत् ॥ * ॥ अपरञ्च ।
“वेदो हरेर्व्वाक् सावित्री वेदमाता प्रतिष्ठिता ।
त्रिगुणञ्च त्रिवृत्सत्रं तेन विप्राः प्रतिष्ठिताः ॥
दशयज्ञैः संस्कृता ये ब्राह्मणा ब्रह्मवादिनः ।
तत्र वेदाश्च लोकानां त्रयाणामिह पोषकाः ॥
यज्ञाध्ययनदानादितपःस्वाध्यायसंयमैः ।
प्रीणयन्ति हरिं भक्त्या वेदतन्त्रविधानतः ॥”
इति कल्किपुराणे २ अध्यायः ॥ * ॥
वेदोक्तकर्म्म कर्त्तव्यं यथा, --
“श्रुतिस्मृतिसदाचारविहितं कर्म्म केवलम् ।
सेवितव्यं चतुर्व्वर्णैर्भजद्भिः केशवं सदा ॥
अन्यथा निरयं याति कुमार्गगणसेवनात् ।
अतो वेदविरुद्धार्थं शास्त्रोक्तं कर्म्म संत्यजेत् ॥”
इति पाद्मोत्तरखण्डे १७ अध्यायः ॥ * ॥
वेदाचाराल्लौकिकाचारो बलवान् यथा, --
पार्व्वत्युवाच ।
“केवलं वेदमाश्रित्य कः करोति विनिर्णयम् ।
बलनान् लौकिको वेदाल्लोकाचारञ्च कस्त्यजेत् ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे ७ अध्यायः ॥ * ॥
अथ वेदस्य स्थितिकालः ।
“कलेर्दशसहस्रान्ते ययौ त्यक्त्वा हरेः पदम् ।
वैष्णवाश्च पुराणानि शङ्खानि श्राद्धतर्पणम् ॥
वेदोक्तानि च कर्म्माणि ययुस्तैः सार्द्धमेव च ।
हरिपूजा हरेर्नाम तत्कीर्त्तिगुणकीर्त्तनम् ॥
वेदाङ्गानि च शास्त्राणि ययुस्तैः सार्द्धमेव च ।
सत्वञ्च धर्म्मः सत्यश्च वेदाश्च ग्रामदेवताः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ६ अध्यायः ॥ * ॥
आयुर्व्वेदस्योत्पत्तिलक्षणे यथा, --
“यद्वक्त्रेभ्यः पञ्चसंख्यागतेभ्यो
वेदा जाता ऋग्यजुःसामभेदाः ।
आयुर्व्वेदोऽथर्व्ववेदश्चेति कणादः ॥
आस्ते वेदः पञ्चमो वैद्यकाख्यो
वेत्ता कश्चित्तस्य नास्ते महेशात् ।
तस्माद्धाताध्यैत तस्मात्तुराषाट्-
तस्माज्ज्ञात्वा वक्तुमर्हामि शास्त्रम् ॥”
इति गूढबोधः ॥
“हिताहितं सुखं दुःखमायुस्तस्य हिताहितम् ।
मानञ्च तच्च यत्रोक्तमायुर्व्वेदः स उच्यते ॥”
इति सुखबोधः ॥ * ॥ * ॥
चतुर्वेदानां विवरणं यथा । अथातश्चरणव्यूहं
व्याख्यास्यामः । तत्र यदुक्तं चातुर्व्वेद्यम् । चत्वारो
वेदा विज्ञाता भवन्ति । ऋग्वेदो यजुर्व्वेदः
सामवेदोऽथर्व्ववेदश्चेति । तत्र ऋग्वेदस्याष्टौ
स्थानानि भवन्ति । चर्च्चाश्रावकः १ चर्च्चकः २
श्रवणीयपारः ३ क्रमपारः ४ क्रमरथः ५
क्रमजटः ६ क्रमशटः ७ क्रमदण्डश्चेति ८ ।
चतुष्पारायणमेतेषाम् । शाखाः पञ्चविधा
भवन्ति । आश्वलायनी १ संख्यायनी २
शाकला ३ वास्कला ४ माण्डूकेयाश्चेति ५ ।
तेषामध्ययनम् । अध्यायाश्चतुःषष्टिः । मण्ड-
लानि च दशैव तु ।
“एकर्च एकवर्गस्यादेकश्च नवकस्तथा ।
द्वौ वर्गौ द्वे ऋचौ ज्ञेये त्रीणि ऋचशतं
स्मृतम् ॥
चतुऋचं समाख्यातं षट्सप्तत्युत्तरं शतम् ।
पञ्चर्च्चं द्वादश शतान्यष्टाविंशोत्तराणि च ॥
शतत्रयं षडर्च्चञ्च सप्तपञ्चाशदुत्तरम् ।
सप्तर्च्चमेकान्न त्रिंशदुत्तरं शतमेककम् ॥
अष्टर्चाः पञ्चपञ्चाशद्बर्गाः स्युर्नाधिकोत्तराः ।
वर्गाणां परिसंख्यातं द्बे सदस्रे षडुत्तरे ॥
सहस्रमेकं सूक्तानां निर्व्विशङ्कं विकल्पनाम् ।
दशसप्तसु पट्यन्ते संख्यातं वै पदक्रमम् ॥
एकशतं सहस्रं वा द्बिपञ्चाशत् सहस्रार्द्धम् ।
एतानि च चतुर्द्दश वाशिष्ठानाम् । इतरेषां
पञ्चाशीतिक्रमकाले तु वेष्टव्यम् । चतुस्त्रिंशत्-
सहस्राणि द्विखण्डानां सहस्राणां द्वात्रिंशत्
षोडशोत्तराः । चत्वारिंशत्सहस्राणि द्वात्रिं-
शतञ्चाक्षरसहस्राणि ।
ऋचां दशसहस्राणि ऋचां पञ्चशतानि च ।
ऋचामशीतिपादश्चैतत्परायणमुच्यते ॥
एक ऋचैकवर्गश्च एकश्च नवकस्तथा ।
द्वौ वर्गौ द्वे ऋचौ ज्ञेये त्रीणि त्रीणि शत-
न्तथा ॥
सहस्रमेकं सूक्तानां पञ्चानां शतमानविंशतिः ।
सप्तकानां द्वे च सप्तोत्तरे शते । चतुरृचे त्रीणि
शतानि षट्कानां त्रीण्याः षष्टिरष्टकानाम् ॥ * ॥
यजुर्व्वेदस्य षडशीतिर्भेदा भवन्ति । तत्र
चरकाणां द्वादशभेदा भवन्ति । चरकाः १
आह्वरकाः २ कठाः ३ प्राच्यकठाः ४ कपिष्ठल-
कठाः ५ औपमन्याः ६ आष्टलकठाः ७ चारा-
यणीयाः ८ वारायणीयाः ९ वार्त्तान्तवेयाः १०
श्वेताश्वतराः ११ श्वेताश्वेततरा इति वा
पाठः । मैत्रायणीयाश्चेति १२ । तत्र मैत्राय-
णीयानां सप्तभेदा भवन्ति । मानवाः १
दुन्दुभाः २ चैकेयाः ३ वाराहाः ४ हारिद्र-
वेयाः ५ श्यामाः ६ श्यामायनीयाश्चेति ७ ।
तेषामध्ययनमष्टौ । यजुःसहस्राण्यधीत्य शाखा-
पारो भवति । तान्येव द्विगुणान्यधीत्य पदपारो
भवति । तान्येव त्रिगुणान्यधीत्य क्रमपारो
भवति । षडङ्गान्यधीत्य षडङ्गविद्भवति । शिक्षा १
कल्पो २ व्याकरणम् ३ निरुक्तम् ४ छन्दो ५
ज्योतिषमित्यङ्गानि ६ । तत्र प्राच्योदीच्यां
नैरृत्यां निरृत्यः । तत्र वाजसनेयानां सप्त-
दशभेदा भवन्ति । जावालाः १ औघेयाः २
काण्वाः ३ माध्यन्दिनाः ४ शापीयाः ५ तापा-
यनीयाः ६ कापालाः ७ पौण्ड्रवत्साः ८ आव-
टिकाः ९ पामावटिकाः १० परमावटिकापि
पाठः । पाराशरीयाः ११ वैधेयाः १२ वैनेयाः
१३ ओघेयाः १४ गालवाः १५ वैजवाः १६
कत्यायनीयाश्चेति १७ । प्रतिपदमनुपदं छन्दो
भाषा धर्म्मो मीमांसा न्यायस्तर्क इत्युपाङ्गानि ॥
उपज्योतिषम् । साङ्गलक्षणम् । प्रतिज्ञान-
वाक्यम् । परिसंख्या । चरणव्यूहम् । श्राद्ध-
कल्पः । प्रवराध्यायश्च । शास्त्रम् । क्रतुः ।
संख्यानः । आगमः । यज्ञम् । पार्श्वान् ।
होत्रकम् । पारष्यानुहोत्रकमपि पाठः ।
पशवः । उक्थानि । कूर्म्मलक्षणमित्यष्टादश
परिशिष्टानि ।
“द्वे सहस्रे शते न्यूने मन्त्रे वाजसनेयके ।
इत्युक्तं परिसंख्यातमेतत् सकलं सशुक्रियम् ॥
ग्रन्थांश्च परिसंख्यातं ब्राह्मणञ्च चतुर्गुणम् ।
आदावारभ्य वेदान्तं ब्रह्मव्याहृतिपूर्ब्बकम् ।
वेदमध्याय एतेषां होमान्ते तु समारभेत् ॥”
तत्र तैत्तिरीयकाणाम् द्बिभेदा भवन्ति ।
औक्ष्याः १ खमध्योऽपि पाठः । खाण्डिकेया-
श्चेति २ । तत्र खाण्डिकेयानाम् पञ्चभेदा
भवन्ति । आपस्तम्बी १ बौधायनी २ सत्या-
षाढी ३ हिरण्यकेशी ४ औघेयाश्चेति ५
औधेयी च पाठः । तत्र कठानान्तूपगान-
विशेषाः । चतुश्चत्वारिंशत्युपग्रन्थान् ।
“मन्त्रब्राह्मणयोर्व्वेदस्त्रिगुणं यत्र पठ्यते ।
यजुर्व्वेदः स विज्ञेयः शेषाः शाखान्तराः
स्मृताः ॥” * ॥
सामवेदस्याखिलसहस्रभेद आसीत् । अखिल-
स्थाने किल इति भाष्यसम्मतः । अनध्याये-
ष्वधीयानास्ते शतक्रतुवज्रेणाभिहताः प्रनष्टाः ।
पृष्ठ ४/५००
तेषां प्रवक्ष्याम्यासुरायणीया वासुरायणीया
वार्त्तान्तवेया प्राञ्जला ऋग्वर्णभेदा प्राचीन-
योग्या ज्ञानयोग्या राणायनीयाश्चेति । तत्र
राणायनीयानां नव भेदा भवन्ति । राणाय-
नीयाः । शाष्ठ्यायनीयाः । शावायनीयाः इति
शाठ्यमुग्र्याः इति च पाठः । सात्वलाः ।
सात्यमुद्भवा इति वा पाठः । मौद्गलाः । इति
तु भाष्ये नास्ति । खल्वलाः । महाखल्वलाः ।
लाङ्गलाः । कौथुमाः । गौतमाः । जैमिनीया-
श्चेति । तेषामध्ययनमष्टौ सामसहस्राणि
सामानि च चतुर्द्दश अष्टौ शतानि । दशेति
दशसप्तसु बालखिल्याः ससुपर्णप्रेक्ष्यः । क्वचित्
पुस्तके नवतिदशतिवालखिल्यः ससुपर्णप्रेक्ष्यः
इति च पाठः । एतत् सामगणं स्मृतम् ॥ * ॥
अथर्व्ववेदस्य नव भेदा भवन्ति । पैप्पलाः ।
दान्ताः । प्रदान्ताः । स्नाताः । स्नौता इति च
पाठः । सौत्नाः । ब्रह्मदावलाः । शौनकी ।
देविदर्शती । चरणविद्याश्चेति । दाता प्रदाता
औता ब्रह्मदीपशी वेदशी इति भाष्ये नामा-
न्तरम् । तेषामध्ययनं पञ्च कल्पानि भवन्ति ।
नक्षत्रकल्पो विधानकल्पो विधिविधानकल्पः
संहिता शान्तिकल्पश्चेति । सर्व्वेषामेव वेदाना-
मुपवेदा भवन्ति । ऋग्वेदस्यायुर्व्वेदः । यजु-
र्व्वेदस्य धनुर्व्वेद उपवेदः । सामवेदस्य गान्धर्व्व-
वेद उपवेदः । अथर्व्ववेदस्य शस्त्रशास्त्राणि
भवन्ति ॥ * ॥ (अथर्व्ववेदस्य तन्त्रशास्त्राणीत्येवं
सुष्ठु मन्यते । तथा च शुक्रनीतौ । ४ । ३ । २७ ।
“ऋग्यजुःसामचाथर्व्वा वेदा आयुर्धनुःक्रमात् ।
गान्धर्व्वश्चैव तन्त्राणि उपवेदाः प्रकीर्त्तिताः ॥”)
ऋग्वेदस्यात्रेयगोत्रं ब्रह्मदैवत्यं गायत्त्रं छन्दः ।
ऋग्वेदो रुक्मवर्णः पद्मपत्रायताक्षः सुविभक्तग्रीवः
कुञ्चितकेशः श्मश्रुश्वेतवर्णः द्बिरत्निसंयुतः ॥ * ॥
यजुर्व्वेदस्य भारद्वाजगोत्रं रुद्रदैवतं त्रैष्टुभं
छन्दः । यजुर्व्वेदः कृशो दीर्घः कपाली ताम्रवर्णः
काञ्चननयनः आदित्यवर्णो वर्णेन पञ्चारत्नि-
मात्रः ॥ * ॥ सामवेदस्य काश्यपगोत्रं विष्णुदैवत्यं
जागतं छन्दः । सामवेदो नित्यस्रग्वी शुचिः शुचौ
वासी शुचिवासाः इति च पाठः । क्षौमी इत्यपि
पाठः । दान्ती चर्म्मी दण्डी काञ्चननयनः
आदित्यवर्णो वर्णेन षडरत्निमात्रः ॥ * ॥ अथर्व्व-
वेदस्य वैजानगोत्रं इन्द्रदैवत्यं आनुष्टुभं छन्दः ।
अथर्व्ववेदस्तीक्ष्णञ्चण्डः कृष्णः कामरूपी क्षुद्र-
कर्म्मो ह्येव साध्याः क्षुद्रकर्म्मिष्वेव साध्या इति
वा पाठः । सविग्रहाः सकलहाः मूर्ध्नि गालवः
सदानतृष्णः परस्त्रियान्यश्चेति नवरत्निमात्रः ।
ग्रन्थान्तरे विश्वात्मा विश्वकर्म्मा स्वशाखा-
ध्यायी । प्राज्ञो महानीलोत्पलवर्णो वर्णेन दश-
रत्निमात्र इति च पाठः ॥ * ॥ अथ ध्यानम् ।
“ध्यायामि त्वां पद्मपत्रायताक्षं
कुञ्चितकेशं ब्रह्मदैवत्यमाद्यम् ।
गायत्त्र्यं ऋग्वेदमात्रेयगोत्रं
रुक्मवर्णं श्मश्रुलोमप्रमाणम् ॥
वन्दे रोद्रं त्रैष्टुभं ताम्रवर्णं
भारद्वाजं रुक्मनेत्रं कृशाङ्गम् ।
यजुर्व्वेदं दीर्घमादित्यवर्णं
कापालिनं पञ्च चारत्निमात्रम् ॥” * ॥
य इदं दैवतं रूपं गोत्रप्रमाणं छन्दोवर्णं
वर्णयति स विद्यां लभते स विद्यां लभते ।
जन्म जन्म वेदपारो भवति अव्रतो व्रती भवति
अप्रयतः प्रयतो भवति अब्रह्मचारी ब्रह्मचारी
भवति जातिस्मरो जायते ॥ * ॥
“य इदं चरणव्यूहं पर्व्वसु श्रावयेद्द्विजः ।
धौतपाप्मा शुचिर्विप्रो ब्रह्मभूयाय कल्पते ॥
य इदं चरणव्यूहं श्राद्धकाले सदा पठेत् ।
अक्षयमभवत् श्राद्धं पितॄणामुपतिष्ठते ॥
योऽधीते चरणव्यूहं स विप्रः पङ्क्तिपावनः ।
पावयत्यखिलान् पूर्ब्बान् पुरुषान् सप्त सप्त च ॥
य इमा विपुला देवा अमृतत्वञ्च गच्छति ।
लोकातीतं महाशान्तं अमृतत्वञ्च गच्छति ॥”
गच्छत्यों नम इत्याह भगवान् व्यासः पारा-
शरीयो व्यासः पाराशरीयः । इति व्यासरचितं
चरणव्यूहं समाप्तम् ॥ (धनम् । यथा, ऋग्-
वेदे । ८ । ७३ । १ ।
“अग्निं रथं न वेद्यम् ।”
“वेद्यं वेदो धनम् धनहितम् ।” इति तद्भाष्ये
सायणः ॥ चतुःसंख्यावाचकः । यथा, साहित्य-
दर्पणे । ४ । २६४ ।
“तदेवमेकपञ्चाशद्भेदास्तस्य ध्वनेर्मताः ।
सङ्करेण त्रिरूपेण संसृष्टा चैकरूपया ।
वेदखाग्निशराः शुद्धैरिषुवाणाग्निसायकाः ॥”
दर्भमुष्टिः । यथा, मनुः । ४ । ३६ ।
“वैणवीं धारयेद्यष्टिं सोदकञ्च कमण्डलुम् ।
यज्ञोपवीतं वेदञ्च शुभे रौक्मे च कुण्डले ॥”)

वेदगर्भः, पुं, (वेदा गर्भे अन्तरे यस्य ।) ब्रह्मा ।

(यथा, भागवते । २ । ४ । २४ ।
“एतदेवात्मभू राजन् नारदाय विपृच्छते ।
वेदगर्भोऽभ्यधात् साक्षाद्यदाह हरिरात्मनः ॥”)
ब्राह्मणः । इति हेमचन्द्रः ॥

वेदगुप्तिः, स्त्री, (वेदानां गुप्तिः ।) ब्राह्मणादि-

कर्त्तृकवेदरक्षा । इति केचित् ॥

वेदनं, क्ली, स्त्री, (विद् + ल्युट् । पक्षे । “घट्टि-

वन्दिविदिभ्य उपसंख्यानम् ।” ३ । ३ ।
१०७ । इत्यस्य वार्त्तिकोक्त्या युच् ।) अनुभवः ।
तत्पर्य्यायः । संवेदः २ । इत्यमरः ॥ ज्ञानम् ।
दुःखम् । इति मेदिनी ॥ विवाहः । यथा, --

वेदना, क्ली, स्त्री, (विद् + ल्युट् । पक्षे । “घट्टि-

वन्दिविदिभ्य उपसंख्यानम् ।” ३ । ३ ।
१०७ । इत्यस्य वार्त्तिकोक्त्या युच् ।) अनुभवः ।
तत्पर्य्यायः । संवेदः २ । इत्यमरः ॥ ज्ञानम् ।
दुःखम् । इति मेदिनी ॥ विवाहः । यथा, --
“पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते ।
असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्म्मणि ॥
शरः क्षत्त्रियया ग्राह्यः प्रतोदो वैश्यकन्यया ।
वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने ॥”
इति मानवे ३ अध्यायः ॥ * ॥
पाणीति । समानजातीयासु गृह्यमाणासु हस्त-
ग्रहणलक्षणः संस्कारो गृह्यादिशास्त्रेण विधी-
यते । विजातीयासु पुनरुह्यमानासु विवाह-
कर्म्मणि पाणिग्रहणस्थाने अयमनन्तरश्लोके
वक्ष्यमाणो विधिर्ज्ञेयः । शर इति । क्षत्त्रियया
पाणिग्रहणस्थाने ब्राह्मणविवाहे ब्राह्मणहस्त-
परिगृहीतकाण्डैकदेशो ग्राह्यः । वैश्यया
ब्राह्मणक्षत्त्रियविवाहे बाह्मणक्षत्त्रियविधृत-
प्रतोदैकदेशो ग्राह्यः । शूद्रया पुनर्द्वि जातित्रय-
विवाहे प्रावृतवसनदशा ग्राह्या । इति कुल्लूक-
भट्टः ॥

वेदनिन्दकः, पुं, (वेदं निन्दतीति । निन्द + ण्वुल् ।)

नास्तिकः । इति जटाधरः ॥ (यथा, यमः । ३० ।
“दुर्भगो हि तथा षण्डः पाषंण्डी वेदनिन्दकः ॥”)
बुद्धश्च ॥

वेदपारगः, त्रि, (वेदस्य पारं गच्छतीति । गम +

डः ।) वेदवेत्ता । ब्रह्मज्ञानी । यथा, --
“चक्रवाकाः शरद्वीपे हंसाः सरसि मानसे ।
तेऽभिजाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ॥”
इति श्राद्धतत्त्वे पितृगाथा ॥

वेदमाता, [ऋ] स्त्री, (वेदानां माता ।) गायत्त्री ।

यथा, --
“योऽधीतेऽहन्यहन्येतां सावित्रीं वेदमातरम् ।
विज्ञायार्थं ब्रह्मचारी स याति परमां गतिम् ॥
गायत्त्रीं वेदजननीं गायत्त्रीं लोकपावनीम् ।
न गायत्त्र्याः परं जप्यं एतद्बिज्ञाय मुच्यते ॥”
इति कौर्म्मे उपविभागे १३ अध्यायः ॥ * ॥
दुर्गा । यथा, --
“ब्रह्मिष्ठा वेदमातृत्वाद्गायत्त्री चरणाग्रजा ।
वेदेषु चरते यत्नात्तेन सा ब्रह्मचारिणी ॥”
इति देवीपुराणे ४५ अध्यायः ॥

वेदवती, स्त्री, (वेदं ज्ञानमस्त्यस्या इति । वेद

+ मतुप् । मस्य वः । स्त्रियां ङीष् ।) कुश-
ध्वजराजकन्या । सा जन्मान्तरे सीता । यथा,
वह्निरुवाच ।
“त्वं गच्छ तपसे देवि ! पुष्करञ्च सुपुण्यदम् ।
कृत्वा तपस्यां तत्रैव स्वर्गलक्ष्मीर्भविष्यति ॥
सा च तद्वचनं श्रुत्वा प्रतप्य पुष्करे तपः ।
दिव्यं त्रिलक्षवर्षञ्च स्वर्गलक्ष्मीर्बभूव ह ॥
सा च कालेन तपसा यज्ञकुण्डसमुद्भवा ।
कामिनी पाण्डवानाञ्च द्रौपदी द्रुपदात्मजा ॥
कृते युगे वेदवती कुशध्वजसुता शुभा ।
त्रेतायां रामपत्नी सा सीतेति जनकात्मजा ॥
तच्छाया द्रौपदी देवी द्वापरे द्रुपदात्मजा ।
त्रिहायणीति सा प्रोक्ता विद्यमानयुगत्रये ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १२ अध्यायः ॥
(पारिपात्रपर्व्वतस्थनदीविशेषः । यथा, मार्क-
ण्डेये । ५७ । १९ ।
“वेदस्मृतिर्वेदवती वृत्रघ्नी सिन्धुरेव च ॥”)

वेदवदनं, क्ली, (वेदानां वदनमिव ।) व्याकरणम् ।

यथा, --
“यो वेद वेदवदनं सदनं हि सम्यग्-
ब्राह्म्याः स वेदमपि वेद किमन्यशास्त्रम् ।
यस्मादतः प्रथममेतदधीत्य धीमान्
शास्त्रान्तरस्य भवति श्रवणेऽधिकारी ॥”
इति सिद्धान्तशिरोमणौ गोलाध्यायः ॥
पृष्ठ ४/५०१
(वेदा वदने यस्येति विग्रहे ब्रह्मणि, पुं । यथा,
देवीभागवते । ७ । ३० । ८१ ।
“गायत्त्री वेदवदने पार्व्वती शिवसन्निधौ ॥”)

वेदवासः, पुं, (वेदानां वासो यस्मिन् ।) ब्राह्मणः ।

इति शब्दरत्नावली ॥

वेदवित्, [द्] पुं, (वेदान् वेत्तीति । विद् +

क्विप् ।) विष्णुः । यथा, --
“वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः ॥”
इति तस्य सहस्रनामस्तोत्रम् ॥
वेदज्ञे, त्रि । (यथा, मनुः । २ । ७८ ।
“एतदक्षरमेताञ्च जपन् व्याहृतिपूर्ब्बिकाम् ।
सन्ध्ययोर्वेदविद्विप्रो वेदपुण्येन युज्यते ॥”)

वेदव्यासः, पुं, (वेदं व्यस्यति पृथक् करोतीति ।

वि + अस + अण् । निरुक्तिस्तु परत्र द्रष्टव्या ।)
मुनिविशेषः । तत्पर्य्यायः । माठरः २ द्वैपायनः
३ पाराशर्य्यः ४ कानीनः ५ वादरायणः ६
व्यासः ७ । इति हेमचन्द्रः ॥ कृष्णद्वैपायनः ८
सत्यभारतः ९ पाराशरिः १० सात्यवतः ११ ।
इति त्रिकाण्डशेषः ॥ वादरायणिः १२ सत्य-
वतीसुतः १३ सत्यरतः १४ पाराशरः १५ ।
इति शब्दरत्नावली ॥ (यथा, विष्णपुराणे ।
“वेदमेकं चतुर्भेदं कृत्वा शाखाशतैर्विभुः ।
करोति बहुलं भूयो वेदव्यासस्वरूपधृक् ।
द्वापरे तु युगे विष्णुर्व्यासरूपी महामुने ।
वेदमेकं स बहुधा कुरुते जगतो हितः ॥
यया च कुरुते तन्वा वेदमेकं पृथक् प्रभुः ।
वेदव्यासाभिधाना तु सा सा मूर्त्तिर्मधुद्विषः ॥”)
अस्यान्यत् विवरणं व्यासशब्दे द्रष्टव्यम् ॥

वेदाग्रणीः, स्त्री, (वेदानामग्रणीः ।) सरस्वती ।

इति राजनिर्घण्टः ॥

वेदाङ्गं, क्लो, (वेदस्य अङ्गम् ।) श्रुत्यवयवषट्-

प्रकारशास्त्रम् । तद्यथा । शिक्षा १ कल्पः २
व्याकरणम् ३ निरुक्तम् ४ ज्योतिषम् ५ छन्दः
६ । यदुक्तम् ।
“शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां
गणः ।
छन्दोविचितिरित्येतैः षडङ्गो वेद उच्यते ॥” इति ॥
तत्र अकारादिवर्णानां स्थूलकरणप्रयत्नबोधिका
अकु ए ह विसर्ज्जनीयाः कण्ठ्या इत्यादिका
शिक्षा । यागक्रियाणामुपदेशः कल्पः । साधु-
शब्दान्वाख्यानं व्याकरणम् । वर्णागमो वर्ण-
विपर्य्ययश्च इत्यादिना निश्चयेनोक्तं निरुक्तम् ।
ग्रहणादिगणनशास्त्रं ज्योतिः । श्रुतिच्छन्दसां
प्रत्यायकं शास्त्रं छन्दोविचितिः । इत्यमर-
भरतौ ॥ (यथा, मनुः । ४ । ९८ ।
“वेदाङ्गानि च सर्व्वाणि कृष्णपक्षेषु सम्पठेत् ॥”)

वेदादि, क्ली, (वेदानामादि । “क्वचिदौपचारिकाः

शब्दाः स्वलिङ्गमपि त्यजन्तीति” न्यायादस्य
क्लीवत्वम् ।) प्रणवम् । यथा, --
“वेदादि भुवनेशीञ्च श्रीबीजं ङेयुतं भृगुम् ।
कारयित्वा वदेन्मन्त्रं शुक्रस्य च षडक्षरम् ॥”
इति रुद्रयामलम् ॥
(वेदस्य पूर्ब्बे, पुं, । यथा, तैत्तिरीयारण्यके ।
“यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रति-
ष्ठितः ॥”)

वेदादिबीजं, क्ली, (वेदस्यादौ प्रयुक्तं बीजम् ।)

प्रणवम् । यथा, --
“वेदादि भुवनेशीञ्च श्रीबीजं ङेयुतं भृगुम् ।
कारयित्वा वदेन्मन्त्रं शुक्रस्य च षडक्षरम् ॥
ॐ ह्रीँ श्रीशुक्राय । इति रुद्रयामलम् ॥
“वेदादिबीजं हूँ बीजं स्त्रीबीजं तन्निकेतनम् ।
शक्तिबीजं रमाबीजं मायाबीजं सुखाकरम् ॥”
इति राजराजेश्वरीतन्त्रम् ॥

वेदाधिपः, पुं, (वेदानामधिपः ।) चतुर्व्वेदाधि-

पतिग्रहः । यथा, --
“ऋग्वेदाधिपतिर्जीवो यजुर्व्वेदाधिपः सितः ।
सामवेदाधिपो भौमः शशिजोऽथर्व्ववेदराट् ॥”
इति ज्योतिस्तत्त्वम् ॥

वेदान्तः, पुं, (वेदानां अन्तः ।) उपनिषत् ।

इति हेमचन्द्रः । वेदव्यासप्रणीतदर्शनशास्त्र-
विशेषोऽपि । यथा । वेदान्तो नाम उपनिषत्-
प्रमाणं तदुपकारीणि शारीरकसूत्रादीनि च ।
इति परमहंसपरिव्राजकाचार्य्यश्रीसदानन्द-
योगीन्द्रविरचितवेदान्तसारः ॥ * ॥ “इदानीं
सर्व्वस्यापि वस्तुविचारोद्देशपूर्व्वकत्वात् प्रति-
ज्ञातं वेदान्तं नामतो निर्दिशति वेदान्त इति ।
उपनिषद एव प्रमाणं उपनिषत्-प्रमाणम् ।
उपनिषदो यत्र प्रमाणमिति वा । तदुपकारीणि
वेदान्तवाक्यसंग्राहकाणि शारीरकसूत्रादीनि
च । शरीरमेव शारीरं तत्र भवो जीवः शारी-
रकः स सूत्र्यते याथातथ्येन निरूप्यते यैः
तानि शारीरकसूत्राणि ‘अथातो ब्रह्मजिज्ञासा’
इत्यादीनि । आदिशब्दो भाष्यादिसंग्रहार्थः ।
चशब्दो वेदान्तशब्दानुषङ्गार्थः । यद्बा शारी-
रकसूत्राणि तद्यथार्थवादिवेदान्तार्थसंग्रह-
वाक्यानि । ‘अथातो ब्रह्मजिज्ञासा’ इत्यादि-
सूत्रादीनि । आदिशब्देन भगवद्गीताद्यध्यात्म-
शास्त्राणि गृह्यन्ते । तेषामपि उपनिषच्छब्द-
वाच्यत्वादिति भावः ।” इति श्रीनृसिंहसरस्वती-
कृता तट्टीका सुबोधनी ॥ अस्य नामान्तरं
उत्तरमीमांसा । तत्र चत्वारः अध्यायाः । तेषु
ब्रह्मनिरूपणम् । तद्विवरणं यथा, --
“अव्यक्तादण्डमभूदण्डाद्ब्रह्मा ततः प्रजासर्गः ।
मायामयी प्रवृत्तिः संह्रियते पुनः पुनः
क्रमशः ॥
मायामयोऽप्यचेता गुणकरणगणः करोति
कर्म्माणि ।
तदधिष्ठाता देही सचेतनोऽपि न करोति
किञ्चिदपि ॥
यद्वदचेतनमपि सन्निकटस्थे भ्रामके भ्रमति
लोहम् ।
तद्वत् करणसमूहश्चेष्टति चिदधिष्ठिते देहे ॥
यद्वत् सवितर्य्युदिते करोति कर्म्माणि जीव-
लोकोऽयम् ।
न च तानि करोति रविर्न कारयति तद्वदा-
त्मापि ॥
मनसोऽहंकारविमूर्च्छितस्य चैतन्यबोधिस्येह ।
पुरुषाभिमानसुखदुःखभावना भवति मूढस्य ॥
कर्त्ता भोक्ता द्रष्टास्मि कर्म्मणामुत्तमादीनाम् ।
इति तत्स्वभावविमलोऽभिमन्यते सर्व्वगोप्यात्मा ॥
नानाविधवर्णानां वर्णान् धत्ते यथामलस्फटिकः ।
तद्वदुपाधेर्गुणभावितस्य भावं विभुर्धत्ते ॥
गच्छति गच्छति सलिले दिनकरविम्बं स्थिते
स्थितिं याति ।
अन्तःकरणे गच्छति गच्छत्यात्मापि तद्वदिह ॥
राहुरदृश्योऽपि यथा शशिविम्बस्थः प्रकाशते
जगति ।
सर्व्वगतोऽपि तथात्मा बुद्धिस्थो दृश्यतामेति ॥
आदर्शे मलरहिते यद्वद्रूपं विचिनुते लोकः ।
आलोकयति तथात्मा विशुद्धबुद्धौ स्वमात्मानम् ॥
सर्व्वगतं तत् निरुपममद्वैतं तच्च चेतसा गम्यम् ।
यद्वुद्धिगतं ब्रह्मोपलभ्यते शिष्यबोध्यं तत् ॥
बुद्धिमनोऽहंकारास्तन्मात्रेन्द्रियगणाः सभूत-
गणाः ।
संसारसर्गपरिरक्षणक्षमाः प्राकृता हेयाः ॥
धर्म्माधर्म्मौ सुखदःखकल्पना स्वर्गनरकवासश्च ।
उत्पत्तिनिधनवर्णाश्रमा न सन्तीह परमार्थे ॥
मृगतृष्णायामुदकं शुक्तौ रजतं भुजङ्गमो
रज्ज्वाम् ।
तैमिरिकचन्द्रयुगवत् भ्रान्तं निखिलं जगद्रूपम् ॥
यद्बद्दिनकर एको विभाति सलिलाशयेषु सर्व्वेषु ।
तद्वत् सकलोपाधिष्ववस्थितो भाति परमात्मा ॥
खमिव घटादिष्वन्तर्ब्बहिःस्थितं ब्रह्म सर्व्व-
पिण्डेषु ।
देहोऽहमित्यनात्मनि बुद्धिः संसारबन्धाय ॥
सर्व्वविकल्पनहीनः शुद्धोऽवृद्धोऽजरोऽमरः
शान्तः ।
अमलः सकृद्विभातश्चेतन आत्मा खवद्व्यापी ॥
रसफाणितशर्करिका गुडखण्डा विकृतयो
यथैवेक्षोः ।
तद्वदवस्थाभेदाः परमात्मन्येव बहुरूपाः ॥
विज्ञानान्तर्यामिप्राणविराट्देहजाति-
पिण्डान्ताः ।
व्यवहारस्थस्यात्मन एतेऽवस्थाविशेषाः स्युः ॥
रज्ज्वां नास्ति भुजङ्गः सर्पभयं भवति हेतुना
केन
तद्वद्द्वैतविकल्पभ्रान्तिरविद्या न सत्यमिदम् ॥
एतत्तदन्धकारं यदनात्मन्यात्मताभ्रान्त्या ।
न विदन्ति वासुदेवं सर्व्वात्मानं नरा मूढाः ॥
प्राणाद्यन्तभेदैरात्मानं संवितत्य जालमिव ।
संहरति वासुदेवः स्वविभूत्या क्रीडमान इव ॥
त्रिभिरेव विश्वतैजसप्राज्ञैस्तैरादिमध्यनिध-
नाख्यैः ।
जाग्रत्स्वप्नसुषुप्तैर्भ्रमभूतैश्छादितं तुर्य्यम् ॥
मोहयतीवात्मानं स्वमायया द्वैतरूपया देवः ।
उपलभते स्वयमेवं गुहागतं पुरुषमात्मानम् ॥
पृष्ठ ४/५०२
ज्वलनाद्धूमोद्गतिभिर्विविधाकृतिरम्बरे यथा
भाति ।
तद्वद्विष्णोः सृष्टिः स्वमाययाद्वैतविस्तरो भाति ॥
शान्त इव मनसि शान्ते हृष्टे हृष्ट इव मूढ
इव मूढे ।
व्यवहारस्थो न पुनः परमार्थत ईश्वरो भवति ॥
जलधरधूमोद्गतिभिर्मलिनीक्रियते यथा न
गगनतलम् ।
तद्वत् प्रकृतिविकारैरपरामृष्टः परः पुरुषः ॥
एकस्मिन्नपि च घटे धूमादिमलावृते घटाः
शेषाः ।
न भवन्ति मलोपेता यद्वज्जीवोऽपि तद्बदिह ॥
देहेन्द्रियेषु नियताः कर्म्मगुणाः कुर्व्वते
स्वभोगार्थम् ।
नाहं कर्त्ता न ममेति ज्ञानतः कर्म्म नैव
बध्नाति ॥
अन्यशरीरेण कृतं कर्म्म भवे येन देह उत्पन्नः ।
तदवश्यं भोक्तव्यं भोगादेव क्षयोऽस्य निर्द्दिष्टः ॥
प्राक् ज्ञानोत्पत्तिचितं यत् कर्म्म ज्ञानशिखि-
शिखालीढम् ।
बीजमिव दहनदग्धं जन्मसमर्थं न तद्भवति ॥
ज्ञानोत्पत्तेरूर्द्ध्वं क्रियमाणं कर्म्म यत्तदपि ।
न श्लिष्यति कर्त्तारं पुष्करपर्णं यथा वारि ॥
वाग्देहमानसैरिह कर्म्मचयः क्रियत इति
बुधाः प्राहुः ।
एकोऽपि नाहमेषां कर्त्ता तत्कर्म्मणामस्मि ॥
कर्म्मफलबीजनाशाज्जन्मविनाशो न चात्र
सन्देहः ।
बुद्धैवमपगततमाः सवितेव विभाति भारूपः ॥
यद्वदिषीकातूलं पवनोद्धूतं दश दिशो याति ।
ब्रह्मणि तत्त्वज्ञानात्तथैव कर्म्माणि तत्त्वविदः ।
क्षीरादुद्धृतमाज्यं क्षिप्तं यद्वन्न पूर्ब्बवत्तस्मिन् ।
प्रकृतिगुणेभ्यस्तद्वत् पृथक्कृतश्चेतनोऽप्यात्मा ॥
गुणामयमायागहनं निर्द्धूय यथा तमः
सहस्रांशुः ।
बाह्याभ्यन्तरचारी सैन्धवघनवत् भवेत् पुरुषः ॥
यद्वद्देहोऽवयवा मृदेव तस्या विकारजातानि ।
तद्बत् स्थावरजङ्गममद्बैतं द्बैतवद्भाति ॥
एकस्मात् क्षेत्रज्ञाद्बहवः क्षेत्रजातयो जाताः ।
लौहगतादिव दहनाः समन्ततो विस्फुलिङ्ग-
कणाः ॥
ते गुणसङ्गमदोषाद्बद्धा इव धान्यजातयः
स्वतुषैः ।
जन्म लम्भते तावद्यावन्न ज्ञानवह्रिना दग्धाः ॥
त्रिगुणा चैतन्यात्मनि सर्व्वगतेऽवस्थिताखिला-
धारे ।
कुरुते सृष्टिमविद्या सर्व्वत्र स्पृश्यते तया नात्मा ॥
रज्ज्वां भुजङ्गहेतौ प्रभवविनाशौ यथा न स्तः ।
ज गदुत्पत्तिविनाशौ न च कारणमस्ति तद्व-
दिह ॥
जन्मविनाशनगमनागमनमलै सङ्गधर्जितो
नित्यम् ।
आकाश इव घटादिषु सर्व्वात्मा सर्व्वतोपेतः ॥
कर्म्मशुभाशुभजनितैः सुखदुःखैर्बन्धो भवत्युपा-
धीनाम् ।
तत्संसर्गाद्बद्धस्तस्करसङ्गादतस्करवत् ॥
देहगुणकरणगोचरसङ्गात् पुरुषस्य यावदिह
भावाः ।
तावन्मायापाशैः संसारे रुद्ध इव भाति ॥
मातृपितृबान्धवधनभोगसंमूढः ।
जन्मजरामरणमये चक्र इव भ्राम्यते जन्तुः ॥
लोकव्यवहारकृतां य इहाविद्यामुपासते
मूढाः ।
ते जननमरणधर्म्माणो ध्वान्तमत्रेत्य खिद्यन्ते ॥
हिमफेनयुद्वुदा इव जलस्य धूमो यथा वह्नेः ।
तद्वत स्वभावभूता मायैषा कीर्त्तिता विष्णोः ॥
एवं द्वैतविकल्पां भ्रमस्वरूपां विमोहिनीं
मायाम् ।
उत्सृज्य सकलं निष्फलमद्वैतं भावयेद्ब्रह्म ॥
यद्वत् सलिले सलिलं क्षीरे क्षीरं समीरणे
वायुः ।
तद्वद्ब्रह्मणि विमले भावनया तन्मयत्वमुप-
याति ॥
इत्थं द्वैतसमूहे भावनया ब्रह्मभूयमुपयाति ।
को मोहः कः शोकः सर्व्वं ब्रह्मावलोकयतः ॥
विगतोपाधिस्फटिकः स्वप्रभया भाति निर्म्मलो
यद्वत् ।
चिद्दीपः स्वप्रभया तथा विभातीह निरुपाधिः ॥
गुणकरणगणशरीरप्राणैस्तन्मात्रजातिसुख-
दुःखैः ।
अपरामृष्टो व्यापी चिद्रूपोऽयं सदा विमलः ॥
द्रष्टा श्रोता घ्राता स्पर्शयिता रसयिता ग्रहीता
च ।
देही देहेन्द्रियधीविवर्जितः स्यान्न कर्त्तासौ ॥
एको नैकत्रावस्थितो महैश्वर्य्यं योगतो व्याप्तः ।
आकाशवदखिलमिदं न कश्चिदप्यत्र सन्देहः ॥
आत्मैवेदं सर्व्वं निष्कलसकलं यदैव भावयति ।
मोहगहनाद्विमुक्तस्तदैव परमेश्वरीभूतः ॥
यद्यत् सिद्धान्तागमतर्केषु प्रभ्रमन्ति रागान्धाः ।
अनुमोदामस्तत्तत्तेषां सर्व्वात्मवादिधियाम् ॥
सर्व्वाकारो भगवानुपास्यते येन येन भावेन ।
तं तं भावं भूत्वा चिन्तामणिवत् समभ्येति ॥
नारायणमात्मानं ज्ञात्वा सर्गस्थितिप्रलयहेतुम् ।
सर्व्वज्ञः सर्व्वगतः सर्व्वः सर्व्वेश्वरो भवति ॥
आत्मज्ञस्तरति शुचं यस्माद्विद्वान्न बिभेति
कुतश्चित् ।
मृत्योरपि मरणभयं न भवत्यन्यद्भयं कुतस्तस्य ॥
क्षयवृद्धिवध्यघातकबन्धनमोक्षैर्व्विवर्ज्जितं
नित्यम् ।
परमार्थतत्त्वमेतत् यदतोऽन्यत्तदनृतं सर्व्वम् ॥
एवं प्रकृतिपुरुषं विज्ञाय निरस्तकल्पनाजालः ।
आत्मारामः प्रशमं समास्थितः केवलीभवति ॥
नलकदलिवेणुवाणा नश्यन्ति यथा स्वपुष्प-
मासाद्य ।
तद्वत्स्वभावभूताः स्वभावतां प्राप्य नश्यन्ति ॥
भिन्ने ज्ञानग्रन्थौ छिन्ने संशयगणे शुभाशुभे
क्षीणे ।
दग्धे च जन्मबीजे परमानन्दं हरिं याति ॥
मोक्षस्य नैव किञ्चिद्धामास्ति न चापि गमन-
मन्यत्र ।
अज्ञानमयग्रन्थेर्भेदो यस्तं विदुर्मोक्षम् ॥
बुद्धैवमसत्यमिदं विष्णोर्मायात्मकं जगद्रूपम् ।
विगतद्वन्द्बोपाधिकभोगासङ्गो भवेच्छान्तः ॥
बुद्धा विभक्तां प्रकृतिं पुरुषः संसारमध्यगो
भवति ।
निर्मुक्तः सर्व्वकर्म्मभिरम्बुजपत्रं यथा सलिलैः ॥
अश्नन् यद्बा तद्बा संवीतो येन केनचिच्छान्तः ।
यत्र क्वचन च शायी विमुच्यते सर्व्वभूतात्मा ॥
हयमेधशतसहस्राण्यथ कुरुते ब्रह्मघात-
लक्षाणि ।
परमार्थविन्न पुण्यैर्न च पापः स्पृश्यते विमलः ॥
मदकोपहर्षमत्सरविषादभयपरुषवर्ज्यवात्-
बुद्धिः ।
निस्तोत्रवषट्कारो जडवद्बिचरेदगाधमतिः ॥
उत्पत्तिनाशवर्ज्जितमेवं परमार्थमुपलभ्य ।
कृतकृत्यः सफलजनुः सर्व्वगतस्तिष्ठति यथेष्टम् ॥
व्यापिनमभिन्नमित्थं सर्व्वात्मानं विधूतनानात्वम् ।
निरुपमपरमानन्दं यो वेद स तन्मयो भवति ॥
तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजन्
देहम् ।
ज्ञानसमकालं मुक्तः कैवल्यं याति हतशोकः ॥
पुण्याय तीर्थसेवा निरयाय श्वपचसदननिधन-
गतिः ।
पुण्यापुण्यकलङ्कस्पर्शाभावे तु किन्तेन ॥
वृक्षाग्राच्च्युतपादो यद्बदनिच्छन्नरः क्षितौ
पतति ।
तद्वदगुणपुरुषज्ञोऽनिच्छन्नपि केवलीभवति ॥
परमार्थमार्गसाधनमारभ्याप्राप्य योगमपि
नाम ।
सुरलोकभोगभोगी मुदितमना मोदते सुभृ-
शम् ॥
विषयेषु सार्व्वभौमः सर्व्वजनैः पूज्यते यथा
राजा ।
भुवनेषु सर्व्वदेवैर्योगभ्रष्टस्तथा पूज्यः ।
महता कालेन महान् मानुष्यं प्राप्य योग-
मभ्यस्य ।
प्राप्नोति दिव्यममृतं यत्तत् परमं पदं विष्णोः ॥
वेदान्तशास्त्रमखिलं विलोक्य शेषोऽखिला-
धारः ।
आर्य्यापञ्चाशीत्या बबन्ध परमार्थसारमिदम् ॥”
इति श्रीशेषनागविरचितं परमार्थसारं समा-
प्तम् ॥

वेदान्ती, [न्] पुं, (वेदान्तोऽस्यास्तीति । वेदान्त +

इनिः ।) वेदान्तशास्त्रबेत्ता । तत्पर्य्यायः । ब्रह्म-
वादी २ । इति जटाधरः ॥

वेदारः, पुं, कृकलासः । इति त्रिकाण्डशेषः ॥

पृष्ठ ४/५०३

वेदाभ्यासः, पुं, (वेदस्य अभ्यासः ।) वेदानुशील-

नम् । स च पञ्चविधः । यथा, दक्षः ।
“द्वितीये च तथा भागे वेदाभ्यासो विधीयते ।
वेदाभ्यासो हि विप्राणां परमं तप उच्यते ॥
ब्रह्मयज्ञपरं ज्ञेयः षडङ्गसहितश्च यः ।
वेदस्वीकरणं पूर्व्वं विचारोऽभ्यसनं जपः ।
तद्दानञ्चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा ॥
शङ्खलिखितौ । न वेदमनधीत्यान्यां विद्यामधी-
यीतान्यत्र वेदाङ्गस्मृतिभ्यः ॥” इत्याह्रिकतत्त्वम् ॥

वेदि, क्ली, (विद् + इन् ।) अम्बष्ठा । इति शब्द-

चन्द्रिका ॥

वेदिः, स्त्री, (विद्यते पुण्यमस्यामिति । विद् +

“हृपिषिरुहिवृतिविदीति ।” उणा० ४ । ११८ ।
इति इन् ।) परिष्कृता भूमिः । इत्यमरः ॥
परिष्कृता यज्ञार्थं पशुबन्धनाय यज्ञपात्रासाद-
नाय चातिसंस्कारा भूमिर्वेदिरुच्यते । सा च
डमरुकाद्याकारा पिण्डिका । वेदयति निवा-
रयति द्रव्यजातं वेदिः । विद ङ क ञ चेतना-
ख्याने वासवादे नाम्नीति इः । वेदिः स्त्री वेदी
च । इति भरतः ॥ (यथा, रघुः । ११ । २५ ।
“वीक्ष्य वेदिमथ रक्तबिन्दुभिः-
र्बन्धुजीवपृथुभिः प्रदूषिताम् ॥”)
अङ्गुलिमुद्रा । इति मेदिनी ॥ (गृहोपकरण-
विशेषः । यथा, भागवते । १० । ४१ । २१ ।
“वैदूर्य्यवज्रामलनीलविद्रुमै-
र्मुक्ताहरिद्भिर्वलभीषु वेदिषु ॥”)

वेदिः, पुं, (वेत्तीति । विद् + इन् ।) पण्डितः ।

इति मेदिनी ॥

वेदिका, स्त्री, (वेदिरेव । स्वार्थे + कन् ।) मङ्गल-

कर्म्मार्थं निर्म्मितवेदिः । तत्पर्य्यायः । वितर्द्दिः २ ।
इत्यमरः ॥ वितर्द्दी ३ वेदिः ४ वेदी ५ । इति
तट्टीका ॥ द्वे आरामाङ्गनादिमध्यस्थवेदि-
कायाम् । देवागारादौ काष्ठादिचतुष्किकाया-
मित्यन्ये । दारुपरिवृता त्ततुरस्रा विश्रामभू-
र्व्वितर्द्दिरित्यपरे । स्तम्भसंलग्नपीठिका वितर्द्दि-
रिति केचित् । मङ्गल्याङ्गनमध्यस्थचतुष्किकेति
केचित् । मङ्गलस्थानार्थं निर्म्मितवेदिकेति
केचित् । अशुभं वितर्द्दयति वितर्द्दिः । तर्द्द हिंसे
नाम्नीति इः । वेदिका साहचर्य्यात् स्त्री इदन्त-
त्वात् पक्षे ईप् वितर्द्दी च । वितर्द्दिः काष्ठ-
लोही स्यादिति रत्ने । वितर्द्दिरपीति मधुः ।
विदन्ति विद्यते वा अस्यामिति वेदिः पूर्ब्बवदिः
स्वार्थेकः । अतएव वेदिर्वेदी च । इति भरतः ॥
(यथा, कुमारे । ३ । ४४ ।
“स देवदारुद्रुमवेदिकायां
शार्द्दूलचर्म्मव्यवधानवत्याम् ॥”)

वेदिजा, स्त्री, (वेद्या जायते इति । जन + डः ।)

द्रौपदी । इति हेमचन्द्रः ॥

वेदितः, त्रि, ज्ञापितः । ञ्यन्तविदधातोः क्तप्रत्ययेन

निष्पन्नमिदम् ॥

वेदितव्यं, त्रि, (विद + तव्य ।) वेद्यम् । ज्ञातव्यम् ।

यथा, --
“आर्ष्यं छन्दश्च दैवत्यं विनियोगस्तथैव च ।
वेदितव्यं प्रयत्नेन ब्राह्मणेन विशेषतः ॥”
इति तिथ्यादितत्त्वम् ॥

वेदिता, [ऋ] त्रि, (विद + तृच् ।) ज्ञाता । तत्-

पर्य्यायः । विदुरः २ बिन्दुः ३ । इति हेमचन्द्रः ॥
यथा, महाभारते । ५ । ४३ । ५२ ।
“न वेदानां वेदिता कश्चिदस्ति
वेद्येन वेदं न विदुर्न वेद्यम् ॥”)

वेदी, [न्] पुं, (वेत्तीति । विद् + णिनिः ।)

पण्डितः । इति शब्दरत्नावली ॥ ब्रह्म । इति
केचित् ॥ ज्ञातरि, त्रि ॥ (यथा, रघुः । ८ । २७ ।
“स परार्द्ध्यगतेरशोच्यतां
पितुरुद्दिश्य सदर्थवेदिभिः ॥”)

वेदी, स्त्री, (वेदि + कृदिकारादिति वा ङीष् ।)

वेदिः । इत्यमरटीकायां भरतः ॥ सरस्वती ।
इति शब्दमाला ॥

वेदीशः, पुं, (वेदीनां पण्डितानामीशः ।) ब्रह्मा ।

इति त्रिकाण्डशेषः ॥

वेदोक्तः, त्रि, (वेदे उक्तः ।) श्रुतिकथितः । यथा,

“वेदोक्तमेव कुर्व्वाणो निःसङ्गोऽर्पितुमीश्वरे ।
नैष्कर्म्यां लभते सिद्धिं रोचनार्था फलश्रुतिः ॥”
इति मलमासतत्त्वम् ॥

वेदोदयः, पुं, (वेदः विषयज्ञानमुदये यस्य ।) सूर्य्यः ।

इति त्रिकाण्डशेषः ॥

वेदोदितः, त्रि, (वेदे उदितः ।) वेदोक्तः । यथा, --

“वेदोदितानां नित्यानां कर्म्मणां समतिक्रमे ।
स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम् ॥”
इति मलमासतत्त्वम् ॥

वेद्यं, त्रि, (विद् + ण्यत् ।) वेदितव्यम् । यथा, --

“धर्म्मः प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां
सताम्
वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् ।
श्रीमद्भागवते महामुनिकृते किंवा परैरीश्वरः
सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्-
क्षणात् ॥”
इति श्रीभागवते १ स्कन्धे १ अध्यायः ॥
(धनाय हितम् । यथा, ऋग्वेदे । २ । २ । ३ ।
“रथमिव वेद्यं शुक्रशोचिषमग्निम् ।”
“वेद्यं वेदो धनम् । तस्मै हितम् ।” इति तद्भाष्ये
सायणः ॥ स्तुत्यम् । तथा, तत्रैव । ५ । १५ । १ ।
“प्रवेधसे कवये वेद्याय गिरम् ।”
“वेद्याय स्तुत्याय ।” इति तद्भाष्ये सायणः ॥
लब्धव्यम् । यथा, वाजसनेयसंहितायाम् । १८ ।
११ ।
“वित्तं च मे वेद्यञ्च मे ।”
“वेद्यं लब्धव्यम् ।” इति तद्भाष्ये महीघरः ॥
वेदाय हितमिति । वेद + यत् । बेदहितम् । वेद-
प्रतिपाद्यम् । यथा, महाभारते । १३ । १५८ । ३६ ।
“वेद्यञ्च यत् वेदयते च वेद्यं
विधिश्च यश्चाश्रयते विधेयम् ।
धर्म्मे च वेदे च बले च सर्व्वं
चराचरं केशवं त्वं प्रतीहि ॥”)

वेधः, पुं, (विध + घञ् ।) वेधनम् । वँधा इति

भाषा । तत्पर्य्यायः । व्यधः २ । इत्यमरः ॥
(यथा, महाभारते । १२ । १६८ । ३६ ।
“वाणवेधे परं यत्नमकरोच्चैव गौतमः ॥”)
गभीरता । गहरा इति चाडा इति च भाषा ॥
यथा, --
“गणयित्वा विस्तारं बहुषु स्थानेषु तद्युति-
र्भाज्या ।
स्थानकमित्यासममितिरेवन्दैर्घ्ये च वेधे च ॥
क्षेत्रफलं वेधगुणं खाते घनहस्तसंख्या स्यात् ।”
इति लीलावत्यां खातव्यवहारः ॥ * ॥
अथ सप्तशलाकवेधः ।
“कृत्तिकादिचतुःसप्तरेखाराशौ परिभ्रमन् ।
ग्रहश्चेदेकरेखास्थो वेधः सप्तशलाकजः ॥”
इति दीपिका ॥ * ॥
अथ खर्ज्जूरवेधः ।
“एकामूर्द्ध्वगतां त्रयोदश तथा तिर्य्यग्गताः
स्थापयेत्
रेखाश्चक्रमिदं बुधैरभिहितं खार्ज्जूरिकं तत्र तु ।
व्याघातादि तु मूर्ध्नि भन्तु कथितं तत्रैक्यरेखा-
स्थयोः
सूर्य्याचन्द्रमसोर्मिथो निगदिता दृक्पात एका-
र्गलः ॥”
इति रत्नमाला ॥ * ॥
अथ युतवेधः ॥
“पापात् सप्तमगः शशी यदि भवेत् पापेन वा
संयुतो
यत्नात्तं परिवर्ज्जयेत् मुनिमतो दोषो ह्ययं
कथ्यते ॥”
अथ यामित्रवेधः ।
“रविमन्दकुजाक्रान्तं मृगाङ्कात् सप्तमं त्यजेत् ।
विवाहयात्राचूडासु गृहकर्म्मप्रवेशने ॥”
इति रत्नमाला ॥
वामदक्षिणवेधौ वामवेधशब्दे द्रष्टव्यौ ॥

वेधकं, क्ली, (विध + ण्वुल् ।) धान्यकम् । इति

राजनिर्घण्टः ॥

वेधकः, पुं, (विध + ण्वुल् ।) कर्पूरः । इति

त्रिकाण्डशेषः ॥ अम्लवेतसः । इति राजनिर्घण्टः ॥
(मणिमुक्तादिवेधोपजीवी । यथा, राभायणे ।
२ । ८४ । १३ ।
“मायूरिकाः क्राकचिका वेधका रोचका-
स्तथा ॥”)
वेधकर्त्तरि, त्रि ॥ (यथा, महाभारते । १३ ।
२३ । ८० ।
“अप्राप्तदमकाश्चैव नासानां वेधकाश्च ये ।
बन्धकाश्च पशूनां ये ते वै निरयगामिनः ॥”)

वेधनिका, स्त्री, (विध्यतेऽनयेति । विध + करणे

ल्युट् । ततः स्वार्थे कन् ।) मणिशङ्खादिवेधनो-
पकरणम् । भोमरी इति भाषा । तत्पर्य्यायः ।
आस्फोटनी । इत्यमरः ॥ लास्फोटनी ३
स्फोटनी ४ वृषदंशिका ५ । इति भरतधृत-
वाचस्पतिः ॥
पृष्ठ ४/५०४

वेधनी, स्त्री, (विध्यतेऽनयेति । विध + ल्युट् ।

स्त्रियां ङीष् ।) हस्तिकर्णवेधनास्त्रम् । इति
त्रिकाण्डशेषः ॥ मेथिका । इति भावप्रकाशः ॥

वेधमुख्यः, पुं, (वेधे वेधने मुख्यः श्रेष्ठः ।) कर्च्चूरः ।

इति राजनिर्घण्टः ॥

वेधमुख्यकः, पुं, (वेधमुख्य + स्वार्थे कन् ।) हरिद्रा-

वृक्षः । काँचा हल्दि इति ख्यातः । तत्पर्य्यायः ।
कर्व्वूरकः २ द्राविडकः ३ काल्पकः ४ काल्यकः
५ । इत्यमरभरतौ ॥

वेधमुख्या, स्त्री, (वेधे मुख्या ।) कस्तूरी । इति

राजनिर्घण्टः ॥

वेधसं, क्ली, ब्राह्मतीर्थम् । अङ्गुष्ठमूलम् । इति

शब्दचन्द्रिका ॥

वेधाः, [स्] पुं, (विदधातीति । वि + धा + “विधाञो

वेध च ।” उणा० ४ । २२४ । इति असिः ।
वेधादेशश्च सोपसर्गधातोः ।) ब्रह्मा । (यथा,
रघुः । १ । २९ ।
“तं वेधा विदधे नूनं महाभूतसमाधिना ।
तथाहि सर्व्वे तस्यासन् परार्थैकफला गुणाः ॥”)
विष्णुः । इत्यमरः ॥ (शिवः । यथा, हरिवंशे
भविष्यपर्व्वणि । १५ । १२ ।
“नमस्ते शितिकण्ठाय नीलग्रीवाय वेधसे ॥”)
सूर्य्यः । इति शब्दरत्नावली ॥ पण्डितः । इति
विश्वः ॥ श्वेतार्कवृक्षः । इति शब्दचन्द्रिका ॥
अनन्तपुत्त्रः । यथा, --
“इक्ष्वाकुर्ज्येष्ठदायादो मध्यदेशमवाप्तवान् ।
सुद्युम्नस्य प्रतिष्ठानं तस्य पुत्त्रः पुरूरवाः ॥
नरिष्यतः शुकाः पुत्त्राः शाकं क्षत्त्रमुदाहृतम् ।
नाभागस्याम्बरीषोऽभूत् सक्षत्त्रं पार्थिवं ततः ॥
कोष्टवे वार्षकं क्षेत्रं रणवृष्टिर्ब्बभूव ह ।
शर्यातेर्मिथुनन्त्वासीदनन्तो नाम विश्रुतः ॥
सुकन्या नाम कन्या च या पत्नी यादवस्य च ।
अनन्तस्य च पुत्त्रोऽभूत् वेधो नाम महाप्रभुः ।
आनर्त्तविषये तेन पुरी कुशस्थली कृता ॥”
इति वह्रिपुराणे सागरोपाख्याननामाध्यायः ॥
(प्रजापतिर्दक्षादिः । यथा, कुमारे । २ । १४ ।
“परतोऽपि परश्चासि विधाता वेधसामपि ॥”
त्रि, मेधावी । इति निघण्टुः । ३ । १५ ॥ विविध-
कर्त्ता । यथा, ऋग्वेदे । ५ । ४३ । १२ ।
“आ वेधसं नीलपृष्ठं बृहन्तम् ।”
“कीदृशं देवं वेधसं विविधकर्त्तारम् ।” इति
तद्भाष्ये सायणः ॥)

वेधितः, पुं, (विध + णिच् + क्तः ।) कारित-

विद्धः । छिद्रितः । इत्यमरः ॥

वेधिनी, स्त्री, (विधति त्वचमिति । विध छिद्रीकरणे

+ णिनिः । ङीप् ।) रक्तपा । इति शब्दरत्ना-
वली ॥ जोँक इति भाषा ॥ मेथिका । इति
राजनिर्घण्टः ॥

वेधी [न्] त्रि, (विधतीति । विध छिद्रीकरणे +

णिनिः ।) वेधकर्त्ता । (यथा, महाभारते ।
५ । ९६ । ३० ।
“तेषामक्षीणि कर्णांश्च नासिकाश्चैव मायया ।
निमित्तवेधी स मुनिरीषीकाभिः समर्पयत् ॥”)
वेधविशिष्टः । विधधातोर्णिन्प्रत्ययेन वेधशब्दा-
दस्त्यर्थे इन्प्रत्ययेन वा निष्पन्नः ॥ अम्लवेतसे,
पुं । इति राजनिर्घण्टः ॥

वेध्यं, क्ली, (विध + ण्यत् ।) लक्ष्यम् । इति जटा-

धरः ॥ (यथा, मार्कण्डेये । ४२ । ७ ।
“प्राणो धनुः शरो ह्यात्मा ब्रह्म वेध्यमनुत्तमम् ।
अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत् ॥”)
वेधनीये, त्रि । यथा, --
“षट्कर्णोत्पत्तिमाशङ्क्य भानोः शुद्ध्या समेऽपि
च ।
कर्णौ वेध्यौ न दाषः स्यादन्यथा मरणं भवेत् ॥”
इति मलमासतत्त्वम् ॥

वेनः, पुं, (अजतीति । अज गतौ + “धापॄवस्य-

ज्यतिभ्यो नः ।” उणा० ३ । ६ । इति नः । अजते-
र्वीभावः ।) प्रजापतिः । इत्युणादिकोषः ॥
(पृथुराजपिता । यथा, मार्कण्डेये । २७ । १५ ।
“हतमैलं तथा लोभात् मदाद्वेनं द्बिजैर्हतम् ॥”
अस्यान्यद्विवरणं मूर्द्धण्यान्तवेणशब्दे द्रष्ट-
व्यम् ॥ * ॥ देवविशेषः । इति निघण्टुः । ५ । ४ । २४ ॥
यथा, ऋग्वेदे । १० । १२३ । १ ।
“अयं वेनश्चोदयन् पृश्निगर्भा ॥”
“वेनः कान्तः एतत्संज्ञो मध्यमस्थानो देवः ।”
इति तद्भाष्ये सायणः ॥ * ॥ अजति गच्छत्यनेन
स्वर्गमिति । यज्ञः । इति निघण्टुः । ३ । १७२ ॥
त्रि, मेधावी । इति निघण्टुः । ३ । १५ । ५ ॥ यथा,
वाजसनेयसंहितायाम् । १३ । ३ ।
“सीमतः सुरुचो वेन आवः ॥”
“वेनः कामनीयो मेधावी वा ।” इति तद्भाष्यम् ॥
कामयमानः । यथा, ऋग्वेदे । ८ । ८९ । ५ ।
“आयन्मा वेना अरुहन्नृतस्य ॥”
“वेनाः कामयमानाः ।” इति तद्भाष्ये सायणः ॥)

वेन्ना, स्त्री, (वन शब्दे संभक्तौ वा + “वनेरिच्चो-

पधायाः ।” उणा० ३ । ८ । इति नः उपधाया
इत्वञ्च ।) नदीविशेषः । इति सिद्धान्तकौमुद्या-
मुणादिवृत्तिः । (यथा, महाभारते । ३ । ८८ । ३ ।
“वेन्ना भीमरथी चोभे नद्यौ पापभयापहे ॥”)

वेप, टु ऋ ङ चले । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-सेट् ।) चलः कम्पनम् । टु,
वेपथुः । ऋ, अविवेपत् । ङ, वेपते वायुना वृक्षः ।
इति दुर्गादासः ॥

वेपः, [स्] क्ली, (वेप कम्पने + “सर्व्वधातुभ्यो-

ऽसुन् ।” उणा० ४ । १८८ । इत्यसुन् ।) अन-
वद्यम् । यथा, --
“स्याद्बलज्योतिषोः क्लीवं वचो वाच्यथ धातुषु ।
मेदो वेपोऽनवद्येऽथ सभायाञ्च सदो न ना ॥”
इत्युणादिकोषः ॥
(विरेपः । इति साधुपाठः ॥ इत्युज्ज्वलः । ४ ।
१८९ ॥ * ॥ कर्म्म । इति निघण्टुः । २ । १ । ५ ॥
यथा, ऋग्वेदे । १० । ४६ । ८ ।
“प्रजिह्वया भरते वेपो अग्निः ॥”
“वेपः कर्न्मनामैतत् ।” इति तद्भाष्ये सायणः ॥)

वेपथुः, पुं, (वेपनमिति । वेप + “ट्वितोऽथुच् ।”

३ । ३ । ८९ । इति अथुच् ।) कम्पः । इत्य-
मरः ॥ (यथा, गीतायाम् । १ । २९ ।
“वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥”)

वेपनं, क्ली, (वेप + ल्युट् ।) कस्पनम् । इति

शब्दरत्नावली ॥ (यथा, सुश्रुते शारीरस्थाने
१० आध्यायः । “तत्र विद्धस्य क्रोशनविनमन-
मोहनभ्रमणवेपनानि मरणं वा भवति ॥”)

वेमः, पुं, वापदण्डः । यथा, --

“वापदण्डः पुंसि वेमा वेमो ना वेम न द्वयोः ॥”
इति शब्दरत्नावली ॥

वेमा, [न्] पुं, (वयत्यनेनेति । वे + “वेञः सर्व्वत्र ।”

उणा० ४ । १४९ । इति इमनिन् ।) वापदण्डः ।
इत्यमरभरतौ ॥ (यथा, नैषधे । १ । १२ ।
“सितांशुवर्णैर्व्वयति स्म तद्गुणै-
र्म्महासिवेम्नः सहकृत्वरी बहुम् ॥”
अर्द्धर्चादित्वात् क्लीवलिङ्गोऽपि । यथा, वाज-
सनेयसंहितायाम् । १९ । ८९ ।
“नग्नहुर्धीरस्तसरं न वेम ॥”)

वेरं, क्ली, शरीरम् । वार्त्ताकुः । कुङ्कुमम् । इति

मेदिनी ॥

वेरकं, क्ली, कर्पूरम् । इति हारावली ॥

वेल, ऋ चाले । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) ऋ, अविवेलत् । इति दुर्गादासः ॥

वेल, त् क कालार्थे । इति कविकल्पद्रुमः ॥ (अदन्त-

चुरा०-पर०-अक०-सेट् ।) कालार्थः कालो-
पदेशः । अविवेलत् । कालमियत्तया गणकः
एतावती वेलेति कथितवानित्यर्थः । इति दुर्गा-
दासः ॥

वेलं, क्ली, उपवनम् । यथा, हेमचन्द्रे ।

“अपोपाभ्यां वनं वेलमारामः कृत्रिमे वने ॥”

वेला, स्त्री, (वेल्यतेऽनयेति । वेल + गुरोश्च हलः

इत्यः । ततष्टाप् ।) कालः । तत्पर्य्यायः ।
समयः २ क्षणः ३ वारः ४ अवसरः ५ प्रस्तावः
६ प्रक्रमः ७ अन्तरम् ८ । इति हेमचन्द्रः ॥
तत्परिमाणानि यथा, --
“अक्षिपक्ष्मपरिक्षेपो निमेषः परिकीर्त्तितः ।
द्वौ निमेषौ त्रुटिर्नाम द्वे त्रुटी तु लवः स्मृतः ॥
द्बिलवः क्षण इत्युक्तः काष्ठा प्रोक्ता दश क्षणाः ।
दश काष्ठाः किला नाम तत्संख्या स्याच्च
नाडिका ॥
घटिके द्वे मुहूर्त्तः स्यात्तैस्त्रिंशत्या दिवानिशम् ।
चतुर्व्विंशतिवेलाभिरहोरात्रं प्रचक्षते ॥
सूर्य्योदयादि विज्ञेयो मुहूर्त्तानां क्रमः सदा ।
पश्विमादर्द्धरात्रादि होराणां विद्यते क्रमः ॥
ज्ञेयं पित्र्यमहोरात्रं पक्षौ कृष्णसितासितौ ।
त्रिंशता च दिनैर्मासो द्विमास ऋतुरुच्यते ।
भवेद्दिव्यमहोरात्रं षड्२भिरुत्तरदक्षिणौ ।
वर्षं द्वादशभिर्मासैर्मलमासस्त्रयोदशः ॥”
इति वह्रिपुराणे गणभेदनामाध्यायः ॥ * ॥
मर्य्यादा । इत्यमरः ॥ (यथा, महाभारते । २ ।
६३ । ३९ ।
पृष्ठ ४/५०५
“धिगस्तु नष्टः खलु भारतानां
धर्म्मस्तथा क्षत्रविदाञ्च वृत्तम् ।
यत्र ह्यतीतां कुरुधर्म्मवेलां
प्रेक्षन्ति सर्व्वे कुरवः सभायाम् ॥”)
समुद्रकूलम् । (यथा, रघुः । १ । ३० ।
“स वेलावप्रवलयां परिखीकृतसागराम् ।
अनन्यशासनामुर्व्वीं शशासैकपुरीमिव ॥”)
समुद्रजलविकारः । (यथा, रघुः । १२ । ३६ ।
“संरम्भं मैथिलीहासः क्षणसौम्यां निनाय
ताम् ।
निवातस्तिमितां वेलां चन्द्रोदय इवोदधेः ॥”)
अक्लिष्टमरणम् । रागः । ईश्वरस्य भोजनम् ।
इति मेदिनी ॥ अत्र पवर्गीयबकारादौ
लिखितः । रागस्थाने रोगः । वाक् । बुधस्त्री ।
इति विश्वः ॥ दन्तमांसम् । इति हारावली ॥

वेलाकूलं, क्ली, (वेला एव कूलं यस्य ।) तामलिप्त-

देशः । यथा, --
“वेलाकूलं तामलिप्तं तामलिप्ती तमालिका ॥”
इति त्रिकाण्डशेषः ॥
(समुद्रकूलम् । यथा, भागवते । १० । ६७ । ५ ।
“क्वचित् समुद्रमध्यस्थो दोर्भ्यामुत्क्षिप्य तज्जलम् ।
देशान् नागायुतप्राणो वेलाकूले न्यमज्जयत् ॥”)

वेलिभुक्प्रियः, पुं, सौरभयुक्ताम्रः । यथा, --

“--रसाले त्वतिसौरमे ।
महाकालश्च किम्पाक उर्व्वटो वेलिभुक्प्रियः ॥”
इति शब्दरत्नावली ॥
(वलिभुक्प्रिय इत्येव पाठः साधुः ॥)

वेल्ल, ऋ चाले । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) ऋ, अविवेल्लत् । चालः
सञ्चलनम् । उद्बेल्लद्भुजवल्लिकङ्कणझनत्कारः
क्षणं वार्य्यताम् । गतावित्येके । इति दुर्गादासः ॥

वेल्लं, क्ली, पुं, (वेल्लतीति । वेल्ल चलने + पचाद्यच् ।)

विडङ्गः । इत्यमरः ॥ (भावे घञ् ।) गमने, पुं, ।
इति वेल्लधात्वर्थदर्शनात् ॥

वेल्लजं, क्ली, (वेल्लवत् जायते इति । जन + डः ।)

मरिचम् । इत्यमरः ॥

वेल्लनं, क्ली, (वेल्लं + ल्युट् ।) भूमौ अश्वस्य

लुण्ठनम् । तत्पर्य्यायः । लुण्ठनम् २ । इति
त्रिकाण्डशेषः ॥ (सञ्चलनम् । यथा, राज-
तरङ्गिण्याम् । ८ । १५९५ ।
“भ्रष्टा सरित् स्ववसतेर्जलधिप्रवेशे
वेलोर्म्मिवेल्लनवशेन विवर्त्तमाना ॥”)
रोटिकादिनिर्म्माणार्थस्थूलवर्त्तुलकाष्ठविशेषः ।
इति भावप्रकाशः ॥ वेलन् इति भाषा ॥

वेल्लनी, स्त्री, (वेल्लति लुठति अश्वादिरत्रेति ।

वेल्ल + ल्युट् । ङीष् ।) मालादूर्व्वा । इति
राजनिर्घण्टः ॥

वेल्लन्तरः, पुं, वीरतरुः । यथा, भावप्रकाशे ।

“वेल्लन्तरो जगति वीरतरुः प्रसिद्धः
श्वेतासितारुणविलोहितनीलपुष्पः ।
स्याज्जातितुल्यकुसुमः शमिसूक्ष्मपत्रः
स्यात् कण्टकी च जलदेशज एष वृक्षः ॥”
अस्य गुणाः ।
“वेल्लन्तरो रसे पाके तिक्तस्तृष्णाकफापहः ।
मूत्राघाताश्मजिद्ग्राही योनिमूत्रानिलार्त्ति-
जित् ॥”

वेल्लहलः, पुं, केलिनागरः । इति जटाधरः ॥

वेल्लिः, स्त्री, (वेल्लति सञ्चलतीति । वेल्ल + इन् ।)

लता । इति शब्दरत्नावली ॥

वेल्लिकाख्या, स्त्री, (वेल्लिका आख्या यस्याः ।)

वृक्षविशेषः । वेलसुठा इति भाषा । यथा, --
“मरुन्माला वेल्लिकाख्या विल्लपत्री ज्वरा-
पहा ॥”
इति शब्दचन्द्रिका ॥

वेल्लितं, क्ली, (वेल्ल + क्तः ।) गमनम् । इति मेदिनी ॥

वेल्लितः, त्रि, (वेल्ल + क्तः ।) कुटिलः । कम्पितः ।

इत्यमरः ॥

वेवी, र क्ष लु ङ कान्तिगतिव्याप्तिक्षेपप्रजनखादने ।

इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-कान्तौ
अक०-अन्यत्र सक०-सेट् ।) र, वैदिकः ।
क्ष, अवेवयुः । बहुलं ब्रह्मणीति परस्मैपदे
अनुस् सिद्वेरित्यन् उस् णुरुस्यठ्यामिति गुणः ।
लु ङ, वेवीते । इति दुर्गादासः ॥

वेशः, पुं, (विशन्ति नयनमनांस्यत्रेति । विश् +

अधिकरणे घञ् । यद्बा, विशति अङ्गमिति ।
“पदरुजविशस्पृशो घञ् ।” ३ । ३ । १६ । इति घञ् ।)
अलङ्काररचनादिकृतशोभा । तत्पर्य्यायः ।
आकल्पः २ नेपथ्यम् ३ प्रतिकर्म्म ४ प्रसा-
धनम् ५ । इत्यमरः ॥ वेषः ६ । इति तट्टीकायां
भरतः ॥ (यथा, भागवते । १ । १७ । ५ ।
“नरदेवोऽसि वेशेन नटवत् कर्म्मणा द्विजः ॥” * ॥
विशन्ति कामुका यत्रेति । अधिकरणे घञ् ।)
वेश्यागृहम् । गृहमात्रम् । इति मेदिनी ॥
(वस्त्रगृहम् । ताँवु इति भाषा ॥ यथा,
महाभारते । ५ । १५१ । ५३ ।
“शकटापणवेशाश्च यानयुग्यञ्च सर्व्वशः ।
तत् संगृह्य ययौ राजा ये चापि परिचारकाः ॥”)
प्रवेशः । इति विशधात्वर्थदर्शनात् ॥ (पण्य-
स्त्रिया भृतिः । यथा, मनुः । ४ । ८४ -- ८५ ।
“न राज्ञः प्रतिगृह्णीयादराजन्यप्रसूतितः ।
सूनाचक्रध्वजवतां वेशेनैव च जीवताम् ॥
दशसूनासमं चक्रं दशचक्रसमो ध्वजः ।
दशध्वजसमो वेशो दशवेशसमो नृपः ॥”)

वेशकः, पुं, (वेश एव । स्वार्थे कन् ।) गृहम् । इति

शब्दरत्नावली ॥ वेशकारके, त्रि ॥

वेशदानः, पुं, सूर्य्यशोभा । इति शब्दचन्द्रिका ॥

वेशधारी, [न्] पुं, (वेशं तापसलिङ्गं धरतीति ।

धृ + णिनिः ।) छलतपस्वी । इति शब्दरत्ना-
वली ॥ (सङ्करजातिविशेषः । यथा, ब्रह्म-
वैवर्त्ते ब्रह्मखण्डे । १० अध्यायः ।
“गङ्गापुत्त्रस्य कन्यायां वीर्य्येण वेशधारिणः ।
बभूव वेशधारी च पुत्त्रो युङ्गी प्रकीर्त्तितः ॥”)
वेशधारके, त्रि ॥

वेशन्तः, पुं, (विशन्त्यत्र भेकादय इति । विश +

“जॄविशिभ्यां झच् ।” उणा० ३ । १२६ । इति
झच् ।) क्षुद्रसरोवरः । इत्यमरः ॥ अग्निः
इत्युणादिकोषः ॥

वेशरः, पुं, अश्वतरः । इति त्रिकाण्डशेषः ॥

वेशवारः, पुं, वेसवारः । इत्यमरटीकायां राय-

मुकुटः ॥

वेशीजाता, स्त्री, पुत्त्रदात्रीलता । इति राज-

निर्घण्टः ॥

वेश्म, [न्] क्ली, (विशन्त्यत्रेति । विश + मनिन् ।)

गृहम् । इत्यमरः ॥ (यथा, मनुः । ४ । ७३ ।
“अद्वारेण च नातीयात् ग्रामं वा वेश्म वावृ-
तम् ॥”)

वेश्मकलिङ्गः, पुं, (वेश्मनः कलिङ्गः ।) चटकः ।

अस्य मांसगुणौ । सन्निपातनाशित्वम् । अति-
शुक्रकारित्वञ्च । इति राजवल्लभः ॥

वेश्मकूलः, पुं, (वेश्म गृहं कूलयतीति । कूल + कः ।)

चचेण्डा । इति राजनिर्घण्टः ॥

वेश्मनकुलः, पुं, (वेश्मनो गृहस्य नकुलः ।) गन्ध-

मूषिकः । यथा, --
“चिक्कः स्याद्बे श्मनकुलश्चिक्का च बालमूषिका ।
गन्धसूयी गन्धमूषी गिरिका स्याच्छुछुन्दरी ॥”
इति शब्दरत्नावली ॥

वेश्मभूः, स्त्री, (वेश्मनो भूः ।) गृहकरणयोग्य-

भूमिः । तत्पर्य्यायः । वास्तुः २ । इत्यमरः ॥

वेश्यं, क्ली, (वेशे भवम् । वेश + “दिगादित्वात्

यत् ।” ४ । ३ । ५४ । इति यत् । यद्वा, वेश्यायै
हितम् । वेश्या + यत् ।) वेश्यालयः । इति
मेदिनी ॥ (प्रवेशार्हे, त्रि । यथा, ऋग्वेदे ।
४ । २६ । ३ ।
“शततमं वेश्यं सर्व्वताता दिवोदासमतिथिग्वं
यदावम् ॥”
“वेश्यं दिवोदासनाम्ने प्रवेशार्हम् ।” इति
तद्भाष्ये सायणः ॥)

वेश्या, स्त्री, टुण्डुकावृक्षः । आकनादि इति भाषा ।

इति शब्दचन्द्रिका ॥ (वेशमर्हति वेशेन
दीव्यत्याचरति वेशेन पण्ययोगेन जीवति वा ।
वेश + यत् ।) स्वनामख्यातनारी । खान्की
इति भाषा । तत्पर्य्यायः । वारस्त्री २
गणिका ३ रूपाजीवा ४ । इत्यमरः ॥ वेष्या ५ ।
इति तट्टीका ॥ क्षुद्रा ६ शालभञ्जिका ७ ।
इति जटाधरः ॥ झर्झरा ८ शूला ९ वार-
विलासिनी १० वारवाणिः ११ भण्डहासिनी
१२ । इति शब्दरत्नावली ॥ लञ्जिका १३
बन्धुरा १४ कुम्भा १५ कामरेखा १६ वर्व्वटी
१७ । इति शब्दमाला ॥ साधारणस्त्री १८
पण्याङ्गना १९ पणाङ्गना २० भुजिष्या २१
वारबधूः २२ । इति हेमचन्द्रः ॥ भोग्या २३
स्मरवीथिका २४ । इति राजनिर्घण्टः ॥ तस्या
लक्षणगमनफलादि यथा, --
“पतिव्रता चैकपत्नी द्वितीये कुलटा स्मृता ।
तृतीये वृषली ज्ञेया चतुर्थे पुंश्चली स्मृता ॥
पृष्ठ ४/५०६
वेश्या च पञ्चमे षष्ठे युङ्गी च सप्तमेऽष्टमे ।
तत ऊर्द्ध्वे महावेश्या सास्पृश्या सर्व्वजातिषु ॥ * ॥
यो द्बिजः कुलटाङ्गच्छेत् वृषलीं पुंश्चलीमपि ।
युङ्गीं वेश्यां महावेश्यां अवटोदं प्रयाति सः ॥
शताब्दं कुलटागामी धृष्टागामी चतुर्युगम् ।
षड्गुणं पुंश्चलीगामी वेश्यागामी गुणाष्टकम् ॥
युङ्गीगामी दशगुणं वसेत्तत्र न संशयः ।
महावेश्यागामुकश्च ततः शतगुणं भवेत् ॥
तदेव सर्व्वगामी चेत्येवमाह पितामहः ।
तत्रैव यातनां भुङ्क्ते यमदूतेन ताडितः ॥
तित्तिरिः कुलटागामी धृष्टागामी च वायसः ।
कोकिलः पुंश्चलीगामी वेश्यागामी वृकस्तथा ॥
युङ्गीगामी शूकरश्च सप्तजन्मसु भारते ।
महावेश्यागामुकश्च जायते शाल्मलिस्तरुः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २८ अध्यायः ॥ * ॥
वेश्यागमनपापं प्रकीर्णकम् । तस्य प्रायश्चित्तम् ।
तत्र सम्बर्त्तः ।
“पशुवेश्याभिगमने प्राजापत्यं विधीयते ।”
तेन वेश्यागमने प्राजापत्यम् । तदशक्तौ धेनु-
रेका । एतत् सकृद्गमने । अभ्यासे तु । चान्द्रा-
यणेन चैकेन सर्व्वपापक्षयो भवेदिति आप-
स्तम्बवचनाच्चान्द्रायणम् । इति प्रायश्चित्त-
विवेकः ॥ * ॥ तदन्नादिकं निषिद्धम् । यथा, --
“पुंश्चल्यन्नञ्च यो भुङ्क्ते पुंश्चल्याजीवजीवनः ।
स्वलोममानवर्षञ्च लालाकुण्डे वसेद्ध्रुवम् ॥
ताडितो यमदूतेन तद्भोजी तत्र तिष्ठति ।
ततस्त्रिजन्मनि भवेत् कृष्णवर्णः पशुः शुचिः ॥
त्रिजन्मनि भवेच्छागस्ततो भवेत् सुदुःखितः ।
ततश्चक्षुःशूलरोगी ततः शुद्धः क्रमेण च ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः ॥ * ॥
अपि च ।
“पुंश्चल्यन्नञ्च यो भुङ्क्ते वेश्यान्नञ्च पतिव्रते ।
तद्व्रजेत्तु द्बिजो यो हि कालसूत्रं प्रयाति सः ॥
शतवर्षं कालसूत्रे स्थित्वा शूद्रो भवेद्ध्रुवम् ।
तत्र जन्मनि रोगी च ततः शुद्धो भवेद्द्विजः ॥”
इति तत्रैव २८ अध्यायः ॥ * ॥
यात्राकाले तस्या दर्शनं शुभम् । यथा, --
“धेनुर्व्वत्सप्रयुक्ता वृषतुरगरथा दक्षिणावर्त्तवह्नि-
र्दिव्यस्त्रीपूर्णकुम्भा द्विजनृपगणिकाः पुष्पमाला
पताका ।
सद्योमांसं घृतं वा दधि मधु रजतं काञ्चनं
शुक्लधान्यं
दृष्ट्वा श्रुत्वा पठित्वा फलमिह लभते मानवो
गन्तुकामः ॥”
इति समयप्रदीपः ॥

वेश्यागणः, पुं, (वेश्यानां गणः ।) वेश्यासमूहः ।

तत्पर्य्यायः । वेश्यावारः २ । इति शब्द-
माला ॥

वेश्याचार्य्यः, पुं, (वेश्यानां आचार्य्यः ।) पीठ-

मर्द्दः । इति हेमचन्द्रः ॥

वेश्याजनसमाश्रयः, पुं, (वेश्याजनानां समाश्रयः

आश्रयस्थानम् ।) वेश्यालयः । तत्पर्य्यायः ।
वेशः २ । इत्यमरः ॥ वेश्याश्रयः ३ पुरम् ४ ।
इति हेमचन्द्रः ॥ वेश्यम् ५ । इति जटा-
धरः ॥

वेश्वरः, पुं, अश्वतरः । यथा । वेश्वरोऽश्वतरः

खरः । इति भूरिप्रयोगः । त्रिकाण्डशेषे वेशर
इति पाठः ॥

वेषः, पुं, वेवेष्टि व्याप्नोति अङ्गं वेषः पचादित्वादन्

मूर्द्धन्यान्तः । विशन्ति नयनमनांस्यत्रेत्याधारे
घञि वेशस्तालव्यान्तश्च । इति भरतः ॥ नेप-
थ्यम् । (यथा, मनुः । ८ । २ ।
“विनीतवेषाभरणः पश्येत्कार्य्याणि कार्य्यि-
णाम् ॥”)
वेश्याजनाश्रयः । “द्वे दारिकाणां निवासस्थाने ।
विशति यूनां मनः कामुको वा वेशः शौ विश
प्रवेशे घञ् ।
‘नेपथ्ये गृहमात्रे च वेशो वेश्यागृहेऽपि च ।’
इति तालव्यान्ते रभसः ॥
‘गृहमात्रे गणिकायाः सद्मनि वेशो भवेत्तु
तालव्यः ।
तालव्यो मूर्द्धन्योऽलङ्करणे कथित आचार्य्यैः ॥’
इत्युष्मविवेकः ।
वेविषति व्याप्नुवन्ति जनमनांसीति धञि वेषो
मूर्द्धन्यान्तोऽपि इत्येके तत्तु न हृद्यं मूर्द्धन्यान्तेषु
सर्व्वत्र कोषादावनुपात्तत्वादिति मुकुटः ।” इति
च भरतः ॥ (संस्थानविशेषः । यथा, रामा-
यणे । १ । १७ । १९ ।
“यस्य देवस्य यद्रूपं वेषो यश्च पराक्रमः ॥”
“वेषः संस्थानविशेषः ।” इति तट्टिका ॥ * ॥
वेवेष्टि व्याप्नोति कर्त्तॄनिति । पचाद्यच् । कर्म्म ।
इति निघण्टः । २ । १ ॥ * ॥ विष व्याप्तौ +
घञ् । व्याप्तिः । यथा, वाजसनेयसंहितायाम्
१ । ६ ।
“कर्म्मणे वां वेषाय वाम् ।”
“वेषायच । विषॢ व्याप्तौ । घञ् वेषो व्याप्तिः ।
सूचितकर्म्मसु व्याप्त्यर्थं च वां युवामह-
माददे ।” इति तद्भाष्ये महीधरः ॥)

वेषणः, पुं, (विष व्याप्तौ + ल्युः ।) कासमर्द्दः ।

इति हारावली ॥ (क्ली, विष + ल्युट् ।)
प्रवेषणञ्च ॥ (परिचर्य्या । यथा, ऋग्वेदे । ५ ।
७ । ५ ।
“अवस्मयस्य वेषणे स्वेदं पथिषु जुह्वति ॥”
“यस्याग्नेर्वेषणे परिचर्य्यायाम् ।” इति तद्वाष्ये
सायणः ॥)

वेषणा, स्त्री, (वेवेष्टि व्याप्नोतीति । विष + ल्युः ।

टाप् ।) वितुन्नकवृक्षः । इति रत्नमाला ॥
धन्या इति भाषा ॥

वेषवारः, पुं, वेसवारः । इत्यमरटीकायां राय-

मुकुटः ॥

वेष्ट, ङ वेष्टे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-

सक०-सेट् ।) ङ, वेष्टते । इति दुर्गादासः ॥

वेष्टः, पुं, (वेष्ट + घञ् ।) वेष्टनम् । इति शब्द-

माला ॥ (यथा, महाभारते । ७ । २५ । २७ ।
“ग्रीवायां वेष्टयित्वैनं स गजो हन्तुमैहत ।
करवेष्टं भीमसेनो भ्रमं दत्वा व्यमोचयत् ॥”)
श्रीवेष्टः । इति राजनिर्घण्टः ॥ निर्यासः ।
आटा इति भाषा ॥ इति वैद्यकम् ॥ (मुख-
रोगविशेषः । यथा, सुश्रुते । २ । १६ ।
“दन्ताश्चलन्ति वेष्टेभ्यस्तालु चाप्यवदीर्य्यते ॥”)

वेष्टकं, क्ली, (वेष्टते इति । वेष्ट + ण्वुल् ।) उष्णीषः ।

इति शब्दरत्नावली ॥ निर्यासः । इति शब्द-
माला ॥ श्रीवेष्टः । इति राजनिर्घण्टः ॥

वेष्टकः, पुं, (वेष्टते इति । वेष्ट + ण्वुल् ।) प्राचीरः ।

यथा प्राचीनावेष्टकौ वृतिः । इति हेमचन्द्रः ॥
कुष्माण्डः । यथा, --
“कुष्माण्डकः पुष्पफलो घनवासश्च वेष्टकः ॥”
इति हारावली ॥
श्रीवेष्टः । इति राजनिर्घण्टः ॥ वेष्टनकारके,
त्रि ॥ (यथा, महाभारते । ७ । १३६ । २१ ।
“बलयैरपरिद्धैश्च तथैवाङ्गुलिवेष्टकैः ॥”)

वेष्टनं, क्ली, (वेष्टते इति । वेष्ट + ल्युः ।) कर्ण-

शस्कुली । उष्णीषः । (यथा, रघुः । ८ । १२ ।
“तमरण्यसमाश्रयोन्मुखं
शिरसा वष्टनशोभिना सुतः ॥”)
मुकुटः । वृतिः । इति मेदिनी ॥ गुग्गुलुः ।
इति शब्दचन्द्रिका ॥ (वेष्ट + ल्युट् । वलयनम् ।
यथा, रघुः । ४ । ४८ ।
“भोगिवेष्टनमार्गेषु चन्दनानां समर्पितम् ॥”)

वेष्टनकः, पुं, (वेष्टनेन कायतीति । कै + कः ।)

रतिबन्धविशेषः । यथा, --
“ऊर्द्धगं पादमेकञ्च भुजान्तैर्वेष्टयेद्यदि ।
कान्तकक्षाश्रितां नारीं बन्धो वेष्टनकः स्मृतः ॥”
इति रतिमञ्जरी ॥

वेष्टनवेष्टकः, पुं, (वेष्टनेन वेष्टते इति । वेष्ट +

ण्वुल् ।) रतिबन्धविशेषः । यथा, --
“ऊर्द्ध्वं पादद्बयं नार्य्या भुजाभ्यां वेष्टयेद्यदि ।
कराभ्यां कण्ठमालिङ्ग्य बन्धो वेष्टनवेष्टकः ॥”
इति रतिमञ्जरी ॥

वेष्टवंशः, पुं, (वेष्टः वेष्टनकारी वंशः ।) कण्ट-

किनः । इति शब्दचन्द्रिका ॥ वेडुवाँश इति
भाषा ॥

वेष्टसारः, पुं, (वेष्टानां सारो यत्र ।) श्रीवेष्टः ।

इति राजनिर्घण्टः ॥

वेष्टितं, क्ली, (वेष्ट + क्तः ।) रुद्धम् । लासकः ।

करणान्तरम् । इति मेदिनी ॥

वेष्टितः, त्रि, (वेष्ट + क्तः ।) नदीप्राचीरादिना

कृतवेष्टनः । वेडा इति भाषा । तत्पर्य्यायः ।
वलयितम् २ संवीतम् ३ रुद्धम् ४ आवृतम् ५ ।
इत्यमरः ॥

वेष्पः, पुं, (वेवेष्टीति । विष व्याप्तौ + “पानी-

विषिभ्यः पः ।” उणा० ३ । २३ । इति पः ।)
पानीयम् । इत्युणादिकोषः ॥

वेस, ऋ इतौ । इति कविकस्त्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) ऋ, अविवेसत् । विवेसतुः ।
इतौ गत्याम् । इति दुर्गादासः ॥
पृष्ठ ४/५०७

वेसनं, क्ली, (वेस + ल्युट् ।) द्बिदलचूर्णम् । यथा, --

“दालयश्चणकानान्तु निस्तुषा यन्त्रपेषिताः ।
तच्चूर्णं वेसनं प्रोक्तं पाकशास्त्रविशारदैः ॥”
तद्वटिकागुणाः ।
“वटिका वेसनस्यापि क्वथितायां निमज्जति ।
रुव्या विष्टम्भजननी बल्या पुष्टिकरी स्मृता ॥”
इति भावप्रकाशः ॥

वेसरः, पुं, अश्वतरः । इति हेमचन्द्रः ॥ (यथा,

माघे । १२ । १९ ।
“तूर्णं प्रणेत्रा कृतनादमुच्चकैः
प्रणोदितं वेसरयुग्यमध्वनि ॥”)

वेसवारः, पुं, धन्याकसर्षपादिपिष्टः । वेसार इति

वाटना इति च ख्यातः । तत्पर्य्यायः । उप-
स्करः २ । इत्यमरः । वेषवारः ३ । इति
भरतः ॥ वेशवारः ४ । इति मुकुटः ॥ (यथा,
सुश्रुते । १ । ४६ ।
“मुद्गादिवेसवाराणां पूर्णा विष्टम्भिनो मताः ।
वेसवारैः सपिशितैः सम्पूर्णा गुरुवृंहणाः ॥”)
व्यञ्जनविशेषः । यथा, --
“निरस्थि पिशितं पिष्टं सिद्धं गुडघृतान्वितम् ।
कृष्णामरिचसंयुक्तं वेसवार इति स्मृतम् ॥”
अस्य गुणाः ।
“वेसवारो गुरुः स्निग्धो बलोपचयवर्द्धनः ॥”
इति राजवल्लभः ॥
हिङ्ग्वार्द्रकमरीचजीरकहरिद्राधन्याकाः क्रमेण
द्बिगुणपरिमाणेनैकत्रीकृताः । इति पाकराजे-
श्वरे पाकपरिभाषा ॥

वेह, ऋ ङ यत्ने । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-सेट् ।) ऋ, अविवेहत् । ङ,
वेहते । विवेहे । इति दुर्गादासः ॥

वेहत्, स्त्री, (विशेषेण हन्ति गर्भमिति । वि + हन +

“संश्चत्तृपद्वेहत् ।” उणा० २ । ८५ । इति अतिप्रत्य-
येन निपातनात् साधुः ।) गर्भोपघातिनी गौः ।
इत्यमरः ॥ अनृतौ वृषोपगमनादिवशात् यस्या
गर्भपातो भवति सा । विहन्ति गर्भं शश्वत्
वेहत् । हन लौ गतौ वधे क्विप् निपातः । इति
भरतः ॥ (यथा, वाजसनेयसंहितायाम् । १८ । २७ ।
“वशा च मे ऋषभश्च मे वेहच्चमेऽनड्वांश्च मे ॥”)

वेहारः, पुं, स्वनामख्यातदेशः । यथा, --

“वेहारे चैव श्रीहट्टे कोशले शवकर्णिके ।
अष्टादशभुजा कार्य्या माहेन्द्रे च हिमालये ॥”
इति मत्स्यसूक्ते ५० पटलः ॥

वेह्ल, ऋ चाले । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) ऋ, अविवेह्वत् । ऋदनु-
बन्धः वेदेषूच्चारणभेदार्थः । चालः सञ्चलनं
गतावित्येके । इति दुर्गादासः ॥

वै, ओ शोषे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-अनिट् ।) वकारादिः । वायति ।
ओ, वानः । इति दुर्गादासः ॥

वै, व्य, पादपूरणम् । यथा । तु हि च स्म ह वै

पादपूरणे । इत्यमरः ॥ (यथा, भागवते । ४ ।
१ । २८ ।
“सत्सङ्कल्पस्य ते ब्रह्मन् ! यद्वै ध्यायति ते
वयम् ॥”)
सम्बोधनम् । अनुनयः । इति मेदिनी ॥
(निश्चयः । यथा, मनुः । १ । १०० ।
“सर्व्वं स्वं ब्राह्मणस्येदं यत्किञ्चित् जगतीगतम् ।
श्रैष्ठ्येनाभिजनेनेदं सर्व्वं वै ब्राह्मणो-
ऽर्हति ॥”)

वैंशतिकः, त्रि, विंशत्या क्रीतः । विंशतिक-

शब्दादण्प्रत्ययेन निष्पन्नमिदम् । इति सिद्धान्त-
कौमुदी ॥ (पां ५ । २ । २७ ॥)

वैकक्षं, क्ली, (विशिष्टः कक्षः विकक्ष उरस्तत्र

भवम् । विकक्ष + अण् ।) तिर्य्यग्वक्षोलम्बि-
माल्यम् । इति हेमचन्द्रः ॥

वैकक्षकं, क्ली, (वैकक्षमेव । स्वार्थे कन् ।) उरसि

तिर्य्यक् उपवीतवत् कण्ठात् क्षिप्तमाल्यम् । इत्य-
मरः ॥

वैकङ्कतः, पुं, (विकङ्कत एव । स्वार्थे अण् ।)

वृक्षविशेषः । वैँच् इति भाषा । तत्पर्य्यायः ।
वृतिङ्करः २ श्रुवावृक्षः ३ ग्रन्थिलः ४ स्वादु-
कण्टकः ५ व्याघ्रपात् ६ कण्टिकारी ७ विक-
ङ्कतः ८ । इति शब्दरत्नावली ॥ (विकङ्क-
तस्यावयवो विकारो वा । “पलाशादिभ्यो
वा ।” ४ । ३ । १४१ । इत्यञ् । विकङ्कत-
निर्म्मितस्रुवादौ, त्रि । यथा, शतपथब्राह्मणे ।
५ । २ । ३ । १५ ।
“स पालाशे वा स्रुवे वैकङ्कते वा ॥”)

वैकतिकः, पुं, मणिकारः । इति हेमचन्द्रः ॥

वैकर्णः, पुं, (विकर्णस्यापत्यमिति । विकर्ण +

“विकर्णशुङ्गच्छगलात् वत्सभरद्वाजात्रिषु ।” ४ ।
१ । ११७ । इत्यण् ।) वात्स्यमुनिः । इति
सिद्धान्तकौमुदी ॥ (जनपदविशेषः । यथा,
ऋग्वेदे । ७ । १८ । ११ ।
“वैकर्णयोर्जनान्राजा न्यस्तः ।”
“वैकर्णयोर्जनपदयोर्विद्यमानान् ।” इति तद्भाष्ये
सायणः ॥)

वैकल्पिकः, त्रि, विकल्पेन भवः । विकल्पशब्दात्

ष्णिकप्रत्ययेन निष्पन्नमिदम् ॥

वैकल्यं, क्ली, विकलत्वम् । विकलस्य भाव इत्यर्थे

ष्ण्यप्रत्ययेन निष्पन्नमिदम् ॥ (यथा, कथा-
सरित्सागरे । ७४ । ३१० ।
“मृगाङ्कदत्तसचिवं चक्षुर्वैकल्यमागतम् ॥”)

वैकुण्ठः, पुं, कृष्णः । (यथा, भागवते । १ ।

१५ । ४६ ।
“ते साधुकृतसर्व्वार्था ज्ञात्वात्यन्तिकमात्मनः ।
मनसा धारयमासुर्वैकुण्ठचरणाम्बुजम् ॥”)
इन्द्रः । इति मेदिनी ॥ सितार्जकः । इति राज-
निर्घण्टः । अस्य व्युत्पत्तिर्यथा । “विकुण्ठाया
अपत्यं वैकुण्ठः बाह्वाद्यत इति शिवादित्वात्
ष्णः ।
‘चाक्षुषस्यान्तरे देवो वैकुण्ठः पुरुषोत्तमः ।
विकुण्ठायामसौ जज्ञे वैकुण्ठे दैवतैः सह ॥’
इति विष्णुपुराणम् ॥
किंवा कुण्ठत्यनया कुण्ठा माया । कुठि खोटन-
वैकल्यालस्ये सेमक्तात् सरोरिति अः । विविधा
कुण्ठा माया विद्यतेऽस्य वैकुण्ठः विकारसंघेति
अस्त्यर्थे ष्णः । विष्णुसहस्रनामटीकायां शङ्करा-
चार्य्यस्त्वाह विविधा कुण्ठा गतेः प्रतिहति-
स्तस्याः कर्त्ता इति वैकुण्ठः । जगदारम्भे विशि-
ष्टानि भूतानि परस्परं संश्लेषयन् तेषां गतिं
प्रत्यबध्नादिति वा वैकुण्ठः ।
‘मायासंश्लेषिता भूमिरद्भिर्व्योम्ना च वायुना ।
वायुश्च तेजसा सार्द्धं वैकुण्ठत्वं ततो मम ॥’
इति शान्तिपर्व्वणीति ।”
इत्यमरटीकायां भरतः ॥ * ॥ अपि च ।
“कुण्ठं जडञ्च विश्वौघं विशिष्टञ्च करोति या ।
विकुण्ठां प्रकृतिं वेदाश्चत्वारश्च वदन्ति ताम् ॥
गुणाश्रयेण भगवान् तस्यां जातः स्वसृष्टये ।
परिपूर्णतमं तेन वैकुण्ठञ्च विदुर्ब्बुधाः ॥” * ॥
अस्य नाम्नो माहात्म्यम् । यथा, --
“राम नारायणानन्त मुकुन्द मधुसूदन ।
कृष्ण केशव कंसारे हरे वैकुण्ठ वामन ॥
इत्येकादश नामानि पठेद्वा पाठयेद्यदि ।
जन्मकोटिसहस्राणां पातकादवमुच्यते ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ११० अध्यायः ॥
“साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा ।
वैकुण्ठनामग्रहणमशेषाघहरं विदुः ॥”
इति श्रीभागवते अजामिलोपाख्यानाध्यायः ॥ *
विष्णुधामविशेषः । तद्वर्णनं यथा, --
“उपरिष्टात्क्षितेरष्टौ कोटयः सत्यमीरितम् ।
सत्यादुपरि वैकुण्ठो योजनानां प्रमाणतः ॥
भूर्लोकात् परिसंख्यातः कोटिरष्टादश प्रभो ।
यत्रास्ते श्रीपतिः साक्षात् सर्व्वेषामभयप्रदः ॥
वैकुण्ठादुत्तरे शैवो लोकः षोडशकोटयः ।
तिर्य्यगेव महाराज कैलासाख्यस्तु पर्व्वतः ।
पार्व्वत्या सहितः शम्भुर्यत्रास्ते स्वगणैर्व्वृतः ॥”
इति पाद्मे स्वर्गखण्डे ६ अध्यायः ॥ * ॥
अपि च ।
“अमृतं शाश्वतं नित्यमनन्तं परमं पदम् ।
हिरण्मयं मोक्षप्रदं ब्रह्मानन्दसुखाह्वयम् ॥
एवमादिगुणोपेतं तद्विष्णोः परमं पदम् ।
यद्गत्वा न निवर्त्तन्ते तद्धाम परमं हरेः ॥
नहि वर्णयितुं शक्यं कल्पकोटिशतैरपि ।
अपि द्रष्टुमशक्यं तद्ब्रह्मरुद्रादिदैवतैः ॥
ज्ञानेन शास्त्रमार्गेण द्रक्ष्यते योगिपुङ्गवैः ।
तत् स्थानमुपभोक्तव्यमव्यक्तब्रह्मसेविनाम् ॥
श्रीशाङ्घ्रिभक्तिसेवैकरसाभोगविवर्ज्जिताः ।
महात्मानो महाभागा भगवत्पदसेवकाः ॥
तद्विष्णोः परमं धाम यान्ति ब्रह्मसुखप्रदम् ।
नानाजनपदाकीर्णं वैकुण्ठं तद्धरेः पदम् ॥
प्राकारैश्च विमानैश्च सौधै रत्नमयैर्युतम् ।
तन्मध्ये नगरी दिव्या सायोध्येति प्रकीर्त्तिता ॥
चतुर्द्वारसमायुक्ता हेमगोपुरसंयुता ।
चण्डादिद्वारपालैस्तु कुमुदाद्यैः सुरक्षिता ॥
चण्डप्रचण्डौ प्राग्द्वारे याम्ये भद्रमुभद्रकौ ।
पृष्ठ ४/५०८
वारुण्यां जयविजयौ सौम्ये धातृविधातरौ ॥
कुमुदः कुमुदाक्षश्च पुण्डरीकोऽथ वामनः ।
शङ्कुकर्णः सर्व्वनिद्रः सुमुखः सुप्रतिष्ठितः ॥
तस्मिन् बन्धविनिर्मुक्ताः प्राप्यन्ते सुसुखं पदम् ।
यं प्राप्य न निवर्त्तन्ते तस्मान्मोक्ष उदाहृतः ॥
मोक्षं परं पदं लिङ्गममृतं विष्णुमन्दिरम् ।
अक्षरं परमं धाम वैकुण्ठं शाश्वतं परम् ॥
नित्यञ्च परमव्योम सर्व्वोत्कृष्टं सनातनम् ।
पर्य्यायवाचकान्यस्य परं धाम्नोऽच्युतस्य हि ॥”
इति पाद्मे उत्तरखण्डे २९ अध्यायः ॥ * ॥
अन्यच्च ।
“अन्तःपुरनिवासिन्यः सर्व्वलक्षणभूषिताः ।
ताभिः परिवृतो देवः शुशुमे परमः पुमान् ॥
एवं वैकुण्ठनाथोऽसौ नाथते परमे पदे ।
तद्व्यूहभेदाल्लोकांश्च वक्ष्यामि गिरिजे शुभे ॥
प्राच्यां वैकुण्ठलोकस्य वासुदेवस्य मन्दिरम् ।
आग्नेय्यां लक्ष्मीलोकस्तु याम्यां सङ्कर्षणालयः ॥
सारस्वतन्तु नैरृत्यां प्राद्युम्नः पश्चिमे तथा ।
रतिलोकस्तु वायव्यामुदीच्यामनिरुद्धभूः ॥
ऐशान्यां शान्तिलोकः स्यात् प्रथमावरणं
स्मृतम् । १ ।
केशवकीर्त्त्यादिलोका द्बितीयावरणं तथा ॥ २ ॥
मत्स्यकूर्म्मादिलोकस्तु तृतीयावरणं परम् । ३ ।
सत्ययुतानन्ददुर्गाविष्वक्सेनगजाननाः ॥
शङ्खपद्मनिधीलोकाश्चतुर्थावरणं स्मृतम् । ४ ।
ऋग्यजुः सामाथर्व्वाणो लोकादिषु महत्सु च ॥
सावित्र्या विहगेशस्य धर्म्मस्य च सुखस्य च ।
पञ्चमावरणं प्रोक्तमक्षयं सर्व्ववाङ्मयम् ॥ ५ ॥
शङ्खचक्रगदापद्मखड्गशार्ङ्गहलं तथा ।
मौषलञ्च तथा लोकाः सर्व्वशस्त्रास्त्रसंयुताः ॥
षष्ठमावरणं प्रोक्तं शस्त्रास्त्रमयमक्षयम् । ६ ।
ऐन्द्रपावकयाम्यञ्च नैरृतं वरुणं तथा ॥
वायव्यं सौम्यमैशानं तप्तमं मुनिभिः स्मृतम् ।
साध्या मरुद्गणाश्चैव ये चान्ये च दिवौकसः ॥
नित्याः सर्व्वे परे धाम्नि विश्वेदेवास्तथैव च ।
ते वै प्राकृतनाकेऽस्मिन्न नित्यास्त्रिदिवेश्वराः ॥
तेनाहं वच्मि माये न सञ्चिन्त्य इति वै
स्मृतिः ।
एवं परं पदैर्नित्यैर्युक्तैर्भोगपरायणैः ॥
दिव्याभिर्महिषीभिश्च राजते विष्णुरीश्वरि ।
न तद्भासयते सूर्य्यो न शशाङ्को न पावकः ॥
यद्गत्वा न निवर्त्तन्ते योगिनः शंसितव्रताः ।
द्वयैकमन्त्रनिष्ठा ये ते वै यान्ति तदव्ययम् ॥
न वेदयज्ञाध्ययनैर्न वेदैर्न व्रतैः शुभैः ।
न तपोभिर्निराहारैर्न च साधनकर्म्मभिः ॥
एकेन द्बयमन्त्रेण तथा भक्त्या त्वनन्यया ।
तद्गम्यं शाश्वतं दिव्यं प्रपद्ये वै सनातनम् ॥”
इति पाद्मोत्तरखण्डे ३० अध्यायः ॥
(तत्रस्थदेवगणे, पुं भूम्नि । यथा, भागवते ।
८ । ५ । ४ ।
“पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठैः सुरसत्तमैः ।
तयोः स्वकलया जज्ञेवैकुण्ठो भगवान् स्वयम् ॥”)

वैकृतं, क्ली, (विकृतमेव । “सान्नायानुजेति ।”

५ । ४ । ३६ । इत्यस्य वार्त्तिकोक्त्या अण् । विकारः ।
यथा, रामायणे । ६ । ४८ । ३२ ।
“प्रायेण गतसत्त्वानां पुरुषाणां गतायुषाम् ।
दृश्यमानेषु वक्त्रेषु परं भवति वैकृतम् ॥”
दुर्निमित्तम् । यथा, रघुः । ११ । ६२ ।
“तत्प्रतीपपवनादिवैकृतं
प्रेक्ष्य शान्तिमधिकृत्य कृत्यवित् ॥”
तथाच महाभारते । ३ । १३७ । ३ ।
“वैकृतं त्वग्निहोत्रे स लक्षयित्वा महातपाः ।
तमन्धं शूद्रमासीनं गृहपालमथाब्रवीत् ॥”)
वीभत्सरसः । तदालम्बने मांसशोणितादौ, त्रि ।
इत्यमरटीकायां भरतः ॥ तथाच ।
“विकृतं वैकृतञ्च स्यात्तच्च वैकृत्यमुच्यते ॥”
इति भरतद्बिरूपकोषः ॥
(विकारजाते । यथा, भागवते । २ । १० । ४५ ।
“अयन्तु ब्रह्मणः कल्पः सविकल्प उदाहृतः ।
विधिः साधारणो यत्र सर्गाः प्राकृतवैकृताः ॥”)

वैकृत्यं, क्ली, (विकृतमेव । स्वार्थे ष्यञ् ।) वीभत्स-

रसः । तदालम्बने, त्रि । यथा, --
“त्रिषु वीभत्सविकृतं वैकृत्यं विततन्तथा ॥”
इति शब्दरत्नावली ॥

वैक्रान्तं, क्ली, (विक्रान्त्या दीव्यति । विक्रान्ति +

अण् ।) मणिविशेषः । तत्पर्य्यायगुणौ ।
“वैक्रान्तञ्चैव विक्रान्तं नीचवज्रं कुवज्रकम् ।
गोनासः क्षुद्रकुलिशं जीर्णवज्रञ्च गोनसः ॥
वज्राभावे च वैक्रान्तं रसवीर्य्यादिके समम् ।
क्षयकुष्ठविषघ्नञ्च पुष्टिदं सुरसायनम् ॥
वैक्रान्तं वज्रसादृश्यं वज्रवद्रसवीर्य्यकम् ।
तथाप्यभावे वज्रस्य ग्राह्यं वैक्रान्तमुत्तमम् ॥
वज्राकारतयैव प्रसह्य हरणाय सर्व्वरोगाणाम् ।
यद्विक्रान्तिं धत्ते तद्वैक्रान्तं बुधैरिदं कथितम् ॥”
इति राजनिर्घण्टः ॥

वैखरी, स्त्री, बुद्ध्युत्थितकण्ठगतनादरूपवर्णः ।

यथा, --
“मूलाधारात् प्रथममुदितो यस्तु तारः पराख्यः ।
पश्चात् पश्यन्त्यथ हृदयगो बुद्धियुङ्मध्यमाख्यः ।
वक्त्रे वैखर्य्यथ रुरुदिषोरस्य जन्तोः सुषुम्ना-
बद्धस्तस्माद्भवति पवनप्रेरितो वर्णसंवः ॥”
इत्यलङ्कारकौस्तुभः ॥
अस्यार्थः । यस्तु तारो नादः वर्णरूपः स
नाभिरूपमूलाधारात् प्रथममुदयप्राप्तश्चेत् पर
इति आस्या संज्ञा यस्य तथाभूतो भवति ।
अथानन्तरं स एव हृदयं चित्तं गतश्चेत् रोदन-
समये नासिकाद्बारा यथाकथञ्चित् भवति ।
रुरुदिषोर्जन्तोर्नासामध्यस्थितसुषुम्नानाड्या बद्धः ।
तथा च नासाद्वारैव यथाकथञ्चित् नादस्वरूपः
प्रत्यक्षम्भवतीत्यर्थः । तस्मात् वैखरीदशापन्नात्
नादात् पवनप्रेरितो वर्णसमूहो बहिः सर्व्वेषां
प्रत्यक्षविषयो भवतीत्यर्थः । परा पश्यन्ती
दशापन्नस्य तु योगिनामेव प्रत्यक्षे न तु सर्व्वेषा-
मित्यपि बोध्यम् । इति तट्टीका ॥

वैखानसः, पुं, (विखनसं ब्रह्माणं वेत्ति तपसा ।

विखनस् + अण् ।) वानप्रस्थः । यथा । वानप्रस्थो
वैखानसोऽग्रहः । इति त्रिकाण्डशेषः ॥ (यथा,
देवीभागवते । १ । १९ । १७ ।
“वैखानसा ये मुनयो मिताहारा जितव्रताः ।
तेऽपि मुह्यन्ति संसारे जानन्तोऽपि ह्यसत्य-
ताम् ॥”
वैखानसस्येदमित्यर्थेऽणि वैखानससम्बन्धिनि,
त्रि । यथा, शाकुन्तले । १ ।
“वैखानसं किमनया व्रतमाप्रदानात्
व्यापाररोधि मदनस्य निषेवितव्यम् ॥”)

वैगुण्यं, क्ली, (विगुणस्य भावः । विगुण + ष्यञ् ।)

विगुणत्वम् । विगुणस्य भावः । यथा, --
“यात्रापवर्त्तते युग्यं वैगुण्यात् प्राजकस्य च ।
तत्र स्वामी भवेद्दण्ड्यो हिंसायां द्बिशतं दमः ॥”
मनुः ।

वैचक्षण्यं, क्ली, विचक्षणत्वम् । विचक्षणस्य भाव

इत्यर्थे ष्ण्यप्रत्ययेन निष्पन्नमिदम् ॥ (यथा,
साहित्यदर्पणे । १ ।
“धर्म्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च ॥”)

वैचित्र्यं क्ली, विचित्रता । विचित्रस्य भाव इत्यर्थे

ष्ण्यप्रत्ययेन निष्पन्नमिदम् ॥ (यथा, राजेन्द्र-
कर्णपूरे । २८ ।
“वैचित्र्यं वितनोति वाचकविधौ वाचस्पते-
रन्तिके
देव त्वद्गुणवर्णनाय कुरुते किं किं न वाग्-
देवता ॥”)

वैजननः, पुं, (विजायतेऽस्मिन्निति । जन् +

आधारे ल्युट् । ततः स्वार्थे अण् ।) प्रसव-
मासः । तत्पर्य्यायः । सूतिमासः २ । इत्यमरः ॥
(यथा, राजतरङ्गिण्याम् । १ । ७४ ।
“अथ वैजनने मासि सा देवी दिव्यलक्षणम् ।
निर्दग्धस्यान्वयतरोरङ्कुरं सुषुवे सुतम् ॥”)

वैजयन्तः, पुं, (वैजयन्ती अस्त्यत्रेति । अर्शआद्यच् ।)

इन्द्रप्रासादः । इत्यमरः ॥ इन्द्रध्वजः । इति
मेदिनी ॥ (यथा, महाभारते । २ । २२ । १९ ।
“एष ह्यैन्द्रो वैजयन्तो गुणैर्नित्यं समाहितः ।
येनासुरान् पराजित्य जगत्पतिशतक्रतुः ॥”)
गुहः । इति हेमचन्द्रः ।

वैजयन्तिकः, त्रि, (वैजयन्त्यस्त्यस्येति । व्रीह्यादि-

भ्यश्चेति ठन् । यद्वा, वैजयन्त्या चरतीति । चर-
तीति ठक् ।) पताकाधारी । इत्यमरः ॥

वैजयन्तिका, स्त्री, (वैजयन्ती + स्वार्थे कन् ।)

जयन्तीवृक्षः । पताका । इत्यमरः ॥ (यथा,
“निर्धनं निधनमेतयोर्द्वयो-
स्तारतम्यविधिमुग्धचेतसा ।
बोधनाय विधिना विनिर्म्मिता
रेफ एव जयवैजयन्तिका ॥”
इत्युद्भटः ॥)
अग्निमन्थः । इति राजनिर्घण्टः ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/वृहती&oldid=44072" इत्यस्माद् प्रतिप्राप्तम्