शब्दकल्पद्रुमः/विषायुधः

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ४/४५०

विषायुधः, पुं, (विषमेवायुधं यस्य ।) सर्पः । इति

शब्दरत्नावली ॥ विषयुक्तास्त्रे, क्ली ॥

विषारः, पुं, (विशेण अलतीति । अल + अच् ।

लस्य रत्वम् ।) सर्पः । इति शब्दचन्द्रिका ॥

विषारातिः, पुं, (विषस्यारातिः नाशकः ।) कृष्ण-

धत्तूरकः । इति राजनिर्घण्टः ॥

विषारिः, पुं, (विषस्यारिः ।) महाचञ्चुशाकः ।

घृतकरञ्जः । इति राजनिर्घण्टः ॥ (विषनाशक-
मात्रे, त्रि ॥)

विषास्यः, पुं, (विषमास्ये यस्य ।) सर्पः । इति

शब्दरत्नावली ॥ विषयुक्तमुखे, त्रि ॥

विषास्या, स्त्री, भल्लातकः । इति शब्दचन्द्रिका ॥

(भल्लातकशब्देऽस्या विषयो विज्ञेयः ॥)

विषु, व्य, साम्यम् । इति विषुवच्छब्दटीकायां

भरतः ॥ नानारूपम् । इति रामाश्रमः ॥

विषुणः, पुं, (विषु साम्यमस्मिन्नस्तीति । “लोमा-

दीति ।” ५ । २ । १०० । इति नः । पश्चात्
णत्वम् ।) विषुवम् । यथा । “विषु नानारूपं
गमनं विष्वक् तदस्यास्तीति विग्रहे अगित्यु-
त्तरपदलोपश्चाकृतसन्धेरिति पामादि सूत्रेण
नः णत्वम् ।” इत्यमरटीकायां रामाश्रमः ॥
(नानारूपम् । यथा, ऋग्वेदे । ३ । ५४ । ८ ।
“चरत्पतत्त्रि विषुणं विजातम् ॥”
“विषुणं विश्वक् नानारूपम् ।” इति तद्भाष्ये
सायणः ॥ सर्व्वगः । यथा, ऋग्वेदे । ८ । २९ । १ ।
“बभ्रुरेको विषुणः ।”
“विषुणः विश्वगञ्चनः ।” इति तद्भाष्ये सायणः ॥
विप्रकीर्णः । यथा, ऋग्वेदे । ५ । १२ । ५ ।
“सखायस्ते विषुणा अग्न एते ।”
“विषुणाः विप्रकीर्णाः सर्व्वव्याप्ताः ।” इति तद्-
भाष्ये सायणः ॥ पराङ्मुखः । यथा, ऋग्वेदे ।
५ । ३४ । ६ ।
“वित्वक्षणः समृतौ चक्रमासजो-
ऽसुन्वतो विषुणः सुन्वतो वृधः ।”
“विषुणः पराङ्मुखः ।” इति तद्भाष्ये सायणः ॥)

विषुपं, क्ली, विषुवम् । इत्यमरटीकायां भरतः ॥

विषुवं, क्ली, समरात्रिन्दिवकालः । तत्पर्य्यायः ।

विषुवत् २ । इत्यमरः ॥ विषुपम् ३ विष्वक् ४
विश्वक् ५ । इति शब्दरत्नावली ॥ विषुणः ६ ।
इति रामाश्रमः ॥ विषुवः ७ । इति मुकुटः ॥
तत्तु मेषतुलयोः संक्रान्ती । यथा, --
“मृगकर्कटसंक्रान्ती द्वे तूदग्दक्षिणायने ।
विषुवती तुलामेषे गोलमध्ये तथापराः ॥”
इति तिथ्यादितत्त्वम् ॥ * ॥
ते तु महाविषुवजलविषुवनामभ्यां क्रमेण ख्याते ।
यथा, --
“विषुवाभ्यां वत्सरः स्यादिति शब्दविदां मतम् ।
महाविषुवमाख्यातं कृतिभिश्चैत्रचिह्नितम् ।
तथा स्याज्जलविषुवं क्रमादाश्विनचिह्नितम् ॥”
इति शब्दरत्नावली ॥ * ॥
विषुवारम्भकालो यथा, --
“मृगसंक्रान्तितः पूर्व्वं पश्चात् तारा दिनान्तरे ।
एकवर्षे चतुःपञ्चपलमानक्रमेण तु ।
षट्षष्टिवत्सरानेकदिनं स्यादयनं रवेः ।
एवं चतुःपञ्चदिनमयनारम्भणं क्रमात् ॥
व्युत्क्रमेण च तद्वत् स्यादुदग्यानं रवेर्ध्रुवम् ।
कर्किसंक्रमणे तद्वदभितो दक्षिणायनम् ॥
अयनांशक्रमेणैव विषुवारम्भणं तथा ।
रविसंक्रान्तितो मेषतुलयोरभितः पुनः ॥
विषुवं मीनकन्यार्द्धे त्वेकाक्षीन्द्रशकाब्दके ।
दिनमानाय मीनार्द्धान्मेषार्द्धं पालिकं शतम् ॥
ततो वृषार्द्धपर्य्यन्तमशीतिः पलभाजिनी ।
मिथुनार्द्धं चतुस्त्रिंशत्पलानां वर्द्धते क्रमात् ॥
कर्कटार्द्धन्तु षट्त्रिंशत् सिंहार्द्धन्तु द्व्यशीतकम् ।
कन्यार्द्धन्तु द्विनवतिः क्रमात् त्रुट्यति वासरे ॥
कन्यार्द्धाद्रजनीमानं बोध्यं पूर्ब्बक्रमेण हि ।
दिने दिने भागहारान्मानं बोध्यं दिवानिशोः ॥
एकमानं दण्डषष्ट्या त्यक्त्रान्यमाननिर्णयः ।
षट्षष्टिवत्सरानेवं ततः स्यात् षोडशांशके ।
पुनस्तद्वत्सरांस्तद्वत् एवं सप्तदशादिके ॥”
इति ज्योतिस्तत्त्वम् ॥ * ॥
अन्यच्च
“मेषसंक्रमतः पूर्व्वं पश्चात्तारा दिनान्तरे ।
प्रातिलोम्यानुलोम्येन विषुवारम्भणं भवेत् ॥
त्रयोदशदिने सौरे चैत्रे नखतिथौ शके ।
विषुवारम्भणं तत्र समं मानं दिवानिशोः ॥
ततः प्रतिदिनं वेला सपादत्रिपलात्मिका ।
वर्द्धते मेषविश्वांशपर्य्यन्तं स्थूलमार्गतः ॥
तथा ज्येष्ठान्तपर्य्यन्तं पादोनत्रिपलात्मिका ।
तादृगाषाढपर्य्यन्तं पलैकप्रमिता मता ॥
ततः कर्क्कटविश्वांशपर्य्यन्तं प्रत्यहं क्रमात् ।
सपादपलमानेन वेला त्रुट्यति निश्चितम् ॥
तादृग्भाद्रान्तपर्य्यन्तं पादोनत्रिपलात्मिका ।
तादृगाश्विनशेषान्तं हरनेत्रपलात्मिका ॥
दिवामानं दण्डषष्टेस्त्यक्त्वा रात्रेः प्रमाणकम् ।
वैशाखादौ दिवामानं रात्रिमानं तुलादिषु ॥
षट्षष्टिवत्सरानेवं ततः स्यात् द्वादशांशके ।
पुनस्तद्वत्सरांस्तद्वत् तत एकादशादिके ॥”
इति सत्कृत्यमुक्तावली ॥

विषुवत्, क्ली, विषुवम् । इत्यमरः ॥ (यथा, महा-

भारते । ३ । १९९ । १२१ ।
“भवति सहस्रगुणं दिनस्य राहो-
र्व्विषुवति चाक्षयमश्नुते फलम् ॥”
व्यापकः । यथा, ऋग्वेदे । १ । ८४ । १० ।
“स्वादोरित्थाविषूवतो मध्वः पिबन्ति गौर्य्यः ॥”
“विषुवत इत्थमनेन प्रकारेण सर्व्वेषु यज्ञेषु
व्याप्तियुक्तस्य *** विषॢ व्याप्तौ अस्मा-
दौणादिकः कुप्रत्ययः । ततो मतुप् ह्रस्वनुड्-
भ्यांमतुबिति मतुप उदात्तत्वम् । अन्येषामपि
दृश्यत इति संहितायां दीर्घः व्यत्ययेन मतोर्व्व-
त्वम् ।” इति तद्भाष्ये सायणः ॥)

विषौषधी, स्त्री, (विषस्यौषधी ।) नागदन्ती ।

इति रत्नमाला ॥

विष्कम्भः, पुं, सप्तविंशतियोगान्तर्गतप्रथमयोगः ।

शुभकर्म्मणि तस्य पञ्च दण्डास्त्याज्याः । यथा, --
“त्यजादौ पञ्च विष्कम्भे सप्त शूले च नाडिकाः ।
गण्डव्याघातयोः षट् च नव हर्षणवज्रयोः ।
वैधृतिव्यतिपातौ च समस्तौ परिवर्ज्जयेत् ॥”
इति सत्कृत्यमुक्तावली ॥ * ॥
तत्र जातफलम् ।
“विष्कम्भयोगो यदि जन्मकाले
कार्य्ये स्वतन्त्रो मनुजस्तदानीम् ।
सुहृत्कलत्रात्मजसौख्यमुग्रं
गृहस्य निर्म्माणविधौ समर्थः ॥”
इति कोष्ठीप्रदीपः ॥ * ॥
विस्तारः । (यथा, बृहत्संहितायाम् । ५३ । २४ ।
“उच्छ्रायोऽङ्गुलतुल्यो द्वारस्यार्द्धेण विष्कम्भः ॥”)
प्रतिबन्धः । रूपकाङ्गप्रभेदः । योगिनां बन्ध-
भेदः । इति मेदिनी । भे, १९ ॥ वृक्षः । इत्य-
जयः ॥ अर्गला । इति भरतः ॥

विष्कम्भी, [न्] पुं, (विष्कभ्नाति रुणद्वीति । वि +

ष्कम्भ + णिनिः ।) अर्गला । यथा । “तद्विष्कम्भो-
ऽर्गलं न ना । इत्यमरोक्तौ कपाटधारणकाष्ठं
अर्गलं हुड्कादण्ड इति ख्यातम् । तत् कपाटं
विष्कभ्नाति रुणद्धि इति ग्रहादित्वाण्णिन् तद्वि-
ष्कम्भी मूर्द्धन्यवत् स्वार्थकथनमेतत् विष्कम्भीति
नाम च इत्येके । तद्विष्कम्भोऽर्गलमिति मूल-
पाठः । विष्कम्भो बन्धननिमित्तदण्डः । इति
भट्टः । इति मुकुटः ॥
‘विष्कम्भो योगभेदे स्यात् विस्तारप्रतिबन्धयोः ।
कपाटाङ्गप्रभेदे च ।’ इति मेदिनीदर्शनात्
विष्कम्भ इति पाठः ।” इति तट्टीकायां भरतः ॥

विष्कलः, पुं, (विषं विष्ठां कलयति भक्षयतीति ।

कल + अच् ।) ग्राम्यशूकरः । इति राज-
निर्घण्टः ॥

विष्किरः, पुं, (विकिरतीति । वि + कॄ श विक्षेपे +

इगुपधेति कः । “विष्किरः शकुनिर्विकिरो वा ।”
६ । १ । १५० । इति सुट् । परिनिविभ्य इति
षत्वम् ।) पक्षी । इत्यमरः ॥ विष्किरास्त्रित्तिरि-
मयूरकुक्कुटादयः ।
“लावाद्या वैष्किरो वर्गः प्रतुदा जाङ्गला मृगाः ।
लघवः शीतमधुराः सकषाया हिता नृणाम् ॥”
इति राजवल्लभः ॥ * ॥
अथ विष्किराणां गणना गुणाश्च ।
“वर्त्तकालावविकिरकपिञ्जलकतित्तिराः ।
कलिङ्गकुक्कुटाद्याश्च विष्किराः समुदाहृताः ॥
विकीर्य्य भक्षयन्त्येते यस्मात्तस्माद्धि विष्किराः ।
कपिञ्जल इति प्राज्ञैः कथितो गौरतित्तिराः ॥”
कुलिङ्ग गववैया इति लोके ।
पृष्ठ ४/४५१
“विष्किरा मधुराः शीताः कषायाः कटु-
पाकिनः ।
बल्या वृष्यास्त्रिदोषघ्नाः पथ्यास्ते लघवः स्मृताः ॥”
इति भावप्रकाशः ॥
(“लावतित्तिरिकपिञ्जलवर्त्तीरवर्त्तिकावर्त्तक-
नप्तृकावातीकचकोरकलविङ्कमयरक्रकरोपचक्र-
कुक्कुटसारङ्गशतपत्रककुतित्तिरिकुरबालुकयव-
लकप्रभृतयस्त्र्याहला विष्किरा लघवः शीत-
मधुराः कषाया दोषशमनाश्च ॥” इति सुश्रुते
सूत्रस्थाने ४६ अध्यायः ॥ * ॥ दर्व्वीकरान्तर्गत-
सर्पविशेषः । यथा, -- “पुण्डरीको भ्रुकुटी
मुखो विष्किरः पुष्पाभिकर्णो गिरिसर्प ऋजु-
सर्पः श्वेतोदरो महाशिरा अलगर्द्धो आशी-
विष इति ॥” इति च सुश्रुते कल्पस्थाने चतुर्थे-
ऽध्याये ॥)

विष्टः त्रि, प्रविष्टः । विशधातोः क्तप्रत्ययेन

निष्पन्नमिदम् ॥

विष्टपं, क्ली, (“विटपविष्टपविशिपोलपाः ।” इत्यु-

णादिसूत्रे पिष्टपस्थाने विष्टपपाठेन विशधातोः
कपन्प्रत्ययेन साधुः इति केचित् ।) भुवनम् ।
इत्यमरः ॥ पिष्टपं पिष्टपः । इति तट्टीकायां
रूपद्वयम् ॥ (यथा, रघुः । ११ । १९ ।
“बाणभिन्नहृदया निपेतुषी
सा स्वकाननभुवं न केवलाम् ।
विष्टपत्रयपराजयस्थिरां
रावणश्रियमपि व्यकम्पयत् ॥”)

विष्टम्भः, पुं, (वि + स्तन्भ + क्तः ।) प्रतिबन्धः ।

(यथा, भागवते । ५ । २२ । १२ ।
“स वृष्टिविष्टम्भग्रहोपशमनः ॥” * ॥
आक्रमणम् । यथा, भारविः । १३ । १६ ।
“प्रविकर्षनिनादभिन्नरन्ध्रः
पदविष्टम्भनिपीडितस्तदानीम् ॥”)
रोगविशेषः । इति मेदिनी । भे, २० ॥ स तु
आनाहरोगः । तस्य लक्षणमाह ।
“आमं सकृद्वा निचितं क्रमेण
भूयो विबद्धं विगुणानिलेन ।
प्रवर्त्तमानं नयथास्वमेनं
विकारमानाहमुदाहरन्ति ॥”
आमं अपक्वमाहारसारं शकृत् पुरीषं वा
क्रमेण निचितं सञ्चितम् । भूयो विगुणानिलेन
दुष्टवायुना विबद्धं व्यामशोषितं वा यथास्वं
पूर्ब्बवदप्रवर्त्तमानं एनं विकारं आनाह-
माहुः ॥ * ॥ तत्रामजमानाहमाह ।
“तस्मिन् भवत्यामसमुद्भवे तु
तृष्णा प्रतिश्यायशिरोविदाहाः ।
आमाशये शूलमथो गुरुत्वं
हृत्स्तम्भ उद्गारविघातनञ्च ॥”
विघातनं अप्रवृत्तिः ॥ * ॥ शकृत्सञ्चयजमाह ।
“स्तम्भः कटीपृष्ठपुरीषमूत्रे
शूलोऽथ मूर्च्छा शकृतो वमिश्च ।
श्वासश्च पक्वाशयजे भवन्ति
तथालसोक्तानि च लक्षणानि ॥”
पक्वाशयजे शकृत्सञ्चयजे । अलसोक्तानि
आध्मानवातनिरोधादीनि ॥ * ॥ आनाहोदा-
वर्त्तयोश्चिकित्सायास्तुल्यत्वादुभयचिकित्सा अत्र
लिख्यते । अथोदावर्त्तानां चिकित्सा ।
“अधोवातनिरोधोत्थे ह्युदावर्त्ते हितं मतम् ।
स्नेहपानं तथा स्वेदो वस्तिर्यच्चानुलोमनम् ॥
विड्विघातसमुत्थे तु विड्भेव्यन्नं तथौषधम् ।
वर्त्त्यभ्यङ्गावगाहश्च स्वेदो वस्तिर्हितो मतः ॥”
वर्त्तिः फलवर्त्तिः ।
“मूत्रावरोधजनिते क्षीरवारिवचां पिबेत् ।
दुष्पर्शास्वरसं चापि कषायं ककुभस्य च ॥
दुष्पर्शा कण्टकारी दुरालभा च तुल्यगुणत्वात् ।
एर्व्वारुबीजं तोयेन पिबेद् वा लवणीकृतम् ।
सितामिक्षुरसं क्षीरं द्राक्षारसमथापि वा ॥
सर्व्वथैव प्रकुर्व्वीत मूत्रकृच्छ्राश्मरीविधिम् ।
जृम्भाभिघातजे स्नेहं स्वेदं चापि प्रयोजयेत् ॥
अन्यानपि प्रयुञ्जीत समीरणहरान् विधीन् ।
नेत्रनीरावरोधोत्थे मुञ्चेदुच्चैर्दृ शोर्जलम् ॥
सुप्यात् सुखेन तस्याग्रे कथयेच्च कथाः प्रियाः ।
छिक्काभिघातजे तीक्ष्णाघ्राणनस्यार्कदर्शनैः ॥
प्रवर्त्तयेत् क्षुतं सक्तं स्नेहस्वेदौ प्रशीलयेत् ॥”
तीक्ष्णं मरीचराजिकादि ।
“उद्गारस्यावरोधे तु स्नैहिकं धूममाचरेत् ॥
छर्द्दिनिग्रहसंजाते वमनं लङ्घनं हितम् ।
विरेचनं चात्र मतं तैलेनाभ्यञ्जनं तथा ॥
वस्तिशुद्धिकरैः सिद्धं चतुर्गुणजलं पयः ।
आवारिनाशात् क्वथितं पीतवन्तं प्रकामतः ॥
रमयेयुः प्रिया नार्य्यः शुक्रोदावर्त्तिनं नरम् ।
तस्याभ्यङ्गोऽवगाहश्च मदिरा चरणायुधः ॥
शालिः पयो निरूहश्च हितं मैथुनमेव च ।
क्षुद्विघातसमुद्भूते स्निग्धमुष्णं तथा लघु ॥
रूच्यमल्पं हितं भक्ष्यं पुष्पं सेव्यं सुगन्धि यत् ।
तृषाविघातसंभूते शीतः सर्व्वो विधिर्हितः ॥
कर्पूरशिशिरं स्वल्पं पिबेत्तोयं शनैः शनैः ।
श्रमश्वासे धृते शस्तो विश्रामः सरसौदनः ॥
निद्रावेगविघातोत्थे पिबेत्क्षीरं सितायुतम् ।
सुवाहनं सुशय्यात्र हिताः श्रोत्रप्रियाः कथाः ॥”
वातादिवेगविघातजनितानामुदावर्त्तानां चिकि-
त्सामभिधाय रूक्षादिकुपितवातजनितस्य उदा-
वर्त्तस्य चिकित्सामाह ।
“हिङ्गुमाक्षिकसिन्धूत्थैः पिष्टैर्वर्त्तिविनिर्म्मिताम् ।
घृताभ्यक्तां गुदे न्यस्येदुदावर्त्तविनाशिनीम् ॥”
फलवर्त्तिः ।
“मदनं पिप्पली कुष्ठं वचा गौराश्च सर्षपाः ।
गुडक्षीरसमायुक्ता फलवर्त्तिरिहोदिता ॥”
मदनफलादिवर्त्तिः ॥ * ॥
“खण्डपलं त्रिवृताक्षः कृष्णाकर्षं द्बयोश्चूर्णम् ।
प्राग्भोजनस्य मधुना विडालपदकं नरो
लिह्यात् ॥
एतद्गाढपुरीषे देयं विज्ञैरुदावर्त्ते ।
मधुरं नरपतियोग्यं चूर्णं नाराचकं नाम्ना ॥”
इति नाराचचूर्णम् ॥ * ॥
“सव्योषं पिप्पलीमूलं त्रिवृद्दन्ती च चित्र-
कम् ।
तच्चूर्णं गुडसंमिश्रं भक्षयेत् प्रातरुत्थितः ॥
एतद्गुडाष्टकं नाम्ना बलवर्णाग्निवर्द्धनम् ।
उदावर्त्तप्लीहगुल्मशोथपाण्ड्वामयापहम् ॥”
इति गुडाष्टकम् ॥ * ॥
“मूलकं शुष्कमार्द्रञ्च वर्षाभूपञ्चमूलकम् ।
कृतमालफलं चाप्सु पक्त्रा तेन घृतं
पचेत् ।
तत् पीतं शमयेत् क्षिप्रमुदावर्त्तमशेषतः ॥”
पञ्चमूलकमत्र बृहत् । शुष्कमूलकाद्यघृतम् ॥ * ॥
अथ आनाहस्य चिकित्सा ।
“तुल्यकारणकार्य्यत्वादुदावर्त्तहरीं क्रियाम् ।
आनाहेऽपि च कुर्व्वीत विशेषश्चाभिधीयते ॥
त्रिवृत्कृष्णाहरीतक्यो द्विचतुःपञ्चभागिकाः ।
गुडेन तुल्या वटिका हरन्त्यानाहमुल्वणम् ॥
वर्त्तिस्त्रिकटुसैन्धवसर्षपगृहधूमकुष्ठमदनफलैः ।
मधुनि गुडे वा पक्वैर्निहिता स्वाङ्गुष्ठपरि-
माणाः ॥
वर्त्तिरियं दृष्टफला शनैः प्रणिहिता गुदे घृता-
भ्यक्ते ।
आनाहोदावर्त्तौ शममति जठरं तथा
गुल्मम् ॥”
त्रिकटुकाद्या वर्त्तिः ॥ इति भावप्रकाशः ॥
(त्रि, विशेषेण स्तम्भयिता । यथा, ऋग्वेदे ।
९ । ८६ । ३५ ।
“दिवो विष्टम्भ उपमो विचक्षणः ॥”)

विष्टम्भी, [न्] त्रि, (विष्टभ्नातीति । वि + स्तन्भ

+ णिनिः ।) विष्टम्भरोगजनकः । यथा, --
“वैदला गुरवो भक्ष्या विष्टम्भिसृष्टमारुताः ॥”
इति राजवल्लभः ॥
(यथा च सुश्रुते । १ । ४५ ।
“प्रायः प्राभातिकं क्षीरं गुरु विष्टम्भि शीत-
लम् ॥”
विष्टम्भोऽस्यास्तीति । विष्टम्भ + इनिः ।)
विष्टम्भरोगविशिष्टश्च ॥

विष्टरः, पुं, (विस्तीर्य्यते इति । वि + स्तॄ + अप् ।

“वृक्षासनयोर्विष्टरः ।” ८ । ३ । ९३ । इति
निपातनात् षत्वम् ।) विटपी । दभमुष्टिः ।
पीठाद्यासनम् । इत्यमरः ॥ आदिना कुशा-
सनादिग्रहः । इति भरतः ॥ * ॥ (यथा,
भागवते । ३ । २८ । १६ ।
“काञ्चीगुणोल्लसत्श्रोणिं हृदयाम्भोजविष्टरम् ।
दर्शनीयतमं शान्तं मनोनयनवर्द्धनम् ॥”)
विष्टरलक्षणमाह । विष्टरस्तु सार्द्धद्बितयवामा-
वर्त्तवलिताधोमुखाग्रा असंख्यातदर्भाः । तथा
च गृह्यासंग्रहः ।
“ऊर्द्ध्वकेशो भवेद्ब्रह्मा लम्बकेशस्तु विष्टरः ।
दक्षिणावर्त्तको ब्रह्मा वामावर्त्तस्तु विष्टरः ॥”
इति ॥
छन्दोगपरिशिष्टम् ।
“दर्भसंख्या न विहिता विष्टरास्तरणेष्वपि ॥”
पृष्ठ ४/४५२
एवञ्च ।
“पञ्चाशद्भिर्भैवेद्ब्रह्मा तदर्द्धेन तु विष्टरः ॥”
इति यदि समूलं तदा शाख्यन्तरीयम् । एतेन
विष्टरे पञ्चविंशतिसंख्या भवदेवभट्टोक्ता
निरस्ता । एवं विष्टरग्रहणं हस्ताभ्यामपि
यदुक्तं तदपि निरस्तम् ।
“यत्रोपदिश्यते कर्म्म कर्त्तुरङ्गं न चोच्यते ।
दक्षिणस्तत्र विज्ञेयः कर्म्मणां पारगः करः ॥”
इति छन्दोगपरिशिष्टात् । इति संस्कार-
तत्त्वम् ॥

विष्टरश्रवाः, [स्] पुं, (“विष्टराविव श्रवसी

यस्येति ।” शिशुपालवधस्य १४ । १२ । टीकायां
मल्लिनाथः । “विष्टरेऽश्वत्थवृक्षे श्रूयते नित्यं तत्र
वसतीति ।” उणा० ४ । २२६ । इत्यत्र उज्ज्वल-
दत्तः ।) विष्णुः । इत्यमरः ॥ (यथा, हरिवंशे
भविष्यपर्व्वणि । ५१ । १७ ।
“उत्पाट्य वृक्षं दैत्येन्द्रः शतशाखं महाशिखम् ।
तेन तं पोथयामास विष्टरस्रवसं प्रभुम् ॥”)

विष्टरा, स्त्री, गुण्डासिनी । इति राजनिर्घण्टः ॥

विष्टरुहा, स्त्री, स्वर्णकेतकी । इति राजनिर्घण्टः ॥

विष्टारुहा इति च क्वचित् पाठः ॥

विष्टारः, पुं, छन्दोविशेषः । यथा, विष्टारः पङ्क्ति-

च्छन्दः । इति षत्वप्रकरणे दुर्गादासः ॥

विष्टिः, स्त्री, (विष + क्तिन् ।) वेतनं विना हठा-

द्भारोद्वहनादिक्लेशः । वेगार इति ख्यातः ।
तत्पर्य्यायः । आजूः २ । इत्यमरः ॥ हठाद-
भृतिकः क्लेशो विजातरूपो विष्टिरिति भट्ट-
स्वामी ॥ द्वे वेतनमन्तरेण कर्म्मकरणे कर्म्म-
कारिणि चेत्यन्ये । त्रिषु कर्म्मकरे विष्टिः स्त्रिया-
मभृतिकर्म्मणीति रुद्रः । इति भरतः ॥ * ॥
(यथा, रामायणे । २ । ८२ । २० ।
“विष्टिकर्म्मान्तिकाः सर्व्वे मार्गशोधक-
रक्षकाः ॥”)
वेतनम् । कर्म्म । इति मेदिनी । टे, २९ ॥ (यथा,
भागवते, । ७ । ८ । ५५ ।
“वयमीशकिन्नरगणास्तवानुगा
दितिजेन विष्टिममुनानुकारिताः ॥”)
भद्रा । वर्षणम् । इति विश्वः ॥ प्रेषणम् । इति
हेमचन्द्रः ॥ सा च भद्रा ववाद्येकादशकरणा-
न्तर्गतसप्तमकरणं पञ्जिकायां तस्या अङ्कं
शून्यम् । यथा, --
“ववबालवकौलवतैतिल
गरबणिजाः सविष्टयः सप्त ।
शकुनिचतुष्पन्नागाः
किन्तुघ्नश्च ध्रुवाणि करणानि ॥
शुक्लादितिथिशेषार्द्धात् पञ्चमे तत्तुरीयके ।
आद्यन्तार्द्धात् क्रमेण स्युरष्टावृत्त्या ववादयः ॥
एकादश्याश्चतुर्थ्याश्च शोषार्द्धे शुक्लपक्षके ।
अष्टमीपौर्णमास्योश्च पूर्ब्बार्द्धे विष्टिरीरिता ॥
कृष्णपक्षे तृतीयाया दशम्याश्च परार्द्धतः ।
सप्तम्याश्च चतुर्द्दश्याः पूर्ब्बार्द्धे विष्टिसम्भवः ॥
विहाय विषरौद्राणि विष्टिं सर्व्वत्र वर्ज्जयेत् ।
विष्टिशेषे त्रिदण्डे हि पुच्छे कार्य्यं जयावहम् ॥”
कर्म्मप्रकाशे ।
“नाड्यस्त पञ्च वदनं गलकस्तथैका
वक्षो दशैकसहिता नियतं चतस्रः ।
नाभिः कटिः षडथ पुच्छलता च तिस्रो
विष्टेर्ध्रवं निगदितोऽङ्गविभाग एषः ॥
मुखे कार्य्यध्वस्तिर्भवति मरणं चाथ गलके
धनग्लानिर्वक्षस्यथ कटितटे बुद्धिविलयः ।
कलिर्नाभीदेशे विजयमथ पुच्छे च जगदुः
शरीरे भद्रायाः पृथगिति फलं पूर्ब्बमुनयः ॥
मनुवसुमुनितिथियुगदश-
शिवगुणसंख्यासु तिथिषु पूर्ब्बाग्न्योः ।
१४ । ८ । ७ । १५ । ४ । १० । ११ । ३ ।
आयाति विष्टिरेषा पृष्ठे शुभदा पुरस्त्व-
शुभदा ॥”
पूर्ब्बाग्न्योः पूर्ब्बाग्न्यादिदिङ्मुखी भवति इत्यर्थः ॥
“एकेन हीना द्विगुणा तिथिस्तु
सप्तावशिष्टं करणं ववादि ।
पूर्ब्बे परेऽप्येवमयं विशेषो
द्विसंगुणा चन्द्रविवर्ज्जिता च ॥
किन्तुध्नसंज्ञं करणं प्रदिष्ट-
मादेस्तिथेरादिदले सदैव ।
उपान्त्यशेषे शकुनिस्तु दर्शे
पूर्ब्बे चतुष्पादपरे च नागः ॥
इन्द्रकमलजचित्रार्य्यमभूश्रियः सयमा ववादेः ।
कलिवृषफणिमारुताः पतयः शकुन्यादेः ॥”
ववाद्यधिपकथनम् ॥
“पौष्टिकस्थिरशुभानि ववाख्ये
वालवे द्विजहिताद्यपि कर्म्म ।
कौलवे प्रमदमित्रविधानं
तैतिले शुभगताश्रयकर्म्म ॥
गरे च बीजाश्रयकर्षणानि
बणिज्यपि स्थैर्य्यबणिक्क्रिया च ।
न सिद्धिमाप्नोति कृतञ्च विष्ट्यां
विषाभिघातादिषु तत्र सिद्धिः ॥
मन्त्रौषधानि शकुनौ च सपौष्टिकानि
गोविप्रराज्यपितृकर्म्म चतुष्पदे तु ।
सौभाग्यदारुणकृतिध्रुवकर्म्मनागे
किन्तुघ्ननाम्नि शुभपौष्टिकमङ्गलानि ॥”
इति ज्योतिस्तत्त्वम् ॥
(यथा, कलाविलासे । २ । ११ ।
“कश्चिद्वदति समेत्य द्रविणं निःक्षिप्य हन्त-
गन्तास्मि ।
भ्रातःपरं प्रभाते विष्टिदिनं किं करोम्यद्य ॥”)

विष्टिः, त्रि, (विष् + क्तिच् ।) कर्म्मकरः । इति

मेदिनी । टे, २९ ॥

विष्ठलं, क्ली, (विदूरं स्थलम् ।) दूरस्थानम् ।

यथा । विकुशमिपरिभ्यः स्थलस्य । एभ्यः
स्थलस्य सस्य षः स्यात् । विष्ठलं कुष्ठलं शमिष्ठलं
परिष्ठलम् । इति सिद्धान्तकौमुदी ॥

विष्ठा, स्त्री, (विविधप्रकारेण तिष्ठति उदरे इति ।

वि + स्था + कः । उपसर्गादिति षः ।) विविध-
प्रकारेणोदरे तिष्ठति या । तत्पर्य्यायः । उच्चारः
२ अवस्करः ३ शमलम् ४ शकृत् ५ गूथम् ६
पुरीषम् ७ वर्च्चस्कम् ८ विट् ९ । इत्यमरः ॥
वर्च्चः १० । इति जटाधरः ॥ अमेध्यम् ११ दूर्य्यम्
१२ कल्लम् १३ मलम् १४ । इति शब्दरत्ना-
वली ॥ किट्टम् १५ पूतिकम् १६ । इति राज-
निर्घण्टः ॥ (यथा, --
“गुरोर्हितं प्रकर्त्तव्यं वाङ्मनःकायकर्म्मभिः ।
अहिताचरणादेव विष्ठायां जायते क्रिमिः ॥”
इति कृष्णानन्दीयतन्त्रसारे ॥)
तद्दर्शननिषेधो यथा, --
“न नग्नां स्त्रियमीक्षेत पुरुषं वा कदाचन ।
न च मूत्रं पुरीषं वा न च संसृष्टमैथुनम् ॥”
जले तदुत्सर्गनिषेधो यथा, --
“नाक्षैः क्रीडेन्न धावेत नाप्सु विण्मूत्रमाच-
रेत् ।
नोच्छिष्टः संविशेन्नित्यं न नग्नः स्नानमाचरेत् ॥”
इति कौर्म्मे उपविभागे १५ अध्यायः ॥
तदुत्सर्गविधानं पुरीषप्रातःकृत्यशब्दयोर्द्रष्ट-
व्यम् ॥

विष्णुः, पुं, अग्निः । इति शब्दमाला ॥ शुद्धः ।

वसुदेवता । इति धरणिः ॥ (द्वादशादित्या-
नामन्यतमः । यथा, महाभारते । १ । ६५ । १६ ।
“एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते ।
जघन्यजस्तु सर्व्वेषामादित्यानां गुणाधिकः ॥”)
धर्म्मशास्त्रकर्त्तृमुनिविशेषः । यथा, --
“मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोऽङ्गिराः ।
यमापस्तम्बसंवर्त्ताः कात्यायनबृहस्पती ॥
पराशरव्यासशङ्खलिखिता दक्षगोतमौ ।
सातातपो वशिष्ठश्च धर्म्मशास्त्रप्रयोजकाः ॥”
इति याज्ञवल्क्यसंहिता ॥
ब्रह्मणो रूपविशेषः । तस्य व्युत्पत्तिर्यथा ।
वेवेष्टि व्याप्नोति विश्वं यः । वेषति सिञ्चति
आप्यायते विश्वमिति वा । विष्णाति वियुनक्ति
भक्तान् मायापसारणेन संसारादिति वा ।
विशति सर्व्वभूतानि विशन्ति सर्व्वभूतानि
अत्रेति वा ।
“यस्माद्विश्वमिदं सर्व्वं तस्य शक्त्या महात्मनः ।
तस्मादेवोच्यते विष्णुर्विशधातोः प्रवेशनात् ॥”
इति विष्णुपुराणम् । इत्यमरटीकायां भरतः ॥
(“बृहत्वात् विष्णुरुच्यते ।” इति महाभारते ।
५ । ७० । ३ ॥) तत्पर्य्यायः । नारायणः २ कृष्णः ३
वैकुण्ठः ४ विष्टरश्रवाः ५ दामोदरः ६ हृषीकेशः
७ केशवः ८ माधवः ९ स्वभूः १० दैत्यारिः ११
पुण्डरीकाक्षः १२ गोविन्दः १३ गरुडध्वजः १४
पीताम्बरः १५ अच्युतः १६ शार्ङ्गी १७ विष्वक्-
सेनः १८ जनार्द्दनः १९ उपेन्द्रः २० इन्द्रावरजः
२१ चक्रपाणिः २२ चतुर्भुजः २३ पद्मनाभः ३४
मधुरिपुः २५ वासुदेवः २६ त्रिविक्रमः २७
दैवकीनन्दनः २८ शौरिः २९ श्रीपतिः ३०
पुरुषोत्तमः ३१ वनमाली ३२ वलिध्वंसी ३३
कंसारातिः ३४ अधोक्षजः ३५ विश्वम्भरः ३६
पृष्ठ ४/४५३
कैटभजित् ३७ विधुः ३८ श्रीवत्सलाञ्छनः ३९ ।
इत्यमरः ॥ पुराणपुरुषः ४० वृष्णिः ४१ शत-
धामा ४२ गदाग्रजः ४३ एकशृङ्गः ४४ जग-
न्नाथः ४५ विश्वरूपः ४६ सनातनः ४७ मुकुन्दः
४८ राहुभेदी ४९ वामनः ५० शिवकीर्त्तनः ५१
श्रीनिवासः ५२ अजः ५३ वासुः ५४ । इति
जटाधरः ॥ श्रीहरिः ५५ कंसारिः ५६ नृहरिः
५७ विभुः ५८ मधुजित् ५९ मधुसूदनः ६०
कान्तः ६१ पुरुषः ६२ श्रीगर्भः ६३ श्रीकरः ६४
श्रीमान् ६५ श्रीधरः ६६ श्रीनिकेतनः ६७
श्रीकान्तः ६८ श्रीशः ६९ प्रभुः ७० मुरलीधरः
७१ जगदीशः ७२ गदाधरः ७३ नन्दात्मजः
७४ नरसिंहः ७५ इरेशः ७६ गोपालः ७७
नन्दनन्दनः ७८ नरकजित् ७९ सामगर्भः ८०
अजितः ८१ जितामित्रः ८२ ऋतधामा ८३
शशबिन्दुः ८४ पुनर्व्वसुः ८५ आदिदेवः ८६
श्रीवराहः ८७ सहस्रवदनः ८८ त्रिपात् ८९
ऊर्द्ध्वदेवः ९० हरिः ९१ गृध्नुः ९२ यादवः ९३
अरिष्टसूदनः ९४ पूतनारिः ९५ सदायोगी ९६
ध्रुवः ९७ चाणूरसूदनः ९८ हेमशङ्खः ९९ शता-
वत्तीं १०० कालनेमिरिपुः १०१ धेनुकारिः १०२
सोमसिन्धुः १०३ विरिञ्चिः १०४ धरणीधरः
१०५ बहुमूर्द्धा १०६ वर्द्धमानः १०७ शतानन्दः
१०८ वृषान्तकः १०९ मथुरेशः ११० द्वारकेशः
१११ रन्तिदेवः ११२ वृषाकपिः ११३ । इति
शब्दरत्नावली ॥ जिष्णुः ११४ दाशार्हः ११५
अब्धिशयनः ११६ इन्द्रानुजः ११७ नरायणः
११८ जलशयः ११९ यज्ञपुरुषः १२० तार्क्ष-
ध्वजः १२१ षड्बिन्दुः १२२ पद्मेशः १२३ मार्जः
१२४ जिनः १२५ कुमोदकः १२६ जह्नुः १२७
वसुः १२८ शतावर्त्तः १२९ मुञ्जकेशी १३०
बभ्रुः १३१ वेधाः १३२ प्रस्निशृङ्गः १३३ आत्मभूः
१३४ पाण्डवायनः १३५ सुवर्णबिन्दुः १३६
श्रीवत्सः १३७ देवकीसूनुः १३८ गोपेन्द्रः १३९
गोवर्द्धनधरः १४० यदुनाथः १४१ गदाभृत् १४२
शार्ङ्गभृत् १४३ चक्रभृत् १४४ श्रीवत्सभृत् १४५
शङ्खभृत् १४६ ॥ * ॥ अस्य वध्यादयो यथा, --
“मधुधेनुकचाणूरपूतनायमलार्ज्जुनाः ।
कालनेमिहयग्रीवशकटारिष्टकैटभाः ॥
कंसः केशिमुरौ साल्वमैन्दद्विविदराहवः ।
हिरण्यकशिपुर्ब्बाणः कालीयो नरको बलिः ॥
शिशुपालश्चास्य वध्या वैनतेयश्च वाहनम् ।
शङ्खोऽस्य पाञ्चजन्योऽङ्कः श्रीवत्सोऽसिस्तु
नन्दकः ॥
गदा कौमोदकी चापं शार्ङ्गं चक्रं सुदर्शनम् ।
मणिः स्यमन्तको हस्ते भुजमध्ये तु कौस्तुभः ॥”
इति हेमचन्द्रः ॥ * ॥
तस्य शतनामानि पाद्मोत्तरखण्डे १११ अध्याये
सहस्रनामानि च महाभारतीयशान्तिपर्व्वणि
१४९ अध्याये द्रष्टव्यानि ॥ * ॥ अस्य मन्त्रो वर्णश्च
यथा, --
“स्वरमाद्यं द्वितीयञ्च उपान्त्यं चान्त्यमेव च ।
वासुदेवो बलः कामो ह्यनिरुद्धो यथाक्रमम् ॥
प्रणवस्तत् सदित्येतत् हुँ क्षौँ भूरतिमन्त्रकाः ।
नारायणस्तथा ब्रह्मा विष्णुः सिंहो वराह-
राट् ॥
सितारुणहरिद्राभा नीलश्यामललोहिताः ।
मेघाग्निमधुपिङ्गाभा वर्णतो नव नायकाः ॥” * ॥
अस्याङ्गानि तेषां मन्त्रवर्णाश्च यथा, --
“कं टं घं शं गरुत्मानं स्याज्जं खं वं सुदर्शनम् ।
खं चं कं घं गदादेवी ठं नं मं क्षञ्च शङ्खकम् ॥
घं टं भं हं भवेच्छ्रीश्च गं जं वं सञ्च पुष्टिकम् ।
धं वं सं वनमाला स्याच्छ्रीवत्सं सं दं नं भवेत् ॥
छं तं पं कौस्तुभः प्रोक्तश्चानन्तो ह्यहमेव च ।
इत्यङ्गानि यथायोगं देवदेवस्य वै दश ॥ * ॥
गरुडोऽम्बुजसङ्काशो गदा चैवासिताकृतिः ।
पुष्टिः शिरीषपुष्पाभा लक्ष्मीः काञ्चनसन्निभा ॥
पूर्णचन्द्रनिभः शङ्खः कौस्तुभस्त्वरुणद्युतिः ।
चक्रं सूर्य्यसहस्राभं श्रीवत्सः कुन्दसन्निभः ॥
पञ्चवर्णा मता माला ह्यनन्तो मेघसन्निभः ।
विद्युद्रूपाणि चास्त्राणि यानि नोक्तानि वर्णतः ॥
इति गारुडे ११ अध्यायः ॥ * ॥
तस्य जगत्पालनादिर्यथा, --
“रजोगुणमयं चान्यरूपं तस्यैव धीमतः ।
चतुर्म्मुखः स भगवान् जगत्सृष्टौ प्रवर्त्तते ॥
सृष्टञ्च पाति सकलं विश्वात्मा विश्वतोमुखः ।
सत्त्वं गुणमुपाश्रित्य विष्णुर्व्विश्वेश्वरः स्वयम् ॥
अन्तकाले स्वयं देवः सर्व्वात्मा परमेश्वरः ।
तमोगुणं समाश्रित्य रुद्रः संहरते जगत् ॥
एकोऽपि सन्महादेवस्त्रिधासौ समवस्थितः ।
सर्गरक्षालयगुणैर्निर्गुणोऽपि निरञ्जनः ॥
एकः सन् स द्विधा चैव त्रिधा च बहुधा पुनः ।
त्रिधा विभज्य चात्मानं त्रैलोक्ये संप्रवर्त्तते ॥
सृजते वीक्षते चैव ग्रसते च विशेषतः ।
यस्मात् सृष्ट्वानुगृह्णाति ग्रसते च पुनः प्रजाः ॥
गुणात्मकत्वात्त्रैलोक्ये तस्मादेकः स उच्यते ।
अग्रे हिरण्यगर्भः स प्रादुर्भूतः सनातनः ॥
आदित्वादादिदेवोऽसावजातत्वादजः स्मृतः ।
देवेषु च महादेवो महादेव इति स्मृतः ॥
पाति यस्मात् प्रजाः सर्व्वाः प्रजापतिरिति
स्मृतः ।
बृहत्त्वाञ्च स्मृतो ब्रह्मा परत्वात् परमेश्वरः ॥
वशित्वादप्यवश्यत्वादीश्वरः परिभाषितः ।
ऋषिः सर्व्वत्रगत्वेन हरिः सर्व्वहरो यतः ॥
अनुत्पादात् चानुपूर्व्वात् स्वयम्भुरिति स स्मृतः ।
नराणामयनं यस्मात् तस्मान्नारायणः स्मृतः ॥
हरः संसारहरणाद्विभुत्वाद्विष्णुरुच्यते ।
भगवान् सर्व्वविज्ञानादवनादोमिति स्मृतः ॥
सर्व्वज्ञः सर्व्वविज्ञानाच्छन्दः सर्व्वमयो यतः ।
शिवः स्यान्निर्म्मलो यस्माद्बिभुः सर्व्वगतो
यतः ॥
तारणात् सर्व्वदुःखानां तारकः परिगीयते ।
बहुनात्र किमुक्तेन सर्व्वं विष्णुमयं जगत् ॥”
इति कौर्म्मे ४ अध्यायः ॥ * ॥
अपि च ।
मत्स्य उवाच ।
“महाप्रलयकालात्तु एतदासोत्तमोमयम् ।
प्रसुप्तमिव चातर्क्यमप्रज्ञातमलक्षणम् ॥
अविज्ञेयमविज्ञातं जगत् स्थास्नु चरिष्णु च ।
ततः स्वयम्भुरव्यक्तः प्रभवः पुण्यकर्म्मणाम् ॥
व्यञ्जयन्नेतदखिलं प्रादुरासीत्तमोनुदः ।
योऽतीन्द्रियः परो व्यक्तादर्थज्यायान् सनातनः ॥
नारायण इति ख्यातः स एव स्वयमुद्बभौ ।
स्वशरीरादभिध्यायन् सिसृक्षुर्व्विविधं जगत् ॥
अप एव ससर्ज्जादौ तासु बीजमवासृजत् ।
तदेवाण्डं समभवद्धेमरूप्यमयं महत् ॥
संवत्सरसहस्रेण सूर्य्यायुतसमप्रभम् ।
प्रविश्यान्तर्म्महातेजाः स्वयमेवात्मसम्भवः ।
प्रभावादपि तद्व्याप्त्या विष्णुत्वमगमत् पुनः ॥”
इति मात्स्ये २ अध्यायः ॥ * ॥
अस्य तिसो मूर्त्तयो यथा ।
“सृष्टिस्थित्यन्तकरणात् ब्रह्मविष्णुशिवात्मिकाः ।
स संज्ञां याति भगवान् एक एव जनार्द्दनः ॥
ब्रह्मत्वे सृजते चैव विष्णुत्वे पाति नित्यशः ।
रुद्रत्वे चैव संहर्त्ता एको देवस्त्रिधा स्थितः ॥
स एव सृज्यः स च सर्गकर्त्ता
स एव पाता स च पाल्यते च ।
ब्रह्माद्यवस्थाभिरशेषमूर्त्ति-
र्व्विष्णुर्व्वरिष्ठो वरदो वरेण्यः ॥”
इति वह्निपुराणे सर्गानुशासननामाध्यायः ॥ * ॥
नारायणस्य मूर्त्तिविशेषो यथा ।
“योऽसौ नारायणो देवः परात्परतरो नृप ।
तस्य चिन्ता समुत्पन्ना सृष्टिं प्रति नरोत्तम ॥
सृष्ट्वा चेयं महासृष्टिः पालनीया मयैव ह ।
कर्म्मकाण्डन्त्वमूर्त्तेन कर्त्तुं नैवेह शक्यते ॥
तस्मात् मूर्त्तिं सृजाम्येकां यया पाल्यमिदं
जगत् ।
एवं चिन्तयतस्तस्य सत्त्वाभिध्यायितो नृप ॥
प्राक्सृष्टिजातं राजन् वै मूर्त्तिमत्तत्पुरो बभौ ।
पुरोभूते ततस्तस्मिन् देवो नारायणः स्वयम् ॥
प्रविशन्तं ददर्शाथ त्रैलोक्यं तस्य देहतः ।
ततः सस्मार भगवान् वरदानं पुरातनम् ॥
वागादीनां ततस्तुष्टः प्रादात्तस्य पुनर्व्वरम् ।
सर्व्वज्ञः सर्व्वकर्त्ता त्वं सर्व्वलोकनमस्कृतः ॥
त्रैलोक्यप्रतिपालाच्च भव विष्णुः सनातनः ।
देवानां सर्व्वदा कार्य्यं कर्त्तव्यं ब्रह्मणस्तथा ॥
सर्व्वज्ञत्वञ्च भवतु तव देव न संशयः ।
एवमुक्त्वा ततो देवः प्रकृतिस्थो बभूव ह ॥
विष्णुरप्यधुना पूर्व्वां बुद्धिं सस्मार स प्रभुः ।
तदा संचिन्त्य भगवान् योगनिद्रां महातपाः ॥
तस्यां संस्थाप्य मगवान् इन्द्रियार्थोद्भवाः
प्रजाः ।
ध्यात्वा परेण रूपेण ततः सुष्वाप वै प्रभुः ॥
तस्य सुप्तस्य जठरान्महत् पद्मं विनिःसृतम् ।
सप्तद्वीपवती पृथ्वी ससमुद्रा सकानना ॥
तस्य मूलस्य विस्तारं पातालतलसंस्थितम् ।
पृष्ठ ४/४५४
कर्णिकायां तथा मेरुस्तन्मध्ये ब्रह्मणो भवः ॥
एवं दृष्ट्वा परं तस्य शरीरस्य तु सम्भवम् ।
मुमुचे तच्छरीरस्थो वायुर्वायुसमं सृजत् ॥
अविद्यविजयञ्चेमं शङ्खरूपेण धारय ।
अज्ञानच्छेदनार्थाय खड्गं तेऽस्तु तथा करे ॥
कालचक्रमयं घोरं चक्रं त्वं धारयाच्युत ।
अधर्म्मराजघातार्थं गदां धारय केशव ॥
मालेयं भूतमाता ते कण्ठे तिष्ठतु सर्व्वदा ।
श्रीवत्सकौस्तुभौ चेमौ चन्द्रादित्यच्छलेन ह ॥
मारुतस्ते गतिर्वीरः गरुत्मांस्तव कीर्त्तितः ।
त्रैलोक्यगामिनी देवी लक्ष्मीस्तेऽस्तु सदा प्रिया ॥
द्वादशी च तिथिस्तेऽस्तु कामरूपी च जायते ।
घृताशनो भवेद्यस्तु द्वादश्यां तत्परायणः ॥
स्वर्गवासी च भवतु पुमान् स्त्री वा विशेषतः ।
एष विष्णुस्तवाख्यातो मूर्त्तयो देवदानवाः ॥
हन्ति पाति शरीराणि सृजन्त्यन्यानि चात्मनः ।
युगे युगे सर्व्वगोऽयं वेदान्ते पुरुषो ह्ययम् ।
न हीनबुद्ध्या वक्तव्यो मनुष्योऽयं कदाचन ॥”
इति वाराहे परापरनिर्णयनामाध्यायः ॥ * ॥
ब्रह्मविष्णुशिवानामेकत्वं यथा, --
“ततो ब्रह्मा शरीरं तत् त्रिधा चक्रे महेश्वरः ।
प्रधानेच्छाबलाच्छम्भोस्त्रिगुणं त्रिगुणीकृतम् ॥
तदूर्द्ध्वभागः संजातश्चतुर्वक्त्रश्चतुर्भुजः ।
स्फटिकाभ्रसमः कायः शुक्लः स चन्द्रशेखरः ॥
ईशस्ततो ब्रह्मकाये सृष्टिशक्तिं न्ययोजयत् ।
स्वयमेवाभवत् स्रष्टा ब्रह्मरूपेण लोकभृत् ॥
स्थितिशक्तिं निजां मायां प्रकृत्याख्यां न्ययो-
जयत् ।
महेशे वैष्णवे काये ज्ञानशक्तिं निजां तथा ॥
स्थितिकर्त्ताभवद्बिष्णुरहमेव महेश्वरः ।
सर्व्वशक्तिनियोगेन सदा तद्रूपता मम ॥
अन्तशक्तिं तथा काये शम्भवे स न्ययोजयत् ।
अन्तकर्त्ताभवच्छम्भुः स एव परमेश्वरः ॥
अतस्त्रिषु शरीरेषु स्वयमेव प्रकाशते ।
ज्ञानरूपं परं ज्योतिरनादिर्भगवान् प्रभुः ॥
सृष्टिस्थित्यन्तकरणादेक एव महेश्वरः ।
ब्रह्मा विष्णुः शिवश्चेति संज्ञामाप पृथक् ।
पृथक् ॥
अतस्त्वञ्च विधाता च तथाहमपि नो पृथक् ।
एवं शरीरं रूपञ्च ज्ञानमस्माकमन्तरात् ॥”
इति कालिकापुराणे १२ अध्यायः ॥ * ॥
अन्यच्च ।
“गुणातीतः स भगवान् व्यापकः पुरुषः परः ।
अनन्तभोगशायी च यन्नाभिकमलादभूत् ॥
विष्णुश्च स च गोविन्द ईश्वरश्च सनातनः ।
यस्तं वेद महात्मानं स जीवन्मुक्त उच्यते ॥”
इति वामनपुराणे ४२ अध्यायः ॥ * ॥
तेन गजेन्द्रमोक्षणं यथा, --
पुलस्त्य उवाच ।
“भक्तिं तस्याथ सं चिन्त्य नागस्यागोघदर्शनः ।
प्रीतिमानभवद्विष्णुः शङ्खचक्रगदाधरः ॥
सान्निध्यं कल्पयामास तस्मिन् सरसि केशवः ।
गरुडस्थो जगन्नाथो लोकाधारस्तपोधनः ॥
ग्राहग्रस्तं गजेन्द्रं तं तञ्च ग्राहं जलाशयात् ।
उज्जहाराप्रमेयात्मा तरसा मधुसूदनः ॥
स्थलस्थं दारयामास ग्राहं चक्रेण माधवः ।
मोक्षयामास नागेन्द्रं पापेभ्यः शरणागतम् ॥
स हि देवलशापेन हूहूर्गन्धर्व्वसत्तमः ।
ग्राहत्वमगमत् कृष्णाद्वरं प्राप्य दिवङ्गतः ।
गजोऽपि विष्णुना स्पृष्टो जातो दिव्यवपुः
पुमान् ॥”
इति वामनपुराणे ८१ अध्यायः ॥ * ॥
अस्य मन्त्रपूजादिर्यथा, --
“अथ वक्ष्ये महामन्त्रान् विष्णोः सर्व्वार्थसाध-
कान् ।
यस्य संस्मरणात् सन्तो भवाब्धेः पारमाश्रिताः ॥
तारं नमः पद ब्रूयात् नरौ दीर्घसमन्वितौ ।
पवनो णाय मन्त्रोऽयं प्रोक्तो वस्वक्षरः परः ॥”
अस्य पूजाप्रयोगः । प्रातःकृत्यादिस्नानान्तं
कर्म्म कृत्वा पूजामण्डपमागत्य वैष्णवाचमनं
कुर्य्यात् । तद्यथा गौतमीये ।
“केशवाद्यैस्त्रिभिः पीत्वा द्वाभ्यां प्रक्षालयेत्
करौ ।
द्वाभ्यामोष्ठौ च संमृज्य द्वाभ्यां मृज्यान्मुखं
ततः ॥
एकेन हस्तं प्रक्षाल्य पादावपि तथैकतः ।
संप्रोक्ष्यैकेन मूर्द्धानं ततः सङ्कर्षाणादिभिः ॥
आस्यनासाक्षिकर्णांश्च नाभ्युरस्कं भुजौ क्रमात् ।
स्पृशेदेवं भवेदाचमनञ्च वैष्णवान्वये ।
एवमाचमनं कृत्वा साक्षान्नारायणो भवेत् ॥”
केशवादयस्तु केशवनारायणमाधवगोविन्द-
विष्णुमधुसूदनत्रिविक्रमवामनश्रीधरहृषीकेश-
पद्मनाभदामोदरसङ्कर्षणवासुदेवप्रद्युम्नानिरुद्ध-
पुरुषोत्तमाधोक्षजनृसिंहाच्युतजनार्द्दनोपेन्द्र-
हरिविष्णवः ॥ वाक्यन्तु प्रणवादि केशवाय नम
इत्यादि । तथा च ।
“सचतुर्थीनमोऽन्तैश्च नामभिर्विन्यसेत् सुधीः ॥”
ततः सामान्यार्घ्यादिमातृकान्तं कर्म्म विधाय
केशवकीर्त्त्यादिन्यासं कुर्य्यात् । अस्य ऋष्यादि-
न्यासः । शिरसि प्रजापतये ऋषये नमः । मुखे
गायत्त्रीच्छन्दसे नमः । हृदि अर्द्धलक्ष्मीहरये
देवतायै नमः ॥ * ॥ ततः कराङ्गन्यासौ । श्रीं
अङ्गुष्ठाभ्यां नम इत्यादि । श्रीं हृदयाय नम
इत्यादि । तथा च गौतमीये ।
“ऋषिः प्रजापतिश्छन्दो गायत्त्री देवता पुनः ।
अर्द्धलक्ष्मीहरिः प्रोक्तः श्रीबीजेन षडङ्गकम् ॥”
ततो ध्यानम् ।
“उद्यत्प्रद्योतनशतरुचिं तप्तहेमावदातं
पार्श्वद्वन्द्वे जलधिसुतया विश्वधात्र्या च जुष्टम् ।
नानारत्नोल्लसितविविधाकल्पमापीतवस्त्रं
विष्णुं वन्दे दरकमलकौमोदकीचक्रपाणिम् ॥”
एवं ध्यात्वा न्यसेत् । यथा । अं केशवाय कीर्त्त्यै
नमः ललाटे । वर्णानुक्त्वा सार्द्धचन्द्रान् पुरस्ता-
दित्यादिदर्शनात् सर्व्वत्र सानुस्वारः । आं
नारायणाय कान्त्यै नमो मुखे । इं माधवाय
तुष्ट्यै नमो दक्षनेत्रे । ईं गोविन्दाय पुष्ट्यै नमो
वामनेत्रे । उं विष्णवे धृत्यै दक्षकर्णे । ऊं
मधुसूदनाय शान्त्यै वामकर्णे । ऋं त्रिविक्रमाय
क्रियायै दक्षनासापुटे । ॠं वामनाय दयायै
वामनासापुटे । ऌं श्रीधराय मेधायै दक्षगण्डे ।
ऌं हृषीकेशाय हर्षायै वामगण्डे । एं पद्म-
नाभाय श्रद्धायै ओष्ठे । ऐं दामोदराय लज्जायै
अधरे । ओं वासुदेवाय लक्ष्म्यै ऊर्द्ध्वदन्तपंक्तौ ।
औं सङ्कर्षणाय सरस्वत्यै अधोदन्तपंक्तौ । अं
प्रद्युम्नाय प्रीत्यै मस्तके । अः अनिरुद्धाय रत्यै
मुखे । कं चक्रिणे जयायै । खं गदिने दुर्गायै ।
गं शार्ङ्गिणे प्रभायै । घं खड्गिने सत्यायै ।
ङं शङ्खिने चण्डायै दक्षकरमूलसन्ध्यग्रकेषु । चं
हलिने वाण्यै । छं मुषलिने विलासिन्यै । जं
शूलिने विजयायै । झं पाशिने विरजायै । ञं
अङ्कुशिने विश्वायै वामकरमूलसन्ध्यग्रकेषु । टं
मुकुन्दाय विनदायै । ठं नन्दजाय सुनन्दायै ।
डं नन्दिने स्मृत्यै । ढं नराय ऋद्ध्यै । णं नरक-
जिते समृद्ध्ये दक्षपादमूलसन्ध्यग्रकेषु । तं हरये
शुद्ध्यै । थं कृष्णाय बुद्ध्यै । दं सत्याय भूत्यै ।
धं सात्वताय मत्यै । नं सौराय क्षमायै वाम-
पादमूलसन्ध्यग्रकेषु । पं शूराय रमायै दक्ष-
पार्श्वे । फं जनार्द्दनाय उमायै वामपार्श्वे । वं
भूधराय क्लेदिन्यै पृष्ठे । भं विश्वमूर्त्तये क्लिन्नायै
नाभौ । मं वैकुण्ठाय सुदायै उदरे । यं त्वगा-
त्मने पुरुषोत्तमाय वसुधरायै हृदि । रं असृ-
गात्मने बलिने परायै दक्षांशे । लं मांसात्मने
बलानुजाय परायणायै ककुदि । वं मेदआत्मने
बलाय सूक्ष्मायै वामांशे । शं अस्थ्यात्मने वृष-
घ्नाय सन्ध्यायै हृदादिदक्षकरे । षं मज्जात्मने
वृषाय प्रज्ञायै हृदादिवामकरे । सं शुक्रात्मने
हंसाय प्रभायै हृदादिदक्षपादे । हं प्राणात्मने
वराहाय निशायै हृदादिवामपादे । ळं जीवा-
त्मने विमलाय अमोघायै हृदाद्युदरे । क्षं
क्रोधात्मने नृसिंहाय विद्युतायै हृदादिमुखे ।
इति न्यसेत् ॥ * ॥ तथा च । गौतमीये ।
“केशवादिरयं न्यासो न्यासमात्रेण देहिनाम् ।
अच्युतत्वं ददात्येव सत्यं सत्यं न संशयः ॥
मातृकार्णं समुच्चार्य्य केशवाय इति स्मरेत् ।
कीर्त्त्यै च मनसा युक्तमित्यादि न्यासमाचरेत् ।
केशवाय ततः कीर्त्त्यै कान्त्यै नारायणाय च ॥”
इत्याद्यगस्त्यसंहितावचनाच्चायं क्रमः । न तु
केशवकीर्त्तिभ्यां नम इति । तथा भुक्तिमुक्ति-
मिच्छता अयं न्यासः कर्त्तव्यः श्रीबीजादिकः ।
यथा । श्रीं अं केशवाय कीर्त्त्यै नम इत्यादि ।
तथा च गौतमीये ।
“एवं प्रविन्यसेन्न्यासं लक्ष्मीबीजपुरःसरम् ।
स्मृतिं धृतिं महालक्ष्मीं प्राप्यान्ते हरितां
व्रजेत् ॥”
ततस्तत्त्वन्यासपीठन्यासर्ष्यादिन्यासविष्णुपञ्जरा-
दिन्यासान् कुर्य्यात् । तत्त्वन्यासादयस्तु ग्रन्थ-
पृष्ठ ४/४५५
गौरवभिया नोक्ताः ॥ * ॥ ततो ध्यायेत् ।
“उद्यत्कोटिदिवाकराभमनिशं शङ्कं गदां
पङ्कजं
चक्रं बिभ्रतमिन्दिरावसुमतीसंशोभिपार्श्वद्बयम् ।
कोटीराङ्गदहारकुण्डलधरं पीताम्बरं कौस्तुभो-
द्दीप्तं विश्वधरं स्ववक्षसि लसच्छ्रीवत्सचिह्नं भजे ॥”
एवं ध्यात्वा मानसैः संपूज्य शङ्खस्थापनं
कुर्य्यात् । तत्र वैष्णवपात्रं गौतमीये ।
“ताम्रपात्रन्तु विप्रर्षे विष्णोरतिप्रियं मतम् ।
तथैव सर्व्वपात्राणां मुख्यं शङ्खं प्रकीर्त्तितम् ॥
मृत्पात्रञ्च तथा प्रोक्तं स्वर्णं वा राजतं तथा ।
पञ्चपात्रं हरेः शुद्धं नान्यत्तत्र नियोजयेत् ॥”
नेवेद्यदाने तु तत्रैव ।
“स्वर्णे वा ताम्रपात्रे वा रौप्ये वा पङ्कजे दले ॥”
आगमकल्पद्रुमे ।
“हैरण्यं राजतं कांस्यं ताम्रं मृण्मयमेव वा ।
पालाशं श्रीहरेः पात्रं नैवेद्ये कल्पयेद्बुधः ॥”
पुरश्चरणचन्द्रिकायाम् । सुवर्णे राजते रैत्ये
इत्यादि ॥ * ॥ ततः सामान्यपीठपूजा-
नन्तरं विमलादिशक्तिसहितपीठमन्वन्तं पूजां
कृत्वा पुनर्ध्यात्वा मूलेन कल्पितमूर्त्तावावाह-
नादिपञ्चपुष्पाञ्जलिदानपर्य्यन्तं विधाय आव-
रणपूजां कुर्य्यात् । अग्न्यादिचतुष्कोणेषु दिक्षु
च ॐ क्रुद्धोल्काय हृदयाय नमः इत्यादिना
पूजयेत् ॥ * ॥ ततः केशरेषु पूर्व्वादि ॐ नमः
नं नमः मों नमः नां नमः रां नमः यं नमः
णां नमः यं नमः । ततो दलेषु पूर्व्वादिदिक्षु
ॐ वासुदेवाय नमः । एवं सङ्कर्षणाय प्रद्युम्नाय
अनिरुद्धाय । अग्न्यादिकोणदलेषु ॐ शान्त्यै
नमः एवं श्रियै सरस्वत्यै रत्यै । ततः पत्राग्रेषु
पूर्व्वादि ॐ चक्राय नमः एवं शङ्खाय गदायै
पद्माय कौस्तुभाय मुषलाय खड्गाय वन-
मालायै । तद्बहिरग्रे ॐ गरुडाय नमः ।
दक्षिणे ॐ शङ्खनिधये नमः । वामे ॐ पद्म-
निधये नमः । पश्चिमे ॐ ध्वजाय नमः । अग्नि-
कोणे ॐ विघ्नाय नमः । नैरृते ॐ आर्य्याये
नमः । वायुकोणे ॐ दुर्गायै नमः । ईशाने
ॐ सेनान्यै नमः । एवं सर्व्वत्र । तद्बहि-
रिन्द्रादीन् वज्रादीश्च पूजयित्वा धूपदीपौ दत्त्वा
नैवेद्यं दद्यात् ॥ * ॥ यथा । नैवेद्यमानीय
देवतायै मूलेन पाद्यार्घाचमनीयं दत्त्वा फडिति
मन्त्रेण नैवेद्यं संप्रोक्ष्य चक्रमुद्रयाभिरक्ष्य
यमिति मन्त्रण दोषसमूहं संशोष्य रमिति दोषं
संदह्य वामकरसौधधाराभिपूर्णं वमिति मन्त्रेण
अमृतीकृत्य मूलमन्त्रमष्टधा जपेत् । ततो
वमिति धेनुमुद्रयामृतीकृत्य गन्धपुष्पाभ्यां संपूज्य
कृताञ्जलिः सन् हरिं प्रार्थयेत् । अस्य मुखतो
महः प्रसवेदिति विभाव्य स्वाहान्तं मूलमुच्चार्य्य
नैवेद्ये जलं दद्यात् । ततो मूलमुच्चार्य्य एतन्नैवेद्यं
अमुकदेवतायै नमः । ततो नैवेद्यं हस्ताभ्या-
मुद्धृत्य ॐ निवेदयामि भवते जुषाणेदं हवि-
र्हर इति नैवेद्यं समर्प्य अमुकदेवतायै एतज्जल-
ममृतोपस्तरणमसीति जलं दत्त्वा वामहस्ते
ग्रासमुद्रां प्रदर्श्य दक्षिणहस्तेन प्राणादिमुद्राः
प्रदर्शयेत् । * । यथा । ॐ प्राणाय स्वाहेति
कनिष्ठानामिके अङ्गुष्ठेन स्पर्शयेत् । ॐ अपा-
नाय स्वाहेति तर्ज्जनीमध्यमे अङ्गुष्ठेन स्पर्शयेत् ।
ॐ व्यानाय स्वाहेति मध्यमानामे अङ्गुष्ठेन
स्पर्शयेत् ॐ उदानाय स्वाहेति तर्ज्जनीमध्यमा-
नामा अङ्गुष्ठेन स्पर्शयेत् । ॐ समानाय
स्वाहेति सर्व्वाङ्गुलीरङ्गुष्ठेन स्पर्शयेत् । ततः
अङ्गुष्ठाभ्यामनामिकाग्रं स्पृशन् ब्रौं नमः पराय
अन्तरात्मने अनिरुद्धाय नैवेद्यं कल्पयामीति
नैवेद्यमुद्रां प्रदर्श्य मूलमुच्चार्य्य अमुकदेवतां
तर्पयामीति चतुर्द्धा संतर्प्य अमुकदेवतायै
एतज्जलममृतापिधानमसि इति जलं दत्त्वा
आचमनीयादिकं दद्यात् ॥ * ॥ वैष्णवे तु
नैवेद्यदाने सर्व्वत्रायमेव विधिः । ततः सामान्य-
पूजापद्धत्युक्तक्रमेण विसर्ज्जनान्तं कर्म्म समा-
पयेत् ॥ अस्य पुरश्चरणं षोडशलक्षजपः ।
तथा च ।
“विकारलक्षं प्रजपेन्मनुमेनं समाहितः ।
तद्दशांशं सरसिजैर्जुहुयान्मधुराप्लुतैः ॥”
इति तन्त्रसारः ॥
स्मृत्युक्तविष्णुपूजा आह्निकतत्त्वादौ द्रष्टव्या ॥ * ॥
शिवस्याष्टमूर्त्तिपूजानन्तरं तत्रैव विष्णोरष्टमूर्त्ति-
पूजा यथा, --
“कृता पूजा मया देवि अष्टमूर्त्तेः शिवस्य च ।
यथा हि परमेशानि तच्छृणुष्व वरानने ॥”
इत्युपक्रम्य ।
“कृत्वा पूजां महेशानि कूण्डल्या बाह्यवेष्टने ।
अष्ट विष्णोर्म्महेशानि नामानि शृणु कामिनि ॥
उग्रं विष्णुं महाविष्णुं ज्वलन्तं संप्रतापनम् ।
नृसिंहं भीषणं भीमं मृत्युमृत्युं प्रकीर्त्तितम् ।
एतान् विष्णून् महेशानि यथा संपूज्य तच्छृणु ॥
समुखादिक्रमाद्देवि पूजयेद्विष्णुमव्ययम् ।
तन्मन्त्रं शृणु चार्व्वङ्गि ज्ञानसारं वरानने ॥”
ॐ उग्राय विष्णवे नमः । ॐ महाविष्णवे
नमः । ॐ ज्वलन्ताय विष्णवे नमः । ॐ संप्र-
तापनाय विष्णवे नमः । ॐ नृसिंहाय विष्णवे
नमः । ॐ भीषणाय विष्णवे नमः । ॐ भीमाय
विष्णवे नमः । ॐ मृत्युञ्जयाय विष्णवे नमः ।
“इति पूजां महेशानि कृत्वा हि परमेश्वरि ।
विष्णुज्ञानं मया प्रोक्तं सर्व्वशक्तिसमन्वितम् ॥”
इति लिङ्गार्च्चनतन्त्रे ७ पटलः ॥
तस्य नमस्कारस्तत्फलादिश्च यथा, --
सूत उवाच ।
“मुक्तिहेतुमनाद्यन्तमजमक्षयमव्ययम् ।
यो नमेत् सर्व्वलोकस्य नमस्यो जायते नरः ॥
विष्णुमानन्दमद्वैतं विज्ञानं सर्व्वगं प्रभुम् ।
प्रणमामि सदा भक्त्या चेतसा हृदयालयम् ॥
योऽन्तस्तिष्ठन्नशेषस्य पश्यतीशः शुभाशुभम् ।
तं सर्व्वसाक्षिणं विष्णुं नमस्ये परमेश्वरम् ॥
साध्येनापि नमस्कारप्रयुक्तश्चक्रपाणये ।
संसारतृणवर्गाणामुद्वेजनकरो हि सः ॥
कृष्णे स्फुरज्जलधरोदरचारुकृष्णे
लोकाधिकारिपुरुषे परमेऽप्रेमेये ।
एकोऽपि चारुगुणमात्रकृतप्रणामः
सद्यः श्वपाकमपि शोधयितुं समर्थः ॥
प्रणम्य दण्डवद्भूमौ नमस्कारेण योऽर्च्चयेत् ।
स यां गतिमवाप्नोति न तां क्रतुशतैरपि ॥
दुर्गसंसारकान्ताराकूपारमभिधावताम् ।
एकः कृष्णनमस्कारः अस्ति तीरस्य देशकः ॥
आसीनो वा शयानो वा तिष्ठन् वा यत्र तत्र वा ।
नमो नारायणायेति मन्वेकशरणो भवेत् ॥
नारायणेति शब्दोऽस्ति वागस्ति वशवर्त्तिनी ।
तथापि नरके घोरे पतन्तीति किमद्भुतम् ॥
चतुर्मुखायुर्यदि कोटिवक्त्रो
भवेन्नरः कोऽपि विशुद्धचेताः ।
सर्व्वे गुणानामयुतैकदेशं
वदेन्न वा देववरस्य विष्णोः ॥
व्यासाद्या मुनयः सर्व्वे स्तुवन्तो मधुसूदनम् ।
मतिक्षयान्निवर्त्तन्ते न गोविन्दगुणक्षयात् ॥
अवशेनापि यन्नाम्नि कीर्त्तिते सर्व्वपातकैः ।
पुमान् विमुच्यते सद्यः सिंहत्रस्तैर्मृगैरिव ॥
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् ।
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥
स्वप्नेऽपि नामस्मृतिरादिपुंसः
क्षयं करोत्यक्षयपापराशिम् ।
प्रत्यक्षतः किं पुनरत्र पुंसां
संकीर्त्तिते नाम्नि जनार्द्दनस्य ॥
नमः कृष्णाच्युतानन्त वासुदेवेत्युदीरितम् ।
यैर्भावभावितैर्विप्र न ते यमपुरं ययुः ॥
शमायालं जलं वह्नेस्तमसो भास्करोदयः ।
क्षान्तिः कलेस्त्वघौघस्य नामसंकीर्त्तनं हरेः ॥
क्व नाकपृष्ठगमनं पुनरायाति लक्षणम् ।
क्व जपो वासुदेवेति मुक्तिबीजमनुत्तमम् ॥
गच्छतां दूरमध्वानं तृष्णामूर्च्छितचेतसाम् ।
पाथेयं पुण्डरीकाक्षनामसंकीर्त्तनामृतम् ॥
नम इत्येव यो ब्रूयात्तद्भक्तः श्रद्धयान्वितः ।
तस्याक्षयो भवेल्लोकः श्वपाकस्यापि शौनक ॥
संसारसर्पदष्टस्य निर्व्विचेष्टैकभेषजम् ।
कृष्णेति वैष्णवं मन्त्रं जप्त्वा मुक्तो भवेन्नरः ॥
ध्यायन् कृते यजन् यज्ञैस्त्रेतायां द्वापरेऽर्च्चयन् ।
यदाप्नोति तदाप्नोति कलौ संकीर्त्त्य केशवम् ॥
नूनं तत्कण्ठतालूकमथवाप्युपजिह्विका ।
रोगाधारा न सा जिह्वा या न वक्ति हरे-
र्गुणान् ॥
कुरुक्षेत्रेण किं तस्य काश्या वा शान्तिकेन वा ।
जिह्वाग्रे वर्त्तते यस्य हरिरित्यक्षरद्वयम् ॥
विज्ञातदुष्कृतसहस्रसमावृतोऽपि
श्रेयः परन्तु परिशुद्धिमभीप्समानः ।
स्वप्नान्तरेऽपि किल योनिभयं न पश्ये-
न्नारायणस्तुतिकथापरमो मनुष्यः ॥”
इत्यादि गारुडे नारायणभक्तिनमस्कारो नाम
२३२ अध्यायः ॥ * ॥
पृष्ठ ४/४५६
सूत उवाच ।
“असारभूते संसारे सारमेकं विनिर्द्दिशेत् ।
असाराशेषलोकस्य सारमाराधनं हरेः ॥
दद्यात् पुरुषसूक्तेन यः पुष्पाण्यप एव वा ।
अर्च्चितं स्यात्तदा चैव तेन सर्व्वं चराचरम् ॥
भातृवत् परिरक्षन्तं सृष्टिसंहारकारकम् ।
यो न पूजयते विष्णुं तं विद्याद्ब्रह्मघातकम् ॥
यतः प्रवृत्तिर्भूतानां येन सर्व्वमिदं ततम् ।
स्वकर्म्मणा तमभ्यर्च्च्य सिद्धिं विन्दन्ति मानवाः ॥
नरके पच्यते यस्तु यमेन परिभाषितः ।
किं त्वया नार्च्चितो देवः केशवः केशिनाशनः ॥
उदकेनाप्यभावेन द्रव्याणामर्च्चितः प्रभुः ।
यो ददाति स्वकं लोकं स त्वया किं न चार्च्चितः ॥
न तत् करोति सा माता न पिता नापि
बान्धवाः ।
यत् करोति हृषीकेशः सन्तुष्टः श्रद्धयार्च्चितः ॥
वर्णाश्रमाचारवता पुरुषेण परः पुमान् ।
विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः ॥
न दानैर्विविधैर्दत्तैर्न पुष्पैर्नानुलेपनैः ।
तोषमेति महात्मासौ यथा भक्त्या जनार्द्दनः ॥
सम्पदैश्वर्य्यमाहात्म्यज्ञानसन्ततिकर्म्मणाम् ।
विमुक्तेश्चैकतालभ्यं मूलमाराधनं हरेः ॥
प्रणामैस्तुष्यते विष्णुरेतद्बै परमं धनम् ।
अन्यथा वा विशेषेण कस्तमर्च्चितुमर्हति ॥”
इति गारुडे पूजास्तुतिः २३३ अध्यायः ॥ * ॥
सूत उवाच ।
“आलोक्य बहुशास्त्राणि विचार्य्य च पुनः
पुनः ।
इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥
किं तस्य दानैः किं तीर्थैः किं तपोभिः किम-
ध्वरैः ।
यो नित्यं ध्यायते देवं नारायणमनन्यधीः ॥
षष्टितीथसहस्राणि षष्टितीर्थशतानि च ।
नारायणप्रणामस्य कलां नार्हन्ति षोढशीम् ॥
प्रायश्चित्तान्यशेषाणि तपःकर्म्मादिकानि वै ।
यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥
कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते ।
प्रायश्चित्तन्तु तस्यैकं हरिसंस्मरणं परम् ॥
मुहूर्त्तमपि यो ध्यायेन्नारायणमतन्द्रितः ।
सोऽपि तद्गतिमाप्नोति किं पुनस्तत्परायणः ॥
जाग्रत्स्वप्नसुषुप्तेषु योगस्तस्य च योगिनः ।
या काचिन्मनसो वृत्तिः सा भवत्यच्युताश्रयात् ॥
उत्तिष्ठन्निपतत्विष्णुं व्रजन् वै विवसंस्तथा ।
भुञ्जन् स्वपंश्च जाग्रच्च गोविन्दं माधवं स्मरेत् ॥
स्वे स्वे कर्म्मण्यभिरतः कुर्य्याच्चित्तं जनार्द्दने ।
एषा शास्त्रानुसारोक्तिः किमन्यैर्बहुभाषितैः ॥
ध्यानमेव परो धर्म्मो ध्यानमेव परं तपः ।
ध्यानमेव परं शौचं तस्मात् ध्यानपरो भवेत् ॥
नास्ति विष्णोः परं ध्येयं तपो नानशनात्
परम् ।
तस्मात् प्रधानमन्त्रोक्तं वासुदेवस्य चिन्तनम् ॥
यद्दुर्लभं पदं प्रार्थ्यं मनसो यन्न गोचरम् ।
तदप्यप्रार्थितं ध्यातो ददाति मधुसूदनः ॥
प्रमादात् कुर्व्वतां कर्म्म प्रच्यवेताध्वरेषु यत् ।
स्मरणादेव तद्विष्णोः संपूर्णं स्यादिति श्रुतिः ॥
ध्यानेन सदृशं नास्ति शोधनं पापकर्म्मणाम् ।
आगामिदेहहेतूनां दाहकोऽप्येष पावकः ॥
विनिष्पन्नसमाधिस्तु मुक्तिमत्रैव जन्मनि ।
प्राप्नोति योगी योगाग्निदग्धकर्म्मचयोऽचिरात् ॥
यथाग्निरुद्धतशिखः कक्षं दहति सानिलः ।
तथा चित्तस्थितो विष्णुर्योगिनां सर्व्वकिल्विषम् ॥
यथाग्निदाहात् कनकमपदोषं प्रजायते ।
संश्लिष्टं वासुदेवेन मनुष्याणां तथा मनः ॥
गङ्गास्नानसहस्रेषु पुष्करस्नानकोटिषु ।
यत् पापं विलयं याति स्मृते नश्यति तद्धरौ ॥
प्राणायामसहस्रैस्तु यत् पापं नश्यति ध्रुवम् ।
क्षणमात्रेण तत् पापं हरेर्ध्यानात् प्रणश्यति ॥
एकस्मिन्नप्यतिक्रान्ते मुहूर्त्ते ध्यानवर्ज्जिते ।
दस्युभिर्म्मथितेनेव युक्तमाक्रन्दितं भृशम् ॥
कलिप्रभावो दुष्टोक्तिः पाषण्डानां तथोक्तयः ।
न क्रमेरन् मनस्तस्य यस्य चेतसि केशवः ॥
सा तिथिस्तदहोरात्रं स योगः स च चन्द्रमाः ।
लग्नं तदेव विख्यातं यत्र प्रस्मर्य्यते हरिः ॥
सा हानिस्तन्महच्छिद्रं सा चान्धजडमूकता ।
यन्मुहूर्त्तं क्षणं वापि वासुदेवो न चिन्त्यते ॥
कलिः कृतयुगन्तस्य कलिस्तस्य कृते युगे ।
हृदये यस्य गोविन्दो यस्य चेतसि नाच्युतः ॥
यस्याग्रतस्तथा पृष्ठे गच्छतस्तिष्ठतोऽपि वा ।
गोविन्दे नियतं चित्तं कृतकृत्यः सदैव सः ॥
वासुदेवे मनो यस्य जपहोमार्च्चनादिषु ।
तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिकं फलम् ॥
असंत्यज्य च गार्हस्थमतप्त्वा च महत्तपः ।
छिनत्ति वैष्णवीं मायां केशवार्पितमानसः ॥
क्षमां कुर्व्वन्ति क्रुद्धेषु दयां मूर्खेषु मानवाः ।
मुदञ्च धर्म्मशीलेषु गोविन्दे हृदयस्थिते ॥
ध्यायेन्नारायणं देवं स्नानादिषु च कर्म्मसु ।
प्रायश्चित्तं हि सर्व्वस्य दुष्कृतस्येति विश्रुतम् ॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः ।
येषामिन्दीवरश्यामो हृदयस्थो जनार्द्दनः ॥
कीटपक्षिगणानाञ्च हरौ संन्यस्तचेतसाम् ।
ऊर्द्ध्वमेव गतिं मन्ये किं पुनर्ज्ञानिनां नृणाम् ॥
वासुदेवतरुच्छाया नातिशीता न घर्म्मदा ।
नरकद्वारशमनी सा किमर्थं न सेव्यते ॥
न च दुर्व्वाससः शापो वज्रञ्चापि शचीपतेः ।
हन्तुं समर्थो हि सखे हृद्गते मधुसूदने ।
वदतस्तिष्ठतोऽन्यद्वा स्वेच्छया कर्म्म कुर्व्वतः ।
नापयाति यदा चिन्ता सिद्धां मन्ये च धारणाम् ॥
ध्येयः सदा सवितृमण्डलमध्यवर्त्ती
नारायणः सरसिजासनसन्निविष्टः ।
केयूरवान् कनककुण्डलवान् किरीटी
हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥
किमत्र बहुनोक्तेन युष्माकमधुना हरिम् ।
स्मरताहर्निशं विष्णुमशेषदुरितापहम् ॥
न हि ध्यानेन सदृशं पवित्रमिह विद्यते ।
श्वपाकेष्वपि भुञ्जानः पापं नैवात्र लिप्यते ॥
यदा चित्तं समासक्तं जन्तोर्व्विषयगोचरे ।
यदि नारायणेऽप्येवं को न मुच्येत बन्धनात् ॥
प्रत्यस्तमितभेदं यत् सत्तामात्रमगोचरम् ।
वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्मसंज्ञितम् ॥
तत्रानया धारणया योगिनो यान्ति मे लयम् ।
संसारकर्म्मणोऽप्येते यान्ति निर्ब्बीजतां
द्विजाः ॥”
इति गारुडे ध्यानस्तुतिः २३४ अध्यायः ॥
तस्य माहात्म्यं यथा, --
सूत उवाच ।
“विष्णुचित्तो भवेद्भक्तस्तं यजेत नमेत् सदा ।
तमेवैष्यति मुक्तैवमात्मानं हरितत्परः ॥
तद्दानं यत्र गोविन्दः सा कथा यत्र केशवः ।
तत् कर्म्म यत्तदर्थाय किमन्यैर्ब्बहुभाषितैः ॥
सा जिह्वा या हरिं स्तौति तच्चित्तं यत्तदर्पितम् ।
तावेव केवलौ श्लाघ्यौ यौ तत्पूजाकरौ करौ ॥
प्रणाममीशस्य शिरःफलं विदु-
स्तदर्च्चनं पाणिफलं दिवौकसः ।
मनःफलं तद्गुणकर्म्मचिन्तनं
वाचस्तु गोविन्दगुणस्तवः फलम् ॥
मेरुमन्दरमात्रोऽपि राशिः पापस्य कर्म्मणः ।
केशवं वैद्यमासाद्य दुर्व्याधिरिव नश्यति ॥
यत्किञ्चित् कुरुते कर्म्म पुरुषः साध्वसाधु वा ।
सर्व्वं नारायणे न्यस्य कुर्व्वन्नपि न लिप्यते ॥
तृणादिचतुरास्यान्तं भूतग्रामं चतुर्व्विधम् ।
चराचरं जगत् सर्व्वं प्रसुप्तं मायया तव ॥
यस्मिन्न्यस्तमतिर्न याति नरकं स्वर्गोऽपि यच्चि-
न्तने
विघ्नो यत्र निवेशितात्ममनसो ब्राह्मोऽपि
लोकोऽल्पकः ।
मुक्तिं चेतसि संस्थितो जडधियां पुंसां ददा-
त्यव्ययः
किञ्चित्रं दुरितं प्रयाति विलयं तत्राच्युते
कीर्त्तिते ॥
महता पुण्यपण्येन येन क्रोतोऽखिलं ध्रुवम् ।
तस्य विष्णोः प्रसादेन इह कश्चित् प्रबुद्धति ॥
अग्निकार्य्यं जपं स्नानं विष्णोर्ध्यानञ्च पूजनम् ।
गन्तुं दुःखोदधेः पारं कुर्य्युर्यत्र भवन्ति ते ॥
राष्ट्रस्य शरणं राजा पितरौ बालकस्य च ।
धर्म्मश्च सर्व्वमर्त्यानां सर्व्वस्य शरणं हरिः ॥
ये नमन्ति जगद्योनिं वासुदेवं सनातनम् ।
न तेभ्यो विद्यते तीर्थमधिकं मुनिसत्तम ॥
अनर्घरत्नपूजान्तु कुर्य्यात् स्वाध्यायमेव च ।
तं समुद्दिश्य गोविन्दं ध्यानं नित्यमतन्द्रितः ॥
शूद्रं वा भगवद्भक्तं निषादं श्वपचं तथा ।
द्विजजातिसमं मन्ये न याति नरकं नरः ॥
आदरेण यथा स्तौति धनवन्तं धनेच्छया ।
तथा बुद्धिश्च कर्त्तारं को न मुच्येत बन्धनात् ॥
यथा जातबलो वह्निर्दहत्यार्द्रमपीन्धनम् ।
तथाविधः स्मृतो विष्णुर्योगिनां सर्व्वकिल्विषम् ॥
प्रदीप्तं पर्व्वतं यद्वत् नाश्रयन्ति मृगादयः ।
पृष्ठ ४/४५७
तद्वत् पापानि सर्व्वाणि योगाभ्यासरतं नरम् ॥
यस्य यावांश्च विश्वासस्तस्य सिद्धिश्च तावती ।
एतावानिति कृष्णस्य प्रभावः परिमीयते ॥
विद्वेषादपि गोविन्दं दमघोषात्मजः स्मरन् ।
शिशुपालो गतस्तत्त्वं किं पुनस्तत्परायणः ॥
अयं देवो मुनिर्वन्द्य एष ब्रह्मा बृहस्पतिः ।
इत्याख्या जायते तावद्यावन्नार्च्चयते हरिम् ॥”
इति गारुडे विष्णुमाहात्म्यं २३५ अध्यायः ॥
तस्य पादोदकपानादिफलम् ।
“हृदि रूपं मुखे नाम नैवेद्यमुदरे हरेः ।
पादोदकञ्च निर्म्माल्यं भस्तके यस्य सोऽच्युतः ॥
नैवेद्यमन्नं तुलसीविमिश्रं
विशेषतः पादजलं पिबेच्च ।
योऽश्नाति नित्यं पुरतो मुरारेः
प्राप्नोति सुप्रेमयुतां स भक्तिम् ॥
हत्यां हन्ति यदङ्घ्रिसङ्गतुलसी स्तेयञ्च पादोदकं
नैवेद्यं बहुमद्यपानदुरितं गुर्व्वङ्गनासङ्गमम् ॥”
इति पाद्मोत्तरखण्डे १० अध्यायः ॥ * ॥
तस्य नाम्नां व्युत्पत्तयो यथा, --
पृथिव्युवाच ।
“जातेषु शेषो भवसि तस्माच्छेषोऽसि कीर्त्तितः ॥
व्यसनोत्पत्तियुक्तेषु ब्रह्मेन्द्रवरुणादिषु ।
यस्मान्न च्यवसे स्थानात्तस्मात् कीर्त्तयसेऽच्युतः ॥
ब्रह्माणमिन्द्रं रुद्रञ्च यमं वरुणमेव च ।
निगृह्य हरसे यस्मात्तस्माद्धरिरिहोच्यसे ॥
सम्मानयसि भूतानि वपुषा यशसा श्रिया ।
चिरेण वपुषा देव तस्माच्चासि सनातनः ॥
यस्माद्ब्रह्मादयो देवा मुनयश्चोग्रतेजसः ।
न तेऽन्तं त्वधिगच्छन्ति तेनानन्तस्त्वमुच्यसे ॥
न क्षीयसे न क्षरसे कल्पकोटिशतैरपि ।
तस्मात्त्वमक्षरत्वाच्च विष्णुर्वेति प्रकीर्त्त्यसे ॥
विष्टब्धञ्च त्वया सर्व्वं जगत् स्थावरजङ्गमम् ।
जगद्विष्टम्भनाच्चैव विष्णुर्वेति प्रकीर्त्त्यसे ॥
विष्टभ्य तिष्ठसे नित्यं त्रैलोक्यं सचराचरम् ॥
सयक्षगन्धर्व्वनरं समहद्भूतपन्नगम् ।
व्याप्य त्वामेव विशते त्रैलोक्यं सचराचरम् ।
तस्माद्बिष्णुरिति प्रोक्तः स्वयमेव स्वयम्भवा ॥
नारा इत्युच्यते आपः ऋषिभिस्तत्त्वदर्शिभिः ।
अयनं तस्य तत्पूर्ब्बं तेन नारायणः स्मृतः ॥
युगे युगे प्रनष्टां गां विष्णो विन्दसि तत्त्वतः ।
गोविन्देति ततो नाम्ना प्रोच्यसे ऋषिभिस्तथा ॥
हृषीकाणीन्द्रियाण्याहुस्तत्त्वज्ञानविशारदाः ।
ईशित्वे वर्त्तसे ह्येषां हृषीकेशस्तथोच्यसे ॥
वसन्ति त्वयि भूतानि ब्रह्मादीनि युगक्षये ।
त्वं वा वससि भूतेषु वासुदेवस्तदुच्यसे ॥
सङ्कर्षयसि भूतानि कल्पे कल्पे पुनः पुनः ।
ततः सङ्कर्षणः प्रोक्तस्तत्त्वज्ञानविशारदैः ॥
प्रत्यूहेन न तिष्ठन्ति सदेवासुरराक्षसाः ।
प्रतिद्युः सर्व्वधर्म्माणां प्रद्युम्नस्तेन चोच्यते ॥
निरोधो विद्यते यस्मान्न ते भूतेषु कश्चन ।
अनिरुद्धस्ततः प्रोक्तः पूर्ब्बमेव महर्षिभिः ॥”
इति मात्स्ये २२२ अध्यायः ॥ * ॥
विष्णुलोकगमनकारणं यथा, --
“कर्म्मभोगी सकामः स्यान्निष्कामो निरुपद्रवः ।
स याति देहं त्यक्त्वा च पदं विष्णोर्निरामयम् ।
पुनरागमनं नास्ति तेषां निष्कामिणां सति ॥
ये सेवन्ते च द्विभुजं कृष्णमात्मानमेव च ।
गोलोकं ते नरा यान्ति दिव्यरूपविधारिणः ॥
ये च नारायणं भक्त्या सेवन्ते च चतुर्भुजम् ।
वकुण्ठं यान्ति ते सर्व्वे दिव्यरूपविधारिणः ॥
सकामिनो वैष्णवाश्च गत्वा वैकुण्ठमेव च ।
भारतं पुनरायान्ति तेषां जन्म द्विजातिषु ॥
कालेन ते च निष्कामा भवन्त्येव क्रमेण च ।
भक्तिञ्च निर्म्मलां बुद्धिं तेभ्यो दास्यति निश्चितम् ॥
हरिभक्ताश्च निष्कामाः स्वधर्म्मरहिता द्विजाः ।
तेऽपि यान्ति हरेर्लोकं क्रमाद्भक्तिबलादहो ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २४ अध्यायः ॥

विष्णुऋक्षं, क्ली, (विष्ण्वधिदेवताकं ऋक्षम् ।)

श्रवणानक्षत्रम् । यथा, --
“उपोष्य द्वादशीं पुण्यां विष्णुऋक्षेण संयुताम् ।
एकादश्यद्भवं पुण्यं नरः प्राप्नोत्यसंशयः ॥”
इति तिथ्यादितत्त्वम् ॥

विष्णुकन्दः, पुं, (विष्णुप्रियः कन्दः ।) मूलविशेषः ।

तत्पर्य्यायः । विष्णुगुप्तः २ सुपुटः ३ बहुसंपुटः ४
जलवासः ५ बृहत्कन्दः ६ दीर्घपत्रः ७ हरि-
प्रियः ८ । अस्य गुणाः । मधुरत्वम् । शिशिर-
त्वम् । पित्तदाहशोफहरत्वम् । रुच्यत्वम् ।
सन्तर्पणकारित्वञ्च । इति राजनिर्घण्टः ॥

विष्णुक्रान्ता, स्त्री, अपराजिता । इत्यमरः ॥ अपरा-

जिताया अन्या क्षुपजातिः । तत्पर्य्यायः ।
हरिक्रान्ता २ नीलपुष्पा ३ अपराजिता ४
नीलक्रान्ता ५ सुनीला ६ विक्रान्ता ७
छर्द्दिका ८ । अस्या गुणाः । कटुत्वम् । तिक्त-
त्वम् । कफवातामयविषदोषनाशित्वम् । मेधा-
कारित्वम् । पावनित्वम् । शुभदत्वञ्च । इति
राजनिर्घण्टः ॥

विष्णुगुप्तः, पुं, (विष्णुना गुप्तः ।) वात्स्यायनमुनिः ।

यथा, --
“विष्णुगुप्तस्तु कौण्डिन्यश्चाणक्यो द्रोमिणोऽङ्गुलः ।
वात्स्यायनो मन्दनागः पक्षिलस्वामिनावपि ॥”
इति त्रिकाण्डशेषः ॥
विष्णुकन्दः । इति राजनिर्घण्टः ॥

विष्णुगुप्तकं, क्ली, चाणक्यमूलकम् । इति राज-

निर्घण्टः ॥

विष्णुगृहं, क्ली, (विष्णवे प्रतिष्ठितं गृहम् ।)

विष्णुमन्दिरम् । स्तम्बपुरम् । इति हेमचन्द्रः ॥
विष्णुगृहकरणफलं यथा, --
“अष्टेष्टकासमायुक्तं यः कुर्य्याद्वैष्णवं गृहम् ।
न तस्य फलसम्पत्तिर्वक्तुं शक्येत केनचित् ॥”
इति हरिभक्तिविलासे । २० । १४ ॥
“यैस्तु देवालयं विष्णोः शुभं दारुमयं कृतम् ।
कारयेन्मृण्मयं वापि शृणु तस्य फलं मुने ॥
अहन्यहनि योगेन यजतो यन्महाफलम् ।
प्राप्नोति तत् फलं विष्णोर्यः कारयति मन्दिरम् ॥
कुलानां शतमागामि समतोतं तथा शतम् ।
कारयेद्भगवद्धाम नयत्यच्युतलोकताम् ॥
सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु ।
विष्णोरालयविन्यासप्रारम्भादेव नश्यति ॥
सप्तलोकमयो विष्णुर्यस्तस्य कुरुते गृहम् ।
प्रतिष्ठां समवाप्नोति स नरः साप्तलौकिकीम् ॥
प्रशस्तदेशे भूभागे प्रशस्तं भवनं हरेः ।
कारयत्यखिलान् लोकान् स नरः प्रतिपद्यते ॥
इष्टकानाञ्च विन्यासो यावद्वर्षाणि तिष्ठति ।
तावद्वर्षसहस्राणि तत्कर्त्ता दिवि संस्थितः ॥
चिकीर्षोरपि कृष्णस्य मन्दिरं पुण्यकारिणः ।
नरस्य क्षयमायाति पापं जन्मशतोद्भवम् ॥
ये ध्यायन्ति सदा वृत्त्या करिष्यामि हरेर्गृहम् ।
तेषां विलीयते पापं पूर्व्वजन्मशतोद्भवम् ॥
येऽनुमोदन्ति कृष्णस्य क्रियमाणं हरेर्गृहम् ।
तेऽपि पापविनिर्म्मुक्ता वैष्णवं लोकमाप्नुयुः ॥
कनिष्ठं मध्यमं श्रेष्ठं कारयित्वा हरेर्गृहम् ।
स्वर्गञ्च वैष्णवं लोकं मोक्षञ्च लभते क्रमात् ॥
समतीतं भविष्यञ्च कुलानामयुतं नरः ।
विष्णुलोकं नयत्याशु कारयित्वा हरेर्गृहम् ॥
दुष्प्राप्यं यत् फलं विप्रा वाजिमेधादिभिर्म्मखैः ।
प्राप्यते तत् सुखेनैव निवेश्य भवनं हरेः ॥
ये हताभिमुखाः शूरा गोविप्रार्थे रणाजिरे ।
स तत्फलमवाप्नोति कारयित्वा हरेर्गृहम् ॥
पक्वेष्टरचितं रम्यं पञ्चप्रासादसंयुतम् ।
कारयित्वा हरेर्धाम धूतपापो व्रजेद्दिवम् ॥
लक्षेणार्द्धसहस्रेण शतेनार्द्धेन वा हरेः ।
तुल्यं फलं समाख्यातं तदीश्वरदरिद्रयोः ॥
पतितं पतमानन्तु तथार्द्धपतितं तथा ।
समुद्धृत्य हरेर्धाम द्विगुणं फलमाप्नुयात् ॥”
इति वह्निपुराणे वैष्णवक्रियायोगे यमानुशासन-
नामाध्यायः ॥

विष्णुचक्रं, क्ली, (विष्णोश्चक्रमिव ।) हस्तस्थरेखा-

मयचक्रविशेषः । यथा, --
“विष्णुचक्रं करे चिह्नं सर्व्वेषां चक्रवर्त्तिनाम् ।
भवत्यव्याहतो यस्य प्रभावस्त्रिदशैरपि ॥”
इति विष्णुपुराणे १ अंशे १३ अध्यायः ॥
रेखान्तरानाकुलं रेखामयचक्रम् । इति तट्टीका ॥
सुदर्शनचक्रञ्च ॥

विष्णुतैलं, क्ली, (विष्णुनामकं तैलम् ।) अश्विनी-

कुमारकृतपक्वतैलविशेषः । यथा, --
“स्नानीयं विष्णुतैलञ्च स्वर्व्वैद्येन विनिर्म्मितम् ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे १३ अध्यायः ॥ * ॥
अथ स्वल्पविष्णुतैलम् ।
“शालपर्णीपृश्निपर्णीवलागोरक्षतण्डुलाः ।
एरण्डस्य च मूलानि बृहत्योः पूतिकस्य च ॥
शतावरी सहचरं पचेदेतैः पलोन्मितैः ।
तैलप्रस्थं पयो दत्त्वा गव्यं वाजं चतुर्गुणम् ॥
अस्य तैलस्य पक्वस्य शृणु वीर्य्यमतः परम् ।
वातार्त्ता नरनागाश्च पीत्वा दृढतनुत्वचः ॥
हृत्पार्श्वशूले वातासे गलगण्डेऽर्द्दिते क्षये ।
शर्कराश्मरिपाण्डुत्वकामलार्द्धावभेदके ॥
पृष्ठ ४/४५८
क्षीणेन्द्रियेऽन्त्रवृद्धौ च जराजर्ज्जरिते हितम् ।
स्त्रीणाम्श्वतरीणाञ्च गर्भस्थितिकरं परम् ॥
एतदङ्गवरं तैलं विष्णुना परिकीर्त्तितम् ॥”
तण्डुलः गोरक्षतण्डुलः । बृहत्योर्बृहतीकण्ट-
कार्य्योः । पूतिको नाटाकरञ्जः । सहचरो
झिण्टी । अत्र क्वाथान्तराभावात् क्षीरस्य
चतुर्गुणं जलं कश्चिद्ददाति ।
“स्वरसक्षीरमाङ्गल्यैः पाको यत्रेरितः क्वचित् ।
जलं चतुर्गुणं तत्र वीर्य्याधानार्थमारपेत् ॥”
इति परिभाषाबलात् ॥
क्वचिदिति पाठात् क्वाथान्तररहिते केवल-
क्षीरादिसहिततैलादिपाके ज्ञातव्यं न तु सर्व्वत्र ।
“एलाचन्दनकुङ्कुमागुरुमुराकक्कोलमांसीशटी-
श्रीवासश्छदग्रन्थिपर्णशशभृत्क्षौणीध्वजोशी-
रकम् ।
कस्तूरिनखपूतिशैलजलमुङ्मेथीलवङ्गादिकं
गग्धद्रव्यमिदं प्रदेयमखिलं श्रीविष्णुतैलादिषु ॥”
अथ बृहद्विष्णुतैलम् ।
“जलधरमश्वगन्धाजीवकर्षभकौ शटी ।
काकोली क्षीरकालोली जीवन्ती मधुयष्टिका ॥
मधूरिका देवदारु पद्मकाष्ठञ्च सैन्धवम् ।
मांसी चैला त्वचं कुष्ठं रक्तचन्दनशैलजम् ॥
मञ्जिष्ठा मृगनाभिश्च श्वेतचन्दनकुङ्कुमम् ।
पर्णी कुन्दुरु खोटिश्च ग्रन्थिकञ्च नखी तथा ॥
एतेषां पलिकैर्भागैस्तैलस्यापि तथाढकम् ।
शतावरीरससमं दुग्धञ्चापि समं भवेत् ॥
विष्णुतैलवरं श्रेष्ठं सर्व्ववातविकारनुत् ।
ऊर्द्ध्ववाते ह्यधोवाते अङ्गविग्रह एव च ॥
शिरोमध्यगता ये च मन्या स्तम्भे गलग्रहे ।
यस्य शुष्यति चैकाङ्गं गतिर्यस्य च विह्वला ॥
ये वातप्रभवा रोगा ये च पित्तसमुद्भवाः ।
सर्व्वांस्तान्नाशयत्याशु सूर्य्यस्तम इवोदितः ॥”
इति भैषज्यरत्नावली ॥

विष्णुदैवतं, त्रि, (विष्णुर्द्दैवतं दैवत्यं वा यस्य ।)

विष्ण्वधिष्ठातृदेवताकम् । यथा, --
“व्रतोपकरणं सर्व्वं कथितं सर्व्वदैवतम् ।
गृहन्तु सर्व्वदैवत्यं यदनुक्तं द्बिजोत्तमाः ।
तज्ज्ञेयं विष्णुदैवत्यं सर्व्वं वा विष्णुदैवतम् ॥”

विष्णुदैवत्यं, त्रि, (विष्णुर्द्दैवतं दैवत्यं वा यस्य ।)

विष्ण्वधिष्ठातृदेवताकम् । यथा, --
“व्रतोपकरणं सर्व्वं कथितं सर्व्वदैवतम् ।
गृहन्तु सर्व्वदैवत्यं यदनुक्तं द्बिजोत्तमाः ।
तज्ज्ञेयं विष्णुदैवत्यं सर्व्वं वा विष्णुदैवतम् ॥”
इति शुद्धितत्त्वे विधष्णुर्म्मोत्तरवचनम् ॥
क्ली, श्रवणानक्षत्रम् । इति ज्योतिषम् ॥

विष्णुदैवत्या, स्त्री, (विष्णुर्द्दैवत्यमस्याः ।) एका-

दशीतिथिः । द्बादशीतिथिः । यथा, --
“एकादशी द्वादशी च प्रोक्ता श्रीचक्रपाणिनः ।
एयोदशी त्वनङ्गस्य शिवस्योक्ता चतुर्द्दशी ॥”
इति स्मृतिः ॥
“एकादशीमुपोष्यैव द्वादशीं समुपोषयेत् ।
न चात्र विधिलोपः स्यादुभयोर्द्देवता हरिः ॥”
इति तिथ्यादितत्त्वम् ॥

विष्णुधर्म्मः, पुं, (विष्णुप्रधानो धर्म्मोऽस्मिन् ।) शास्त्र-

विशेषः । यथा । “ब्रह्मचारिकाण्डे भविष्य-
पुराणम् ।
‘अष्टादश पुराणानि रामस्य चरितं तथा ।
विष्णुधर्म्मादिशास्त्राणि शिवधर्म्माश्च भारत ॥
कार्ष्ण्यञ्च पञ्चमो वेदो यन्महाभारतं स्मृतम् ।
सौराश्च धर्म्मा राजेन्द्र मानवोक्ता महीपते ।
जयेति नाम एतेषां प्रवदन्ति मनीषिणः ॥’
जयत्यनेन संसारमिति जयस्तत्तद्ग्रन्थः ॥” इति
तिथादितत्त्वम् ॥ * ॥ विद्याविशेषः । यथा, --
“अवाप जप्त्वा चेन्द्रत्वं विष्णुधर्म्माख्यविद्यया ।
सर्व्वान् शत्रून् विनिर्जित्य ताञ्च वक्ष्ये महेश्वर ॥
पादयोर्जानुनोरूर्व्वोरुदरे हृद्यथोरसि ।
मुखे शिरस्यानुपूर्ब्बादोङ्कारादिं विनिर्द्दिशेत् ॥
ॐ नमो नारायणायेति विपर्य्ययमथापि वा ।
करन्यासं ततः कुर्य्यात् द्वादशाक्षरविद्यया ॥
प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्व्वसु ।
न्यस्येत् हृदय ॐकारं नकारं मम मूर्द्धनि ॥
मोकारन्तु भ्रुवोर्म्मध्ये शिखानेत्रादिमूर्द्धतः ।
ॐ विष्णवे नम इति इमं मन्त्रमुदाहरेत् ॥
आत्मानं परमं ध्यायेच्छेषषट्शक्तिभिर्युतम् ।
मम रक्षां ततः कुर्य्यान्मत्स्यमूर्त्तिर्जलेऽवतु ॥
त्रिविक्रमस्तथाकाशे स्थले रक्षतु वामनः ।
अटव्यां नरसिंहस्तु रामो रक्षतु पर्व्वते ॥
भूमौ रक्षतु वाराहो हंसो नारायणोऽवतु ।
कर्म्मबन्धाच्च काम्पिल्यदत्तो योगात्तु रक्षतु ॥
हयग्रीवो देवतायाः कुमारो मकरध्वजात् ।
नारदोऽन्यार्च्चनात् पायात् कूर्म्मो वै नैरृतेः
सदा ॥
धन्वन्तरिरपथ्याच्च नागः क्रोधवशात् किल ।
यज्ञलोकाद्वलः कालाद्व्यासो ज्ञानाच्च रक्षतु ॥
बुद्धः पाषण्डसंघातात् कल्किरव्यात् कलेः समम् ।
पायान्मध्यं दिने विष्णुः प्रातर्नारायणोऽवतु ॥
मधुहा चापराह्णे च सायं रक्षतु माधवः ।
हृषीकेशः प्रदोषेऽव्यात् प्रत्यूषेऽव्याज्जनार्द्दनः ॥
श्रीधरोऽव्यादर्द्धरात्रे पद्मनाभो निशान्तके ।
चक्रकौमोदकीबाणाः घ्नन्तु शत्रूंश्च राक्षसान् ॥
शङ्खशब्दश्च शत्रुभ्यः शार्ङ्गो वै गरुडस्तथा ।
बुद्धीन्द्रियमनःप्राणान् पान्तु पार्षदभूषणाः ॥
शेषैः सर्व्वैर्म्मुदापन्नः सदा सर्व्वत्र पान्तु माम् ।
विदिक्षु दिक्षु च सदा नरसिंहश्च रक्षतु ॥
एतद्धारयमाणश्च यं यं पश्यति चक्षुषा ।
स वशी स्याद्बिपाप्मा च रोगान्मुक्तो दिवं
व्रजेत् ॥”
इति गारुडे २०१ अध्यायः ॥

विष्णुधर्म्मोत्तरं, क्ली, संहिताविशेषः । तत्र प्रश्व-

कर्त्ता जनमेजयसुतः । वक्तारः शौनकाद्या
ऋषयः । तत्र १०० वृत्तान्तास्तद्ग्रन्थे द्रष्टव्याः ॥

विष्णुपञ्जरं, क्ली, (विष्णुरेव पञ्जरमिव यस्मिन् ।

तद्धारयितुर्निर्भयरक्षणकारित्वादस्य तथात्वम् ।)
विष्णु कंवचविशेषः । यथा, --
“प्रवक्ष्याम्यधुना त्वेतद्बैष्णवं पञ्जरं शुभम् ।
नमो नमस्ते गोविन्द चक्रं गृह्य सुदर्शनम् ॥
प्राच्यां रक्षस्व मां विष्णो त्वामहं शरणं गतः ।
गदां कौमोदकीं गृह्य पद्मनाभामितद्युते ॥
याम्यां रक्षस्व मां विष्णो त्वामहं शरणं गतः ।
हलमादाय सौनन्दं नमस्ते पुरुषोत्तम ।
प्रतीच्यां रक्ष मां विष्णो भवन्तं शरणागतम् ॥
पाञ्चजन्यं तथा शङ्खं शार्ङ्गञ्चाप्यथ पङ्कजम् ।
प्रगृह्य रक्ष मां विष्णो आग्नेय्यां यज्ञशूकर ॥
चर्म्म सूर्य्यशतं गृह्य खड्गं चन्द्रसमं तथा ।
नैरृत्यां माञ्च रक्षस्व दिव्यमूर्त्ते नृकेशरिन् ॥
वैजयन्तीं प्रगृह्य त्वं श्रीवत्स्यकण्ठभूषण ।
वायव्यां रक्ष मां देव अश्वशीर्ष नमोऽस्तु ते ॥
वैनतेयं समारुह्य अन्तरीक्षे जनार्द्दन ।
मां त्वं रक्षाजित सदा नमस्तेऽस्त्वपराजित ॥
विशालाक्षं समारुह्य रक्ष मां त्वं रसातले ।
अकूपार नमस्तुभ्यं महामीन नमोऽस्तु ते ॥
करशीर्षाङ्घ्रिसर्व्वेषु तथाष्टभुजपञ्जरम् ।
कृत्वा त्वं रक्ष मां देव नमस्ते पुरुषोत्तम ॥
एतदुक्तं भगवता वैष्णवं पञ्जरं महत् ।
पुरा रक्षार्थमीशेन कात्यायन्या द्बिजोत्तम ॥
यदा सा नाशयामास दानवं महिषासुरम् ।
चामरं रक्तबीजञ्च तथान्यान् सुरकण्टकान् ॥”
इति वामने १७ अध्यायः ॥

विष्णुपदं, क्ली, (विष्णोः पदम् ।) आकाशम् ।

इत्यमरः ॥ (यथा, रघुवंशे । १६ । २८ ।
“वसुन्धराविष्णु पदं द्वितीय-
मध्यारुरोहेव रजश्छलेन ॥”)
क्षीरोदः । इति मेदिनी ॥ पद्मम् । इति हेम-
चन्द्रः ॥ (तीर्थविशेषः । यथा, महाभारते ।
७ । ८३ । ९५ ।
“तत्र विष्णुपदे स्नात्वा अर्च्चयित्वा च वामनम् ।
सर्व्वपापविशुद्धात्मा विष्णुलोकं स गच्छति ॥”
कैलासपर्व्वतस्य स्थानविशेषः । यथा, महा-
भारते । ५ । १११ । २२ ।
“अत्र विष्णुपदं नाम क्रमता विष्णुना कृतम् ॥”
पर्व्वतविशेषः । यथा, हरिवंशे । ३१ । ४३ ।
“तेन चित्ररथेनाथ तदा विष्णुपदे गिरौ ॥”)
विष्णोः स्थानम् । यथा,
“अपुण्यपुण्योपरमे क्षीणाशेषाप्तिहेतवः ।
यत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदम् ॥
धर्म्मध्रुवाद्यास्तिष्ठन्ति यत्र ते लोकसाक्षिणः ।
तत्सार्ष्ट्योत्पन्नयोगेद्धास्तद्विष्णोः परमं पदम् ॥
यत्रैतदोतं प्रोतं च यद्भूतं सचराचरम् ।
भाव्यञ्च विश्वं मैत्रेय तद्विष्णोः परमं पदम् ॥
दिवीव चक्षुराततं विततं तन्महात्मनाम् ।
विवेकज्ञानवृद्धञ्च तद्धि विष्णोः परं पदम् ॥”
इति विष्णुपुराणे २ अंशे ८ अध्यायः ॥
भ्रूमध्यम् । यथा, --
“अरुन्धतीं ध्रुवञ्चैव विष्णोस्त्रीणि पदानि च ।
आसन्नमृत्युर्नो पश्येच्चतुर्थं मातृमण्डलम् ॥
अरुन्धती भवेज्जिह्वा ध्रुवो नासाग्रमुच्यते ।
विष्णोः पदानि भ्रूमध्ये नेत्रयोर्म्मातृमण्डलम् ॥”
इति काशीखण्डे ४२ अध्याये १३ । १४ श्लोकौ ॥

विष्णुपदी, स्त्री, (विष्णोः पदं स्थानं यस्याः ।

गौरादित्वात् ङीष् ।) गङ्गा । इत्यमरः ॥ (यथा,
भागवते । १ । १९ । ७ ।
पृष्ठ ४/४५९
“इति व्यवच्छिद्य स पाण्डवेयः
प्रायोपवेशं प्रति विष्णुपद्याम् ।
दध्यौ मुकुन्दाङ्घ्रिमनन्यभावो
मुनिव्रतो मुक्तसमस्तसङ्गः ॥”)
अस्याः कारणं यथा, --
नारद उवाच ।
“कलेः पञ्चसहस्राब्दे समतीते सुरेश्वरी ।
क्व गता सा महाभाग तन्मे व्याख्यातुमर्हसि ॥
नारायण उवाच ।
गङ्गा सरस्वती लक्ष्मीश्चैतास्तिस्रो हरेः प्रियाः ।
तुलसीसहिता ब्रह्मन् चतस्रः कीर्त्तिताः श्रुतौ ॥
नारद उवाच ।
बभूव सा मुनिश्रेष्ठ गङ्गा नारायणप्रिया ।
अहो केन प्रकारेण तन्मे व्याख्यातुमर्हसि ॥
नारायण उवाच ।
पुरा बभूव गोलोके गङ्गा सा द्रवरूपिणी ।
राधाकृष्णाङ्गसंभूता तदंशा तत्स्वरूपिणी ॥
द्रवाधिष्ठातृदेवी सा रूपेणाप्रतिमा भुवि ।
सा सकामा कृष्णपार्श्वे समुवास सलज्जिता ॥
प्रफुल्लवदना हर्षान्नवसङ्गमलालसा ।
मूर्च्छिता प्रभुरूपेण पुलकाङ्कितविग्रहा ॥
एतस्मिन्नन्तरे तत्र विद्यमाना च राधिका ।
गोपीत्रिंशत्कोटिवृता कोटिचन्द्रसमप्रभा ॥
कोपेन रक्तपद्मास्या रक्तपङ्कजलोचना ।
सुचारुरागसंयुक्तमोष्ठं कम्पयती रुषा ॥
ताञ्च दृष्ट्वा समुत्तस्थौ कृष्णः सादरपूर्ब्बकम् ।
उत्थाय गङ्गा सहसा सम्भाषाञ्च चकार सा ॥
कुशलं परिपप्रच्छ भीतातिविनयेन च ।
ध्यानेन शरणापन्ना श्रीकृष्णचरणाम्बुजे ॥
तद्धृत्पद्मस्थितो विष्णुर्भीतायै चाभयं ददौ ।
बभूव स्थिरचित्ता सा सर्व्वेश्वरवरेण च ॥
ऊर्द्ध्वसिंहासनस्थाञ्च राधां गङ्गा ददर्श सा ।
एतस्मिन्नन्तरे राधा जगदीशमुवाच सा ॥
केयं प्राणेश कल्याणी सस्मिता तन्मुखाम्बुजम् ।
पश्यन्ती सस्मितं पार्श्वे सकामा बक्रलोचना ॥
त्वञ्चापीमां सन्निरीक्ष्य सकामः सस्मितः सदा ।
मयि जीवति गोलोके भूता दुर्वृत्तिरीदृशी ॥
त्वमेवैवञ्च दुर्वृत्तं वारंवारं करोषि च ।
क्षमां करोमि प्रेम्णा च स्त्रीजातिः स्निग्ध-
मानसा ॥
संगृह्येमां प्रियामिष्टां गोलोकाद्गच्छ लम्पट ।
अन्यथा न हि ते भद्रं भविष्यति व्रजेश्वर ॥
इत्येवमुक्त्वा सा राधा रक्तपङ्कजलोचना ।
गङ्गां वक्तुं समारेभे नम्रास्यां लज्जितां सतीम् ।
गङ्गा रहस्यं विज्ञाय योगेन सिद्धयोगिनी ।
तिरोभूय सभामध्यात् स्वजलं प्रविवेश सा ॥
राधा योगेन विज्ञाय सर्व्वत्रावस्थिताञ्च ताम् ।
पानं कर्त्तुं समारेभे गण्डूषात् सिद्धयोगिनी ॥
गङ्गा रहस्यं विज्ञाय योगेन सिद्धयोगिनी ।
श्रीकृष्णचरणाम्भोजं विवेश शरणं ययौ ॥
गोलोकञ्चैव वैकुण्ठं ब्रह्मलोकादिकं तथा ।
ददर्श राधा सर्व्वत्र नैव गङ्गां ददर्श सा ॥
ब्रह्मविष्णुशिवानन्तधर्म्मेन्द्रेन्दुदिवाकराः ।
मनवो मुनयः सर्व्वे देवाः सिद्धास्तपस्विनः ॥
गोलोकञ्च समाजग्मुः शुष्ककण्ठोष्ठतालुकाः ।
सर्व्वे प्रणेमुर्गोविन्दं सर्व्वेशं प्रकृतेः परम् ।
विज्ञाय तदभिप्रायं तानुवाच सुरेश्वरः ॥
श्रीभगवानुवाच ।
आगताः सुमहाभागा गङ्गानयनकारणात् ।
गङ्गा मच्चरणाम्भोजे भयेन शरणं गता ॥
राधेमां पातुमिच्छन्ती दृष्ट्वा मां सन्निधानतः ।
दास्यामीमां बहिष्कृत्य यूयं कुरुत निर्भयाम् ॥
श्रीकृष्णस्य वचः श्रुत्वा सस्मितः कमलोद्भवः ।
तुष्टाव सर्व्वाराध्यां तां राधां श्रीकृष्णपूजिताम् ॥
वक्त्रैश्चतुर्भिः संस्तूय भक्तिनम्रात्मकन्धरः ।
धाता चतुर्णां वेदानामुवाच चतुराननः ॥
गङ्गा त्वदङ्गसंभूता प्रभोश्च रासमण्डले ।
युवयोर्द्रवरूपा सा मुग्धयोः शङ्करस्वरात् ॥
कृष्णांशा च त्वदंशा च त्वत्कन्यासदृशी प्रिया ।
त्वन्मन्त्रग्रहणं कृत्वा करोतु पूजनं तव ॥
भविष्यति पतिस्तस्या वैकुण्ठेशश्चतुर्भुजः ।
ब्रह्मणो वचनं श्रुत्वा स्वीचकार च सस्मिता ॥
बहिर्बभूव सा कृष्णपादाङ्गुष्ठनखाग्रतः ।
तत्रैव संवृता शान्ता तस्थौ तेषाञ्च मध्यतः ॥
उवास तोयादुत्थाय तदधिष्ठातृदेवता ।
तत्तोयं ब्रह्मणा किञ्चित् स्थापितञ्च कमण्डलौ ॥
किञ्चिद्दधार शिरसि चन्द्रार्द्धे चन्द्रशेखरः ।
गङ्गायै राधिकामन्त्रं प्रददौ कमलोद्भवः ॥
गङ्गा तामेव संपूज्य वैकुण्ठं प्रययौ सती ।
गोलोके च स्थिता गङ्गा वैकुण्ठे शिवलोकके ॥
ब्रह्मलोके तथान्यत्र यत्र तत्र पुरा स्थिता ।
तत्रैव सा गता गङ्गा चाज्ञया परमात्मनः ॥
निर्गता विष्णुपादाब्जात् तेन विष्णुपदी स्मृता ॥”
इति श्रीब्रह्मवैवर्त्ते प्रकृतिखण्डे गङ्गोपाख्यानं ९
अध्यायः ॥ * ॥ वृषवृश्चिकसिंहकुम्भसंक्रान्तयः ।
यथा, भविष्यमात्स्वज्योतिषेषु ।
“धनुर्मिथुनकन्यासु मीने च षडशीतयः ।
वृषवृश्चिककुम्भेषु सिंहे विष्णुपदी स्मृता ॥”
अपि च ।
“एवञ्च षडशीत्यादिष्ववकाशमलभमानम् ।
अर्व्वाक् षोडश विज्ञेया नाड्यः पश्चाच्च षोडश ॥
कालः पुण्योऽर्कसंक्रान्तेर्विद्वद्भिः परिकीर्त्तितः ॥”
इति शातातपीयं दिवा विष्णुपदीविषयम् ॥
अतएव जावालीबृहद्बशिष्ठौ ।
“पुण्यायां विष्णुपद्याञ्च प्राक् पश्चादपि षोडश ।”
तत्र स्नानादिफलम् ।
“अयने कोटिगुणितं लक्षं विष्णुपदीषु च ।
षडशीतिसहस्रन्तु षडशीत्यामुदाहृतम् ॥”
इति तिथ्यादितत्त्वम् ॥

विष्णुपदीचक्रं, क्ली, (विष्णुपद्याश्चक्रम् ।) ज्यैष्ठा-

ग्रहायणभाद्रफाल्गुनमासीयरविसंक्रमकालीन-
नक्षत्रविन्यासाङ्गकशुभाशुभफलज्ञापकनराकार-
चक्रम् । यथा, --
“ऋक्षे संक्रमणं यत्र विष्णुपद्यां मुखे तु तत् ।
चत्वारि दक्षिणे बाहौ त्रीणि त्रीणि पदद्वये ॥
चत्वारि वामबाहौ च हृदये पञ्च निर्द्दिशेत् ।
अक्ष्णोर्द्वयं द्वयं योज्यं मूर्ध्नि द्वौ चैककं गुदे ॥”
फलं यथा, --
“रोगो भोगस्तथा यानं बन्धनं लाभ एव च ।
ऐश्वर्य्यं राजपूजा च अपमृत्युरिति क्रमात् ॥”
इति ज्योतिस्तत्त्वम् ॥

विष्णुभक्तिः, स्त्री, (विष्णौ भक्तिः ।) भगवत्सेवा ।

यथा, --
सूत उवाच ।
“विष्णुभक्तिं प्रवक्ष्यामि यया सर्व्वमवाप्यते ।
यथा भक्त्या हरिस्तुष्येत्तथा नान्येन केनचित् ॥
महतः श्रेयसो मूलं प्रवसः पुण्यसन्ततेः ।
जीवितस्य फलं स्वादु ददाति स्मरणं हरेः ॥
भज इत्येष वै धातुः सेवायां परिकीर्त्तितः ।
तस्मात् सेवा बुधैः प्रोक्ता भक्तिसाधनभूयसी ॥
ते भक्ता लोकनाथस्य नामकर्म्मादिकीर्त्तने ।
मुञ्चन्त्यश्रूणि संहर्षात् ये च हृष्टतनूरुहाः ॥
जगद्धातुर्म्महेशस्य दिव्याज्ञा चरणाव्ययाः ।
इह नित्यक्रियाः कुर्य्युः स्निग्धा ये वैष्णवास्तु ते ॥
प्रणामपूर्ब्बकं क्षान्त्या यो वदेद्वैष्णवो हि सः ।
तद्भक्तजनवात्सल्यम्पूजायाञ्चानुमोदनम् ।
तत्कथाश्रवणे प्रीतिः स्वरनेत्राङ्गविक्रिया ॥
येन सर्व्वात्मना विष्णौ भक्त्या भावो निवेशितः ।
विप्रेष्वीश्वरदृष्टिश्च महाभागवतो हि सः ॥
विष्णोश्च कारणं नित्यं तदन्नं दम्भवर्जितम् ।
स्वयमभ्यर्च्चनञ्चैव यो विष्णुं चोपजीवति ॥
भक्तिरष्टविधा ह्येषा यस्मिन् म्लेच्छेऽपि वर्त्तते ॥
स विप्रेन्द्रो मुनिः श्रीमान्सजातः स च पण्डितः ।
तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा हरिः ॥
स्मृतः संभाषितोऽद्यापि पूजितो वा द्बिजोत्तमः ।
पुनाति भगवद्भक्तस्तपसोऽपि यदृच्छया ॥
प्रणताय प्रपन्नाय तवास्मीति च यो वदेत् ।
अभयं सर्व्वभूतेभ्यो दद्यादेतद्व्रतं हरेः ॥
मन्त्रयाजिसहस्रेभ्यः सर्व्ववेदान्तपारगाः ।
सर्व्ववेदान्तवित् कोट्या विष्णुभक्तो विशिष्यते ।
ऐकान्तिकाश्च पुरुषा गच्छन्ति परमं पदम् ॥
एकान्तेनासमो विष्णुर्यस्मादेषां परायणः ।
तस्मादेकान्तिनः प्रोक्तास्तद्भागवतचेतसः ॥
प्रियाणामपि सर्व्वेवां देवदेवस्य सुप्रियः ।
आपत्स्वपि सदा यस्य भक्तिरव्यभिचारिणी ॥
या प्रीतिरविवेकानां विषयेष्वनपायिनी ।
विष्णुं संस्मरतः सा मे हृदयान्नोपसर्पतु ॥
अन्तर्गतोऽपि वेदानां सर्व्वशास्त्रार्थवेद्यपि ।
यो न सर्व्वेश्वरे भक्तस्तं विद्यात् पुरुषाधमम् ॥
नाधीतवेदशास्त्रोऽपि न कृताध्वरसंस्तरः ।
यो भक्तिं वहते विष्णौ तेन सर्व्वं कृतं भवेत् ॥
यज्ञानां क्रतुमुख्यानां सर्व्वेषां पारगा अपि ।
न तां यान्ति गतिं भक्त्या यां यान्ति मुनिसत्तम ॥
यः कश्चिद्बैष्णवो लोके मिथ्याचारोऽप्यनाश्रमी ।
पुतानि सकलान् लोकान् सहस्रांशुरिबोदितः ॥
ये नृशंसा दुरात्मानः पापाचाररतास्तथा ।
पृष्ठ ४/४६०
तेऽपि यान्ति परं स्थानं नारायणपरायणाः ॥
दृढा जनार्द्दने भक्तिर्यदैवाव्यभिचारिणी ।
तदा कियत् स्वर्गसुखं सैव निर्व्वाणहैतुकी ॥
भ्राम्यतां तत्र संसारे नराणां कर्म्मदुर्गमे ।
हस्तावलम्बनो ह्येको भक्तितुष्टो जनाद्दनः ॥
न शृणोति गुणान् दिव्यान् देवदेवस्य चक्रिणः ।
स नरो वधिरो ज्ञेयः सर्व्वधर्म्मबहिष्कृतः ॥
नाम्नि संकीर्त्तिते विष्णोर्यस्य पुंसो न जायते ।
शरीरं पुलकोद्भासि तद्भवेत् कुणपोपमम् ॥
यस्मिन् स्मृते द्विजश्रेष्ठ मुक्तिरप्यचिराद्भवेत् ।
विष्णौ निविष्टमनसां किं पुनर्वृजिनक्षयः ॥
स्वपुरुषमभिबीक्ष्य पाशहस्तं
वदति यमः किल तस्य कर्णमूले ।
परिहर मधुसूदनप्रपन्नान्
प्रभुरहमन्यनृणां न वैष्णवानाम् ॥
अपि चेत् सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥
क्षिप्रं भवति धर्म्मात्मा शश्वच्छान्तिं नियच्छति ।
विप्रेन्द्र प्रतिजानीहि विष्णुभक्तो न नश्यति ॥
धर्म्मार्थकामैः किन्तस्य मुक्तिस्तस्य करे स्थिता ।
समस्तजगतां मूले यस्य भक्तिः स्थिरा हरौ ॥
दैवी ह्येषा गुणमयी हरेर्म्माया दुरत्यया ।
तमेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥
कियदाराधने पुंसामिष्यते हरिमेधसः ।
भक्त्यैवाराध्यते विष्णुर्नान्यत्तत्तोषकारणम् ॥
न दानैर्विविधैर्दत्तैर्न पुष्पैर्नानुलेपनैः ।
तोषमेति महात्मासौ यथा भक्त्या जनार्द्दनः ॥
संसारविषवृक्षस्य द्वे फले ह्यमृतोपमे ।
कदाचित् केशवे भक्तिस्तद्भक्तैर्व्वा समागमः ॥
पत्रेषु पुष्पेषु फलेषु तोये-
ष्वकष्टलभ्येषु सदैव सत्सु ।
भक्त्यैकलभ्ये पुरुषे पुराणे
मुक्त्यै कथं न क्रियते प्रयत्नः ॥
आस्फोटयन्ति पितरः प्रनृत्यन्ति पितामहाः ।
वैष्णवोऽस्मत्कुले जातः स नः सन्तारयिष्यति ॥
अज्ञानिनः सुरवरं समधिक्षिपन्ति
ये पापिनोऽपि शिशुपालसुयोधनाद्याः ।
मुक्तिं गताः स्मरणमात्रविधूतपापाः
कः संशयः परमभक्तिमतां जनानाम् ॥
शरणं तं प्रपन्ना ये ध्यानयोगविवर्ज्जिताः ।
तेऽपि मृत्युमतिक्रम्य यान्ति तद्वैष्णवं पदम् ॥
भवोद्भवक्लेशशताहतस्तथा
परिभ्रमन्निन्द्रियबन्धकैः पथैः ।
नियम्यतां माधव मे मनोहय-
स्त्वदङ्घ्रिशङ्कौ दृढभक्तिबन्धने ॥
विष्णुरेव परं ब्रह्म ह्यभेदमिह पठ्यते ।
वेदसिद्धान्तमार्गेषु तं न जानन्ति मोहिताः ॥
वसति हृदि सनातने च तस्मिन्
भवति पुमान् जगतोऽस्य सौम्यरूपः ।
क्षितिवसनमतिरम्यमात्मनोऽन्तः
कथयति चारुतयैव मानपतेः ॥”
इति गारुडे २३१ अध्यायः ॥

विष्णुमाया, स्त्री, (विष्णोर्माया ।) दुर्गा । यथा, --

नारद उवाच ।
“दुर्गा नारायणीशाना विष्णुमाया शिवा सती ।
नित्या सत्या भगवती सर्व्वाणी सर्व्वमङ्गला ॥
अम्बिका वैष्णवी गौरी पार्व्वती च सनातनी ।
नामानि कौथुमोक्तानि शुभानि शुभदानि च ॥
अर्थं षोडशनाम्नाञ्च सर्व्वेषामीप्सितं वरम् ।
ब्रूहि वेदविदां श्रेष्ठ वेदोक्तं सर्व्वसम्मतम् ॥
नारायण उवाच ।
सृष्ट्वा मायां पुरा सृष्टौ विष्णुना परमात्मना ।
मोहितं मायया विश्वं विष्णुमाया च
कीर्त्तिता ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५४ अध्यायः ॥
अपि च ।
ब्रह्मोवाच ।
“विष्णुमायामृते दक्ष महामायां जगन्मयीम् ।
नान्या संमोहकर्त्री स्यात् सन्ध्या सावित्र्यु-
पासिका ॥
तस्मादहं विष्णुमायां योगनिद्रां जगत्प्रसूम् ।
स्तौमि सा चारुरूपेण शङ्करं मोहयिष्यति ॥
भवांश्च दक्ष तामेव यजतां विश्वरूपिणीम् ।
यथा तव सुता भूत्वा हरजाया भविष्यति ॥”
इति कालिकापुराणे ५ अध्यायः ॥

विष्णुयशाः, [स्] पुं, (विष्णु व्यापकं यशो यस्य ।

नारायणपितृत्वादेवास्य तथात्वम् । यद्वा,
विष्णुना ग्रहीतव्यजन्मना यशो यस्य ।) ब्रह्म-
यशःपुत्त्रः । स च कल्किपिता । यथा, --
नारद उवाच ।
“अहो बलवती माया सर्व्वाश्चर्य्यमयी शुभा ।
पितरं मातरं विष्णोर्नैव मुञ्चति कर्हिचित् ॥
पूर्णो नारायणो यस्य सुतः कल्किर्जगत्पतिः ।
तं विहाय विष्णुयशा मत्तो मुक्तिमभीप्सति ॥
विविच्येत्थं ब्रह्मसुतः प्राह ब्रह्मयशःसुतम् ।
विविक्ते विष्णुयशसं ब्रह्मसम्पद्विवर्द्धनम् ॥”
इति कल्किपुराणे ३० अध्यायः ॥

विष्णुरथः, पुं, (विष्णो रथः ।) गरुडः । इत्यमरः ॥

विष्णोः स्यन्दनश्च ॥

विष्णुरातः, पुं, (विष्णुना रातो रक्षितः ।) परी-

क्षिद्राजः । यथा, --
“दैवेनाप्रतिघातेन शुक्ले संस्थामुपेयुषि ।
रातो वोऽनुग्रहार्थाय विष्णुना प्रभविष्णुना ॥
तस्मान्नाम्ना विष्णुरातो लोके ख्यातिं गमिष्यति ।
न सन्देहो महाभाग महाभागवतो महान् ॥”
इति श्रीभागवते १ स्कन्धे १२ अध्यायः ॥

विष्णुलिङ्गी, स्त्री, वर्त्तिकापक्षी । इति त्रिकाण्ड-

शेषः ॥

विष्णुवल्लभा, स्त्री, (विष्णोर्व्वल्लभा ।) तुलसी ।

इति राजनिर्घण्टः ॥ लक्ष्मीः । यथा, --
“त्रैलोक्यपूजिते मातः कमले विष्णु वल्लभे ।
यथा त्वमचला कृष्णे तथा भव मयि स्थिरा ॥”
इति तन्त्रसारः ॥
अग्निशिखावृक्षः । इति शब्दचन्द्रिका ॥

विष्णुवाहनं, क्ली, (विष्णोर्व्वाहनम् ।) गरुडः ।

इति हेमचन्द्रः । २ । १४४ ॥

विष्णुवाह्यः, पुं, (विष्णुर्व्वाह्यो येन ।) गरुडः ।

इति शब्दरत्नावली ॥

विष्णुशिला, स्त्री, (विष्णु नाधिष्ठिता शिला ।)

शालग्रामशिला । कलौ तस्य स्थितिकालो
यथा, --
“अयुताब्दे कलेर्याते त्यजेद्विष्णु शिला महीम् ।
तदर्द्धाज्जाह्नवीतोयं तदर्द्धाद्देवताशिला ॥”
इति मेरुतन्त्रे ५ प्रकाशः ॥

विष्णु शृङ्खलः, पुं, योगविशेषः । यथा, मात्स्ये ।

“द्वादशी श्रवणस्पृष्टा स्पृशेदेकादशीं यदा ।
स एष वैष्णवो योगो विष्णु शृङ्खलसंज्ञितः ॥
तस्मिन्नुपोष्य विधिवन्नरः सङ्क्षीणकल्मषः ।
प्राप्नोत्यनुत्तमां सिद्धिं पुनरावृत्तिदुर्ल्लभाम् ॥”
इति ॥
विष्णु धर्म्मोत्तरे द्वितीयविष्णु शृङ्खलयोगमाह ।
“एकादशी द्वादशी च वैष्णव्यमपि भं भवेत् ।
तद्विष्णुशृङ्खलं नाम विष्णुसायुज्यकृद्भवेत् ।
तस्मिन्नुपोषणाद्गच्छेच्छ्वेतद्वीपपुरं ध्रुवम् ॥”
इति श्रीहरिभक्तिविलासे १५ विलासः ॥

विष्फारः, पुं, (वि + ष्फुर स्फुरणे + घञ् । “स्फुरति-

स्फुलत्योर्घञि ।” ६ । १ । ४७ । इत्यात्वम् । “स्फुरति
स्फुलत्योर्निर्निविभ्यः ।” ८ । ३ । ७६ । इति षत्वञ्च ।)
धनुर्गुणशब्दः । इत्यमरः ॥ धनुर्गुणस्य स्वान-
ष्टङ्कारो विष्फारः । स्फुर शि घ स्फुर्त्तौ चले
घञस्य दैधावोदेति निपातः । किंवा स्फुरधातो
रूपं विष्कभ्नेत्यादिना पाक्षिकषत्वात् विष्फारो
दन्त्यसो मूर्द्धन्यषश्च । इति भरतः ॥

विष्यः, त्रि, (विषेण वध्यः । विष + “नौवयो-

धर्म्मेति ।” ४ । ४ । ९१ । इति यत् ।) विषेण यो
वध्यः । इत्यमरः ॥ (विषेण क्रीतः । विषाय
हित इति वा । इत्यर्थे “उगवादिभ्यो यत् ।”
५ । १ । २ । इति यत् ॥)

विष्वः, त्रि, हिंस्रः । इत्युणादिकोषः ॥

विष्वक्, व्य, परितः । सर्व्वतः । इत्यमरः ॥ (यथा,

भागवते । ६ । ९ । १३ ।
“कृतान्त इव लोकानां युगान्तसमये यथा ।
विष्वग्विवर्द्धमानं तमिषुमात्रं दिने दिने ॥”)

विष्वक्, क्ली, विषुवम् । इति शब्दरत्नावली ॥

विष्वं अञ्चति इत्यर्थे त्रिलिङ्गम् ॥ (यथा, भाग-
वते । १ । ९ । ३४ ।
“युधि तुरगरजोविधूम्रविष्वक्-
कचलुलितश्रमवार्य्यलङ्कृतास्ये ॥”)

विष्वक्सेनः, पुं, विष्णुः । इत्यमरः ॥ (यथा, शिशु-

पालवधे । १० । ५५ ।
“साम्यमाप कमलासखविष्वक्-
सेनसेवितयुगान्तपयोधेः ॥”)
विष्णोर्निर्म्माल्यधारी । यथा, --
“निर्म्माल्यधारी विष्णोस्तु विष्वक्सेनश्चतुर्भुजः ।
शङ्खचक्रगदापाणिर्दीर्घश्मश्रुर्जटाधरः ॥
रक्तपिङ्गलवर्णस्तु सितपद्मोपरिस्थितः ।
पृष्ठ ४/४६१
पतृतीयः स्वरान्तेन संयुतो बिन्दुनेन्दुना ।
कीर्त्तितस्तस्य मन्त्रोऽयं तेन तं परिपूजयेत् ॥”
इति कालिकापुराणे ८२ अध्यायः ॥
त्रयोदशमनुः । यथा, --
“ततश्च मेरुसावर्णः ब्रह्मसूनुर्म्मनुः स्मृतः ।
ऋतुश्च ऋतुधामा च विष्वक्सेनो मनुस्तथा ॥”
इति मात्स्ये ९ अध्यायः ॥

विष्वक्सेनप्रिया, स्त्री, (विष्वक्सेनस्य प्रिया ।)

वाराही । इत्यमरः ॥ चामार आलु इति
भाषा ॥ लक्ष्मीः । इति मेदिनी । ये, १३४ ॥

विष्वक्सेना, स्त्री, प्रियङ्गुः । इत्यमरः ॥

विष्वणनं, क्ली, भोजनम् । इति जटाधरः ॥

शब्दकरणम् । यथा । विष्वणति बीणा । इति
मुग्धबोधव्याकरणम् ॥

विष्वद्र्यङ्, [च्] त्रि, (विष्वगञ्चतीति । अञ्च +

क्विप् । “विष्वग्देवयोश्चेति ।” ६ । ३ । ९२ । इति
टेः स्थाने अद्रीत्यादेशः ।) सर्व्वतोगामी ।
इत्यमरः ॥ (यथा, माघे । १८ । २५ ।
“विष्वद्रीचीर्विक्षिपन् सैन्यवीची-
राजावन्तः क्वापि दूरं प्रयातम् ॥”

विष्वाणः, पुं, भक्षणम् । इति हेमचन्द्रः ॥

विसं, क्ली, मृणालम् । इत्यमरः ॥ (यथा, कला-

विलासे । ६ ।
“नवविसकिसलयकवलन-
कषायकलहंसकलरवो यत्र ।
कमलवनेषु प्रसरति
लक्ष्म्या इव नूपुरारावः ॥”)

विसंवादः, पुं, (वि + सं + वद + घञ् ।) विप्र-

लम्भः । इत्यमरः ॥ (यथा, महाभारते । १२ ।
२५८ । ११ ।
“अद्रोहमविसंवादं प्रवर्त्तन्ते तदाश्रयाः ॥”)

विसकण्ठिका, स्त्री, (विससदृशः शुभ्रः कण्ठो

यस्या इति बहुव्रीहौ कन् टापि अत इत्वम् ।)
बलाका । इत्यमरः ॥

विसकुसुमं, क्ली, (विसस्य कुसुमम् ।) कमलम् ।

इति राजनिर्घण्टः ॥

विसङ्कटः, पुं, सिंहः । इति शब्दचन्द्रिका ॥

इङ्गुदीवृक्षः । इति राजनिर्घण्टः ॥

विसजं, क्ली, (विसाज्जायते इति । जन् + डः ।)

पद्मम् । विसं मृणालं तत्र जातत्वात् ॥

विसनाभिः, पुं, (विसं नाभिरुत्पत्तिस्थानं यस्य ।)

पद्मिनी । पद्मसमूहः । इति त्रिकाण्डशेषः ॥

विसप्रसूनं, क्ली, पद्मम् । इत्यमरः ॥ (यथा, शिशु-

पालवधे । ५ । २८ ।
“जक्षुर्व्विसं धृतविकासिविसप्रसूनाः ॥”)

विसरः, पुं, (विसरतीति । वि + सृ + पदाद्यच् ।)

समूहः । इत्यमरः ॥ प्रसरः । इति मेदिनी ।
रे, २१७ ॥

विसर्गः, पुं, (वि + सृज + घञ् ।) दानम् । (यथा,

रघुवंशे । ४ । ८६ ।
“आदानं हि विसर्गाय सतां जलमुचामिव ॥”)
व्यागः । (यथा, महाभारते । १ । ३२ । १३ ।
“नानाशस्त्रविसर्गैस्तैर्व्वध्यमानः समन्ततः ॥”)
मलनिर्गमः । विसर्ज्जनीयः । (यथा, भाग-
वते । ६ । ८ । १० ।
“सविसर्गं फडन्तं तत् सर्व्वदिक्षु विनिर्द्दिशेत् ॥”)
सूर्य्यस्यायनभेदः । इति मेदिनी । गे, ५० ॥
मोक्षः । इति हलायुधः ॥ विसृष्टः । इति
शब्दरत्नावली ॥ विशेषसृष्टिः । यथा, --
“पुरुषानुगृहीतानामेतेषां वासनामयः ।
विसर्गोऽयं समाहारो बीजाद्बीजं चराचरम् ॥”
इति श्रीभागवतम् ॥
विसर्ज्जनीयस्य पर्य्यायः ।
“अः सर्गो रसना वक्त्रं विसर्गश्च द्बिबिन्दुकः ।
नादोऽर्द्धेन्दुरर्द्धमात्रा कला राशी सदाशिवः ।
अनुच्चार्य्या तुरीया च विश्वमातृकला परा ॥”
इति बीजाभिधानम् ॥
अपि च ।
“अः कण्ठको महासेनः कला पूर्णामृता हरिः ।
इच्छा भद्रा गणेशश्च रतिविद्यामुखी सुखम् ॥
द्विबिन्दुरसना सोमोऽनिरुद्धो दुःखसूचकः ।
द्विजिह्वः कुण्डलं वक्रं सर्गः शक्तिर्निशाकरः ।
सुन्दरी सुयशानन्ता गणनाथो महेश्वरः ॥”
इति बीजवर्णाभिधानान्तरम् ॥
अन्यच्च ।
“विसर्गः सर्गमाख्यातो वियद्विषयमासनः ।
अनिरुद्धो महेशानि कालज्ञोऽपि रमापि च ॥”
इति वर्णाभिधानम् ॥
(प्रयोगः । यथा, भागवते । १ । ५ । ११ ।
“तद्वाग्विसर्गो जनताघविप्लवः ॥”)

विसर्ज्जनं, क्ली, (वि + सृज् + ल्युट् ।) दानम् ।

परित्यागः । इत्यमरः ॥ (यथा, रघुवंशे । ८ । २५ ।
“श्रुतदेहविसर्ज्जनं पितु-
श्चिरमश्रूणि विमुच्य राघवः ॥”)
संप्रेषणम् । इति मेदिनी । ने, २०५ ॥ (पुं, यदुवं-
शीयानामन्यतमः । यथा, भागवते । ११ । ३० । १८ ।
“विसर्ज्जनाः कुकुराः कुन्तयश्च
मिथस्तु जघ्नुः सुविसृज्य सौहृदम् ॥”
विशेषेण सृज्यते इति । वि + सृज + कर्म्मणि
ल्युट् । उत्पादिते, त्रि । यथा, भागवते । १० ।
१६ । ५७ ।
“त्वया सृष्टमिदं विश्वं धातुर्गुणविसर्ज्जनम् ॥”)

विसर्पः, पुं, (वि + सृप + घञ् ।) रोगविशेषः ।

तत्पर्य्यायः । विसर्पिः २ सचिवामयः ३ । इति
राजनिर्घण्टः ॥ तत्र विप्रकृष्टं निदानं संख्यां
निरुक्तिञ्चाह ।
“लवणाम्लकटूष्णादिसेवनाद्दोषकोपतः ।
विसर्पः सप्तधा ज्ञेयः सर्व्वतः परिसर्पणात् ॥”
आदिशब्दाच्चरकोक्तहरितशाकशिण्डाकप्रभृ-
तीनां ग्रहणम् ॥ * ॥ सप्तधात्वं विषृणोति ।
“पृथक् त्रयस्त्रिभिश्चैको विसर्पा द्बन्द्वजास्त्रयः ।
वातिकः पैत्तिकश्चैव कफजः सान्निपातिकः
चत्वार एते वीसर्पा वक्ष्यन्ते द्वन्द्वजास्त्रयः ॥
आग्नेयो वातपित्ताभ्यां ग्रन्थाख्यः कफवातजः ।
यस्तु कर्दमको घोरः स पित्तकफसम्भवः ॥” * ॥
विसर्पदोषदूष्याणि संगृह्याह ।
“रक्तं लसीका त्वङ्मांसं दूष्यं दोषास्त्रयो मलाः ।
विसर्पाणां समुत्पत्तौ हेतवः सप्त धातवः ॥”
त्रयो मलाः वातपित्तकफाः । दोषाः दूषका
इत्यर्थः । अन्यथा दोषा मला इत्यत्र पुनरुक्ति-
दोषोऽगलिष्यत् ॥ * ॥ वातिकस्य लक्षणमाह ।
“तत्र वातात् परीसर्पो वातज्वरसमव्यथः ।
शोफस्फुरणनिस्तोदभेदायामार्त्तिहर्षवान् ॥”
परीसर्पो विसर्पः । वातज्वरसमव्यथः शिरो-
हृद्गात्रोदरशूलादियुक्तः । भेदः विदारणेनेव
व्यथा । आयामः आकर्षणेनेव व्यथा ॥ * ॥
पैत्तिकमाह ।
“पित्ताद्द्रुतगतिः पित्तज्वरलिङ्गोऽतिलोहितः ॥”
द्रुतगतिः शीघ्रप्रसरणशीलः ॥ * ॥ श्लैष्मिक-
माह ।
“कफात् कण्डुयुतः स्निग्धः कफज्वरसमानरुक् ॥”
सान्निपातिकमाह ।
“सन्निपातसमुत्थश्च सर्व्वरूपसमन्वितः ॥” * ॥
वातपैत्तिकस्याग्निविसर्पाख्यस्य च लक्षणमाह ।
“वातपित्तज्वरच्छर्द्दिमूर्च्छातीसारतृड् भ्रमैः ।
अस्थिभेदाग्निसदनतमकारोचकैर्युतः ॥
करोति सर्व्वमङ्गञ्च दीप्ताङ्गारावकीर्णवत् ।
यं यं देशं विसर्पश्च संसर्पति भवेत् स सः ॥
शान्ताङ्गारासितो नीलो रक्तो वा सूपचीयते ।
अग्निदग्ध इव स्फोटैः शीघ्रगत्वात् द्रुतञ्च सः ॥
मर्मानुसारी वीसर्पः स्यादतोऽतिबलस्ततः ।
व्यथेताङ्गं हरेत् संज्ञां निद्राञ्च श्वासमीरयेत् ॥
हिध्माञ्च संगतोऽवस्थामीदृशीं लभते नरः ।
क्वचिच्छर्मारतिग्रस्तो भूमिशय्यासनादिषु ॥
चेष्टमानस्ततः क्लिष्टो मनोदेहसमुद्भवाम् ।
दुःप्रबोधोऽश्नुते निद्रां सोऽग्निवीसर्प उच्यते ॥”
स्फोटैः उपचीयत इत्यन्वयः । मर्मानुसारी
हृदयानुसारी । हरेत् वीसर्प इत्यन्वयः । हिघ्मां
हिक्काम् । ईरयेत् उत्पत्तुं प्रेरयेत् । मनोदेह-
समुद्भवां निद्रां मरणरूपाम् । अश्नुते प्राप्नोति ॥ *
वातश्लैष्मिकग्रन्थिविसर्पमाह ।
“कफेन रुद्धः पवनो भित्त्वा तं बहुधा कफम् ।
रक्तं वा वृद्धरक्तस्य त्वक्शिरास्नायुमांसगम् ॥
दूषयित्वा तु दीर्घायुर्वृत्तस्थूलस्वरात्मनाम् ।
ग्रन्थीनां कुरुते मालां रक्तानां तीव्ररुग्जराम् ॥
श्वासकाशास्यवैरस्यशोषहिक्कावमिभ्रमैः ।
मोहवैवर्ण्यमूर्च्छाङ्गभङ्गाङ्गसदनैर्युतः ।
इत्ययं ग्रन्थिवीसर्पो वातश्लेष्मप्रकोपजः ॥”
कफेन स्वहेतुदुष्टेन पवनोऽपि स्वहेतुदुष्टः ।
तेनायं वातश्लेष्मिकः । तं कफं बहुधा भित्त्वा
रक्तं वा दूषयित्वा इत्यन्वयः । त्वगादिकमिति
रक्तविशेषणम् ॥ * ॥ पित्तश्लैष्मिकं कर्दमाख्यं
विसर्पमाह ।
“कफपित्तज्वरास्तम्भो निद्रातन्द्राशिरोरुजा ।
अङ्गावसादविक्षेपप्रलापारोचकभ्रमाः ॥
मूर्च्छाग्निहानिर्भेदोऽस्थ्नां पिपासेन्द्रियगौरवम् ।
पृष्ठ ४/४६२
आमोपवेशनं लेपस्रोतसाञ्च विसर्पति ॥
प्रायेणामाशये गृह्णन्नेकदेशं न चातिरुक् ।
पिडकैरवकीर्णेति पीतलोहितपाण्डुरैः ॥
स्निग्धोऽसितो मेचकाभो मलिनः शोफवान् गुरुः ।
गम्भीरपाकः प्राज्योष्मा क्लिन्नः क्लिष्टो विदीर्य्यते ।
पङ्कत्वक् शीर्णमांसस्य स्पष्टस्नायुशिरागणः ।
शवगन्धिश्च वीसर्पः कर्द्दमाख्यमुशन्ति तम् ॥”
स च सर्पति एकदेशमित्यन्वयः । पिडकैः
पिडकाभिः । अवकीर्णः व्याप्तः । असितः
कृष्णः । मेचकः रूक्षकृष्णः । प्राज्योष्मा प्रचु-
रोष्मा । स्पष्टः क्लिन्नोऽवदीर्य्यते स्पृष्टः सन्नार्द्रो
भवति विदीर्य्यते च । पङ्कत्वक् कर्दमवर्णा त्वग्-
यत्र सः । शीर्णमांसः गलितमांसः । अतएव
स्पष्टस्नायुशिरागणः ॥ * ॥ सान्निपातिक-
माह ।
“सन्निपातसमुत्थस्तु सर्व्वरूपसमन्वितः ॥” * ॥
क्षतजञ्च विसर्पमाह ।
“बाह्यहेतोः क्षतात् क्रुद्धः सरक्तं पित्तमीरयन् ।
वीसर्पमारुतः कुर्य्यात् कुलत्थसदृशैश्चितः ।
स्फोटैः शोथज्वररुजा दाहाद्यं श्यावशो-
णितम् ॥”
बाह्यहेतोः शस्त्रप्रहारव्यालदन्तनखाद्यागन्तु-
हेतोः । श्यावशोणितं धूम्रवर्णरक्तम् ॥ * ॥
उपद्रवानाह ।
“ज्वरातीसारवमथुस्तृण्मांसदरणक्लमाः ।
अरोचकविपाकौ च विसर्पाणामुपद्रवाः ॥” * ॥
साध्यत्वादिकमाह ।
“सिध्यन्ति वातकफपित्तकृता विसर्पाः
सर्व्वात्मकक्षतकृतश्च न सिद्धिमेति ।
पित्तात्मकोऽञ्जनवपुश्च भवेदसाध्यः
कृच्छ्राश्च मर्मसु भवन्ति च सर्व्व एव ॥”
पित्तात्मकोऽञ्जनवपुः पित्तजः सन् कज्जलवर्णः ।
सर्व्व एवासाध्या अपि ॥ * ॥ अथ विसर्पस्य
चिकित्सा ।
“विरेकवमनालेपसेचनास्रविमोक्षणैः ।
उपाचरेद्यथादोषं विसर्पानविदाहिभिः ॥
रास्ना नीलोत्पलं दारु चन्दनं मधुकं बला ।
घृतं क्षीरयुतो लेपो वातवीसर्पनाशनः ॥”
चन्दनमत्र रक्तं ग्राह्यम् ।
“कसेरुशृङ्गाटकपद्मगुन्द्रैः
सशैवलैः सोत्पलकर्द्दमैश्च ।
वस्त्रान्तरैः पित्तकृते विसर्पे
लेपो विधेयः सघृतः सुशीतः ॥ * ॥
त्रिफलापद्मकोशीरसमङ्गाकरवीरकम् ।
नलमूलमनन्ता च लेपः श्लेष्मविसर्पहा ॥
समङ्गा लज्जालुः ।
“वातपित्तप्रशमनमग्निवीसर्पणे हितम् ।
वातश्लेष्महरं कर्म्म ग्रन्थिवीसर्पणे हितम् ॥
पित्तश्लेष्मप्रशमनं हितं कर्द्दमसंज्ञके ।
त्रिदोषजक्रियां कुर्य्यात् विसर्पे त्रिमलापहाम् ॥ *
शिरीषयष्टीनतचन्दनैला
मांसौहरिद्राद्वयकुष्ठवालैः ।
लेपो दशाङ्गः सघृतः प्रयोज्यो
विसर्पकुष्ठज्वरशोथहारी ॥”
नतं तगरम् । चन्दनमत्र रक्तं ग्राह्यम् ।
दशाङ्गो लेपः ॥ * ॥
“परिषेकाः प्रलेपाश्च शस्यन्ते पञ्चवल्कलैः ।
पद्मकोशीरमधुकं चन्दनैला विसर्पणे ॥
भूनिम्ववासा कटुका पटोल-
फलत्रयं चन्दननिम्बसिद्धः ।
विसर्पदाहज्वरशोथकण्डूं
विस्फोटतृष्णावमिहृत् कषायः ॥
कुष्ठानि यानि सर्पिंषि व्रणेषु विविधेषु च ।
विसर्पे तानि योज्यानि सेकालेपनभोजनैः ॥ * ॥
करञ्जसप्तच्छदलाङ्गलीक-
स्नुह्यर्कदुग्धानलभृङ्गराजैः ।
तैलं निशामूत्रविषैर्विपक्वं
विसर्पविस्फोटविचर्च्चिकाघ्नम् ॥
इति करञ्जादितैलम् ॥ * ॥
“कुष्ठामयस्फोटमसूरिकोक्त-
चिकित्सयाप्याशु हरेद्बिसर्पान् ।
सर्व्वान् विकारान् परिशोध्य धीमान्
व्रणं क्रमेणोपचरेद्यथोक्तम् ॥”
इति विसर्पाधिकारः । * । इति भावप्रकाशः ॥
(वेगः । यथा, उत्तरचरिते ।
“प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः ॥”
नाट्यालङ्कारविशेषः । तल्लक्षणादिकं यथा,
साहित्यदर्पणे । ६ । ४८५ ।
“विसर्पो यत्समारब्धं कर्म्मानिष्टफलप्रदम् ॥”
यथा वेण्याम् । एकस्य तावत् पाकोऽयमि-
त्यादि ॥)

विसर्पणं, क्ली, (वि + सृप + ल्युट् ।) प्रसरः ।

इत्यमरः ॥ तन्तुव्रणविटपादेर्विसर्पणम् । इति
भरतः ॥ (निक्षेपः । यथा, महाभारते । ७ ।
८ । १३ ।
“शोषणं सागरस्येव मेरोरिव विसर्पणम् ।
पतनं भास्करस्येव न मृष्ये द्रोणपातनम् ॥”)

विसर्पिः, पुं, विसर्पः । इति राजनिर्घण्टः ॥

विसलं, क्ली, (विसं लातीति । ला + कः ।) पल्लवः ।

इति त्रिकाण्डशेषः ॥

विसारः, पुं, (विशेषेण सरतीति । सृ गतौ +

“व्याधिमत्स्यबलेष्विति वक्तव्यम् ।” ३ । ३ । १७ ।
इत्यस्य वार्त्तिकोक्त्या घञ् ।) मत्स्यः । इत्यमरः ॥
(भावे घञ् । निर्गमः । यथा, ऋग्वेदे । १ । ७९ । १ ।
“हिरण्यकेशो रजसो विसारे
ऽर्हिर्धुनिर्वात इव ध्रजीमान् ॥”
“रजस उदकस्य विसारे विसरणे मेघार्न्निर्ग-
मने ।” इति तद्भाष्ये सायणः ॥)

विसारिणी, स्त्री, (विशेषेण सरतीति । सृ +

णिनिः । ङीप् ।) माषपर्णी । इति राज-
निर्घण्टः ॥) प्रसरणशीला । यथा, राजतर-
ङ्गिण्याम् । ८ । ९८२ ।
“निर्धूमस्य विसारिण्यो ज्वाला हव्यभुजो
दधुः ॥”)

विसारितः, त्रि, प्रसारितः । विपूर्व्वञ्यन्तसृधातोः

क्तप्रत्ययेन निष्पन्नमिदम् ॥

विसारी, [न्] त्रि, (वि + सृ + णिनिः ।) प्रसरण-

शीलः ॥ तत्पर्य्यायः । विसृत्वरः २ विसृमरः ३
प्रसारी ४ । इत्यमरः ॥ (यथा, रघुः । ३ । १५ ।
“अरिष्टशय्यां परितो विसारिणा
सुजन्मनस्तस्य निजेन तेजसा ॥”)

विसिनी, स्त्री, (विसमस्त्यस्या इति । विस् +

“पुष्करादिभ्यश्च ।” इति इनिः । ङीप् ।)
पद्मिनी । इत्यमरः ॥ मृणालम् । इति राज-
निर्घण्टः ॥

विसूचिका, स्त्री, (विसूची + स्वार्थे कन् ।)

अजीर्णरोगविशेषः । इति भावप्रकाशः ॥
(अस्या विशेषविवृतिस्तु अजीर्णविसूचीशब्द-
योर्द्रष्टव्या ॥)

विसूची, स्त्री, (विशेषेण सूचयति मृत्युमिति ।

वि + सूच् + अच् । स्त्रियां ङीष् । यद्वा, विशिष्टा
सूचीव ।) अजीर्णरोगविशेषः । ओलाउटा
इति भाषा ॥ तस्य निरुक्तिर्यथा, --
“सूचीभिरिव गात्राणि तुदन् सन्तिष्ठतेऽनिलः ।
यस्याजीर्णेन सा वैद्यैर्व्विसूचीति निगद्यते ॥”
तस्या निदानमाह ।
“न तां परिमिताहारा लभन्ते विदितागमाः ।
मूढास्तामजितात्मानो लभन्तेऽशनलोलुपाः ॥”
विदितागमा ज्ञातायुर्व्वेदाः ॥ * ॥
तस्या लक्षणमाह ।
“मूर्च्छातिसारो वमथुः पिपासा
शूलं भ्रमोद्वेष्टनजृम्भदाहाः ।
वैवर्ण्यकम्पौ हृदये रुजश्च
भवन्ति तस्यां शिरसश्च भेदः ॥”
उद्वेष्टनं हस्तपादयोः । शिरसो भेदः शिरः-
शूलम् ॥ * ॥ तस्या उपद्रवानाह ।
“निद्रानाशोऽरतिः कम्पो मूत्राघातो विसं-
ज्ञता ।
अमी उपद्रवा घोरा विसूच्याः पञ्च दारुणाः ॥”
अमी उपद्रवा घोराः अमी निद्रानाशादव
उपद्रवाः सर्व्वेषामेव रोगाणां घोरा भयङ्कराः ।
विसूच्याः पञ्च दारुणाः विसूच्यास्तु पञ्चापि
यदि स्युस्तदा दारुणाः प्राणभयङ्कराः ॥ * ॥
तस्या अरिष्टमाह ।
“यः श्यावदन्तौष्ठनखोऽल्पसंज्ञ-
श्छर्द्द्यर्द्दितोऽभ्यन्तरयातनेत्रः ।
क्षामस्वरः सर्व्वविमुक्तसन्धि-
र्यायान्नरः सोऽपुनरागमाय ॥”
सर्व्वविमुक्तसन्धिः सर्व्वे विमुक्ताः शिथिलीभूताः
सन्धयो यस्य सः ॥ इति भावप्रकाशः ॥ * ॥
अस्याश्चिकित्सा अजीर्णशब्दे द्रष्टव्या ॥

विसूरितं, क्ली, अनुतापः । इति जटाधरः ॥

विसृतं, त्रि, (वि + सृ + क्तः ।) विस्तृतम् । इत्य-

मरः ॥

विसृत्वरः, त्रि, (विसरति तच्छीलः । वि + सृ +

“इण्नश्जिसर्त्तिभ्यः क्वरप् ।” ३ । २ । १६३ ।
पृष्ठ ४/४६३
इति क्वरप् । ह्नस्वस्येति तुक् ।) प्रसरणशीलः ।
इत्यमरः ॥ “विसरणम् । गतिविशेषः । विसृ-
त्वरो नदः । विसृत्वरी नदी । विसृत्वरं तैल-
मित्यादि । विसरति विसृत्वरः सृ गतौ क्ष्वरप्-
सृजीणिति क्ष्वरप् स्वस्य तन् पिति तन् ।” इति
भरतः ॥

विसृमरः, त्रि, (विशेषेण सरति तच्छीलः । वि +

सृ + “सृघस्यदः क्मरच् ।” ३ । २ । १६० । इति
क्मरच् ।) प्रसरणशीलः । इत्यमरः ॥

विसृष्टः, त्रि, (वि + सृज् + क्तः ।) निक्षिप्तः ।

इति जटाधरः ॥ (यथा, मृच्छकटिके । १ अङ्के ।
“उद्विग्नचक्रलकटाक्षविसृष्टदृष्टि-
र्व्याधानुसारचकिता हरिणीव यासि ॥”)
विशेषेण सृष्टश्च ॥ (व्यक्तः । यथा, भागवते ।
१ । १६ । २४ ।
“अन्तर्हितस्य स्मरती विसृष्टा
कर्म्माणि निर्व्वाणविलम्बितानि ॥”
प्रेषितः । यथा, रघुः । ५ । ३९ ।
“आप्तः कुमारानयनोत्सुकेन
भोजेन दूतो रघवे विसृष्टः ॥”
पुं, विसर्गः । विन्दुद्बयरूपः । यथा, कातन्त्रे । ८ । २ ।
“रसकारयोर्व्विसृष्टः ॥”)

विस्तः, पुं, क्ली, (विस उत्सर्गे + क्तः ।) हेम्नो-

ऽक्षः । अशीतिरत्तिकापरिमितस्वर्णम् । इत्य-
मरः ॥

विस्तरः, पुं, (वि + स्तॄ + “प्रथने वावशब्दे ।”

३ । ३ । ३३ । इति घञः प्रतिषेधे “ऋदोरप् ।”
इत्यप् ।) शब्दस्य विस्तारः । इत्यमरः ॥ (यथा,
शिशुपालवधे । २ । २४ ।
“सुविस्तरतरा वाचो भाष्यभूता भवन्तु मे ॥”
वेदाङ्गम् । यथा, भागवते । ३ । ३ । २ ।
“सान्दीपनेः सकृत्प्रोक्तंब्रह्माधीत्य सविस्तरम् ॥”)
विस्तारः । (यथा, गीतायाम् । १० । १९ ।
“प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥”)
प्रणयः । इति मेदिनी ॥ पीठः । समूहः । इति
शब्दरत्नावली ॥ (त्रि, बहुः । यथा, साहित्य-
दर्पणे । ६ । ३१४ ।
“अपेक्षितं परित्यज्य नीरसं वस्तु विस्तरम् ।
यदा सन्दर्शयेच्छेशमामुखानन्तरं तदा ॥”)

विस्तारः, पुं, (वि + स्तॄ + “प्रथने वावशब्दे ।”

३ । ३ । ३३ । इति घञ् ।) विटपः । विस्ती-
र्णता । तत्पर्य्यायः । विग्रहः २ व्यासः ३ ।
इत्यमरः ॥ (यथा, आर्य्यासप्तशत्याम् । ५५८ ।
“वंशावलम्बनं यद्यो विस्तारो गुणस्य याव-
नतिः ।
तज्जालस्य खलस्य च निजाङ्कसुप्तप्रणाशाय ॥”)
स्तम्बः । इति मेदिनी । रे, २१५ ॥

विस्तीर्णः, त्रि, (वि + स्तॄ + क्तः । “रदाभ्या-

मिति ।” ८ । २ । ४२ । इति नः ।) विपुलम् ।
विस्तृतम् । यथा, --
“विस्तीर्णे विकटं वड्रं विशालं विपुलं पृथु ।”
इति जटाधरः ॥
(यथा, --
“पर्णानि स्वर्णवर्णानि विस्तीर्णाकर्णलोचने ।
तूर्णमानीयतां चूर्णं पूर्णचन्द्रनिभानने ॥”
इत्युद्भटः ॥)

विस्तीर्णपर्णं, क्ली, (विस्तीर्णं पर्णं पत्रमस्य ।)

मानकम् । इति शब्दचन्द्रिका ॥

विस्तृतः, त्रि, (वि + स्तृ + क्तः ।) लब्धविस्तारः ।

तत्पर्य्यायः । विसृतम् २ ततम् ३ । इत्यमरः ॥
(यथा, भागवते । २ । २४ । ६० ।
“तत्त्वं ब्रह्मपरं ज्योतिराकाशमिव विस्तृतम् ॥”)

विस्पष्टः, त्रि, (विशेषेण स्पष्टः ।) सुस्पष्टः । यथा,

“विस्पष्टमद्रुतं शान्तं स्पष्टाक्षरपदं तथा ।
कलस्वरसमायुक्तं रसभावसमन्वितम् ॥”
इति तिथ्यादितत्त्वम् ॥

विस्फारः, पुं, (वि + स्फुर + धञ् । “स्फुरति-

स्फुलत्योर्घञि ।” ८ । ३ । ७६ । इत्यात्वम् ।) धनु-
र्गुणशब्दः । इत्यमरः ॥ अस्य विवरणं मूर्द्धन्य-
षकारमध्यविष्फारशब्दे द्रष्टव्यम् ॥ (यथा,
महाभारते । ३ । २७९ । ३६ ।
“विस्फारस्तस्य धनुषो यन्त्रस्येव तदा बभौ ॥”
विस्तृतिः । यथा, साहित्यदर्पणे । ३ । २०७ ।
“विस्फारश्चेतसो यस्तु स विस्मय उदाहृतः ॥”)

विस्फारितः, त्रि, प्रकाशितः । चलितः । विपूर्ब्ब-

ञ्यन्तस्फरधातोः क्तप्रत्ययेन निष्पन्नमिदम् ॥
(यथा, महाभारते । ३ । ११ । २० ।
“स नष्टमायोऽतिबलो क्रोधविस्फारितेक्षणः ।
काममूर्त्तिधरः क्रूरः कालकल्पो व्यदृश्यत ॥”
निर्घोषितः । यथा, किराते । १४ । ३० ।
“उदूढवक्षःस्थगितैकदिङ्मुखो
विकृष्टविस्फारितचापमण्डलः ॥”)

विस्फुरितः, त्रि, (वि + स्फुर + क्तः ।) स्फूर्त्ति-

विशिष्टः । चञ्चलः । यथा, --
“रक्तरक्तीकृताङ्गञ्च रक्तविस्फुरितेक्षणम् ।
वेष्टितं नागपाशेन भ्रुकुटीभीषणाननम् ॥”
इति दशभुजादुर्गाध्यानैकदेशः ॥

विस्फुलिङ्गः, पुं, विषभेदः । इति हेमचन्द्रः ॥

(विशिष्टः स्फुलिङ्गः ।) अग्निकणा च ॥

विस्फोटः, पुं, (विस्फोटतीति । वि + स्फुट् +

अच् ।) विरुद्धस्फोटकः । विस्फोडा इति
भाषा । तत्पर्य्यायः । पिठकः २ पिटका ३
पिटकम् ४ । इत्यमरः । विटकः ५ विटका ६
विटकम् ७ । इति तट्टीका ॥ स्फोटकः ८
स्फोटः ९ । इति राजनिर्घण्टः ॥ (यथा,
कथासरित्सागरे । ८५ । १८ ।
“किमेतदिति संभ्रान्तः प्रबुद्धोऽथ ददर्श सः ।
उत्थाय राजा विस्फोटानङ्गे तस्या विनि-
र्गतान् ॥”)
तस्य विप्रकृष्टनिदानपूर्व्विकां संप्राप्तिमाह ।
“कट्वम्लतीक्ष्णोष्णविदाहिरूक्ष-
क्षारैरजीर्णाध्यशनातपैश्च ।
तथर्त्तुदोषेण विसर्पणेन
कुप्यन्ति दोषा पवनादयस्तु ॥
त्वचमाश्रित्य ते रक्तमांसास्थीनि प्रदुष्य च ।
घोरान् कुर्व्वन्ति विस्फोटान् सर्व्वज्वरपुरः-
सरान् ॥”
ऋतुदोषेण ऋतुहेतुकशीतोष्णादीनामतियोगेन ।
ऋतूचिताहारविहारवैपरीत्येन त्वचमाश्रित्य
विस्फोटान् कुर्व्वन्तीत्यर्थः । ज्वरपुरःसरान्
ज्वरपूर्ब्बान् ॥ * ॥ रूपमाह ।
“अग्निदग्धनिभाः स्फोटाः सज्वरा रक्तपित्तजाः ।
क्वचित् सर्व्वत्र वा देहे विस्फोटा इति ते
स्मृताः ॥”
रक्तपित्तजाः एतेन सर्व्वेषु विस्फोटेषु रक्त-
पित्तयोः प्रधानकारणत्वम् । यथा शूलेषु वातस्य
तथा वातानुगतिरपि बोद्धव्या । तथा च भोजः ।
“यदा रक्तञ्च पित्तञ्च वातेनानुगतं त्वचि ।
अग्निदग्धनिभान् स्फोटान् कुरुतः सर्व्वदेह-
गान् ॥” * ॥
वातिकमाह ।
“शिरोरुक्शूलभूयिष्ठज्वरतृट्पर्व्वभेदनम् ।
सकृष्णवर्णतां चेति वातविस्फोटलक्षणम् ॥”
शूलमत्र तोदरूपम् ॥ * ॥ पैत्तिकमाह ।
ज्वरदाहरुजापाकः स्रावस्तृष्णासमन्वितम् ।
पीतलोहितवर्णञ्च पित्तविस्फोटलक्षणम् ॥”
रुजादित्रयं स्फोटेषु ॥ * ॥ वातपैत्तिकमाह ।
“वातपित्तकृतो यस्तु तत्र स्युस्तीव्रवेदनाः ।
स्तैमित्यं गौरवं कण्डुर्भवेद्वातवलासजे ॥” * ॥
पित्तश्लैष्मिकमाह ।
“कण्डूर्दाहो ज्वरश्छर्द्दिर्जायते कफपैत्तिके ॥”
सान्निपातिकमाह ।
“मध्य निम्नोन्नतस्तोदः कठिनः स्वल्पपाकवान् ।
रागदाहतृषामोहच्छर्द्दिमूर्च्छारुजाज्वराः ।
प्रलापो वेपथुर्यत्र सोऽसाध्यश्च त्रिदोषजः ॥”
मोहो विपरीतज्ञानम् । मूर्च्छा सर्व्वथा ज्ञान-
शून्यता ॥ * रक्तजमाह ।
“वेदितव्याश्च रक्तेन पैत्तिकेन च हेतुना ।
गुञ्जाफलसमा रक्ता रक्तस्रावा विदाहिनः ।
न ते सिद्धिं समायान्ति शुद्धैर्योगशतैरपि ॥”
पैत्तिकेन च हेतुना पित्तस्यहेतुना कट्वादिना
रक्तस्य पित्तस्य तुल्यत्वात् न च ते साध्याः ।
“एते चाष्टविधा बाह्या आन्तरोऽपि भवेदयम् ।
तस्मिन्नन्तर्व्व्यथा तीव्रा ज्वरयुक्ताभिजायते ॥
तस्मिन् बहिर्गते स्वास्थ्यन्तु व्यानस्य वहिर्गतिः ।
तत्र वातिकविस्फोटक्रिया कार्य्या विजानता ॥”
उपद्रवानाह ।
“तृट्श्वासमांससङ्कोथदाहहिक्कामदज्वराः ।
विसर्पमर्म्मसंरोधास्तेषामुक्ता उपद्रवाः ॥”
मांससङ्कोथः मांसस्य शठितत्वम् । मर्म्मसंरोधो
मर्म्मव्यथा । तेषां विस्फोटकानाम् ॥ * ॥
केचिदुपद्रवाणां लक्षणान्तरं पठन्ति ।
“हिक्का श्वासोऽरुचिस्तृष्णा स्वाङ्गमर्द्दो हृदि-
व्यथा ।
विसर्पज्वरहृल्लासा विस्फोटानामुपद्रवाः ॥”
साध्यत्वादिकमाह ।
पृष्ठ ४/४६४
“एकदोषोत्थितः साध्यः कृच्छ्रसाध्यो द्बिदो-
षजः ।
सर्व्वरूपान्वितो घोरो ह्यसाध्यो भूर्य्युपद्रवः ॥”
अथ विस्फोटस्य चिकित्सा ।
“विस्फोटे लङ्घनं कार्य्यं वमनं पथ्यभोजनम् ।
यथादोषबलं वीक्ष्य प्रयुञ्ज्याच्च विरेचनम् ॥ * ॥
जीर्णः शालिर्यवा मुद्गा मसूराश्चाढकी तथा ।
एतान्यन्नानि विस्फोटे हितानि मुनयोऽब्रुवन् ॥
द्वे पञ्चमूल्यौ रास्ना च दार्व्युशीरं दुरालभा ।
गुडूची धान्यकं मुस्तमेषां क्वाथं पिबेन्नरः ।
विस्फोटान्नाशयत्याशु समीरणनिमित्तकान् ॥
द्राक्षाकाश्मर्य्यखर्ज्जूरपटोलारिष्टवासकैः ।
कटुकालाजदुस्पर्शैः पैत्तिके ससितं घृतम् ॥
भूनिम्बसवचावासात्रिफलेन्द्रसवत्सकैः ।
पिचुमर्द्दपटोलाभ्यां कफजे मधुयुक् शृतम् ॥ * ॥
किराततिक्तकारिष्टयष्ट्याह्वाम्बुदवासकैः ।
पटोलपर्पटोशीरत्रिफलाकोटजान्वितैः ॥
क्वथितैर्द्वादशाङ्गन्तु सर्व्वविस्फोटनाशनम् ॥ * ॥
विस्फोटव्याधिनाशाय तण्डुलाम्बुदपेषितैः ।
बीजैः कुटजवृक्षस्य लेपः कार्य्यो विजानता ॥ *
छिन्ना पटोलभूनिम्बवासकारिष्टपर्पटैः ।
खदिराब्दयुतैः क्वाथो हन्ति विस्फोटकं ज्वरम् ॥
चन्दनं नागपुष्पञ्च सारिवा तण्डुलीयकम् ।
शिरीषवल्कलं जाती लेपः स्याद्दाहनाशनः ॥”
“उत्पलं चन्दनं लोध्रमुशीरं शारिवाद्वयम् ।
जलेन पिष्टं लेपेन स्फोटदाहार्त्तिनाशनम् ॥ * ॥
पुत्त्रजीवस्य मज्जानं जले पिष्ट्वा प्रलेपयेत् ।
कालस्फोटं विषस्फोटं सद्यो हन्यात् सवेदनम् ॥
कक्षाग्रन्थिं गलग्रन्थिं कर्णग्रन्थिञ्च नाशयेत् ।
अन्यच्च स्फोटकं ताम्रं पुत्त्रजीवो विनाशयेत् ॥”
इति विस्फोटकाधिकारः । इति भावप्रकाशः ॥
अन्यच्च ।
“मरीचं त्रिवृतं कुष्ठं हरितालं मनःशिला ।
देवदारु हरिद्रे द्वे कुष्ठं मांसी च चन्दनम् ॥
विशाला करवीरञ्च अर्कक्षीरं सकृत्पलम् ।
एषाञ्च कार्षिको भागो विषस्यार्द्धपलं भवेत् ॥
प्रस्थं कटुकतैलस्य गोमूत्रेऽष्टगुणे पचेत् ।
मृत्पात्रे लौहपात्रे वा शनैर्मृद्बग्निना पचेत् ॥
पामा विचर्च्चिका चैव दद्रुविस्फोटकानि च ।
अभ्यङ्गेन प्रणश्यन्ति कोमलत्वञ्च जायते ॥
प्रसूतान्यपि श्वित्राणि तैलेनानेन म्रक्षयेत् ।
चिरोत्थितमपि श्वित्रं विवर्णं तत्क्षणात्
भवेत् ॥”
अपि च ।
“भूनिम्बनिम्बत्रिफलापर्पटैश्च शृतं जलम् ।
पटोलमुस्तकाभ्याञ्च वासकेन च नाशयेत् ।
विस्फोटकानि व्यक्तानि नात्र कार्य्या विचा-
रणा ॥”
इति गारुडं १९८ अध्यायः ॥ * ॥
विस्फोटकस्य स्वरूपं यथा, भावप्रकाशे ।
“स्फोटाः श्यावारुणाभासा विस्फोटाः स्युस्तनु-
त्वचः ॥”

विस्मयः, पुं, (वि + स्मि + “एरच् ।” इत्यच् ।)

आश्चर्य्यम् । तत्पर्य्यायः । अहो २ ही ३ ।
इत्यमरः ॥ “अन्यदद्भुतशब्दे द्रष्टव्यम् ।
‘अद्भुतो विस्मयस्थायिभावो गन्धर्व्वदैवतः ।
पीतवर्णो वस्तु लोकातिगमालम्बनं मतम् ॥’
इति भावरसयोः पर्य्यायत्वं अद्भुतस्य विस्मय-
स्थायिभावात्मकत्वात् ।” इति भरतः ॥ * ॥
तस्य लक्षणम् । यथा, --
“विविधेषु पदार्थेषु लोकसीमातिवर्त्तिषु ।
विस्फारश्चेतसो यस्तु स विस्मय उदाहृतः ॥”
इति साहित्यदर्पणम् ॥
(अस्मात्तपःक्षयो भवति । यथा, मनुः । ४ । २३७ ।
“यज्ञोऽनृतेन क्षरति तपः क्षरति विस्मयात् ॥”)
दर्पः । इति मेदिनी ॥ सन्देहः । इति शब्द-
रत्नावली ॥ (विगतः स्मयो गर्व्वो यस्येति ।
नष्टगर्व्वे, त्रि । यथा, भागवते । ३ । १७ । ३० ।
“तं वीरमारादभिपद्य विस्मयः
शयिस्यसे वीरशये श्वभिर्वृतः ॥”)

विस्मयान्वितः, त्रि, (विस्मयेन अन्वितः युक्तः ।)

विस्मययुक्तः । आश्चर्य्यविशिष्टः । तत्पर्य्यायः ।
विलक्षः २ । इत्यमरः ॥

विस्माप(य)नः, पुं, (विस्माप(य)यतीति । वि +

स्मि + णिच् + ल्युः ।) कुहकः । गन्धर्व्वनगरम् ।
कामदेवः । इति मेदिनी ॥ क्ली, विस्मायनम् ॥
(यथा, हरिवंशे । १२६ । २६ ।
“पारिजाततरोः पुष्पं तस्य दत्तं मयानघ ।
विस्पापनार्थं देवेश पत्नीनामुरुतेजसः ॥”
विस्मयकारके, त्रि । यथा, भागवते । १ ।
१५ । ५ ।
“वञ्चितोऽहं महाराज हरिणा बन्धुरूपिणा ।
येन मेऽपहृतं तेजो देवविस्मापनं महत् ॥”)

विस्मितः, त्रि, (वि + स्मि + क्तः ।) विस्मयान्वितः ।

यथा, --
“महापाशुपतान् दृष्ट्वा समुत्थाय महेश्वरः ।
संपरिष्वजत व्यक्तं ते प्रणेमुर्म्महेश्वरम् ॥
ततस्तदद्भुततमं दृष्ट्वा सर्व्वगणेश्वराः ।
सुविस्मितास्तदा सन्तः किमिदं चिन्तयन्निति ॥
विस्मितांस्तान् गणान् दृष्ट्वा शैलादिर्योगिनांवरः ।
प्राह प्रहस्य देवेशं शूलपाणिं गणाधिपः ॥
विस्मितामी गणा देव सर्व्व एव महेश्वर ।
महापाशुपतानां हि यत् त्वयालिङ्गनं कृतम् ॥”
इति वामने ६४ अध्यायः ॥

विस्मितिः, स्त्री, विस्मरणम् । विपूर्ब्बस्मिधातोर्भावे

क्तिन्प्रत्ययेन निष्पन्नमिदम् ॥

विस्मृतः, त्रि, (वि + स्मृ + क्तः ।) स्मरणाविषयः ।

तत्पर्य्यायः । अन्तर्गतम् २ । इत्यमरः ॥ (यथा,
“पठित्वा सर्व्वशास्त्राणि विस्मृतान्यक्षराणिच ।
आस्ते किञ्चित् मम स्वान्ते टवर्गस्य तु पञ्चमः ॥”
इत्युद्भटः ॥)

विस्मृतिः, स्त्री, विस्मरणम् । विपूर्ब्बकस्मृधातोः

क्तिन् प्रत्ययेन निष्पन्नमिदम् ॥ (यथा, कथा-
सरित्सागरे । ४४ । ९६ ।
“जामातरञ्च स तथा सूर्य्यप्रभमुपाचरत् ।
यथा तस्य निजा भोगाः सर्व्वे विस्मृति-
माययुः ॥”)

विस्रं, क्ली, आमगन्धः । इत्यमरः ॥ इदं चिता-

धूमादिगन्धे अपक्वमांसगन्धे इत्यन्ये । इति
भरतः ॥ (यथा, कथासरित्सागरे । ७४ । १९६ ।
“समाश्लिषञ्च धावित्वा सिञ्चन् धराश्रुभिः
स तम् ।
मीनोदरदरीवासविस्रं प्रक्षालयन्निव ॥”
तद्विशिष्टे, त्रि । यथा, कथासरित्सागरे ।
८२ । ७ ।
“अहमेनं न शक्नोमि ग्रहीतुं विस्रपिच्छलम् ॥”)

विस्रगन्धा, स्त्री, (विस्रं गन्धो यस्याः ।) हपुषा ।

इति राजनिर्घण्टः ॥

विस्रगन्धिः, पुं, (विस्रमिव गन्धो यस्य ।) हरि-

तालम् । इति हेमचन्द्रः ॥

विस्रब्धः, त्रि, (वि + स्रन्भ + क्तः ।) विश्रब्धः ।

इति केचित् ॥ (यथा, साहित्यदर्पणे । १ । ७ ।
“विस्रध्वं परिचुम्ब्य जातपुलकामालोक्य
गण्डस्थलीम् ॥”)

विस्रम्भः, पुं, (वि + स्रन्भ + घञ् ।) विश्वासः ।

(यथा, उत्तरचरिते । १ ।
“विस्रम्भादुरसि निपत्य लब्धनिद्राम् ॥”)
प्रणयः । इत्यमरः ॥ प्रणयः परिचयः शृङ्गार-
प्रार्थना वा ।
परिचयप्रार्यनयोः प्रणयः परिकीर्त्तितः ॥
इत्यमरमाला ॥
प्रणयः क्रीडापारतन्त्र्यम् । इति रमानाथः ॥”
इति तट्टीकायां भरतः ॥ (यथा, रामायणे ।
२ । ६० । ७ ।
“विजनेऽपि वने सीता वासं प्राप्य गृहेष्विव ।
विस्रम्भं लभतेऽभीता रामे विन्यस्तमानसा ॥”)
केलिकलहः । वधः । इति हेमचन्द्रः ॥

विस्रम्भी, [न्] त्रि, (विस्रम्भते विश्वसितीति ।

वि + स्रम्भ + “वौ कषलसकत्थस्रम्भः ।” ३ । २ ।
१४३ । इति घिनुण् ।) विश्वासी । (यथा,
भागवते । ६ । ५ । २० ।
“कथं तदनुरूपाय गुणविस्रम्भ्युपक्रमेत् ॥”)
प्रणयी । विस्रम्भशब्दादस्त्यर्थे णिन्प्रत्ययेन
निष्पन्नमिदम् ॥

विस्रसा, स्त्री, जरा । इत्यमरः ॥

विस्रा, स्त्री, (विस्रं गन्धोऽस्त्यस्या इति । अच्

ततष्टाप् ।) हपुषा । इति राजनिर्घण्टः ॥

विस्रुतः, त्रि, (वि + स्रु + क्तः ।) विस्तृतः । विपू-

र्व्वकस्रुधातोः क्तप्रत्ययेन निष्पन्नमिदम् ।

विहगः, पुं, (विहायसा गच्छतीति । गम् + “प्रिय-

वशेति ।” ३ । २ । ३८ । इत्यत्र “डेच विहायसो
विहादेशो वक्तव्यः ।” इति काशिकोक्तेः डप्रत्यये
विहायःशब्दस्य विहादेशः ।) पक्षी । इत्य-
मरः ॥ (यथा, भागवते । ४ । १८ । २४ ।
“सुपर्णवत्सा विहगाश्चरञ्चाचरमेव च ॥”)
बाणः । (यथा, महाभारते । ७ । १९३ । ४० ।
पृष्ठ ४/४६५
“अयोमुखैश्च विहगैर्द्रावयिष्ये महारथान् ॥”)
सूर्य्यः । चन्द्रः । इति शब्दरत्नावली ॥ ग्रहः ।
इति धरणिः ॥

विहङ्गः, पुं, (विहायसा गच्छतीति । ३ । २ । ३८ ।

इत्यत्र “गमेः सुपीति ।” खच् । “विहायसो
विह च ।” इति विहादेशः । “खच्च डिद्वा
वक्तव्यः ।” इति डिच्च ।) पक्षी । इत्यमरः ॥
(यथा, रघुवंशे । १ । ५१ ।
“सेकान्ते मुनिकन्याभिस्तत्क्षणोज्झितवृक्षकम् ।
विश्वासाय विहङ्गानामालवालाम्बुपायिनाम् ॥”)
बाणः । (यथा, महाभारते । ८ । ६६ । ३५ ।
“त्वत्प्रेरितैर्लोहिताङ्गैर्व्विहङ्गैः ॥”)
मेघः । चन्द्रः । सूर्य्यः । इति शब्दरत्नावली ॥
(नागविशेषः । १ । ५७ । ११ ।
“विहङ्गः शरभो मेदः प्रमोदः संहतोपनः ॥”)

विहङ्गमः, पुं, (विहायसा गच्छतीति । ३ । २ । ३८ ।

इत्यत्र । “खच्प्रकरणे गमेः सुप्युपसंख्यानम् ।”
इति काशिकोक्त्या खच् । “विहायसो विह
च ।” इति विहादेशः ।) पक्षी । इत्यमरः ॥
(यथा, महाभारते । ३ । २७४ । ३९ ।
“आक्रम्य रत्नान्यहरत्कामरूपी विहङ्गमः ॥”
सूर्य्यः । यथा, मार्कण्डेये । १०९ । ६७ ।
“छन्दोभिरश्वरूपैश्च सकृद्युक्तैर्व्विहङ्ग-
मम् ॥”)

विहङ्गमा, स्त्री, भारयष्टिः । इति शब्दरत्नावली ॥

वाँक इति भाषा ॥

विहङ्गराजः, पुं, (विहङ्गानां राजा । समासे

टच् ।) गरुडः । इति हलायुधः ॥ (यथा,
शिशुपालवधे । १ । ७ ।
“विहङ्गराजाङ्गरुहैरिवायतै-
र्हिरण्मयोर्व्वीरुहवल्लितन्तुभिः ॥”)

विहङ्गिका, स्त्री, भारयष्टिः । इत्यमरः ॥ वाँक

इति भाषा ॥

विहत्, स्त्री, गर्भोपघातिनी गौः । इति संक्षिप्त-

सारोणादिवृत्तिः ॥

विहतः, त्रि, विशेषेण हतः । विनष्टः । विपूर्व्वक-

हनधातोः क्तप्रत्ययेन निष्पन्नमिदम् ॥

विहननं, क्ली, (वि + हन + ल्युट् ।) विघ्नः ।

हिंसा । तूलपिञ्जलः । इति मेदिनी । ने, २१० ॥

विहरः, पुं, (वि + हृ + अप् ।) वियोगः । इति

हलायुधः ॥

विहरणं, क्ली, विहारः । विपूर्व्वकहृधातोरनट्-

प्रत्ययेन निष्पन्नमिदम् ॥ (यथा, भागवते । १० ।
३१ । १० ।
“विहरणञ्च ते ध्यानमङ्गलम् ॥”
प्रसारणम् । यथा, पाणिनौ । १ । ३ । २० ।
“आङो दोऽनास्यविहरणे ॥”
आहरणम् । यथा, मार्कण्डेये । १६ । ३७ ।
“नाग्निविहरणञ्चैव क्रत्वभावश्च लक्ष्यते ।
नवाप्यायनमस्माकं विना होमेन जायते ॥”)

विहसितं, क्ली, (वि + हस् + क्तः ।) मध्यम-

हास्यम् । इत्यमरः ॥

विहस्तः, त्रि, व्याकुलः । इत्यमरः ॥ (यथा,

रघुः । ५ । ४९ ।
“रामापरित्राणविहस्तयोधं
सेनानिवेशं तुमुलं चकार ॥”)
पण्डितः । इति मेदिनी ॥ (यथा, हरिवंशे ।
२३७ । २८ ।
“नानायुधविहस्तानां त्वरितानां प्रधावताम् ।
क्ष्वेडितोत्क्रुष्टनिनदैर्गजबृंहितनिस्वनैः ॥”)
विकरः । (यथा, विख्यातविजये । २ अङ्के ।
“विगतरथविहस्तन्यस्तशस्त्रप्रमत्त-
स्खलितगतिभयार्त्तान् नैव जातु प्रहर्त्ता ॥”)
पण्डे, पुं । इति शब्दरत्नावली ॥

विहा, व्य, (ओहाक् त्यागे + “विषाविहा ।”

उणा० ४ । ३६ । इति निपातनात् आ ।)
स्वर्गः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

विहापितं, क्ली, (वि + हा + णिच् + क्तः ।)

दानम् । इत्यमरः ॥

विहायः, [स्] क्ली पुं, आकाशः । इत्यमरः ॥

(यथा, साहित्यदर्पणे । १० ।
“कान्तायते स्पर्शसुखेन वारि
वारीयते स्वच्छतया विहायः ॥”
त्रि, महान् । यथा, निरुक्ते । ४ । १५ । “विहा-
यसस्तेभिरिन्द्रम् ।” “विहायसो महान्तः ॥”
इति यास्कः ॥ यथा च निघण्टुटीकायाम् । ३ ।
३ । १२ । “विहायाः । वहिहाधाञ्भ्यश्छन्दसि ।
उणा० ४ । २१५ । इति जहातेर्जिहीतेर्व्वा
बाहुलकात् षुगभावेऽपि युगागमो निपात्यते ॥”
यथा, ऋग्वेदे । ४ । ११ । ४ ।
“तद्वाजी वाजंभरो विहायाः ।”
“विहायाः महान् ।” इति तद्भाष्ये सायणः ॥)

विहायाः, [स्] पुं, पक्षी । इत्यमरः ॥

विहायसं, क्ली पुं, आकाशः । इत्यमरटीकायां

मथुरेशः ॥ (यथा, महाभारते । १ । ९३ । १४ ।
“आतिष्ठस्व रथं राजन् विक्रमस्व विहाय-
सम् ॥”)

विहायसः, पुं, पक्षी । इत्यमरटीकायां भरतः ॥

विहायसा, व्य, आकाशः । इत्यमरटीकायां मथु-

रेशः हेमचन्द्रश्च ॥ (पाणिनौ च “स्वरादि-
निपातमव्ययम् ।” १ । १ । ३७ । इत्यत्र गणितम् ॥)

विहारः, पुं, (वि + हृ + घञ् ।) क्रीडार्थं पद्भ्यां

गमनम् । तत्पर्य्यायः । परिक्रमः २ । इत्यमरः ॥
(यथा, गीतायाम् । ११ । ४२ ।
“यच्चावहासार्थमसत्कृतोऽसि
विहारशय्यासनभोजनेषु ॥”)
भ्रमणम् । स्कन्धः । लीला । (यथा, रघुवंशे ।
६ । ४८ ।
“प्रक्षालणाद्वारिविहारकाले ॥”)
सुगतालयः । इति मेदिनी ॥ बिन्दुरेखकपक्षी ।
इति शब्दचन्द्रिका ॥ वैजयन्तः । इति शब्द-
माला ॥

विहारी, [न्] त्रि, (विहर्त्तुं शीलमस्येति । वि +

हृ + णिनिः ।) परिक्रमी । विहारकर्त्ता ।
विहारशब्दादस्त्यर्थे इन्प्रत्ययेन निष्पन्नमिदम् ॥
(यथा, नैषधे । ३ । १५ ।
“धार्य्यः कथङ्कारमहं भवत्या
वियद्विहारी वसुधैकगत्या ॥”)

विहितः, त्रि, (वि + धा + क्तः ।) विधेयः । यथा,

“विहितस्याननुष्ठानात् निन्दितस्य च सेवनात् ।
अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ॥”
इति प्रायश्चित्ततत्त्वम् ॥

विहितिः, स्त्री, (वि + धा + क्तिन् ।) विधानम् ।

यथा, --
“क्षितिविजितिस्थितिविहितिव्रतरतयः पर-
गतयः ।
ऊरु रुरुधुर्गुरुदुधुवुर्युधि कुरवः स्वमरिकुलम् ॥”
इति दण्डी ॥

विहीनः, त्रि, (वि + हा + क्तः ।) विशेषेण हीनः ।

यथा, तन्त्रसारे ।
“षोढान्यासविहीनो यः प्रणमेद्देवि पार्व्वतीम् ।
सोऽचिरान्मृत्युमाप्नोतिं नरकञ्च प्रपद्यते ॥”
त्यक्तः । यथा, --
“विहीनश्च धनैर्दारै पुत्त्रैरादाय मे धनम् ।
वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः ॥”
इति मार्कण्डेयपुराणे देवीमाहात्म्यम् ॥

विहृतं, क्ली, (वि + हृ + क्तः ।) स्त्रीणां स्वाभाविक-

दशविधालङ्कारान्तर्गतालङ्कारविशेषः । यथा,
“लीला विलासो विच्छित्तिर्व्विव्वोकः किल-
किञ्चितम्
मोट्टायितं कुट्टमितं ललितं विहृतं तथा ।
विभ्रमश्चेत्यलङ्काराः स्त्रीणां स्वाभाविका दश ॥”
इति हेमचन्द्रः ॥

विहृतिः, स्त्री, विशेषेण हरणम् । विशेषेण बला-

त्कारः । विपूर्ब्बहृधातोः क्तिप्रत्ययेन निष्पन्न-
मिदम् ॥

विहेठः, पुं, (वि + हेठ + अच् ।) विहेठनम् ।

विपूर्ब्बहेठधातोरल्प्रत्ययेन निष्पन्नमिदम् ॥

विहेठनं, क्ली, (वि + हेठ + ल्युट् ।) हिंसा ।

मर्द्दनम् । विडम्बनम् । इति मेदिनी ॥ विवाधा ।
इति त्रिकाण्डशेषः ॥

विह्वलः, त्रि, (वि + ह्वल + अच् ।) भयादिना-

भिभूतः । स्वाङ्गधारणाशक्तः । तत्पर्य्यायः ।
विक्लवः २ । इत्यमरः ॥ (यथा, रघुः । ८ । ३७ ।
“क्षणमात्रसखीं सुजातयोः
स्तनयोस्तामवलोक्य विह्वला ।
निमिमील नरोत्तमप्रिया
हृतचन्द्रा तमसेव कौमुदी ॥”)
विलीनम् । इति हेमचन्द्रः ॥

वी, ल ईलवत् । कान्तिगतिव्याप्तिक्षेपप्रजनखादने ।

इति कविकल्पद्रुमः ॥ (अदा०-पर० कान्तौ
अक०-गतौ व्याप्तौ क्षेपे प्रजने खादने च सक०-
अनिट् ।) ल, वेति । इति दुर्गादासः ॥

वीः, पुं, (वयनमिति । वी गतौ + न्यङ्क्वादित्वात् भावे

क्विप् । अभिधानात् पुंस्त्वम् ।) गमनम् । इत्ये-
काक्षरकोषः ॥
पृष्ठ ४/४६६

वीकः, पुं, (अजतीति । अज + “अजियुधूनीभ्यो

दीर्घश्च ।” उणा० ३ । ४७ । कन् । अजे र्वीभावः ।)
वायुः । पक्षी । इत्युणादिकोषः ॥ मनः । इति
संक्षिप्तसारोणादिवृत्तिः ॥

वीकाशः, पुं, (विकशनमिति । वि + कश + घञ् ।

“इकःकाशे ।” ६ । ३ । १२३ । इति वेरुपसर्गस्य
दीर्घः ।) रहः । प्रकाशः । इत्यमरः ॥

वीक्षः, पुं स्त्री, दृष्टिः । विपूर्ब्बेक्षधातोरल्प्रत्ययेन

निष्पन्नमिदम् ॥

वीक्षणं, क्ली, विशेषेण ईक्षणम् । दर्शनम् ।

विपूर्ब्बेक्षधातोरनट् (ल्युट्) प्रत्ययेन निष्पन्नम् ॥
(यथा, भागवते । ६ । १८ । २८ ।
“मनो जग्राह भावज्ञा सस्मितापाङ्गवीक्षणैः ॥”)

वीक्षापन्नः, त्रि, (वीक्षामापन्नः ।) विस्मयापन्नः ।

इति हेमचन्द्रः । ३ । ९७ ॥ (वीक्ष्यापन्नः । इत्येवमेव ॥)

वीक्षितः, त्रि, (वि + ईक्ष + क्तः ।) विशेषेण

ईक्षितः । दृष्टः । यथा, --
“पापर्क्षे प्रश्नलग्ने तु पापसंयुतवीक्षिते ।
तथैव चाष्टमस्थाने रोगिणां मरणं दिशेत् ॥”
इति दीपिका ॥

वीक्ष्यं, क्ली, (वीक्ष्येत इति । वि + ईक्ष + ण्यत् ।)

विस्मयः । दृश्यम् । इति मेदिनी । ये, ५६ ॥

वीक्ष्यः, पुं, (वि + ईक्ष दर्शने + ण्यत् ।) लासकः ।

घोटकः । इति मेदिनी ॥ दर्शनीये, त्रि ॥

वीङ्खा, स्त्री, (वीङ्खनमिति । वि + इङ्ख + “गुरोश्च

हलः ।” इति अः । टाप् ।) शूकशिम्बी ।
गतिभेदः । नर्त्तनम् । इति हेमचन्द्रः ॥ अश्व-
गतिभेदः । सन्धिः । इति शब्दरत्नावली ॥

वीचिः, पुं, स्त्री, (वयति जलं तटे वर्द्धयतीति । वे +

“वोञो डिच्च ।” उणा० ४ । ७२ । ईचिः । स च
डित् ।) तरङ्गः । इत्यमरः ॥ (यथा, रघुवंशे ।
१ । ४३ ।
“सरसीष्वरविन्दानां वीचिविक्षोभशीतलम् ।
आमोदमुपजिघ्रन्तौ स्वनिश्वासानुकारिणम् ॥”)
स्वल्पतरङ्गः । अवकाशः । सुखम् । इति
मेदिनी । चे, १० ॥ अल्पः । इति हेमचन्द्रः ॥
किरणः । इति जटाधरः ॥

वीची, स्त्री, (वीचि + कृदिकारादिति ङीष् ।)

वीचिः । इत्यमरटीकायां भरतः ॥ (यथा,
बृहत्संहितायाम् । ५६ । ४ ।
“सरःषु नलिनीच्छत्रनिरस्तरविरश्मिषु ।
हंसांसाक्षिप्तकह्लारवीचीविमलवारिषु ॥”)

वीचीतरङ्गः, पुं, न्यायविशेषः । स तु श्रोत्रे शब्दस्य

उत्पत्तिकारणरूपः । यथा, --
“वीचीतरङ्गन्यायेन तदुत्पत्तिस्तु कीर्त्तिता ।
कदम्बगोलकन्यायादुत्पत्तिः कस्यचिन्मते ॥”
इति भाषापरिच्छेदः ॥
ननु मृदङ्गाद्यवच्छेदेनोत्पन्ने शब्दे श्रोत्रे कथमुत्-
पत्तिरित्यत आह वीचीति आद्यशब्दस्य
बहिर्दशदिगवच्छिन्नोऽन्यः शब्दस्तैनैव शब्देन
जन्यते तेन चापरस्तद्व्यापक एवं क्रमेण श्रोत्रोत्-
पन्नो गृह्यत इति । कदम्ब इति आद्यशब्दाद्दश-
दिक्षु दश शब्दा उत्पद्यन्ते तैश्चान्ये दश शब्दा
उत्पद्यन्ते इति भावः । अस्मिन् कल्पे गौरवा-
द्युक्तं कस्यचिन्मते इति । इति सिद्धान्तमुक्ता-
वली ॥

वी(बी)जं, क्ली, (विशेषेण कार्य्यरूपेण अपत्यतया च

जायते इति । वि + जन + “उपसर्गे च संज्ञा-
याम् ।” इति डः । “अन्येषामपीति ।” उप-
सर्गस्य दीर्घः । यद्वा विशेषेण ईजते कुक्षिं
गच्छति शरीरं वा । ईज गतिकुत्सनयोः +
पचाद्यच् । यद्वा, वीजते गच्छति गर्माशय-
मिति । वीज् + अच् । यद्वा, “वीजप्रजनन-
कान्त्यसनखादनेषु । इत्यस्मादच्प्रत्ययः । तथा
च भोजराजीये वियो जक् इति व्युत्पादितम् ।
बवयोरभेदः । वेति प्रजायते गच्छत्यनेनानृण्यं
पितेति वा । अत्र क्षीरस्वामी वीज्यते वेति
वा वीजं वाजिलौकिकः इति । वीजिः स्यात्
प्रेरणक्रिया इति माधवः ॥ प्रेर्य्यते हि कार्य्य-
करणाय वा वीजम् ।” इति निघण्टौ देव-
राजयज्वा । २ । २ । १५ ।) कारणम् । (यथा,
गीतायाम् । ७ । १० ।
“वीजं मां सर्व्वभूतानां विद्धि पार्थ सनातनम् ॥”
यथा च मनौ । १ । ५६ ।
“यदाणुमातृको भूत्वा वीजंस्थास्नु चरिष्णु च ॥”)
शुक्रम् । इत्यमरः ॥ (यथा मनौ । १ । ८ ।
“अप एव ससर्ज्जादौ तासु वीजमवासृजत् ॥”
वीजं शुक्रम् । इति मेधातिथिः ॥ वीजं शक्ति-
रूपम् । इति कुल्लूकः ॥ यथा च तत्रैव । १० । ७२ ।
“यस्माद्वीजप्रभावेण तिर्य्यग्जा ऋषयोऽभवन् ।
पूजिताश्च प्रशस्ताश्च तस्माद्बीजं प्रशस्यते ॥”)
श्रीकृष्णस्य सर्व्वावतारवीजत्वं यथा, --
दानव उवाच ।
“अधुना कृष्णरूपस्त्वं परिपूर्णतमः स्वयम् ।
सर्व्वेषामवताराणां बीजरूपः सनातनः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २२ अध्यायः ॥
अङ्कुरः । (यथा, महाभारते । ५ । १२ । १९ ।
“न तस्य वीजं रोहति वीजकाले
न चास्य वर्षं वर्षति वर्षकाले ।
भीतं प्रपन्नं प्रददाति शत्रवे
न त्रातारं लभते त्राणमिच्छन् ॥”)
तत्त्वाधानम् । इति मेदिनी ॥ मज्जा । इति
राजनिर्घण्टः ॥ गणितबिशेषः । यथा, --
“उत्पादकं यत्प्रवदन्ति बुद्धे-
रधिष्ठितं सत्पुरुषेण सांख्याः ।
व्यक्तस्य कृत्स्नस्य तदेकवीज-
मव्यक्तमीशं गणितं च वन्दे ॥
पूर्ब्बं प्रोक्तं व्यक्तमव्यक्तवीजं
प्रायः प्रश्ना नो विना व्यक्तयुक्त्या ।
ज्ञातुं शक्या मन्दधीभिर्नितान्तं
यस्मात्तस्माद्वच्मि बीजक्रियाञ्च ॥”
इति भास्कराचार्य्यविरत्तिते सिद्धान्तशिरोमणौ
वीजगणिताध्यायस्य प्रथमद्वितीयश्लोकौ ॥ * ॥
मन्त्रः । यथा । अथ भुवनेश्वरीमन्त्रः ।
“नकुलीशोऽग्निमारूढो वामनेत्रार्द्धचन्द्रवान् ।
बीजं तस्याः समाख्यातं सेवितं सिद्धि-
काङ्क्षिभिः ॥”
नकुलीशो हकारः । अग्नी रेफः । वामनेत्र-
मीकारः । अर्द्धचन्द्रोऽनुस्वारः । ह्रीं ॥ * ॥
अन्नपूर्णाया वीजम् । ह्रीं नमो भगवति माहे-
श्वरि अन्नपूर्णे स्वाहा ॥ * ॥ अथ त्रिपुटा-
वीजम् । श्रीँ ह्रीँ क्लीँ ॥ * ॥ त्वरितावीजम् । ॐ
ह्रीँ हुँ खे च छे क्ष स्त्री हूं क्षे ह्रीँ फट् ॥ * ॥
अथ नित्यावीजम् । ऐँ क्लीँ तित्यक्लिन्ने मददवे
स्वाहा ॥ * ॥ वज्रप्रस्तारिण्याः । ऐँ ह्रीँ नित्य-
क्लिन्ने मदद्रवे स्वाहा ॥ * ॥ अथ दुर्गावीजम् ।
ॐ ह्रीँ दुँ दुर्गायै नमः ॥ * ॥ महिषमर्दिनी-
वीजम् । ॐ महिषमर्द्दिनि स्वाहा ॥ * ॥ जयदुर्गा
वीजम् । ॐ दुर्गे दुर्गे रक्षणि स्वाहा ॥ * ॥
शूलिनीवीजम् । ज्वल ज्वल शूलिनि दुष्टग्रह
हुँ फट् स्वाहा ॥ * ॥ वागीश्वरीवीजम् । वद
वद वाग्वादिनि स्वाहा ॥ * ॥ पारिजात-
सरस्वतीवीजम् । ॐ ह्रीँ ह्सौँ ॐ ह्रीँ
सरस्वत्यै नमः ॥ * ॥ गणेशवीजम् । गँ ॥ * ॥
हेरम्बवीजम् । ॐ गूँ नमः ॥ * ॥ हरिद्रा-
गणेशवीजम् । ग्लँ ॥ * ॥ लक्ष्मीवीजम् । श्रीँ ॥ * ॥
महालक्ष्मीवीजम् । ॐ ऐं ह्री श्रीँ क्लीँ ह्सौँ
जगत्प्रसूत्यै नमः ॥ * ॥ सूर्य्यवीजम् । ॐ घृणि
सूर्य आदित्य ॥ * ॥ श्रीरामवीजम् । रां रामाय
नमः । जानकीवल्लभाय हुँ स्वाहा ॥ * ॥ विष्णु-
वीजम् । ॐ नमो नारायणाय ॥ * ॥ श्रीकृष्ण-
वीजम् । गोपीजनवल्लभाय स्वाहा ॥ * ॥ वासु-
देवस्य । ॐ नमो भगवते वासुदेवाय ॥ * ॥
बालगोपालस्य । ॐ क्लीं कृष्णाय ॥ * ॥ लक्ष्मी-
वासुदेवस्य । ॐ ह्रीं ह्रीं श्रीं श्रीं लक्ष्मीवासु-
देवाय नमः ॥ * ॥ दधिवामनस्य । ॐ नमो
विष्णवे सुरपतये महाबलाय स्वाहा ॥ * ॥
हयग्रीवस्य ।
ॐ उद्गिरत्प्रणवोद्गीथसर्व्ववागीश्वरेश्वर ।
सर्व्ववेदमयाचिन्त्य सर्व्वं बोधय बोधय ॥ * ॥
नृसिंहस्य ।
उग्रं वीरं महाविष्णुं ज्वलन्तं सर्व्वतोमुखम् ।
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥ * ॥
नरहरिवीजम् । आँ ह्रीँ क्षौं हुं फट् ॥ * ॥
हरिहरस्य । ॐ ह्रीँ हौँ शङ्करनारायणाय
नमः हौँ ह्रीँ ॐ ॥ * ॥ वराहस्य । ॐ नमो
भगवते वराहरूपाय भूर्भुवस्वःपतये भूपतित्वं
मे देहि ददापय स्वाहा ॥ * ॥ शिवस्य ।
हौं ॥ * ॥ मृत्युञ्जयस्य । ॐ जुं सः ॥ * ॥
दक्षिणामूर्त्तिवीजम् । ॐ नमो भगवते दक्षिणा-
मूर्त्तये मह्यं मेधां प्रयच्छ स्वाहा ॥ * ॥ चिन्ता-
मणिवीजम् । र क्ष म र य औं ऊं ॥ * ॥
नीलकण्ठस्य । प्रों न्रीं ठः नमः शिवाय ॥ * ॥
चण्डस्य । रूध्व फट् ॥ * ॥ क्षेत्रपालस्य ॐ क्षौँ
क्षेत्रपालाय नमः ॥ * ॥ वटुकभैरवस्य । ॐ ह्री
वटुकाय आपदुद्धरणाय कुरु कुरु वटुकाय
पृष्ठ ४/४६७
ह्रीं ॥ * ॥ त्रिपुरावाः । हसरैं । हसकलरीं ।
हसरौँः ॥ * ॥ सम्पत्प्रदाभैरव्याः । हसरैं ।
हसकलरीं । हसरौँ ॥ * ॥ कौलेशभैरव्याः ।
सहरैं । सहकलरीं । सहरौँ ॥ * ॥ भय-
विध्वंसिनीभैरव्याः । हसैँ । हसकलरीं ।
हसौँ ॥ * ॥ सकलसिद्धिदाभैरव्याः । सहैँ । सह-
कलरीं । सहौँ ॥ * ॥ चैतन्यभैरव्याः । सहैँ ।
सकलह्रीँ । सहरौः ॥ * ॥ कामेश्वरीभैरव्याः ।
सहैँ । सकलह्रीँ । नित्यक्लिन्ने मदद्रवे सहरौः ।
षट्कूटाभैरव्याः । डरलकसहैँ । डरलकसहीँ ।
डरलकसहौँ ॥ * ॥ नित्याभैरव्याः । हसकल-
रडैँ । हसकलरडीं । हसकलरडौँ ॥ * ॥ रुद्र-
भैरव्याः । हसखफरेँ । हसकलरीँ । हसौः ॥ * ॥
भुवनेश्वरीभैरव्याः । हसैँ । हसकलह्रीं ।
हसौः ॥ * ॥ सकलेश्वर्य्याः । सहैं । सहकलह्रीं ।
सहौः ॥ * ॥ त्रिपुराबालायाः । ऐं क्लीं सौः ॥ * ॥
नवकूटाबालायाः । ऐँ क्लीँ सौः । हसैँ ।
हसकलरीँ । हसौँः । हसरैँ हसकलरीं
हसरौँः ॥ * ॥ अन्नपूर्णाभैरव्याः । ॐ ह्रीं श्रीं क्लीं
नमो भगवति माहेश्वरि अन्नपूर्णे स्वाहा ॥ * ॥
श्रीविद्यायाः । कएईल ह्रीँ । हसकहलह्रीँ ।
सकलह्रीँ ॥ * ॥ छिन्नमस्तायाः । श्रीं क्लीं हूं
ऐं वज्रवैरोचनीये हूँ हूँ फट् स्वाहा ॥ * ॥
श्यामायाः । क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं दक्षिणे
कालिके क्रीं क्रीं क्रीं हूँ हूँ ह्रीँ ह्रीँ स्वाहा ॥ * ॥
गुह्यकालिकायाः । क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं
गुह्ये कालिके क्रीं क्रीं क्रीं हूँ हूँ हीँ ह्रीँ
स्वाहा ॥ * ॥ भद्रकाल्याः । क्लीं क्लीं क्लीं हूं हूं
ह्रीं ह्रीं भद्रकाल्यै क्लीं क्लीं क्लीं हूं हूं ह्रीं ह्रीं
स्वाहा ॥ * ॥ श्मशानकालिकायाः । क्रीं क्रीं क्रीं
हूं हूं ह्रीं ह्रीं श्मशानकालि क्रीं क्रीं क्रीं
हूं हूं ह्रीं ह्रीं स्वाहा ॥ * ॥ महाकाल्याः ।
क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं महाकालि क्रीं क्रीं
क्रीं हूं हू ह्रीं ह्रीं स्वाहा ॥ * ॥ तारायाः ।
ह्रीं स्त्रीं हूं फट् ॥ * ॥ चण्डोग्रशूलपाणेः ।
ॐ ह्रीं हूं शिवाय फट् ॥ * ॥ मातङ्गिन्याः ।
ॐ ह्रीँ क्लीं हूं मातङ्गिन्यै फट् स्वाहा ॥ * ॥
उच्छिष्टचाण्डालिन्याः । उच्छिष्टचाण्डालिनी
सुमुखीदेवी महापिशाचिनी ह्रीं ठँः ठँः ठँः ॥ * ॥
धूमावत्याः । धूं धूं स्वाहा ॥ * ॥ भद्रकाल्याः ।
हौं कालि महाकालि किलि किलि फट्
स्वाहा ॥ * ॥ उच्छिष्टगणेशस्य । ॐ हस्ति-
पिशाचि लिखे स्वाहा ॥ * ॥ धनदायाः ।
धं ह्रीं श्रीं देवि रतिप्रिये स्वाहा ॥ * ॥
श्मशानकालिकायाः । ऐँ ह्रीँ श्रीँ क्लीँ कालिके
ऐँ ह्रीँ श्रीँ क्लीँ ॥ * ॥ वगलायाः । ॐ ह्लीँ
वगलामुखि सर्व्वदुष्टानां वाचं मुखं स्तम्भय
जिह्वां कीलय कीलय बुद्धिं नाशय ह्लीं ॐ
स्वाहा ॥ * ॥ कर्णपिशाच्याः । ॐ कर्णपिशाचि
वदातीतानागतशब्दं ह्रीं स्वाहा ॥ * ॥ मञ्जु-
घोषस्य । क्रों ह्रीं श्रीं ॥ * ॥ तारिण्याः ।
क्रीँ क्लीँ कृष्णदेवि ह्रीँ क्रीं ऐं ॥ * ॥ सारस्वत-
वीजम् । ऐं ॥ * ॥ कात्यायन्याः । ऐं ह्रीं श्रीं
चौं चण्डिकाय नमः ॥ * ॥ दुर्गायाः । दूं ॥ * ॥
विशालाक्ष्याः । ॐ ह्रीं विशालाक्ष्यै नमः ॥ * ॥
गौर्य्याः । ह्रीं गौरि रुद्रदयिते योगेश्वरि हूं फट्
स्वाहा ॥ * ॥ ब्रह्मश्रीमन्त्रः । ह्रीँ नमो ब्रह्म-
श्रीराजिते राजपूजिते जये विजये गौरि
गान्धारि त्रिभुवनशङ्करि सर्व्वलोकवशङ्करि
सर्व्वस्त्रीपुरुषवशङ्करि सुयुद्धदुर्घोररावे ह्रीँ
स्वाहा ॥ * ॥ इन्द्रस्य । इं इन्द्राय नमः ॥ * ॥
गरुडस्य । क्षिप ॐ स्वाहा ॥ * ॥ विषहराग्नि-
वीजम् । खः खं ॥ * ॥ वृश्चिकविषहरवीजम् ।
ॐ सरह स्फुः । ॐ हिलि हिमि चिलि हस्फुः ।
ॐ हिलि हिलि चिलि चिलि स्फुः । ब्रह्मणे
फुः । सर्व्वेभ्यो देवेभ्यस्फुः ॥ * ॥ मूषिकविषहर-
वीजम् । ॐ गेँ ऋँ ठं । आगमचन्द्रिकायां ॐ
गं गां ठः ॥ * ॥ मूषिकनाशमन्त्रः । ॐ सरणे
फुः असरणे फुः विसरणे फुः । एतन्मन्त्रं जपन्
श्वेतसर्षपप्रक्षेपात् मूषिकनाशो भवति ॥ * ॥
लूताविषहरमन्त्रः । ॐ ह्रीं ह्रीं हूं जकृत् ॐ
स्वाहा गरुड हूं फट् ॥ * ॥ सर्व्वकीटविषहर-
वीजम् । ॐ नमो भगवते विष्णवे सर सर हन
हन हुं फट् स्वाहा ॥ * ॥ सुखप्रसवमन्त्रः ।
ॐ मन्मथ मन्मथ वाहि वाहि लम्बोदर मुञ्च
मुञ्च स्वाहा । ॐ मुक्ताः पाशा विपाशाश्च
मुक्ताः सूर्य्येण रश्मयः । मुक्तः सर्व्वभयाद्गर्भ
एह्येहि मारीच मारीच स्वाहा । एतयो-
रन्यतरेणाष्टवारं जलमभिमन्त्र्य देयं पीत्वा
सुखप्रसवा भवति ॥ * ॥ हनूमतः । हं हनूमते
रुद्रात्मकाय हुं फट् ॥ * ॥ वीरसाधनस्य । हं
पवननन्दनाय स्वाहा ॥ * ॥ अथ आर्द्रपटी ।
ॐ नमो भगवति चामुण्डे रक्तवाससे अप्रति-
हतरूपपराक्रमे अमुकवधाय विचेतसे स्वाहा ।
आर्द्ररक्तपटेनावृतः समुद्रगामिनीनदीतटे
ऊषरभूमौ वा दक्षिणामुख ऊर्द्ध्वबाहुर्जपेत् ।
यावत् पटः शुष्यति तावत् प्राणाः शुष्यन्ति
शत्रोः ॥ * ॥ श्मशानभैरव्याः । श्मशानभैरवि
नररुधिरास्थिवसाभक्षणि सिद्धिं मे देहि मम
मनोरथान् पूरय हुं फट् स्वाहा ॥ * ॥ ज्वाला-
मालिन्याः । ॐ नमो भगवति ज्वालामालिनि
गृध्रगणपरिवृते हुं फट् स्वाहा ॥ * ॥ महा-
काल्याः । ॐ फ्रें फ्रें क्रों क्रों पशून् गृहाण
हुं फट् स्वाहा ॥ * ॥ अथ निगडबन्धन-
मोक्षणस्य । ॐ नम ऋते निरृते तिग्मतेजो
यन्मयं विव्रे ता बन्धमेतं यमेन दत्तं तस्या संविदा
नोत्तमे नाके अघोवोऽवैरम् ॥ * ॥ अथ चिटि-
मन्त्रः । ॐ चिटि चिटि चाण्डालि महा-
चाण्डालि अमुकं मे वशमानय स्वाहा ॥ * ॥
त्र्यम्बकस्य ।
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् ।
उर्व्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमामृतात् ॥
अथ मृतसंजीवनीमन्त्रः । हौँ ॐ जुँ सः ॐ
भूर्भुवः स्वः ।
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् ।
उर्व्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमामृतात् ॥
ॐ भूर्भुवः स्वः । इत्यादि तन्त्रसारः ॥ आक-
र्षणादिवीजानि बाहुल्यभयान्नोक्तानि ॥ * ॥
(अथ वीजाभिधानम् । यथा, --
“वीजसङ्केतबोधार्थमाहृत्य तन्त्रशास्त्रतः ।
वीजनामानि कतिचित् वक्ष्यामि विदुषां मुदे ॥
माया लज्जा परा संवित् त्रिगुणा भुवनेश्वरी ।
हृल्लेखा शम्भुवनिता शक्तिर्देवीश्वरी शिवा ॥
महामाया पार्व्वती च संस्थानकृतरूपिणी ।
परमेश्वरी च भुवना धात्री जीवनमध्यगा ॥ स्त्रीं ॥
वह्निहीनेऽस्त्रयुङ्माया स्थिरमाया प्रकीर्त्तिता ॥
ह्लीं ॥
शाग्निशान्तिर्बिन्दुनादैर्लक्ष्मीप्रणव उच्यते ।
श्रीर्लक्ष्मीर्विष्णुवनिता रमा क्षीरसमुद्रजा ॥ श्रीं ॥
षोडशव्यञ्जनं बह्निवामाक्षिबिन्दुसंयुतम् ।
चन्द्रवीजसमारूढं बधूवीजमिदं स्मृतम् ।
बधूर्वामेक्षणा योषिदेकाक्षी स्त्रीचकामिनी ॥ स्त्रीं
नादबिन्दुसमायुक्तो द्वादशस्तुमुरो भगम् ।
योनिः सरस्वतीवीजमधरं वाग्भवञ्च वाक् ॥ ऐं
हकारो वामकर्णाढ्यो नादबिन्दुविभूषितः ।
कूर्च्चं क्रोध उग्रदर्पो दीर्घहूङ्कार उच्यते ।
शब्दश्च दीर्घकवचं तारा प्रसव इत्यपि ॥ हूं ॥
कामाक्षरं वह्निसंस्थं रतिबिन्दुविभूषितम् ।
कालीवीजमिदं प्रोक्तं रतिवीजं तदेव हि ॥ क्रीं ॥
कामाक्षरं धरासंस्थं रतिबिन्दुविभूषितम् ।
गुप्तकालीवीजमिदं गोपालवीजमित्यपि ॥
तत्कामवीजं कामेशी वीजं शक्तिस्त्वसौ परा ॥ क्लीं ॥
सत्यान्तयुक्व्योमसेन्दुशैवं प्रासादमुच्यते ॥ हौं ॥
कलाद्यं क्लेदिनीवीजं क्रोङ्कारस्त्वङ्कुशाभिघः ॥ क्रों ॥
आकारो विन्दुमान् पाशः शेषश्च समुदीरितः ।
सकला भुवनेशानी कामेशी वीजमुच्यते ॥
नमस्तु हृदयं स्वाहा द्विठष्ठयुगलं ठठः ॥
नमः ॥ स्वाहा ॥
चन्द्रयुग्मं शिवो वेदमाता ज्वलनसुन्दरी ।
स्वाहा परा देवभोज्यं ठद्बयं चन्द्रयुग्गकम् ।
श्रुवो हविर्व्वेदमाता देवास्यं वह्निसुन्दरी ॥ स्वाहा ॥
शिखा वषट् शिरोमध्य शक्रमाता हरप्रिया ॥
शिखा वषट् च । वषट् कवचं क्रोधो वर्म्महूमि-
त्यपि ।
क्रोधाख्योहं तनुत्वञ्च शस्त्रादौ रिपुसंज्ञकः ॥ हूं ॥
अस्त्रनेत्रयुगं वौषट् ॥ वौषट् ॥ फडस्त्रं शस्त्र-
मायुधम् ॥ फट् ॥
तार्त्तीयन्तु ह्सौः प्रेतवीजम् ॥ ह्सौः ॥ हंसो-
ऽजपामनुः ॥ हंसः ॥
गकारो विन्दुमान् विघ्नवीजं गणेशवीजकम् ॥ गं ॥
स्मृतिस्थं मांसमौबिन्दुयुतं भूवीजमीरितम् ॥ लं ॥
ठान्तं दहननेत्रेन्दुयुतन्तु विम्बवीजकम् ॥ ड्रीं ॥
अथ कामकलावामनयनं विन्दुसंयुतम् ।
अर्कमात्राकलावाणीनादोर्द्धेन्दुः सदाशिवः ।
अनुच्चार्य्यतुरीया च विश्वमातृकला परा ॥ ँ ॥
नादः ॥
पृष्ठ ४/४६८
भूतडामरसङ्केतबोधार्थं भूतडामरीयवीजनामा-
न्यपि लिख्यन्ते ।
प्रणवो विषवीजं स्यात् ध्रुवं हालाहलं स्मृतम् ।
कालश्रुतिपथं ज्ञेयं बहुरूपी निरञ्जनम् ॥ प्रणवम् ॥
क्षतजस्थं व्योमवक्त्रं धूम्रभैरव्यलङ्कृतम् ।
नादबिन्दुसमायुक्तं वीजं प्राणात्मकं स्मृतम् ॥ ह्रीं
क्रोधीशं क्षतमारूढं धूम्रभैरव्यलङ्कृतम् ।
विद्या जिह्वा विन्दुयुतं पितृभूवासिनी स्मृतम् ॥ क्रीं
क्रोधकालात्मकं कुर्य्याद्भौतिकं वाग्भवं स्मृतम् ।
नादविन्दुसमायुक्तं समाधायोग्रभैरवीम् ॥
वीजमेतत्तु कथितं शुद्धबुद्धिप्रवर्त्तकम् ॥ ऐं ॥
क्रोधीशं बलभृद्धूम्रभैरवीनादविन्दुभिः ।
त्रिमूर्त्तमन्मथं कामराजस्त्रैलोक्यमोहनम् ।
इन्द्रासनगतो ब्रह्म समूर्त्तिस्तु समन्मथः ॥ क्लीं ॥
संयुक्तं धूम्रभैरव्यारक्तस्थं बलिभोजनम् ।
नादविन्दुसमायुक्तं किङ्किनी वीजमुत्तमम् ॥ ह्रीं ॥
नादविन्दुसमायुक्तं रक्तस्थं बलिभोजनम् ।
कालरात्र्यासनोपेतं विशिखाख्यं महामनुम् ॥ ह्रां ॥
विदार्य्यालिङ्गितोग्रात्योवसिस्तक्षतजोक्षतः ।
नादविन्दुसमायुक्तो विज्ञेयः पिसिताशनम् ॥ हुं ॥
धूम्रध्वजाधः कालाग्निः सोर्द्धकेशीन्दुविन्दुभिः ।
युगान्तकारकं वीजं भैरवेन प्रकाशितम् ॥ स्फें ॥
कपर्द्दिनं समादाय क्षतजः क्षितिविग्रहम् ।
संयुक्तं धूम्रभैरव्यां क्षोहयं नादविन्दुमान् ॥ प्रीं ॥
कपालीद्वयमादाय महाकालेन मण्डितम् ।
समासनमिति प्रोक्तं चण्डिकाढ्यंप्रयोजयेत् ॥
ठं ठं ठः ठः ॥
क्षतजस्थं व्योमवक्त्रं चन्द्रक्षतविभूषितम् ।
खद्योतमिति संप्रोक्तं ग्रासिनी कालरात्रियुक् ॥
ह्रँ ह्रँ ॥
क्षतजो क्षतमाकाशं नादविन्दुविभूषितम् ।
विदारी भूषितञ्चैव बीजं वैवस्वतोदृकम् ॥ ह्राँ ॥
कीर्त्त्याख्या कालवक्त्रा च महाकालेन साधितम् ॥
तदनादिपञ्चरश्मिः सृष्टिस्थित्यन्ततद्विधिः ॥ ॐ ॥
व्योमस्थं तालजङ्घास्थं विन्दुनादविभूषितम् ।
कूर्च्चं कालो महाकालः क्रोधवीजं निरञ्जनम् ॥ हूँ ॥
इति प्राणतोषिणी ॥)

वीजकः, पुं, मातुलुङ्गकः इति जटाधरः ॥ वृक्ष-

विशेषः । विजयासार इति हिन्दो भाषा ।
तत्पर्य्यायः । पीतसारः २ पीतशालकः ३
बन्धूकपुष्पः ४ प्रियकः ५ सर्ज्जकः ६ आसनः ७ ।
अस्य गुणाः । कुष्ठवीसर्पचित्रमेहगुदक्रिमि-
श्लेष्मास्रपित्तनाशित्वम् । त्वच्यत्वम् । केश्यत्वम् ।
रसायनत्वञ्च । इति भावप्रकाशः ॥ (यथा,
हरिवंशे । १५५ । २० ।
“अक्षकैर्व्वीजकैश्चैव मन्दारैश्चोपशोभितम् ॥”)
वीजे, क्ली ॥

वीजकृत्, क्ली, (वीजं वीर्य्यं करोति वर्द्धयतीति ।

कृ + क्विप् ।) वाजीकरणम् । इति राजनिर्घण्टः ॥

वीजकोशः पुं, (वीजानां कोष आधार इव ।)

पद्मवीजाधारचक्रिका । फोँफल
इति ख्यातः । इति भरतः ॥ तत्पर्य्यायः ।

वीजकोषः पुं, (वीजानां कोष आधार इव ।)

पद्मवीजाधारचक्रिका । फोँफल
इति ख्यातः । इति भरतः ॥ तत्पर्य्यायः ।
वराटकः २ । इत्यमरः ॥ कर्णिका ३ । इति
जटाधरः ॥ वारिकुब्जः ४ शृङ्गाटकः ५ । इति
शब्दरत्नावली ॥
वराटकः २ । इत्यमरः ॥ कर्णिका ३ । इति
जटाधरः ॥ वारिकुब्जः ४ शृङ्गाटकः ५ । इति
शब्दरत्नावली ॥

वीजगर्भः, पुं, (वीजानि गर्भेऽभ्यन्तरे यस्य ।)

पटोलः । इति राजनिर्घण्टः ॥

वीजगुप्तिः स्त्री, (वीजानां गुप्तिर्यत्र ।) शिम्बी ।

इति राजनिर्घण्टः ॥

वीजधान्यं, क्ली, (वीजप्रधानं धान्यम् ।) धान्य-

कम् । इति राजनिर्घण्टः ॥

वीजनं, क्ली, (वीज्यतेऽनेनेति । वि + ईज + करणे

ल्युट् ।) व्यजनम् । (यथा, आर्य्यासप्तशत्याम् । ४५० ।
“मलयजमपसार्य्य घनं वीजनविघ्नं विधाय
बाहुभ्याम् ॥
स्मरसन्तापादगणितनिदाघमालिङ्गते मिथु-
नम् ॥”)
वस्तु । कोके जीवञ्जीवे च पुं । इति सारस्वतः ॥

वीजपादपः, पुं, (वीजप्रधानः पादपः ।) भल्ला-

तकः । इति राजनिर्घण्टः ॥ (वीजोत्पन्न-
वृक्षमात्रञ्च ॥)

वीजपुष्पं, क्ली, (वीजप्रधानं पुष्पं यस्य ।) मरु-

वकः । मदनवृक्षः । इति मेदिनी । पे, २९ ॥

वीजपूरः, पुं, (वीजानां पूरः समूहो यत्र ।) फल-

पूरः । इत्यमरः ॥ टावा लेवु इति वङ्गभाषा ॥
विजौरा इति हिन्दी भाषा ॥ तत्पर्य्यायः ।
वीजपूर्णः २ पूर्णवीजः ३ सुकेशरः ४ वीजकः ५
केशराम्लः ६ मातुलुङ्गः ७ सुपूरकः ८ रुचकः ९
वीजफलकः १० जन्तुघ्नः ११ दन्तुरच्छदः १२
पूरकः १३ रोचनफलः १४ । अस्य फलगुणाः ।
अम्लत्वम् । कटुत्वम् । उष्णत्वम् । श्वासकास-
पवनशमनत्वम् । कण्ठशोधनकरत्वम् । लघु-
त्वम् । हृद्यत्वम् । दीपनत्वम् । रुचिकारि-
त्वम् । पावनत्वम् । आध्मानगुल्महृद्रोगप्लीहो-
दावर्त्तनाशित्वम् । विबन्धे हिक्कायां शूले
छर्द्द्याञ्च शस्यत्वञ्च । इति राजनिर्घण्टः ॥ * ॥
अपि च ।
“वीजपूरफलं स्वादु रसेऽम्लं दीपनं लघु ।
रक्तपित्तहरं कण्ठजिह्वाहृदयशोधकम् ।
श्वासकासारुचिहरं हृद्यं तृष्णाहरं स्मृतम् ॥”
तद्भेदमधुकर्क्कटी । यथा, --
“वीजपूरोऽपरः प्रोक्तो मधुरो मधुकर्क्कटी ।
मधुकर्क्कटिका स्वाद्वी रोचनी शीतला गुरुः ।
रक्तपित्तक्षयश्वासकाशहिक्काभ्रमापहा ॥”
इति भावप्रकाशः ॥
(यथा, महाभारते । ३ । १५८ । ४२ ।
“मुञ्जातकांस्तथा जीवान् दाडिमान् वीज-
पूरकान् ॥”)

वीजपूर्णः, पुं, (वीजेन पूर्णः ।) छोलङ्गः । इति

रत्नमाला ॥ वीजपूरः । इति राजनिर्घण्टः ॥

वीजपेशिका, स्त्री, (वीजस्य शुक्रस्य पेशिकेव ।)

अण्डकोषः । इति राजनिर्घण्टः ॥

वीजफलकः, पुं, (वीजप्रधानं फलं यस्य । कन् ।)

वीजपूरः । इति राजनिर्घण्टः ॥

वीजमातृका, स्त्री, (वीजानां वीजमन्त्रानां मातेव

जपमालात्वादस्यास्तथात्वम् ।) पद्मवीजम् ।
यथा, --
“पद्माक्षं पद्मवीजञ्च कर्णिका वीजमातृका ॥”
इति हारावली ॥

वीजरत्नः, पुं, (वीजं रत्नमिव यस्य ।) माष-

कलायः । इति हेमचन्द्रः ॥

वीजरुहः, पुं, (वीजात् रोहतीति । रुह +

इगुपधात् कः ॥) शाल्यादिः । यथा, --
“कुरण्ट्याद्या अग्रवीजा मूलजास्तूपलादयः ।
पर्व्वयोनय इक्ष्वाद्याः स्कन्दजाः शल्लकीमुखाः ॥
शाल्यादयो वीजरुहा संमूर्च्छजास्तृणादयः ।
स्युर्व्वनस्पतिका यस्य षडेते मूलजातयः ॥”
इति हेमचन्द्रः ॥
(क्वचित् वाच्यलिङ्गोऽपि दृश्यते ॥)

वीजरेचनं, क्ली, (वीजं रेचनं रेचकं यस्य ।)

जयपालः । इति राजनिर्घण्टः ॥

वीजवपनं, क्ली, (वीजानां वपनम् ।) क्षेत्रे वीजस्य

क्षेपणम् । तस्य दिनं दीपिकायाम् ।
“पूर्व्वाग्नियाम्यफणिपित्र्यशिवान्यभेषु
रिक्ताष्टमीविगतचन्द्रतिथिं विहाय ।
द्व्यङ्गालिगोसमुदये विकुजार्किवारे
शस्तेन्दुयोगकरणेषु हलप्रवाहः ॥”
हलप्रवाहवद्वीजवपनस्य विधिः स्मृतः ।
चित्रायाञ्च शुभे केन्द्रे स्थिरस्वमनुजोदये ॥
हेमवारिविलिप्तस्य वीजस्योन्नयतः शुचिः ।
इन्द्रं चित्ते निधायाथ स्वयं मुष्टित्रयं वपेत् ॥
कृत्वा चान्योन्यप्रोत्साहं नर्त्तको हृष्टमानसः ।
प्राङ्मुखः कलसं गृह्य इमं मन्त्रमुदोरयेत् ॥
त्वं वै वसुन्धरे सीते बहुपुष्पफलप्रदे ।
नमस्ते मे शुभं नित्यं कृषिं मेधां शुभे कुरु ॥
रोहन्तु सर्व्वशस्यानि काले देवः प्रवर्षतु ।
कर्षकास्तु भवन्त्वग्र्या धान्येन च धनेन च
स्वाहा ॥
उप्त्वा वीजन्तु तत्रैव भोक्तव्यं बान्धवैः सह ।
वीजवपनं प्राजापत्यतीर्थेन । यथा, हारीतः ।
कनिष्ठायाः पश्चात् प्राजापत्यमावपनम् । होम-
तर्पणे प्राजापत्येन कुर्य्यादिति । होमतर्पणे
लाजहोमशनकादितर्पणे । पराशरः ।
“वैशाखे वपनं श्रेष्ठं मध्यमं रोहिणीरवौ ।
अतः परस्मिन्नधमं न जातु श्रावणे शुभम् ॥”
ज्योतिषे ।
“पूर्व्वभाद्रपदा मूलं रोहिण्युत्तरफल्गुनी ।
विशाखा शतभिषा वाथ धान्यानां रोपणे
वरा ॥
सदोप्त्वा रजनीं नीलीं पुत्त्रवित्तैर्वियुज्यते ।
स्वयंजाते पुनस्ते द्वे पालयन् नैव दुष्यति ॥
आरामे गृहमध्ये वा मोहात् सर्षपमावपन् ।
पराभवं रिपोर्याति ससाधनधनक्षयम् ॥
निशा नीली पलाशश्च चिञ्चा श्वेतापराजिता ।
कोविदारश्च सर्व्वत्र सर्व्वं निघ्नन्ति मङ्गलम् ॥”
निशा हरिद्रा । कोविदारको रक्तकाञ्चनः ।
पृष्ठ ४/४६९
“हेमाम्भसा वृक्षवीजं स्नातो मन्त्रेण रोपयेत् ।
वसुधेति सुशीतेति पुण्यदेति धरेति च ।
नमस्ते शुभगे नित्यं द्रुमोऽयं वर्द्धतामिति ॥”
इति ज्योतिस्तत्त्वम् ॥

वीजवृक्षः, पुं, (वीजादेव वृक्षो यस्य । वीजप्रधानो

वृक्षो वा ।) असनः । इति राजनिर्घण्टः ॥

वीजसञ्चयः, पुं, (वीजानां सञ्चयः ।) वीजसंग्रहः ।

तच्छुभाशुभदिनादिर्यथा, --
“हस्ताचित्रादितिस्वातीरेवत्यां श्रवणद्वये ।
स्थिरे लग्ने गुरौ शुक्रे वीजं धार्य्यं ज्ञवासरे ॥
माघे वा फाल्गुने वापि सर्व्ववीजानि संग्रहेत् ।
शोषयेत्तापयेद्रौद्रे रात्रौ चोपनिधापयेत् ॥
ततश्च पुटिकां बद्ध्वा शोषयेच्च पुनः पुनः ।
स्थापयेच्च प्रयत्नेन यथा भूमिञ्च न स्पृशेत् ॥
दीपाग्निना च संस्पृष्टं वृष्ट्या चोपहतञ्च यत् ।
वर्ज्रनीयं तथा बीजं यत् स्यात् कीटसमन्वि-
तम् ॥ * ॥
याम्याहिरुद्राग्निविशाखपूर्व्वा-
माहेन्द्रपित्र्येतरभैः शुभाहे ।
धान्यादिसंस्थापनमेषु शस्तं
मृगस्थिरद्व्यङ्गगृहोदयेषु ॥
सौम्यादितिमघाज्येष्ठात्र्युत्तरेषु च कारयेत् ।
मीने लग्ने शुभे चन्द्रे निधनक्रूरवर्ज्जिते ॥
क्षेप्तव्यं कोष्ठके धान्यं गर्गो वदति सर्व्वदा ।
धनदाय सर्व्वलोकहिताय देहि मे धान्यं
स्वाहा ।
नम ईहायै ईहादेवी सर्व्वलोकविवर्द्धनी काम-
रूपिणि धान्यं देहि स्वाहा ।
लेखयित्वा इमं मन्त्रं धान्यागारे विनिक्षिपेत् ॥”
पुराणसर्व्वस्वे ।
“मन्त्रं लिखित्वा पत्रे च मध्ये धान्यस्य धारयेत् ।
पत्रञ्च धान्यराशेस्तु मूषिकादिनिवृत्तये ॥
दक्षिणदिङ्मुखगमनं स्यादभिनवासु नारीषु ।
व्ययमपि शस्यफलानां न बुधो बुधवासरे
कुर्य्यात् ॥
त्रिषूत्तरेषु रेवत्यां धनिष्ठावारुणेषु च ।
एतेषु षट्षु विज्ञेयं धान्यनिष्क्रयणं बुधैः ॥
श्रवणात्रयं विशाखाध्रुवपौष्णपुनर्व्वसूनि पुष्यश्च ।
अश्विन्यथ ज्येष्ठा धनधान्यविवर्द्धिनी कथिता ॥”
इति ज्योतिस्तत्तम् ॥

वीजसूः, स्त्री, (वीजानि सूते इति । सू + क्विप् ।)

पृथ्वी । इति हेमचन्द्रः ॥

वीजाकृतं, त्रि, (वीजेन सह कृतं कृष्टमिति ।

“कृञो द्वितीयतृतीयशम्बवीजात् कृषौ ।” ५ । ४ ।
५८ । इति डाच् ।) उप्तकृष्टम् । इत्यमरः ॥ द्वे
वीजेन सह कृष्टे क्षेत्रे । वीजेन सह कृतं कृष्टं
वीजाकृतम् । तीयशम्बवीजेति डाच् । आदा-
युप्तं पश्चात् कृष्टं उप्तकृष्टम् । इति भरतः ॥

वीजाम्लं, क्ली, (वीजे अम्नोऽम्लरसो यस्य ।)

वृक्षाम्लम् । इति राजनिर्घण्टः ॥

वीजी, [न्] पुं, (वीजमस्त्यस्येति । वीज + इनिः ।)

पिता । इति हेमचन्द्रः ॥ (यथा, उद्वाहतत्त्वे ।
“अतएव द्वैतनिणयेऽपि सापिण्ड्यगणने वीजिन-
मारभ्येत्युक्तम् ॥” यथा च गोतमसंहितायाम् ।
४ । १ ।
“असमानप्रवरैर्व्विवाह ऊर्द्धं सप्तमात् पितृ-
बन्धुभ्यो वीजिनश्च मातृबन्धुभ्यः पञ्चमात् ॥”)
वीजविशिष्टे, त्रि ॥ (यथा, मनौ । ९ । ५१ ।
“तथैवाक्षेत्त्रिणो वीजं परक्षेत्रप्रवापिणः ।
कुर्व्वन्ति क्षेत्रिणामर्थं न वीजी लभते फलम् ॥”)

वीजोदकं, क्ली, (वीजमिव कठिनमुदकम् । तस्य

कठिनत्वात्तथात्वम् ।) करका । इति त्रिकाण्ड-
शेषः ॥

वीजोप्तिचक्रं, क्ली, (वीजानामुप्तये शुभाशुभसूचकं

चक्रम् ।) वीजवपनजन्यशुभाशुभज्ञानार्थसर्पा-
कारचक्रम् । यथा, --
“सूर्य्यभादुरगः स्थाप्यस्त्रिनाड्ये कान्तरक्रमात् ।
मुखे त्रीणि गले त्रीणि भानि द्बादश तूदरे ॥
पुच्छे चतुर्व्वहिः पञ्च दिनभाच्च फलं वदेत् ।
वदने चोचकं विद्यात् गलकेऽङ्गारकस्तथा ॥
उदरे धान्यवृद्धिः स्यात् पुच्छे धान्यक्षयो
भवेत् ।
ईतिरोगभयं राज्ये चक्रे वीजोप्तिसम्भवे ॥”
सूर्य्यभात् सूर्य्यमुज्यमाननक्षत्रात् । त्रिनाड्ये-
कान्तरक्रमादिति यद्यश्विन्यां रविस्तदा तामा-
रभ्य गणयेत् । त्रिनाडीषु अश्विनीभरणी-
कृत्तिकासु दत्त्वा रोहिणी बहिः कार्य्या मृग-
शिरस आर्द्रापुनर्व्वसुनाडीषु दत्त्वा पुष्यो बहिः
कार्य्यः । एवं क्रमेणान्या लेख्याः । चोचकं
शस्यशून्यताम् । ईतयः ।
“अतिवृष्टिरनावृष्टिः शलभा मूषिकाः खगाः ।
प्रत्यासन्नाश्च राजानः षडेते ईतयः स्मृताः ॥”
इति ज्योतिस्तत्त्वम् ॥

वीज्यः, त्रि, (विशेषेण इज्यः पूज्यः । अथवा वीजाय

हितः इति । “उगवादिभ्यो यत् ।” ५ । १ । २ । इति
यत् ।) यस्य कस्यचित् कुलभवः । तत्पर्य्यायः ।
कुलसंभवः २ । इत्यमरः ॥ वंश्यः ३ कौलकेयः ४
कुलजः ५ । इति शब्दरत्नावली ॥ कुलीनः ६
कुल्यः ७ कुलभवः ८ । इति जटाधरः ॥

वीटिः, स्त्री, (विशेषेण एटति छायानिखात-

यष्ट्यादिं वेष्टयित्वा प्रवर्द्धते । वि + इट + “इगु-
पधात् कित् ।” उणा० ४ । ११९ । इति इन् । स
च कित् ।) ताम्बूलवल्ली । इति केचित् ॥
सुसज्जीकृतताम्बूलम् । पानेर वीडा इति भाषा ।
इति केचित् ॥

वीटिका, स्त्री, (वीटिरेव । स्वार्थे कन् स्त्रियामाप् ।)

ताम्बूलवल्ली । इति केचित् ॥ सुसज्जीकृतताम्बू-
लम् । पानेर वीडि इति भाषा । इति केचित् ॥
(यथा, राजतरङ्गिण्याम् । ४ । ४३० ।
“भ्रूसंज्ञयासि कस्य त्वं पृष्टाया इति सुभ्रुवः ।
ददन्त्या वीटिकास्तस्या वृत्तान्तमुपलब्धवान् ॥”)

वीटी, स्त्री, (वीटि + वा ङीष् ।) ताम्बूलवल्ली ।

इति केचित् ॥ सुसज्जीकृतताम्बूलम् । पानेर
वीडि इति भाषा । इति केचित् ॥

वीणा, स्त्री, (वेति दृष्टिमात्रमपगच्छतीति । वी

गतौ + “रास्नासास्नास्थूणावीणाः ।” उणा०
३ । १५ । इति नः निपातनाद्गुणाभावो
णत्वञ्च ।) विद्युत् । इति मेदिनी । णे, २८ ॥
(वेति श्रोतुश्चित्तं व्याप्नोतीति । वी व्याप्तौ +
नः ।) स्वनामख्यातवाद्यम् । तत्पर्य्यायः । वल्लकी
२ विपञ्ची ३ । सा तु सप्ततन्त्रीयुक्ता चेत्परिवा-
दिनी ४ । इत्यमरः ॥ ध्वनिमाला ५ । इति
जटाधरः । वङ्गमल्ली ६ विपञ्चिका ७ । इति
शब्दरत्नावली ॥ घोषवती ८ कण्ठकूणिका ९ ।
(यथा, महाभारते । ९ । १३४ । १४ ।
“सप्तर्षयः सप्त चाप्यर्हणानि
सप्ततन्त्री प्रथिता चैव वीणा ॥”)
तद्भदा यथा । शिवस्य वीणा लम्बी १ सरस्वत्याः
कच्छपी २ नारदस्य महती ३ गणानां प्रभा-
वती ४ विश्वावसोः बृहती ५ तुम्बुरोः कला-
वती ६ चाण्डालानां कण्डोलवीणा चाण्डालिका
च ७ । तस्याङ्गादीनां नामादि यथा । तस्याः
कायः कोलम्बकः । तस्या निबन्धनं उपनाहः ।
तस्या दण्डः प्रबालः । तस्याः प्रान्तवक्रकाष्ठं
ककुभः प्रसेवकश्च । तस्या मूले वंशशलाका
कलिका कूणिकापि च । तस्या वादनं कोणः ।
इति हेमचन्द्रादयः ॥ अस्या विवरणं वाद्यशब्दे
द्रष्टव्यम् ॥

वीणादण्डः, पुं, (वीणाया दण्डः ।) वीणास्थिता-

लावूपरिकाष्ठम् । तत्पर्य्यायः । प्रबालः २ ।
इत्यमरः ॥

वीणानुबन्धः, पुं, (वीणाया अनुबन्धः ।) उपनाहः ।

इति हारावली ॥

वीणावादः, त्रि, (वीणां वादयतीति । वद् +

णिच् + अण् ।) वीणावादकः । तत्पर्य्यायः ।
वैणिकः २ । इत्यमरः ॥ (यथा, वाजसनेय-
संहितायाम् । ३० । १९ ।
“शब्दायाडम्बराघातं महसे वीणावादमिति ॥”)

वीनावादकः, पुं, (वीणाया वादकः ।) वीणावाद्य-

कर्त्ता । इति शब्दरत्नावली ॥

वीणास्यः, पुं, (वीणा आस्यमिव यस्य । तयैव स्फुट-

गानकरणात् ।) नारदः । इति जटाधरः ॥

वीतं, क्ली, (वेति स्म । वी + क्तः । अथवा अजति स्म ।

अज् + गत्यर्थेति क्तः ।) असारहस्त्यश्वम् ।
युद्धाक्षममित्यर्थः । इत्यमरः ॥ अङ्कुशकर्म्म । इति
मेदिनी । ते, ५८ ॥ (यथा, माघे । ५ । ४७ ।
“निर्धूतवीतमपि बालकमुल्ललन्तं
यन्ता क्रमेण परिसान्त्वनतर्ज्जनाभिः ॥”
सांख्योक्तानुमानविशेषः । यथा, सांख्यतत्त्व-
कौमुद्याम् । ५ ।
“प्रथमं तावद्द्विविधं वीतमवीतञ्च । अन्वय-
मुखेन प्रवर्त्तमानं विधायकं वीतम् ॥” अस्य
विशेषविवरणं तत्रैव द्रष्टव्यम् ॥ त्रि । कमनीयः ।
यथा, ऋग्वेदे । ४ । ७ । ६ ।
“तं शश्वतीषु मातृषु वन आ वीतमश्रितम् ॥”
“वीतं कान्तम् ।” इति तद्भाष्ये सायणः ॥)
पृष्ठ ४/४७०

वीतंसः, पुं, (विशेषेण बहिरेव तस्यते भूष्यते इति ।

वि + तन्स + घञ् । “उपसर्गस्य घञ्ञमनुष्ये
बहुलम् ।” ६ । ३ । १२२ । इति दीर्घः ।)
मृगपक्षिणां बन्धनोपकरणम् । इत्यमरः ॥
मृगपक्षिणां विश्वासहेतोः प्रावरणम् । इति
मेदिनी । से, ४० ॥

वीतः, त्रि, (विशेषेण एति स्म । वि + इन् + क्तः ।)

शान्तः । इति हेमचन्द्रः ॥ गतः । विपूर्ब्बे
नधातोः क्तप्रत्ययेन निष्पन्नमिदम् ॥ (यथा,
रघौ । ५ । २ ।
“स मृण्मये वीतहिरण्मयत्वात्
पात्रे निधायार्घ्यमनर्घ्यशीलः ॥”)

वीतदम्भः, त्रि, (वीतस्त्यक्तो दम्भो येन सः ।) त्यक्त-

दम्भः । तत्पर्य्यायः । अवल्कनः २ । इति
जटाधरः ॥

वीतनः, पुं, कृकपार्श्वद्वयम् । यथा, हेमचन्द्रे ।

“कृकस्तु कन्धरामध्यं कृकपार्श्वौ तु वीतनौ ॥”

वीतभयः, पुं, (वीतं भयं यस्य यस्माद्वा ।)

विष्णुः । यथा, --
“अक्रूरः पेशलो दक्षो दक्षिणः क्रमिणांवरः ।
विद्बत्तमो वीतभयः पुण्यश्रवणकीर्त्तनः ॥”
इति तस्य सहस्रनामस्तोत्रम् ॥

वीतरागः, पुं, (वीतो रागो विषयवासना यस्य ।)

बुद्धः । इति त्रिकाण्डशेषः ॥ विगतरागे, त्रि ।
यथा, --
“दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥”
इति भगवद्गीता ॥
(यथा च महाभारते । १२ । ३४९ । ४७ ।
“वीतरागश्च पुत्त्रस्ते परमात्मा भविष्यति ।
महेश्वरप्रसादेन नैतद्वचनमन्यथा ॥”)

वीतशोकः पुं, अशोकवृक्षः । इति शब्दमाला ॥

(वीतः शोको यस्मात् । अशोकाष्टम्यां तत्पानेन
शोकनाशत्वात्तस्य तथात्वम् । तथा च तिथितत्त्वे ।
“त्वामशोक हराभीष्ट मधुमाससमुद्भव ।
पिवामि शोकसन्तप्तो मामशोकं सदा कुरु ॥”
विगतः शोको यस्य ।) विगतशोके, त्रि ।
(यथा, महाभारते । ३ । १७३ । १० ।
“सर्व्वकामगुणोपेतं वीतशोकमनामयम् ॥”)

वीतिः, स्त्री (वयनमिति । वी + क्तिन् ।) गतिः ।

दीप्तिः । (यथा, गो० रामायणे । २ । १०० ।
४७ ।
“सुवर्णवीतिप्रतिमाः पद्मकिञ्जल्कसप्रभाः ।
दिव्या विंशति साहस्राः कुवेरप्रहिताः स्त्रियः ॥”)
प्रजनम् । अशनम् । धावनम् । इति मेदिनी ।
ते, ५९ ॥ (पानम् । यथा, ऋग्वेदे । ७ । ६८ । २ ।
“प्रवामन्धांसि मद्यान्यस्थुररं गन्तं हविषो
वीतये मे ॥”
“हविषो वीतये पानाय ।” इति तद्भाष्ये सायणः ॥
प्राप्तिः । यथा, ऋग्वेदे । ३ । १३ । ४ ।
“स नः शर्म्माणि वीतयेऽग्निर्यच्छतु शन्तमा ॥”
“वीतये सम्भजनाय अग्निहोत्रादिकर्म्म प्राप्त्य-
र्थम् ।” इति तद्भाष्ये सायणः ॥ यज्ञः । यथा,
ऋग्वेदे । ९ । १ । ४ ।
“अभ्यर्षमहानां देवानां वीतिमन्धसा ॥”
“वीतिं यज्ञं अन्धसा धानाद्यन्नेन सह अभ्यर्ष
अभिगच्छ ।” इति तद्भाष्ये सायणः ॥)

वीतिः, पुं, घोटकः । इति हेमचन्द्रः ॥ (यथा,

राजतरङ्गिण्याम् । ७ । ३७७ ।
“अस्मिंस्तु वीतिमारूढे वीतिहोत्रसमे नृपे ।
कस्त्राता च त्वदीयानां तृणानामिव शस्त्रि-
णाम् ॥”)

वीतिहोत्रः, पुं, (वी गतिकान्त्यसनखादनेषु +

कर्म्मणि क्तिन् । वीतिः पुरोडाशादिः हूयते
अस्मिन्निति । “हुयामाश्रुभसिभ्यस्त्रन् ।” उणा०
४ । १६७ । इति त्रन् । अथवा वीतये पानाय
होत्रं हव्यं यस्य ।) अग्निः । इत्यमरः ॥ सूर्य्यः ।
इति मेदिनी । ते, २९७ ॥ (यथा, राजतरङ्गि-
ण्याम् । ७ । ३७७ ।
“अस्मिंस्तु वीतिमारूढे वीतिहोत्रसमे नृपे ॥”
प्रियव्रतपुत्त्रान्यतमः । यथा, भागवते । ५ । १ । २५ ।
“अग्निध्रेध्मजिह्वयज्ञबाहुमहावीरहिरण्यरेतो
घृतपृष्ठसवनमेधातिथिवीतिहोत्रकवय इति
सर्व्व एवाग्निनामानः ॥” राजविशेषः । यथा,
महाभारते । ७ । ६८ । १० ।
“रक्षोवाहान् वीतिहोत्रान् त्रिगर्त्तान् मार्त्ति-
कावतान् ॥”
हैहयवंशीयराजविशेषः । यथा, हरिवंशे ।
३३ । ५० ।
“तेषां कुले महाराज हैहयानां महात्मनाम् ।
वीतिहोत्रः सुजाताश्च भोजास्त्ववन्तयः
स्मृताः ॥”
त्रि, प्राप्तयज्ञः । यथा, ऋग्वेदे । १ । ८४ । १८ ।
“कस्मै देवा आवहानाशु होम-
को मंसते वीतिहोत्रः सुदेवः ॥”
“वीतिहोत्रः प्राप्तयज्ञः । *** । वीतिहोत्रः
वीगत्यादिषु अस्मात् कर्म्मणि मन्त्रे वृषेत्यादिना
क्तिन् स चोदात्तः । होत्रं होमः हुयामाश्रु-
भसिभ्यस्त्रन् इति त्रन्प्रत्ययः । वोतिः प्राप्तो
होमो येन बहुव्रीहौ पूर्व्वपदप्रकृतिस्वरत्वम् ॥”
इति तद्भाष्ये सायणः ॥ कान्तयज्ञः । यथा,
ऋग्वेदे । २ । ३८ । १ ।
“नूनं देवेभ्यो विहिधाति रत्न-
मथाभजद्वीतिहोत्रं स्वस्तौ ॥”
“वीतिहोत्रं कान्तयज्ञं यजमानं स्वस्तौ अवि-
नाशे क्षेमे आ अभजद्भागिनं करोतु ।” इति
तद्भाष्ये सायणः ॥)

वीथिः, स्त्री, (विथ्यतेऽनया । विथ + इगुपधात्

किदितीन् । बाहुलकाद्दीर्घः ।) वीथी । यथा, --
“पङ्क्तिवर्त्मगृहाङ्गेषु वीथिर्वीथी च वीथिका ।”
इति रत्नकोषः ॥
(यथा, राजतरङ्गिण्याम् । ३ । ३६२ ।
“तद्विना नगरं कुत्र पवित्राः सुलभा भुवि ।
मुभगाः सिन्धुसम्भेदाः क्रीडावसथवीथिषु ॥”
वर्त्मार्थे यथा, राजतरङ्गिण्याम् । ३ । ३०७ ।
“चिरं खलु खिलीभूताः कृतज्ञत्वस्य वीथयः ।
धीर त्वयैव न त्वासु सञ्चारो यदि दर्श्यते ॥”)

वीथिका, स्त्री, (वीथिरेव । स्वार्थे कन् ततष्टाप् ।)

वीथिः । इति शब्दरत्नावली ॥ (यथा, कथा-
सरित्सागरे । ७३ । ३० ।
“अस्ति दक्षिणदिक्प्रान्ते प्रावृषो जन्मभूरिव ।
पिहितार्का घनश्यामा तमालवनवीथिका ॥”)

वीथी, स्त्री, (वीथि + वा ङीष् ।) पङ्क्तिः । गृहा-

ङ्गम् । (यथा, हरिवंशे । ८३ । १८ ।
“तावप्युभौ सुवचनौ जग्मतुर्म्माल्यकारणात् ।
वीथीं माल्यापणानां वै गन्धाघ्रातौ द्विपाविव ॥”)
नाट्यरूपकः । वर्त्म । इति मेदिनी । थे, ११ ॥
(यथा, महाभारते । ५ । ५१ । ३२ ।
“वीथीं कुर्व्वन् महाबाहुर्द्रावयन् मम वाहि-
नीम् ।
नृत्यन्निव गदापाणिर्युगान्तं दर्शयिष्यति ॥” * ॥)
अथ वीथी ।
“वीथ्यामेको भवेदङ्कः कश्चिदेकोऽत्र कल्प्यते ।
आकाशभाषितैरुक्तैश्चित्रां प्रत्युक्तिमाश्रितः ॥
सूचयेद्भूरि शृङ्गारं किञ्चिदन्यान् रसानपि ।
मुखनिर्व्वहणे सन्धी अर्थप्रकृतयोऽखिलाः ॥
कश्चिदित्युत्तमो मध्यमोऽधमो वा शृङ्गारबहुल-
त्वाच्चास्याः कैशिकीवृत्तिबहुलत्वम् ॥ * ॥
अस्यास्त्रयोदशाङ्गानि निर्द्दिशन्ति मनीषिणः ।
उद्घात्यकावलगिते प्रपञ्चस्त्रिगतं छलम् ॥
वाक्केल्यधिवले गण्डमवस्यन्दितनालिके ।
असत्प्रलापव्याहारमृदवानि च तानि तु ॥ * ॥
तत्रोद्घात्यकावलगिते प्रस्तावनाप्रस्तावे सोदा-
हरणं लक्षिते ॥ * ॥
मिथोवाक्यसमुद्भूतं प्रपञ्चो हास्यकृन्मतः ॥
यथा, विक्रमोर्व्वश्याम् । वडभीस्थविदूषकचेट्यो-
रन्योन्यवचनम् । * ।
त्रिगतं स्यादनेकार्थयोजनं श्रुतिसाम्यतः ॥
यथा । तत्रैव राजा ।
सर्व्वक्षितिभृतां नाथ दृष्टा सर्व्वाङ्गसुन्दरी ।
रामा रम्ये वनान्तेऽस्मिन् मया विरहिता त्वया ॥
नेपथ्ये तत्रैव प्रतिशब्दः राजा कथं दृष्टेत्याह ।
अत्र प्रश्नवाक्यमेवोत्तरवाक्यत्वेन योजितम् ।
नटादित्रितयविषयमेवेदमिति कश्चित् ॥ * ॥
प्रियाभैरप्रियैर्व्वाक्यैर्विलोभ्य च्छलनात् छलम् ।
यथा, वेण्यां भीमार्ज्जुनौ ।
कर्त्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः
सोऽभिमानी
राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य
मित्रम् ।
कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य
दासाः
क्वास्ते दुर्य्योधनोऽसौ कथयतु न रुषा द्रष्टुम-
भ्यागतौ स्वः ॥
अन्ये त्वाहुश्छलं किञ्चित् कार्य्यमुद्दिश्य कस्य-
चित् ।
पृष्ठ ४/४७१
उदीर्य्यते यद्वचनं वञ्चनाहास्यरोषकृत् ॥ * ॥
वाक्केलिर्हास्यसम्बन्धो द्वित्रिप्रत्युक्तितोभवेत् ॥
द्वित्रीत्युपलक्षणं यथा, --
भिक्षो मांसनिषेवणं प्रकुरुषे किन्तत्र मद्यं विना
मद्यञ्चापि तव प्रियं प्रियमहो वाराङ्गनाभिः
सह ।
तासामर्थरुचिः कुतस्तव धनं द्यूतेन चौर्य्येण वा
चौर्य्यद्यूतपरिग्रहोऽपि भवतो नष्टस्य कान्या
गतिः ॥
केचित् प्रक्रान्तवाक्यस्य साकाङ्क्षस्यैव निर्व्वृत्ति-
र्वाक्केलिरित्याहुः । अन्ये चानेकस्य प्रश्नस्यै-
कमुत्तरम् ॥ * ॥
अन्योन्यवाक्याधिक्योक्तिः स्पर्द्धयाधिबलं मतम् ॥
यथा, मम प्रभावत्यां वज्रनाभः ।
अस्य वक्षः क्षणेनैव निर्मथ्य गदयानया ।
लीलयोन्मूलयिष्यामि भुवनद्बयमद्य वः ॥
प्रद्युम्नः । अरे रे असुरापसद अलममुना बहु-
प्रलापेन मम खलु ।
अद्य प्रचण्डभुजदण्डसमर्पितोरु-
कोदण्डनिर्गलितकाण्डसमूहपातैः ।
आस्तां समस्तदितिजक्षतजोक्षितेयं
क्षौणी क्षणेन पिशिताशनलोभनीया ॥ * ॥
गण्डं प्रस्तुतसम्बन्धि भिन्नार्थं सत्वरं वचः ॥
यथा वेण्यां राजा ।
अध्यासितुं तव चिराज्जघनस्थलस्य
पर्य्याप्तमेव करभोरु ममोरुयुग्मम् ।
अनन्तरं प्रविश्य कञ्चुकी देव भग्नं भग्नमित्यादि ।
अत्र रथकेतनभङ्गार्थं वचनमूरुभङ्गार्थे सम्बन्धे
सम्बद्धम् ॥ * ॥
व्याख्यानं स्वरसोक्तस्यान्यथावस्यन्दितं भवेत् ॥
यया छलितरामे सीता । जाद काल्लं कखु उ
अञ्झा एण गन्तव्वं तहिं सो राआ विणएण
पणायिदव्वो । लवः । अथ किमावाभ्यां राजो-
पजीविभ्यां भवितव्यम् । सीता । जादसो
तुह्माणं पिदा । लवः । किमावयो रघुपतिः
पिता । सीता । साशङ्कं मा अण्णधा सङ्कधणं
क्खु तुह्माणं स आलाज्जे एव पुहवीएत्ति ॥ * ॥
प्रहेलिकैव हास्येन युक्ता भवति न लिका ॥
संवरणकार्य्युत्तरं प्रहेलिका । यथा रत्नावल्याम् ।
सुसङ्गता सहि जस्म कदे तु मं आअदा सो
इधज्जेव चिट्टदि साअरिआ कस्म कदे अहं
आअदा सुसंणं चित्तफलअस्म । अत्र त्वं राज्ञः
कृते आगतेत्यर्थः संवृतः ॥ * ॥
असत्प्रलापो यद्वाक्य मसम्बद्धं तथोत्तरम् ।
अगृह्णतोऽपि मूर्खस्य पुरो यच्च हितं
वचः ॥
तत्राद्यं यथा मम प्रभावत्याम् । प्रद्युम्नः सह-
कारवल्लीमवलोक्य सानन्दं अहो कथमिहैव ।
अलिकुलमञ्जुलकेशी
परिमलबहुला रसावहा तन्वी ।
किशलयपेशलपाणिः
कोकोलकलभाषिणी प्रियतमा मे ॥
एवमसम्बन्धोत्तरेऽपि । तृतीयं यथा । वेण्यां
दुर्य्योधनं प्रति गान्धारीवाक्यम् ।
व्याहारो यत् परस्यार्थे हास्यलोभकरं वचः ।
यथा मालविकाग्निमित्रे । लास्यप्रयोगावसाने
मालती निर्गन्तुमिच्छति विदूषकः मादवे उप-
देश मुध्वा गमिष्यसि । इत्युपक्रमेण दासः ।
विदूषकं प्रति आर्य्य उच्यतां यस्तया क्रमभेदो
लक्षितः । विदूषकः पौमं । वह्मण पूआभोदि
साइ माए लङ्घिदा मालती स्मयत इत्यादिना ।
नायकस्य विशुद्धनायिकादर्शनप्रयुक्तेन हास-
लोभकारिणा वचसा व्याहारः ॥ * ॥
दोषा गुणा गुणा दोषा यत्र स्युर्मृदवं हि तत् ॥
क्रमेण यथा, --
प्रियजीवितता क्रौर्य्यं नस्नेहत्वं कृतघ्नता ।
भूयस्तद्दर्शनादेव ममैते गुणतां गताः ॥
तस्यास्तद्रूपसौन्दर्य्यं भूषितं यौवनश्रिया ।
सुखैकायतनं जातं दुःखायैव ममाधुना ॥
एतानि चाङ्गानि नाटकादिषु संभवन्त्यपि
वीथ्यामवश्यं विधेयानि निष्पष्टतया नाटकादिषु
विनिविष्टान्यपि इहोदाहृतानि । वीथी च
नानारसानाञ्चात्र मालारूपतया स्थितत्वाद्-
वीथीयम् । यथा मालविका ।” इति साहित्य-
दर्पणम् ॥ * ॥ * ॥ सूर्य्यगमनपथः । यथा, --
“नागवीथ्युत्तरा वीथी अजवीथ्याश्च दक्षिणे ।
उभे आसाडमूलन्तु अजवीथ्युदयास्त्रयः ॥
अभिजित् पूर्व्वतः स्वाती नागवीथ्युत्तरास्त्रयः ।
अश्विनी कृत्तिका याम्या नागवीथ्युत्तराः स्मृताः ।
रोहिण्यार्द्रा मृगशिरो नागवीथिरिति स्मृता ॥
पुष्याश्लेषापुनर्व्वसोर्वीथिरैरावती स्मृता ।
तिस्रस्तु वीथयो ह्मेता उत्तरो मार्ग उच्यते ॥
पूर्ब्बा उत्तरफल्गुण्योर्मघाश्चैरावती भवेत् ।
पूर्व्वोत्तरे प्रोष्ठपदे गोवीथी रेवती स्मृता ॥
श्रवणा च धनिष्ठा च वारुणञ्च जरद्गवम् ।
एताश्च वीथयस्तिस्रो मध्यमो मार्ग उच्यते ॥
हस्ता चित्रा तथा स्वाती नागवीथिरिति स्मृता ॥
विशाखमित्रपैत्रश्च नागवीथिरिहोच्यते ॥
मूलपूर्ब्बोत्तराषाढा वीथिर्वैश्वानरी तथा ।
स्मृतास्तिस्रस्तु वीथ्यस्ता मार्गे वै दक्षिणे बुधैः ॥”
इति मात्स्ये १०१ अध्यायः ॥ * ॥
अपि च ।
“उत्तरं यदगस्त्यस्य अजवीथ्याश्च दक्षिणम् ।
पितृयानं स वै पन्था वैश्वानरपथाद्बहिः ।
तत्रासते महात्मान ऋषयो येऽग्निहोत्रिणः ॥”
इति विष्णु पुराणे २ अंशे ८ अध्यायः ॥ * ॥
तत्र ज्योतिश्चक्रे वीथीक्रमो वायुनोक्तः ।
“सर्व्वग्रहाणां त्रीण्येव स्थानानि द्विजसत्तमाः ।
स्थानं जारद्गवं मध्यं तथैरावतमुत्तरम् ।
वैश्वानरं दक्षिणतो निर्द्दिष्टमिह तत्त्वतः ॥”
तदेव मध्यमोत्तरदक्षिणमार्गत्रयं प्रत्येकं वीथि-
त्रयेण त्रिधा भिद्यते । तथा हि त्रिभिस्त्रिभि-
रश्विन्यादिनक्षत्रैर्नागवीथी गजवीथी ऐरावती
चेत्युत्तरमार्गे वीथित्रयम् । आर्षभी गोवीथी
जारद्गवी चेति वैषुवते मध्यमार्गे वीथित्रयम् ।
अजवीथी मृगवीथी वैश्वानरी चेति दक्षिण-
मार्गे वीथीत्रयम् । तदुक्तं तत्रैव ।
“अश्विनी कृत्तिका याम्या नागवीथीति
शब्दिता ।
रोहिण्यार्द्रा मृगशिरो गजवीथ्यभिधीयते ॥
पुष्याश्लेषे तथादित्या वीथी चैरावती स्मृता ।
एतास्तु वीथयस्तिस्र उत्तरो मार्ग उच्यते ॥
तथा द्वे चापि फल्गुण्यौ मघा चैवार्षभी
मता ।
हस्ता चित्रा तथा स्वाती गोवीथीति तु
शब्दिता ॥
ज्येष्ठा विशाखानुराधा वीथी जारद्गवी मता ।
एतास्तु वीथयस्तिस्रो मध्यमो मार्ग उच्यते ॥
मूलाषाढोत्तराषाढा अजवीथीति शब्दिता ।
श्रवणञ्च धनिष्ठा च मार्गी शतभिषस्तथा ॥
वैश्वानरी भाद्रपदे रेवती चैव कीर्त्तिता ।
एतास्तु वीथयस्तिस्रो दक्षिणो मार्ग उच्यते ॥”
याम्या भरणी । आदित्या अदितिदेवताका
पुनर्व्वसुः । मार्गी मृगवीथी । एवं स्थिते
अगस्त्यादुत्तरमजवीथ्यास्तु दक्षिणम् । किन्तु
अगस्त्यनिरूढवर्त्तिनो वैश्वानरपथाद्वहिर्वैश्वा-
नरवीथीं विहाय मृगवीथीमात्रं पितृयान-
मित्यर्थः । इति तट्टीकायां श्रीधरस्वामी ॥

वीथ्यङ्गः, त्रि, (वीथ्या अङ्गमिवाङ्गं यस्य ।)

नाटकभेदः । इति हेमचन्द्रः ॥ अस्य विवरणं
वीथीशब्दे द्रष्टव्यम् ॥

वीध्रं, क्ली, (विशेषेण इन्धते दीप्यते इति । वि +

इन्ध + “वाविन्धेः ।” उणा० २ । २६ । इति
क्रन् ।) नभः । (यथा, अथर्व्ववेदे । ४ । २० । ७ ।
“वीध्रे सूर्य्यमिव सर्पन्तं मा पिशाचं तिर-
स्करः ॥”)
वायुः । अग्निः । इति संक्षिप्तसारोणादि-
वृत्तिः ॥

वीध्रः, त्रि, (वि + इन्ध + क्रन् ।) विमलः । इत्यमरः ॥

वीनाहः, पुं, (विशेषेण नह्यते इति । वि + नह +

घञ् । उपसर्गस्य दीर्घः ।) कूपस्य मुखबन्ध-
नम् । इत्यमरः ॥ अस्य कूपस्य यन्मुखबन्धनं
येन मुखं वध्यते तत्र वीनाहः नान्दीपट्ट इति
ख्यातः । विशेषेण नह्यते कूपमुखमनेन ।
वीनाहः । नह्य ञौ बन्धे घञ् मनीषादित्वान्
वेर्व्वा दीर्घः विनाहः वीनाहः कूपमुखबन्ध-
पट्ट इति साञ्झः । इति भरतः ॥

वीपा, स्त्री, विद्युत । इति शब्दरत्नावली ॥

वीप्सा, स्त्री, क्रियागुणद्रव्येर्युगपद्ब्याप्तुमिच्छा ।

यथा, --
“मुक्तिर्नर्त्तेऽच्युतोपास्तिं भूतं भूतमभि प्रभुः ।
भक्तो विभुमभि प्राज्ञो गोविन्दमभितिष्ठति ॥”
अच्युतोपास्तिं ऋते मुक्तिर्न स्यादित्यर्थः ।
प्रभुरीश्वरः भूतं भूतं अभि सर्व्वप्राणिषु अस्ति
इत्यर्थः । वीप्सायां प्रयुक्तस्य पदस्य द्विर्भावः ।
इति मुग्धबोधटीकायां दुर्गादासः ॥