शब्दकल्पद्रुमः/रतिपतिः

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ४/०८८

रतिपतिः, पुं, (रत्याः पतिः ।) कामदेवः । इत्य-

मरः ॥ (यथा, महागणपतिस्तोत्रे । १० ।
“पश्चात्पिप्पलमाश्रितो रतिपतिर्देवस्य रत्योत्-
पले ।
विभ्रत्या सममैक्षवं धनुरिषून् पौष्पान् वहन्
पञ्च च ॥”)
देशविशेषस्थस्त्रीणां स्थानविशेषे तस्याविर्भावो
यथा, --
“वाचि श्रीमाथुरीणां जनकजनपदस्थायिनीनां
कटाक्षे
दन्ते गौडाङ्गनानां सुललितजघने चोत्कल-
प्रेयसीनाम् ।
तैलङ्गीनां नितम्बे सजलघनरुचौ केरलीकेशपाशे
कार्णाटीनां कटौ च स्फुरति रतिपतिर्गुर्जरीणां
स्तनेषु ॥”
इति साहित्यदर्पणम् ॥

रतिपाशकः, पुं, (रतेः पाश इव । ततः स्वार्थे कन् ।)

रतिबन्धविशेषः । यथा, --
“पीडयेदूरुयुग्मेन कामुको यदि सुन्दरीम् ।
रतिपाशस्तथाख्यातः कामिनीनां सुखावहः ॥”
इति स्मरदीपिका ॥

रतिप्रियः, पुं, (रतेः प्रियः ।) कामदेवः । इति

शब्दरत्नावली ॥ सुरतप्रियश्च ॥ (स्त्री, शक्ति-
विशेषः । यथा, देवीभागवते । ७ । ३० । ६८ ।
“गोदावर्य्यां त्रिसन्ध्या तु गङ्गाद्वारे रति-
प्रिया ॥”)

रतिमदा, स्त्री, (रतेर्मदोऽस्याः ।) अप्सरसः ।

रथा, --
“स्पर्शानन्दा रतिमदाप्सरसः सुमदात्मजा ॥”
इति त्रिकाण्डशेषः ॥

रतिमन्दिरं, क्ली, (रतेर्मन्दिरमिव ।) योनिः ।

इति जटाधरः ॥ मैथुनगृहम् । यथा, --
“सञ्चारो रतिमन्दिरावधि सखीकर्णाबधि
व्याहृतं
चेतः कान्तसमीहितावधि पदन्यासावधि
प्रेक्षितम् ।
हास्यं चाधरपल्लवावधि महामानोऽपि
मौनावधिः
सर्व्वं सावधि नावधिः कुलभुवां प्रेम्णः परं
केवलम् ॥”
इति रसमञ्जरी ॥

रतिमित्रः, पुं, (रतौ मित्रः सूर्य्य इव ।) रतिबन्ध-

विशेषः । तस्य लक्षणं यथा, --
“पातयेदूरुयुग्मे च कामुकं यदि कामुकी ।
रतिमित्रंस्तदाख्यातः कामिनीनां सुखावहः ॥”
इति रतिमञ्जरी ॥

रतिरमण्डः, पुं, (रत्या रमणः ।) कामदेवः । इति

त्रिकाण्डशेषः ॥

रतिलक्षं, क्ली, (रतिं लक्षयतीति । लक्षि + अच् ।)

निधुवनम् । इति हारावली । ५० ॥

रतिसत्वरा, स्त्री, (रतौ सत्वरा ।) चिरञ्जीवा ।

इति शब्दचन्द्रिका ॥ पिडिङ्ग शाक इति
भाषा ॥

रतिसुन्दरः, पुं, (रतां सुन्दरः सुखावहः ।)

रतिबन्धविशेषः । तस्य लक्षणं यथा, --
“नारीपदद्बयं कामी धारयेद्धृदये यदि ।
धृतकण्ठो रमेत् कामी बन्धः स्याद्रतिसुन्दरः ॥”
इति रतिमञ्जरी स्मरदीपिका च ॥

रतूः, स्त्री, (ऋतीयते इति । स्पर्शाद्यर्थक ऋत्-

सौत्रधातुः + “ऋतेरम् च ।” उणा० १ । ९४ ।
इति कूः । अम् च ।) देवनदी । सत्यवाक् ।
इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

रतोद्वहः, पुं, (रतं उद्वहति प्रापयतीति । उत् +

वह् + अच् ।) कोकिलः । इति शब्दमाला ॥

रत्नं, क्ली, (रमयति हर्षयतीति । रम् + णिच् +

“रमेस्त च ।” उणा० ३ । १४ । इति नः
तकारश्चान्तादेशः ।) अश्मजातिः । मुक्तादि ।
तत्पर्य्यायः । मणिः २ । इत्यमरः ॥ (यथा,
कुमारे । ५ । ४५ ।
“न रत्नमन्विष्यति मृग्यते हि तत् ॥”)
स्वजातिश्रेष्ठः । इति मेदिनी ॥ (यथा,
मार्कण्डेये । ८५ । ४५ ।
“स्त्रीरत्नमतिचार्व्वङ्गी द्योतयन्ती दिशस्त्विषा ॥”)
माणिक्यम् । वज्रम् । इति राजनिर्घण्टः ॥ * ॥
अथ रत्नोत्पत्तिकारणम् । यथा, --
सूत उवाच ।
“वच्मि परीक्षां रत्नानां वलो नामासुरोऽभवत् ।
इन्द्राद्या निर्ज्जितास्तेन निर्जेतुं तैर्न शक्यते ॥
वरव्याजेन पशुतां याचितः स सुरैर्मखे ।
बलो ददौ स्वपशुतामतिसत्त्वो मखे हतः ॥
पशुवत्स विशेत् स्तम्भे स्ववाक्याशनियन्त्रितः ।
बलो लोकोपकाराय देवानां हितकाल्यया ॥
तस्य सत्त्वविशुद्धस्य सुविशुद्धेन कर्म्मणा ।
कायस्यावयवाः सर्व्वे रत्नबीजत्वमाययुः ॥
देवानामथ यक्षाणां सिद्धानां पवनाशिनाम् ।
रत्नबीजमयं ग्राहः सुमहानभवत्तदा ॥” * ॥
अथ तस्याकरस्थानानि यथा, --
“तेषान्तु पततां वेगाद्बिमानेन विहायसा ।
यद्यत् पपात रत्नानां बीजं क्वचन किञ्चन ॥
महोदधौ सरिति वा पर्व्वते काननेऽपि वा ।
तत्तदाकरतां यातं स्थानमाधेयगौरवात् ॥
तेषु रक्षोविषव्यालव्याधिघ्नान्यघहानि च ।
प्रादुर्भवन्ति रत्नानि तथैव विगुणानि च ॥
वज्रमुक्ताश्ममणयः सपद्मरागाः समरकताः
प्रोक्ताः ।
अपि चेन्द्रनीलमणिवरवैदूर्य्याश्च पुष्परागाश्च ।
कर्केतनं सपुलकं रुधिराक्षसमन्वितं तथा
स्फटिकम् ।
विद्रुममणिश्च यत्नादुद्दिष्टं संग्रहे तज्ज्ञैः ॥ * ॥
आकारवर्णौ प्रथमं गुणदोषौ तत्फलं परीक्षा
च ।
मूल्यञ्च रत्नकुशलैर्व्विज्ञेयं सर्व्वशास्त्राणाम् ॥
कुलग्नेषूपजायन्ते यानि चोपहतेऽहनि ।
दोषैस्तानुपयुज्यन्ते हीयन्ते गुणसम्पदा ॥
परीक्षापरिशुद्धानां रत्नानां पृथिवीभुजा ।
धारणं संग्रहो वापि कार्य्यः श्रियमभीप्सता ॥
शास्त्रज्ञाः कुशलाश्चापि रत्नभाजः परीक्षकाः ।
त एव मूल्यमात्राया वेत्तारः परिकीर्त्तिताः ॥”
इति गारुडे ६८ अध्यायः ॥
विशेषरत्नपरीक्षा तत्तच्छब्दे द्रष्टव्या ॥ * ॥ चतु-
र्द्दश महारत्नानि यथा । रुशंङ्कोश्चित्ररथः
तत्तनयः शशबिन्दुश्चतुर्द्दशमहारत्नश्चक्रवर्त्त्य-
भवत् । चतुर्द्दश महान्ति रत्नानि यस्य सः ।
रत्नानि तु स्वजातिश्रेष्ठानि धर्म्मसंहितोक्तानि ।
“चक्रं रथो मणिः खड्गश्चर्म्म रत्नञ्च पञ्चमम् ।
केतुर्निधिश्च सप्तैवमप्राणानि प्रचक्ष्यते ॥
भार्य्या पुरोहितश्चैव सेनानी रथकृच्च यः ।
पत्त्यश्वौ कलभश्चेति प्राणिनः सप्त कीर्त्तिताः ॥
चतुर्द्दशैतानि रत्नानि लर्व्वेषां चक्रवर्त्तिना-
मिति । इति विष्णुपुराणे ४ अंशे १२ अध्यायः
तट्टीका च ॥ (अथ रत्नस्य निरुक्तिः ।
“धनार्थिनो जनाः सर्व्वे रमन्तेऽस्मिन्नतीव यत् ।
ततो रत्नमिति प्रोक्तं शब्दशास्त्रविशारदैः ॥”
अथ रत्नस्य नामानि स्वरूपनिरूपणञ्च ।
यथा, --
“रत्नं क्लीवे मणिः पुंसि स्त्रियामपि निगद्यते ।
तत्तु पांषाणभेदोऽस्ति मुक्तादि च तदुच्यते ॥”
अथ रत्नानां निरूपणम् ।
“रत्नं गारुत्मतं पुष्परागो माणिक्यमेव च ।
इन्द्रनीलश्च गोमेदस्तथा वैदूर्य्यमित्यपि ॥
मौक्तिक विद्रुमश्चेति रत्नान्युक्तानि वै नव ।
रत्नं हीरा । गारुत्मतं पान्ना । माणिक्यं पद्म-
रागः । इन्द्रनीलः लीला ।
विष्णुधर्म्मोत्तरेऽपि नवरत्ननिरूपणम् ।
मुक्ताफलं हीरकञ्च वैदूर्य्यं पद्मरागकम् ।
पुष्परागञ्च गोमेदं नीलं गारुत्मतन्तथा ।
प्रवालयुक्तान्येतानि महारत्नानि वै नव ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

रत्नकन्दलः, पुं, (रत्नानां कन्दलो नवाङ्कुर इव ।)

प्रबालम् । इति शब्दरत्नावली ॥

रत्नकूटः, पुं, (रत्नमयः कूटो शृङ्गमस्य ।) पर्व्वत-

विशेषः । इति शब्दरत्नावली ॥ (क्ली, द्वीप-
विशेषः । यथा, कथासरीत्सागरे । २६ । ३ ।
“अस्ति द्वीपवरं मध्ये रत्नकूटाख्यमम्बुधेः ।
कृतप्रतिष्ठस्तत्रास्ते भगवान् हरिरब्धिना ॥”)

रत्नगर्भः, पुं, (रत्नानि गर्भे लक्षणया अधिकारे

ऽस्य ।) कुबेरः । इति त्रिकाण्डशेषः ॥ (रत्नानि-
गर्भेऽस्य ।) समुद्रः । इति राजनिर्घण्टः ॥

रत्नगर्भा, स्त्री, (रत्नानि गर्भे मध्येऽस्याः ।)

पृथिवी । इति हेमचन्द्रः । ४ । ३ ॥ उपचारात्
गुणवत्पुत्त्रवती च ।

रत्नद्वीपं, क्ली, (रत्ननिर्म्मितं द्वीपम् । शाकपार्थिववत्

समासः ।) रत्ननिर्म्मितस्थानम् । यथा, --
“सिंहस्कन्धाधिसंरूढां नानालङ्कारभूषिताम् ।
चतुर्भुजां महादेवीं नागयज्ञोपवीतिनीम् ॥
शङ्खचक्रधनुर्ब्बाणलोचनत्रितयान्विताम् ।
रक्तवस्त्रपरीधानां वालार्कसदृशीतनूम् ॥
पृष्ठ ४/०८९
नारदाद्यैर्म्मुनिगणैः सेवितां भवसुन्दरीम् ।
त्रिवलीबलयोपेतनाभिनालमृणालिनीम् ॥
रत्नद्बीपे महाद्वीपे सिंहासनसमन्विते ।
प्रफुल्लकमलारूढां ध्यायेत्तां भवगेहिनीत् ॥”
इति तन्त्रसारे जगद्धात्रीध्यानम् ॥

रत्नधेनुः, स्त्री, (रत्ननिर्म्मिता धेनुः ।) महा-

दानविशेषः । यथा, --
मत्स्य उवाच ।
“अथातः संप्रवक्ष्यामि महादानमनुत्तमम् ।
रत्नधेनुरिति ख्यातं गोलोकफलदं नृणाम् ॥
पुण्यन्दिनमथासाद्य तुलापुरुषदानवत् ।
लोकेशावाहनं कृत्वा ततो धेनुं प्रकल्पयेत् ॥
भूमौ कृष्णाजिनं कृत्वा लवणद्रोणसंयुतम् ।
धेनुं रत्नमयीं कुर्य्यात् सङ्कल्प्य विधिपूर्ब्बकम् ॥
स्थापयेत् पद्मरागाणामेकाशीतिं मुखे बुधः ।
पुष्परागशतं तद्वद्घोणायां परिकल्पयेत् ॥
ललाटे हेमतिलकं मुक्ताफलशतं दृशोः ।
भ्रूयुगे विद्रुमशतं शुक्ती कर्णद्बये स्मृते ॥
काञ्चनानि तु शृङ्गाणि शिरो वज्रशतात्मकम् ।
ग्रीवायां नेत्रपटलं गोमेदकसमन्वितम् ॥
इन्द्रनीलशतं पृष्ठे वैदूर्य्यशतपार्श्वकौ ।
स्फाटिकैरुदरं कार्य्यं सौगन्धिकशतान् हृदि ॥
खुरा हेममयाः कार्य्याः पुच्छं मुक्तावलीमयम् ।
सूर्य्यकान्तेन्दुकान्तौ च घ्राणं कर्पूरचन्दनैः ॥
कुङ्कुमानि च रोमाणि रौप्यं नाभिञ्च कारयेत् ।
गारुत्मतशतं तद्वदस्थीनि परिकल्पयेत् ॥
तथान्यानि च रत्नानि स्थापयेत् सर्व्वसन्धिषु ।
कुर्य्याच्छर्करया जिह्वां गोमयञ्च गुडात्मकम् ॥
गोमूत्रमाज्यञ्च तथा दधि दुग्धं स्वरूपतः ।
पुच्छाग्रे चामरं दद्यात् समीपे ताम्रदोहनम् ॥
कुण्डलानि च हैमानि भूषणानि च शक्तितः ।
कारयेदेवमेवन्तु चतुर्थांशेन वत्सकम् ॥
तथान्यानि च सर्व्वाणि पादांश्चेक्षुमयांस्तथा ।
नानाफलानि सर्व्वाणि पञ्चवर्णवितानकम् ॥
एवं विरचनं कृत्वा तद्बद्धोमाधिवासनम् ।
ऋत्विग्भ्यो दक्षिणां दत्त्वा धेनुमामन्त्रयेत्ततः ।
गुडधेनुवदावाह्य इदञ्चोदाहरेत्ततः ॥
त्वं सर्व्वदेवगणधाम यतः पठन्ति
रुद्रेन्दुविष्णुकमलासनवामदेवाः ।
तस्मात् समस्तभुवनत्रयहेतुयुक्ता
मां पाहि देवि भवसागरपीड्यमानम् ॥
आमन्त्र्य धेनुमभितः परिवर्त्त्य भक्त्या
दद्याद्द्विजाय गुरवे जलपूर्ब्बकं ताम् ।
यः पुण्यमाप्य दिनमत्र कृतोपवासः
पापैर्विमुक्ततनुरेति पदं मुरारेः ॥
इति सकलविधिज्ञो रत्नधेनुप्रदानं
वितरति च विमानं प्राप्य देदीप्यमानम् ।
कलिकलुषविमुक्तो बन्धुभिः पुत्त्रपौत्त्रैः
स हि मदनसुरूपः स्थानमभ्येति शम्भोः ॥”
इति मत्स्यपुराणे महादानानुकीर्त्तने रत्नधेनु-
प्रदानिको नाम २६२ अध्यायः ॥

रत्ननिधिः, पुं, खञ्जनपक्षी । इति त्रिकाण्डशेषः ॥

रत्नपारायणं, क्ली, (परायणमेव । अण् । रत्नस्य

पारायणम् ।) सर्व्वरत्नस्थानम् । यथा, --
“समुद्रोपत्यका हैमी पर्व्वताधित्यका पुरी ।
रत्नपारायणं नाम्ना लङ्केति मम मैथिलि ! ॥”
इति भट्टिः ॥

रत्नप्रभा, स्त्री, (रत्नानां प्रभात्र ।) जिनानां नरक-

विशेषः । यथा, --
“रत्नशर्क्क रावालुकापङ्कधूमतमप्रभाः ।
महातमप्रभा वेत्यधोऽधो नरकभूमयः ॥”
इति हेमचन्द्रः ॥

रत्नमुख्यं, क्ली, (रत्नेषु मुख्यम् ।) हीरकम् । इति

हेमचन्द्रः ॥

रत्नराट्, [ज्] क्ली, (रत्नेषु राजते इति ।

राज् + क्विप् ।) माणिक्यम् । इति राज-
निर्घण्टः । रत्नश्रेष्ठश्च ॥

रत्नवती, स्त्री, (रत्नानि सन्त्यस्यामिति । रत्न +

मतुप् । मस्य वः । उगित्वात् ङीप् ।) पृथिवी ।
इति शब्दमाला ॥ (राज्ञो वीरकेतोः कन्या ।
यथा, कथासरित्सागरे । ८८ । ६ ।
“नन्दयन्त्यभिधानायां पत्न्यां तस्योदपद्यत ।
सुता रत्नवती नाम देवताराधनार्ज्जिता ॥”)
रत्नयुक्ते, त्रि ॥ (यथा, रघुः । ६ । ४ ।
“परार्द्ध्यवर्णास्तरणोपपन्न-
मासेदिवान् रत्नवदासनं सः ॥”
फलप्रदे च त्रि । यथा, ऋग्वेदे । ३ । २८ । ५ ।
“धारत्नवन्तममृतेषु जागृविम् ॥”
“रत्नवन्तं रत्नशब्देन स्वर्गादिलक्षणमुत्तमं फल-
मभिधीयते तद्बन्तं फलप्रदम् ।” इति तद्भाष्ये
सायणः ॥)

रत्नवर्षुकं, क्ली, (रत्नानि वर्षितुं शीलमस्य । वृष्

+ “लषपतपदस्थेति ।” ३ । २ । १५४ । इति
उकञ् ।) पुष्पकरथः । इति शब्दरत्नावली ॥
रत्नवर्षणशीले, त्रि ॥

रत्नसानुः, पुं, (रत्नानि सानौ प्रस्थे यस्य ।)

सुमेरुपर्व्वतः । इत्यमरः । १ । १ । ५२ ॥

रत्नसूः, स्त्री, (रत्नानि सूते इति । सू प्रसवे +

क्विप् ।) पृथिवी । इति हेमचन्द्रः । ४ । ३ ॥
(यथा, राजतरङ्गिण्याम् । १ । ४२ ।
“त्रिलोक्यां रत्नसूः श्लाघ्या तस्यां धनपतेर्हरित् ।
तत्र गौरीगुरुः शेलो यत्तस्मिन्नपि मण्डलम् ॥”
रत्नप्रसवकारिणि, त्रि । यथा, रघुः । १ । ६५ ।
“न मामवति सद्बीपा रत्नसूरपि मेदिनी ॥”)

रत्नाकरः, पुं, (रत्नानामाकरः उत्पत्तिस्थानम् ।)

समुद्रः । इत्यमरः । १ । १० । २ ॥ (यथा,
महाभारते । ३ । १०१ । २३ ।
“दुर्गं समाश्रित्य महोर्म्मिमन्तं
रत्नाकरं वरुणस्यालयं स्म ॥”)
रत्नोत्पत्तिस्थानञ्च ॥ (स्वनामख्यातकविविशेषः ।
यथा, राजशेखरकृतश्लोकः ।
“मा स्म सन्तु हि चत्वारः प्रायो रत्नाकरा
इमे ।
इतीव स कृतो धात्रा कविरत्नाकरोऽपरः ॥”
स तु ध्वनिगाथापञ्जिका-वक्रोक्तिपञ्चाशिका-
हरविजयादिग्रन्थप्रणेता । अमृतभानु सूनु-
र्विद्याधिपत्यपरनामायं कविः काश्मीरदेशे-
ऽवन्तिवर्म्मणो राज्यकाले समुत्पन्नः । तथा च
राजतरङ्गिण्याम् । ५ । ३९ ।
“मुक्ताकणः शिवस्वामी कविरानन्दवर्द्धनः ।
प्रथां रत्नाकरश्चागात् साम्राज्येऽवन्ति-
वर्म्मणः ॥”
अवन्तिवर्म्मराज्यकालस्तु ७७७ शकाब्दादारभ्य
८०६ शकाब्दपर्य्यन्तमासीदतस्तत्कालीन एवायं
कविरिति ज्ञायते । रत्नाकरप्रणीतं हरविज-
याभिधं पञ्चाशत्सर्गात्मकं महाकाव्यं काश्मी-
रेषु प्रसिद्धमस्ति ॥)

रत्नाङ्कः, पुं, (रत्नानामङ्कश्चिह्नं यस्मिन् ।) विष्णु-

रथः । इति शब्दरत्नावली ॥ (रत्नानामङ्कः ।)
रत्नचिह्नञ्च ॥

रत्नाचलः, पुं, (रत्ननिर्म्मितः अचलः । शाक-

पार्थिववत् समासः ।) दानार्थमणिमयपर्व्वतः ।
यथा, --
“अतः परं प्रवक्ष्यामि रत्नाचलमनुत्तमम् ।
मुक्ताफलसहस्रेण पर्व्वतः स्यादनुत्तमः ॥
मध्यमः पञ्चशतिकस्त्रिशतेनाधमः स्मृतः ।
चतुर्थांशेन विष्कम्भाः पर्व्वताः स्युः समन्ततः ॥
पूर्ब्बेण वज्रगोमेदैर्द्दक्षिणेनेन्द्रनीलकैः ।
पुष्परागयुतैः कार्य्यो विद्वद्भिर्गन्धमादनः ॥
वैदूर्य्यविद्रुमैः पश्चात् संमिश्रो विमलाचलः ।
पद्मरागसमो वर्णैरुत्तरेण तु विन्यसेत् ॥
धान्यपर्व्वतवत् सर्व्वमत्रापि परिकल्पयेत् ।
तद्वदावाहनं कृत्वा वृक्षान् देवांश्च काञ्चनान् ॥
पूजयेत् पुष्पपानीयैः प्रभाते चाथ पूर्ब्बवत् ।
पूर्ब्बवद्गुरुऋत्विग्भ्यः फलमन्त्रानुदीरयेत् ।
यथा देवगणाः सर्व्वे सर्व्वरत्नेष्ववस्थिताः ।
त्वञ्च रत्नमयो नित्यमतः पाहि महाचल ! ।
यस्माद्रत्नप्रदानेन तुष्टिं प्रकुरुते हरिः ।
सदा रत्नप्रदानेन तस्मान्नः पाहि पर्व्वत ॥
अनेन विधिना यस्तु दद्याद्रत्नं महागिरिम् ।
स याति वैष्णवं लोकममरेश्वरपूजितः ॥
यावत् कल्पशतं साग्रं वसेच्चेह नराधिप ।
रूपारोग्यगुणोपेतः सप्तद्बीपाधिपो भवेत् ॥
ब्रह्महत्यादिकं किञ्चिद्यदत्रामुत्र वा कृतम् ।
तत् सर्व्वं नाशमायाति गिरिर्वज्रहतो यथा ॥”
इति मात्स्ये ९० अध्यायः ॥

रत्नाभरणं, क्ली, (रत्नविशिष्टमाभरणम् ।) मणि-

मयालङ्करणम् । जडाओ गहना इति भाषा ॥
तस्य धारणगुणाः ।
“धन्यं यशस्यमायुष्यं श्रीमद्ब्यसनसूदनम् ।
हर्षणं काम्यमोजस्यं रत्नाभरणधारणम् ॥”
इति राजवल्लभः ॥

रत्निः, पुं, (ऋच्छति प्राप्नोत्यनेनेति । ऋ +

“ऋतन्यञ्जीति ।” उणा० ४ । २ । इति
कत्निच् ।) बद्धमुष्टिहस्तः । इत्यमरः । २ ।
६ । ८६ ॥ मुटुम् हात इति भाषा ॥ स्त्रीपुंसयो
पृष्ठ ४/०९०
रत्न्यरत्नी इत्यन्ये । इति भरतः ॥ (यथा, महा-
भारते । ८ । ७२ । २७ ।
“अष्टरत्निर्महाबाहुर्व्यूढोरस्कः सुदुर्ज्जयः ॥”)

रत्यङ्गं, क्ली, (रतेरङ्गम् ।) योनिः । इति शब्द-

रत्नावली ॥

रथः, पुं, (रम्यतेऽनेनात्र वा । रम् + “हनि

कुषिनीरमिकाशिभ्यः क्थन् ।” उणा० २ । २ ।
इति क्थन् । अनुनासिकलोपश्च ।) कायः ।
(यथा, गीतायाम् ।
“आत्मानं रथिनं विद्धि शरीरं रथमेव च ॥”)
चरणः । वेतसवृक्षः । इति विश्वः ॥ (अस्य
पर्य्यायो यथा, --
“वेतसो नम्रकः प्रोक्तो वाणीरो वञ्जुलस्तथा ।
अभ्रपुष्पश्च विदुलो रथः शीतश्च कीर्त्तितः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
तिनिशवृक्षः । इति राजनिर्घण्टः ॥ चक्र-
विशिष्टयुद्धार्थयानम् । तत्पर्य्यायः । शताङ्गः २
स्यन्दनः ३ । इत्यमरः । २ । ८ । ५१ ॥ स्यन्दन-
मात्रम् । इत्यजयः ॥ (यथा, मनुः । ८ । २९५ ।
“स चेत् तु पथि संरुद्धः पशुभिर्वा रथेन वा ।
प्रमापयेत् प्राणभृतस्तत्र दण्ड्योऽविचारितः ॥”)
तद्द्वारा भ्रमणगुणाः ।
“हस्त्यश्वरथदोलाद्यैर्भ्रमणं वातकोपनम् ।
स्थिरीकरणमङ्गानां बल्यं वह्निविवर्द्धनम् ॥”
इति राजवल्लभः ॥ * ॥
रथविशेषाणां नामानि यथा, --
“युद्धार्थे चक्रवद्याने शताङ्गः स्यन्दनो रथः ।
संक्रीडार्थः पुष्यरथो देवार्थस्तु मरुद्रथः ॥
योग्यो रथो वैनायिकोऽध्वरथः परिघातिकः ।
कर्णीरथः प्रवहणं डयनं रथगर्भकः ॥
अनस्तु शकटोऽथ स्याद्गन्त्री कम्बलिवाह्यकम् ।
अथ काम्बलवस्त्राद्यास्तैस्तैः परिवृते रथे ॥
सपाण्डुकम्बली यः स्यात् संवीतः पाण्डुकम्बलैः ।
सत्तु द्वैपो वैयाघ्रश्च यो वृतो द्बीपिचर्म्मणा ॥”
इति हेमचन्द्रः ॥
गोलोकस्य रथो यथा, --
“प्रदत्तं विप्रपत्नीभिर्म्मिष्टमन्नं सुधोपमम् ।
बालकान् भोजयित्वा तु स्वयञ्च बुभुजे विभुः ॥
एतस्मिन्नन्तरे तत्र शातकुम्भरथं वरम् ।
ददृशुर्विप्रपत्न्यश्च पतन्तं गगनादहो ॥
रत्नदर्पणसंयुक्तं रत्नसारपरिच्छदम् ।
रत्नस्तम्भैर्न्निबद्धञ्च सद्रत्नकलसोज्ज्वलम् ॥
श्वेतचामरसंयुक्तं वह्निशुद्धांशुकान्वितम् ।
पारिजातप्रसूनानां मालाजालविराजितम् ॥
शतचक्रसमायुक्तं मनोयायि मनोहरम् ।
वेष्टितं पार्षदैर्द्दिव्यैर्व्वनमालाविभूषितैः ॥
पीतवस्त्रपरीधानै रत्नालङ्कारभूषितैः ।
नवयौवनसम्पन्नैः श्यामलैः सुमनोहरैः ॥
हिभुत्रैर्मुरलीहस्तैर्गोपवेशधरैर्व्वरैः ।
शिखिपुच्छगुञ्जमालाबद्धवङ्किमचूडकैः ॥
अवरुह्य रथात्तर्णं ते प्रणम्य हरेः पदम् ।
रथमारोहणं कर्त्तमूचुर्ब्राह्मणकाभिनीः ॥
विप्रभार्य्या हरिं नत्वा जर्ग्मुर्गोलोकमीप्सितम् ।
बभूवुर्गोपिकाः सद्यस्त्यक्त्वा मानुषविग्रहान् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १८ अध्यायः ॥
देव्या रथयात्रा यथा, --
ब्रह्मोवाच ।
“भूयस्त संप्रवक्ष्यामि देव्याराधनमुत्तमम् ।
यत् कृत्वा सर्व्वकामाणां व्याप्तिस्तृप्तिर्भविष्यति ॥
दन्तिदन्तमयैर्द्दण्डैर्हेमबद्धैः सुशोभनैः ।
विचित्रपद्मरागाद्यैर्म्मणिभिरुपशोभितैः ॥
रथन्तैः कारयेद्देव्या सप्तभौमं मनोरमम् ।
दुकूलवस्त्रसंछन्नमर्द्धचन्द्रोपशोभितम् ॥
घण्टाकिङ्किणिशङ्खाढ्यं चामरैः कटकान्वितम् ।
पताकाध्वजशोभाढ्यं दर्पणैरुपशोभितम् ॥
तं रथं पूजयेच्छक्र जातीकुसुममल्लिकैः ।
पारिजातकपुष्पैश्च यक्षकर्द्दमचन्दनैः ॥
सुगन्धधूपितैः कृत्वा देवीं तत्र निवेशयेत् ।
प्रतिमां शोभनां वत्स ! महासुरक्षयङ्करीम् ॥
पूजयेद्रथविन्यस्तां सर्व्वमङ्गलमङ्गलाम् ।
दुर्गा कात्यायनी देवी वरदा विन्ध्यवासिनी ॥
निशुम्भशुम्भमथनी महिषासुर घातिनी ।
प्रसीदतु सदा मेऽस्तु यच्च नो वाञ्छितं हृदि ॥
अनेन वलिपूर्ब्बेण नमस्कारयुतेन च ।
पूजयित्वा ततो नेया समस्ताप्सरगीतकैः ॥
पञ्चमी सप्तमी पूर्णा नवम्येकादशीषु च ।
तृतीयाशिवविघ्नेशदिवसेषूत्सवेषु च ॥
महानदीनदसंज्ञपर्व्वतस्रवणेषु च ।
तत्र मण्डपविन्यासं महदाविष्टनिर्म्मितम् ॥
शैलं वा मृण्मयं वापि कृत्वा वास्तुविचारितम् ।
सर्व्वलक्षणसंपूर्णं सर्व्वशोभासमन्वितम् ॥
पूर्व्वे च कारयेच्छक्र पश्चाद्यात्रां प्रचक्रिरे ।
महाजनपदोपेतां महास्त्रीभिः ससङ्कुलाम् ॥
सर्व्वान्नपाननैवेद्यैः समस्तैरपि पूजयेत् ।
दद्याद्वलिं शक्र सर्व्वं सर्व्वदिक्षु समन्ततः ॥
भूयो वेतालसंघस्य मन्त्रेणानेन सुव्रत ! ।
रक्ष मां निजभूतेभ्यो वलिं गृह्ण सदा प्रियम् ॥
मातर्मातर्वरे देवि ! सर्व्वकामार्थसाधिनि ।
अनेन वलिदानेन सर्व्वकामान् प्रयच्छ मे ॥
एवं दत्त्वा वलिं शक्र तथा देव्यावतारयेत् ।
विन्यसेद्भद्रपीठे तु मण्डलैरुपशोभिताम् ॥
तत्रस्थां पूजयेद्देवीं हैमरूपैश्च ताम्रजैः ।
कलसैस्तु सहस्रेण गन्धोदकसुपूरितैः ॥
समस्तफलसम्पूर्णैर्यज्ञियैरथ पल्लवैः ।
स्नापयेदेकमेकेन रत्नगर्भैर्नवैर्दृढैः ॥
वेदमङ्गलशब्देन शङ्खवादित्रनिस्वनैः ।
वेणुवीणामृदङ्गैश्च घण्टाकिङ्किणिराविणैः ॥
स्नापयित्वा ततो देवीं निर्मञ्छेच्छनकैः शुभैः ।
गोमयादिकृतैः पद्मैर्दीपवर्त्त्या विशोधितैः ॥
स्वस्तिकैर्नन्दिकावर्त्तैः शङ्खैर्नीलोत्पलोत्पलैः ।
यवशाल्यङ्कुरोद्भिन्नैर्यवाचारैर्निमज्जयेत् ॥
प्रत्येकञ्च दहेद्धूपं प्रत्येकं कलसैः स्नपेत् ।
तथा कर्पूरक्षोदेन चन्दनैः कुङ्कुमेन च ॥
गोरोचनासमेतेन देवीमालिप्य पूजयेत् ॥
हेमजैर्जातिजैर्माल्यै रत्नमाल्यैरनेकधा ।
वासोभिः सुमनैश्चित्रैः पुनर्धूपं समुत्क्षिपेत् ॥
भक्षयेत तथा कन्या द्बिजातीनथ दुःखितान् ।
भक्ष्यभोज्यान्नपानेन तत्र सर्व्वांश्च प्रीणयेत् ॥
भोजयित्वा क्षमायेत देवि मे प्रीयतामिति ।
रथे कृत्वा तथा देवीं पुनरेव गृहं नयेत् ॥
महता जनसंघेन समस्तविभवान्वितैः ।
शान्तरेणुपथं सर्व्वं पुष्पदूर्व्वाक्षतैर्ज्जलैः ॥
प्रक्षिप्यमाणैः कन्याभिः स्त्रीभिर्भङ्गलवादिभिः ।
सलिलेन यथा पांशुं कृत्वा पङ्कं प्रचक्रिरे ॥
पुरशोभां पथे शोभां द्वारशोभां गृहे गृहे ।
कारयीत तथा शक्र सर्व्ववाधां निवारयेत् ॥
अच्छेद्यास्तरवस्तस्मिन् प्राणिहिंसां विवर्ज्जयेत् ।
वन्धनस्था विमोक्तव्या बध्याः क्रोधादिशत्रवः ॥
अकालकौमुदीं शक्र रथयात्रान्तु कारयेत् ।
सर्व्वदा सर्व्वदेवैस्तु शङ्कराद्यैः प्रतिष्ठिता ॥
रथयात्रा तदा शक्र सुरैः स्वर्गे सदा कृता ।
तथा किन्नरगन्धर्व्वैर्भू पातालनिवासिभिः ॥
रथयात्राप्रभावेण मोदन्ते दिवि देवताः ।
आदित्यो रथयात्राकृद्रथेन नभसः क्रमेत् ॥
देव्यो दिव्यविमानस्था रथयात्राप्रभावतः ।
क्रीडन्ते विविधैर्भोगैः सर्व्वातङ्कविवर्जिताः ॥
तथा त्वमपि देवेन्द्र ! रथयात्राकरो भव ।
शिवायाः शिवदायास्तु परमेण समाधिना ॥
अगस्त्य उवाच ।
रथयात्राकृतं पुण्यं ब्रह्मणो वासवस्य तु ।
पूर्ब्बं यत् कथितं तात तत्ते सर्व्वं मयाखिलम् ॥
व्यापितं नात्र सन्देहो देवीमाहात्म्यमुत्तमम् ।
यः पठेत् शृणुयाद्बापि भक्तिमान् नृपसत्तम ॥
स सुखं यशः सौभाग्यं पुत्त्रप्राप्तिमथेप्सिताम् ।
लभते नात्र सन्देह इत्येवं ब्रह्मणोऽब्रवीत् ॥
स्वबलेन कृते राज्ये पुरा शक्रस्य कीर्त्तिता ।
धनदस्य पूरीप्राप्तिर्व्वरुणस्य च वायुना ॥
हृते स्थाने कृता तेन तथा श्रुत्वा च निरृतेः ।
भुञ्जते परया दृष्ट्या पुरीर्भोगवतीः शुभाः ॥”
इति देवीपुराणे रथयात्राविधिमाहात्म्यम्
३९ अध्यायः ॥ * ॥ नवग्रहाणां रथा यथा, --
“योजनानां सहस्राणि भास्करस्य रथो नव ।
ईशादण्डस्तथैवास्माद्द्विगुणो द्विजसत्तमाः ॥
सार्द्धकोटिस्तथा सप्त नियुतान्यधिकानि तु ।
योजनानान्तु तस्याक्षं तत्र चक्रं प्रतिष्ठितम् ॥
त्रिनाभिमतिपञ्चारे षण्णेमिन्यक्षयात्मके ।
संवत्सरन्तु यत् कृत्स्नं कालचक्रं प्रतिष्ठितम् ॥
चत्वारिंसत्सहस्राणि द्बितीयोऽक्षो विवस्वतः ।
पञ्चान्यानि तु सार्द्धानि स्यन्दनस्य द्धिजोत्तमाः ॥
अक्षप्रमाणमुभयोः प्रमाणं तत्परार्द्धयोः ।
भूयोऽक्षस्तद्युगार्द्धे च ध्रुवाधारं रथस्य वै ॥
द्बितीयेऽक्षे तु तच्चक्रं संस्थितं मानसाचले ।
हयाश्च सप्त च्छन्दांसि तन्नामानि निबोधत ॥
गायत्त्री च बृहत्युष्णिक् जगती पंक्तिरेव च ।
अनुष्टुप् त्रिष्टुबित्युक्ताश्छन्दांसि हरयो रवेः ॥” १ ॥
इति कौर्म्मे ३८ अध्यायः ॥
पृष्ठ ४/०९१
“रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः ।
वामदक्षिणतो युक्ता दश तेन निशाकरः ।
वीथ्याश्रयाणि चरति नक्षत्राणि रविर्यथा ॥ २ ॥
सोमपुत्त्रस्य चाष्टाभिर्वाजिभिर्वायुवेगिभिः ।
वारिजैः स्यन्दनो युक्तस्तेनासौ याति सर्व्वतः ॥ ३ ॥
शुक्रस्य भूमिजैरश्वैः स्यन्दनो दशभिर्वृतः ॥ ४ ॥
अष्टाभिश्चाथ भौमस्य रथो हैमः सुशोभनः । ५ ।
बृहस्पतेरथाष्टाश्वः स्यन्दनो हेमनिर्म्मितः ॥ ६ ॥
रथस्तमोमयो ह्यश्वो मन्दस्यायसनिर्म्मितः । ७ ।
स्वर्भानोर्भास्करारेश्च तथा षड्भिर्हयैर्वृतः ॥ ८ ॥ ९ ॥
एते महाग्रहाणां वै समाख्याता रथा नव ।
सर्व्वे ध्रुवे महाभागा निबद्बा वातरश्मिभिः ॥
ग्रहर्क्षताराधिष्ट्यानि ध्रुवे बद्धान्यशेषतः ।
भ्रमन्ति भ्रामयन्त्येनं सर्व्वाण्यनिलरश्मिभिः ॥”
इति कौर्म्मे ४० अध्यायः ॥ * ॥
श्रीजगन्नाथदेवस्य रथः यात्राशब्दे द्रष्टव्यः ॥ * ॥
(त्रिपुरदहनार्थं महेश्वरादिष्टा देवा येन प्रकारेण
तद्रथं निर्म्मितवन्तस्तदाह । मात्स्ये । १३३ ।
१३ -- ७१ ।
“त्रिनेत्र एवमुक्तस्तु देवैः शक्रपुरोगमैः ।
उवाच देवान् देवेशो वरदो वृषबाहनः ॥
व्यपगच्छतु वो देवा महद्दानवजं भयम् ।
तदहं त्रिपुरं धक्ष्ये क्रियतां यद्ब्रवीमि तत् ॥
यदीच्छथ मया दग्धुं तत् पुरं सहदानवम् ।
रथमोपयिकं मह्यं सज्जयध्वं किलास्य ते ॥
दिग्वाससा तथोक्तास्ते सपितामहकाः सुराः ।
तथेत्युक्त्वा महादेवं चक्रुस्ते रथमुत्तमम् ॥
धरां कूवरकौ द्वौ तु रुद्रपार्शचरावुभौ ।
अधिष्ठानं शिरो मेरोरक्षो मन्दर एव च ॥
चक्रुश्चन्द्रञ्च सूर्य्यञ्च चक्रे काञ्चन-राजते ।
कृष्णपक्षं शुक्लपक्षं पक्षद्बयमपीश्वराः ॥
रथनेमिद्वयं चक्रुर्देवा ब्रह्मपुरःसराः ।
आदिद्बयं पक्षयन्त्रं यन्त्रमेताश्च देवताः ॥
कम्बलाश्वतराभ्याञ्च नागाभ्यां समवेष्टितम् ।
भार्गवश्चाङ्गिराश्चैव बुधोऽङ्गारक एव च ॥
शनैश्चरस्तथा चात्र सर्व्वे ते देवसत्तमाः ।
वरूथं गगनं चक्रुश्चारुरूपं रथस्य ते ॥
कृतं द्विजिह्वनयनं त्रिवेणुं शातकौम्भिकम् ।
मणिमुक्तेन्द्रनीलैश्च वृतं हृष्टमुखैः सुरैः ॥
गङ्गा सिन्धुः शतद्रुश्च चन्द्रभागा इरावती ।
वितस्ता च विपाशा च यमुना गण्डकी तथा ॥
सरस्वती देविका च तथा च शरयूरपि ।
एताः सरिद्वराः सर्व्वा वेणुसंज्ञाः कृता रथे ॥
धृतराष्ट्राश्च ये नागास्ते च वेश्यात्मकाः कृताः ।
वासुकेः कुलजा ये च ये च रैवतवंशजाः ॥
ते सर्पा दर्पसम्पूर्णाश्चापतूणेष्वनूनगाः ।
अवतस्थुः शरा भूत्वा नानाजातिशुभाननाः ॥
सुरसा सरमा कद्रूर्विनता शुचिरेव च ।
तृषा बुभुक्षा सर्वोग्रा मृत्युः सर्व्वशमस्तथा ॥
ब्रह्मवध्या च गोवध्या बालवध्या प्रजाभयाः ।
गदा भूत्वा शक्तयश्च तदा देवरथेऽभ्ययुः ॥
युगं कृतयुगञ्चात्र चातुर्होत्रप्रयोजकाः ।
चतुर्व्वर्णाः सलीलाश्च बभूबुः स्वर्णकुण्डलाः ॥
तंद्युगं युगसङ्काशं रथशीर्षे प्रतिष्ठितम् ।
धृतराष्ट्रेण नागेन बद्धं बलवता महत् ॥
ऋग्वेदः सामवेदश्च यजुर्व्वेदस्तथापरः ।
वेदाश्चत्वार एवैते चत्वारस्तुरगा भवन् ॥
अन्नदानपुरोगाणि यानि दानानि कानिचित् ।
तान्यासन् वाजिनां तेषां भूषणानि सहस्रशः ॥
पद्मद्वयं तक्षकश्च कर्कोटक-धनञ्जयौ ।
नागा बभूवुरेवैते हयानां बालबन्धनाः ॥
ओङ्कारप्रभवास्ता वा मन्त्रयज्ञक्रतुक्रियाः ।
उपद्रवाः प्रतीकाराः पशुबन्धेष्टयस्तथा ॥
यज्ञोपवाहान्येतानि तस्मिन् लोकरथे शुभे ।
मणि-मुक्ता-प्रबालैस्तु भूषितानि सहस्रशः ॥
प्रतोदोङ्कार एवासीत् तदग्रञ्च वषट्कृतम् ।
सिनीबाली कुहू राका तथा चानुमती शुभा ॥
योक्त्राण्यासं स्तुरङ्गाणामपसर्पणविग्रहाः ॥
कृष्णान्यथ च पीतानि श्वेतमाञ्जिष्ठकानि च ।
अवदाताः पताकास्तु बभूबुः पवनेरिताः ॥
ऋतुभिश्च कृतः षड्भिर्धनुः संवत्सरोऽभवत् ।
अजरा ज्याभवच्चापि साम्बिका धनुषो दृढा ॥
कालो हि भगवान् रुद्रस्तञ्च संवत्सरं विदुः ।
तस्मादुमा कालरात्रिर्धनुषो ज्याऽजराभवत् ॥
सगर्भं त्रिपुरं येन दग्धवान् स त्रिलोचनः ।
स इषुर्विष्णुसोमाग्नि-त्रिदैवतमयोऽभवत् ॥
आननं ह्यग्निरभवच्छल्यं सोमस्तमोनुदः ।
तेजसः समवायोऽथ चेषोस्तेजो रथाङ्गधृक् ॥
तस्मिंश्च वीर्य्यवृद्ध्यर्थं वासुकिर्नागपार्थिवः ।
तेजः संवसनार्थं वै मुमोचातिविषो विषम् ॥
कृत्वा देवा रथञ्चापि दिव्यं दिव्यप्रभावतः ।
लोकाधिपतिमभ्येत्य इदं वचनमब्रुवन् ॥
संस्कृतोऽयं रथोऽस्माभिस्तव दानवशत्रुजित् ।
इदमापत्परित्राणं देवान् सेन्द्रपुरोगमान् ॥
तं मेरुशिखराकारं त्रैलोक्यरथमुत्तमम् ।
प्रशस्य देवान् साध्विति रथं पश्यति शङ्करः ॥
मुहुर्दृष्ट्वा रथं साधु साध्वित्युक्त्वा मुहुर्म्मुहुः ।
उवाच सेन्द्रानमरानमराधिपतिः स्वयम् ॥
यादृशोऽयं रथः कॢप्तो युष्माभिर्मम सत्तमाः ।
ईदृशो रथसम्पत्त्या यन्ता शीघ्रं विधीयताम् ॥
इत्युक्ता देवदेवेन देवा विद्धा इवेषुभिः ।
अवापुर्महतीं चिन्तां कर्थ कार्य्यमिति ब्रुवन् ॥
महादेवस्य देवोऽन्यः को नाम सदृसो भवेत् ।
मुक्त्वा चक्रायुधं देवं सोपास्य इषुमाश्रितः ॥
घुरि युक्ता इवोक्षाणो घटन्त इव पर्व्वतैः ।
निश्वसन्तः सुराः सर्व्वे कथमेतदिति ब्रुवन् ॥
अहं सारथिरित्युक्त्वा जग्राहाश्वांस्ततोऽग्रजः ॥
ततो देवैः सगन्धर्व्वैः सिंहनादो महान् कृतः ।
प्रतोदहस्तं सम्प्रेक्ष्य ब्रह्माणं सूततां गतम् ॥
भगवानपि विश्वेशो रथस्थे वै पितामहे ।
सदृशः सूत इत्युक्त्वा चारुरोह रथं हरः ॥
आरोहति रथं देवे ह्यश्वा हरभरातुराः ।
जानुभिः पतिता भूमौ रजोग्रासश्च ग्रासितः ॥
देवो दृष्ट्वाथ वेदांस्तानभीरुग्रहयान् भयात् ।
उज्जहार पितॄनार्त्तान् सुपुत्त्र इव दुःखितान् ॥
ततः सिंहरवो भूयो बभूव रथभैरवः ।
जयशब्दश्च देवानां सम्बभूवार्णवोपमः ॥
तदोङ्कारमयं गृह्य प्रतोदं वरदः प्रभुः ।
स्वयम्भुः प्रययौ वाहाननुमन्त्र्य यथाजवम् ॥
ग्रसमाना इवाकाशं मुष्णन्त इव मेदिनीम् ।
मुखेभ्यः ससृजुः श्वासानुच्छ्रसन्त इवोरगाः ॥
स्वयम्भुवा चोद्यमानाश्चोदितेन कपर्द्दिना ।
व्रजन्ति तेऽश्वा जवनाः क्षयकाल इवानिलाः ॥
ध्वजोच्छ्रयविनिर्म्माणे ध्वजयष्टिमनुत्तमाम् ।
आक्रम्य नन्दी वृषभं तस्थौ तस्मिञ्छिवेच्छया ॥
भार्गवाङ्गिरसौ देवौ दण्डहस्तौ रविप्रभौ ।
रथचक्रे तु रक्षेते रुद्रस्य प्रियकाङ्क्षिणौ ॥
शेषश्च भगवान् नागः अनन्तोऽन्तकरोऽरि-
णाम् ।
शरहस्तो रथं पाति शयनं ब्रह्मणस्तदा ॥
यमस्तूर्णं ससास्थाय महिषञ्चातिदारुणम् ।
द्रविणाधिपतिर्व्यालं सुराणामधिपो द्विपम् ॥
मयूरं शतचन्द्रञ्च कूजन्तं किन्नरं यथा ।
गुह आस्थाय वरदो युगोपमरथं पितुः ॥
नदीश्वरश्च भगवान् शूलमादाय दीप्तिमत् ।
पृष्ठतश्चापि पार्श्वाभ्यां लोकस्य क्षयकृद्यथा ॥
प्रमथाश्चाग्निवर्णाभाः साग्निज्वाला इवाचलाः ।
अनुजग्मू रथं शार्व्वं नक्रा इव महार्णवम् ॥
भृगुर्भरद्बाज-वसिष्ठ-गौतमाः
क्रतुः पुलस्त्यः पुलहस्तपोधनाः ।
मरीचिरत्रिर्भगवानथाङ्गिराः
पराशरागस्त्यमुखा महर्षयः ॥
हरमजितमजं प्रतुष्टुवु-
र्वचनविषैर्विचित्रभूषणैः ।
रथस्त्रिपुरे सकाञ्चनाचलो
व्रजति सपक्ष इवाद्रिरम्बरे ॥
करिगिरिरविमेघसन्निभाः
सजलपयोदनिनादनादिनः ।
प्रमथगणाः परिवार्य्य देवगुप्तं
रथमभितः प्रययुः स्वदर्पयुक्ताः ॥
मकर-तिमि-तिमिङ्गिलावृतः
प्रलय इवातिसमुद्धतोऽर्णवः ।
व्रजति रथवरोऽति भास्वरो
ह्यशनिनिपातपयोदनिस्वनः ॥” * ॥)
अथ ज्योतिर्व्विदाभरणे रथकर्म्माह ।
“लोलमैत्रलघुजिष्णुकभेषु
स्यन्दनाखिलविधानमथाहुः ।
सेनसद्युषुवशाम्बुतपस्थैः
साधुराशिवति साधुभिरङ्गे ॥”
अथ रथचक्रमाह ।
“उष्णवृष्णिकरकीर्णपुरर्क्षा-
द्देयमृक्षवलयं वलयस्य ।
सव्यभागनिचितभ्रममग्रा-
दाविमध्यमनसो नवभागम् ॥
अग्रभे भवति संकलिरन्तः-
कूवरोडुनि जयोऽथ रथाङ्गे ।
पृष्ठ ४/०९२
सन्धिभेऽर्थहृतिरन्तरसन्धौ
भीतिरिष्टमनसो ननु गर्भे ॥”
अथ मुहूर्त्तगणपतौ रथकृत्यम् ।
“पुष्ये पुनर्व्वसुज्येष्ठानुराधा रेवती द्वयोः ।
श्रवणादित्रिभे हस्तत्रितये रोहिणीमृगे ।
सार्के सौम्यदिने सौम्यविलग्ने रथकर्म्म सत् ॥”
अथ ज्योतिःसागरे रथचक्रम् ।
“रथाकारं लिखेच्चक्रं भानुभादौ विलोकयेत् ।
रथाग्र त्रीणि रक्षाणि सृष्टिमार्गे प्रदापयेत् ॥
शृङ्गे मृत्युर्ज्जयं चक्रे सन्धिदण्डे महद्भयम् ।
रथाग्रे च महोत्पातं मध्ये चैव सुखप्रदम् ॥”
इत्यार्य्येषु ज्योतिर्व्विद्वल्लभरामेण कृताः शुभा
दिशः ॥ * ॥ अस्यार्थः । अथानन्तरं धीराः
स्यन्दनानां रथानां अखिलं सम्पूर्णं विधानं
कार्य्यमाहुः कथयन्ति । केषु लोलसंज्ञानि
स्वाति पुनर्व्वसुः श्रवणा धनिष्ठा शतभिषा
एतानि । मैत्रसंज्ञानि मृगशिरा रेवती चित्रा
अनुराधा एतानि । लघुसंज्ञानि हस्ता अश्विनी
पुष्या अभिजित् एतानि । जिष्णुरिन्द्रस्तद्भं ज्येष्ठा
को ब्रह्मा तद्भं रोहिणी एतेषु नक्षत्रेषु । पुनः
केषु सेनसद्द्युषु इनः सूर्य्यः तेन सह वर्त्तमानेषु ।
सतां शुभग्रहाणां द्युषु वारेषु । पुनः कस्मिन्
साधुराशिवति शुभग्रहराशियुक्ते अङ्गे लग्ने
सति । पुनः कैः वशा स्त्री सप्तमं स्थानं अम्बु
चतुर्थं तपः नवमं एतद्भवनस्थैः साधुभिः
शुभग्रहैरिति । अथ रथचक्रे नक्षत्रस्थापनम् ।
उष्णेति । उष्णवृष्णिः सूर्य्यस्तस्य करैः किरणैः
कीर्णं व्याप्तं पुरं कक्षामण्डलीयस्वभागप्रदेशं
यस्य तच्च तदृक्षञ्चेति तस्मात् अर्थात् सूर्य्या
क्रान्तनक्षत्रात् अनसः शकटस्य वलयश्चक्रं
तस्याग्रात् अग्रभागमारभ्य आविमध्यं मध्य-
भागपर्य्यन्तं सुधिया ऋक्षवलयं भचक्रं देयं
न्यासीकर्त्तव्यं किम्भूतं ऋक्षवलयं नवभागं
नवभिर्भागैः स्थितमिति यावत् । पुनः किंभूतं
सव्यभागनिचितभ्रमं वामभागेन व्याप्तभ्रमण-
मिति । अथास्य फलम् । अनसः शकटस्य
अग्रभे अग्रगतवर्त्तमाने चन्द्रनक्षत्रे सङ्कलिः
युद्धं भवति । कूवरोडुनि युगन्धरगते वर्त्त-
माननक्षत्रे अन्तो मृतिः मरणं भवति ॥
रथाङ्गे चक्रयुग्मे जयो भवति । सन्धिभे सन्धि-
गतनक्षत्रे अर्थहृतिः द्रव्यहरणं भवति ।
अन्तरसन्धौ मध्यसन्धानगतनक्षत्रे भीति-
भयो भवति । गर्भे मध्यभागगतनक्षत्रे इष्टं
शुभं भवति । ननु निश्चितमिति । अन्यत्
सुगमम् ॥

रथकः, पुं, (रथ इव प्रतिकृतिः । कन् ।) मन्दिरा-

वयवविशेषः । यथा, --
“अष्टकांशेन गर्भस्य रथकानान्तु निर्गमः ।
परिधेर्गुणभागेन रथकांस्तत्र कल्पयेत् ॥
तत्तृतीयेन वा कुर्य्यात् रथकानान्तु निर्गमम् ।
रामत्रयं स्थापनीयं रथकत्रितये सदा ॥”
इति श्रीहरिभक्तिविलासे २० विलासः ॥

रथकड्या, स्त्री, (रथानां समूह इति । “जन-

खलादिगोरथेति ।” इति मुग्धबोधसूत्रेण
कड्यः । टाप् ।) रथसमूहः । तत्पर्य्यायः ।
रथव्रजः २ । इत्यमरः । २ । ८ । ५५ ॥ (रथ-
कट्या । इति पाणिनिः । ४ । २ । ५१ ॥)

रथकरः, पुं, (करोतीति । कृ + अच् । रथानां

करः ।) रथकारः । इति शब्दरत्नावली ॥

रथकारः, पुं, (रथं करोतीति । कृ + अण् ।)

रथनिर्म्माणकर्त्ता । छुतार इति भाषा । स तु
करणीगर्भे माहिष्याज्जातः । (यथा, वाज-
सनेयसंहितायाम् । ३० । ६ ।
“स्त्रीषखं प्रमदे कुमारीपुत्रं
मेधायै रथकारं धैर्य्याय तक्षाणम् ।”
“रथकारं माहिष्येण करिण्यां जातम् ।”
इति तद्भाष्ये महीधरः ॥) तत्पर्य्यायः । तक्षा २
वर्द्धकिः ३ त्वष्टा ४ काष्ठतट् ५ । इत्यमरः ॥
सूत्रधारः ६ वद्धका ७ रथकरः ८ काष्ठतक्षकः
९ । इति शब्दरत्नावली ॥

रथकुटुम्बी, [न्] पुं, (रथं कुटुम्बयितुं धारयितुं

शीलमस्य । णिनिः । यद्बा, रथ एव कुटुम्बम् ।
तदस्यास्तीति । इनिः ।) सारथिः । इत्य-
मरः । २ । ८ । ६० ॥

रथक्रान्तः, पुं, (रथवत् क्रान्तं क्रमणमस्य ।)

तालविशेषः । यथा, --
“अश्वक्रान्तो रथक्रान्तो विष्णुक्रान्तस्ततः परः ।
सूर्य्यक्रान्तो विधुक्रान्तो बलभिन्नागपक्षकः ॥
इति पञ्चमहीनानां संज्ञाः सप्त क्रमान्मताः ॥”
इति सङ्गीतरत्नाकरः ॥

रथगर्भकः, पुं, (रथो गर्भेऽस्य ।) स्कन्धवाह्य-

यानम् । नररथः । तत्पर्य्यायः । कर्णीरथः २
प्रवहणम् ३ डयनम् ४ । इति हेमचन्द्रः ॥

रथगुप्तिः, स्त्री, परप्रहरणाभिघातरक्षार्थं रथस्य

सन्नाहवदावरणकादिद्रव्यम् । रथस्य गुप्तिः
काण्डादिभ्यो रक्षार्थमावरणम् । तत्पर्य्यायः ।
वरूथः २ । इत्यमरः भरतश्च ॥

रथगोपनं, क्ली, (रथस्य गोपनं शस्त्रादिभ्यो

रंक्षार्थमावरणम् ।) रथगुप्तिः । इति हला-
युधः ॥

रथचरणः, पुं, (रथचरणं चक्रं तदेव नामास्य ।)

चक्रवाकपक्षी । इति शब्दरत्नावली ॥ (पुं, क्ली,
रथस्य चरणः ।) रथचक्रम् । यथा, --
“रथः क्षौणो यन्ता शतधृतिरगेन्द्रो धनुरथो
रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति ।”
इति महिम्नः स्तोत्रम् ॥

रथद्रुः, पुं, (रथनामा द्रुः । यद्वा, रथस्य द्रुर्द्रुमः ।

तत्रोपयोगित्वात् ।) तिनिशवृक्षः । इत्यमरः ।
२ । ४ । २६ ॥ (तथास्य पर्य्यायः ।
“तिनिशः स्यन्दनो नेमी रथद्रुर्व्वञ्जुलस्तथा ।”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

रथन्तरः, त्रि, रथेन तरति यः । इति मुग्धबोध-

व्याकरणम् ॥ (कल्पविशेषे, पुं । यथा, मत्स्य-
पुराणे । ५३ । ३३ -- ३४ ।
“रथन्तरस्य कल्पस्य वृत्तान्तमधिकृत्य यत् ।
सावर्णिना नारदाय कृष्णमाहात्म्यसंयुतम् ॥
यत्र ब्रह्मवराहस्य चरितं वर्ण्यते मुहुः ।
तदष्टादशसाहस्रं ब्रह्मवैवर्त्तमुच्यते ॥”
रथेन तरतीति । तॄ + “संज्ञायां भृतॄवृजि-
धारिसहितपिदमः ।” ३ । २ । ४६ । इति
खच् । मुम्च । अत्र व्युत्पत्तिमात्रम् । नत्व-
वयवार्थानुगमः । सामभेदे, क्ली । यथा, ऋग्-
वेदे । १ । १६४ । २५ ।
“जगता सिन्धुं दिव्यस्तभायद्रथन्तरे सूर्य्यं पर्य्य-
पश्यत् ॥”
“रथन्तरे एतन्नामके साम्नि ।” इति तद्भाष्ये
सायणः । स्त्रियां ङीप् । रथन्तरी । पौरवस्य
ईलिनस्य भार्य्या । यथा, महाभारते । १ । ९४ । १७ ।
“रथन्तर्य्यां सुतान् पञ्च पञ्चभूतोपमांस्ततः ।
ईलिनो जनयामास दुष्मन्तप्रभृतीन् नृपान् ॥”)

रथपर्य्यायः, पुं, (रथः पर्य्यायो यस्य ।) वेतस-

वृक्षः । इति शब्दचन्द्रिका ॥ (विवरणमस्य
वेतसशब्दे विज्ञेयम् ॥)

रथपादः, पुं, (रथस्य पादः ।) चक्रम् । इति

हेमचन्द्रः ॥

रथप्सा, स्त्री, नदीविशेषः । इति शब्दरत्ना-

वली ॥

रथयात्रा, स्त्री, (रथेन भगवतो यात्रा ।)

आषाढशुक्लद्वितीयायां श्रीजगन्नाथस्य रथा-
रोपणरूपोत्सवः । यथा, स्कन्दपुराणे ।
“आषाढस्य सिते पक्षे द्वितीया पुष्यसंयुता ।
तस्यां रथे समारोप्य रामं मां भद्रया सह ॥
यात्रोत्सवं प्रवृत्याथ प्रीणयेच्च द्बिजान् बहून् ॥
तथा ।
ऋक्षाभावे तिथौ कार्य्या सदा सा प्रीतये मम ॥
मां जगन्नाथम् । सा यात्रा ।” इति तिथ्यादि-
तत्त्वम् ॥ * ॥
“नातः श्रेयःपदो विष्णोरुत्सवः शास्त्रसम्मतः ।
रथयात्रैव यात्राणां मुख्येत्याह प्रजापतिः ॥”
इति यात्रातत्त्वम् ॥ * ॥
अन्यत् यात्राशब्दे द्रष्टव्यम् ॥

रथाङ्गं, क्ली, (रथस्याङ्गम् ।) चक्रम् । इत्यमरः ॥

(यथा, रघुः । ७ । ४१ ।
“रथो रथाङ्गध्वनिना विजज्ञे
विलोलघण्टाक्वणितेन नागः ॥”
रथावयवमात्रम् । यथा, महाभारते । १४ ।
८२ । १३ ।
“ध्वजे पताकादण्डेषु रथयन्त्रहयेषु च ।
अन्येषु च रथाङ्गेषु न शरीरे न सारथौ ॥”
सुदर्शनचक्रम् । यथा, माघे । १ । २१ ।
“रथाङ्गपाणेः पटलेन रोचिषा-
मृषित्विषः संवलिता विरेजिरे ॥”)

रथाङ्गः, पुं, चक्रवाकपक्षी । इत्यमरः ॥ (यथा,

नैषधे । १९ । ३५ ।
“विरहतरलजिह्वा बह्वाह्वयन्त्यतिविह्वला-
मिह सहचरीं नामग्राहं रथाङ्गविहङ्गमाः ॥”)
पृष्ठ ४/०९३

रथाङ्गपाणिः, पुं, (रथाङ्गं सुदर्शनचक्रं पाणौ

यस्य ।) विष्णुः । इति हलायुधः ॥ (यथा,
भागवते । १ । ३ । ३८ ।
“सवेद धातुः पदवीं परस्य
दुरन्तवीर्य्यस्य रथाङ्गपाणेः ॥”)

रथाङ्गी, स्त्री, (रथस्याङ्गमिवाकृतिर्यस्याः ।

रथाङ्ग + ङीष् ।) ऋद्धिः । इति राजनिर्घण्टः ॥

रथान्तरः, पुं, कल्पभेदः । इत्यग्निपुराणम् । (रथ-

न्तर इत्यपि पाठः ॥)

रथाभ्रः, पुं, वेतसवृक्षः । इति शब्दरत्नावली ॥

रथाभ्रपुष्पः, पुं, (रथाभ्रस्य पुष्पमिव पुष्पमस्य ।)

वेतसः । इत्यमरटीकायां भरतः ॥

रथावरोही, [न्] पुं, (रथे अवरोहतीति ।

अव् + रुह + णिनिः ।) रथस्थयुद्धकर्त्ता । इति
हेमचन्द्रः ॥

रथिकः, पुं, (रथोऽस्त्यस्येति । रथ् + ठन् ।)

रथी । इत्यमरः । २ । ८ । ७६ ॥ (यथा,
बृहत्संहितायाम् । १५ । ११ ।
“हस्ते तस्करकुञ्जर-
रथिकमहामात्रशिल्पिपण्यानि ॥”)
तिनिशवृक्षः । इति राजनिर्घण्टः ॥ (रथेन
चरतीति । रथ् + “पर्पादिभ्यः ष्ठन् ।” ४ । ४ ।
१० । इति ष्ठन् । रथचारिणि, त्रि । इति
सिद्धान्तकौमुदी ॥)

रथिनः, पुं, (रथस्य इनः प्रभुः । शकन्ध्वादि-

त्वादकारलोपः ।) रथी । इत्यमरः । २ । ८ । ७६ ॥

रथिरः, पुं, (रथोऽस्त्यस्येति । रथ् + “मेधा-

रथाभ्यामिरन्निरचौ वक्तव्यौ ।” ५ । २ । १०९ ।
इत्यस्य वार्त्तिकोक्त्या इरच् ।) रथी । इति
शब्दरत्नावली ॥ (यथा, ऋग्वेदे । ३ । १ । १७ ।
“अनुदेवान्रथिरो यासि साधन् ॥”
“रथिरः रथी ।” इति तद्भाष्ये सायणः ॥)

रथी, [न्] पुं, (रथोऽस्यास्तीति । रथ् + इनिः ।)

रथस्वामी राजादिः । तत्पर्य्यायः । रथिकः २
रथिनः ३ । इत्यमरः । १ । ८ । ७६ ॥ रथा-
रोही ४ रधी ५ रथिरः ६ । इति हेमचन्द्रः ॥
रथस्वामी ७ साराक्षः ८ । इति शब्दरत्ना-
वली ॥ स्यन्दनारोहः ९ । इति जटाधरः ॥
(यथा, रघुः । ७ । ३७ ।
“पत्तिः पदातिं रथिनं रथेश-
स्तुरङ्गसादी तुरगाधिरूढम् ॥”)

रथ्यः, पुं, (रथं वहतीति । रथ् + “तद्वहति-

रथयुगप्रासङ्गम् ।” ४ । ४ । ७६ । इति यत् ।)
रथस्य वोढा घोटकः । इत्यमरः । २ । ८ । ४६ ॥
रथांसः । इति हेमचन्द्रः ॥ (रथस्य नेता ।
यथा, ऋग्वेदे । ९ । २१ । ६ ।
“ऋभुर्न रथ्यं नवं दधाता केतमादिशे ।”
“रथ्यं रथस्य नेतारम् ।” इति तद्भाष्ये
सायणः ॥ रथसम्बन्धिनि, त्रि । यथा, ऋग्वेदे ।
२ । ३१ । ७ ।
“सप्तिर्न रथ्यो अहधीतिमश्याः ।”
“रथ्यो रथसम्बन्धी सप्तिर्न सर्पणशीलोऽश्व
इव ।” इति तद्भाष्ये सायणः ॥ रथस्येदमिति ।
“रथात् यत् ।” ४ । ३ । १२१ । इति यत् ।)
क्ली चक्रम् ॥ (युगम् । इति काशिका ॥

रथ्या, स्त्री, (रथानां समूहः । रथ् + “खलगो-

रथात् ।” ४ । २ । ५० । इति यत् ।) रथ-
समूहः । तत्पर्य्यायः । रथकड्या (ट्या) २ रथ-
व्रजः ३ । अभ्यन्तरमार्गः । नाछ इति भाषा ॥
तत्पर्य्यायः । प्रतोली २ विशिखा ३ । इत्यमरः ॥
आवर्त्तनी । इति मेदिनी ॥ (रथाय हिता ।
रथ् + “रथाद्यत् ।” ४ । ३ । १२१ । इति यत् ।
यद्वा, रथं वहतीति । “तद्बहतीति ।” ४ । ४ ।
७६ । इति यत् ।) पन्थाः । (यथा, महा-
भारते । १ । १४१ । ६० ।
“पानागारेषु रथ्यासु सर्व्वतीर्थेषु चाप्यथ ।
चत्वरेषु च कूपेषु पर्व्वतेषु वनेषु च ॥”)
चत्वरम् । इति हेमचन्द्रः ॥

रद, उत्खाते । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) रेफादिः । उत्खातमुत्-
खननमिति गोविन्दभट्टः । रदति भूमिं शूकरः ।
इति दुर्गादासः ॥

रदः, पुं, (रदतीति । रद विलेखने + पचादित्वात्

अच् ।) दन्तः । (यथा, आर्य्यासप्तशत्याम् ।
४०९ ।
“भ्रमसि प्रकटयसि रदं
करं प्रसारयसि तृणमपि श्रयसि ।
धिङ्मानं तव कुञ्जर
जीवं न जुहोषि जठराग्नौ ॥”)
विलेखनम् । इति मेदिनी । दे, १४ ॥ पुरुष-
दन्तलक्षणं यथा, --
“विवर्णैर्धनहीनाश्च दन्ताः स्निग्धा घनाः
शुभाः ।
तीक्ष्णा दंष्ट्राः समाः श्रेष्ठा जिह्वा रक्ता समा
शुभा ॥”
स्त्रीदन्तलक्षणं यथा, --
“कुन्दपुष्पसमा दन्ता भाषितं कोकिलासमम् ।
दाक्षिण्ययुक्तमशठं हंसशब्दसुखावहम् ॥
नासा समा समपुटा स्त्रीणान्तु रुचिरा शुभा ।
करालविषमा दन्ताः क्लेशाय च भयाय च ।
चौर्य्याय कृष्टमांसाश्च दीर्घा भर्त्तुश्च मृत्यवे ॥”
इति गारुडे ६६ अध्यायः ॥ * ॥
दन्तलग्नस्य शुचित्वं यथा, --
“दन्तवद्दन्तलग्नेषु जिह्वास्पर्शेऽशुचिर्भवेत् ॥”
इति कौर्म्मे उपविभागे १२ अध्यायः ॥ * ॥
“दन्तलग्नमसंहाय्यं लेपं मन्येत दन्तवत् ।
न तत्र बहुशः कुर्य्याद्यत्नमुद्धरणे पुनः ।
भवेदशौचमत्यर्थं तृणवेधाद्व्रणे कृते ॥”
इति प्रायश्चित्ततत्त्वधृतवचनम् ॥

रदच्छदः, पुं, (रदानां छद आच्छादकः ।)

ओष्ठः । इति हेमचन्द्रः ॥

रदनः, पुं, (रद्यतेऽनेनेति । रद + करणे ल्युट् ।

रनतीति । रद् + ल्युर्वा ।) दन्तः । इत्यमरः ।
२ । ६ । ९१ ॥ (यथा, हरिवंशे । १३० । ८७ ।
“रदनैः पन्नगरिपुं करेण शिरसा तदा ।
ऐरावतो गजपतिराजधान नदंस्तथा ॥”
रद् + भावे ल्युट् ।) उत्खनने, क्ली ॥

रदनच्छदः, पुं, (रदनानां छद आच्छादकः ।)

ओष्ठः । अधरः । इत्यमरः । २ । ६ । ९० ॥ तस्य
शुभाशुभलक्षणं यथा, --
“मांसलैश्च धनोपेता अवक्रैरधरैर्नृपाः ।
विम्बोपमैश्च स्फुटितैरोष्ठै रूक्षैश्च खण्डितैः ।
विवर्णैर्धनहीनाश्च दन्ता स्निग्धा घनाः शुभाः ॥”
इति गारुडे ६६ अध्यायः ॥

रदनी, [न्] पुं, (रदनौ प्रशस्तदन्तावस्य स्त

इति । रदन + इनिः ।) हस्ती । इति राज-
निर्घण्टः ॥

रदी, [न्] पुं, (रदौ प्रशस्तदन्तावस्य स्त इति ।

रद + इनिः ।) हस्ती । इति हलायुधः ॥

रध, य ऊ ऌ हिंसने । पाके । इति कविकल्पद्रुमः ॥

(दिघा०-पर०-सक०-वेट् ।) य, रध्यति । ऊ,
रधिष्यति रत्स्यति । ऌ, अरन्धत् । इति दुर्गा-
दासः ॥

रन्ज, म औ ञ रागे । इति कविकल्पद्रुमः ॥

(भ्वा०-दिवा० च-उभ०-
वर्णान्तरोत्पादने सक०-आसक्तौ अक०-अनिट् ।)
य ञ, रज्यति रज्यते । म, रजयति मृगान्
मृगरमणादन्यत्र रञ्जयति पुत्त्रं पिता । औ,
रङ्क्ता । ञ, रजति रजते । रागो वर्णा-
न्तरोत्पादनमासक्तिश्च । इति दुर्गादासः ॥

रन्ज, य म औ ञ रागे । इति कविकल्पद्रुमः ॥

(भ्वा०-दिवा० च-उभ०-
वर्णान्तरोत्पादने सक०-आसक्तौ अक०-अनिट् ।)
य ञ, रज्यति रज्यते । म, रजयति मृगान्
मृगरमणादन्यत्र रञ्जयति पुत्त्रं पिता । औ,
रङ्क्ता । ञ, रजति रजते । रागो वर्णा-
न्तरोत्पादनमासक्तिश्च । इति दुर्गादासः ॥

रन्तिदेवः, पुं, (रमते इति । रम + संज्ञायां

तिक् । रन्तिश्चासौ देवश्चेति ।) विष्णुः । चन्द्र-
वंशीयनृपतिभेदः । स तु साङ्कृतिपुत्त्रः । इति
मेदिनी । वे, ६२ ॥ (यथा, भागवते । ९ । २१ । २ ।
“गुरुश्च रन्तिदेवश्च संकृतेः पाण्डुनन्दन ! ।
रन्तिदेवस्य महिमा इहामुत्र च गीयते ॥”
अयं हि याज्ञिको दाताग्रगण्य इति पुराणेषु
श्रूयते । एतद्यज्ञहतगोचर्म्मरसेनैव चर्म्मण्वती
नदी जाता । यथा, महाभारते । ३ । २०७ ।
८ -- ९ ।
“राज्ञो महानसे पूर्ब्बं रन्तिदेवस्य वै द्बिज ।
द्वे सहस्रे तु वध्येते पशूनामन्वहं तदा ॥
अहन्यहनि वध्येते द्बे सहस्रे गवां तथा ।
समांसं ददतो ह्यन्नं रन्तिदेवस्य नित्यशः ॥
अतुला कीर्त्तिरभवत् नृपस्य द्विजसत्तम ! ॥”
तथाच तत्रैव । १२ । २९ । १२२ -- १२८ ।
“उपातिष्ठंश्च पशवः स्वयं तं संशितव्रतम् ।
ग्राम्यारण्या महात्मानं रन्तिदेवं यशस्विनम् ॥
महानदी चर्म्मराशेरुत्क्लेदात् सुश्रुवे यतः ।
ततश्चर्म्मण्वतीत्येवं विख्याता सा महानदी ॥
ब्राह्मणेभ्यो ददौ निष्कान् सदसि प्रतते नृपः ।
तुभ्यं निष्कं तुभ्यं निष्कमिति क्रोशन्ति वै द्बिजाः ।
सहस्रं तुभ्यमित्युक्त्वा ब्राह्मणान् संप्रपद्यते ।
अन्वाहार्य्योपकरणं द्रव्योपकरणञ्च यत् ॥
घटाः पात्र्यः कटाहानिस्थाल्यश्च पिठराणि च ।
नासीत् किञ्चिदसौवर्णं रन्तिदेवस्य धीमतः ॥
पृष्ठ ४/०९४
सांकृते रन्तिदेवस्य यां रात्रिमवसन् गृहे ।
आलभ्यन्त शतं गावः सहस्राणि च विंशतिः ॥
तत्र स्म सूदाः क्रोशन्ति सुमृष्टमणिकुण्डलाः ।
सूपभूयिष्ठमश्रीध्वं नाद्यमांसं यथा पुरा ॥”)
कुक्कुरः । इति शब्दरत्नावली ॥

रन्तुः, स्त्री, (रमते अत्रेति । रम् + तुन् ।) वर्त्म ।

नदी । इति मेदिनी । ते, ४९ ॥

रन्धनं, क्ली, पाकः । रधधातोर्भावेऽनट्प्रत्ययेन

निष्पन्नम् । यथा रन्धनाय स्थाली । इति
संक्षिप्तसारव्याकरणम् ॥ (रध् + ल्युः । नाशके,
त्रि । यथा, भागवते । ४ । ३० । २८ ।
“यदनुस्मर्य्यते काले स्वबुद्ध्याभद्ररन्धन ! ॥”
“हे अभद्ररन्धन ! अमङ्गलनाशन ! ।” इति
तट्टीकायां श्रीधरः ॥)

रन्धितं, क्ली, (रध् + क्त ।) कृतरन्धनद्रव्यम् ।

तस्य पात्रान्तरे स्थापनविधिर्यथा, --
“सङ्कीर्णे पात्रसम्भारे मार्गे वा ग्रामवर्ज्जिते ।
स्थापयेद्गुणवान् सूदः सिद्धान्नं पात्रकान्तरे ॥
भक्तं स्वपावके स्थाप्यं न स्थाप्यं पात्रकान्तरे ॥
घृतं काष्ठायसे स्थाप्यं मांसं मांसभवं रसम् ।
स्थापयेद्राजते हैमे पात्रे लौहेऽथ काष्ठजे ।
पत्रादिषड्विधं शाकं स्थाप्यं काष्ठाश्मलौहजे ।
पक्वान्नं पिष्टकं भक्ष्यं स्थाप्यं कांस्येऽथ दारुजे ॥
धारयेत् सुशृतं क्षीरं पार्थिवे वाथ काष्ठजे ।
पानीयं पायसं तक्रं मृण्मयेष्वेव धारयेत् ॥
काचजे स्फाटिके वाथ वैदूर्य्यादिविचित्रिते ।
धारयेत् सर्व्वदा पात्रे रागषाडवशट्टकान् ॥
उक्तपात्रान्तरे स्थाप्यं तद्द्रव्यं तद्द्रुजापहम् ।
सर्व्वदा सुखदं हृद्यमन्यथा दोषकारकम् ॥”
इति सूपकारशास्त्रे पाकराजेश्वरः ॥

रन्धं, क्ली, (रन्धयति हिनस्त्यनेनेति । रध् + बाहु-

लकात् रक् ।) दूषणम् । (यथा, रघुः ।
१२ । ११ ।
“रन्ध्रान्वेषणदक्षाणां द्बिषामामिषतां ययौ ॥”)
छिद्रम् । इति मेदिनी ॥ (यथा, रघौ । १५ । ८२ ।
“एवसुक्ते तया साध्व्या रन्ध्रात् सद्योभवाद्भुवः ।
शातह्रदमिव ज्योतिः प्रभामण्डलमुद्ययौ ॥”
मनुष्यशरीरस्थरन्ध्राणि यथा, --
“नासानयनकर्णानां द्बे द्वे रन्ध्रे प्रकीर्त्तिते ।
मेहनापानवक्त्राणामेकैकं रन्ध्रमुच्यते ।
दशमं मस्तके प्रोक्तं रन्ध्राणीति नृणां विदुः ॥
स्त्रीणान्त्रीण्यधिकानि स्युः स्तनयोर्गर्भवर्त्मनः ।
सूक्ष्मच्छिद्राणि चान्यानि मतानि त्वचि जन्मि-
नाम् ॥”
इति शार्ङ्गधरे पूर्ब्बखण्डे पञ्चमेऽध्याये ॥
योनिः । यथा, महाभारते । १२ । २८२ । ५३ ।
“रन्ध्रागतमथाश्वानां शिखोद्भेदश्च वर्हिणाम् ।
नेत्ररोगः कोकिलस्य ज्वरः प्रोक्तो महात्मना ॥”)

रन्ध्रकण्टः, पुं, (रन्ध्रे कण्टः कण्टको यस्य ।)

जालवर्व्वूरकः । इति राजनिर्घण्टः ॥

रन्ध्रबभ्रुः, पुं, (रन्ध्रे गर्त्ते बभ्रुर्नकुल इव ।)

उन्दुरुः । इति त्रिकाण्डशेषः ॥

रन्ध्रवंशः, पुं, (रन्ध्रविशिष्टो वंशः ।) छिद्रयुक्त-

वंशः । फाँफावाँश इति भाषा । तत्पर्य्यायः ।
त्वक्सारः २ कीचकाह्वयः ३ मस्करः ४ वाद-
नीयः ५ शुषिरास्यः ६ । अस्य गुणाः ।
“वंशौ त्वम्लौ कषायौ च किञ्चित्तिक्तौ च
शीतलौ ।
मूत्रकृच्छ्रप्रमेहार्शःपित्तदाहास्रनाशनौ ॥
विशेषो रन्ध्रवंशस्तु दीपनोऽजीर्णनाशकः ।
रुचिकृत् पाचनो हृद्यः शूलघ्नो गुल्मनाशनः ॥”
इति राजनिर्घण्टः ॥

रप, वदे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) रपति । वदः कथनम् । इति
दुर्गादासः ॥

रफ, गत्याम् । वधे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) रफति । इति दुर्गादासः ॥

रफ, इ गत्याम् । वधे । इति कविकल्पद्रुमः ॥

आत्मा०-पर०-सक०-सेट् ।) इ, रम्फ्यते । इति
दुर्गादासः ।

रब, इ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) इ, रम्ब्यते । इति दुर्गा-
दासः ॥

रब, इ ङ शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सेट् ॥)

रबः, पुं, शब्दः । रबधातोर्भावेऽल्प्रत्ययेन निष्पन्नः ॥

(यथा, राजतरङ्गिण्याम् । ५ । ४०८ ।
“सुप्तस्तटाद्ध्रदे भ्रष्ट इव निद्रालसेक्षणः ।
प्रबुद्धः शस्त्रपातैः स व्यमुचद् भैरवान् रबान् ॥”)

रभ, इ ङ शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-सेट् ।) इ, रम्भ्यते । ङ, रम्भते ।
इति दुर्गादासः ॥

रभ, औ ङ राभस्ये । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-अनिट् । राभस्यमुत्सुकीभावः ।
निर्व्विचारा प्रवृत्तिरिति गोविन्दभट्टः । औ,
रब्धा । ङ, रभते साधुः पुण्ये । आङ्पूर्व्वोऽय-
मारम्भे । शास्त्रं पठितुमारभते शिष्यः । इति
दुर्गादासः ॥

रभसः, पुं, (रभणमिति । रभ + “अत्यविचमि-

तमिनमिरभिलभीति ।” उणा० ३ । ११७ ।
इति असच् ।) वेगः । (यथा, माघे । ९ । ७२ ।
“रभसोत्थितामुपगतः सहसा
परिरभ्यकश्चन बधूमरुधत् ॥”)
हर्षः । इति मेदिनी । से, ३१ ॥ (प्रेमोत्साहः ।
यथा, गीतगोविन्दे । ५ । ६ ।
“मनसि रभसविभवे हरिरुदयतु सुकृतेन ॥”
“रभसस्य प्रेमोत्साहस्य ।” इति तट्टीकाबाल-
बोधिनी ॥) संरम्भः । यथा, माघे । ११ । १९ ।
“प्रमदमदनमाद्यद्यौवनोद्दामरामा
रमणरभसखेदच्छेदविच्छे दक्षः ॥”
संभ्रमः । यथा, भागवते । ११ । १९ ।
“वज्रदंष्ट्राः श्वानः सप्तशतानि
विंशतिश्च सरभसं खादन्ति ॥”)
पौर्व्वापर्य्यविचारः । इत्यरुणः । औत्सुक्यमिति
कलिङ्गः । स्त्रियामा रभसा च दृश्यते । इति
कृष्णः । (यथा, किरातार्ज्जुनीये । ५ । १ ।
“अथ जयाय नु मेरुमहीभृतो
रभसया नु दिगन्तदिदृक्षया ।
अभिययौ स हिमालयमुच्छ्रितं
समुदितं नु विलङ्घयितुं नभः ॥”)
(यथा, महाभारते । ५ । ५१ । १० ।
“सर्व्वेषां मम पुत्राणां स एकः क्रूरविक्रमः ।
बह्वाशी विप्रतीपश्च बाल्येऽपि रभसः सदा ॥”
महान् । इति निघण्टुः । ३ । ३ ॥)
यदा तु रभसगुणयोगातर्श आदित्वात् अप्र-
त्यये तद्वति वर्त्तते तदा वाच्यलिङ्गता स्यात् ।
इति लिङ्गादिसंग्रहे भरतः ॥
स्वनामख्यातः अभिधानविशेषश्च ॥

रम, उ ङ ज औ क्रीडे । इति कविकल्प-

द्रुमः ॥ (भ्वा०-आत्म०-अक०-अनिट् । क्त्वावेट् ।)
रेफादिः । उ, रमित्वा । रन्त्वा । ङ, रमते ।
ज, रामः रमः । औ, रन्ता । इति दुर्गादासः ॥

रमः, पुं, (रमते इति । रम् + पचाद्यच् ।)

कान्तः । (यथा, किरातार्ज्जुनीये । ५ । २० ।
“निधिगुह्यकाधिपरमैः परमैः ॥”)
रक्ताशोकवृक्षः । कामदेवः । इति मेदिनी ।
मे, २५ ॥ रमणञ्च । रमधातोर्भावेऽल्प्रत्यय-
निष्पन्नम् ॥

रमकः, पुं, (रमते इति । रम् + “रमेरश्च लो

वा ।” उणा० ३ । ३३ । इति क्वुन् ।) कान्तः ।
इत्युणादिकोषः ॥

रमठं, क्ली, (रम + अठन् ।) हिङ्गु । इत्युणादि-

कोषः ॥ (जनपदबिशेषे, पुं । तद्देशवासिनि,
त्रि । यथा, महाभारते । ३ । ५१ । २४ ।
“जागुडान् रमठान् मुण्डान् स्त्रीराज्यानथ
तङ्गणान् ॥”)

रमठध्वनिः, पुं, (रमठ इति शब्देन ध्वन्यते कथ्यते

इति । ध्वन् + इन् ।) हिङ्गु । इति शब्द-
चन्द्रिका ॥

रमणं, क्ली, (रमयतीति । रम् + णिच् + ल्युः ।)

पटोलमूलम् । इति मेदिनी ॥ जघनम् । इति
हेमचन्द्रः ॥ (रम् + भावे ल्युट् ।) जम्भनम् ।
तत्पर्य्यायः । अब्रह्मचर्य्यकम् २ ग्राम्यधर्म्मः ३
सुरतम् ४ रतम् ५ संप्रयोगः ६ निधुवनम् ७
मैथुनम् ८ रतिः ९ उपसृष्टम् १० धर्षितम् ११
क्रीडारत्नम् १२ महासुखम् १३ त्रिभद्रम् १४
योगमिथुनम् १५ अभिमानितम् १६ । इति
शब्दरत्नावली ॥ (यथा, माघे । ११ । १९ ।
विकच कमलगन्धैरन्धयन् भृङ्गमालाः
सुरभितमकरन्दं मन्दमावाति वातः ।
प्रमदमदनमाद्याद्यौवनोद्दामरामा-
रमणरभसखेदस्वेदविच्छेददक्षः ॥”)
क्रीडनम् । इति रमधात्वर्थदर्शनात् ॥ (रत्यु-
त्पादनम् । यथा, भागवते । १० । २ । १३ ।
“रामेति लोकरमणाद्बलं बलवदुच्छ्रयात् ॥”
“लोकस्य रमणात् रत्यत्पादनात् ।” इति तत्र
पृष्ठ ४/०९५
स्वामी ॥ वनविशेषः । यथा, हरिवंशे । १५५ । २१ ।
“भाति चैत्रवनञ्चैव नन्दनञ्च वनं महत् ।
रमणं भावनं चैव वेणुमद्वै समन्ततः ॥”)

रमणः, पुं, (रमते रमयतीति वा । रम् + णिच्

वा + ल्युः ।) पतिः । (यथा, कुमारे । ४ । २१ ।
“वचनीयमिदं व्यवस्थितं
रमण ! त्वामनुयामि यद्यपि ॥”
रमयति स्त्रीपुरुषाणां अन्तःकरणमिति । रम्
+ णिच् + ल्युः ।) कामदेवः । इति मेदिनी ।
णे, ७२ ॥ गर्द्दभः । इति हेमचन्द्रः । ३ । १८१ ॥
वृषणः । इति शब्दचन्द्रिका ॥ महारिष्टः ।
इति राजनिर्घण्टः ॥ (धरवसुपुत्त्राणामन्य-
तमः । यथा, मात्स्ये । ५ । २४ ।
“कल्याणिन्यां ततः प्राणो रमणः शिशिरोऽपि च
मनोहरा धरात् पुत्त्रानवापाथ हरेः सुता ॥”
रमणीये, त्रि । यथा, भागवते । ४ । ६ । १० ।
“रमणं विहरन्तीनां रमणैः सिद्धयोषिताम् ॥”)

रमणकं, क्ली, (रमन्ते लोका अत्र । रम् + ल्युट् ।

संज्ञायां कन् ।) जम्बुद्बीपान्तर्गतवर्षविशेषः ।
स तु रम्यकवर्षः । यथा, --
“एवमेवोत्तरे त्रीणि वर्षाणि च तपोधन ।
कुरुवर्षं सिन्धुकूलात् शृङ्गवानवधिः स्मृतः ॥
हिरण्मयं ततो वर्षं श्वेतावधि निगद्यते ।
रम्यकञ्च ततो वर्षं नीलस्तस्यावधिः स्मृतः ॥”
अपि च ।
शेष उवाच ।
“दक्षिणेन तु श्वेतस्य निषधस्योत्तरेण तु ।
वर्षं रमणकं नाम जायन्ते तत्र मानवाः ॥
शुक्लाभिजनसम्पन्नाः सर्व्वे सुप्रियदर्शनाः ।
दशवर्षसहस्राणि शतानि दश पञ्च च ।
जीवन्ति ते महाभाग नित्यं मुदितमानसाः ॥”
इति पाद्मे भूखण्डे १२८ । २२९ अध्यायौ ॥
(अन्यत् रम्यकशब्दे द्रष्टव्यम् ॥ वीतिहोत्रस्य
पुत्त्रभेदः । यथा, भागवते । ५ । २० । ३१ ।
“तद्द्वीपस्याधिपतिः प्रैयवतो वीतिहोत्रो नाम
तस्यात्मजौ रमणकधातकनामानौ वर्षपती
नियुज्य स्वयं पूर्व्वजवद्भगवत्कर्म्मशील एवास्ते ॥”)

रमणा, स्त्री, रमणी । इत्यमरटीका ॥ (पीठस्थ

शक्तिविशेषः । यथा, देवीभागते । ७ । ३० । ६७ ।
“रमणा रामतीर्थे तु यमुनायां मृगावती ॥”)

रमणी, स्त्री, (रमतेऽस्यामिति । रम + ल्युट् ।

ङीष् ।) नारी । इति मेदिनी । णे, ७२ ॥
उत्कृष्टस्त्रीविशेषः । या वपुर्गुणोपचारेण
सौभाग्येन कान्तं रमयति सा । इत्यमरभरतौ ॥
(यथा, कथासरित्सागरे । ५२ । २१४ ॥
“रथेन रमणीयुक्तः प्रजानां दत्तकौतुकः ॥”)
बालाख्यवृक्षः । यथा, --
“बाला च रमणी रामा बन्ध्या कामकलापि
च ॥”
इति शब्दचन्द्रिका ॥

रमणीयं त्रि, (रम् + अनीयर् ।) सुन्दरम् ।

इत्यमरटीका ॥ (यथा, गीतगोविन्दे । १ । ११ ।
“वितरसि दिक्षु रणे दिक्पतिकमनीयम्
दशमुखमौलिवलिं रमणीयम् ॥”)

रमण्यं, त्रि, (रम् + “शृरम्योश्च ।” उणा० ३ ।

१०१ । इति अन्यप्रत्ययः । रमणीयम् । इति
सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥)

रमतिः, पुं, (रमतेऽस्मिन् इति । रम् + “रमे-

र्न्नित् ।” उणा० ४ । ६३ । इति अतिप्रत्ययः ।
निच्च ।) नायकः । स्वर्गः । इति मेदिनी । ते,
१४३ ॥ काकः । इति शब्दरत्नावली ॥ कालः ।
कामदेवः । इति सिद्धान्तकौमुद्यामुणादि-
वृत्तिः ॥

रमा, स्त्री, (रमयतीति । रम् + णिच् + अच् ।

टाप् च ।) लक्ष्मीः । इति मेदिनी । मे, २५ ॥
(यथा, भागवते । ३ । ९ । २३ ।
“एष प्रसन्नवरदो रमयात्मशक्त्या
यद्यत् करिष्यति गृहीतगुणावतारः ॥”
यथा च ।
“रमा यत्र नवाक् तत्र यत्र वाक् तत्र नो रमा ।
ते यत्र विनयो नास्ति सा च सा च स च
त्वयि ॥”
इत्युद्भटः ॥)
शशिध्वजराजकन्या । सा कल्किदेवेन विवा-
हिता । यथा, --
“ततः शशिध्वजो राजा युद्धादाहूय पुत्त्रकान् ।
सुशान्ताया मतिं बुद्ध्वा रमां प्रादात् स
कल्कये ॥”
इति कल्किपुराणे २५ अध्यायः ॥
शोभा । इति राजनिर्घण्टः ॥ (गङ्गा । यथा,
काशीखण्डे । २९ । १४५ ।
“रेवती रतिकृद्रम्या रत्नगर्भा रमा रतिः ॥”

रमाधवः, पुं, (रमाया लक्ष्म्या धवः पतिरिति ।)

श्रीकृष्णः । यथा । रमाधवः पूज्यो माधवत्वात् ।
इत्यवयवग्रन्थे जगदीशः ॥

रमानाथः, पुं, श्रीकृष्णः । रमा लक्ष्मीस्तस्या नाथः

स्वामी । इति षष्ठीतत्पुरुषसमासनिष्पन्नः ॥

रमापतिः, पुं, (रमायाः पतिः ।) श्रीकृष्णः ।

यथा, मुग्धबोधव्याकरणे ।
“मुकुन्दस्यासितमिदमिदं यातं रमापतेः ।
भुक्तमेतदनन्तस्येत्यूचुर्गोप्यो दिदृक्षवः ॥”
(यथा च देवीभागवते । १ । ५ । ८ ।
“दत्त्वा भारं धनुष्कोट्यां निद्रामाप रमा-
पतिः ॥”)

रमाप्रियं, क्ली, (रमायाः प्रियम् ।) पद्मम् ।

इति शब्दचन्द्रिका ॥

रमावेष्टः, पुं, (रमया वेष्ट्यतेऽसौ । वेष्ट + घञ् ।)

श्रीवासः । इति राजनिर्घण्टः ॥

रमिता, त्रि, (रम् + णिच् + क्त । टाप् ।) रति-

प्रापिता । यथा, --
“त्वरितगतिर्व्रजयुवतिस्तरणिसुताविपिनगता ।
मुररिपुणा रतिगुरुणा परिरमिता प्रमद-
मिता ॥”
इति छन्दोमञ्जरी ॥
“व्रजयुवतिर्गोपबधूः मुररिपुणा श्रीकृष्णन परि-
रमिता सती प्रमदं हर्षं इता गता ।
किम्भूता । त्वरितगतिः त्वरिता शीघ्रा गति-
र्यस्याः सा तथा । पुनः किम्भूता तरणिसुता-
विपिनगता यमुनासम्बन्धिवनमुपागता । किम्भू-
तेन रतिगुरुणा रतौ शृङ्गारे गुरुणा उपा-
ध्यायेन । अयमभिप्रायः । स्वयं रतिकुशलो
नायिकाञ्च रतिमध्यापयति ।” इति तट्टीका ॥

रमेश्वरः, पुं, (रमाया लक्ष्म्या ईश्वरः पतिर्नियन्ता

वा ।) विष्णुः । यथा, --
“श्रीराम राघव रमेश्वर रावणारे
भूतेश मन्मथरिपो प्रमथाधिनाथ ।
चाणूरमर्द्दन हृषीकपतेऽसुरारे
त्याज्या भटा य इति सन्ततमामनन्ति ॥”
इति काशीखण्डे हरिहरस्तोत्रम् ॥

रम्भः, पुं, (रम्भते रागमूर्च्छनादिकमनेनेति ।

रभि + कर्म्मणि घञ् ।) वेणुः । (रम्मते उद्यम-
शीलो भवति निरन्तरमुदरभरणायेति भावः ।
रभि + अच् ।) वानरविशेषः । इति मेदिनी ।
भे, ७ ॥ महिषासुरपिता । यथा, --
श्रीऔर्व्व उवाच ।
“आराधितो महादेवो रम्भेण सुरवैरिणा ।
चिरेण स च सुप्रीतस्तपसा तस्य शङ्करः ॥
अथ तुष्टो महादेवः प्रत्यक्षं रम्भमुक्तवान् ।
प्रीतोऽस्मि ते वरं रम्भ वरयस्व यथेप्सितम् ॥
एवमुक्तः प्रत्युवाच रम्भस्तं चन्द्रशेखरम् ।
अपुत्त्रोऽहं महादेव यदि ते मय्यनुग्रहः ॥
मम जन्मत्रये पुत्त्रो भवान् भवतु शङ्कर ।
एवमुक्तस्तु दैत्येन प्रत्युवाच वृषध्वजः ॥
भवत्वेतद्वाञ्छितं ते भविष्यामि सुतस्तव ।
इत्युक्त्वा स महादेवस्तत्रैवान्तरधीयत ॥
रम्भोऽपि यातः स्वस्थानं हर्षोत्फुल्लविलोचनः ।
पथि गच्छन् स रम्भोऽथ ददृशे महिषीं
शुभाम् ॥
त्रिहायणीं चित्रवर्णां सुन्दरीं ऋतुशालिनीम् ।
स तां दृष्ट्वाथ महिषीं रम्भः कामेन मोहितः ॥
दोर्भ्यां गृहीत्वा च तदा चकार सुरतोत्सवम् ।
तयोः प्रवृत्ते सुरते सा तदा तस्य तेजसा ॥
दधार महिषी गर्भं तदाभून्महिषासुरः ॥”
इति कालिकापुराणे ५९ अध्यायः ॥
(असौ एव जन्मान्तरे रक्तबीजो जातः ।
एतद्विवरणं यथा, देवीभागवते । ५ । २ । १७-४९ ।
व्यास उवाच ।
“दनोः पुत्त्रौ महाराज ! विख्यातौ क्षिति-
मण्डले ।
रम्भश्चैव करम्भश्च द्बावास्तां दानवोत्तमौ ॥
तावपुत्त्रौ महाराज ! पुत्त्रार्थं तेपतुस्तपः ।
बहून् वर्षगणान् कामं पुण्ये पञ्चनदे जले ॥
करम्भस्तु जले मग्नश्चकार परमं तपः ।
वृक्षं रसालवटं प्राप्य स रम्भोऽग्निमसेवत ॥
पञ्चाग्निसाधनासक्तः स रम्भस्तु यदाभवत् ।
ज्ञात्वा शचीपतिर्दुःखमुद्ययौ दानवौ प्रति ॥
पृष्ठ ४/०९६
गत्वा पञ्चनदे तत्र ग्राहरूपं चकार ह ।
वासवस्तु करम्भन्तं तदा जग्राह पादयोः ॥
निजघान च तं दुष्टं करम्भं वृत्रसूदनः ।
भ्रातरं निहतं श्रुत्वा रम्भः कोपं परङ्गतः ॥
स्वशीर्षं पावके होतुमैच्छच्छित्वा करेण ह ।
केशपाशे गृहीत्वाशु वामेन क्रोधसंयुतः ॥
दक्षिणेन करेणोग्रं गृहीत्वा खड्गमुत्तमम् ।
छिनत्ति शीर्षं तत्तावद्बह्निना प्रतिबोधितः ॥
उक्तश्च दैत्य मूर्खोऽसि स्वशीर्षं छेत्तुमिच्छसि ।
आत्महत्यातिदुःसाध्या कथं त्वं कर्त्तुमुद्यतः ॥
वरं वरय भद्रं ते यस्ते मनसि वर्त्तते ।
मा म्रियस्व मृतेनाद्य किन्ते कार्य्यं भविष्यति ॥
व्यास उवाच ।
तच्छ्रुत्वा वचनं रम्भः पावकस्य सुभाषितम् ।
ततोऽब्रवीद्बचो रम्भस्त्यक्त्वा केशकलापकम् ॥
यदि तुष्टोऽसि देवेश ! देहि मे वाञ्छितं वरम् ।
त्रैलोक्यविजयी पुत्त्रः स्यान्नः परबलार्द्दनः ॥
अजेयः सर्व्वथा स स्याद्देवदामवमानवैः ।
कामरूपी महावीर्य्यः सर्व्वलोकाभिवन्दितः ॥
पावकस्तं तथेत्याह भविष्यति तवेप्सितम् ।
पुत्त्रस्तव महाभाग ! मरणाद्विरमाधुना ॥
यस्यां चित्तं तु रम्भ ! त्वं प्रमदायां करिष्यसि ।
व्यास उवाच ।
तस्यां पुत्त्रो महाभाग ! भविष्यति बलाधिकः ॥
इत्युक्तो वह्निना रम्भो वचनं चित्तरञ्जनम् ।
श्रुत्वा प्रणम्य प्रययौ वह्निं तं दानवोत्तमः ॥
यक्षैः परिवृतं स्थानं रमनीयं श्रियान्वितम् ।
दृष्ट्वा चक्रे तदा भावं महिष्यां दानवोत्तमः ॥
मत्तायां रूपपूर्णायां त्रिहायन्यां च योषितम् ।
सा समागाच्च तरसा कामयन्ती मुदान्विता ॥
रम्भोऽपि गमनं चक्रे भवितव्यप्रणोदितः ।
सा तु गभवती जाता महिषी तस्य वीर्य्यतः ॥
तां गृहीत्वाथ पातालं प्रविवेश मनोहरम् ।
महिषेभ्यश्च तां रक्षन् प्रियामनुमतां किल ॥
कदाचित् महिषश्चान्यः कामार्त्तस्तामुपाद्रवत् ।
स्वयमागत्य तं हन्तुं दानवः समुपाद्रवत् ॥
स्वरक्षार्थं समागम्य महिषं समताडयत् ।
सोऽपि तं निजघानाशु शृङ्गाभ्यां काममोहितः ॥
ताडितस्तेन तीक्ष्णाभ्यां शृङ्गाभ्यां हृदये भृशम् ।
भूमौ पपात तरसा ममार च विमूर्च्छितः ॥
मृते भर्त्तरि सा दीना भयार्त्ता विद्रुता भृशम् ।
सा वेगात्तं वटं प्राप्य यक्षाणां शरणं गता ॥
पृष्ठतस्तु गतस्तत्र महिषः कामपीडितः ।
कामयानस्तु तां कामी बलवीर्य्यमदोद्धतः ॥
रुदती सा भृशं दीना दृष्टा यक्षैर्भयातुरा ।
धावमानञ्च तं वीक्ष्य यक्षास्त्रातुं समाययुः ॥
युद्धं समभवद्घोरं यक्षाणां च हयारिणा ।
शरेण ताडितस्तूर्णं पपात धरणीतले ॥
मृतं रम्भं समानीय यक्षास्ते परमं प्रियम् ।
चितायां रोपयामासुस्तस्य देहस्य शुद्धये ॥
महिषी सा पतिं दृष्ट्वा चितायां रोपितं तदा ।
प्रवेष्टुं सा मतिं चक्रे पतिना सह पावकम् ॥
वार्य्यमाणापि यक्षैः सा प्रविवेश हुताशनम् ।
ज्वालामालाकुलं साध्वी पतिमादाय वल्लभम् ॥
महिषस्तु चितामध्यात् समुत्तस्थौ महाबलः ।
रम्भोऽप्यन्यद्बपुः कृत्वा निःसृतः पुत्त्रवत्सलः ॥
रक्तबीजोऽप्यसौ जातो महिषोऽपि महाबलः ।
अभिषिक्तस्तु राज्येऽसौ हयारिरसुरोत्तमैः ॥
एवं स महिषो जातो रक्तबीजश्च वीर्य्यवान् ।
अवध्यस्तु सुरैर्द्दैत्यैर्मानवैश्च नृपोत्तम ! ॥”)

रम्भा, स्त्री, (रभि + अच् । टाप् ।) कदली ।

(यथा, नैषधे । २ । ३७ ।
“तरुमूरुयुगेन सुन्दरी
किमु रम्भां परिणाहिना परम् ॥”)
अप्सरोविशेषः । इति मेदिनी । मे, ७ ॥ (यथा,
महाभारते । १ । ६५ । ५० ।
“अरुणा रक्षिता चैव रम्भा तद्बन्मनोरमा ॥”)
गौरी । इति शब्दरत्नावली ॥ (सा तु पीठस्थ-
शक्तीनामन्यततमा । यथा, देवीभागवते ।
७ । ३० । ५८ ।
“गौरी प्रोक्ता कान्यकुब्जे रम्भा कु मलया-
चले ॥”)
गोध्वनिः । इति हेमचन्द्रः । ६ । ४२ ॥ वेश्या ।
इति धरणिः ॥

रम्भातृतीया, स्त्री, (रम्भाख्या तृतीया ।) व्रत-

विशेषकालः । यथा, --
ब्रह्मोवाच ।
“रम्भातृतीयां वक्ष्ये च सौभाग्यश्रीसुतादिदाम् ।
मार्गशीर्षे सिते पक्षे तृतीयायामुपोषितः ॥
गौरीं यजेद्विल्वपत्रैः कुशोदादः करम्भदः ।
कदम्बादो गिरिसुतां पौषे मरुवकैर्यजेत् ॥
कर्पूरादः कृशरदो मल्लिकादन्तकाष्ठकृत् ।
माघे सुभद्रां कह्लारैर्घृताशो मण्डकप्रदः ॥
गीतीमयं दन्तकाष्ठं फाल्गुने गोमतीं यजेत् ।
कुन्दैः कृत्वा दन्तकाष्ठं जीवाशः सस्कुलीप्रदः ॥
विशालाक्षीं दमनकैश्चैत्रे काशारसंप्रदः ।
दधिप्राशो दन्तकाष्ठं तगरं श्रीमुखीं यजेत् ॥
वैशाखे कर्णिकारैश्च अशोकाशो वटप्रदः ।
ज्यैष्ठे नारायणीमर्च्चेच्छतपत्रैश्च खण्डदः ॥
नवङ्गाशश्च तज्जाद आषाढे माधवीं यजेत् ।
तिलाशो विल्वपत्रैश्च क्षीरान्नवटकप्रदः ॥
औडुम्बरं दन्तकाष्ठं तगर्य्याः श्रावणे श्रियम् ।
दन्तकाष्ठं स्वर्णकाशः क्षीरदो ह्युत्तमां यजेत् ॥
पद्मैर्यजेत् भाद्रपदे शृङ्गोदाशो गुणादिदः ।
राजपुत्त्रीञ्चाश्वयुजे जवापुष्पैश्च जीवकम् ॥
प्राशयेन्निशि नैवेद्यैः कृशरैः कार्त्तिके यजेत् ।
जातिपुष्पैः पद्मजाञ्च पञ्चगव्याशनो यजेत् ॥
घृतोदनञ्च वर्षान्ते सपत्नीकान् द्विजान् यजेत् ।
उमामहेश्वरं स्वार्णं लवणे तु गुडे स्थितम् ॥
वस्त्रच्छत्रसुवर्णाद्यै रात्रौ च कृतजागरः ।
गीतवाद्यैर्ददेत् प्रातर्गवाद्यं सर्व्वमाप्नुयात् ॥”
इति गारुडे १२० अध्यायः ॥ * ॥
अपि च । “अथ तृतीया । सा चतुर्थीयुता
रम्भाव्रतेतरदैवकर्म्मसु ग्राह्या ।
‘रम्भाख्यां वर्ज्जयित्वा तु तृतीयां मुनिसत्तम ।
अन्येषु सर्व्वकार्य्येषु गणयुक्ता प्रशस्यते ॥’
इति ब्रह्मवैवर्त्तात् ॥
ततश्च युग्मवाक्यं रम्भाव्रतपरम् । भविष्योत्तरे ।
‘कुरुष्व भद्रे यत्नेन रम्भाख्यं व्रतमुत्तमम् ।
ज्यैष्ठे शुक्लतृतीयायां स्नातनियमतत्परा ॥’
रम्भाख्यमिति रम्भया कृतमिति रम्भाव्रतम् ।”
इति तिथ्यादितत्त्वम् ॥

रम्भोरूः, स्त्री, रम्भे इव ऊरू यस्याः सा । इति

व्याकरणम् ॥ (यथा, रघौ । ६ । ३५ ।
“अनेन यूना सह पार्थिवेन
रम्भोरु ! कच्चिन्मनसो रुचिस्ते ॥”)

रम्य, क्ली, (रम + “पोरदुपधात् यत् ।” ३ । १ ।

९८ । इति यत् ।) पटोलमूलम् । इति मेदिनी ॥
प्रधानधातु । इति जटाधरः ॥

रम्यः, पुं, (रम्यते अनेनेति । रम + यत् ।) चम्पक-

वृक्षः । इति मेदिनी ॥ वकवृक्षः । इति शब्द-
चन्द्रिका ॥

रम्यः, त्रि, (रम + यत् ।) मनोज्ञः । इति मेदिनी ॥

(यथा, मनौ । ७ । ६९ ।
“रम्यमानतसामन्तं स्वाजीव्यं देशमावसेत् ॥”)
बलकरः । इति जटाधरः ॥

रम्यकं, क्ली, (रम्यते जनोऽत्रेति । रम् + यत् । ततः

कप् संज्ञायां कन् वा ।) वर्षविशेषः । इति
जटाधरः ॥ एतस्य विवरणं यथा, --
“दक्षिणेन तु मेरोस्तु श्वेतस्य चोत्तरेण च ।
वायव्यं रम्यकं नाम जायन्ते तत्र मानवाः ॥
मतिप्रधाना विमला जरादुर्गविवर्जिताः ।
तत्रापि सुमहान् वृक्षो न्यग्रोधो रोहितः
स्मृतः ।
तत्फलप्राशनादेव जीवन्ति बहुवासरम् ॥”
इति वराहपुराणे रुद्रगीतानामाध्यायः ॥
(तथाच देवीभागवते । ८ । ९ । १८ -- २३ ।
“रम्यके नाम वर्षे च मूर्त्तिं भगवतः पराम् ।
मात्स्यां देवासुरैर्व्वन्द्यां मनुः स्तौति निरन्तरम् ॥
मनुरुवाच ।
ॐ नमो मुख्यतमाय नमः सत्त्वाय
प्राणायौजसे बलाय महामत्स्याय नमः ।
अन्तर्व्वहिश्चाखिललोकपालकै-
रदृष्टरूपो विचरस्युरुस्वनः ।
स ईश्वरस्त्वं स इदं वशे नय-
न्नाम्ना यथा दारुमयीं नरः स्त्रियम् ॥
यं लोकपालाः किल मत्सरज्वरा
हित्वा यतन्तोऽपि पृथक् समेत्य च ।
पातुं न शेकुर्द्दिपदश्चतुष्पदः
सरीसृपं स्थाणु यदत्र दृश्यते ॥
भवान् युगान्तार्णव ऊर्म्मिमालिनि
क्षौणीमिमामोषधिवीरुधां निधिम् ।
मया सहोरुक्रमतेऽज ओजसा
तस्मे जगत्प्राणगणात्मने नमः ॥
एवं स्तौति च देवेशं मनुः पार्थिवसत्तमः ।
मत्स्यावतारं देवेशं संशयच्छेदकारणम् ॥
पृष्ठ ४/०९७
ध्यानयोगेन देवस्य निर्धूताशेषकल्मषः ।
आस्ते परिचरन् भक्त्या महाभागवतोत्तमः ॥”
तथाच मात्स्ये । ११२ । ३० ॥ वैष्णवे । २ । २ । १३ ॥
ब्रह्माण्डे च । ९ । १ । ७ ॥ द्रष्टव्यम् ॥) पटोल-
मूलम् । इति त्रिकाण्डशेषः ॥ (यथा, सुश्रुते ।
१ । २९ अध्याये ।
“कम्पिल्लकरम्यकपाटलापूगहरीतकीत्यादयः ॥”
पुं, आग्निध्रपुत्त्रभेदः । एतन्नामानुसारेणैव रम्यक-
वर्षोऽभवत् । यथा, भागवते । ५ । २ । १९ ।
“तस्यामुह वा आत्मजान् स राजवर्य्य आग्नीध्रो
नाभिकिंपुरुषहरिवर्षेलावृतरम्यकहिरण्मय-
कुरुभद्राश्वकेतुमालसंज्ञान् नवपुत्त्रानजनयत् ॥”)

रम्यपुष्पः, पुं, (रम्यं दर्शनीयं पुष्पमस्य ।)

शाल्मलिवृक्षः । इति राजनिर्घण्टः ॥ (शाल्मलि-
शब्देऽस्य गुणादयो ज्ञेयाः ॥)

रम्यफलः, पुं, (रम्यं फलमस्य ।) कारस्करवृक्षः ।

इति राजनिर्घण्टः ॥

रम्या, स्त्री, (रमतेऽस्यामिति । रम + “पोर-

दुपधात् यत् ।” ३ । १ । ९८ । इति यत् ।
टाप् च ।) रात्रिः । इति मेदिनी ॥ स्थल-
पद्मिनी । इति राजनिर्घण्टः ॥ (गङ्गा ।
यथा, काशीखण्डे तत्सहस्रनामकीर्त्तने । २९ ।
१४५ ।
“रेवती रतिकृद्रम्या रत्नगर्भा रमा रतिः ॥”)

रम्रः, पुं, (रम् + शकादित्वात् रः ।) अरुणवर्णः ।

शोभा । इत्युणादिकोषः । २ । २३८ ॥

रय, ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-

सक०-सेट् ।) ङ, रयते । इति दुर्गादासः ॥

रयः, पुं, (रयते अनेनेति । रय + “पुंसि संज्ञायां

घः प्रायेण ।” ३ । ३ । ११८ । इति घः । रीणा-
त्यनेनेति वा । री गतौ + घप्रत्ययेन साधुरिति ।)
वेगः । इत्यमरः । १ । १ । ६७ ॥ प्रवाहः । यथा, --
“प्रवाहः पुनरोघः स्याद्वेणी धारा रयश्च सः ॥”
इति हेमचन्द्रः ॥
(यथा, महाभारते । २ । १७ । ६ ।
“कथमन्तं न गच्छेम वृक्षस्येव नदीरयाः ॥”
पुरुरवसः पुत्त्रभेदः । यथा, भागवते । ९ । १५ । १ ।
“ऐलस्य चोर्व्वशीगर्भात् षडासन्नात्मजा नृप ।
आयुः श्रुतायुः सत्यायू रयोऽथ विजयो जयः ॥”)

रराटी, स्त्री, (ललाट + रलयोरैक्यात् लस्य रत्वम् ।

ततो ङीप् ।) ललाटः । इति पुराणम् ॥ (यथा,
भागवते । २ । १ । २८ ।
“तपो रराटीं विदुरादिपुंसः
सत्यन्तु शीर्षाणि सहस्रशीर्ष्णः ॥”)

रल्लकः, पुं, (“रमणं रत् क्विप्यनुनासिकलोपे

रत् इच्छा तां लाति कः रल्लस्ततः स्वार्थे
कन् ।” इत्यमरटीकाकृत् रघुनाथचक्रवर्त्ती ।)
कम्बलः । इत्यमरः ॥ पक्ष्म । इति सुभूतिः ॥
मृगविशेषः । इति मुकुटः ॥

रव, इ व्रजे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) इ, रण्व्यते । इति दुर्गा-
दासः ॥

रवः, पुं, (रूयते इति । रु ध्वनौ + भावे अप् ।)

शब्दः । इत्यमरः ॥ (यथा, रघुः । ९ । ५४ ।
धनुरधिज्यमनाधिरुपाददे
नरवरो रवरोषितकेशरी ॥”)

रवणं, क्ली, (रौतीति । रु + युच् ।) कांस्यम् ।

इति हेमचन्द्रः ॥ (रु + भावे ल्युट् ।) रवश्च ॥

रवणः, पुं, (रौतीति । रु + “सुयुरुवृञो युच् ।”

उणा० २ । ७४ । इति युच् ।) उष्ट्रः । इति
हेमचन्द्रः ॥ (यथा, माघे । १२ । ९ ।
“उत्थातुमिच्छन् विधृतः पुरोबला-
न्निधीयमाने भरभाजि यन्त्रके ।
अर्द्धोज्झितोद्गारविझर्झरस्वरः
स्वनाम निन्ये रवणःस्फुटार्थताम् ॥”)
कोकिलः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

रवणः, त्रि, (रु + युच् ।) शब्दनः । तीक्ष्णः ।

भण्डकः । चञ्चलः । इति शब्दरत्नावली ॥

रवथः, पुं, (रु + “शीङ्शपिरुगमिवञ्चिजीवि-

प्राणिभ्योऽथः ।” उणा० ३ । ११३ । इति
अथप्रत्ययः ।) कोकिलः । इत्युणादिकोषः ॥

रविः, पुं, (रूयते स्तूयते इति । रु + “अच इः ।”

उणा० ४ । १३८ । इति इः ।) सूर्य्यः । अर्क-
वृक्षः । इत्यमरः ॥ सूर्य्यस्य भोग्यं दिनं वार-
रूपम् ॥ यथा, --
“रवौ वर्ज्ज्यं चतुः पञ्च सोमे सप्त द्बयं तथा ॥”
इत्यादिवारवेलाकथने समयप्रदीपः ॥
तत्र निषिद्धानि यथा, --
“माषमामिषमांसञ्च मसूरं निम्बपत्रकम् ।
भक्षयेद्यो रवेर्व्वारे सप्तजन्मन्यपुत्त्रकः ॥
आर्द्रकं मधु मत्स्यञ्च भक्षयेद्यो रवेर्दिने ।
सप्तजन्म भवेद्रोगी जन्म जन्म दरिद्रता ॥
निम्बं मांसं मसूरञ्च विल्वकाञ्जिकमार्द्रकम् ।
भक्षयेद्यो रवेर्व्वारे सप्तजन्मन्यपुत्त्रकः ॥”
इति कर्म्मलोचनम् ॥ * ॥
रविग्रहस्य रक्तश्याममिश्रितवर्णः । अयं
पूर्ब्बदिक्पुरुषक्षत्त्रियजातिसत्त्वगुणकटुरससिंह-
राशिहस्तानक्षत्रसप्तमीतिथिताम्रकलिङ्गदेशा-
नामधिपतिः । काश्यपगोत्रः । द्बादशाङ्गुल-
शरीरः । पद्महस्तद्वयः । पूर्ब्बाननः । सप्ताश्व-
वाहनः । शिवाधिदैवतः । रह्निप्रत्यधिदैवतश्च ।
इति ग्रहयज्ञतत्त्वादयः ॥ * ॥ अस्य व्युत्पत्तिर्यथा,
“अवतीमांस्त्रयो लोकांस्तस्मात् सूर्य्यः परि-
भ्रमात् ।
अचिरात्तु प्रकाशेत अवनात् स रविः स्मृतः ॥”
इति मात्स्ये १०१ अध्यायः ॥ * ॥
अस्य भार्य्यापत्यानि यथा, --
“मरीचेः कश्यपो जज्ञे तस्माज्जज्ञे विभावसुः ।
तस्य भार्य्याभवत् संज्ञा पुत्त्री त्वष्टुः प्रजापतेः ॥
त्रीण्यपत्यानि राजेन्द्र ! संज्ञायां महसां
निधिः ।
आदित्यो जनयामास कन्याञ्चैकां सुलोचनाम् ।
वैवस्वतं मनुश्रेष्ठं यमञ्च यमुनां ततः ॥
नातितेजोमयं रूपं सोढुं सालं विवस्वतः ।
मायामयीं ततश्छायां सवर्णां निर्म्ममे स्वतः ॥
संज्ञोवाच ततश्छायां सवर्णे शृणु मे वचः ।
अहं यास्यामि सदनं पितुस्त्वं पुनरत्र मे ।
भवने वस कल्याणि ! निर्व्विशङ्कं ममाज्ञया ॥
मनुरेष यमावेतौ यमुनायमसंज्ञकौ ।
स्वापत्यदृष्ट्या द्रष्टव्यमेतद्बालत्रयं त्वया ॥
न वक्तव्यदिदं वृत्तं त्वया पत्यौ कदाचन ।
इत्याकर्ण्याथ सा त्वाष्ट्रीं देवी छाया जगाद
ताम् ॥
आकचग्रहणान्नाहमाशापाच्चं कदाचन ।
आख्यास्यामि चरित्रं ते याहिदेवि ! यथासुखम् ॥
इति च्छायां गृहे स्थाप्य संज्ञागात् पितुरालयम् ।
उवाच पितरं देवी जामातुस्तव न क्षमा ॥
तेजः सोढुमहं तात ! काश्यपस्य महात्मनः ।
तन्निशम्य चुकोपासौ भर्त्सयामास कन्यकाम् ॥
मह्यं श्रेयः कथं वा स्यादिति सा परिचिन्त्य च ।
अगच्छद्बडवा भूत्वा चरन्ती चोत्तरान् कुरून् ॥
तपस्तेपे च सा तीव्रं पतिमाधाय चेतसि ।
मन्यमानोऽथ तां संज्ञां सवर्णायां तथा रविः ॥
सावर्णिं जनयामास मनुश्रेष्ठं महीपते ।
शनैश्चरं द्बितीयञ्च सुतां भद्रं तृयीयिकाम् ॥
सवर्णा स्वेष्वपत्येषु सापत्न्यात् स्त्रीस्वभावतः ।
चकाराप्यधिकं स्नेहं न तथा पूर्व्वजेष्वहो ॥
चिरमालोक्य तां भार्य्यां उवाच सविता वचः ।
अयि भाविनि बालेषु समेष्वपि कुतस्त्वया ॥
विधीयतेऽधिकः स्नेहः सावर्ण्यादिसुतान् प्रति ।
नाचचक्षे तदा साथ भास्वते परिपृच्छते ॥
ततः समुद्यते शप्तुं छाया सर्व्वं शशंस ह ।
यथा वृत्तं तथा तथ्यं तुतोष भगवान् रविः ॥
निरागसं न शशाप जगाम त्वष्टुरन्तिकम् ।
त्वष्टापि च यथान्यायं सान्त्वयित्वाथ काश्यपम् ।
निर्दग्धुकामं कोपेन प्राणर्च्चच्च मुदा तदा ॥
त्वष्टोवाच ।
तवातितेजसो भीता प्राप्योत्तरकुरून् वने ।
बडवारूपमास्थाय संज्ञा चरति शाद्वले ।
द्रष्टा हि तां भवानद्य स्वभार्य्यां तात मा रुष ॥
लब्धानुज्ञोऽथ सविता गत्वोत्तरकुरूनथ ।
स हरिर्हरिरूपेण मुखेन समताडयत् ॥
त्वरमाणा च सवितुः परपूरुषशङ्कया ।
सा तन्निरवमत् शक्र नासिकाभ्यां विवस्वतः ।
देवौ तस्मादजायेतामश्विनौ भिषजां वरौ ॥”
इति पाद्मे स्वर्गखण्डे ११ अध्यायः ॥
(अन्यत् सूर्य्यशब्दे द्रष्टव्यम् ॥)

रविकान्तः, पुं, (रविणा रविकरसंयोगेन कान्तः

कमनीयः ।) सूर्य्यकान्तमणिः । इति राज-
निर्घण्टः ॥

रविचक्रं, क्ली, (रवेश्चक्रम् ।) नराकारसूर्य्यचक्र-

विशेषः । यथा, --
“लिख्यते रविचक्रन्तु भास्करो नरसन्निभः ॥
यस्मिन्नृक्षे भवेत् सूर्य्यस्तत्रादौ त्रीणि मस्तके ।
त्रयं वक्त्रे प्रदातव्यमेकैकं स्कन्धयोर्न्यसेत् ॥
एकैकं बाहुयुग्मे तु एकैकं हस्तयोर्द्बयोः ।
पृष्ठ ४/०९८
हृदये पञ्च ऋक्षाणि एकं नाभौ प्रदापयेत् ॥
ऋक्षमेकं ददेद्गुह्ये एकैकं जानुके न्यसेत् ।
नक्षत्राणि च शेषाणि रविपादे नियोजयेत् ॥
चरणस्थेन ऋक्षेण अल्पायुर्जायते नरः ।
विदेशगमनं जानौ गुह्यस्थे परदारवान् ॥
नाभिस्थेनाल्पसन्तुष्टो हृत्स्थेन स्यान्महेश्वरः ।
पाणिस्थेन भवेच्चौरः स्थानभ्रष्टो भवेद्भुजे ॥
स्कन्धस्थिते धनपतिर्म्मुखे मिष्टान्नमाप्नुयात् ।
मस्तके पट्वबन्धस्तु नक्षत्रं स्याद्यदि स्थितम् ॥”
इति गारुडे ६० अध्यायः ॥

रविजः, पुं, (रवेर्जात इति । जन् + डः ।)

शनैश्चरः । यथा, ज्योतिषतत्त्वे ।
“उरगशतभिषार्द्रास्वातिमूलात्रिपूर्ब्बा
रविरविजकुजाहे भूतधष्ठीबवम्याम् ॥”
(बहुवचने तु केतवः । यथा, बृहत्संहितायाम् ।
११ । १० ।
“प्रागपरदिशोर्दृश्या
नृपतिविरोधावहा रविजाः ॥”)

रवितनयः, पुं, (रवेः तनयः पुत्त्रः ।) सावर्णिक-

मनुः । यथा, --
“स बंभूव महाभागः सावर्णिस्तनयो रवेः ॥”
इति देवीमाहात्म्यम् ॥
वैवस्वतमनुः । शनिः । (यथा, बृहत्संहिता-
याम् । ३४ । १२ ।
“परिवेशमण्डलगतो
रवितनयो क्षुद्रधान्यनाशकरः ।”)
यमः । (सुग्रीवः । कर्णः ॥ द्विवचने अश्विनी-
कुमारौ ॥)

रविनन्दनः, पुं, (रवेर्नन्दनः । यद्वा, रविं नन्दय-

तीति । नन्दि + ल्युः ।) सुग्रीवः । इति त्रिकाण्ड-
शेषः ॥ सावर्णिमनुः । वैवस्वतमनुः । (यथा,
भागवते । ९ । १ । १९ ।
“होतुर्व्व्यतिक्रमं ज्ञात्वा बभाषे रविनन्दनम् ॥”)
शनिः । यमश्च ॥ (द्विवचने अश्विनीकुमारौ ॥)

रविनाथं, क्ली, (रविरेव नाथोऽस्य ।) पद्मम् ।

बन्धूके, पुं । इति शब्दचन्द्रिका ॥

रविपत्रः, पुं, (रविवत् दीप्तिमत्पत्रं यस्य ।)

आदित्यपत्रक्षुपः । इति राजनिर्घण्टः ॥

रविप्रियं, क्ली, (रविरेव प्रियमस्य ।) रक्त-

कमलम् । ताम्रम् । इति राजनिर्घण्टः ॥
(अस्य पर्य्यायो यथा, --
“ताम्रमौडुम्बरं शुल्वमुदुम्बरमपि स्मृतम् ।
रविप्रियं म्लेच्छमुखं सूर्य्यपर्य्यायनामकम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रममे भागे ॥)

रविप्रियः, पुं, (रयेः प्रियः ।) आदित्यपत्रः ।

रक्तकरवीरः । इति राजनिर्घण्टः ॥ लकुचः ।
इति शब्दमाला ॥

रविरत्नकं, क्ली, (रवे रत्नम् । ततः कन् ।) माणि-

क्यम् । इति राजनिर्घण्टः ॥

रविलोहं, क्ली, (रविप्रियं लोहम् ।) ताम्रम् ।

इति राजनिर्घण्टः ॥ (गुणादयोऽस्य ताम्रशब्दे
विज्ञेयाः ॥)

रविलोचनः, पुं, (रविर्लोचनमस्य ।) विष्णुः ।

यथा, --
“रविर्व्विरोचनः सूर्य्यः सविता रविलोचनः ॥”
इति तस्य सहस्रनामस्तोत्रम् ॥

रविसंज्ञकं, क्ली, (रविः संज्ञा यस्य इति । कप् ।)

ताम्रम् । इति शब्दचन्द्रिका ॥

रविसूनुः, पुं, (रवेः सूनुः ।) सूर्य्यपुत्त्रः । स च

शनैश्चरादिः । यथा, --
“नीलाञ्जनचयप्रख्यं रविसूनुं महाग्रहम् ।
छायाया गर्भसंभूतं वन्दे भक्त्या शनैश्चरम् ॥”
इति नवग्रहस्तोत्रम् ॥

रवीन्दं, क्ली, (रविणा सूर्य्यकरस्पर्शेन इन्दति

प्रकाशते इति । इन्द + अच् ।) पद्मम् । इति
धरणिः ॥

रश, स्वने । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

अक०-सेट् ।) रेफादिस्तालव्यान्तः । रशना ।
इति दुर्गादासः ॥ सौत्रधातुरयम् ॥

रशना, स्त्री, (अश्नुते व्याप्नोतीति । अशू व्याप्तौ +

“अशे रश च ।” उणा० २ । ७५ । इति युच्
धातो रशादेशश्च ।) काञ्ची । इत्युणादिकोषः ॥
(यथा, रघौ । ८ । ५८ ।
“इयमप्रतिबोधशायिनीं
रशना त्वां प्रथमा रहःसखी ॥”)
जिह्वा । इति शब्दरत्नावली ॥ (“जिह्वावाची
तु रसनाशब्दो दन्त्यसकारवानेव । रसयति
स्वादयतीति । नन्द्यादित्वात् ल्युः । इति कलिङ्गः ।
रसना काञ्चिजिह्वयोरिति तु धरणिः ।” इत्यु-
ज्ज्वलः । २ । ७५ ॥ रज्जुः । यथा, वाजसनेय-
संहितायाम् । २१ । ४६ ।
“होता यक्षद्वनस्पतिमभि हि पिष्टतमया रभि-
ष्ठया रशनयाधित ।” “रशनया रज्ज्वा कृत्वा
अधित धृतवान् पशून् इति शेषः ।” इति तद्भाष्ये
महीधरः ॥ अङ्गुलयः । इति निघण्टुः । २ । ५ ॥
अत्र सदा बहुवचनप्रयोगो भवति । इति देव-
राजयज्वा ॥)

रश्मिः, पुं, (अश्नुते व्याप्नोतीति । अशू व्याप्तौ +

“अश्नोते रश्च ।” उणा० ४ । ४६ । इति मिः
धातो रशादेशश्च ।) किरणः । (यथा, मनौ ।
५ । १३३ ।
“मक्षिका विप्रुषश्छाया गौरश्वः सूर्य्यरश्मयः ।
रजो भूर्व्वायुरग्निश्च स्पर्शे मेध्यानि निर्द्दिशेत् ॥”)
पक्ष्म । अश्वरज्जुः । इति मेदिनी ॥ * ॥ (यथा,
ऋग्वेदे । १ । २८ । ४ ।
“यत्र मन्थां विबध्नते रश्मीन् यमित वा इव ॥”
“रश्मीन् अश्वबन्धनार्थान् प्रग्रहान् ।” इति
तद्भाष्ये सायणः ॥) सूर्य्यस्य रश्मिना जलादान-
दाने यथा, --
“तेजोभिः सर्व्वलोकेभ्यो ह्यादत्ते रश्मिभिर्ज्जलम् ।
समुद्राद्बायुसंयोगाद्बहन्त्यापो गभस्तयः ॥
ततस्तु पयसां काले परिवर्त्तन्दिवाकरः ।
नियच्छत्यपो मेघेभ्यः शुक्लाशुक्लैस्तु रश्मिभिः ॥”
इति मात्स्ये १०२ अध्यायः ॥ * ॥
अपि च ।
“एवमेष महादेवो देवदेवः पितामहः ।
करोति नियतं कालं कालात्मा ह्यैश्वरी तनुः ॥
तस्य ये रश्मयो विप्राः सर्व्वलोकप्रदीपकाः ।
तेषां श्रेष्ठा पुनः सप्त रश्मयो ग्रहयोनयः ॥
सुसुग्नो हरिकेशश्च विश्वकर्म्मा तथैव च ।
विश्वव्यचाः पुनश्चान्यः सम्पद्बसुरतः परः ॥
अर्व्वाग्वसुरिति ख्यातः स्वराडन्यः प्रकीर्त्तितः ॥
सुसुम्नः सूर्य्यरश्मिस्तुं पुष्णाति शिशिरद्युतिम् ।
तिर्य्यगूर्द्ध्वप्रचारोऽसौ सुसुम्नः परिगीयते ॥
हरिकेशस्तु यः प्रोक्तो रश्मिर्नक्षत्रपोषकः ।
विश्वकर्म्मा तथा रश्मिर्ब्बुधं पुष्णाति सर्व्वदा ॥
विश्वव्यचास्तु यो रश्मिः शुक्रं पुष्णाति नित्यदा ।
सम्पद्वमुरिति ख्यातः स पुष्णाति च लोहितम् ॥
बृहस्पतिं प्रपुष्णाति रश्मिरर्व्वाग्वसुः प्रभोः ।
शनैश्चरं प्रपुष्णाति सप्तमश्च स्वराट् तथा ॥
एवं सूर्य्यप्रभावेन सर्व्वा नक्षत्रतारकाः ।
वर्द्धन्ते वर्द्धिता नित्यं नित्यमाप्याययन्ति च ॥
दिव्यानां पार्थिवानाञ्च नैशानाञ्चैव सर्व्वशः ।
आदानान्नित्यमादित्यस्तेजसा तमसां प्रभुः ।
आदत्ते स तु नाडीनां सहस्रेण समन्ततः ॥
नादेयांश्चैव सामुद्रान् कूपांश्चैव सहस्रकम् ।
स्थावरान् जङ्गमांश्चैव यच्च कुल्यादिकं पयः ॥
तस्य रश्मिसहस्रन्तु शीतवर्षोष्णनिस्रवम् ।
तासां चतुःशतं नाड्यो वर्षन्ते चित्रमूर्त्तयः ॥
छन्दनाश्चैत याह्याश्च कोतणा भृकणास्तथा ।
अमृता नामतः सर्व्वा रश्मयो वृष्टिसर्ज्जनाः ॥
हिमोद्बहाश्च तामस्यो रश्मयस्त्रिशतं पुनः ।
वश्यो मेष्यश्च पैष्यश्च ह्रादिन्यो हिमसर्ज्जनाः ।
चन्द्रास्ता नामतः सर्व्वाः पीताभाः स्युर्गभस्तयः ।
शुक्राश्च ककुभश्चैव गावो विश्वभृतस्तथा ।
शुक्रास्ता नामतः सर्व्वास्त्रिविधा धर्म्मसर्ज्जनाः ॥
समं विभर्त्ति ताभिः स मनुष्यपितृदेवताः ।
मनुष्यानौषधेनेह स्वधया च पितॄनपि ॥
अमृतेन सुरान् सर्व्वान्तिसस्त्रींस्तर्पयत्यसौ ।
वसन्ते ग्रीष्मके चैव शतैः सन्तर्पति त्रिभिः ॥
शरद्यपि च वर्षासु चतुर्भिः संप्रवर्षति ।
हेमन्ते शिशिरे चैव हिममुत्सृजति त्रिभिः ॥
वरुणो माघमासे तु सूर्य्यः पूषा तु फाल्गुने ।
चैत्रै मासि भवेदीशो धाता वैशाखतापनः ॥
ज्यैष्ठमूले भवेदिन्द्र आपाढे सविता रविः ।
विवस्वान् श्रावणे मासि प्रौष्ठपद्यां भगः स्मृतः ॥
पर्य्यण्योऽश्वयुजि त्वष्टा कार्त्तिके मासि भास्करः ।
मार्गशीर्षे भवेन्मित्रः पौषे विष्णुः सनातनः ॥
पञ्च रश्मिसहस्राणि वरुणस्यार्ककर्म्मणि ।
षड्भिः सहस्रैः पूषा तु देवेशः सप्तभिस्तथा ॥
धाताष्टभिः सहस्रैस्तु नवभिस्तु शतक्रतुः ।
विवस्वान् दशभिः पाति पात्येकादशभिर्भगः ॥
सप्तभिस्तपते मित्रस्त्वष्टा चैवाष्टभिस्तपेत् ।
अर्य्यमा दशभिः पाति पर्य्यण्यो नवभिस्तपेत् ॥
षड्भी रश्मिसहस्रैस्तु विष्णुस्तपति विश्वधृक् ।
वसन्ते कपिलः सूर्य्यो ग्रीष्मे काञ्चनसप्नभः ॥
पृष्ठ ४/०९९
श्वतो वर्षासु वर्णेन पाण्डरः शरदि प्रभुः ।
हेमन्ते ताम्रवर्णः स्यात् शिशिरे लोहितो
रविः ॥
औषधीषु बलं धत्ते स्वधामपि पितृष्वथ ।
सूर्य्योऽमरत्वममृतत्रयं त्रिषु नियच्छति ॥
अन्ये चाष्टौ ग्रहाः ज्ञेयाः सूर्य्ये चाधिष्ठिता
द्विजाः ।
चन्द्रमाः सोमपुत्त्रश्च शुक्रश्चैव बृहस्पतिः ॥
भौमो भानुस्तथा राहुः केतुमानपि चाष्टमः ।
सर्व्वे ध्रुवे निरुद्धा ये ग्रहास्ते वातरश्मिभिः ।
भ्राम्यमाणा यथायोगं भ्रमन्त्यनुदिवाकरम् ॥”
इति कौर्म्म्ये ४० अध्यायः ॥
तद्वैदिकपर्य्यायः । खेदयाः १ किरणाः २ गावः ३
रश्मयः ४ अभीशवः ५ दीधितयः ६ गभ-
स्तयः ७ वनम् ८ उस्राः ९ वसवः १० मरी-
चिपाः ११ मयूखाः १२ सप्तऋषयः १३
साध्याः १४ सुपर्णाः १५ । इति पञ्चदश रश्मि-
नामानि । इति वेदनिघण्टौ । १५ ॥

रश्मिपतिः, पुं, (रश्मिः पतिः पोषको यस्य ।)

आदित्यपत्रक्षुपः । इति राजनिर्घण्टः ॥

रस, शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

अक०-सेट् ।) रसति । इति दुर्गादासः ॥

रस, त् क आस्वादे । स्नेहे । इति कविकल्पद्रुमः ॥

(अदन्तचुरा०-पर०-सक०-सेट् ।) दन्त्योपधः ।
रसयति मधु द्विरेफः । इति दुर्गादासः ॥

रसं, क्ली, बोलम् । इति राजनिर्घण्टः ॥

रसः, पुं, (रसतीति । रस् + पचाद्यच् । यद्बा, रस्यते

इति । रस आस्वादने + “पुंसि संज्ञायां घः
प्रायेण ।” ३ । ३ । ११८ । इति घः ।) रसनेन्द्रियग्राह्य-
वस्तु । स च कालसहायभूमिवियदनिलानलसंस-
र्गेण परिणामान्तरं गतः षट्प्रकारो भवति ।
तत्र पृथिव्यम्बुगुणबाहुल्यान्मधुरः १ तोयाग्नि-
गुणबाहुल्यादम्लः २ पृथिव्यग्निगुण बाहुल्या-
ल्लवणः ३ वाय्वग्निगुणबाहुल्यात् कटुकः ४
वाय्वाकाशगुणबाहुल्यात् तिक्तः ५ पृथिव्यनिल-
गुणबाहुल्यात् कषायः ६ । आपो रसाना-
माधारकारणं अत आप्यो नाम । अपां
पृथिव्यामनुप्रवेशात् पृथिव्याप्याधारकारणमेव ।
तेन जलक्षिती अपि तदाधारतया रसाना-
मभिव्यक्तौ कारणे । अभिव्यक्तेश्च मधुरादिरूप-
मन्तरेणासम्भवान्मधुरादिविशेषेऽपि जलक्षिती
कारणे । अग्न्यादयस्तु त्रयः नीरसतया मधु-
रादिविशेषे प्राधान्येन निमित्तकारणम् ।
तद्व्यतिरेकेणाम्लादिरसाभावात् । रसाभिव्यक्तेश्च
अग्न्यादिभूतत्रयसन्निधानं विनानुपलब्धेरभि-
व्यक्तावपि अग्न्यादीनां कारणत्वम् । तदुक्तं
चरके ।
“रसनार्थो रसस्तस्य द्रव्यमापः क्षितिस्तथा ।
निर्व्वृत्तौ च विशेषे च प्रत्ययाः खादयस्त्रयः ॥”
एते च रसाः परस्परसंयोगात् सप्तपञ्चाशद्भ
वन्ति । इति चक्रपाणिदत्तकृतद्रव्यगुणोपरि
शिवदासीयटीका ॥ * ॥ (तथाच ।
“भेदश्चैषां त्रिषष्टिविधिविकल्पो द्रव्यदेशकाल-
प्रभावात्तदुपदेक्ष्यामः ।
स्वादुरम्लादिभिर्योगं शेषैरम्लादयः पृथक् ।
यानि पञ्चदशैतानि द्रव्याणि द्विरसानि तु ॥
पृथगम्लादियुक्तस्य योगः शेषैः पृथग्भवेत् ।
मधुरस्य तथाम्लस्य लवणस्य कटोस्तथा ॥
त्रिरसानि यथासङ्ख्यं द्रव्याण्युक्तानि विंशति ।
वक्ष्यन्ते तु चतुष्केण द्रव्याणि दश पञ्च च ॥
स्वाद्बम्लौ सहितौ योगं लवणाद्यैः पृथग् गतौ
योगैः शेषं पृथग्यातश्चतुष्कं रससङ्ख्यया ॥
सहितौ स्वादुलवणौ तद्वत् कट्वादिभिः पृथक् ।
युक्तौ शेषैः पृथग् योगं यातः स्वादूषणौ तथा ॥
कट्वाद्यैरम्ललवणौ संयुक्तौ सहितौ पृथक् ।
यातः शेषैः पृथग्योगं शेषैरम्लकटू तथा ॥
युज्येते तु कषायेण सतिक्तौ लवणोषणौ ।
षट् तु पञ्च रसान्याहुरेकैकस्यापवर्ज्जनात् ॥
षट् चैवैकरसानि स्युरेकं षड्रसमेव तु ।
इति त्रिषष्टिर्द्रव्याणां निर्द्दिष्टा रससङ्ख्यया ॥
त्रिषष्टिः स्यात्त्वसङ्खेया रसानुरसकल्पनात् ।
रसास्तरतमाभ्यस्ताः सङ्ख्यामतिपतन्ति हि ॥
संयोगाः सप्तपञ्चाशत् कल्पना तु त्रिषष्टिधा ।
रसानां तत्र योग्यत्वात् कल्पिता रसचिन्तकैः ॥
क्वचिदेको रसः कल्प्यः संयुक्ताश्च रसाः क्वचित् ।
दोषौषधादीन् सञ्चिन्त्य भिषजा सिद्धि-
मिच्छता ॥”
परञ्चातः प्रवक्ष्यन्ते रसानां षड्विभक्तयः ।
षट्पञ्चभूतप्रभवाःसङ्ख्याताश्च यथा रसाः ॥”
“सौम्याः खल्वापोऽन्तरिक्षप्रभवाः प्रकृति शीता
लघुश्च अव्यक्तरसाश्च तास्त्वन्तरिक्षाद्भ्रश्य-
मानाभ्रष्टाश्च पञ्च महाभूतगुणसमन्विता
जङ्गमस्थावराणां भूतानां मूर्त्तीरभिप्रीणयन्ति
यासु मूर्त्तिषु षडभिमूर्च्छन्ति रसाः ।
तेषां षण्णां रसानां सोमगुणातिरेकान्मधुरो
रसः पृथिव्यग्निभूयिष्ठत्वादम्लः सलिलाग्नि-
भूयिष्ठत्वाल्लवणो वाय्वग्निभूयिष्ठत्वात् कटुको
वाय्वाकाशातिरेकात्तिक्तः पवनपृथिव्यतिरेकात्
कषायः । एवमेषां रसानां षट्त्वमुत्पन्नम् ॥”
इति च चरके सूत्रस्थाने २६ आध्यायः ॥
तथाच ।
“दोषाणां पञ्चदशधा प्रसरोऽभिहितस्तु यः ।
त्रिषष्ट्या रसभेदानां तत्प्रयोजनमुच्यते ॥
अविदग्धा विदग्धाश्च भिद्यन्ते ते त्रिषष्टिधा ।
रसभेदत्रिषष्टिस्तु वीक्ष्य वीक्ष्यावचारयेत् ॥
एकैकेनानुगमनं भागशो यदुदीरितम् ।
दोषाणां तत्र मतिमान् त्रिषष्टिन्तु प्रयोजयेत् ॥
यथाक्रमं प्रवृत्तानां द्विकेषु मधुरो रसः ।
पञ्चानुक्रमते योगानम्लश्चतुर एव च ॥
त्रींश्चानुगच्छति रसो लवणः कटुको द्वयम् ।
तिक्तः कषायमन्वेति ते द्विक दश पञ्च च ॥
तद्यथा । मधुराम्लः । मधुरलवणः । मधुर-
तिक्तः । मधुरकटुकः । मधुरकषायः । एते
पञ्चानुक्रान्ता मधुरेण ॥ अम्ललवणः । अम्ल-
कटुकः । अम्लतिक्तः । अम्लकषायः । एते
चत्वारोऽनुक्रान्ता अम्लेन ॥ लवणकटुकः ।
लवणतिक्तः । लवणकषायः । एते त्रयोऽनु-
क्रान्ता लवणेन ॥ कटुतिक्तः । कटुकषायः ।
द्बावेतावनुक्रान्तौ कटुकेन ॥ तिक्तकषाय एक
एवानुक्रान्तस्तिक्तेन । एते पञ्चदशद्विकसंयोगा
व्याख्यातास्त्रिकं वक्ष्यामः ॥
आदौ प्रयुज्यमानस्तु मधुरो दश गच्छति ।
षडम्लो लवणस्तस्मादर्द्धन्त्वेकं रसः कटुः ॥
मधुराम्ललवणः । मधुराम्लकटुकः । मधुराम्ल-
तिक्तः । मधुराम्लकषायः । मधुरलवणकटुकः ।
मधुरलवणतिक्तः । मधुरलवणकषायः । मधुर-
कटुकतिक्तः । मधुरकटुकषायः । मधुरतिक्त-
कषायः । एवमेषां त्रिकसंयोगानां दशानामादौ
मधुरः प्रयुज्यते । अम्ललवणकटुकः । अम्ल-
लवणतिक्तः । अम्ललवणकषायः । अम्लकटु-
कषायः । अम्लकटुकतिक्तः । अम्लतिक्तकषायः ।
एवमेषां षण्णामादावम्लः प्रयुज्यते । लवणकटु-
तिक्तः । लवणकटुकषायः । लवणतिक्तकषायः ।
एवमेषां त्रयाणामादौ लवणः प्रयुज्यते ॥ कटु-
तिक्तकषायः । एवमेकस्यादौ कटुकः प्रयुज्यते ॥
एवमेति त्रिकसंयोगविंशतिर्व्याख्याताः ॥ चतु-
ष्कान् वक्ष्यामः ।
चतुष्करससंयोगान्मधुरो दश गच्छति ।
चतुरोऽम्लस्तु गच्छेच्च लवणस्त्वेकमेव तु ॥
मधुराम्ललवणकटुकः । मधुराम्ललवणतिक्तः ।
मधुराम्ललवणकषायः । मधुराम्लकटुकतिक्तः ।
मधुराम्लकटुककषायः । मधुरलवणतिक्तकटुकः ।
मधुराम्लतिक्तकषायः । मधुरलवणकटुतिक्तः ।
मधुरलवणकटुकषायः । मधुरलवणतिक्तकषायः ।
एवमेषां दशानामादौ मधुरः प्रयुज्यते ॥
अम्ललवणकटुकतिक्तः । अम्ललवणकटुकषायः ।
अम्ललवणतिक्तकषायः । अम्लकटुतिक्तकषायः ।
एवमेषां चतुर्णामम्लः ॥ लवणकटुतिक्तकषायः ।
एवमेकस्यादौ लवणः । एवमेते चतुष्करससंयोगाः
पञ्चदशकीर्त्तिताः ॥ पञ्चकान् वक्ष्यामः ।
पञ्चकान् पञ्चमधुर एकमम्लस्तु गच्छति ।
मधुराम्ललवणकटुतिक्तः । मधुराम्ललवणकटु-
कषायः । मधुराम्ललवणतिक्तकषायः । मधु-
राम्लकटुतिक्तकषायः । मधुरलवणकटुतिक्त-
कषायः । एवमेषां पञ्चानां पञ्चकरससंयोगाना-
मादौ मधुरः प्रयुज्यते ॥ अम्ललवणकटुतिक्त-
कषायः । एवमेकस्यादावम्लः प्रयुज्यते ।
एवमेते षट्पञ्चकसंयोगा व्याख्याताः ॥ षट्कमेकं
वक्ष्यामः । एकस्तुषट्कसंयोगः मधुराम्ललवण-
कटुकतिक्तकषायः । एवमयमेकषट्संयोगः ॥
एकैकश्च षड्रसा भवन्ति । मधुरोऽम्लो लवणः
कटुकस्तिक्तः कषाय इति । भवति चात्र ।
एषा त्रिषष्टिर्व्याख्याता रसानां रसचिन्तकैः ।
दोषभेदे त्रिषष्टिस्तु प्रयोक्तव्या विचक्षणैः ॥”
इत्युत्तरतन्त्रे सुश्रुतेन त्रिषष्टितमेऽध्याय उक्तः ॥
“रसास्तु प्रधानं कस्मादागमादागमो हि शास्त्र-
पृष्ठ ४/१००
मुच्यते शास्त्रे हि रसा अधिकृता यथा रसायत्त
आहार इति तस्मिंश्च प्राणाः । उपदेशा-
च्चोपदिश्यन्ते हि रसाः । यथा मधुराम्ललवणा
वातं शमयन्ति । अनुमानाच्च रसेन ह्मनुमीयते
द्रव्यं यथा मधुरमिति । ऋषिवचनाच्च ऋषि-
वचनं वेदो यथा किञ्चिदिज्यार्थं मधुरमा-
हरेदिति । तस्माद्रसाः प्रधानं रसेषु गुणसंज्ञा ।”
इति च सुश्रुते सूत्रस्थाने ४० अध्याये ॥
यथा च, वाग्भटे १० अध्याये ।
“क्ष्माम्भोऽग्निः क्ष्माम्बुतेजः खवायुग्न्यनिल-
गोऽनिलैः ।
द्वयोल्वणैः क्रमाद्भूतैर्म्मघुरादिरसोद्भवः ॥
तेषां विद्याद्रसं स्वादुं यो वक्त्रमनुलिम्पति ।
आस्वाद्य मानो देहस्य ह्लादनोऽक्षप्रसादनः ॥
प्रियः पिपिलिकादीनां अम्लः क्षालयते सुखम् ।
हर्षणो रोमदन्तानामक्षिभ्रुवनिकोचनः ॥
लवणः स्यन्दयत्यास्यं कपोलगलदाहकृत् ।
तिक्तो विशदयत्यास्यं रसनं प्रतिहन्ति च ।
उद्बेजयति जिह्वाग्रं कुर्व्वंश्चिमिचिमां कटुः ॥
स्रावयत्यक्षिनासास्यं कपोलौ दहतीव च ।
कषायो जडयेज्जिह्वां कण्ठस्रोतो विबन्धकृत् ॥
रसानामिति रूपाणि कर्म्माणि मधुरो रसः ।
आजन्मसात्म्यात् कुरुते धातूनां प्रबलं बलम् ॥
बालवृद्धक्षतक्षीणवर्णकेशेन्द्रियौजसम् ।
प्रशस्तो बृंहणः कण्ठ्यः स्तन्यसन्धानकृद्गुरुः ॥
आयुष्यो जीवनः स्निग्धः पित्तानिलविषापहः ।
कुरुतेऽत्युपयोगेन सम्मेदः कफजान् गदान् ॥
स्थौल्वाग्निसादसन्न्यासमेहगण्डार्व्वुदादिकान् ॥
अम्लोऽग्निदीप्तिकृत्स्निग्धो हृद्यः पाचनरोचनः ।
उष्णवीर्य्यो हिमस्पर्शः प्रीणनः क्लेदनो लघुः ॥
करोति कफपित्तास्रं मूढवातानुलोमनम् ।
सोऽत्यभ्यस्त स्तनोः कुर्य्याच्छैथिल्यं तिमिरं भ्रमम् ॥
कण्डूपाण्डुत्ववीसर्पशोकविस्फोटतृड्ज्वरान् ॥
लवणः स्तम्भसंघातबन्धविध्मापनोऽग्निकृत् ।
स्नेहनः स्वेदनस्तीक्ष्णो रोचनश्छेदभेदकृत् ॥
सोऽतियुक्तोऽस्रपवनं खलतिं पलितं बलिम् ।
तृटकुष्ठविषवीसर्पान् जनयेत् क्षपयेद्बलम् ॥
तिक्तः स्वयमरोचिष्णुररुचिं कृमितृट्विषम् ।
कुष्ठमूर्च्छाज्वरोत्क्लेशदाहपित्तकफान् जयेत् ॥
क्लेदमेदो वसामज्जशकृम्मूत्रोपशोषणः ।
लघुर्मेध्यो हिमो रूक्षः स्तन्यकण्ठविशोधनः ॥
धातुक्षयानिलव्याधीनतियोगात् करोति सः ॥
कटुर्गलामयोदर्द्दकुष्ठालसकशोफजित् ।
व्रणावसादनस्नेह मेदः क्लेदोपशोषणः ॥
छिनत्ति बन्धान् स्रोतांसि विवृणोति कफापहः ।
कुरुते सोऽतियोगेन तृष्णां शुक्रबलक्षयम् ॥
मूर्च्छ्रामाकुञ्चनं कम्पं कटिपृष्ठादिषु व्यथाम् ।
कषायः पित्तकफहा गुरुरस्रविशोधनः ।
पीडनो रोपणः शीतः क्लेदमेदोविशोषणः ॥
आमसं स्तम्भनो ग्राही रूक्षोऽतित्वक्प्रसादनः ।
करोति शीलितः सोऽतिविष्टम्भाघ्मानहृद्रुजः ॥
तृट्कार्श्यपौरुषभ्रंशस्रोतोरोधमलग्रहान् ॥
घृतहेमगुडाक्षोडमोचचोचपरूषकम् ।
अभीरुवीरापनसराजादनबलात्रयम् ॥
मेदे चतस्रः पर्णिन्यो जीवन्ती जीवकर्षभौ ।
मधूकं मधुकं बिम्बी विदारी श्रावणीयुगम् ॥
क्षीरशुक्ला तुगाक्षीरी क्षीरिण्यौ काश्मरी सहे ।
क्षीरेक्षुगोक्षुरक्षौद्रद्राक्षादिर्मधुरो गणः ॥
अम्लो धात्रीफलाम्लीकामातुलुङ्गाम्लवेतसम् ।
दाडिमं रजतं तक्रं चुक्रं पालेवतं दधि ।
आम्रमाम्रातकं भव्यं कपित्थं करमर्द्दकम् ॥
वरं सौवर्चलं कृष्णं विडं सामूद्रमौद्भिदम् ॥
रोमकं पांसुजं शीसं क्षारश्च लवणो गणः ।
तिक्तः पटोली त्रायन्ती बालकोशीरचन्द-
नम् ।
भूनिम्बनिम्बकटुकातगरागुरुवत्सकम् ॥
नक्तमालद्विरजनीमुस्तमूर्वाटरूषकम् ।
पाठापामार्गकांस्यायोगुडूचीधन्वयासकम् ।
पञ्चमूलं महद्ब्याघ्र्यौ विशालातिविषा वचा ॥
कटुको हिङ्गुमरिचकृमिजित्पञ्चकोलकम् ।
कुठेराद्या हरितकाः पित्तं मूत्रमरुष्करम् ॥
वर्गः कषायः पथ्याक्षं शिरीषः खदिरो मधु ।
कदम्बोडुम्बरं मुक्ताप्रबालाञ्जनगैरिकम् ।
बालं कपित्थं खर्जूरं विसपद्मोत्पलादि च ॥
मधुरं श्लेष्मलं प्रायो जीर्णाच्छालियवादृते ।
मुद्गाद्गोधूमतः क्षौद्रात्सिताया जाङ्गला-
मिषात् ॥
प्रायोऽम्लं पित्तजननं दाडिमामलकादृते ।
अपथ्यं लवणं प्रायश्चक्षुषोऽन्यत्र सैन्धवात् ॥
तिक्तं कटु च भूयिष्ठमबृष्यं वातकोपनम् ।
ऋतेऽमृतापटोलीम्यां शुण्ठीकृष्णारसोनतः ॥
कषायं प्रायशः शीतं स्तम्भनं चाभयामृते ॥
रसा कट्वम्ललवणा वीर्येणोष्णा यथोत्तरम् ।
तिक्तः कषायो मधुरस्तद्वदेव च शीतलः ॥
तिक्तः कटुः कषायश्च रूक्षा बद्धमलास्तथा ॥
पट्वम्लमधुराः स्निग्धाः सृष्टविण्मूत्रमारुता ॥
पटोः कषायस्तस्माच्च मधुरः परमं गुरुः ॥
लघुरम्लः कटुस्तस्मात्तस्मादपि च तिक्तकः ।
संयोगाः सप्तपञ्चाशत्कल्पना तु त्रिषष्टिधा ।
रसानां यौगिकत्वेन यथास्थूलं विभज्यत ॥
एकैकहीनांस्तान् पञ्च पञ्च यान्ति रसा द्बिके ।
त्रिके स्वादुर्दशाम्लः षट् त्रीन् पटुस्तिक्त एक-
कम् ॥
चतुष्केषु दश स्वादुश्चतुरोऽम्लः पटुः सकृत् ।
पञ्चकेष्वेकमेवाम्लो मधुरः पञ्च सेवते ।
द्रव्यमेकं षडास्वादमसंयुक्ताश्च षड्रसाः ॥
षट्पञ्चकाः षट् च पृथग्रसाः स्यु-
श्चतुर्द्विकौ पञ्चदशप्रकारौ ।
भेदास्त्रिकाविंशतिरेकमेकं
द्रव्यं षडास्वादमिति त्रिषष्टिः ॥
ते रसानुरसतो रसभेदा-
स्तारतम्यपरिकल्पनया च ।
सम्भवन्ति गणनां समतीता ।
दोषभेषजवशादुपयोज्याः ॥”
अथ षड्रसगुणाः ।
“मधुरः प्रीणनो बल्यो वृंहणोऽनिलपित्तहा ।
रसायणो गुरुः स्निग्धश्चक्षुष्यः शीतलश्च सः ॥
आयुःकृद्ब्रणहा रुच्यः कण्ठ्योदावर्त्तनाशकः ।
अम्लो रुचिकरो हृद्यः प्रीणनो वह्निवर्द्धनः ॥
वातहा रसनोद्बेगी स्निग्धोष्णो रक्तमांसदः ।
क्लेदनस्तर्पणः पक्ता लघुव्यापी कटुश्च यः ॥
लवणः क्लेदनस्तीक्ष्णः पाचनोद्दीपनो रसः ।
स्निग्धो रुचिकरः स्यन्दी दृष्टिशुक्लकरोऽगुरुः ॥
कटुर्ज्जिह्वास्यनासाक्षिरोचनो रुचिराङ्गकृत् ।
उष्णस्तीक्ष्णो लघुः कण्डूकृमिशुक्रकफापहः ॥
लघुः शोषी पक्तिकरः श्लेष्माकर्षणकः पटुः ।
तिक्तः पित्तकफछेदी विषकुष्ठज्वरापहः ॥
दीपनः पाचनो रूक्षः कण्डूकृमिहरो लघुः ।
कषायः शोषकः स्तम्भी व्रणग्लानार्त्तिनाशनः ॥
कफशोणितपित्तघ्नो रूक्षः शीतो लघुस्तथा ।
शीतलः पित्तहा बल्यः कफवातहरो गुरुः ॥
उष्णं पित्तकरो वीर्य्यो वातश्लेष्महरो लघुः ।
शीतं वीर्य्येण यद्द्रव्यं मधुरं रसपाकयोः ॥
तयोरम्लं कटुष्णञ्च यच्चोष्णं कटुकं तयोः ।
कटुतिक्तकषायाणां विपाकः प्रायशः कटुः ॥
अम्लोष्णं पच्यते स्वादु मधुरं लवणं तथा ।
कटुर्व्विपाके शुक्रघ्नो बद्धविड्वातलो लघुः ॥
स्वादुर्गुरुः सृष्टमलो विपाके कफशुक्रलः ।
पाकेऽम्लः सृष्टविम्मूत्रपित्तकृच्छुक्रकृल्लघुः ॥”
गारुडे ॥
“कटुतिक्तकषायाश्च कोपयन्ति समीरणम् ।
कट्वम्ललवणाः पित्तं स्वाद्बम्ललवणाः कफम् ॥
अतएव विपर्य्यस्ताः समायैषां प्रयोजिताः ।
चक्षुष्यो मधुरो ज्ञेयो रसो धातुविवर्द्धनः ॥
स्थौल्यालस्यविषघ्नश्च कटूद्दीपन पाचनः ॥”
इत्याह्निकतत्त्वम् ॥)
न्यायमते तु ।
“रसस्तु रसनाग्राह्यो मधुरादिरनेकधा ।
सहकारी रसज्ञाया नित्यत्वादि च पूर्ब्बवत् ॥”
इति भाषापरिच्छेदः ॥
“रसस्त्विति । सहकारीति रासनज्ञाने रस-
कारणमित्यर्थः । पूर्ब्बवदिति जलपरमाणो रसो
नित्यः अन्यः सर्व्वोऽपि रसोऽनित्य इत्यर्थः ।”
इति सिद्धान्तमुक्तावली ॥ * ॥ शरीरस्थधातु-
विशेषः । तत्पर्य्यायः । रसिका २ स्वेदमाता ३
वपुःस्रवः ४ चर्म्माम्भः ५ चर्म्मसारः ६ रक्त-
सारः ७ अस्रमातृका ८ । इति राजनिर्घण्टः ॥
आहारसम्भवः ९ तेजःसम्भवः १० अग्नि-
सम्भवः ११ षड्रसासवः १२ आत्रेयः १३
असृक्करः १४ धातुघनः १५ मूलमहापरः १६
इति हेमचन्द्रः ॥ तस्य निरुक्तिर्यथा, --
“यत् पार्थो रसधातुर्यस्ततोऽभवदयं रसः ।
सदैव सकलं देहं रसतीति रसः स्मृतः ॥”
तस्य स्वरूपमाह ।
“सम्यक्पक्कस्य भुक्तस्य सारो निगदितो रसः ।
स तु द्रवः सितः शीतःखादुः स्निग्धश्चलो भवेत् ॥”
पृष्ठ ४/१०१
सारः । यथा, गुडमधूकपुष्पवकुलत्वग्वदरी-
मूलादिभवः सारो मदिरा । तस्य स्थानमाह ।
“सर्व्वदेहचरस्यापि रसस्य हृदयं स्थलम् ।
समानमरुता पूर्ब्बं यदयं हृदये धृतः ॥”
तस्य कर्म्माण्याह ।
“आरुह्य धमनीर्गत्वा धातून् सर्व्वानयं रसः ।
पुष्णाति तदनु स्वीयैर्व्याप्नोति च तनुं गुणैः ॥”
गुणैः शीतस्निग्धपोषकत्वैः ।
“मन्दवह्निविदग्धस्तु कटुर्व्वाम्लो भवेद्रसः ।
स कुर्य्याद्बहुलान् रोगान् विषकृत्यं करोत्यपि ॥”
इति भावप्रकाशः ॥
(तथा च । “तत्र पाञ्चभौतिकस्य चतुर्व्विधस्य
षड्रसस्य द्विविधवीर्य्यस्याष्टविधवीर्य्यस्य वानेक-
गुणस्योपयुक्तस्याहारस्य सम्यक् परिणतस्य
यस्तेजोभूतः सारः परमसूक्ष्मः स रस इत्युच्यते ।
तस्य च हृदयं स्थानं स हृदयाच्चतुर्व्विंशतिं
धमनीरनुप्रविश्योर्द्ध्वगा दश दश चाधोगामिनी-
श्चतस्रस्तिर्य्यग्गाः कृत्स्नं शरीरमहरहस्तर्पयति
वर्द्धयति धारयति यापयति जीवयति चादृष्ट-
हेतुकेन कर्म्मणा । तस्य शरीरमनुधावतोऽनु-
मानाद् गतिरुपलक्षयितव्या क्षयवृद्धिवैकृतैः ।
तस्मिन् सर्व्वशरीरावयवदोषधातुमलाशयानु-
सारिणि रसे जिज्ञासा किमयं सौम्यस्तैजस
इति । अत्रोच्यते स खलु द्रवानुसारी स्नेहन-
जीवनतर्पणधारनादिभिर्विशेषैः सौम्य इत्यव-
गम्यते ।” इति च सुश्रुते सूत्रस्थाने चतुर्द्दशे-
ऽध्याये ॥ * ॥)
शृङ्गारादिदशविधस्थायी भावः । शृङ्गारादयो-
ऽष्टौ रसशब्दवाच्याः । रस्यन्ते आस्वाद्यन्ते
रसाः रसत् क त्वास्वादे घञ् । तथा हि ।
विभावैरनुभावैश्च व्यक्तो वा व्यभिचारिभिः ।
आस्वाद्यत्वात् प्रधानत्वात् स्थायी भावो रसो
भेवेदिति ॥
रत्युत्साहशोक-विस्मयहासभयजुगुप्साक्रोधाः
क्रमादेते स्युः स्थायिनः । यदुक्तम् ।
“रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्सा विस्मयश्चेति स्थायिभाभाः क्रमादमी ॥
समये यः समुद्भूतः स्वान्ते यश्चावतिष्ठते ।
भावः स्थायी स विज्ञेयो व्यभिचारी ततोऽन्यथा ।
निर्व्वेदग्लानिशङ्काद्या व्यभिचारिण ईरिताः ॥”
स्थायिनः कारणं विभावः स चावलम्बनोद्दीप-
नत्वेन द्विविधः । यथा रतेरवलम्बनकारणं पुंसो
युवती युवत्याश्च पुमान् । उद्दीपनकारणं स्रक्-
चन्दनादि । एवं सर्व्वत्रोन्नेयम् । रतिप्रमोदा-
त्मको भावः स च युवभिरुत्पादितः शृङ्गारः ।
यदाह ।
“पुंसःस्त्रियां स्त्रियाःपुंसि संयोगं प्रति या स्पृहा ।
स शृङ्गार इति ख्यातो रतिक्रीडादिकारणम् ॥
दानधर्म्मयुद्धेषु जीवानपेक्षोत्साहकारी रसो
वीरः । शोकस्थायिभावः करुणः । असम्भावित-
मर्त्यान्तरीक्षगमनादिजोऽद्भुतः । कौतुकोद्भवो
हासः । क्रुध्यद्राक्षसादिभयजन्यो भयानकः ।
घृणाकरपूयरसादिजो वीभत्सः । सर्व्वाभि-
भाविता रौद्रः । यथा, रावणचरितादि ।
शान्तोऽपि रसोऽस्ति ।
“शृङ्गारवीरवीभत्सरौद्रहास्यभयानकाः ।
करुणाद्भुतशान्ताश्च नव नाट्या रसाः स्मृताः ॥”
इति रत्नकोषः ॥
एवं वत्सलोऽपि रसोऽस्ति ।
“शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः ।
वीभत्सरौद्रौ वात्सल्यं शान्तश्चेति रसा दश ॥”
इति नामनिधानम् ॥
वत्सलः पुत्त्रादिस्नेहात् स्वारतिभेद एव ।
शान्तस्त्वलौकिकत्वान्नोक्तः । इति मुकुटः ॥
चशब्दात् शान्तवत्सलावपि संगृहीताविति
केचित् । इत्यमरटीकायां भरतः ॥ * ॥ अपि
च । तत्र शृङ्गारादिसर्व्वरसकदम्बमूर्त्तिर्भगवान्
तत्तदभिप्रायानुसारेण बभौ न साकल्येन सर्व्वे-
षामित्याह । मल्लानामिति । मल्लादीनां
दशानां द्रष्टॄणां अशन्यादिरूपेण दशधा
विदितः सन् साग्रजो रङ्गं गतः इत्यन्वयः ।
मल्लादिषु अभिव्यक्ता रसाः क्रमेण श्लोकेन
निवघ्यन्ते ।
“रौद्रोऽद्भुतश्च शृङ्गारो हास्यवीरौ दया
तथा ।
भयानकश्च वीभत्सः शान्तः सप्रेमभक्तिकः ॥”
अविदुषां विराट् विकलः अपर्य्याप्तो जड इति
यावत् । अनेन वीभत्स उक्तः । विकलत्वञ्च क्व
वज्रसारसर्व्वाङ्गावित्यादिना वक्ष्यति । इति
श्रीमद्भागवते १० स्कन्धे ४३ अध्याये १५ श्लोक-
टीकायां श्रीधरस्वामी ॥ * ॥ (तथा च ।
“रसे सारश्चमत्कारः सर्व्वत्राप्यनुभूयते ॥
तच्चमत्कारसारत्वे सर्व्वत्राप्यद्भुतो रसः ।
तस्मादद्भतमेवाह कृती नारायणो रसम् ॥”
इति साहित्यदर्पणे धर्म्मदत्तः ॥
रसः कथ्यते ।
“विभावेनानुभावेन व्यक्तः सञ्चारिणा तथा ।
रसतामेति रत्यादिः स्थायी भावः सचेतसाम् ॥”
अस्य स्वरूपकथनगर्भ आस्वादप्रकारः कथ्यते ।
“सत्त्वोद्रेकादखण्डस्वप्रकाशानन्दचिन्मयः ।
वेद्यान्तरस्पर्शशून्यो ब्रह्मास्वादसहोदरः ॥
लोकोत्तरचमत्कारप्राणः कैश्चित् प्रमातृभिः ।
स्वाकारवदभिन्नत्वे नायमास्वाद्यते रसः ।
रजस्तमोभ्यामस्पृष्टं मनः सत्त्वमिहोच्यते ॥”
इति साहित्यदर्पणे विश्वनाथः ॥ ३ ॥
“शृङ्गारहास्यकरुणरौद्रवीरभयानकाः ।
वीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाठ्ये रसाः स्मृताः ॥”
शृङ्गारस्य यथा, --
“शृङ्गं हि मन्मथोद्भेदस्तदागमनहेतुकः ।
उत्तमप्रकृतिप्रायो रसः शृङ्गार इष्यते ॥
परोढां वर्ज्जयित्वा तु वेश्याञ्चाननुरागिणीम् ।
आलम्बनं नायिकाः स्युर्द्दक्षिणाद्याश्च नायकाः ॥
चन्द्रचन्दनरोलम्बरुताद्युद्दीपनं मतम् ।
भ्रूविक्षेपकटाक्षादिरनुभावः प्रकीर्त्तितः ॥
त्वक्त्वौग्र्यमरणालस्यजुगुप्सा व्यभिचारिणः ।
स्थायी भावो रतिः श्यामवर्णोऽयं विष्णुदैवतः ॥”
यथा, --
“शूण्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चि-
च्छनैः
निद्राव्याजमुपागतस्य सुचिरं निर्व्वर्ण्य पत्यु-
र्म्मुखम् ।
विश्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्ड-
स्थलीं
लज्जानम्रमुखी प्रियेण हसता बाला चिरं
चुम्बिता ॥”
हास्यस्य ।
“विकृताकारवाग्वेशचेष्टादेः कुहकाद्भवेत् ।
हासो हास्यस्थायिभावः श्वेतः प्रमथदैवतः ॥
विकृताकारवाक्चेष्टं यदालोक्य हसेन्नरः ।
तदत्रालम्बनं प्राहुस्तच्चेष्टोद्दीपनं मतम् ॥
अनुभावोऽक्षिसङ्कोचवचनस्मेरतादयः ।
निद्रालस्यावहित्थाद्या अत्र स्युर्व्यभिचारिणः ॥
ज्येष्ठानां स्मितहसिते मध्यानां विहसिता-
वहसिते च ।
नीचानामपहसितं तथातिहसितञ्च षड्भेदाः ॥
ईषद्विकासिनयनं स्मितं स्यात् स्पन्दिताधरम् ।
किञ्चिल्लख्यद्विजं तत्र हसितं कथितं बुधैः ॥
मधुरस्वरं विहसितं सांसशिरःकम्पनमव-
हसितम् ।
अपहसितं सास्राक्षं विक्षिप्ताङ्गं भवत्यति-
हसितम् ॥”
यथा, --
“आकुञ्च्य पाणिमशुचिं मम मूर्द्ध्नि वेश्या
मन्त्राम्भसां प्रतिपदं पृषतैः पवित्रे ।
तारस्वरं प्रथितथूत्कमदात् प्रहारं
हाहा हतोऽहमिति रोदिति विष्णुशर्म्मा ॥”
करुणस्य ।
“इष्टनाशादनिष्टाप्तेः करुणाख्यो रसो भवेत् ।
धीरैः कपोतवर्णोऽयं कथितो यमदैवतः ॥
शोकोऽत्र स्थायिभावः स्याच्छोच्यमालम्बनं
मतम् ।
तस्य दाहादिकावस्था भवेदुद्दीपनं पुनः ।
अनुभावा दैवनिन्दा भूपातक्रन्दनादयः ॥
वैवर्णोच्छासनिश्वासस्तम्भप्रलपनानि च ।
निर्व्वेदमोहापस्मारव्याधिग्लानिस्मृतिश्रमाः ॥
विषादजडतोन्मादचिन्ताद्या व्यभिचारिणः ॥”
यथा, --
“विपिने क्व जटानिबन्धनं
तव चेदं क्व मनोहरं वपुः ।
अनयोर्घटनाविधेः स्फुटं
ननु खड्गेन शिरीषकर्त्तनम् ॥”
रौद्रस्य ।
“रौद्रः क्रोधः स्थायिभावो रक्तो रुद्राधिदैवतः ।
आलम्बनमरिस्तत्र तच्चेष्टोद्दीपनं मतम् ॥
मुष्टिप्रहारपतनविकृतच्छेदावदारणैश्चैव ।
संग्रामसंभ्रमाद्यैरस्योद्दीप्तिर्भवेत् प्रौढा ॥
पृष्ठ ४/१०२
भ्रूविभङ्गोष्ठनिर्द्दिंशबाहुस्फोटनतर्ज्जनम् ।
आत्मावदानकथनमायुधोत्क्षेपणानि च ॥
अनुभावास्तथाक्षेपक्रूरसन्दर्शनादयः ।
उग्रतावेगरोमाञ्च स्वेदवेपथवो मदः ॥
मोहामर्षादयश्चात्र भावाः स्युर्व्व्यभिचारिणः ॥”
यथा, --
“कृतमनुमतं दृष्टं वा यैरिदं गुरु पातकं
मनुजपशुभिर्निर्म्मर्य्यादैर्भवद्भिरुदायुधैः ।
नरकरिपुना सार्द्धं तेषां सभीमकिरीटिना-
मयमहमसृङ्मेदोमांसैः करोमि दिशां
वलिम् ॥”
वीरस्य ।
“उत्तमप्रकृतिर्व्वीर उत्साहस्तायिभावकः
महेन्द्रदैवतो हेमवर्णोऽयं समुदाहृतः ॥
आलम्बनविभावाश्च विजेतव्यादयो मताः ।
विजेतव्यादिचेष्ठाद्यास्तत्रोद्दीपनरूपिणः ॥
अनुभावास्तु तत्र स्युः सहायान्वेषणादयः ।
सञ्चारिणस्तु घृतिमतिगर्व्वस्मृतितर्करोमाञ्चाः ॥
स च दानधर्म्मयुद्धैर्दयया च समन्वितश्चतुर्द्धा
स्यात् ॥”
यथा, --
“क्षुद्राः सन्त्रासमेते विजहित हरयः ! क्षुण्ण-
शक्रेभकुम्भा
युष्मद्देहेषु लज्जां दधति परममी सायका निष्प-
तन्तः ।
सौमित्रे ! तिष्ठ पात्रं त्वमसि नहि रुषां नन्वहं
मेघनादः
किञ्चिद् भ्रूभङ्गलीलानियमितजलधिं राम-
मन्वेषयामि ॥”
भयानकस्य ।
“भयानको भयस्थायिभावः कालाधिदैवतः ।
स्त्रीनीचप्रकृतिः कृष्णो मतस्तत्वविशारदैः ॥
यस्मादुत्पद्यते भीतिस्तदत्रालम्बनं मतम् ।
चेष्टा वोरतरा तस्य तदत्रोद्दीपनं पुनः ॥
अनुभावोऽत्र वैवर्ण्यगद्गदस्वरभाषणम् ।
पुलकस्वेदरोमाञ्चकम्पदिक्प्रेक्षणादयः ॥
जुगुप्सावेगसम्मोहसन्त्रासग्लानिदीनताः ।
शङ्कापस्मारसम्भ्रान्तिमृत्व्याद्या व्यभि-
चारिणः ॥”
यथा, --
“ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने
दत्तदृष्टिः
पश्चार्द्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्ब्ब-
कायम् ।
शष्पैरर्द्धावलीढैः श्रमविवृतमुखभ्रंसिभिः
कीर्णवर्त्मा
पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्व्यां
प्रयाति ॥”
वीभत्सस्य ।
“जुगुप्सा स्थायिभावस्तु वीभत्सः कथ्यते रसः ।
नीलवर्णो महाकालदेवतोऽयमुदाहृतः ॥
दुर्गन्धमांसपिशितमेदांस्यालम्बनं मतम् ।
तत्रैव कृमिपातादिरुद्दीपनमुदाहृतम् ॥
निष्ठीवनास्यवलननेत्रसङ्कोचनादयः ।
अनुभावास्तत्र मतास्तत्र स्युर्व्व्यभिचारिणः ॥
मोहोऽपस्मार आवेगो व्याधिश्च मरणादयः ॥”
यथा, --
“उत्कृत्योत्कृत्यकृत्तिं प्रथममथ पृथूत्सेध-
भूयांसि मांसा-
न्यंशस्फिक् पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि
जग्ध्वा ।
अन्तःपर्य्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः
करङ्का-
दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्य-
ग्रमत्ति ॥”
अद्भुतस्य ।
“अद्भुतो विस्मयस्थायिभावो गन्धर्व्वदैवतः ।
पीतवर्णो वस्तु लोकातिगमालम्बनं मतम् ॥
गुणानां तस्य महिमा भवेदुद्दीपनं पुनः ।
स्तम्भः स्वेदोऽथ रोमाञ्चगद्गदस्वरसंभ्रमाः ॥
तथा नेत्रविकासाद्या अनुभावाः प्रकीर्त्तिताः ।
वितर्कावेगसम्भ्रान्तिहर्षाद्या व्यभिचारिणः ॥”
यथा,
“चित्रं महानेष वतावतारः
क्व कातिरेषाभिनवैव भङ्गिः ।
लोकोत्तरं धैर्य्यमहो प्रभावः
काप्याकृतिर्नूतन एष सर्गः ॥”
शान्तस्य ।
“निर्व्वेदस्थायिभावोऽस्ति शान्तोऽपि नवमो
रसः ॥”
तथा च ।
“शान्तः शमस्थायिमाव उत्तमप्रकृतिर्म्मतः ।
कुन्देन्दुसुन्दरच्छायः श्रीनारायणदैवतः ॥
अनित्यत्वादिनाशेषवस्तुनिःसारता तु या ।
परमात्मस्वरूपं वा तस्यालम्बनमिष्यते ॥
पुण्याश्रमहरिक्षेत्रतीर्थरम्यवनादयः ।
महापुरुषसङ्गाद्यास्तस्योद्दीपनरूपिणः ॥
रोमाञ्चाद्याश्चानुभावास्तथास्युर्व्यभिचारिणः ।
निर्व्वेदहर्षस्मरणमतिभूतदयादयः ॥”
यथा, --
“अहौ वा हारे वा कुसुमशयने वा दृषदि वा
मणौ वा लोष्ट्रे वा बलवति रिपौ वा सुहृदि वा ।
तृणे वा स्त्रैणे वा मम समदृशो यान्ति दिवसाः
क्वचित् पुण्येऽरण्ये शिवशिवशिवेति प्रलपतः ॥”
इति काव्यप्रकाशसाहित्यदर्पणे ॥ विशेषविस्तृ-
तिस्तु साहित्यदर्पणे तृतीयपरिच्छेदे द्रष्टव्या ॥
तन्त्रशास्त्रेऽपि साधकानामुपासनासौकर्य्यार्थं
रसास्वादः रसप्रकारश्च कथ्यते । यथा, --
भैरव उवाच ।
“क्रियाकाण्डप्रकथने तन्त्रं बहुतरं भवेत् ।
किञ्चिल्लक्षणमेतेषां संक्षेपात् कथयामि ते ॥
काव्यशास्त्रेनव रसा योगे चाष्टौ रसाः स्मृताः ॥
अष्टादशप्रकारा हि विद्यायाः परिकीर्त्तिताः ।
भक्तियोगे नव रसा ऋतवो विषये स्मृताः ॥
रञ्चमाद्या रसा देवि ! पञ्चपञ्चाशतः स्मृताः ।
भेदं रसानां वक्ष्यामि शृणुष्वावहिता प्रिये ॥
शृङ्गारवीरकरुणहास्योद्भुतभयानकाः ।
वीभत्सः शान्तको रौद्रो नवधा काव्यशास्त्रके ॥
यमश्च नियमश्चैव आसनं प्राणसंयमः ।
प्रत्याहारो धारणा च ध्यानं समाधिरष्टधा ॥
योगशास्त्रे महादेवि कथिता विस्तरात् प्रिये ॥
छन्दः पादौ च वेदस्य मुखं व्याकरणं स्मृतम् ।
शिक्षा घ्राणं महेशानि ! हस्तौ कल्पोऽथ कथ्यते ॥
ज्वोतिषं देवि तन्नेत्रं निरुक्तं श्रोत्रमुच्यते ।
अङ्गानि वेदाश्चत्वारो मीमांसान्यायविस्तरैः ॥
धर्म्मशास्त्रं पुराणञ्च विद्या ह्येताश्चतुर्द्दश ।
आयुर्व्वेदो धनुर्व्वेदो गान्धर्व्वाश्चेति ते त्रयः ॥
अर्थशास्त्रसमायुक्ता विद्याष्टादशधा रसाः ।
मननं कीर्त्तनं ध्यानं स्मरणं पादसेवनम् ॥
अर्च्चनं वन्दनं दास्यं सख्यमात्मसमर्पणम् ।
इत्थं देवि नव रसा भक्तियोगे प्रकीर्त्तिताः ॥
स्रग्गन्धवनिताशय्यावस्त्रालङ्करणानि च ।
कथिताः परमेशानि विषये ऋतवो रसाः ॥
खाद्याः पञ्चरसा गौडी माध्वीक्षुफलशस्यकाः ।
एतेषु रसभावज्ञा ये ते वै रसिकाः स्मृताः ॥
कृत्यविधिर्ज्जपविधिर्द्रव्यशोधनिको विधिः ।
बाह्यमानसिकी पूजा विधिश्च परमेश्वरि ! ॥
पुरश्चर्य्याविधिर्द्देवि ! कर्म्मकाण्डानि पञ्चधा ।
त्रिधा कृत्य विधिर्द्देवि ! प्रातः सायं दिनन्तथा ॥
अनुभूय रसान् सर्व्वान् क्रियाकाण्ड विधाय च ।
साधकः स्थिरचित्तेन कुर्य्यात् पूर्णाभिषेचनम् ॥”
इति वामकेश्वरतन्त्रे त्रयःपञ्चाशत् पटलः ॥
देव्युवाच ।
“मन्त्रप्रकथनं नाथ ! देव प्रकथनं कथम् ।
तत्तद्रसानां वचनैश्चित्तं मोहयसीव मे ॥
साम्प्रतं संशयच्छेदकारणं ब्रूहि मे प्रभो ! ॥
आश्चर्य्याख्यानमेवं हि श्रवणात् कौतुकं महत् ॥
भैरव उवाच ।
तन्त्रोक्तं वेदवाक्यञ्च सर्व्वज्ञानस्य कारणम् ।
भेदं रसानां वक्ष्यामि शृणुष्वावहिता सती ॥
शृङ्गारो वीरतो ज्ञेयस्तस्मिंस्ते करुणादयः ।
शृङ्गारादिघृणादिश्च अपि शृङ्गारतो भवेत् ॥
शृङ्गारस्तु यदा देवी परमार्थकसूचकः ।
तदैव परमा शान्ती रुद्रत्वं संप्रपद्यते ॥
तेषां प्रकरणार्थन्तु शृणु प्राणाधिके ! मयि ।
पादं विना शरीरस्य न गतिर्व्विद्यते प्रिये ! ॥
छन्दसा वेदमार्गे तु प्रविशेन्न कदाचन ॥
अलङ्कारं विनाच्छन्दो न शोभेत प्रियंवदे ॥
चक्षुः परोक्षभेदः स्यात् ज्योतिःशास्त्रं तथैवच ।
चन्द्रसूर्य्यस्य ग्रहणात् ज्योतिः प्रत्यक्षतामियात् ॥
वेदशाखा निरुक्तं स्यात् शाखाभिर्ब्रह्म जायते ।
गानकार्य्ये श्रूयमाणे भक्तिर्भवति ब्रह्मणि ॥
तदैव गानकृत्यञ्च मुखनासिकयोर्भवेत् ।
गानं विना न नृत्यं स्यात् नृत्यं गानेन जायते ॥
शिक्षाशास्त्रं नाटकादि शब्दव्याकरणं स्मृतम् ।
अविनाभावसम्बन्धात्द्बयोरेव शुचिस्मिते ॥ !
पृष्ठ ४/१०३
वेदाः षडङ्गसहिताः ब्रह्मव्याख्यानतत्पराः ।
न्यायेन सार्द्धं मीमांसा ब्रह्म निर्णीयते ध्रुवम् ॥
ब्रह्मज्ञाने तु जीवस्य परमात्मविचारणम् ।
धर्म्मशास्त्रानुसारेण व्यवस्थादिर्निरूपितः ॥
पुराणाख्यानि तेनैव जायते सततं प्रिये ! ।
ब्रह्मानन्दपरो जीव आत्मसंरक्षणोत्सुकः ॥
आयुर्व्वेदं धनुर्व्वेदं गान्धर्व्वञ्च समभ्यसेत् ।
अनुसन्धानतो देवि पूर्णज्ञानी च साधकः ॥
मधुनेक्षुरसेनैव दुग्धादिफलशस्यकैः ।
गन्धमाल्यादिना देवि ! वस्त्रालङ्करणादिना ॥
शय्यायां वनितारूपं पूजयेज्जगदम्बिकाम् ।
वनितापूजने देवि ! शृङ्गारो रससाधनम् ॥
पूजनं कर्म्मकाण्डञ्च पञ्चधा तत्प्रकीर्त्तितम् ।
तत्सर्व्वं साधयेद्वीरो देवी सम्प्राप्तिहेतवे ॥
पूजने नवधा भक्ती रसोल्लासश्च जायते ।
तदा योगं समभ्यस्य समाधिस्थो भवेद्यतिः ॥
अतएव महेशानि ! पुरैव कथितं मया ।
अनुभूय रसान् सर्व्वान् पञ्चपञ्चाशतः प्रिये ! ॥
विषये कर्म्मकाण्डेषु निष्कामी भवति प्रिये ! ।
निष्कामे फलमाश्चर्य्यं तेन तृप्यति देवता ॥
देही देहं समाश्रित्य न च कर्म्म परित्यजेत् ।
दिव्यां क्रियां समाप्यैवं देवीयात्रादिकर्म्मणा ॥
पूर्णज्ञानरसानन्दात् जीवन्मुक्तो भवेद्ध्रुवम् ॥”
इति वामकेश्वरतन्त्रे चतुःपञ्चाशत् पटलः ॥
रसस्य परब्रह्मस्वरूपत्वमप्युक्तम् । यथा, --
“रसो वै सः ।” इति श्रुतिः ॥ सन्ध्यामन्त्रेऽपि ।
“आपो ज्योतो रसोऽमृतं ब्रह्म ।” अत्र ब्राह्मण-
सर्व्वस्वे हलायुधः ॥ “स एव ब्रह्मरूपो भर्गो रसः
तृणवृक्षौषध्यादिषु स्थावरेषु च स एव रस-
रूपेण वसतीत्यर्थः । तथा च योगियाज्ञ-
वल्क्यः ।
“वृक्षौषधितृणानाञ्च रसरूपेण तिष्ठति ॥”
श्रीमद्भगवद्गीतायामपि ।
“रसोऽहमप्सु कौन्तेय इति ॥”)
पिथम् । (यथा, मुद्राराक्षसे २ अङ्के ।
“ये मन्त्रेषु रसेषु च प्रणिहितास्तैरेव ते
घातिताः ॥”)
वीर्य्यम् । गुणः । रागः । (यथा, --
“कविता कोमलवनिता
रसयति रसिकं रसेन मिलिता ।
सा यदि दुर्ज्जनहस्ते
पतिता प्रतिपदभग्ना संशयमग्ना ॥”
इत्युद्भटः ॥)
द्रवः । इत्यमरः । ३ । ३ । २२६ ॥ गन्धरसः ।
(तत्पर्य्यायो यथा, --
“विद्वान् गोलः पिण्डकश्च पिण्डो वोलो रसो
रसः ॥”)
जलम् । (यथा, रघौ । १ । १८ ।
“प्रजानामेव भूत्यर्थं स ताभ्यो वलिमग्रहीत् ।
सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः ॥”)
पारदः । इति मेदिनी ॥ (“तत्र रसप्राधान्य-
माह ।
अल्पमात्रोपयोगित्वादरुचेरप्रसङ्गतः ।
क्षिप्रमारोग्यदायित्वादौषधेभ्योऽधिको रसः ॥
साध्येषु भेषजं सर्व्वमीरितं तत्त्ववेदिना ।
असाध्येष्वपि दातव्यो रसोऽतः श्रेष्ठ उच्यते ॥
हतो हन्ति जराव्याधिं मूर्च्छितो व्याधिघातकः ।
वङ्गः खेचरतां धत्ते कोऽन्यः सूतात् कृपाकरः ॥”
अथ रसपर्य्यायमाह ।
“रसेन्द्रः पारदः सूतः सूतराजश्च सूतकः ।
शिवतेजो रसः सप्त नामान्येवं रसस्य तु ॥”
मतान्तरम् ।
“शिवबीजं रसः सूतः पारदश्च रसेन्द्रकः ।
एतानि रसनामानि तथान्यानि यथा शिवे ॥”
यथा शिवे इत्यनेन शिवपर्य्यायाणामपि रस-
वाचकत्वम् ॥ * ॥ अथ रसलक्षणम् ।
“अन्तः सुनीलो बहिरुज्ज्वलो यो
मध्याह्नसूर्य्यप्रतिमप्रकाशः ।
शस्तोऽथ धूम्रः परिपाण्डरश्च
चित्रो न योज्यो रसकर्म्मसिद्धौ ॥”
नागो वङ्गो मलो वह्निश्चाञ्चल्यञ्च विषं गिरिः ।
असह्याग्निर्महादोषा निसर्गाः पारदे स्थिताः ॥
व्रणं कुष्ठं तथा जाड्यं दाहं वीर्य्यस्य नाशनम् ।
मरणं जडतां स्फोटं कुर्व्वन्त्येते क्रमान्नृणाम् ॥
तस्माद्रसस्य संशुद्धिं विदध्याद्भिषजां वरः ।
शुद्धोऽयममृतं साक्षाद्दोषयुक्तो रसो विषम् ॥”
“शतं पञ्चाशतं वापि पञ्चविंशद्दशैव च ।
पञ्चैकं वा पलञ्चैव पलार्द्धं कर्षमेव च ॥
कर्षान्न्यूनो न कर्त्तव्यो रससंस्कार उत्तमः ।
प्रयोगेषु च सर्व्वेषु यथालाभं प्रकल्पयेत् ॥
शुभेऽह्नि विष्णुं परिचिन्त्य कुर्य्यात्
सम्यक्कुमारीवटुकार्च्चनञ्च ।
सुलोहपाषाणसमुद्भवेऽस्मिन्
दृढे च वेदाङ्गुलिगर्भमात्रे ॥
सुतप्तखल्वे निजमन्त्रयुक्तां
विधाय रक्षां स्थिरसारबुद्धिः ।
अनन्यचित्तः शिवभक्तियुक्तः
समाचरेत् कर्म्मरसस्य तज्ज्ञः ॥”
“अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यश्च ।
सर्व्वतः सर्व्वसर्व्वेभ्यो नमस्ते रुद्ररूपिभ्यः ॥”
इति रक्षामन्त्रः ॥
इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि-
कारे ॥ विस्तृतविवृतिरस्य पारदशब्देऽभिहिता ॥
शिरालसः । तत्पर्य्यायो यथा, --
“कपिनामा कपितैलं कृत्रिमं कपिलश्चलः ।
तुरुष्को मुक्तिमुक्तश्च पिण्डातेः सिह्लको रसः ॥”
हिङ्गुलम् ॥ तत्पर्य्यायो यथा, --
“रक्तं मर्कटशीर्षञ्च हिङ्गुलं दरदो रसः ॥”
इति वैद्यकरत्नमालायाम् ॥)

रसकः, पुं, (रस + संज्ञायां कन् ।) निष्क्वाथ-

मांसः । इति हेमचन्द्रः । ३ । ७७ ॥

रसकर्पूरं, क्ली, कर्पूररसः । रसकापूर इति

भाषा । यथा, “तत्र पारदस्य संक्षिप्तं शोधनं
कर्त्तव्यम् ।
शुद्धसूतसमं कुर्य्यात् प्रत्येकं गैरिकं सुधीः ।
इष्टिकां खटिकां तद्बत् स्फुटिकां सिन्धुजन्म च ॥
बल्वीकक्षारलवणं भाण्डरञ्जकमृत्तिकाम् ।
सर्व्वाण्यतानि संचूर्ण्य वाससा चापि शोधयेत् ॥
खटिका खडी । स्फुटिका फिट्करी । सिन्धु-
जन्म सैन्ववम् । वल्वीकं तज्जा मृत् । वल्मीक
वरौर । क्षारलवणं खारीलवण । भाण्डरञ्जक-
मृत्तिका काविसमाटी ।
एभिश्चूर्णैर्युतं सूतं यावद्यामं विमर्द्दितम् ।
तच्चूर्णसहितं सूतं स्थालीमध्ये परिक्षिपेत् ॥
तस्याः स्थाल्या मुखे स्थालीमपरां धारयेत्
समाम् ।
सवस्त्रकुट्टितमृदा मुद्रयेदुभयोर्म्मुखम् ॥
संशोष्य मुद्रयेद्भूयो भूयः संशोष्य मुद्रयेत् ।
सम्यग्विशोष्य मुद्रां तांस्थालीं चुल्ल्यां विधारयेत् ॥
अग्निं निरन्तरं दद्याद्यावद्दिनचतुष्टयम् ।
अङ्गारोपरि तद्यन्त्रं रक्षेद्यत्नादहर्निशम् ॥
शनैरुद्धारयेद्यन्त्रभूर्द्ध्वस्थालीगतं रसम् ।
कर्पूरवत् सुविमलं गृह्णीयाद्गुणवत्तरम् ॥
तं देवकुसुमचन्दनकस्तूरीकुङ्कुमैर्युक्तम् ।
खादन् हरति फिरङ्गं व्याधिं सोपद्रवं सपदि ॥
विन्दति वह्नेर्द्दीप्तिं पुष्टिं वीर्य्यं बलं विपुलम् ।
रमयति रमणीशतकं रसकर्पूरस्य सेवकः
सततम् ॥”
इति भावप्रकाशः ॥ * ॥
अपि च ।
“गैरिकतुरवीखटिकासैन्धवगडजं रजं कुडवम् ।
प्रत्येकं दृढण्ड्यामाधायास्योपरि शतं स्थाप्यः ॥
कुडवमितोऽथ तदूर्द्ध्वं देया हण्डीतदास्य पात-
मुखी ।
अथ तत्सन्धेर्म्मुद्रां कृता तदधो हुताशनो
ज्वाल्यः ॥
अर्म्मणषट्कप्रमितैर्द्दारुभिरनुनातिदुर्ब्बलस्थूलैः ।
अग्निं क्रमेण दद्याद्गुरुदर्शितवर्त्मना द्बिनिशम् ॥
तदनु ततो यन्त्रवराद्युक्त्या कर्पूरसन्निभं सूतम् ।
आदाय काचकुम्भे निधाय नवसादरं दद्यात् ॥
संमर्द्द्य चाथ काष्ठैरर्द्धार्म्मणसंमितैः पचेत् घस्रम् ।
चुल्लीडमरुकमध्यं वितस्तिचतुराङ्गुलावकाशन्तु ॥
कर्त्तव्यं क्रमदहनं तदधः प्रज्वालयेन्मध्यम् ।
शशिधवलमुपरिलग्नं युक्त्या संगृह्य रक्षयेद्-
यत्नात् ॥
वल्लं वल्लार्द्धं वा गुडेन जीर्णेन रोगिणे दद्यात् ।
दुग्धोदनन्तु पर्थ्यं देयं तस्मै च ताम्बूलम् ॥
हरति समस्तं रोगं कर्पू राख्यो रसो नृणाम् ॥
फिरङ्गकरिकेशरी सकलकुष्ठदावानलो-
ऽखिलव्रनविनाशकृत् व्रणजगर्त्तपूर्त्तिप्रदः ।
सूवर्णसमवर्णकृत् बलहुताशतेजस्करः
समस्तगदतस्करो रसपतिः स कर्पूरकः ॥”
ग्रन्थान्तरम् ।
“टङ्कणं मधु लाक्षाथ ऊर्णा गुञ्जायुतो रसः ।
मर्द्दयेत् भृङ्गजद्रावैर्द्दिनैकं ध्मापयेत् पुनः ।
ध्मातो भस्मत्वमाप्नोति शुद्धकर्पूरसन्निभः ॥
पृष्ठ ४/१०४
नवसादरं पारदाच्चतुर्थांशमिति सङ्केतः । गडजं
साम्भरिलोण इति भाषा । शेषं स्पष्टम् ।
इत्यायुर्व्वेदप्रकाशः ॥ (तथा च ।
“पिष्टं पांशुपटु प्रगाढममलं वज्य्रम्बुना नैकशः
सूतं धातुगतं खटीकवलितं तत्संपुटे रोधयेत् ॥
अन्तस्तल्लवणस्य तस्य च तले प्रज्जाल्य वह्निं
हठात्
घस्रं ग्राह्य मथेन्दुकुन्दधवलं भस्मोपरिस्थं शनैः ॥
तद्वल्वद्वितयं लवङ्गसहितं प्रातः प्रयुक्तं भजेत् ।
ऊर्द्ध्वं रेचयति द्बियाममसकृत् पेयं जलं शीतलम् ॥
एतद्धन्ति च वत्सरावधि विषं षान्मासिकं
मासिकम् ।
शैलोत्थं गरलं मृगेन्द्रकुटिलोऽद्भुतञ्च तात्का-
लिकम् ॥”
इति सुधानिधिरसः ॥ * ॥ रकर्पूरमिति रस-
मञ्जरी कारः । श्वेतभस्म इति चन्द्रिका ॥ इति
वैद्यकरसेन्द्रसारसंग्रहे जारणमाराणाधिकारे ॥)

रसकेशरं, क्ली, कर्पूरम् । इति हारावली ॥

(कर्पूरशब्देऽस्य विवरणं ज्ञातव्यम् ॥)

रसगन्धं, क्ली, वोलम् । इति राजनिर्घण्टः ॥

रसगन्धः, पुं, गन्धरसः । यथा, --

“रसगन्धो गन्धरसो गान्धारं मसिवर्द्धनम् ॥”
इति त्रिकाण्डशेषः ॥

रसगन्धकः, पुं, (रसगन्ध + स्वार्थे कन् ।) गन्ध-

रसः । इति शब्दचन्द्रिका ॥ गन्धकः । इति
राजनिर्घण्टः ॥

रसगर्भं, क्ली, रसाञ्जनम् । इत्यमरः ॥ (तत्पर्य्यायो

यथा, भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ।
“रसाञ्जनन्तार्क्ष्यशैलं रसगर्भञ्च तार्क्ष्यजम् ॥”)
हिङ्गुलम् । इति राजनिर्घण्टः ॥

रसघ्नः, पुं, (रसं रसस्य दोषावहशक्तिं हन्तीति ।

हन + टक् ।) टङ्कणः । इति राजनिर्घण्टः ॥

रसजं, क्ली, (रसाज्जायते इति । जन् + डः ।)

रक्तम् । इति शब्दचन्द्रिका ॥

रसजः, पुं, (रसाज्जातः । जन् + डः ।) गुडः ।

इति राजनिर्घण्टः ॥ (यथा, मनुः । ११ । १४४ ।
“अन्नाद्यजानां सत्त्वानां रसजानाञ्च सर्व्वशः ॥”)
मद्यकीटः । इति हेमचन्द्रः ॥ (रसजाते, त्रि ।
यथा, --
“रसजं पुरुषं विद्याद्रसं रक्षेत् प्रयत्नतः ।
अन्नात् पानाच्च मतिमानाचाराच्चाप्यतन्द्रितः ॥”
इति सुश्रुते सूत्रस्थाने चतुर्द्दशेऽध्याये ॥)

रसज्ञा, स्त्री, (रसं जानातीति । ज्ञा + कः । टाप् ।)

जिह्वा । इत्यमरः ॥ (गङ्गा । इति काशीखण्डे ।
२९ । १४६ ॥) रसवेत्तरि, त्रि ॥ (यथा, रघौ ।
२ । ३६ ।
“यो हेमकुम्भस्तननिःसृतानां
स्कन्दस्य मातुः पयसां रसज्ञः ॥”)

रसज्येष्ठः, पुं, (रसेषु ज्येष्ठः ।) मधुररसः । इति

हेमचन्द्रः ॥ शृङ्गाररसश्च ॥

रसतेजः, [स्] क्ली, (रसात् रसजन्यं वा तेजो

यस्य ।) रक्तम् । इति हेमचन्द्रः ॥

रसदालिका, स्त्री, (रसं दालयति इति । दल +

णिच् + ण्वुल् । टापि अत इत्वम् ।) पुण्ड्रकेक्षुः ।
इति राजनिर्घण्टः ॥

रसद्रावी, [न्] पुं, (रसं द्रावयतीति । द्रु +

णिच् + णिनि ।) मधुरजम्बीरः । इति राज-
निर्घण्टः ॥

रसधातुः, पुं, (रसात्मको धातुः ।) पारदः । इति

राजनिर्घण्टः ॥ (अस्य पर्य्यायादिर्यथा, --
“रसायनार्थिभिर्लोकैः पारदो रस्यते यतः ।
ततो रस इति प्रोक्तः स च धातुरपि स्मृतः ॥
पारदो रसधातुश्च रसेन्द्रश्च महारसः ।
चपलः शिववीर्य्यञ्च रसः सूतः शिवाह्वयः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

रसधेनुः, स्त्री, (रसकल्पिता धेनुः ।) दानार्थे-

क्षुरसनिर्म्मितधेनुः । यथा, --
होतोवाच ।
“रसधेनुं महाराज कथयामि समासतः ।
अनुलिप्ते महीपृष्ठे कृष्णाजिनकुशास्तरे ॥
रसस्य तु घटं राजन् संपूर्णमैक्षवस्य च ।
तद्वत् संकल्पयेत् प्राज्ञश्चतुर्थांशेन वत्सकम् ॥
इक्षुदण्डमयाः पादा रजतक्षुरसंयुताः ।
सुवर्णशृङ्गाभरणां वस्त्रपुच्छां घृतस्तनीम् ॥
पुष्पकम्बलसंयुक्तां शर्करामुखजिह्विकाम् ।
दन्ताः फलमयास्तस्याः पृष्ठताम्रमयीं शुभाम् ॥
पुष्परोमान्तु राजेन्द्र मुक्ताफलकृतेक्षणाम् ।
सप्तव्रीहिसमायुक्तां चतुर्द्दिक्षु च दीपिकाम् ॥
सर्व्वोपस्करसंयुक्तां सर्व्वगन्धादिवासिताम् ।
चत्वारि तिलपात्राणि चतुर्द्दिक्षु निवेशयेत् ॥
ब्रह्मणे वेदविदुषे श्रोत्रियायाहिताग्नये ।
पुराणज्ञे विशेषेण साधुवृत्ताय धीमते ॥
तादृशाय प्रदातव्या रसधेनुः कटम्बिने ।
सर्व्वलक्षणयुक्ताय श्रोत्रियाय कुटुम्बिने ॥
रसधेनुः प्रदातव्या सर्व्वकामेण नित्यदा ।
दाता स्वर्गमवाप्नोति सर्व्वपातकवर्ज्जितः ॥
दाता च ग्राहको वाथ एककालमभोजनः ।
सोमपानफलं तस्य सर्व्वक्रतुफलं लभेत् ॥
दीयमानान्तु पश्यन्ति ते यान्ति परमां गतिम् ।
धेनुञ्च पूजयित्वाग्रे गन्धधूपस्रगादिभिः ॥
पूर्ब्बोक्तैरेव मन्त्रैस्तु ततस्तां प्रार्थयेत् सुधीः ।
प्रार्थनापूर्ब्बकं भक्त्या द्विजाग्र्याय निवेदयेत् ॥
दश पूर्व्वान् परांश्चैव आत्मानञ्चैकविंशकम् ।
प्रापयेत् परमं स्थानं स्वर्गान्नावर्त्तते पुनः ॥
एषा ते कथिता राजन् रसधेनुरनुत्तमा ।
ददस्व च महाराज परं स्थानमवाप्नुहि ॥
य इदं पठते नित्यं शृणुयादथ भक्तितः ।
सर्व्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥”
इत्यादि वाराहपुराणे श्वेतोपाख्याने रसधेनु-
माहात्म्यं समाप्तम् ॥

रसनं, क्ली, (रस् + भावे ल्युट् ।) स्वादनम् ।

ध्वनिः । इति मेदिनी ॥ (यथा, बृहत्संहिता-
याम् । ४६ । ८८ ।
“कम्पोद्वर्त्तनवैकृत्यं रसनं दरणं क्षितेः ॥”)

रसनं, क्ली, स्त्री, (रस्यते रसयत्यनेन वा । रस +

करणे ल्युट् ।) जिह्वा । इति मेदिनी ॥ सा च
जलेन्द्रियम् । यथा, --
“नित्यतादि प्रथमवत् किन्तु देहमयोनिजम् ।
इन्द्रियं रसनं सिन्धुर्हिमादिर्व्विषयो मतः ॥”
इति भाषापरिच्छेदः ॥
“प्रथमवदिति पृथिव्या इवेत्यर्थः । तथा हि जलं
द्विविधं नित्यमनित्यश्च । परमानुरूपं नित्यं
द्व्यणुकादिकं सर्व्वमनित्यम् । अवयवसमवेतञ्चा-
नित्यजलमपि त्रिविधम् । शरीरेन्द्रियविषय-
भेदात् । किन्तु पृथिवीतोययोर्यो विशेषस्तमाह
किन्त्विति । अयोनिजमेवेत्यर्थः । जलीयं शरीरं
अयोनिजं वरुणलोके प्रसिद्धमिति । इन्द्रियं
रसनं जलीयम् । तथा हि रसनं जलीयं
गन्धाद्यव्यञ्जकत्वे सति रसव्यञ्जकत्वात् । शक्तु-
रसाभिव्यञ्जकोदकवत् । रसनासन्निकर्षे व्यभि-
चारवारणाय द्रव्यत्वं हेतौ देयम् । विषयं
दर्शयति सिन्धुर्हिमादिरिति । सिन्धुः समुद्रः
हिमं तुषारः । आदिना सरित्कासारकरकादिः
सर्व्वो ग्राह्यः ।” इति सिद्भान्तमुक्तावली ॥

रसना, स्त्री, (रस + युच् । टाप् च ।) जिह्वा ।

इत्यमरः ॥ (यथा, भागवते । ९ । ४ । १९ ।
“घ्राणञ्च तत्पादसरोजसौरभे
श्रीमत्तुलस्या रसनां तदर्पिते ॥”)
तस्याः शुभलक्षणं यथा, --
“तीक्ष्णा दंष्ट्राः समाः श्रेष्ठा जिह्वा रक्ता समा
शुभा ।
श्लक्ष्णा दीर्घा च विज्ञेया तालुः श्वेतो धनक्षये ॥”
इति गारुडे ६६ अध्यायः ॥
न्यायमते रसनेन्द्रियग्राह्यो रसो रसत्वादि-
सहितः । यथा, --
“रसस्तु रसनाग्राह्यो मधुरादिरनेकधा ।
सहकारी रसज्ञाया नित्यतादि च पूर्ब्बवत् ॥
घ्राणस्य गोचरो गन्धो गन्धत्वादिरपि स्मृतः ।
तथा रसो रसज्ञायास्तथा शब्दोऽपि च श्रुतेः ॥”
इति भाषापरिच्छेदः ॥
“तथारस इति रसत्वादिसहित इत्यर्थः ।” इति
सिद्धान्तमुक्तावली ॥ * ॥ रास्ना । इति मेदिनी ॥
(अस्याः पर्य्यायो यथा, --
“रास्ना युक्तरसा रस्या सुवहा रसना रसा ।
एलापर्णी च सुरसा सुगन्धा श्रेयसी तथा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
गन्धभद्रा । इति शब्दचन्द्रिका ॥ काञ्ची । इति
हेमचन्द्रः ॥ (यथा, रघौ । ७ । १० ।
“कस्याश्चिदासीद्रसना तदानीं
अङ्गुष्ठमूलार्पितसूत्रशेषा ॥”)
रज्जुः । इति संक्षिप्तसारोणादिवृत्तिः ॥

रसनाथः, पुं, (रसानां नाथः श्रेष्ठ इत्यर्थः ।)

पारदः । इति राजनिर्घण्टः ॥

रसनायकः, पुं, (रसानां नायकः नेता रसायन-

विद्याविष्कारकत्वादस्य तथात्वम् ।) शिवः ।
इति शब्दरत्नावली ॥
पृष्ठ ४/१०५

रसनालिट्, [ह्] पुं, (रसनया लेढीति । लिह् +

क्विप् ।) कुक्कुरः । इति हेमचन्द्रः ॥ रसनया
लेहनकर्त्तरि, त्रि ॥

रसनेत्रिका, स्त्री, (रसो नेत्रमिव तदस्त्यस्या इति ।

रसनेत्र + ठन् ।) मनःशिला । इति हेमचन्द्रः ॥
(मनःशिलाशब्देऽस्या गुणादयो ज्ञेयाः ॥)

रसपाकजः, पुं, (रसपाकात् जायते इति ।

जन् + डः ।) गुडः । इति राजनिर्घण्टः ॥

रसफलः, पुं, (रसो जलं फले यस्य रसयुक्तं फल-

मस्येति वा । शाकपार्थिववत् मध्यपदलोपी
समासः ।) नारिकेलवृक्षः । इति शब्दरत्ना-
वली ॥ (नारिकेलशब्देऽस्य विशेषो विज्ञेयः ॥)

रसभवं, क्ली, (रसात् रसे वा भवतीति ।)

भू + अच् ।) रक्तम् । इति राजनिर्घण्टः ॥

रसमञ्जरी, स्त्री, (रसानां मञ्जरीव ।) नायक-

नायिकाभेदकग्रन्थविशेषः । यथा, --
“विद्वज्जनमनोभृङ्गरसव्यासङ्गहेतवे ।
एषा प्रकाश्यते श्रीमद्भानुना रसमञ्जरी ॥”
इति तस्य द्वितीयः श्लोकः ॥

रसमयः, त्रि, रसस्वरूपः । रसात्मकः रसशब्दात्

मयट्प्रत्ययेन निष्पन्नः ॥ (यथा, भागवते । ३ ।
५ । ३४ ।
“आधत्ताम्भो रसमयं कालमायांशयोगतः ॥”)

रसमर्द्दनं, क्ली, (रसस्य पारदधातोर्मर्द्दनम् ।)

पारदपेषणम् । यथा, --
“इष्टिकाचूर्णचूर्णाभ्यामादौ मर्द्द्यो रसस्ततः ।
दध्ना गुडेन सिन्धूत्थराजिकागृहधूमकैः ॥”
अन्यच्च ।
“कुमारिकाचित्रकरक्तसर्षपैः
कृतैः कषायैर्वृहतीविमिश्रितैः ।
फलत्रिकेणापि विमर्द्दितो रसो
दिनत्रयं सर्व्वमलैर्विमुच्यते ॥”
इति भावप्रकाशः ॥

रसमारणं, क्ली, (रसस्य पारदस्य मारणम् ।)

पारदस्य मारणम् । यथा, --
“धूमसारं रसं तोरिं गन्धकं नवसादरम् ।
यामैकं मर्छयेदम्लैर्भागं कृत्वा समं समम् ॥
काचकूप्यां विनिःक्षिप्य ताञ्च मृद्वस्त्रमुद्रया ।
विलिप्य परितो वक्त्रे मुद्रां दत्त्वा विशोषयेत् ॥
अधःसच्छिद्रपिठरीमध्ये कूपीं निवेशयेत् ।
पिठरीवालुकापूरैर्भृत्वा वा कूपिकागलम् ॥
निवेश्य चुल्ल्यां तदधो वह्निं कुर्य्याच्छनैः शनैः ।
तस्मादप्यधिकं किञ्चित् पावकं ज्वालयेत् क्रमात् ॥
एवं द्वादशभिर्यामैर्म्रियते रस उत्तमः ।
स्फोटयेत् स्वाङ्गशीतं तमूर्द्ध्वगं गन्धकं त्यजेत् ॥
अधस्थञ्च मृतं सूतं गृह्णीयात् तन्तु मात्रया ।
यथोचितानुपानेन सर्व्वकर्म्मसु योजयेत् ॥”
इति भावप्रकाशः ॥

रसमूर्च्छनं, क्ली, (रसस्य पारदस्य मूर्च्छनम् ।)

पारदस्य मूर्च्छाकरणम् । यथा, --
“त्र्युषणं त्रिफलाबन्ध्याकन्दैः क्षुद्रद्बयान्वितैः ।
चित्रकोर्णानिशाक्षारकन्याककनकद्रवैः ॥
सूतं कृतेन यूषेण वारान् सप्ताभिमूर्च्छयेत् ।
इत्थं संमूर्च्छितः सूतस्त्यजेत् सप्तापि कञ्चुकान् ॥”
इति भावप्रकाशः ॥
(तथास्य विवृतिः ।
“गन्धकेन रसं प्राज्ञः सुदृढं मर्द्दयेद्भिषक् ।
कज्जलाभो यदा सूतो विहाय घनचापलम् ॥
दृश्यतेऽसौ तदा ज्ञेयो मूर्च्छितो रसकोविदैः ।
असौ रोगचयं हन्यादनुपानस्य योगतः ॥”
इति मूर्च्छनम् ॥ * ॥
इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि-
कारे ॥)

रसराजः, पुं, (रसानां धातूनां राजा इति ।

“राजाहःसखिभ्यष्टच् ।” ५ । ४ । ९१ । इति टच् ।)
पारदः । रसाञ्जनम् । इति राजनिर्घण्टः ॥

रसलेहः, पुं, (रसान् अपरान् धातून् लेढीति ।

लिह + पचाद्यच् ।) पारदः । इति राज-
निर्घण्टः ॥

रसवती, स्त्री, (रसो विविधखाद्यरसो विद्यतेऽस्या-

मिति । रस + “रसादिभ्यश्च ।” ५ । २ । ९५ ।
इति मतुप् । मस्य वत्वम् ।) महानसम् ।
इत्यमरः ॥ (यथा, सांख्यतत्त्वकौमुद्याम् । ५ ।
“यथा धूमाद्वह्नित्वसामान्यविशेषः पर्व्वते अनु-
मीयते तस्य च वह्नित्वसामान्यविशेषस्य स्व-
लक्षणो वह्निविशेषो दृष्टो रसवत्याम् ॥ * ॥”)
रसविशिष्टे, त्रि ॥ (यथा, आर्य्यासप्तशती । ४९८ ।
“रोषोऽपि रसवतीनां न कर्क्कशो वा चिरानु-
बन्धी वा ॥”)

रसशोधनं, क्ली, (रसः शोध्यतेऽनेनेति । शुध् +

णिच् + ल्युट् । रसं पारदं शोधयत्यनेनेति वा ।)
टङ्कणः । इति हेमचन्द्रः ॥ (रसस्य शोधनम् ।)
पारदशुद्धिः । यथा, --
“कुमारिकाचित्रकरक्तसर्षपैः
कृतैः कषायैर्वृहतीविमिश्रितैः ।
फलत्रिकेणापि विमर्द्दितो रसो
दिनत्रयं सर्व्वमलैर्व्विमुच्यते ॥
एवं कदर्थितः सूतः षण्ढो भवति निश्चितम् ।
बह्वौषधीकषायेण स्वेदितः स बली भवेत् ॥
सर्पाक्षीचिञ्चिकावन्द्याभृङ्गारैः स्वेदितो बली ।
ततः सपावकद्रावैः स्विन्नः स्यादतिदीप्तिमान् ॥”
इति भावप्रकाशः ॥
(मतान्तरम् ।
“जयन्त्या वर्द्धमानस्य चार्द्रकस्य रसेन च ।
वायस्याश्चानुपूर्व्व्यैवं मर्द्दनं रसशोधनम् ॥
एषां प्रत्येकशस्तावन्मर्द्दयेत् स्वरसेन च ।
यावच्च शुष्कतां याति सप्तवारं विचक्षणः ॥
उद्धृत्योष्णारनालेन मृद्भाण्डे क्षालयेत् सुधीः ।
सर्व्वदोषविनिर्म्मुक्तः सप्तकञ्चुकवर्ज्जितः ॥
जायते शुद्धसूतोऽयं युज्यते सर्व्वकर्म्मसु ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि-
कारे ॥)

रससिन्दूरं, क्ली, (रसजातं सिन्दूरमिति ।)

औषधविशेषः । तस्य नामान्तरं सिन्दूररसः ।
यथा, --
“शुद्धसूतस्य गृह्णीयाद्भिषग्भागचतुष्टयम् ।
शुद्धगन्धस्य भागैकं तावत् कृत्रिमगन्धकम् ॥
अथवा पारदस्यार्द्धं शुद्धगन्धकमेव हि ।
तयोः कज्जलिकां कुर्य्याद्दिनमेकं विवर्ज्जयेत् ॥
मृत्तिकां वाससा सार्द्धं कुट्टयेदतियत्नतः ।
तया वारत्रयं सम्यक् काचकूपीं प्रलेपयेत् ॥
मृत्तिकां शोषयित्वा तु कूप्यां कज्जलिकां
क्षिपेत् ।
तां कूपीं वालुकायन्त्रे स्थापयित्वा रसं पचेत् ॥
अग्निं निरन्तरं दद्याद्यावद्दिनचतुष्टयम् ।
गृह्णीयादूर्द्ध्वसंलग्नं सिन्दूरसदृसं रसम् ॥”
इति भावप्रकाशः ॥
(मतान्तरम् ।
“पृथक् समं समं कृत्वा पारदं गन्धकन्तथा ।
नवसारं धूमसारं स्फटिकं याममात्रकम् ॥
निम्बूरसेन संमर्द्द्य काचकूप्यां निवेशयेत् ।
मुखे पाषाणखटिकां दत्त्वा मुद्रां प्रलेपयेत् ॥
सप्तभिर्मृत्तिकावस्त्रैः पृथक्संशोध्य वेष्टयेत् ।
सच्छिद्रायां मृदस्थाल्यां कूपिकां तां निवेशयेत् ।
पूरयेत् सिकतापूरैरागलं मतिमान् भिषक् ।
निवेश्य चुल्ल्यां दहनं मन्दं मध्यं खरं क्रमात् ॥
प्रज्वाल्य द्वादशं यामं स्वाङ्गशीतं समुद्धरेत् ।
स्फोटयित्वा तु मुक्ताभमूर्द्धलग्नं वलिं त्यजेत् ।
अधःस्थं रससिन्दूरं सर्व्वरोगेषु योजयेत् ॥”
इति रससिन्दूरम् ॥
इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि-
कारे ॥)

रसस्थानं, क्ली, (रसः स्थानमाधार उत्पत्ति-

स्थानं यस्य । रसस्य पारदस्य स्थानमित्येके ।)
हिङ्गुलम् । इति शब्दचन्द्रिका ॥ शरीरस्य
रसस्थलञ्च । तस्य प्रमाणं रसशब्दे द्रष्टव्यम् ॥

रसा, स्त्री, (माधुर्य्यादिरूपो विविधो रसोऽस्त्यस्या-

मिति । “अर्शआदिभ्योऽच् ।” ५ । २ । १२७ ।
इति अच् । रसति शब्दायते इति वा । रस +
अच् । टाप् च ।) पृथिवी । इत्यमरः ॥
रसना । (तत्पर्य्यायो यथा, भावप्रकाशे । १ । १ ।
“रास्ना युक्तरसा रस्या सुवहा रसना रसा ।
एलापर्णी च सुरसा सुगन्धा श्रेयंसी तथा ॥”)
पाठा । (अस्याः पर्य्यायो यथा, भावप्रकाशे । १ । १ ।
“पाठाम्बष्ठाम्बष्ठकी च प्राचीना पापचेलिका ।
एकाष्ठीला रसा प्रोक्ता पाठिका वरतिक्तिका ॥”
शल्लकी । (अस्याः पर्य्यायो यथा, --
“शल्लकी गजभक्ष्या च सुवहा सुरभां रसा ।
महेरुणा कुन्दुरुकी वल्लकी च बहुस्रवा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
कङ्गुः । इति मेदिनी ॥ द्राक्षा । काकोली ।
इति शब्दरत्नावली ॥ (रसातलम् । यथा,
भागवते । १० । ६ । १२ ।
“रसा दिशश्च प्रतिनेदिरे जनाः
पेतुः क्षितौ वज्रनिपातशङ्कया ॥”
यथा च तत्रैव । ३ । १३ । १६ ।
पृष्ठ ४/१०६
“सृजतो मे क्षितिर्वार्भिः प्लाव्यमाना रसां
गता ॥”
“रसां रसातलं गता ।” इति तट्टीकायां स्वामि-
पादाः ॥ नदी । यथा, ऋग्वेदे । १ । ११२ । १२ ।
“याभी रसां क्षोदसोद्नः पिपिण्वथुः ॥”
“रसां नदीम् ।” इति तद्भाष्ये सायणः ॥)

रसाखनः, पुं, (खनतीति । खन् विदारे + अच् ।

रसाया भूमेः खनः ।) कुक्कुटः । इति शब्द-
चन्द्रिका ॥

रसाग्रजं, क्ली, (रसानां अग्रजं रसस्य अग्रे

जायते इति वा । जन् + डः ।) रसाञ्जनम् ।
इति राजनिर्घण्टः ॥

रसाञ्जनं, क्ली, (रसजातमञ्जनं इति मध्यपदलोपी

कर्म्मधारयः ।) रसजाताञ्जनविशेषः । रसवत्
इति भाषा ॥ तत्पर्य्यायः । रसगर्भम् २ तार्क्ष्य-
शैलम् ३ । इत्यमरः ॥ रसोद्भूतम् ४ रसाग्र-
जम् ५ कृतकम् ६ बालभैषज्यम् ७ दार्व्वी-
क्वाथोद्भवम् ८ रसराजः ९ वर्य्याञ्जनम् १०
रसनार्भम् ११ अग्निसारम् १२ । अस्य गुणाः ।
हिमत्वम् । तिक्तत्वम् । चक्षुष्यत्वम् । मधुरत्वम् ।
कटुत्वम् । रक्तपित्तविषच्छर्द्दिहिक्कापस्मार-
नाशित्वञ्च ।
“रीत्यान्तु ध्मायमानायां तत्किट्टन्तु रसाञ्जनम् ।
तदभावे तु कर्त्तव्यं दार्व्वीक्वाथसमुद्भबम् ॥”
इति राजनिर्घण्टः ॥
अपि च ।
“दार्व्वीक्वाथसमं क्षीरं पादं पक्त्वा यथाघनम् ।
तदा रसाञ्जनाख्यं तन्नेत्रयोः परमं हितम् ॥
रसाञ्जनं तार्क्ष्यशैलं रसगर्भञ्च तार्क्ष्यजम् ।
रसाञ्जनं कटु श्लेष्मविषनेत्रविकारनुत् ।
उष्णं रसायनं तिक्तं छेदनं व्रणदोषहृत् ॥”
इति भावप्रकाशः ॥

रसाढ्यः, पुं, (रसेनाढ्यः युक्तः ।) आम्रातकः ।

इति राजनिर्घण्टः ॥ (आम्रातकशब्देऽस्य
विवरणं ज्ञातव्यम् ॥)

रसातलं, क्ली, (रसायाः तलं निम्नभागस्थलोक-

विशेषः ।) पातालम् । इत्यमरः ॥ (यथा,
महाभारते । १२ । ३४७ । ५६ ।
“जग्राह वेदानखिलान् रसातलगतो हरिः ॥”)
पातालभेदः । यथा, --
“अतलं वितलञ्चैव नितलञ्च तलातलम् ॥
महातलञ्च सुतलं सप्तमञ्च रसातलम् ॥
पातालभेदाः सप्तैव नामतः कीर्त्तिता अमी ।
तत्र पातालमेकैकं दशसाहस्रयोजनम् ॥”
इति शब्दमाला ॥
(इदमेव निवातकवचानां निवासस्थानम् ।
तथा च देवीभागवते । ८ । २० । ८ -- १२ ।
“ततोऽधस्ताच्च विवरे रसातलसमाह्वये ।
दैतेया निवसन्त्येव पणयो दानवाश्च ये ॥
निवातकवचा नाम हिरण्यपुरवासिनः ।
कालेया इति च प्रोक्ताः प्रत्यनीका हवि-
र्भुजाम् ॥
महौजसश्चोत्पत्त्यैव महासाहसिनस्तथा ।
सकलेशस्य च हरेस्तेजसा हतविक्रमाः ॥
विलेशया इव सदा विवरे निवसन्ति हि ।
ये वै वाग्भिः सरमया शक्रदूत्या निरन्तरम् ॥
मन्त्रवर्णाभिरसुरास्ताडिता विभ्यति स्म ह ॥”)

रसादानं, क्ली, (रसानां आदानं ग्रहणम् ।) शोष-

णम् । इति हेमचन्द्रः ॥ (रसाया दानम् ।)
भूमिदानञ्च ॥

रसाधारः, पुं, (रसानां जलानां आधारः । रसां

पृथिवीं धरति स्वाकर्षणेनेति वा । धृ + अण् ।)
सूर्य्यः । इति शब्दरत्नावली ॥ रसस्याधारश्च ॥

रसाधिकः, पुं, (रसाय स्वर्णादीनां द्रवीकरणाय

अधिकः प्रबलः ।) टङ्कणः । इति राज-
निर्घण्टः ॥ अधिकरसश्च ॥

रसाधिका, स्त्री, (रसेन अधिका ।) काकोली-

द्राक्षा । इति राजनिर्घण्टः ॥

रसाभासः, पुं, (रस इव आभासते इति । आ +

भास् + अच् ।) अनौचित्यविशिष्टरसः । तस्य
लक्षणं यथा, --
“अनौचित्यप्रवृत्तत्वे आभासो रसभावयोः ।”
अनौचित्यञ्चात्र रसानां भरतादिप्रणीतलक्ष-
णानां सामग्रीरहितत्वे सत्येकदेशयोगित्वोप-
लक्षणपरं बोध्यम् । तच्च बालव्युत्पत्तये एक-
देशतो दर्श्यते । उपनायकसंस्थायां मुनिगुरु-
पत्नीगतायाञ्च । बहुनायकविषयायां रतौ
तथानुभयनिष्ठायां प्रतिनायकनिष्ठत्वे तद्वदधम-
पात्रतिर्य्यगादिगते शृङ्गारे अनौचित्यम् । रौद्रे
गुर्व्वादिगतकोपे । शान्ते च हीननिष्ठे । गुर्व्वा-
द्यालम्बने हास्ये । ब्रह्मवधाद्युत्साहे । अधम-
पात्रगते तथा वीरे । उत्तमपात्रगतत्वे भयानके
ज्ञेयमेवमन्यत्र । तत्र रतेरुपनायकनिष्ठत्वे यथा
मम ।
“स्वामी मुग्धतरो वनं घनमिदं बालाहमेकाकिनी
क्षौणीमावृणुते तमालमलिनच्छायातमः-
सन्ततिः ।
तन्मे सुन्दर ! मुञ्च कृष्ण ! सहसा वर्त्मेति
गोप्या गिरः
श्रुत्वा तां परिरभ्य मन्मथकलासक्तो हरिः
पातु वः ॥”
बहुनायकनिष्ठत्वे यथा, --
“कान्तास्त एव भुवनत्रितगेऽपि मन्ये
येषां कृते सुतनु ! पाण्डुरयं कपोलः ।”
अनुभयनिष्ठत्वे यथा, --
मालतीमाधवे नन्दनस्य मालत्याम् । पश्चा-
दुभयनिष्ठत्वेऽपि प्रथममेकनिष्ठत्वे रतेराभासत्व-
मिति श्रीमल्लोचनकाराः । तत्रोदाहरणं यथा
रत्नावल्याम् । सागरिकाया अन्योऽन्यदर्शनात्
प्राक् वत्सराजे रतिः । प्रतिनायकनिष्ठत्वे यथा
हयग्रीववधे । हयग्रीवस्य जलक्रीडावर्णने ।
अधमपात्रगतत्वे यथा, --
“जघनस्थलनद्धपत्रवल्ली-
गिरिमल्लीकुसुमानि कापि भिल्ली ।
अवचित्य गिरौ पुरो निषण्णा
स्वकचानुत्कचयाञ्चकार भर्त्त्रा ॥”
तिर्य्यग्गतत्वे यथा, --
“मल्लीमतल्लीषु वनान्तरेषु
वल्ल्यन्तरे वल्लभमाह्वयन्ती ।
पञ्चद्विपञ्ची कलनादभङ्गी
सङ्गीतमङ्गीकुरुते स्म भृङ्गी ॥”
आदिशब्दात्तापसादयः । रौद्राभासो यथा, --
“रक्तोत्फुल्लविशाललोलनयनः कम्पोत्तराङ्गो
मुहु-
र्म्मुक्ताकर्णेमपेतभीर्धृतधनुर्व्वाणो हरेः पश्यतः ।
आध्मातः कटुकोक्तिभिः स्वमसकृद्दोर्व्विक्रमं
कीर्त्तयन्
अंसास्फोटपटुर्युधिष्ठिरमसौ हन्तुं प्रविष्टो-
ऽर्ज्जुनः ॥”
भयानकाभासो यथा, --
“अशक्नुवन् सोढुमधीरलोचनः
सहस्ररश्मेरिव यस्य दर्शनम् ।
प्रविश्य हेमाद्रिगुहागृहान्तरं
निनाय विभ्यद्दिवसानि कौशिकः ॥”
स्त्रीनीचविषयमेव हि भयं रसप्रकृतिः । एव-
मन्यत्र । इति साहित्यदर्पणे ३ परिच्छेदः ॥

रसाम्लं, क्ली, (रसात्मकोऽम्लो यत्र ।) वृक्षाम्लम् ।

इति राजनिर्घण्टः ॥ चुक्रम् । इति भावप्रकाशः ॥

रसाम्लः, पुं, (रसेन सह अम्लो यत्र ।) अम्लवेतसः ।

इति राजनिर्घण्टः ॥

रसायकः, पुं, (रसं रसत्वमयति प्राप्नोति इति ।

अय + ण्वुल् ।) तृणविशेषः । इति शब्द-
चन्द्रिका ॥

रसायनं, क्ली, कटिः । इति राजनिर्घण्टः ॥ (रसो

दुग्धं अयनं मूलं यस्येति ।) तक्रम् । इति हेम-
चन्द्रः ॥ विषम् । (रसा रसरक्तादय ईयन्ते
प्राप्यन्ते अनेनेति । इ + ल्युट् ।) ज्वराव्याधि-
नाशकौषधम् । इति मेदिनी ॥ (यथा, माधे ।
२ । ९३ ।
“षाड्गुण्यमुपयुञ्जीत शक्त्यपेक्षं रसायनम् ।
भवन्त्यस्यैवमङ्गानि स्थास्नूनि बलवन्ति च ॥”)
“न सूतेन विना कान्तं न कान्तेन विना रसः ।
सूतकान्तसमायोगात् रसायनमुदीरितम् ॥”
इति राजनिर्घण्टः ॥ * ॥
अथ रसायनाधिकारः । तत्र रसायनस्य
लक्षणमाह ।
“यज्जराव्याधिविध्वंसि वयसस्तम्भकन्तथा ।
चक्षुष्यं वृंहणं वृष्यं भेषजं तद्रसायनम् ॥”
रसायनस्य फलमाह ।
“दीर्घमायुः स्मृतीर्मेधामारोग्यं तरुणं वयः ।
देहेन्द्रियबलं कान्तिं नरो विन्देद्रसायनात् ॥”
तद्विधिमाह ।
“पूर्व्वे वयसि मघ्ये वा मनुष्यस्य रसायनम् ।
प्रयुञ्जीत भिषक् प्राज्ञः स्निग्धशुद्धतनोः सदा ॥
नाविशुद्धशरीरस्य युक्तो रासायनो विधिः ।
न भाति वाससि श्लिष्टे रङ्गयोग इवाहितः ॥”
पृष्ठ ४/१०७
अथ तदुदाहरणानि ।
“शीतोदकं पयः क्षौद्रं घृतमेकैकशो द्विशः ।
त्रिशः समस्तमथवा प्राक् पीतं स्थापयेद्वयः ॥
मण्डूकपर्ण्याः स्वरसः प्रभाते
प्रयोज्य यष्टीमधुकस्य चूर्णम् ।
रसो गुडुच्यास्तु समूलपुष्पः
कल्कः प्रयोज्यः खलु शङ्खपुष्प्याः ॥
आयुःप्रदान्यामयनाशनानि
बलाग्निवर्णस्वरवर्द्धनानि ।
मेध्यानि चैतानि रसायनानि
मेध्या विशेषेण च शङ्खपुष्पी ॥”
मण्डूकपर्णी ब्राह्मी । वरभी इति लोके । तदलाभे
मञ्जिष्ठापि ग्राह्या । तस्या अपि रसायनत्वात् ।
“माक्षिकेण तुगाक्षीर्य्या पिप्पल्या लवणेन च ।
त्रिफला सितया वापि युक्ता सिद्धं रसायनम् ॥
सिन्धूत्थशर्कराशुण्ठीकणामधुगुडैः क्रमात् ।
वर्षादिष्वभया प्राश्या रसायनगुणैषिणा ॥
पुनर्नवस्यार्द्धपलं नवस्य
पिष्टं पिबेद्यः पयसार्द्धमासम् ।
मासत्रयं तत्त्रिगुणं समां वा
जीर्णोऽपि भूयः स पुनर्नवः स्यात् ॥
ये मासमेकं स्वरसं पिबन्ति
दिने दिने भृङ्गरजःसमुत्थम् ।
क्षीराशिनस्ते बलवीर्य्ययुक्ताः
समाशतं जीवनमाप्नुवन्ति ॥
शतावरी मुण्डितिका गुडूची
सहस्तिकर्णा सहतालमूली ।
एतानि कृत्वा समभागयुक्ता-
न्याज्येन किंवा मधुनावलिह्यात् ॥
जरारुजामृत्युवियुक्तदेहो
भवेन्नरो वीर्य्यबलादियुक्तः ।
विभाति देवप्रतिमः स नित्यं
प्रभामयो भूरिविवृद्धबुद्धिः ॥
पीताश्वगन्धा पयसार्द्धमासं
घृतेल तैलेन सुखाम्बुना वा ।
वीर्य्यस्य पुष्टिं वपुषो विधत्ते
बालस्य शस्यस्य यथाम्बुवृष्टिः ॥
अयःपलं गुग्गुलुरत्र योज्यः
पलत्रयं व्योषपलानि पञ्च ।
पलानि चाष्टौ त्रिफलारजश्च
कर्षं लिहन् यात्यमरत्वमेव ॥”
लोहगुग्गुलुः ।
“न केवलं दीर्घमिहायुरश्रुते
रसायनं यो विविधं निषेवते ।
गतिं स देवर्षिनिषेवितां शुभां
प्रपद्यते ब्रह्म तथैव चाक्षयम् ॥”
इति रसायनाधिकारे भावप्रकाशः ॥
(तथा च ।
“लाभोपायोहिशस्तानां रसादीनां रसायनम् ।
पूर्व्वे वयसि मध्ये वा तत् प्रयोज्यं जितात्मनः ।
स्निग्धस्य स्रुतरक्तस्य विशुद्धस्य च सर्व्वथा ॥
नाविशुद्धे शरीरे हि युक्तो रासायनो विधिः ।
वाजीकरो वा मलिने वस्त्रे रङ्ग इवाफलः ॥”
“रसायनानां द्विविधं प्रयोगमृषयो विदुः ।
कुटीप्रावेशिकं मुख्यं वातातपिकमन्यथा ॥
निर्व्वाते निर्भये हर्म्ये प्राप्योपकरणे पुरे ।
दिश्युदीच्यां शुभे देशे त्रिगर्भां सूक्ष्मलोचनाम् ॥
धूमातपरजोव्यालस्त्रीमूर्खाद्यविलङ्घिताम् ।
सज्जवैद्योपकरणां सुमृष्टां कारयेत् कुटीम् ॥
अथ पुण्येऽह्नि संपूज्य पूज्यांस्तां प्रविशेच्छुचिः ।
तत्र संशोधनैः शुद्धः सुखी जातबलः पुनः ॥
ब्रह्मचारी धृतियुतः श्रद्दधानो जितेन्द्रियः ।
दानशीलदयासत्यव्रतधर्म्मपरायणः ॥
देवतानुस्मृतो युक्तो युक्तस्वप्नप्रजागरः ।
प्रियौषधः पेशलवाक् प्रारभेत रसायनम् ॥
हरीतकीमामलकं सैन्धवं नागरं वचाम् ।
हरिद्रां पिप्पलीं वेल्लं गुडञ्चोष्णाम्बुना पिबेत् ॥
स्निग्धः स्विन्नो नरः पूर्ब्बं तेन साधु विरिच्यते ।
ततः शुद्धशरीराय कृतसंसर्ज्जनाय च ॥
त्रिरात्रं पञ्चरात्रं वा सप्ताहं वा घृतान्वितम् ।
दद्याद्यावकमाशुद्धेः पुराणशकृतोऽथ वा ॥
इत्थं संस्कृतकोष्ठस्य रसायनमुपाहरेत् ।
यस्य यद्यौगिकं पश्येत् सर्व्वमालोच्य सात्म्य-
वित् ॥”
“कुटीप्रवेशः क्षणिनां परिच्छदवतां हितः ।
अतोऽन्यथा तु ये तेषां सूर्य्यमारुतिकोविधिः ॥
वातातपसहायोगा वक्ष्यन्तेऽतो विशेषतः ।
सुखोपचारा भ्रंशेऽपि ये न देहस्यवाधकाः ॥”
इत्युत्तरस्थानीयबाग्भटे ३९ अध्याये ॥
विशेषस्तु तस्मिन्नध्याये ज्ञातव्यः ॥ * ॥ रसः
पारदः लक्षणया तज्जातीय-हरितालादिकञ्च
अयनं आश्रय उपायो वा यस्य तत् । स्वर्णादि-
करणम् ।
अथरसायने ईश्वर उवाच ।
“गोमूत्रं हरितालञ्च गन्धकञ्च मनःशिलाम् ।
समं समं गृहीत्वा तु यावत् शुष्यति पेषयेत् ॥
एकादशदिनं यावत् यत्नेन रक्षयेत् शुचिः ।
मन्त्रेण धूपदीपादिनैवेद्यैर्दुग्धमिश्रितैः ॥
मन्त्रस्तु ॐ हरिहराय रसायनं सिद्धिं कुरुकुरु
स्वाहा । अयुतजपेन सिद्धिः ।
तद्वटीं गोलकं कृत्वा वस्त्रेणावेष्टयेत् पुनः ।
मृत्तिकां लेपयेत्तस्य च्छायाशुष्कन्तु कारयेत् ॥
गर्त्ते कुण्डे विनिक्षिप्ते पलाशकाष्टवह्निना ।
ज्वालयेदष्टयामन्तु नान्यथा शङ्करोदितम् ॥
तद्भस्म जायते सिद्धिर्व्विद्धि सिद्धिसमाकुलम् ।
ताम्रपात्रे अग्निमध्ये बिन्दुमात्रं नियच्छति ॥
तत्क्षणाज्जायते स्वर्णं नान्यथा शङ्करोदितम् ।
दातव्यं गुरुभक्ताय न दद्याद्दुष्टमानसे ।
सिद्धपीठे भवेत्सिद्धिर्गायत्त्रीलक्षजापनैः ॥
यस्मै कस्मै न दातव्यं दातव्यं शिवभक्तके ।
अग्निमुखं द्विजातीनां पाचकानां विशेषतः ॥
गोप्यं गोप्यं महागोप्यं देवानामपि दुर्लभम् ॥”
प्रकारान्तरम् ।
“आनीय बहुयत्नेन सम्बलं तोलकद्वयम् ।
वसुराद्यं शिवञ्चाद्यं मायाबिन्दुसमन्वितम् ॥
बीजत्रयञ्चाष्टशतं प्रजपेत् सम्बलोपरि ।
अशीतितोलकमानं कृष्णधेनुसमुद्भवम् ॥
दुग्धमानीय यत्नेन चाष्टोत्तरशतं जपेत् ।
वस्त्रयुक्तेन सूत्रेण दुग्धमध्ये विनिक्षिपेत् ॥
उत्तापं ज्वालयेद्धीमान् मन्दमन्देन बह्निना ।
रिपुर्वेदार्द्धपर्य्यन्तमर्द्धशोषं भवेद्यदि ॥
तदैवोत्तोल्य तद्द्रव्यं दुग्धं तोये विनिक्षिपेत् ॥”
ततः परीक्षा कर्त्तव्या ।
“निर्धूभं पावके द्रव्यं दृष्ट्वा उत्थाप्य यत्नतः ।
तत्रैव प्रजपेन्मन्त्रं सर्व्वबन्धनमात्मकम् ॥
सार्द्धेन तोलकं ताम्रं दृष्ट्वा उत्थाप्य यत्नतः ।
गुञ्जाप्रमाणं तद्द्रव्यं सत्यं सत्यं हि शङ्करि ! ।
रौप्यं भवति तद्रव्यं नान्यथा शङ्करोदितम् ॥”
प्रकारान्तरम् ।
“कृष्णसर्पमेकं गृहीत्वा तस्य मुखे शिववीर्य्यं पूर-
यित्वा सर्पस्य मुखं गुदञ्च बद्धा नूतनमृण्मय-
स्थालीमध्ये संस्थाप्य स्थालीमुखं मृदादिना
संलिप्य निर्ज्जनस्थाने प्रातरारभ्य पुनःप्रात-
र्यावत् बह्निना ज्वालं दद्यात् । ततः शुभक्षणे
स्थालीमुखमुद्धृत्य सर्पभस्म विहाय शिववीर्य्यं
गृह्णीयात् । ततस्तोलकमितं ताम्रं गालयित्वा
तस्मिन् गालितताम्रे रक्तिकमात्रं तत् शिववीर्य्यं
दद्यात् तेन तत्क्षणादेव तत्ताम्रं सुवर्णीभूतम् ।
आदौ शिवार्च्चनं कृत्वा पश्चात् प्रयोग एष
कर्त्तव्यः ॥” इति दत्तात्रेयतन्त्रे ईश्वरदत्तात्रेय-
संवादे रसायनं नाम त्रयोदशः पटलः ॥)

रसायनः, पुं, गरुडः । बिडङ्गः । इति मेदिनी ॥

रसायनफला, स्त्री, (रसायनेन फलति या ।

फल् + अच् । टाप् ।) हरीतकी । इति
त्रिकाण्डशेषः ॥

रसायनश्रेष्ठः, पुं, (रसायनेषु श्रेष्ठः ।) पारदः ।

इति राजनिर्घण्टः ॥

रसायनी, स्त्री, (रसान् तैलादीन् अयते

प्राप्नोतीति । अय् + ल्युः । ङीष् ।) गुडूची ।
काकमाची । महाकरञ्जः । गोरक्षदुग्धा ।
मांसच्छदा । इति राजनिर्घण्टः ॥ (मञ्जिष्ठा ।
अस्याः पर्य्यायो यथा, --
“मञ्जिष्ठा विकसा जिङ्गी समङ्गा कालमेषिका ।
मण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि ॥
रसायन्यरुणा काला रक्ताङ्गी रक्तयष्टिका ।
भण्डीतकी च गण्डीरी मञ्जूषा वस्त्ररञ्जिनी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

रसालं, क्ली, (रसं आलातीति । आ + ला +

कः ।) सिह्लकम् । बीलम् । इति मेदिनी ॥

रसालः, पुं, (रसं आलाति गृह्णाति । आ + ला +

कः ।) इक्षुः । आम्रः । इत्यमरः ॥ (यथा,
साहित्यदर्पणे १० परिच्छेदे अतिशयोक्त्यलङ्कारे ।
“प्रागेव हरिणाक्षीणां चित्तमुत्कलिकाकुलम् ।
पाश्चादुद्भिन्नवकुलरसालमुकुलश्रियः ॥”)
पनसः । इति शब्दरत्नावली ॥ कुन्दरतृणम् ॥
गोधूमः । पुण्ड्रकनामेक्षुः । इति राजनिर्घण्टः ।