शब्दकल्पद्रुमः/बलिष्णुः

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ३/४०९

बलिष्णुः, त्रि, (बल्यते वध्यते इति । बल + इष्णुः ।)

अपमानितः । इत्युणादिकोषः ॥

ब(व)लिसद्म, [न्] क्ली, (बलेस्तदाख्यदत्यस्य सद्म

निकेतनम् ।) रसातलम् । इत्यमरः । १ । ८ । १ ॥

ब(व)लिहा, [न्] पुं, (बलिं हन्ति इति । बलि +

हन् + क्विप् । वामनरूपेण बलेः सर्व्वस्वग्रहणा-
दस्य तथात्वम् ।) विष्णुः । इति हेमचन्द्रः ॥

ब(व)ली, [न्] पुं, (बलमस्यास्तीति । बल + “बला-

दिभ्यो मतुबन्यतरस्याम् ।” ५ । २ । १३६ । इति
पक्षे इनिः ।) बलरामः । इति शब्दरत्नावली ॥
उष्ट्रः । महिषः । वृषभः । शूकरः । कफः ।
कुन्दवृक्षः । इति जटाधरः ॥ माषः । (स्वनाम-
ख्यातो वत्सप्रीपुत्त्रः । यथा, मार्कण्डेये । ११८ ।
२ ।
“बली बलाकश्चण्डश्च प्रचण्डश्च सुविक्रमः ॥”)
बलयुक्ते, त्रि । तत्पर्य्यायः । अंशलः २ निर्द्दिग्धः
३ मांसलः ४ उपचितः ५ । इति हेमचन्द्रः ।
३ । ११२ ॥ (यथा, मार्कण्डेये । ३४ । ८९ ।
“सार्द्धं न बलिभिः कुर्य्यान्न च न्यूनैर्न
निन्दितैः ॥”)

ब(व)ली, स्त्री, (बलि + पक्षे ङीष् ।) बलिः । जरया

श्लथचर्म्म । इत्यमरटीकायां भरतः ॥ (यथा, --
“कुष्ठं सुचूर्णितं कृत्वा घृतमाक्षिकसंयुतम् ।
भक्षणात् स्वप्नवेलायां बलीपलितनाशनम् ॥”
इति वैद्यकभैषज्यधन्वन्तरौ रसायनाधिकारे ॥)

ब(व)लीकं, क्ली, (बलति संवृणोतीति । बल संव-

रणे + “अलीकादयश्च ।” उणा ० ४ । २५ । इति
कीकन् ।) पटलप्रान्तम् । इत्यमरः । २ । २ ।
१४ ॥ छाँचि इति भाषा ॥ (यथा, माघे ।
३ । ५३ ।
“यस्यामसेवन्त नमद्बलीकाः
समं बधूभिर्वलभीर्युवानः ॥”)

ब(व)लीमुखः, पुं, (बलीयुक्तं मुखं यस्य ।) वानरः ।

इत्यमरः । २ । ५ । ३ ॥

ब(व)लीयान्, [स्] त्रि, (अतिशयेन बलवान् । बल-

वत् + ईयसुन् ।) अतिशयबलयुक्तः । यथा, --
“आगमादेशयोर्मध्ये बलीयानागमो विधिः ॥”
इति दुर्गादासटीका ॥

ब(व)लीवर्द्दः, पुं, (ईर्लक्षीः वर् वरणम् । वर्

ईप्सायां क्विप् । ईश्च वर् च ईवरौ तौ ददातीति
ईवर्द्दः । बलमस्यास्तीति बली । ततो बली च
ईवर्द्दश्च इति ।) वृषः । इत्यमरः । २ । ९ । ५९ ॥
(यथा, कथासरित्सागरे । २० । २७ ।
“संयोज्याथ बलीवर्द्दयुगं रचितमङ्गलः ।
कृत्वा बलिं तस्य तरोरारेभे कृषिमत्र सः ॥”)
तीर्थयात्रायां तदारूढस्य दोषो यथा, --
“बलीवर्द्दसमारूढः शृणु तस्यापि यत् फलम् ।
नरके वसते षोरे गवां क्रोधे हि दारुणे ॥
सलिलञ्च न गृह्णन्ति पितरस्तस्य देहिनः ॥”
इति मात्स्ये ८८ अध्यायः ॥

ब(व)ल्यं, क्ली, (बलाय हितम् । बल + “बुञ्छण्

कठजिलसेनिरढञ्ण्ययेति ।” ४ । २ । ८० । इति
यः ।) प्रधानधातुः । शुक्रम् । बलकरे, त्रि ।
इति मेदिनी । ये, ४० ॥ (यथा, --
“कट्वम्लवीर्य्यो लशुनो हितश्च
स्निग्धो गुरुस्वादुरसोऽथ बल्यः ॥”
इति हारीते कल्पस्थाने तृतीयेऽध्याये ॥)

बल्यः, पुं, (बलाय मुक्तये हितः । बल + यः ।)

बुद्धभिक्षुकः । इति त्रिकाण्डशेषः ॥

बल्या, स्त्री, (बलाय हिता । बल + “वुञ्छण्-

कठेति ।” ४ । २ । ८० । इति यः । ततष्टाप् ।)
अतिबला । अश्वगन्धा । शिम्रीडीक्षुपः ।
प्रसारिणी । इति राजनिर्घण्टः ॥

बल्ह, ङ स्तृतौ । हिंसायाम् । दाने । वाचि ।

इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-
सेट् ।) अन्तः स्थतृतीयोपधः । ङ, बल्हते ।
इति दुर्गादासः ॥

बष्कयणी स्त्री, (बष्कयस्तरुणवत्सः । सोऽस्ति

अस्याः । बष्कय + पामादित्वान्नः
पक्षे इनिः । अट्कुप्वाङिति णत्वम् । ततो
ङीष् ।) चिरप्रसूता गौः । इत्यमरभरतौ ॥
(यथा, सिद्धान्तकौमुद्याम् । २ । १ । ६५ ।
“पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्बष्क-
यणीप्रवक्तृश्रोत्रियाध्यापकधूर्त्तैर्जातिः ॥”)

बष्कयिणी स्त्री, (बष्कयस्तरुणवत्सः । सोऽस्ति

अस्याः । बष्कय + पामादित्वान्नः
पक्षे इनिः । अट्कुप्वाङिति णत्वम् । ततो
ङीष् ।) चिरप्रसूता गौः । इत्यमरभरतौ ॥
(यथा, सिद्धान्तकौमुद्याम् । २ । १ । ६५ ।
“पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्बष्क-
यणीप्रवक्तृश्रोत्रियाध्यापकधूर्त्तैर्जातिः ॥”)

बहु, त्रि, (बंहते इति । बहि वृद्धौ + “लङ्घिबंह्योर्न

लोपश्च ।” उणा० १ । ३० । इति कुर्नलोपश्च ।)
त्र्यादिसंख्या ॥ अनेकम् । विपुलः । इति
मेदिनी । हे, ६ ॥ तत्पर्य्यायः । प्रभूतम् २
प्रचुरम् ३ प्राज्यम् ४ अदभ्रम् ५ बहुलम् ६
पुरुहम् ७ पुरु ८ भूयिष्ठम् ९ स्फिरम् १० भूयः
११ भूरि १२ । इत्यमरः । ३ । १ । ६३ ॥ तद्-
वैदिकपर्य्यायः । उरु १ तुवि २ पुरु ३ भूरि
४ शश्वत् ५ विश्वम् ६ परिणसा ७ व्यानसिः ८
शतम् ९ सहस्रम् १० सलिलम् ११ कुवित् १२ ।
इति द्वादश बहुनामानि । इति वेदनिघण्टौ ।
३ । १ ॥ (यथा, मनुः । ७ । ८६ ।
“अल्पं वा बहु वा प्रेत्य दानस्यावाप्यते फलम् ॥”
तथा, तत्रैव । ८ । ७७ ।
“एकोऽलुब्धस्तु साक्षी स्याद्वह्व्यः शुच्योऽपि न
स्त्रियः ॥”
बहुमतम् । बहुमानम् । यथा, रघुः । १२ । ८९ ।
“रामस्तुलितकैलासमरातिं बह्वमन्यत ॥”)

बहुकः पुं, (बहु + संज्ञायां कन् ।) कर्कटः । अर्कः ।

दात्यूहः । जलखातकः । इति मेदिनी । के,
१२९ ॥ (“संख्यायाः अतिशदन्तायाः कन् ।” ५ ।
१ । २२ । इति कन् । बहुभिः क्रीते, त्रि ।)

बहुकण्टकः, पुं, (बहूनि कण्टकान्यस्य ।) क्षुद्र-

गोक्षुरः । यवासः । हिन्तालः । इति राज-
निर्घण्टः ॥

बहुकण्टका, स्त्री, (बहूनि कण्टकान्यस्याः ।)

अग्निदमनी । इति राजनिर्घण्टः ॥

बहुकण्टा, स्त्री, (बहवः कण्टाः कण्टकानि

यस्याः ।) कण्टकारी । इति राजनिर्घण्टः ॥
(विवृतिरस्याः कण्टकारीशब्दे ज्ञातव्या ॥)

बहुकन्दः, पुं, (बहवः कन्दा यस्य ।) शूरणः ।

इति राजनिर्घण्टः ॥

बहुकन्दा, स्त्री, (बहवः कन्दा यस्याः ।) कर्कटी ।

इति राजनिर्घण्टः ॥

बहुकरः, पुं, (बहु कार्य्यं करोतीति । बहु + कृ +

“दिवाविभानिशाप्रभेति ।” ३ । २ । २१ । इति
टः ।) उष्ट्रः । इति त्रिकाण्डशेषः ॥

बहुकरः, त्रि, (बहु करोति भुवं संमार्ष्टि इति ।

बहु + कृ + टः ।) मार्जनकारी । तत्पर्य्यायः ।
खलपूः २ । इत्यमरः । ३ । १ । १७ ॥ भूमि-
सम्मार्ज्जकः ३ । इति शब्दरत्नावली ॥ बहु-
कार्य्यकर्त्ता । यथा, भट्टिः । ५ । ७८ ।
“निहन्ता वैरकाराणां सतां बहुकरः सदा ।
पारश्वधिकरामस्य शक्तेरन्तकरो रणे ॥”

बहुकरी, स्त्री, (बहु करोति भुवं संमार्ष्टि इति ।

बहु + कृ + टः । ङीष् ।) सम्मार्ज्जनी । इति
हेमचन्द्रः । ४ । ८२ ॥

बहुकर्णिका, स्त्री, (बहवः कर्णा इव पत्राणि

यस्याः ।) आखुकर्णी । इति राजनिर्धण्टः ॥

बहुकूर्च्चः, पुं, (बहूनि कूर्च्चानि यस्य ।) मधुनालि-

केरिकः । इति राजनिर्घण्टः ॥

बहुगन्धं, क्ली, (बहुर्गन्धो यस्मिन् ।) त्वचम् ।

इति राजनिर्घण्टः ॥ (दारचिनी इति भाषा ॥)

बहुगन्धः, पुं, (बहुर्गन्धो यस्मिन् ।) कुन्दरुकः ।

इति राजनिर्घण्टः ॥ (उग्रगन्धे, त्रि ॥)

बहुगन्धदा, स्त्री, (बहुगन्धं ददाति या । बहु-

गन्ध + दा + क ।) कस्तूरी । इति राजनिर्घण्टः ॥
(गुणादयोऽस्याः कस्तूरीशब्दे ज्ञातव्याः ॥)

बहुगन्धा, स्त्री, (बहुर्गन्धो यस्याम् ।) चम्पक-

कलिः । यूथिका । कृष्णजीरकः । इति राज-
निर्घण्टः ॥

बहुगर्ह्यवाक्, [च्] त्रि, (बहु गर्ह्या बहु निन्दिता

वाग् यस्य ।) कुत्सितबहुवादी । इत्यमरः ॥

बहुग्रन्थिः, पुं, (बहवो ग्रन्थयो यस्य ।) झावुकः ।

इति शब्दचन्द्रिका ॥ (झाउ इति भाषा ॥)

बहुच्छिन्ना, स्त्री, (बहु यथा स्यात्तथा छिद्यते

स्मेति । बहु + छिद् + क्त ।) कन्दगुडूची ।
इति राजनिर्घण्टः ॥

बहुतः [स्] व्य, (बहुभ्य इत्यर्थे बहुशब्दात् “पञ्चा-

म्यास्तसिल् ।” ५ । ३ । ७ । इति तसिल्प्रत्ययः ॥)
बहुभ्यः ॥

बहुतन्त्रिः, त्रि, (बहवस्तन्त्रयो यस्य ।) बहुतन्त्र-

विशिष्टः । यथा । बहुतन्त्रिः कायः । बहुतन्त्री
ग्रीवा । बहुतन्त्रि गात्रम् । यथा च । विभज्य
नक्तं दिवमस्ततन्त्रिणेति किराते ह्रस्वेकारान्त-
तन्त्रिशब्दस्य प्रयोगः । इति संक्षिप्तसारः ॥

बहुतन्त्रीः, त्रि, (बहवस्तन्त्र्यो यस्मिन् ।) बहुतन्त्र-

विशिष्टः । यथा । बहुतन्त्रीर्ग्रीवा बहुतन्त्री-
र्धमनी । इति सिद्धान्तकौमुदी ॥ एवं बहुतन्त्रीः
कायः । बहुतन्त्रि गात्रम् ॥

बहुतन्त्रीकः, त्रि, (बहुतन्त्री + स्वार्थे कन् ।) बहु-

तन्त्रविशिष्टः । यथा । बहुतन्त्रीका वीणा ।
पृष्ठ ३/४१०
इति सिद्धान्तकौमुदी ॥ एवं बहुतन्त्रीकः पटः ।
बहुतन्त्रीकं वस्त्रम् ॥

बहुतरकणिशः, पुं, (बहुतराणि कणिशानि धान्य-

शीर्षाणि यस्य ।) रागीधान्यम् । इति राज-
निर्घण्टः ॥

बहुता, स्त्री, बहूनां भावः । बहुशब्दात् तत्वौ

भावे इति तप्रत्ययः ॥

बहुतिक्ता, स्त्री, (बहुस्तिक्तो रसो यस्याः ।)

काकमाची । इति राजनिर्घण्टः ॥

बहुतिथः, त्रि, (बहु + “बहुपूगगणसङ्घस्य

तिथुक्” । ५ । २ । ५२ । इति तिथुक् । मुग्ध-
बोधमते “बहुगणपूगसंघातास्तिथट् तलोपश्च ।”
७ । ४२ । इति तिथट् ।) बहूनां पूरणः ।
इति व्याकरणम् ॥ (यथा, मार्कण्डेयपुराणे ।
२२ । १ ।
“ततः काले बहुतिथे गते राजा पुनः सुतम् ।
प्राह गच्छाशु विप्राणां त्राणाय चर
मेदिनीम् ॥”)

बहुत्र, व्य, (बहु + “सप्तम्यास्त्रल् ।” ५ । ३ । १० ।

इति त्रल् ।) बहुषु । इति सिद्बान्तकौमुदी ॥

बहुत्वं, क्ली, बहूनां भावः । बहुशब्दात् त्वप्रत्ययेन

निष्पन्नम् ॥ (यथा, महाभारते । १ । ३५ । ४ ।
“बहुत्वान्नामधेयानि पन्नगानां तपोधन ! ॥”)

बहुत्वक्, [च्] पुं, (बहवस्तचो यस्य ।) भूर्ज-

वृक्षः । इति शब्दरत्नमाला ॥

बहुत्वक्कः, पुं, (बहुत्वगेव । बहुत्वच् + स्वार्थे कन् ।

भूर्जवृक्षः । इति हेमचन्द्रः । ४ । २१० ॥

बहुदण्डिकः, त्रि, (बहवो दण्डाः सन्त्यस्य । बहु-

दण्ड + ठन् ।) बहुदण्डविशिष्टः । यथा । बहु-
दण्डिका नगरी बहुदण्डिको ग्रामः । इति
सिद्धान्तकौमुदी ॥

बहुदुग्धः, पुं, (बहूनि दुग्धानि अपक्वावस्थायां

यस्य । यद्वा, बहूनि दुग्धानीव शुक्लवस्तून्यस्य ।)
गोधूमः । इति राजनिर्घण्टः ॥

बहुदुग्धा, स्त्री, (बहु दुग्धं यस्याः ।) बहुक्षीरा

गौः । तत्पर्य्यायः । व्यञ्जुला २ । इति हेमचन्द्रः ।
४ । ३३५ ॥ (स्नुहीवृक्षः । बहुदुग्ध विशिष्ट-
त्वात् ॥)

बहुदुग्धिका, स्त्री, (बहुदुग्धा + स्वार्थे कन् ।

टाप् । अत इत्वम् ।) स्नुहीवृक्षः । इति शब्द
चन्द्रिका ॥

बहुधा, व्य, (बहु + “विभाषा बहोर्धा विप्र-

कृष्टकाले ।” ५ । ४ । २० । इति धा ।) बहु-
प्रकारम् । इति व्याकरणम् ॥ (यथा, ऋग्वेदं ।
१ । १६४ । ४६ ।
“एकं सद्विप्रा बहधा वदन्त्यग्निं यमं मातरि-
श्वानमाहुः ॥”
तथा, गीतायाम् । ९ । १५ ।
“एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥”
“केचित्तु विश्वतो मुखं सर्व्वात्मकं मां बहुधा
ब्रह्मरुद्गादिरूपेणोपासते ॥” इति तट्टीकायां
श्रीधरस्वामी ॥)

बहुधारं, क्ली, (बह्वी धारा यस्य ।) वज्रम् । इति

राजनिर्घण्टः ॥

बहुनाडिकः, त्रि, (बहुनाडि + कन् ।) कायः ।

इति सिद्धान्तकौमुदी ॥

बहुनाडीकः, त्रि, (बह्व्यो नाड्यो यस्मिन् । बहु-

नाडी + कप् ।) दिवसः । इति संक्षिप्तसारः ॥
स्तम्भः । इति सिद्धान्तकौमुदी ॥

बहुनादः, पुं, (बहुर्महान् नादः शब्दो यस्य ।)

शङ्खः । इति राजनिर्घण्टः ॥

बहुपटुः, त्रि, ईषदूनः पटुः । इति व्याकरणम् ॥

बहुषु कर्म्मसु दक्षश्च ।

बहुपत्रं, क्ली, (बहूनि पत्राण्यस्य ।) अभ्रकम् ।

इति राजनिर्घण्टः ॥

बहुपत्रः, पुं, (बहूनि पत्राणि दलान्यस्य ।)

पलाण्डः । इति राजनिर्घण्टः ॥ अनेकपत्रयुक्ते,
त्रि ॥

बहुपत्रा, स्त्री, (बहुपत्र + टाप् ।) तरुणी-

पुष्पम् । इति राजनिर्घण्टः ॥ (भूम्यामलकी ।
तत्पर्य्यायो यथा, --
“भूम्यामलकिका प्रोक्ता शिवा तामलकीति च ।
बहुपत्रा बहुफला बहुवीर्य्याज्झटापि च ॥”)
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

बहुपत्रिका, (बहुपत्रा + संज्ञायां स्वार्थे वा कन् ।

टापि अत इत्वम् ।) भूम्यामलकी । मेथिका ।
(अस्थाः पर्य्यायो यथा,
“मेथिका मिथिनिर्मेथिर्दीपनी बहुपत्रिका ।
बोधिनी बहुबीजा च जातिगन्धफला तथा ॥
वल्लरी चैव कामन्था मिश्रपुष्पा च कैरवी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
महाशतावरी । इति राजनिर्घण्टः ॥

बहुपत्री, स्त्री, (बहुपत्र + गौरादित्वात् ङीष् ।)

लिङ्गिनी । गृहकन्या । तुलसी । जतुका ।
वृहती । गोरक्षदुग्धा । इति राजनिर्घण्टः ॥

बहुपर्णः, पुं, (बहूनि पर्णानि पत्राणि यस्य ।)

सप्तच्छदवृक्षः । इति राजनिर्घण्टः ॥ अनेक-
पत्रयुक्ते, त्रि ॥

बहुपर्णिका, स्त्री, (बहुपर्ण + संज्ञायां कन् ।

टापि अत इत्वम् ।) आखुकर्णी । इति
राजनिर्घण्टः ॥

बहुपर्णी, स्त्री, (बहुपर्ण + गौरादित्थात् ङीष् ।)

मेथिका । इति राजनिर्घण्टः ॥ (यथा, --
“मेथिका मिथिनिर्मेथिर्दीपनी बहुपत्रिका ।
बोधिनी बहुबीजा च जातिगन्धफला तथा ॥
वल्लरी चैव कामन्था मिश्रपुष्पा च कैरवी ।
कुञ्जिका बहुपर्णी च पित्तजिद्वायुनुद्दिधा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डेप्रथमे भागे ॥)

बहुपात्, [द्] पुं, (बहवः पादो यस्य । अनेक-

शिफावत्त्वादस्य तथात्वम् ।) वटवृक्षः । इत्य-
मरः । २ । ४ । ३२ ॥

बहुपादः, पुं, (बहवः पादा यस्य । अनेकशिफा-

वत्त्वादस्य तथात्वम् ।) वटवृक्षः । इति राज-
निर्घण्टः ॥ (यथा, --
“वटो रक्तफलः शृङ्गी न्यग्रोधः स्कन्धजो ध्रुवः ।
क्षीरी वैश्रवणो वासो बहुपादो वनस्पतिः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
अनेकपादविशिष्टे, त्रि । यथा, भागवते ।
४ । २९ । २ ।
“पुरुषं पुरञ्जनं विद्यात् यद्व्यनक्त्यात्मनः पुरम् ।
एकद्बित्रिचतुष्पादं बहुपादमपादकम् ॥”
तथा च महाभारते । १४ । ४२ । ३७ ।
“द्विपादबहुपादानि तिर्य्यग्गतिमतीनि च ॥”)

बहुपुत्त्रः, पुं, (बहवः पुत्त्राः सन्ततयो यस्य ।)

सप्तपर्णः । इति शब्दचन्द्रिका ॥ अनेकसुत-
विशिष्टे, त्रि ॥ (यथा, हरिवंशे । ३ । ६४ ।
“बहुपुत्त्रस्य विदुषश्चतस्रो विद्युतः स्मृताः ॥”)

बहुपुत्त्री, स्त्री, (बहवः पुत्त्राः पुत्त्रसदृशमूलानि

यस्याः ।) शतमूली । इति रत्नमाला ॥ (शत-
मूलीशब्देऽस्या विवरणं ज्ञातव्यम् ॥)

बहुपुष्पः, पुं, (बहूनि पुष्पानि यस्य ।) पारिभद्र-

वृक्षः । इति राजनिर्घण्टः ॥

बहुपुष्पिका, स्त्री, (बहुपुष्पा + संज्ञायां कन् ।

अत इत्वम् ।) धातकी । इति राजनिर्घण्टः ॥

बहुप्रजः, पुं, (बह्व्यः प्रजा यस्य ।) मुञ्जतृणम् ।

इति राजनिर्घण्टः ॥ शूकरः । इति हेम-
चन्द्रः । ४ । ३५४ ॥ बहुसन्ततिविशिष्ठे, त्रि ॥
(छन्दसि तु “बहुप्रजाच्छन्दसि ।” ५ । ४ । १२२ ।
इति अस्भागान्तः । यथा, सिद्धान्तकौमुद्यां
वैदिकप्रक्रिया ।
“बहुप्रजा निरृतिमाविवेश ॥”)

बहुप्रतिज्ञः, त्रि, (बह्व्यः प्रतिज्ञाः यस्मिन् ।)

अनेक-पदसङ्कीर्ण-पूर्ब्बपक्ष-विशिष्ट-व्यवहारः ।
यथा । “यत्तु अनेकपदसङ्कीर्णः पूर्ब्बपक्षो न
सिद्ध्यतीति । तत्र यद्यनेकवस्तुसङ्कीर्ण इत्युच्यते
तदा न दोषः । मदीयमनेन हिरण्यं वासो
रूपकादि वापहृतमित्येवंविधस्यादुष्टत्वात् ।
ऋणादानपदसङ्करे पक्षाभास इति चेत् तदपि
न मदीया रूपका अनेन वृद्ध्या गृहीताः
सुवर्णञ्चास्य हस्ते निक्षिप्तं मदीयं क्षेत्रम-
पहरति चेत्यादीनां पक्षत्वमिष्यते एव । किन्तु
क्रियाभेदात् क्रमेण व्यवहारो न युगपदित्येतावत् ।
यथाह कात्यायनः ।
‘बहुप्रतिज्ञं यत् कार्य्यं व्यवहारेषु निश्चितम् ।
कामन्तदपि गृह्णीयाद्राजा तत्त्वबुभुत्सयेति ॥’
तस्मादनेकपदसङ्कीर्णः पूर्ब्बपक्षो युगपन्न सिध्य-
तीति तस्यार्थः ।” इति मिताक्षरा ॥ अनेक-
प्रतिज्ञायुक्ते, त्रि ॥

बहुप्रदः, त्रि, (प्रददातीति प्रदः । प्र + दा + क ।

बहूनां प्रदः ।) प्रचुरदाता । तत्पर्य्यायः ।
वदान्यः २ स्थूललक्ष्यः ३ दानशौण्डः ४ । इत्य-
मरः । ३ । १ । ६ ॥ स्थूललक्षः ५ दानवीरः ६
दानपूर्णः ७ । इति शब्दरत्नावली ॥ (पुं,
महादेवः । यथा, महाभारते १३ । शिवसहस्र-
नामकथने । १७ । १०८ ।
“कुलहारी कुलकर्त्ता बहुविद्यो बहुप्रदः ॥”)
पृष्ठ ३/४११

बहुप्रसूः, स्त्री, (बहून् प्रसूते इति । बहु + प्र +

सू + क्विप् ।) बहुसन्तानप्रसवकारिणी । तत्-
पर्य्यायः । कृमिला २ । इति हेमचन्द्रः । ३ । २२२ ॥

बहुफलः, पुं, (बहूनि फलानि यस्य ।) कदम्बवृक्षः ।

इति मेदिनी । ले, १५७ ॥ विकङ्कतः । तेजः-
फलः । इति राजनिर्घण्टः ॥

बहुफला, स्त्री, (बहूनि फलानि यस्याः ।)

क्षविका । माषपर्णी । काकमाची । त्रपुसी ।
शशाण्डुली । क्षुद्रकारवेल्ली । इति राज-
निर्घण्टः ॥ भूम्यामलकी । इति भावप्रकाशः ॥

बहुफलिका, स्त्री, (बहुफला + संज्ञायां

कन् । अत इत्वम् ।) भूवदरी । इति राज-
निर्घण्टः ॥

बहुफली, स्त्री, (बहुफल + ङीप् ।) मृगेर्व्वारुः ।

इति राजनिर्घण्टः ॥ आमलकी । इति
मेदिनी । ले, १५७ ॥

बहुफेना, स्त्री, (बहुः फेनो यस्याः ।) सातला ।

इति राजनिर्घण्टः ॥

बहुबलः, पुं, (बहु अतिशयं बलं यस्य ।) सिंहः ।

इति राजनिर्घण्टः ॥ अतिशयबलयुक्ते, त्रि ॥

बहुमञ्जरी, स्त्री, (बह्व्यो मञ्जर्य्यो यस्याः ।)

तुलसी । इति भावप्रकाशः ॥

बहुमलः, पुं, (बहूनि मलानि यस्य ।) सीसकम् ।

इति रत्नमाला ॥ अनेकमलयुक्ते, त्रि ॥

बहुमार्गं, क्ली, (बहवो मार्गा यस्मिन् । चतु-

र्द्दिक्षु पथवत्त्वात् तथात्वम् ।) चत्वरम् । इति
हेमचन्द्रः । ४ । ५४ ॥ अनेकपथयुक्ते, त्रि ॥

बहुमूर्त्तिः, स्त्री, (वह्वी मूर्त्तिर्यस्याः ।) वनका

र्पासः । इति शब्दचन्द्रिका ॥ नानाकारश्च ॥
(बहुमूर्त्तिधरे त्रि । पुं, कृकलासवत् जन्तुवि-
शेषः । बहुरूपी इति ख्यातः ॥ विष्णुः । यथा,
महाभारते । १३ । १४९ । ९० ।
“अनेकमूर्त्तिरव्यक्तः शतमूर्त्तिः सनातनः ॥”

बहुमूर्द्धा, [न्] पुं, (बहवो मूर्द्धानो यस्य । “सहस्र-

शीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।” इति श्रुते-
स्तथात्वम् ॥) विष्णुः । इति शब्दरत्नावली ॥

बहुमूलः, पुं, (बहूनि मूलानि यस्य ।) इक्वटः ।

इति त्रिकाण्डशेषः ॥ (अस्य पर्य्यायो यथा, --
“इक्कटो बहुमूलश्च वाटीदीर्घः खरच्छदः ॥”
इति वैद्यकरत्नमालायाम् ॥)
शिग्रुः । स्थूलसरः । इति राजनिर्घण्टः ॥
अनेकमूलयुक्ते, त्रि ॥

बहुमूलकं, क्ली, (बहुमूल + कन् ।) उशीरम् ।

इति भावप्रकाशः ॥ (वीरणम् । तत्पर्य्यायो
यथा, --
“स्याद्वीरणं वीरतरुर्वीरञ्च बहुमूलकम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

बहुमूलकः, पुं, (बहुमूल एव । बहुमूल +

स्वार्थे कन् ।) इक्कटः । इति जटाधरभूरि-
प्रयोगौ ॥

बहुमूला, स्त्री, (बहुमूल + टाप् ।) शतावरी ।

इति राजनिर्घण्टः ॥

बहुमूली, स्त्री, (बहुमूल + ङीप् ।) माकन्दी ।

इति राजनिर्घण्टः ॥

बहुमूल्यं, त्रि, (बहूनि मूल्यानि यस्य ।)

महार्घवस्तु । तत्पर्य्यायः । महाधनम् २ ।
इत्यमरः । २ । ६ । ११३ ॥

बहुरन्ध्रिका, स्त्री, (बहूनि रन्ध्राणि यस्याः । बहु-

रन्ध्र + टाप् । संज्ञायां कन् । टापि अत
इत्वम् ।) मेदा । इति राजनिर्घण्टः ॥

बहुरसा, स्त्री, (बहू रसो यस्याः ।) महाज्योति-

ष्मती । इति राजनिर्घण्टः ॥ (रसवती स्त्री ॥)

बहुरुहा, स्त्री, (बहु यथा तथा रोहतीति । रुह्

+ क । टाप् ।) कन्दगुडूची । इति राज-
निर्घण्टः ॥

बहुरूपः, पुं, (बहूनि रूपाणि यस्य ।) सर्जरसः ।

इत्यमरः । २ । ६ । १२८ ॥ शिवः । विष्णुः ।
कामदेवः । सरटः । इति मेदिनी । के, २७ ॥
ब्रह्मा । केशः । इति शब्दरत्नावली ॥ (रुद्रः ।
यथा, भागवते । ६ । ६ । १८ ।
“अजैकपादहिव्रघ्नो बहुरूपो महानिति ॥”
प्रियव्रतपुत्त्रस्य मेधातिथेः पुत्त्रभेदो वर्षभेदश्च ।
यथा, भागवते । ५ । २० । २५ । “तस्यापि प्रैय-
व्रत एवाधिपतिर्नाम्ना मेधातिथिः सोऽपि
विभज्य सप्त वर्षाणि पुत्त्रनामानि तेषु स्वात्म-
जान् पुरोजव-मनोजव-पवमान-धूम्रानीक-
चित्ररेफ बहुरूप-विश्वाधारसंज्ञन् ।” इति ॥)
बुद्धविशेषः । इति त्रिकाण्डशेषः ॥ नानारूप-
युक्ते, त्रि ॥ (यथा, मनुः । १ । ४९ ।
“तमसा बहुरूपेण वेष्टिताः कर्म्महेतुना ॥”)

बहुरूपकः, पुं, (बहुरूप + स्वार्थे कन् ।) जाहक-

जन्तुः । इति राजनिर्घण्टः ॥

बहुरूपा, स्त्री, (बहुरूपस्य शिवस्य स्त्री । टाप् ।)

दुर्गा । यथा, --
“अरूपा परभावत्वाद्बहुरूपा क्रियात्मिका ।
जाता शैलेन्द्रगेहे सा शैलराजसुता ततः ॥”
इति देवीपुराणे ४५ अध्यायः ॥

बहुरेखा स्त्री, (बह्वी बहुला रेखा करस्थादि-

चिह्नम् ।) प्रचुरदीर्घचिह्नम् । बहुरेखायुक्तानां
दोषो यथा, --
“रेखामिर्ब्बहुभिः क्लेशं स्वल्पाभिर्धनहीनताम् ।
रक्ताभिः सुखमाप्नोति कृष्णाभिः प्रेष्यतां व्रजेत् ॥”
इति गारुडे ६४ अध्यायः ॥

बहुरेताः, [स्] पुं, (बहु रेतो यस्य ।) ब्रह्मा ।

इति शब्दरत्नावली ॥

बहुरोमा, [न्] पुं, (बहूनि लोमानि यस्य ।)

मेषः । इति हारावली । ८० ॥ लोमशे, त्रि ॥

बहुलं, क्ली, (बंहते वृद्धिं गच्छतीति । बहि वृद्धौ

कुलच् । नलोपश्च ।) आकाशम् । इति
मेदिनी ॥ सितमरीचम् । इति राजनिर्घण्टः ॥

बहुलं, त्रि, (बहूनर्थान् लातीति । बहु + ला +

क ।) प्रचुरम् । (यथा, मनुः । ४ । ६० ।
“नाधार्म्मिके वसेद्ग्रामे न व्याधिबहुले भृशम् ॥”)
कृष्णवर्णः । इति मेदिनी । ले, ११८ ॥

बहुलः, पुं, (बहूनर्थान् लातीति । बहु + ला + क ।)

अग्निः । कृष्णपक्षः । इति मेदिनी । ले, ११८ ॥
(यथा, कुमारे । ४ । १३ ।
“बहुलेऽपि गते निशाकर-
स्तनुतां दुःखमनङ्ग ! मोक्ष्यति ॥”
महादेवः । यथा, महाभारते । १३ । १७ । १२८ ।
“मन्थानो बहुलो वायुः सकलः सर्व्वलोचनः ॥”)

बहुलगन्धा स्त्री, (बहुलो गन्धो यस्याः ।) एला ।

इति राजनिर्घण्टः ॥

बहुलच्छदः, पुं, (बहुलानि च्छदानि यस्य ।)

रक्तशिग्रुः । इति राजनिर्घण्टः ॥

बहुलवणं, क्ली, (बहूनि लवणानि यस्मिन् ।)

औषरकम् । इति राजनिर्घण्टः ॥

बहुला, स्त्री, (बहूनर्थान् लाति या । बहु + ला

+ क । टाप् ।) नीलिका । एला । (यथा,
“एला स्थूला च बहुला पृथ्वीका त्रिपुटापि च ।
भद्रैला बृहदेला च चन्द्रबाला च निष्कुटिः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
गौः । इति मेदिनी । ले, ११७ ॥ देवीविशेषः ।
यथा, --
“दृष्टा सा तेन मुनिना निःसृत्य रविमण्डलात् ।
बहुला ह्यागता तूर्णं प्रस्थं मानसभूभृतः ॥
प्रत्यहं तत्र सावित्री गायत्त्री वहुला तथा ।
सरस्वती च द्रुपदा पञ्चैता मानसाचले ॥”
इति कालिकापुराणे । २३ अध्यायः ॥
(नदीभेदः । यथा, मार्कण्डेये । ५७ । ३९ ।
“चीनाश्चैव तुखाराश्च बहुला वाह्यतो नराः ॥”
स्वनामख्याता उत्तमराजपत्नी । यथा, तत्रैव ।
६९ । ६ ।
“बाभ्रव्यां बहुलां नाम उपयेमे स धर्म्मवित् ।
उत्तानपादतनयः शचीमिन्द्र इवोत्तमः ॥”)

बहुलाः, स्त्री, कृत्तिकानक्षत्रम् । नित्यबहुवचना-

न्तोऽयं शब्दः । इति मेदिनी । ले, ११७ ॥

बहुलीकृतं, त्रि, (अवहुलं बहुलं कृतम् । अभू-

ततद्भावे च्विः ।) अपनीततुषधान्यादि । वओ-
लान इति भाषा । तत्पर्य्यायः । पूतम् २ । इत्य-
मरः । २ । ९ । २३ ॥ (विस्तृतीकृतम् । यथा,
मार्कण्डेये । २१ । ९२ ।
“पराक्रमवता वीर ! त्वया तद्बहुलाकृतम् ॥”)

बहुवल्कः, पुं, (बहूनि वल्कानि यस्य ।) प्रियालः ।

इति राजनिर्घण्टः ॥

बहुवल्ली, स्त्री, डोडिक्षुपः । इति राजनिर्घण्टः ॥

बहुवारः, पुं, (बहूनि वारयतीति । बहु + वृ +

णिच् + अण् ।) वृक्षविशेषः । बहुयार इति
ख्यातः । तत्पर्य्यायः । शेलुः २ शीतः ३ श्लेष्मातः
४ श्लेष्मातकः ५ उद्दालः ६ उद्दालकः ७ । इति
शब्दरत्नावली ॥ सेलुः ८ । इत्यमरटीकायां
भरतः ॥ अस्य फलगुणाः । हिमत्वम् । श्लेष्म-
लत्वम् । शुक्रकारित्वम् । गुरुत्वम् । दुर्जरत्वम् ।
मधुरत्वञ्च । इति राजवल्लभः ॥

बहुवारकः, पुं, (बहूनि रूक्षादीनि वारयतीति ।

बहु + वृ + णिच् + ण्वुल् ।) वृक्षविशेषः । (अस्य
पृष्ठ ३/४१२
गुणा बहुवारशब्दे उक्ताः । बहुयार इति
ख्यातः । यथा, मनुसंहितायाः । ५ । ६ । श्लोकस्य
टीकायां कुल्लूकभट्टः । “शेलुं वहुवारकफलं
गोभवं पेयूषं नवप्रसूताया गोः क्षीरमग्निसंयो-
गात् कठिनं भवति एतान् यत्नतस्त्यजेत् ॥”)

बहुविधः, त्रि, (बहवो विधा यस्य ।) नाना-

प्रकारः । तत्पर्य्यायः । विविधः २ नानारूपः
३ पृथग्विधः ४ । इत्यमरः । ३ । १ । ९३ ॥
(यथा, गीतायाम् । ४ । ३२ ।
“एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ॥”)

बहुविस्तीर्णा, स्त्री, (बहु यथा स्यात् तथा

विस्तीर्णा ।) कुचिकावृक्षः । इति शब्द-
चन्द्रिका ॥ कुचै इति भाषा ॥

बहुवीजं, क्ली, (बहूनि वीजानि यस्य ।) गण्ड-

गात्रम् । इति शब्दचन्द्रिका ॥ आता इति
भाषा ॥ अस्य गुणा आतृप्यशब्दे द्रष्टव्याः ॥

बहुवीर्य्यः, पुं, (बहु वीर्य्यं तेजो यस्य ।) विभी-

तकः । इति जटाधरः ॥ तण्डुलीयशाकः ।
शाल्मलिवृक्षः । मरुवः । इति राजनिर्घण्टः ॥

बहुवीर्य्या, स्त्री, (बहु वीर्य्यं तेजो यस्याः ।)

भूम्यामली । इति राजनिर्घण्टः ॥

बहुव्रीहिः, पुं, षट्समासान्तर्गतसमासविशेषः ।

(मुग्धबोधमते ।) अस्य साङ्केतिकसंज्ञा हः ।
यथा, अन्यार्थानां दानां हसंज्ञः । उदाहरणं
यथा । पीतमम्वरं यस्यासौ पीताम्बरो हरिः ।
इति वोपदेवः ॥ स च तुल्याधिकरणानां पदानां
अन्यार्थत्वे स्यादिति बोध्यम् । यथा पीताम्बरादि ।
मिन्नाधिकरणानान्तु पुत्त्राय धनमस्य शिष्याय
विद्या अस्य इत्यादौ न स्यात् । समातृक इत्यु-
दाहरणेन कदाचिद्भिन्नाधिकरणानाञ्च स्यात्
धर्म्मे वृत्तिर्यस्यासौ धर्म्मवृत्तिः । एवं कामवृत्तिः
उरसि लोमा कण्ठे काल इत्यादि । एवं पीता-
म्बर इत्युदाहरता विशेषणविशेष्ययोः समासे
विशेषणमेव पूर्ब्बं स्यादिति सूचितम् । तेन
पीताम्बर इत्यत्र अम्बरपीत इति न स्यात् ।
एवं त्रिलोचनः चतुर्भुजः दीर्घकेशीत्यादि । एवं
पीताम्बर इत्युदाहरता क्वचित् क्तान्तविशेषणं
पूर्ब्बं स्यात् क्वचित् परं वा स्यात् इति सूचि-
तम् । तेन अव्याहतस्वैरगतेरिति । अथेप्सितं
भर्त्तुरुपस्थितोदयमिति । स वृत्तचूडश्चलकाक-
पक्षकैरित्यादि रघुः ॥ सुखजातः सुरापीतो
नृजग्धो माल्यधारक इति । एवं जातदन्तः
दन्तजातः जातश्मश्रुः श्मश्रुजातः पीततैलः
तैलपीतः पीतघृतः घृतपीतः ऊढभार्य्यः
भार्य्योढः गतभार्य्यः भार्य्यागतः गतार्थः अर्थ
गतः अग्न्याहितः आहिताग्निः पुत्त्रजातः
जातपुत्त्रः जातयामः यामजातः दुःखजातः
जातदुःखः गडुकण्ठः कण्ठगडुः इत्यादिबोध्यम् ।
एवमुद्यतचक्रः चक्रोद्यतः उद्यतासिः अस्युद्यतः
उद्यतगदः गदोद्यतः उद्यतस्वड्गः खड्गोद्यत
इति । आयुधेभ्यो नित्यं पूर्ब्बमिति जौमराः ॥
यथा उद्यतचक्र इत्यादि । एवं सर्व्वनामसक-
लात् पूर्ब्बम् । सर्व्वश्वेतः । संख्यासर्व्वनाम्नोः
संख्यापूर्ब्बं स्यात् । द्विपरः त्रिपूर्ब्बः । सप्तम्य-
न्तमचन्द्रादेः । सप्तम्यन्तं पदं पूर्ब्बं स्यान्न
चन्द्रादेः । धर्म्मे वृत्तिर्यस्यासौ धर्म्मवृत्तिः उरसि
लोमा कण्ठेकाल इत्यादौ उरसिजवत् क्तेर-
लुक् । चन्द्रादेस्तु चन्द्रशेखरः चन्द्रचूडः पद्म-
नाभः शूलपाणिः कुशहस्तः । प्रियो वा ।
गुडप्रियः प्रियगुडः । किञ्च आरूढो वानरो
यं स आरूढवानरो वृक्षः । दृष्टः कृष्णो येन
स दृष्टकृष्णो भक्तः । दत्ता भूमिर्यस्मै स दत्त-
भूमिर्व्विप्रः । निर्गताः पक्षिणो यस्मात् वृक्षात्
स निर्गतपक्षी वृक्षः । चत्वारो भुजा यस्यासौ
चतुर्भुजो विष्णुः । बहूनि नक्षत्राणि यत्र तद्बहु-
नक्षत्रमाकाशम् । इति द्बितीयान्ताद्यन्य-
पदार्था बहुव्रीहयः सर्व्वैर्मन्यन्ते । स्वमते तु
प्रथमान्तान्यपदार्थोऽपि यथा सह मात्रा वर्त्तते
योऽसौ समातृकः एवं सपक्षकः सनामकं
ब्राह्मणमानिनीत्यादि । इति दुर्गादासः ॥ * ॥
(बहवो ब्रीहयो यस्येति व्युत्पत्त्या) प्रचुर-
धान्ययुक्ते, त्रि । यथा, --
“द्बन्द्बो द्बिगुरपि चाहं मद्गेहे नित्यमव्ययी-
भावः ।
तत्पुरुष ! कर्म्म धारय येनाहं स्यां
बहुव्रीहिः ॥”
इति प्राचीनाः ॥

बहुशत्रुः, पुं, (बहवः शत्रवो यस्य ।) चटकः ।

इति शब्दचन्द्रिका ॥ (बहुशत्रुविशिष्टे, त्रि ।
तृतीयायां तिथौ पटोलभक्षणेन बहुशत्रुः
स्यात् । यथा, तिथितत्त्वे ।
“कुष्माण्डे चार्थहानिः स्याद्वृहत्यां न स्मरे-
द्धरिम् ।
बहुशत्रुः पटोले स्यात् धनहानिस्तु मूलके ॥”)

बहुशः, व्य, (बहूनि ददाति करोत्यादि वा । बहु

+ “बह्वल्पार्थाच्छस्कारकादन्यतरस्याम् ।” ५ ।
४ । ४२ । इति शस् ।) बहूनि । इति व्याक-
रणम् ॥ (यथा, मार्कण्डेये । ५२ । २९ ।
“कथ्यन्ते बहुशश्चैते पिता पुत्त्रत्रयञ्च यत् ॥”)

बहुशल्यः, पुं, (बहु शल्यं यस्य ।) रक्तखदिरः ।

इति राजनिर्घण्टः ॥ अनेकशल्ययुक्ते, त्रि ॥

बहुशालः, पुं, (बहुभिः शालते इति । बहु +

शाल + अच् ।) स्नुही । इति राजनिर्घण्टः ॥

बहुशिखा, स्त्री, (बह्वी शिखा यस्याः ।) जल-

पिप्पली । इति राजनिर्घण्टः ॥ (बह्वी शिखा
इति कर्म्मधारयसमासः ।) अनेकशिखा च ॥

बहुसन्ततिः, पुं, (बह्वी सन्ततिर्विस्तारोऽन्वयो वा

यस्य ।) ब्रह्मयष्टिः । इति शब्दचन्द्रिका ॥
वेडुबाँश इति भाषा ॥ अनेकसन्तान-
युक्ते, त्रि ॥

बहुसम्पुटः, पुं, (बहुः सम्पुटो यस्य ।) विष्णुकन्दः ।

इति राजनिर्घण्टः ॥

बहुसारः, पुं, (बहुः सारः स्थिरांशो यस्य ।)

खदिरः । इति राजनिर्घण्टः ॥ (बहुसार-
विशिष्टे, त्रि । यथा, शतपथब्राह्मणे । ११ ।
७ । ३ । १ ॥ “स य एष बहुसारः ॥”)

बहुसुता, स्त्री, (बहुः सुतः सन्ततिर्मूलं वा

यस्याः ।) शतमूली । इत्यमरः । २ । ४ । १५ ॥

बहुसूः, स्त्री, (बहून् सूते या । बहु + सू + क्विप् ।)

शूकरी । इति शब्दरत्नावली ॥ बहुप्रसवा च ॥

बहुसूतिः, स्त्री, (बहुः सूतिः प्रसवो यस्याः ।)

बह्वपत्या गौः । इत्यमरः । २ । ९ । ७ ॥ बहु-
सन्तानप्रसवा च ॥

बहुस्रवा, स्त्री, (बहु यथा स्यात् तथा स्रवति या ।

बहु + स्रु + अच् । टाप् ।) शल्लकीवृक्षः । इति
शब्दचन्द्रिका ॥ अनेकक्षरणशीला च ॥

बहुस्वनः, पुं, (बहुः प्रचण्डः स्वनः शब्दो यस्य ।)

पेचकः । इति केचित् ॥ अनेकशब्दयुक्ते, त्रि ॥

बह्वपत्यः, पुं, स्त्री, (बहूनि अपत्यानि यस्य ।)

शूकरः । मूषकः । इति राजनिर्घण्टः ॥ बहु-
सन्तानयुक्ते, त्रि ॥

बह्वाशी, [न्) त्रि, (बहु अश्नातीति । बहु +

अश् + णिनि ।) बहुभोजनशीलः । यथा,
चाणक्ये । ६९ ।
“बह्वाशी स्वल्पसन्तुष्टः सुनिद्रः शीघ्रचेतनः ।
प्रभुभक्तश्च शूरश्च ज्ञातव्याः षट् शुनो गुणाः ॥”
(बह्वी आशा यस्य ।) बह्वाशाविशिष्टः ॥
(धृतराष्ट्रपुत्त्रविशेषे, पुं । यथा, महाभारते ।
१ । ११७ । १९ ।
“आदित्यकेतुर्बह्वाशी नागदन्तोऽग्रयाय्यपि ॥”)

बह्वृक्, स्त्री, ऋग्वेदः (बह्व्य ऋचो यस्मिन् ।)

सूक्ते, क्ली । इति मुग्धबोधव्याकरणम् ॥ “बह्व्य
ऋचोऽध्येतव्या येन इति व्युत्पत्त्या ऋग्वेदज्ञे
ब्राह्मणे, पुं । यथा, मनुः । ३ । १४५ ।
“यत्रेन भोजयेत् श्राद्धे बह्वृचं वेदपारगम् ॥”
केचित् बह्वृच इत्यकारन्तमिच्छन्ति ॥)

बह्वृची, स्त्री, (बह्वृचस्य ऋग्वेदज्ञस्य पत्नी । बह्वृच

+ ङीप् ।) ऋग्वेदवेत्तुः पत्नी । इति जटा-
धरः ॥ (बह्व्य ऋचोऽधेतव्या यया इति विग्रहे
अध्यर्युनामाध्येत्री स्त्री । अनृचबह्वृचावध्ये
तर्य्येवेति वचनात् । “ऋक्पूरब्धूःपथामानक्षे ।”
५ । ४ । ७४ । इत्यप्रत्ययः समासान्तः । “गोत्रञ्च
चरणैः सह” इति जातित्वात् ङीष् । यद्यपि
स्त्रीणां स्वाध्यायाध्ययनं निषिद्धं तथापि पुरा
कल्पेष्वेतदासीत् । यथाह यमः ।
“पुराकल्पेषु नारीणां मौञ्जीबन्धनमिष्यते ।
अध्यापनञ्च वेदानां सावित्रीवचनं तथा ॥”
इति ॥)

बा(वा)ड, ऋ ङ आप्लावे । स्नाने । इति

कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०-सेट् ।
आप्लावः उन्मज्जनम् । इति दुर्गादासः ॥)
वोपदेवेन अन्तःस्थवकारादौ गृहीतः ॥ (बाडते ।
ऋदित् चङि न ह्रस्वः । अबबाडयत् ॥)

बा(वा)डवं, क्ली, (बडवानां समूहः । बडवा +

“खण्डिकादिभ्यश्च ।” ४ । २ । ४५ । इत्यञ् ।)
बडवासमूहः । इत्यमरः ॥ (बडवाया इद-
पृष्ठ ३/४१३
मिति । बडवा + अण् । बडवासम्बन्धिनि, त्रि ।
यथा, सुश्रुते । १ । ४५ ।
“दीपनीयमचक्षुष्यं बाडवं दधि वातलम् ॥”)

बा(वा)डवः, पुं, (बाडं यज्ञान्तस्रानं वाति प्राप्नो-

तीति । बाड + वा + कः ।) ब्राह्मणः । (बड-
वायां घोटक्यां जातः । बडवा + अण् ।) बड-
वानलः । इत्यमरः ॥ तत्पर्य्यायः । और्व्वः २
संवर्त्तकः ३ अब्ध्यग्निः ४ बडवामुखः ५ । इति
हेमचन्द्रः ॥ (यथा, मार्कण्डेये । ९९ । ६४ ।
“महोदधेर्जठरगतश्च बाडवो
भवान् विभूत्या परया करे स्थितः ॥”)

बा(वा)डवाग्निः, पुं, (बडवा समुद्रस्था घोटकी तत्-

सम्बन्ध्यग्निः ।) बडवानलः । इति जटाधरः ॥
(यथा, माघे । ११ । ४५ ।
“पयसि सलिलराशेर्नक्तमन्तर्निमग्नः
स्फुटमनिशमतापि ज्वालया बाडवाग्नेः ॥”)

बा(वा)डवाग्र्यः, पुं, (बाडवेषु ब्राह्मणेषु अग्र्यः

श्रेष्ठः ।) ब्राह्मणश्रेष्ठः । यथा, --
“इत्याकर्ण्य वचस्तस्य बाडवाग्र्यस्य धीमतः ।
पप्रच्छ हृष्टमानस्कस्तीर्थयात्राविधिं मुनिम् ॥”
इति पाद्मे पातालखण्डे १९ अध्यायः ॥

बा(वा)डवेयौ, पुं, (बडवाया घोटकरूपधारिण्याः

सूर्य्यपत्न्या अपत्ये पुमांसौ । बडवा + ढक् ।)
अश्विनीकुमारौ । इति शब्दमाला ॥

बा(वा)डव्यं, क्ली, (बाडवानां ब्राह्मणानां समूहः ।

बाडव + “ब्राह्मणमानवबाडवाद् यत् ।” ४ । २ ।
४२ । इति यत् ।) ब्राह्मणसमूहः । इत्यमरः ॥

बाडिङ्गनः, पुं, (बाड् प्लावनं तस्मै इङ्गते इति ।

बाड् + इङ्ग + ल्यु ।) वार्त्ताकुः । इति रत्न-
माला ॥

बाढं, क्ली, (बाह प्रयत्ने + क्तः । “क्षुब्धस्वान्त-

ध्वान्तेति ।” ७ । २ । १८ । इति निपातनात्
साधुः ।) अतिशयः । (यथा, कथासरित्-
सागरे । २४ । ६८ ।
“बाढं मया सा नगरी दृष्टा विद्यार्थिना सता ॥”)
प्रतिज्ञा । इत्यमरः । ३ । ३ । ४४ ॥ बाढमित्य-
व्ययमपीति वृद्धाः । इति भरतः ॥
“बाढं त्रिषु दृढे क्लीवमनुमत्यामथ त्रिषु ॥”
इति नानार्थरत्नमाला ॥
(सत्यम् । यथा, रघुः । १९ । ५२ ।
“बाढमेषु दिवषेषु पार्थवः
कर्म्म साधयति पुत्त्रजन्मने ॥”)

बा(वा)णः, पुं, (बणनं बाणः शब्दस्तदस्यास्तीति ।

बाण + अच् ।) अस्त्रविशेषः । तिर इति
भाषा । तत्पर्य्यायः । पृषत्कः २ विशिखः
३ अजिम्भगः ४ खगः ५ आशुगः ६ कलम्बः
७ मार्गणः ८ शरः ९ पत्री १० रोपः ११
इषुः १२ । इत्यमरः । २ । ८ । ८६ ॥ चित्र-
पुङ्खः १३ शायकः १४ वीरतरः १५ तूणक्षेडः १६
काण्डः १७ विपर्षकः १८ शरुः १९ वाजी २०
पत्रवाहः २१ अस्त्रकण्टकः २२ ॥ लौहमय-
वाणस्य पर्य्यायः । प्रक्ष्वेडनः १ लोहनालः २
नाराचः ३ ॥ क्षिप्तबाणस्य पर्य्यायः । प्रहितः १
निरस्तः २ ॥ विषाक्तबाणस्य पर्य्यायः । तीक्ष्णः १
लिप्तकः २ दिग्धः ३ ॥ तीरो निष्फलसायके ।
इति शब्दरत्नावली ॥ * ॥ (यथा, ऋग्वेदे । ६ ।
७५ । १७ ।
“यत्र बाणाः संपतन्ति कुमारा विशिखा इव ।
तत्रा नो ब्रह्मणस्पतिरदितिः शर्म्म यच्छतु
विश्वहा शर्म्म यच्छतु ॥”)
वलिराजस्य ज्येष्ठपुत्त्रः । यथा, --
“बलेः पुत्त्रशतं त्वासीद्बाणज्येष्ठन्ततो द्विजाः ।
बाणः सहस्रबाहुः स्यात् सर्व्वास्त्रगुणसंयुतः ॥
तपसा तोषितो यस्य पुरे वसति शूलधृक् ।
महाकालत्वमगमत् साम्यं यस्य पिणाकिनः ॥”
इति मत्स्यपुराणे ५ अध्यायः ॥
(अस्य जन्मादिविवरणन्तु बाणयुद्धशब्दे द्रष्ट-
व्यम् । विस्तृतिस्तु हरिवंशे विष्णुपर्व्वणि १७३
अध्यायमारभ्य द्रष्टव्या ॥) गोस्तनः । केवलः ।
इति मेदिनी । णे, २७ ॥ अग्निः । इति
त्रिकाण्डशेषः ॥ काण्डावयवः । इति विश्वः ॥
भद्रमुञ्जः । इति राजनिर्घण्टः ॥ (पुं, स्त्री,
नीलझिण्टी । इति वैजयन्ती ॥ यथा, माघे ।
६ । ४६ ।
“विकचबाणदलावलयोऽधिकं
रुरुचिरे रुचिरेक्षणविभ्रमाः ॥”
बण्यते शब्द्यते इति । बण शब्दे + “अकर्त्तरि
च कारके संज्ञायाम् ।” ३ । ३ । १९ । इति
घञ् । वाक् । इति निघण्टुः ॥ इक्ष्वाकुवंशीयो-
ऽयोध्याराजः स्वनामख्यातो विकुक्षेः पुत्त्रः ।
यथा, रामायणे । १ । ७० । २२ -- २३ ।
“इक्ष्वाकोस्तु सुतः श्रीमान् कुक्षिरित्येव विशुतः ।
कुक्षेरथात्मजः श्रीमान् विकुक्षिरुदपद्यत ॥
विकुक्षेस्तु महातेजा बाणः पुत्त्रः प्रतापवान् ।
बाणस्य तु महातेजा अनरण्यः प्रतापवान् ॥”
कादम्बरीप्रणेता कविविशेषः । यथा, कादम्बर्य्यां
कविवंशवर्णने ।
“सरस्वतीपाणिसरोजसम्पुट-
प्रमृष्टहोमश्रमसीकराम्भसः ।
यशोऽंशुशुक्लीकृतसप्तविष्टपात्
ततः सुरोबाण इति व्यजायत ॥
द्विजेन तेनाक्षत कण्ठकौण्ठ्यया
महामनोमोहमलीमसान्धया ।
अलब्धवैदग्ध्यविलासमुग्धया
धिया निबद्ध्वेयमतिद्वयी कथा ॥”
अयमेव हर्षचरितप्रणेता इति केचित् ॥)

बा(वा)णगङ्गा, स्त्री, (बाणेन प्रकटिता गङ्गा नदी-

विशेषः ।) रावणबाणनिर्भिन्नसोमेश्वरगिरि-
भवनदीविशेषः । यथा, --
“सोमेशाद्दक्षिणे भागे बाणेनाद्रिं विभिद्य वै ।
रावणेन प्रकटिता जलघारातिपुण्यदा ।
बाणगङ्गेति विख्याता या स्नानादघहारिणी ॥
स्नात्वा तु बाणगङ्गायां दृष्ट्वा बाणेश्वरं विभुम् ।
गङ्गास्नानफलं प्राप्य मोदते देववद्दिवि ॥”
इति वाराहे सोमेश्वरादिलिङ्गमहिमावमुक्ति-
क्षेत्रमहिमा त्रिवेण्यादिमहिमा नामाध्यायः ॥

बा(वा)णदण्डः, पुं, (बाणस्य दण्डः ।) वापदण्डः ।

तत्पर्य्यायः । वेमा २ । इति हेमचन्द्रः ॥

बा(वा)णपुङ्खा, स्त्री, (बाणस्य + पुङ्खा ।) शरपुङ्खा ।

इति राजनिर्घण्टः ॥

बा(वा)णपुरं, क्ली, (बाणस्य राज्ञः पुरं नगरम् ।)

बाणराजनगरम् । तत्पर्य्यायः । देवीकोटः २
कोटीवर्षम् ३ ऊषावनम् ४ शोणितपुरम् ५ ।
इति त्रिकाण्डशेषः ॥ आग्नेयम् ६ उमावनम् ७
कोट्टवीपुरम् ८ । इति शब्दरत्नावली ॥

बा(वा)णभट्टः, पुं, ग्रन्थकारविशेषः । (स तु काद-

म्बर्य्यादिग्रन्थप्रणेता ।) “ननु मङ्गलं कथं क्रियते
मङ्गलाद्बिघ्नध्वंसः विघ्नध्वंसात् प्रारिप्सित-
सिद्धिरिति चेन्न । बाणभट्टादेर्मङ्गले सत्यपि
ग्रन्थसमाप्त्यभावात् माघादौ मङ्गलाभावेऽपि
समाप्तिदर्शनात् ।” इति मुग्धबोधटीकायां
दुर्गादासः ।

बा(वा)णयुद्धं, क्ली, (बाणेन सह युद्धम् ।) बाण-

राजेन सह श्रीकृष्णस्य संग्रामः । तस्य विव-
रणम् । यथा, --
श्रीशुक उवाच ।
“बाणः पुत्त्रशतज्येष्ठो बलेरासीन्महात्मनः ।
सहस्रबाहुर्वाद्येन ताण्डवेऽतोषयन्मृडम् ॥
भगवान् सर्व्वभूतेशः शरण्यो भक्तवत्सलः ।
वरेण च्छन्दयामास स तं वव्रे पुराधिपम् ॥
स एकदाह गिरिशं पार्श्वस्थं वीर्य्यदुर्म्मदः ।
किरीटेनार्कवर्णेन संस्पृशंस्तत्वदाम्बुजम् ॥
नमस्ये त्वां महादेव ! लोकानां गुरुमीश्व-
रम् ।
पुंसामपूर्णकामानां कामपुरामराङ्घिपम् ॥
दोःसहस्रं त्वया दत्तं परं भाराय मेऽभवत् ।
त्रिलोक्यां प्रतियोद्धारं न लभे त्वदृते समम् ॥
कण्डूत्या निभृतैर्दोभिर्यु युत्सुर्दिग्गजानहम् ।
आद्यायां चूर्णयन्नद्रीन् भीतास्तेऽपि प्रदुद्रुवुः ॥
तत् श्रुत्वा भगवान् क्रुद्धः केतुस्ते भज्यते यदा ।
तद्दर्पघ्नं भवेन्मूढ ! संयुगं मत्ममेन ते ॥
इत्युक्तः कुमतिर्हृष्टः स्वगृहं प्राविशन्नृप ! ।
प्रतीक्षन् गिरिशादेशं स्ववीर्य्यनशनं कुधीः ॥
तस्योषा नाम दुहिता स्वप्ने प्राद्युम्निना रतिम् ।
कन्यालभत कान्तेन प्रागदृष्टश्रुतेन सा ॥
सा तत्र तमपश्यन्ती क्वासि कान्तेतिवादिनी ।
सखीनां मध्य उत्तस्थौ विह्वला व्रीडिता भृशम् ॥
बाणस्य मन्त्री कुम्भाण्डश्चित्रलेखा च तत्सुता ।
सख्यपृच्छत् सखीमूषां कौतूहलसमन्विता ॥
कं त्वं मृगयसे ! सुभ्रु ! कीदृशस्ते मनोरथः ।
हस्तग्राहं न तेऽद्यापि राजपुत्त्र्युपलक्षये ॥
ऊषोवाच ।
दृष्टः कश्चिन्नरः स्वप्ने श्यामः कमललोचनः ।
पीतवासा बृहद्बाहुर्योषितां हृदयङ्गमः ॥
तमहं मृगये कान्तं पाययित्वाधरं मधु ।
क्वापि यातः स्पृहयतीं क्षिप्त्वा मां वृजिनार्णवे ॥
पृष्ठ ३/४१४
चित्रलेखोवाच ।
व्यसनन्तेऽपनेष्यामि त्रिलोक्यां यदि भाव्यते ।
तमानेष्ये वरं यस्ते मनोहर्त्ता तमादिश ॥
इत्युक्त्वा देवगन्धर्व्वसिद्धचारणपन्नगान् ।
दैत्यविद्याधरान् यक्षान् मनुजांश्च यथालिखत् ॥
मनुजेषु च सा वृष्णीञ्छू रमानकदुन्दुभिम् ।
व्यलिखद्रामकृष्णौ च प्रद्युम्नं वीक्ष्य लज्जिता ॥
अनिरुद्धं विलिखितं वीक्ष्योषावाङ्मुखी
ह्रिया ।
सोऽसावसाविति प्राह स्मयमाना महीपते ! ॥
चित्रलेखा तमाज्ञाय पौत्त्रं कृष्णस्य योगिनी ।
ययौ विहायसा राजन् ! द्बारकां कृष्णपालि-
ताम् ॥
तत्र सुप्तं सुपर्य्यङ्के प्राद्युम्निं योगमास्थिता ।
गृहीत्वा शोणितपुरं सख्यै प्रियमदर्शयत् ॥
सा च तं सुन्दरवरं विलोक्य मुदितानना ।
दुष्प्रेक्ष्ये स्वगृहे पुंभी रेमे प्राद्युम्निना समम् ॥
परार्द्ध्यवासः स्रग्गन्धधूपदीपासनादिभिः ।
पानभोजनभक्ष्यैश्च वाक्यैः शुश्रूषणार्च्चितः ॥
गूढः कन्यापुरे शश्वत् प्रवृद्धस्नेहया तया ।
नाहर्गणान् स बुबुधे ऊषयापहृतेन्द्रियः ॥
तां तथा यदुवीरेण भुज्यमानां हतत्रपाम् ।
हेतुभिर्लक्षयाञ्चक्रुराप्रीतां दुरवच्छदैः ॥
भटा आवेदयाञ्चक्रू राजंस्ते दुहितुर्व्वयम् ।
विचेष्टितं लक्षयामः कन्यायाः कुलदूषणम् ॥
अनपायिभिरस्माभिर्गुप्तायाश्च गृहे प्रभो ! ।
कन्याया दूषणं पुंभिर्दुष्प्रेक्षाया न विद्महे ॥
ततः प्रव्यथितो बाणो दुहितुः श्रुतदूषणः ।
त्वरितः कन्यकागारं प्राप्तोऽद्राक्षीद्यदूद्वहम् ॥
कामात्मजं तं भुवनैकसुन्दरं
श्यामं पिशङ्गाम्बरमम्बुजेक्षणम् ।
बृहद्भुजं कुण्डलकुन्तलत्विषा
स्सितावलोकेन च मण्डिताननम् ॥
दीव्यन्तमक्षैः प्रिययाभिनृम्णया
तदङ्गसङ्गस्तनकुङ्कुमस्रजम् ।
बाह्वोर्दधानं मधुमल्लिकाश्रितां
तस्याग्र आसीनमवेक्ष्य विस्मितः ॥
स तं प्रविष्टं व्रतमाततायिभि-
र्भटैरनेकैरवलोक्य माधवः ।
उद्यम्य मौर्व्वं परिघं व्यवस्थितो
यथान्तको दण्डधरो जिघांसया ॥
जिघृक्षया तान् परितः प्रसर्पतः
शुनो यथा शूकरयूथपोऽहनत् ।
ते हन्यमाना भवनाद्बिनिर्गता
निर्भिन्नमूर्द्धोरुभुजाः प्रदुद्रुवुः ॥
तं नागपाशैर्बलिनन्दनो बली
घ्नन्तं स्वसैन्यं रुषितो बबन्ध ह ।
ऊपा भृशं शोकविषादविह्वला
बद्धं निशम्याश्रुकलाक्ष्यरौत्सीत् ॥”
इति श्रीभायवते महापुराणे पारमहंस्यां संहि-
तायां वैयासिक्यां दशमस्कन्धे बाणयुद्धे द्बिषष्टि-
तमोऽध्यायः ॥ * ॥
श्रीशुक उवाच ।
“अपश्यताञ्चानिरुद्धं तद्बन्धूनाञ्च भारत ! ।
चत्वारो वार्षिका मासा व्यतीयुरनुशोचताम् ॥
नारदात्तदुपाकर्ण्य वार्त्तां बद्धस्य कर्म्म च ।
प्रययुः शोणितपुरं वृष्णयः कृष्णदेवताः ॥
प्रद्युम्नो युयुधानश्च गदः शाम्बोऽथ शारणः ।
नन्दोपनन्दभद्राद्या रामकृष्णानुवर्त्तिनः ॥
अक्षौहिणीभिर्द्वादशभिः समेताः सर्व्वतो
दिशम् ।
रुरुधुर्ब्बाणनगरं समन्तात् सात्वतर्षभाः ॥
भज्यमानपुरोद्यानप्रकाराट्टालगोपुरम् ।
प्रेक्षमाणो रुषाविष्टस्तुल्यसैन्योऽभिनिर्ययौ ॥
वाणार्थं भगवान् रुद्रः ससुतः प्रमथैर्वृतः ।
आरुह्य नन्दिवृषभं युयुधे रामकृष्णयोः ॥
आसीत् सुतुमुलं युद्धमद्भुतं लोमहर्षणम् ।
कृष्णशङ्करयो राजन् ! प्रद्युम्नगुहयोरपि ॥
कुम्भाण्डकूपकर्णाभ्यां बलेन सह संयुगम् ।
शाम्बस्य बाणपुत्त्रेण बाणेन सह सात्यकेः ॥
ब्रह्मादयः सुराधीशाः मुनयः सिद्धचारणाः ।
गन्धर्व्वाप्सरसो यक्षा विमानैर्द्रष्टुमागमन् ॥
शङ्करानुचराञ्छौरिर्भूतप्रमथगुह्यकान् ।
डाकिनीर्यातुधानांश्च वेतालान् सविनायकान् ॥
भूतमातृपिशाचांश्च कुष्माण्डान् ब्रह्मराक्षसान् ।
द्रावयामास तीक्ष्णाग्रैः शरैः शार्ङ्गधनुश्च्युतैः ॥
पृथग्दिव्यानि प्रायुङ्क्त पिणाक्यस्त्राणि
शार्ङ्गिणे ।
प्रत्यस्त्रैः शमयामास शार्ङ्गपाणिरविस्मितः ॥
ब्रह्मास्त्रस्य च ब्रह्मास्त्रं वायव्यस्य च पार्व्वतम् ।
आग्नेयस्य च पार्ज्जन्यं नैजं पाशुपतस्य च ॥
मोहयित्वाथ गिरिशं जृम्भणास्त्रेण जृम्भितम् ।
बाणस्य पृतनां शौरिर्ज्जघानासिगदेषुभिः ॥
स्कन्दः प्रद्युम्नबाणौघैरर्द्यमानः समन्ततः ।
असृग्विमुञ्चन् गात्रेभ्यः शिखिना प्राद्रवद्रणात् ॥
कुम्भाण्डः कूपकर्णश्च पेततुर्मुषलार्द्दितौ ।
दुद्रुवुस्तदनीकानि हतनाथानि सर्व्वशः ॥
वीशीर्य्यमाणं स्वबलं दृष्ट्वा बाणोऽत्यमर्षितः ।
कृष्णमभ्यद्रवत् संख्ये रथी हित्वैव सात्यकिम् ॥
धनूंष्याकृष्य युगपद्बाणः पञ्चशतानि वै ।
एकेकस्मिन् शरौ द्वौ द्वौ सन्दधे रणदुर्म्मदः ॥
तानि चिच्छेद भगवान् धनूंषि युगपद्धरिः ।
सारथिं रथमश्वांश्च हत्वा शङ्खमपूरयत् ॥
तन्माता कोट्टवी नाम नग्ना मुक्तशिरोरुहा ।
पुरोऽवतस्थे कृष्णस्य पुत्त्रप्राणरिरक्षया ॥
ततस्तिर्य्यङ्मुखो नग्नामनिरीक्षन् गदाग्रजः ।
बाणश्च तावद्बिरथश्छिन्नधब्बाविशत् पुरम् ॥
विद्राविते भूतगणे ज्वरस्तु त्रिशिरास्त्रिपात् ।
अभ्यधावत दाशार्हं दहन्निव दिशो दश ॥
अथ नारायणो देवस्तं दृष्ट्वा व्यसृजत् ज्वरम् ।
माहेश्वरो वैष्णवश्च युयुधाते ज्वरावुभौ ॥
माहेश्वरः समाक्रन्दन् वैष्णवेन बलार्द्दितः ।
अलब्ध्वा भयमन्यत्र भीतो माहेश्वरो ज्वरः ॥
शरणार्थी हृषीकेशं तुष्टाव प्रणताञ्जलिः ॥
ज्वर उवाच ।
नमामि त्वानन्तशक्तिं परेशं
सर्व्वात्मानं केवलं ज्ञप्तिमात्रम् ।
विश्वोत्पत्तिस्थानसंरोधहेतुं
यत्तद्ब्रह्म ब्रह्मलिङ्गं प्रशान्तम् ॥
कालो दैवं कर्म्म जीवः स्वभावो
द्रव्यं क्षेत्रं प्राण आत्मा विकारः ।
तत्सं घातो बीजरोहप्रवाह-
स्त्वन्मायैषा तन्निषेधं प्रपद्ये ॥
नानाभावैर्लीलयैवोपपन्नै-
र्देवान् साधूँल्लोकसेतून् बिभर्षि ।
हंस्युन्मार्गान् हिंसया वर्त्तमानान्
जन्मैतत्ते भारहाराय भूमेः ॥
तप्तोऽहन्ते तेजसा दुःसहेन
शान्तोग्रेणात्युल्वणेन ज्वरेण ।
तावत्तापो देहिनां तेऽङ्घ्रिमूलं
नो सेवेरन् यावदाशानुबद्धाः ॥
श्रीभगवानुवाच ।
त्रिशिरस्ते प्रसन्नोऽहं व्येतु ते मज्ज्वराद्भयम् ।
यो नौ स्मरति संवादं तस्य त्वन्नो भवेद्भयम् ॥
इत्युक्तोऽच्युतमानम्य गतो माहेश्वरो ज्वरः ।
बाणस्तु रथमारूढः प्रागाद्योत्स्यन् जनार्द्द-
नम् ॥
ततो बाहुसहस्रेण नानायुधधरो नृपः ।
मुमोच परमक्रुद्धो वाणांश्चक्रायुधे नृप ! ॥
तस्यास्यतोऽस्त्राण्यसकृच्चक्रेण क्षुरनेमिना ।
चिच्छेद भगवान् बाहूंश्छाखा इव वनस्पतेः ॥
बाहुषु च्छिद्यमानेषु बाणस्य भगवान् भवः ।
भक्तानुकम्प्युपव्रज्य चक्रायुधमभाषत ॥
श्रीरुद्र उवाच ।
त्वं हि ब्रह्म परं ज्योतिर्गूढं ब्रह्मणि वाङ्मये ।
यं पश्यन्त्यमलात्मानमाकाशमिव केवलम् ॥
नाभिर्नभोऽग्निर्म्मुखमम्बुरेतो
द्यौः शीर्षमाशाः श्रुतिरङ्घ्रिरुर्व्वी ।
चन्द्रो मनो यस्य दृगर्क आत्मा
अहं समुद्रो जठरं भुजेन्द्रः ॥
रोमाणि यस्यौषधयोऽम्बुवाहाः
केशा विरिञ्चो धिषणा विसर्गः ।
प्रजापतिर्हृदयं यस्य धर्म्मः
स वै भवान् पुरुषो लोककल्पः ॥
तवावतारोऽयमकुण्ठधामन्
धर्म्मस्य गुप्त्यै जगतो भवाय ।
वयञ्च सर्व्वे भवतानुभाविता
विभावयामो भुवनानि सप्त ॥
त्वमेक आद्यः पुरुषोऽद्वितीय-
स्तुर्य्यः सदृग्धेतुरहेतुरीशः ।
प्रतीयसेऽथापि यथा विकारं
स्वमायया सर्व्वगुणप्रसिद्ध्यै ॥
यथैव सूर्य्यः पिहितः स्वच्छायया
छायाञ्च रूपाणि च सञ्चकास्ति ।
एवं गुणेनापिहितो गुणांस्त्व-
मात्मप्रदीपो गुणिनश्च भूमन ॥
पृष्ठ ३/४१५
यन्मायामोहितधियः पुत्त्रदारगृहादिषु ।
उन्मज्जन्ति निमज्जन्ति प्रसक्ता वृजिनार्णवे ॥
देवदत्तमिमं लब्ध्वा नृलोकमजितेन्द्रियः ।
यो नाद्रियेत त्वत्पादौ स शोच्यो ह्यात्म-
वञ्चकः ॥
यस्त्वां विसृजते मर्त्य आत्मानं प्रियमी श्वरम् ।
विपर्य्ययेन्द्रियार्थार्थं विषमत्त्यमृतं त्यजेत् ॥
अहं ब्रह्माथ बिबुधा मुनयश्चामलाशयाः ।
सर्व्वात्मना प्रपन्नास्त्वामात्मानं प्रेष्ठमीश्वरम् ॥
तं त्वां जगत्स्थित्युदयान्तहेतुं
समं प्रशान्तं सुहृदात्मदैवम् ।
अनन्यमेकं जगदात्मकेतुं
भवापवर्गाय भजाम देवम् ॥
अयं ममेष्टो दयितोऽनुवर्त्ती
मयाभयं दत्तममुष्य देव ! ।
सम्पाद्यतां तद्भवतः प्रसादो
यथा हि ते दैत्यपतौ प्रसादः ॥
श्रीभगवानुवाच ।
यदात्थ भगवंस्तन्नः करवाम प्रियन्तव ।
भवतो यद्व्यवसितं तन्मे साध्वनुमोदितम् ॥
अवध्योऽयं ममाप्येष वैरोचनसुतोऽसुरः ।
प्रह्रादाय वरो दत्तो न वध्यो मे तवान्वयः ॥
दर्पोपशमनायास्य प्रकृत्ता बाहवो मया ।
सूदितञ्च बलं भूरि यच्च भारायितं भुवः ॥
चत्वारोऽस्य भुजाः शिष्टा भविष्यत्यजरामरः ।
पार्षदमुख्यो भवतो न कुतश्चिद्भयोऽसुरः ॥
इति लब्ध्वाभयं कृष्णं प्रणम्य शिरसासुरः ।
प्राद्युम्निं रथमारोप्य स बध्वा समुपानयत् ॥
अक्षौहिण्या परिवृतं सुवासःसमलङ्कृतम् ।
सपत्नीकं पुरस्कृत्य ययौ रुद्रानुमोदितः ॥
स राजधानीं समलड्कृतां ध्वजै-
र्मनोरमैर्भूषितमार्गचत्वराम् ।
विवेश शङ्खानकदुन्दुभिस्वनै-
रभ्युद्यतः पौरसुहृद्द्विजातिभिः ॥
य एतत् कृष्णविजयं शङ्करेण च संयुगम् ।
संस्मरेत् प्रातरुत्थाय न तस्य स्यात् पराजयः ॥”
इति श्रीभागवते महापुराणे पारमहंस्यां
संहितायां वैयासिक्यां दशमस्कन्धे बाणासुर-
संग्रामे श्रीकृष्णविजयस्त्रिषष्टितमोऽध्यायः ॥

बा(वा)णलिङ्गं, क्ली, (बाणार्च्चनार्थं कृतं लिङ्गम् ।

अन्यास्य निरुक्तिरुक्ता हेमाद्रौ । यथा, --
“बाणः सदाशिवो देवो बाणो बाणान्तरो-
ऽपि च ।
तेन यस्मै कृतं तस्माद्वाणलिङ्गमुदाहृतम् ॥”)
नर्म्मदानद्युद्भवशिवलिङ्गम् । तस्य विवरणम् ।
यथा, --
“नर्म्मदाजलमध्यस्थं बाणलिङ्गमिति स्मृतम् ।
बाणलिङ्गे स्वयम्भूते चन्द्रकान्ताह्वयं स्थितम् ॥
चान्द्रायणशतं कार्य्यं शम्भोर्नैवेद्यभक्षणात् ।
ग्राह्याग्राह्यविभागोऽयं बाणलिङ्गे न विद्यते ।
तदर्पितं जलं वान्नं ग्राह्यं प्रसादसंज्ञया ॥
शिवनाभमयं लिङ्गं सदा पूज्यं महर्षिभिः ।
यतश्च सर्व्वलिङ्गेभ्यस्तद्धि पूज्यतमं मतम् ॥
चतुरङ्गुलमुच्छ्रायं रम्यं वेदिकया युतम् ।
उत्तमं लिङ्गमाख्यातं पञ्चसूत्र सुसाधितम् ॥
तदर्द्धं मध्यमं प्रोक्तं तदर्द्धमवरं स्मृतम् ।
तस्य न्यूनं पूजनीयं न कदापि न तत्फलम् ॥
रुद्राक्षं शिवलिङ्गञ्च स्थूलस्थूलं प्रशस्यते ।
शालग्रामो नार्म्मदञ्च सूक्ष्मसूक्ष्मो विशिष्यते ॥”
पार्थिवादिलिङ्गापेक्षया बाणलिङ्गस्य श्रेष्ठत्वम्
यथा, --
“कोमलेषु तु लिङ्गेषु पार्थिवं श्रेष्ठमुच्यते ।
कठिनेषु तु पाषाणं पाषाणात् स्फाटिकं परम् ॥
स्फाटिकात् पद्मरागञ्च काश्मीरं पद्मरागतः ।
काश्मीरात् पुष्परागोत्थमिन्द्रनीलोद्भवं ततः ॥
इन्द्रनीलाच्च गोमेदं गोमेदाद्बिद्रुमोद्भवम् ।
विद्रुमान्मौक्तिकं श्रेष्ठं तस्मात् श्रेष्ठन्तु राजतम् ॥
हैरण्यं राजतात् श्रेष्ठं हैरण्याद्धीरकं वरम् ।
हीरकात् पारदं श्रेष्ठं बाणलिङ्गं ततः परम् ॥”
इति मेरुतन्त्रे ९ प्रकाशः ॥
अथ बाणलिङ्गलक्षणम् । वीरमित्रोदयधृत-
कालोत्तरे ।
“बाणलिङ्गं तथा ज्ञेयं भुक्तिमुक्तिप्रदायकम् ।
उत्पत्तिं बाणलिङ्गस्य लक्षणं शेषतः शृणु ॥
नर्म्मदादेविकायाश्च गङ्गायमुनयोस्तथा ।
सन्ति पुण्यनदीनाञ्च बाणलिङ्गानि षण्मुख ! ॥
इन्द्रादिपूजितान्यत्र तच्चिह्नैर्विहितानि च ।
सदा सन्निहितस्तत्र शिवः सर्व्वार्थदायकः ।
इन्द्रलिङ्गानि तान्याहुः साम्राज्यार्थप्रदानि च ॥”
इतीन्द्रलिङ्गलक्षणम् ॥
“आरुणं हित्यकीलालमुष्णस्पर्शं करोत्यलम् ।
आग्नेयं तच्छक्तिनिभमथवा शक्तिलाञ्छितम् ।
इदं लिङ्गवरं स्थाप्य तेजसाधिपतिर्भवेत् ॥”
इत्याग्नेयलिङ्गलक्षणम् ॥
“दण्डाकारं भवेद् याम्यमथवा रसनाकृति ।
यद्यदुक्तं सह तैर्न निर्निक्तं ज्ञायते तदा ।
निषिक्तं निधनन्तेन क्रियते स्थापितेन तु ॥”
इति याम्यलिङ्गलक्षणम् ॥
“राक्षसं खड्गसदृशं ज्ञानयोगफलप्रदम् ।
कर्करादिप्रलिप्तन्तु कुण्ठकुक्षियुतं तथा ।
राक्षसं निष्कृते लिङ्गं गार्हस्थे न सुखप्रदम् ॥”
इति नैरृ तलिङ्गलक्षणम् ॥
“वारुणं वर्त्तुलाकारं पाशाङ्कं चालिवर्च्चसम् ।
वृद्धिं सुखादेर्वैस्वत्वसंभोगाप्तन्तु मध्यगे ॥”
इति वारुणलिङ्गलक्षणम् ॥
“कृष्णं धूम्रं नवारुच्यं ध्वजाभं ध्वजमूषलम् ।
मस्तके स्थापितं तस्य न्यूनन्यूनमितस्ततः ॥”
इति वायुलिङ्गलक्षणम् ॥
“तूणपाशगदाकारं गुह्यकेशस्य मध्यगम् ॥”
इति कुवेरलिङ्गलक्षणम् ॥
“दिनं वाप्यथवा रात्रिं शस्यावृद्धिकरैर्ब्बलम् ।
अस्थिशूलाङ्कितं रौद्रं हिमकुण्डलवर्च्चसम् ॥”
इति रौद्रलिङ्गलक्षणम् ॥
“चतुर्व्वर्णमयं वापि वैष्णवं ज्ञायतेऽग्रतः ।
वैष्णवं शङ्खचक्राङ्कगदाब्जादिविभूषितम्
श्रीवत्सकौस्तुभाङ्कञ्च सर्व्वसिंहासनाङ्कितम् ।
वैनतेयसमाङ्कं वा तथा विष्णुपदाङ्कितम् ॥
वैष्णवं नाम तत् प्रोक्तं सर्व्वैश्वर्य्यफलप्रदम् ॥”
इति वैष्णवलिङ्गलक्षणम् ॥
“शालग्रामादिसंस्थन्तु शशाङ्कं श्रीविवर्द्धनम् ।
पद्माङ्कं स्वस्तिकाङ्कं वा श्रीवत्साङ्कं विभूतये ॥”
इत्यपि वैष्णवलिङ्गलक्षणम् ॥
हेमाद्रिधृतलक्षणकाण्डे ।
नारद उवाच ।
“अथ वक्ष्यामि ते विप्रचिह्नमेकादशं परम् ।
श्रवणाद्यस्य पापानि नाशमायान्ति तत्-
क्षणात् ॥
मधुपिङ्गलवर्णाभं कृष्णकुण्डलिकायुतम् ।
स्वयम्भुलिङ्गमाख्यातं सर्व्वसिद्धैर्निषेवितम् ॥
नानावर्णसमाकीर्णं जटाशूलसमन्वितम् ।
मृत्युञ्जयाह्वयं लिङ्गं सुरासुरनमस्कृतम् ॥
दीर्घाकारं शुभ्रवर्णं कृष्णबिन्दुसमन्वितम् ।
नीलकण्ठं समाख्यातं लिङ्गं पूज्यं सुरासुरैः ॥
शुक्लाभं शुक्लकेशञ्च नेत्रत्रयसमन्वितम् ।
त्रिलोचनं महादेवं सर्व्वपापप्रणोदनम् ॥
ज्वलल्लिङ्गं जटाजूटं कृष्णाभं स्थूलविग्रहम् ।
कालाग्निरुद्रमाख्यातं सर्व्वसत्त्वैर्निषेवितम् ॥
मधुपिङ्गलवर्णाभं श्वेतयज्ञोपवीतकम् ।
श्वेतपद्मसमासीनं चन्द्ररेखाविभूषितम् ।
प्रलयास्त्रसमायुक्तं त्रिपुरारिसमाह्वयम् ॥
शुभ्राभं पिङ्गलजटं मुण्डमालाधरं परम् ।
त्रिशूलधरमीशानं लिङ्गं सर्व्वार्थसाधनम् ॥
त्रिशूलडमरुधरं शुभ्ररक्तार्द्धभागतः ।
अर्द्धनारीश्वराह्वानं सर्व्वदेवैरभीष्टदम् ॥
ईषद्रक्तमयं कान्तं स्थूलं दीर्घं समुज्ज्वलम् ।
महाकालं समाख्यातं धर्म्मकामार्थमोक्षदम् ॥
एतत्तु कथितं तुभ्यं लिङ्गचिह्नं महेशितुः ।
एकेनैव कृतार्थः स्यात् बहुभिः किमु सुव्रत् ! ॥”
इति बाणलिङ्गचिह्नानि ॥
वीरमित्रोदयधृतकालोत्तरे ।
“उक्ताङ्कं श्रेयसे योज्यं शीर्षमन्त्रं विवर्ज्जयेत् ।
यमवर्णन्तु यल्लिङ्गं यमाङ्कं वा कमण्डलुम् ॥
दण्डाङ्कं सूत्रचिह्नं वा ब्रह्मज्ञानान्वितं मतम् ।
शशिवर्णं महाकालं नन्दीशं पद्मरागवत् ॥
पद्मरागनिभं सर्व्वं महाभं सिद्धिपूजितम् ।
मौक्तिकाभं नीलनिभं रुद्रादित्यैः प्रपूजितम् ॥
वसुदैः सेन्द्रयक्षेशगुह्यकैर्यातुधानकैः ।
नानावर्णमयं नीलं शशाङ्कमण्डलप्रभम् ॥”
इति बाणलिङ्गलक्षणम् ॥
वीरमित्रोदयधृतम् ।
“इत्येतत् लक्षणं प्रोक्तं परीक्षातत्त्वकोविदेः ।
त्रिःसप्तपञ्चवारं वा तुलासाम्यं न जायते ।
तदा बाणं समाख्यातं शेषं पाषाणसम्भवम् ॥”
तुलाकरणन्तु तण्डुलेन । अपरतुलादिषु तण्डुला
यद्यधिकाः स्युस्तदा तल्लिङ्गं गृहिणां पूज्य-
मवधार्य्यं लिङ्गञ्चेदधिकं तदोदासीनपूज्यन्त-
पृष्ठ ३/४१६
दिति किंवदन्तीति हेमाद्रिधृतलक्षणकाण्डे ॥
सूतसंहितायान्तु ।
“सप्तकृत्वस्तुलारूढं वृद्धिमेति न हीयते ।
बाणलिङ्गमिति ख्यातं शेषं नार्म्मदमुच्यते ॥
त्रिपञ्चवारं यस्यैव तुलासाम्यं न जायते ।
तदा बाणं समाख्यातं शेषं पाषाणसम्भवम् ॥”
वीरमित्रोदये ।
“नद्यां वा प्रक्षिपेद्भूयो यदा तदुपलभ्यते ।
बाणलिङ्गं तदा विद्धि न्यूनं सुखविवर्द्धनम् ॥”
इति बाणलिङ्गपरीक्षा ॥
बाणशब्दव्युत्पत्तिरपि तत्रैव ।
“अथ बाणं समाख्यातं यथा वक्ष्ये तथादितः ।
बाणः सदाशिवो देवो बाणो बाणान्तरोऽपि च ॥
तेन यस्मै कृतं तस्माद्बाणलिङ्गमुदाहृतम् ।
सदा सन्निहितस्तत्र शिवः सर्व्वार्थदायकः ॥
कृतप्रतिष्ठं तल्लिङ्गं बाणाख्येन शिवेन च ।
पङ्कजस्य फलाकारं कुण्डलस्य समाकृति ॥”
पङ्कजफलं पद्मबीजम् ॥ पक्वजम्बुफलाकारं कुक्कु-
टाण्डसमाकृतीति हेमाद्रिधृतलक्षणकाण्डे पाठः ।
“भुक्तिमुक्तिप्रदञ्चैव बाणलिङ्गमुदाहृतम् ॥”
याज्ञवल्क्यसंहितायां देवीं प्रति शिववाक्यम् ।
“प्रशस्तं नार्म्मदं लिङ्गं पक्वजम्बुफलाकृति ।
मधुवर्णं तथा शुक्लं नीलं मरकतप्रभम् ॥
हंसडिम्बाकृति पुनः स्थापनायां प्रशस्यते ।
स्वयं संस्रवते लिङ्गं गिरितो नर्म्मदाजले ॥
पुरा बाणासुरेणाहं प्रार्थितो नर्म्मदातटे ।
अविवासं गिरौ तत्र लिङ्गरूपी महेश्वरः ।
बाणलिङ्गमपि ख्यातमतोऽर्थाज्जगतीतले ॥
अन्येषां कोटिलिङ्गानां पूजने यत् फलं लभेत् ।
तत् फलं लभते मर्त्त्यो बाणलिङ्गैकपूजनात् ॥”
तथा ।
“ताम्री वा स्फाटिकी स्वार्णी पाषाणी राजती
तथा ।
वेदिका च प्रकर्त्तव्या तत्र संस्थाप्य पूजयेत् ॥
प्रत्यहं योऽर्च्चयेल्लिङ्गं नार्म्मदं भक्तिभावतः ।
ऐहिकं किं फलं तस्य मुक्तिस्तस्य करे स्थिता ॥”
इति प्रत्यहबाणलिङ्गपूजाफलम् ॥
सूतसंहितायाम् ।
“संस्थाप्य श्रीबाणलिङ्गं रत्नकोटिगुणं भवेत् ।
रसलिङ्गे ततो बाणात् फलं कोटिगुणं स्मृतम् ॥
गुणांस्तु रसलिङ्गस्य वक्तुं शक्नोति शङ्करी ।
सिद्धयो रसलिङ्गे स्युरणिमाद्याः सुसंस्थिताः ॥”
केदारखण्डे ।
“रत्नधातुमयान्येव लिङ्गानि कथितान्यपि ।
पवित्राण्येव पूज्यानि सर्व्वकामप्रदानि च ॥
एतेषामपि सर्व्वेषां काश्मीरं हि विशिष्यते ।
काश्मीरादपि लिङ्गाच्च बाणलिङ्गं विशिष्यते ॥
बाणलिङ्गात् परं नान्यत् पवित्रमिह दृश्यते ।
ऐहिकामुष्मिकं सर्व्वं पूजाकर्त्तुः प्रयच्छति ॥”
इति बाणलिङ्गप्रशंसा ॥
निन्द्यलिङ्गमाह तत्रैव ।
“कर्कशे वाणलिङ्गे तु पुत्त्रदारक्षयो भवेत् ।
चिपिटे पूजिते तस्मिन् गृहभङ्गो भवेद्ध्रुवम् ॥
एकपार्श्वश्रिते धेनुपुत्त्रदारधनक्षयः ।
शिरसि स्फुटिते बाणे व्याधिर्मरणमेव च ॥
छिद्रलिङ्गेऽर्च्चिते बाणे विदेशगमनं भवेत् ।
लिङ्गे च कर्णिकां दृष्ट्वा व्याधिमान् जायते पुमान् ।
अत्युन्नतिविलाग्रे तु गोधनानां क्षयो भवेत् ॥”
हेमाद्रिधृतम् ।
“तीक्ष्णाग्रं वक्रशीर्षञ्च त्र्यस्रलिङ्गं विवर्ज्जयेत् ।
अतिस्थूलं चातिकृशं स्वल्पं वा भूषणान्वितम् ।
गृही विवर्ज्जयेत्तादृक् तद्धि मोक्षार्थिनो
हितम् ॥”
इति दुष्टबाणलिङ्गलक्षणम् ॥
शुभलिङ्गमाह वीरमित्रोदये ।
“अर्थदं कपिलं लिङ्गं घनाभं मोक्षकाङ्क्षिणाम् ।
लघु वा कपिलं स्थूलं गृही नैवार्च्चयेत् क्वचित् ॥
पूजितव्यं गृहस्थेन वर्णेन भ्रमरोपमम् ।
तत्सपीठमपीठं वा मन्त्रसंस्कारवर्जितम् ।
सिद्धिमुक्तिप्रदं लिङ्गं सर्व्वप्रसादपीठगम् ॥”
इति शुभबाणलिङ्गलक्षणम् ॥
सूतसंहितायां भैरववाक्यम् ।
“बाणासुरः पुरा भद्रे ! शिवस्यातीव बल्लभः ।
जितः क्रोधोऽनुरक्तश्च शिवपूजाविधौ रतः ॥
वह्निज्ञो निपुणश्चैव शिल्पज्ञो लक्षणान्वितः ।
दिने दिने स्वयं दत्त्वा लिङ्गं स्थाप्य प्रपूजयेत् ॥
एवं वर्षशतं देवि ! दिव्यमानेन पूजयेत् ।
तदा तद्भक्तिसुलभः प्रत्यक्षः शङ्करो भवेत् ॥
शङ्कर उवाच ।
तुष्टोऽहं तव हे बाण ! वरं ब्रूहि किमिच्छसि ।
शङ्करस्य वचः श्रुत्वा बाणो वचनमब्रवीत् ॥
यदि तुष्टोऽसि हीनाय मह्यं त्वं मन्दभागिने ।
क्लिष्टोऽहं तव देवेश ! लिङ्गं कृत्वा दिने दिने ॥
तत्तल्लक्षणसं सिद्धलक्षणं शास्त्रनिर्म्मितम् ।
शास्तार्थौ दुर्ल्लभौ देव ! सिद्धश्चार्थश्च दुर्ल्लभः ॥
तस्मात्त्वं यदि मे तुष्टो लिङ्गं देदि सुलक्षणम् ।
सर्व्वकामकृतार्थञ्च सर्व्वसत्त्वानुकम्पनम् ।
सर्व्वेषाञ्च हितार्थाय प्रसादं कुरु शङ्कर ! ॥
इत्येवं वचनं तस्य शिवः परमकारणम् ।
श्रुत्वा कैलासमूद्धानं शङ्करेण विनिर्म्मिताः ॥
लिङ्गानां कोटिसंख्याश्च तथा चैव चतुर्द्दश ।
सिद्धलिङ्गं तदा तत्तत् सर्व्वं सदोदयं स्वयम् ॥
अयोज्यैवं सुसम्पूर्णं बाणस्य च समर्पितम् ॥
अक्षय्यफलदं बाणं स्थाप्यमानञ्च नित्यशः ।
संपूज्य बाणः सद्भावं कृत्वा प्रणयनन्तदा ॥
तद्भावं स्वपुरं नीत्वा नूनं चिन्तयते शुचिः ।
अक्षग्यं यदि संसिद्धं स्थाप्यमानं दिने दिने ॥
सत्त्वानां सिद्धिहेत्वर्थं बाणस्थाने सुसंरये ।
लिङ्गानां कालिकागर्त्ते सञ्चितास्तु त्रिकोटयः ॥
श्रीशैले कोटयस्तिस्रः कोट्येका कन्यकाश्रमे ।
माहेश्वरे च कोटिस्तु कन्यातीर्थे तु कोटिका ॥
महेन्द्रे चैव नेपाले एकैका कोटिरेव च ।
बाणार्च्चार्थं कृतं लिङ्गं बाणलिङ्गमतः स्मृतम् ॥
बाणो वा शिव इत्युक्तस्तत्कृतं बाणमुच्यते ॥
तस्मात्तेषु प्रदेशेषु पुण्यस्थानेषु तेषु वा ।
स्थितं तच्छिवसद्भावं शिवस्याकृतिविग्रहे ॥”
हेम्ना तदाकृतिलक्षणसमुच्चयेऽपि ।
“स्वयम्भुलिङ्गवद्बाणलिङ्गं भुक्त्यै स्वमुक्तये ।
सहस्रफलमन्यस्माद्यथा स्थापनपूजने ॥
श्रीशैले कालिकागर्त्ते लिङ्गाद्रौ कन्यकाश्रमे ।
कन्यातीर्थे वने याने महेन्द्रे वा सुरेश्वरे ॥
स्थितानि बाणलिङ्गानि शिवेनैव कृतानि तु ॥”
सिद्धान्तशेखरे बाणलिङ्गान्यधिकृत्य ।
“तदनेकप्रकारं स्यादन्यवर्णमपीठकम् ।
लक्ष्ममूर्त्तिविहीनञ्च बाणं तत् पृथुलाग्रकम् ॥”
बाणलिङ्गेष्वावाहनादि न कर्त्तव्यम् । तदुक्तं
भविष्ये ।
“बाणलिङ्गानि राजेन्द्र ! स्थितानि भुवनत्रये ।
न प्रतिष्ठा न सं स्कारस्तेषामावाहनं न च ॥” इति
योगसारे पञ्चमपरिच्छेदे ।
“ब्राह्म्ये मुहूर्त्ते चोत्थाय यः स्मरेद्बाणलिङ्गकम् ।
सर्व्वत्र जयमाप्नोति सत्यं सत्यं महेश्वर ! ॥”
अथ बाणलिङ्गध्यानं तत्रैव ।
ॐ प्रमत्तं शक्तिसंयुक्तं बाणाख्यञ्च महाप्रभम् ।
कामबाणान्वितं देवं संसारदहनक्षमम् ॥
शृङ्गारादिरसोल्लासं बाणाख्यं परमेश्वरम् ।
एवं ध्यात्वा बाणलिङ्गं यजेत्तं परमं शिवम् ॥
मनसा गन्धपुष्पाद्यैः संपूज्यास्य मनुं स्मरेत् ॥”
तथा ।
“प्राणायामं ततः कृत्वा बाणलिङ्गन्तु तोषयेत् ।
तदिष्टदेवयोरैक्यं विभाव्य वाग्भवं जपेत् ॥
ततो जपं समाप्याथ स्तवेनानेन तोषयेत् ॥”
अथ स्तवः ।
“ॐ बाणलिङ्ग महाभाग संसारात्त्राहि मां प्रभो ! ।
नमस्ते चोग्ररूपाय नमस्ते व्यक्तयोनये ॥
संसाराकारिणे तुभ्यं नमस्ते सूक्ष्मरूपधृक् ।
प्रमत्ताय महेन्द्राय कालरूपाय वै नमः ॥
दहनाय नमस्तुभ्यं नमस्ते योगकारिणे ।
भोगिनां भोगकर्त्रे च मोक्षदात्रे नमो नमः ॥
नमः कामाङ्गनाशाय नमः कल्मषहारिणे ।
नमो विश्वप्रदात्रे च नमो विश्वस्वरूपिणे ॥
बाणस्य वरदात्रे च रावणस्य क्षयाय च ।
रामस्यानुग्रहार्थाय राज्याय भरतस्य च ॥
मुनीनां यीगदात्रे च राक्षसानां क्षयाय च ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥
ऐं दाहिकाशक्तियुक्ताय महामायाप्रियाय च ।
भगप्रियाय सर्व्वाय वैरिणां निग्रहाय च ॥
परित्राणाय योगिनां कौलिकानां प्रियाय च ।
कुलाङ्गनानां भक्ताय कुलाचाररताय च ॥
कुलभक्ताय योगाय नमो नारायणाय च ।
मधुपानप्रमत्ताय योगेशाय नमो नमः ॥
कुलनिन्दाप्रणाशाय कौलिकानां सुखाय च ।
कुलयोगाय निष्ठाय शुद्धाय परमात्मने ॥
परमात्मस्वरूपाय लिङ्गमूलात्मकाय च ।
सर्व्वेश्वराय सर्व्वाय शिवाय निर्गुणाय च ॥
इत्यतत् परमं गुह्यं बाणलिङ्गस्य शङ्कर ! ।
पृष्ठ ३/४१७
यः पठेत् साधकश्रेष्ठो गाणपत्यं लभेत सः ॥
स्तवस्यास्य प्रसादेन योगी योगित्वमाप्नुयात् ।
राज्यार्थिनां भवेद्राज्यं भोगिनां भोग एव च ॥
साधूनां साधनं देव ! कौलिकानां कुलं भवेत् ।
यं यं कामयते मन्त्री तं तमाप्नोति लीलया ॥
बाणलिङ्गप्रसादेन सर्व्वमाप्नोति सत्वरम् ।
किमन्यत् कथयामीह सर्व्वं वेत्सि कुलेश्वर ! ।
महाभये समुत्पन्ने राजद्वारे कुलेश्वर ! ॥
देशान्तरभये प्राप्ते दस्युचौरादिसङ्कुले ।
पठनात् स्तवराजस्य न भयं लभते क्वचित् ॥
बाणलिङ्गस्य माहात्म्यं संक्षेपात् कथितं मया ।
तस्य श्रवणमात्रेण नरो मोक्षमवाप्नुयात् ॥
बाणलिङ्गं सदाराध्यं योगिनां योगसाधने ।
कौलिकानां कुलाचारे पशूनां शत्रुनिग्रहे ॥
वेदज्ञानां वेदपाठे रोगिणां रोगनाशने ।
यो यो नाराधयेदेनं सर्व्वं तन्निष्फलं भवेत् ॥”
इति श्रीयोगसारे सर्व्वागमोत्तमे पार्व्वतीशिव-
संवादे वाणलिङ्गस्तोत्रं समाप्तम् ॥

बा(वा)णवारः, पुं, (बाणं परमुक्तशरं वारय-

तीति । वृ + णिच् + अण् ।) भटादेश्चोलाकृति-
सन्नाहः । तत्पर्य्यायः । वारवाणः २ वारणः ३ ।
इति शब्दरत्नावली ॥ चोलकः ४ । इति हारा-
वली । १९७ ॥ (क्लीवेऽपि दृश्यते । यथा,
सुश्रुते । ४ । २४ ।
“बाणवारं मृजावर्णतेजोबलविवर्द्धनम् ॥”)

बा(वा)णसुता, स्त्री, (बाणस्य बाणासुरस्य सुता ।)

ऊषा । इति शब्दरत्नावली ॥

बा(वा)णहा, [न्] पुं, (वाणं बाणासुरं हन्तीति ।

हन् + क्विप् ।) विष्णुः । इति हेमचन्द्रः ॥

बा(वा)णा, स्त्री, पुं, (बण्यते शब्द्यते इति ।

बण + घञ् । टाप् ।) नीलझिण्टी । इत्य-
मरः । २ । ४ । ७४ ॥

बा(वा)णा, स्त्री, बाणमूलम् । इति मेदिनी ।

णे, २७ ॥

बा(वा)णारिः, पुं, (बाणस्य बाणासुरस्य अरिः ।)

विष्णुः । इति केचित् ॥

बा(वा)णाश्रयः, पुं, (बाणस्याश्रयः ।) धनुः । इति

हलायुधः ॥

बा(वा)णासनं, क्ली, (बाणस्य आसनम् ।) धनुः ।

इति हलायुधः ॥

बा(वा)णिजः, पुं, (बणिगेव । बणिज् + अण् ।)

बणिक् । इत्यमरः ॥ बाडवाग्निः । इति
त्रिकाण्डशेषः ॥

बा(वा)णिजिकः, पुं, (बणिगेव । बणिज् + ठञ् ।)

बाडवाग्निः । बणिक् । इति मेदिनी ॥ (बाणिज-
कोऽप्यत्र । यथा, मनुः । ३ । १८१ ।
“यत्तु बाणिजके दत्तं नेह नामुत्र तद्भवेत् ॥”)
धूर्त्तः । इति शब्दरत्नावली ॥

बा(वा)णिज्यं, क्ली, (बणिजो भावः कर्म्म वा । बणिज्

+ ष्यञ् ।) वैश्यवृत्तिभेदः । इत्यमरः ॥ बणिजः
कर्म्म भावो वा । बाणिज्येत्यपि दृश्यते । इति
भरतः ॥ तत्पर्य्यायः । सत्यानृतम् २ बाणिज्या ३
बणिक्पथः ४ । इति जटाधरः ॥ (यथा,
मार्कण्डेये । ५१ । ५४ ।
“कृष्यां बाणिज्यलाभे च शान्तिं कुर्व्वन्तु मे
सदा ॥”)
क्रयविक्रयरूपस्य तस्य विवरणादि यथा, --
“मानेन तुलया वापि योऽशमष्टमकं हरेत् ।
दण्डं स दाप्यो द्विशतं वृद्धौ हानौ च कल्पि-
तम् ॥”
यः पुनर्बणिक् ब्रीहिकार्पासादेः पण्यस्याष्टम-
मंशं कूटमानेन कूटतुलया वान्यथापहरत्यसौ
पणानां द्विशतं दण्डनीयः । अपहृतस्य पुन-
र्द्रव्यस्य वृद्धौ हानौ च दण्डस्यापि वृद्धिहानी
कल्प्ये ॥
“भेषजस्नेहलवणगन्धधान्यगुडादिषु ।
पण्येषु प्रक्षिपन् हीनं पणान् दाप्यस्तु षोडश ॥”
मेषजमौषधद्रव्यं स्नेहो घृतादिः गन्धद्रव्यमुशी-
रादि आदिशब्दाद्धिङ्गुमरिचादि । एतेष्वसार-
द्रव्यं विक्रयार्थं मिश्रयतः षोडशपणो दण्डः ॥
किञ्च ।
“मृच्चर्म्ममणिसूत्रायःकाष्ठवल्कलवाससाम् ।
अजातौ जातिकरणे विक्रेयाष्टगुणो दमः ॥”
न विद्यते बहुमूल्या जातिर्यस्मिन् मृच्चर्म्मादिके
तदजातिः तस्मिन् जातिकरणे विक्रयार्थं गन्ध-
वर्णरसान्तरसञ्चारणेन बहुमूल्यजातीयसादृश्य-
सम्पादने यथा मल्लिकामोदसञ्चारणेन मृत्ति-
कायां सुगन्धामलकमिति । मार्जारचर्म्मणि
वर्णोत्कर्षापादनेन व्याघ्रचर्म्मेति स्फटिकमणौ
वर्णान्तरकरणेन पद्मराग इति कार्पासिके सूत्रे
गुणोत्कर्षाधानेन पट्टसूत्रमिति कार्ष्णायसे
वर्णोत्कर्षाधानेन रजतमिति विल्वकाष्ठे चन्द-
नामोदसञ्चारणेन चन्दनमिति कक्कोले त्वगाख्यं
लवङ्गमिति कार्पासिके वाससि गुणोत्कर्षा-
धानेन कौशेयमिति विक्रेयस्यापादितस्य दृश्य-
मृच्चर्म्मादेः पण्यस्याष्टगुणो दण्डो वेदितव्यः ॥
“समुद्गपरिवर्त्तञ्च सारभाण्डञ्च कृत्रिमम् ।
आधानं विक्रयं वापि नयतो दण्डकल्पना ॥
भिन्ने पणे तु पञ्चाशत् पणे तु शतमुच्यते ।
द्विपणे द्बिशतो दण्डो मूल्यवृद्धौ च वृद्धिमान् ॥”
मुद्गं पिधानं मुद्गेन सह वर्त्तत इति समुद्गं
करण्डकम् । परिवर्त्तनं व्यत्यासः । योऽन्यदेव
मुक्तानां पूर्णं करण्डकं दर्शयित्वा हस्तलाघवे-
नान्यदेव स्फटिकानां पूर्णकरण्डकं समर्पयति
यश्च सारं भाण्डं कस्तूरिकादिकं कृत्रिमं कृत्वा
विक्रयमाधिं वा नयति तस्य दण्डकल्पना वक्ष्य-
माणा वेदितव्या । कृत्रिमकस्तूरिकादेर्मूल्य-
भूते पणे भिन्ने न्यूने न्यूनपणमूल्यमिति । यावत्त-
स्मिन् कृत्रिमे विक्रीयते पञ्चाशत्पणो दण्डः
पणमूल्ये पुनः शतं द्बिपणमूल्ये द्बिशतो दण्ड
इत्येवं मूल्यवृद्धौ दण्डवृद्धिरुन्नेया ॥ * ॥ बणिजः
प्रत्याह ।
“सम्भूय कुर्व्वतामर्घं सबाधङ्कारुशिल्पिनाम् ।
अर्घस्य ह्रासं वृद्धिं वा जानतां दम उत्तमः ॥”
राजनिरूपितार्घस्य ह्रासं वृद्धिं वा जानन्तो-
ऽपि बणिजः सम्भय मिलित्वा कारूणां रजका-
दीनां शिल्पिनां चित्रकरादीनां सबाधं पीडा-
करमर्घान्तरं लाभलोभात् कुर्व्वन्तः पणसहसं
दण्डनीयाः ॥ * ॥ किञ्च ।
“सम्भूय बणिजां पण्यमनर्घेणोपरुन्धताम् ।
विक्रीणतां वा विहितो दण्ड उत्तमसाहसः ॥”
ये पुनर्बणिजो मिलित्वा देशान्तरादागतं
पण्यमनर्घण हीनमूल्येन प्रार्थयमाना उप-
रुन्धन्ति महार्घण वा विक्रीणते तेषामुत्तम-
साहसो विहितो दण्ड्यो मन्वादिभिः ॥ * ॥ केन
पुनरर्घेण पणितव्यमित्याह ।
“राजनि स्थाप्यते योऽर्घः प्रत्यहं तेन विक्रयः ।
क्रयो वा निस्रवस्तस्माद्बणिजां लाभकृत् स्मृतः ॥”
राजनि सन्निहिते सति यस्तेनार्घः स्थाप्यते
निरूप्यते तेनार्घेण प्रतिदिनं क्रयो विक्रयो वा
कार्य्यः । निर्गतः स्रषो निस्रवोऽवशेषः तस्मा-
द्राजनिरूपिताद्यो निस्रवः स एव बणिजां
लाभकारी न पुनः स्वच्छन्दपरिकल्पितात् ।
मनुना चार्घ्यकरणे विशेषो दर्शितः ।
“पञ्चरात्रे पञ्चरात्रे पक्षे मासे तथा गते ।
कुर्व्वीत चैषां प्रत्यक्षमर्घसंस्थापनं नृप ! ॥”
इति ।
किञ्च ।
“स्वदेशपण्ये च शतं बणिक् गृह्णीत पञ्चकम् ।
दशकं पारदेश्ये तु यः सद्यः क्रयविक्रयी ॥”
स्वदेशप्राप्तपण्यं गृहीत्वा यो विक्रीणीतेऽसौ
पञ्चकं शतं पणशते पणपञ्चकं लाभं गृह्णीयात् ।
परदेशप्राप्ते पुनः पण्ये शतपणमृल्ये दशपणान्
लाभं गृह्णीयात् । यस्य पण्यग्रहणदिवस एव
विक्रयः सम्पद्यते । यः पुनः कालान्तरेऽपि
विक्रीणीते तस्य कालोत्कर्षवशाल्लाभोत्कर्षः
कल्प्यः । एवञ्च यथार्घे निरूपिते पणशते
पञ्चपणो लाभो भवति तथैवार्घे राज्ञा स्वदेश-
पण्यविषये स्थापनीयः ॥ * ॥ परदेशपण्ये
अर्घनिरूपणप्रकारमाह ।
“पण्यस्योपरि संस्थाप्य व्ययं पण्यसमुद्भवम् ।
अर्घोऽनुग्रहकृत् कार्य्यः क्रेतुर्विक्रेतुरेव च ॥”
देशान्तरादागते पण्ये देशान्तरगमनप्रत्या-
गमनभाण्डग्रहणशुल्कादिस्थानेषु यावानुप-
युक्तोऽर्थस्तावन्तमर्थं परिगणय्य पण्यमूल्येन सह
मेलयित्वा यथा पणशते दशपणो लाभः सम्प-
द्यते तथा क्रेतृविक्रे त्रोरनुग्रहकार्य्योऽर्घो राज्ञा
स्थापनीयः ॥ * ॥ प्रासङ्गिकं परिसमाप्याधुना
विक्रीयासम्प्रदानम्प्रक्रमते । तत्स्वरूपं नारदे-
नाभिहितम् ।
“विक्रीय पण्यं मूल्येन क्रेतुर्यन्न प्रदीयते ।
विक्रीयासम्प्रदानं तद्विवादपदमुच्यते ॥”
तत्र विक्रेयद्रव्यस्य चराचरभेदेन द्बैविध्यमभि-
धाय पुनः षड् विधत्वं तेनैव प्रत्यपादि ।
“लोकेऽस्मिन् द्विविधं पण्यं जङ्गमं स्थावरं
तथा ।
पृष्ठ ३/४१८
षड्विधस्तस्य तु बुधैर्दानादानविधिः स्मृतः ॥
गणिकं तुलिमं मेयं क्रियया रूपतः श्रिया ॥”
इति ॥
गणिकं क्रमुकफलादि । तुलिमं कुङ्कुमादि ।
मेयं शाल्यादि । क्रियया वाहदोहादिरूपयो-
पलक्षितमश्वमहिष्यादि । रूपतः पण्याङ्ग-
नादि । श्रिया दीप्त्या मरकतपद्मरागादि ॥ * ॥
इत्येतत् षट्प्रकारमपि पण्यं विक्रीयासंप्रय-
च्छतो दण्डमाह ।
“गृहीतमूल्यं यः पण्यं क्रेतुर्न्नैव प्रयच्छति ।
सोदयं तस्य दाप्योऽसौ दिग्लाभं वा दिगागते ॥”
गृहीतं मूल्यं यस्य पण्यस्य विक्रेत्रा तद्गृहीत-
मूल्यं तद्यदि विक्रेत्रा प्रार्थयमानाय स्वदेश-
बणिजे क्रेत्रे न समर्पयति । तच्च पण्यं यदि
क्रयकाले बहुमूल्यं सत् कालान्तरेऽल्पमूल्येनैव
लभ्यते तदार्घह्रासकृतो य उदयो वृद्धिः पण्यस्य
स्थावरजङ्गमात्मकस्य तेन सहितं पण्यं विक्रेता
क्रेत्रे दापनीयः । यदा मूल्यह्रासकृतः पण्य-
स्योदयो नास्ति किन्तु क्रयकाले यावदेव यतो
मूल्यस्येयत्पण्यमिति प्रतिपन्नं तावदेव तदा
तत् पण्यमादाय तस्मिन् देशे विक्रीणानस्य यो
लाभस्तेनोदयेन सहितं द्विकं त्रिकमित्यादि
प्रतिपादितवृद्धिरूपोदयेन वा सहितं क्रेतृ-
वाञ्छावशाद्दापनीयः ॥ * ॥ यथाह नारदः ।
“अर्घश्चेदवहीयेत सोदयं पण्यमावहेत् ।
स्थानिनामेष नियमो दिग्लाभं दिग्विचारिणाम् ॥”
इति ॥
यदा त्वर्घमहत्त्वेन पण्यस्य न्यूनभावस्तदा
तस्मिन् पण्ये वस्त्रगृहादिके य उपभोगः
तदाच्छादनसुखनिवासादिरूपो विक्रेतुस्तत्-
सहितं पण्यमसौ दाप्यः । यथाह नारदः ।
“विक्रीय पण्यं मूल्येन यः क्रेतुर्न प्रयच्छति ।
स्थावरस्य क्षयं दाप्यो जङ्गमस्य क्रियाफलम् ॥”
इति ॥
विक्रेतुरुपभोगः क्षय उच्यते । क्रेतुः सम्बन्धि-
त्वेन क्षीयमाणत्वान्न पुनः कुड्यपातशस्यघाता-
दिरूपः । तस्य तु ।
“उपहन्येत वा पण्यं दह्येतापह्रियेत वा ।
विक्रेतुरेव सोऽनर्थो विक्रीयासंप्रयच्छतः ॥”
इत्यनेनोक्तत्वात् ।
यदा त्वसौ क्रेता देशान्तरात् पण्यग्रहणार्थ-
मागतस्तदा तत् पण्यमादाय देशान्तरे विक्री-
णानस्य यो लाभस्तेन सहितं पण्यं विक्रेता
क्रेत्रे दापयितव्यः । अयञ्च क्रीतपण्यसमर्पण-
नियमोऽनुशयाभावे द्रष्टव्यः । सति त्वनुशये
क्रीत्वा विक्रीय वा किञ्चिदित्यादि मनूक्तं
वेदितव्यम् ॥ * ॥ किञ्च ।
“विक्रीतमपि विक्रेयं पूर्ब्बक्रेतर्य्यगृह्णति ।
हानिश्चेत् क्रेतृदोषेण क्रेतुरेव हि सा भवेत् ॥”
यदा पुनर्जातानुशयः क्रेता पण्यं न जिघृक्षति
तदा विक्रीतमपि पण्यं अन्यत्र विक्रे यम् । यदा
पुनर्विक्रेत्रा दीयमानं क्रेता न गृह्णाति तच्च
पण्यं राजदैविकेनोपहतं तदा क्रेतुरेवासौ
हानिर्भवेत् । पण्याग्रहणरूपेण क्रेतृदोषेण
नाशितत्वात् ॥ * ॥ अपि च ।
“राजदैवोपघातेन पण्ये दोषमुपागते ।
हानिर्विक्रेतुरेवासौ याचितस्याप्रयच्छतः ॥”
यदा पुनः क्रेत्रा प्रार्थ्यमानमपि पण्यं विक्रेता
न समर्पयति अजातानुशयोऽपि तच्च राज-
दैविकेनोपहतं भवति तदासौ हानिर्विक्रेतुरे-
वातोऽन्यददुष्टं पण्यं विनष्टसदृक्षं क्रेत्रे देयम् ॥
किञ्च ।
“अन्यहस्ते च विक्रीतं दुष्टं वा दुष्टवद्यदि ।
विक्रीणीते दमस्तत्र मूल्यात्तु द्विगुणो भवेत् ॥”
यः पुनर्विनैवानुशयमेकस्य हस्ते विक्रीतं पुन
रन्यस्य हस्ते विक्रीणीते सदोषं वा पण्यं प्राच्छा-
दितदोषं विक्रीणीते तदा तत्पण्यमूल्यात् द्बिगुणो
दमो वेदितव्यः । * । नारदेनाप्यत्र विशेषो
दर्शितः ।
“अन्यहस्ते तु विक्रीय योऽन्यस्मै तत्प्रयच्छति ।
द्रव्यं तद्द्विगुणं दाप्यो विनयं तावदेव तु ॥
निर्द्दोषं दर्शयित्वा तु सदोषं यः प्रयच्छति ।
स मूल्याद्द्विगुणं दाप्यो विनयं तावदेव ते ॥”
इति ॥
सर्व्वश्चायं विधिर्दत्तमूल्ये पण्ये द्रष्टव्यः । अदत्त-
मूल्ये पुनः पण्ये वाङ्मात्रक्रये क्रेतृविक्रेत्रो-
र्नियमकारिणः समयादृते प्रवृत्तौ निवृत्तौ वा न
कश्चिद्दोषः ॥ * ॥ यथाह नारदः ।
“दत्तमूल्यस्य पण्यस्य विधिरेष प्रकीर्त्तितः ।
अदत्तेऽन्यत्र समयान्न विक्रेतुरविक्रयः ॥” इति ॥
विक्रयानुशयोऽभिहितः क्रीतानुशयस्वरूपं तु
प्राक् प्रपञ्चितमधुना तदुभयसाधारणं धर्म्म-
माह ।
“क्षयं वृद्धिं च बणिजा पण्यानामविजानता ।
क्रीत्वा नानुशयः कार्य्यः कुर्व्वन् षड्भागदण्ड-
भाक् ॥”
परीक्षितक्रीतपण्यानां क्रयोत्तरकालं क्रय-
कालपरिमाणतोऽर्घकृतां वृद्धिमपश्यता क्रेत्रा-
नुशयो न कार्य्यः । विक्रेत्रा च महार्घनिबन्धनं
पण्यक्षयमपश्यता नानुशयितव्यम् । वृद्धिक्षय-
परिज्ञाने पुनः क्रेतृविक्रेत्रोरनुशयो भवतीति
व्यतिरेकादुक्तम्भवति । अनुशयकालावधिश्च
नारदेनोक्तः ।
“क्रीत्वा मूल्येन यः पण्यं दुःक्रीतं मन्यते क्रयी ।
विक्रेतुः प्रतिदेयं तत् तस्मिन्नेवाह्न्यविक्षतम् ॥
द्धितीयेऽह्नि ददत् क्रेता मूल्यात्त्रिंशांशमा-
वहेत् ।
द्विगुणन्तु तृतीयेऽह्नि परतः क्रेतुरेव तत् ॥”
इति ॥
अपरीक्षितक्रयविक्रये पुनः पण्यवैगुण्यनिबन्ध-
नानुशयावधि दशैकपञ्चसप्ताहेत्यादिना दर्शित
एव । तदनया वाचो युक्त्या वृद्धिक्षयपरिज्ञान-
स्यानुशयकारणत्वमवगम्यते । यथा पण्यपरी-
क्षाविधिबलात् पण्यदोषाणां अतः पण्यदोषे
तद्वृद्धिक्षयकारणत्रितयाभावेऽनुशयकालाभ्य-
न्तरेऽपि यद्यनुशयं करोति तदा पण्यषड् भागं
दण्डनीयः । अनुशयकारणसद्भावेऽपि अनुशय-
कालातिक्रमेणानुशयं कुर्व्वतोऽप्ययमेव दण्डः ।
उपभोगेनाविनश्वरेषु स्थिरार्थेष्वनुशयकालाति-
क्रमेणानुशयं कुर्व्वतो मनूक्तो दण्डो द्रष्टव्यः ।
“परेण तु दशाहस्य न दद्यान्नापि दापयेत् ।
आददानो ददच्चैव राज्ञा दण्ड्यः शतानि षाट् ॥”
इति मिताक्षरायां विक्रीयासम्प्रदानं नाम
प्रकरणम् ॥
अथ बृहस्पतिः ।
“कुषीदकृषिबाणिज्यं प्रकुर्व्वीतास्वयं कृतम् ।
आपत्काले स्वयं कुर्व्वन् नैनसा लिप्यते द्विजः ॥
लब्धलाभः पितॄन् देवान् ब्राह्मणांश्चैव पूजयेत् ।
ते तुष्टास्तस्य तं दोषं शमयन्ति न संशयः ॥
बणिक् कुषीदी दद्यात्तु वस्त्रगोकाञ्चनादिकम् ।
बणिक् कुषीद्यदोषः स्यात् ब्राह्मणानाञ्च पूज-
नात् ॥”
इत्याह्निकतत्त्वम् ॥

बा(वा)णिज्या, स्त्री, (बाणिज्य + टाप् । अभिधा-

नात् स्त्रीत्वम् ।) बाणिज्यम् । इति जटाधरः ॥

बा(वा)ध, ऋ ङ विहतौ । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-सक०-सेट् ।) ऋ, अवबाधत् ।
ङ, बाधते । ऊनं न सत्त्वेष्वधिको बबाधे । इति
रघुः ॥ २ । १४ ॥ इति दुर्गादासः ॥

बा(वा)धः, पुं, (बाधनमिति । बाध + भावे घञ् ।)

प्रतिबन्धकः । व्याघातः । (यथा, ऋग्वेदे । ६ । ५१ । ४ ।
“यदीमर्भे महति वा हितासो बाधे मरुतो-
अह्वाम देवान् ॥”) न्यायमते साध्याभाववत्पक्षः ।
यथा । ह्रदो वह्निमान् । इति सामान्यनिरुक्ति-
गादाधरी ॥

बा(वा)धकः, पुं, (बा(वा)धते इति । बाध + ण्वुल् ।)

स्त्रीरोगविशेषः । यथा, --
“रक्तमाद्री तथा षष्ठी चाङ्कुरो जलकुमारकः ।
चतुर्विधो बाधकः स्यात् स्त्रीणां मुनिविभाषितः ॥
तेषां स्वभावं वक्ष्यामि यथाशास्त्रं विधानतः ।
एतेषां पूजनं कार्य्यं जनैः सन्तानकाङ्क्षिभिः ॥
निःसारणं स्थापनञ्च बलिदानं जपस्तथा ।
कर्त्तव्यो गुरुवाक्येन यथाशास्त्रं विचक्षणैः ॥
चतुर्विधो बाधकस्तु जायते ऋतुकालतः ॥”
तस्य लक्षणं यथा, --
“व्यथा कट्यां तथा नाभेरधः पार्श्वे स्तनेऽपि
च ।
रक्तमाद्रीप्रदोषेण जायते फलहीनता ॥
मासमेकं द्बयं वापि ऋतुयोगो भवेद्यदि ।
रक्तमाद्रीप्रदोषेण फलहीना तदा भवेत् ॥”
इति रक्तमाद्र्याः ॥
“नेत्रे हस्ते भवेज्ज्वाला योनौ चैव विशेषतः ।
लालासंयुतरक्तञ्च षष्ठीबाधकयोगतः ॥
मासैकेन भवेद्यस्या ऋतुस्नानद्बयं तथा ।
मलिना रक्तयोनिः स्यात् षष्ठीबाधकयोगतः ॥”
इति षष्ठ्याः ॥
पृष्ठ ३/४१९
“उद्बेगो गुरुता देहे रक्तस्रावो भवेद्बहु ।
नाभेरधो भवेत् शूलं चाङ्कुरः स तु बाधकः ॥
ऋतुहीना चतुर्म्मासं त्रिमासं वा भवेद्यदि ।
कृशाङ्गी करपादे च ज्वाला चाङ्कुरयोगतः ॥”
इति चाङ्कुरस्य ॥
“सशूला च सगर्भा च शुष्कदेहाल्परक्तिका ।
जलकुमारस्य दोषेण जायते फलहीनता ॥
या कृशाङ्गी भवेत् स्थूला बहुकालऋतुस्तथा ।
गुरुस्तनी स्वल्परक्ता जलकुमारस्य दूषणात् ॥”
इति जलकुमारस्य ॥
इति वैद्यकम् ॥ बाधाजनके, त्रि ॥ (यथा,
मार्कण्डेये । ३४ । १६ ।
“घर्म्मो धर्म्मानुबन्धार्थो धर्म्मो नात्मार्थ-
बाधकः ॥”)

बा(वा)धनं, क्ली, (बाध + ल्युट् ।) पीडा । इति

शब्दरत्नावली ॥ प्रतिवन्धकश्च ॥ (बाधते इति ।
बाध + ल्युः । पीडादातरि प्रतिबन्धके च त्रि ।
यथा, हरिवंशे । ९५ । ५३ ।
“श्रूयतां कथयिष्यामि यत्रोभौ शत्रुवाधनौ ॥”)

बा(वा)धा, स्त्री, (बाध + टाप् ।) पीडा । इत्यमरः ।

१ । ९ । ३ ॥ (यथा, मार्कण्डेये । २२ । ३ ।
“दुर्व्वृत्ताः सन्ति शतशो दानवाः पापयोनयः ।
तेभ्यो न स्यात् यथा बाधा मुनीनां त्वं तथा
कुरु ॥”)
निषेधः । इति हेमचन्द्रः ॥

बा(वा)धितः, त्रि, (बाध + क्त ।) बाधायुक्तः ।

निवर्त्तः । यथा । सकृद्गतविप्रतिषेधेन यद्बाधितं
तद्बाधितमेव । इति मुग्धबोधटीकायां दुर्गा-
दासः ॥

बाधिर्य्यं, क्ली, (बधिरस्य भावः । बधिर + ष्यञ् ।)

बधिरस्य भावः । कर्णरोगविशेषः । तस्य
निदानम् । यथा, --
“यदा शब्दवहं वायुः स्रोत आवृत्य तिष्ठति ।
शुद्धः श्लेष्मान्वितो वापि बाधिर्य्यं तेन जायते ॥”
इति माधवकरः ॥
अस्यौषधं यथा, --
“शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुलनागरम् ।
शुक्रं चतुर्गुणं दद्यात्तैलमेतैर्विपाचयेत् ॥
बाधिर्य्यं कर्णशूलञ्च पूयस्रावश्च कर्णयोः ।
क्रमयश्च विनश्यन्ति तैलस्यास्य प्रपूरणात् ॥”
अपि च ।
“प्रस्थे द्वे गण्डमालानां क्वाथयेद्द्रोणमम्भसाम् ।
चतुर्भागावशेषेण तैलप्रस्थं विपाचयेत् ।
काञ्जिकस्याढकं दत्त्वा पिष्टान्येतानि दापयेत् ॥
पुनर्नवा गोक्षुरकं सैन्धवं त्र्युषणं वचा ।
सरलं सुरदारुश्च बृहती कण्टकारिका ॥
नस्यपानाद्धरत्येव कर्णशूलं हनुग्रहम् ।
बाधिर्य्यं सर्व्वरोगञ्च अभ्यङ्गाच्च महेश्वर ! ॥”
इति गारुडे १९८ अध्यायः ॥
(ससम्प्राप्तिकारणमस्य यथा, --
“स एव शब्दाभिवहा यदा शिवाः
कफानुयातो व्यनुसृत्य तिष्ठति ।
तदा नरस्याप्रतिकारसेविनो
भवेत्तु बाधिर्य्यमसंशयं खलु ॥”
इत्युत्तरतन्त्रे विंशतितमेऽध्याये सुश्रुतेनोक्तम् ॥
अस्य चिकित्सा यथा, --
“सामान्यतो विशेषेण बाधिर्य्ये पूरणं शृणु ।
गवां मूत्रेण विल्वानि पिष्ट्वा तैलं विपाचयेत् ॥
सजलञ्च सदुग्धञ्च बाधिर्य्ये कर्णपूरणम् ।
सितामधुकविम्बीभिः सिद्धं वाजे पयस्यथ ॥
सिद्धं वा विल्वनिःक्वाथे शीतीभूतं तदुद्धृतम् ।
पुनः पचेद्दशक्षीरं सितामधुकचन्दनैः ॥
विल्वाम्बु गाढं तत्तैलं बाधिर्य्ये कर्णपूरणम् ।
वक्ष्यते यः प्रतिश्याये विधिः सोऽप्यत्र पूजितः ।
वातव्याधिषु यश्चोक्तो विधिः स च हितो भवेत् ॥”
इति च तत्रैकविंशतितमेऽध्याये तेनैवोक्तम् ॥)

बाध्यं, त्रि, (बाध + ण्यत् ।) बाधनीयम् । बाधि-

तव्यम् । निवर्त्त्यम् । यथा । साङ्गचितालिङ्ग-
दर्शनात् प्रकरणमिदं बाध्यम् । इति ब्रह्मसूत्रस्य
समञ्जसावृत्तिः ॥ (यथा, मार्कण्डेये । ६६ । ४० ।
“नाहं स्वारोचिषस्तुल्यः स्त्रीबाध्यो वा जले-
चरि ! ॥”)

बाध्यता, स्त्री, (बाध्यस्य भावः । बाध्य + तल् ।)

बाध्यत्वम् । बाध्यस्य भावः इत्यर्थे तप्रत्यय-
निष्पन्नोऽयं शब्दः ॥

बान्धकिनेयः, त्रि, (बन्धक्या अपत्यं पुमान् ।

बन्धकी + “कल्याण्यादीनामिनङ् ।” ४ । १ । १२६ ।
इति ढक् इनङ् च ।) असतीसुतः । इत्य-
मरः । २ । ६ । २६ ॥

बान्धवः, पुं, (बन्धुरेव । बन्धु + “प्रज्ञादिभ्यश्च ।” ५ ।

४ । ३८ । इति स्वार्थे अण् ।) ज्ञातिः । इत्य-
मरः । २ । ६ । ३४ ॥ सुहृत् । इति मेदिनी । वे, ४५ ॥
(यथा, मनुः । ५ । ७० ।
“नातिवर्षस्य कर्त्तव्या बान्धवैरुदकक्रिया ॥”)
अस्य विवरणं बन्धुशब्दे द्रष्टव्यम् ॥

बाभ्रवी, स्त्री, (बभ्रोर्महादेवस्य पत्नी । बभ्रु +

अण् + ङीष् ।) दुर्गा । इति त्रिकाण्डशेषः ॥
(यथा, मार्कण्डेये । ९१ । २१ ।
“मेधे सरस्वति वरे भूति बाभ्रवि तामसि ! ॥”)

बारकीरः, पुं, द्वारग्राही । बाडवः । यूका । वेणि-

वेधिनी । नीराजितहयः । इति मेदिनी । रे, २८६ ॥

बार्ब्बटीरः, पुं, त्रपु । आम्रास्थि । अङ्कुरः ।

गणिकासुतः । इति हेमचन्द्रः ॥

बार्हस्पतं, त्रि, बृहस्पतिसम्बन्धि । बृहस्पतेरिदं

इत्यर्थे (अण्) ष्णप्रत्ययेन निष्पन्नम् ॥

बार्हस्पत्यः, पुं, (बार्हस्पत्यं बृहस्पतिप्रोक्तं शास्त्रं

अधीयमानत्वेनास्त्यस्येति । अर्श आदित्वा-
दच् ।) नास्तिकः । यथा, हेमचन्द्रः ।
“स्याद्वादवाद्यार्हतः स्याच्छून्यवादी तु सौगतः ।
नैयायिकस्त्वक्षपादो योगः सांख्यस्तु कापिलः ॥
वैशेषिकः स्यादौलूक्यो बार्हस्पत्यस्तु नास्तिकः ।
चार्व्वाको लौकायतिकश्चैते षडपि तार्किकाः ॥”
(बृहस्पतिना प्रोक्तमिति । बृहस्पति + ण्यः ।)
नीतिशास्त्रे, क्ली । इति केचित् ॥ बृहस्पतेरिद-
मिति वा । बृहस्पति + “दित्यदित्यादित्यपत्यु-
त्तरपदाण् ण्यः ।” ४ । १ । ८५ । इति ण्यः ।)
बृहस्पतिसम्बन्धिनि, त्रि ॥

बालं, क्ली, पुं, (बलतीति । बल + णः ।)

गग्धद्रव्यविशेषः । बाला इति ख्यातम् । इति
मेदिनी ॥ तत्पर्य्यायः । ह्रीवेरम् २ बर्हिष्ठम् ३
उदीच्यम् ४ केशनामकम् ५ अम्बुनामकम् ६ ।
इत्यमरः । २ । ४ । १२२ ॥ ह्रिवेरम् ७ वर्हि-
ष्ठम् ८ । इति भरतः ॥ बालकम् ९ बारिदम् १०
इति शब्दरत्नावली ॥ वरम् ११ ह्रीवेरकम् १२
केश्यम् १३ वज्रम् १४ पिङ्गम् १५ ललना-
प्रियम् १६ कुन्तलोशीरम् १७ कचामोदम् १८ ।
अस्य गुणाः । शीतलत्वम् । तिक्तत्वम् । पित्त-
वान्तितृषाज्वरकुष्ठातिसारश्वासव्रणनाशित्वम् ।
केशहितत्वञ्च । इति राजनिर्घण्टः ॥ अपि च ।
“बाला वाट्यालिका वाट्या सैव वाद्यालिका-
पि च ।
महाबला पीतपुष्पा सहदेवी च सा स्मृता ॥
ततोऽन्यातिबला ऋष्यप्रोक्ता कङ्कतिकासह ।
गाङ्गेरुकी नागबला झसा ह्रस्वा गवेधुका ॥
अस्य गुणाः ।
बलाचतुष्टयं शीतं मधुरं बलकान्तिकृत् ।
स्निग्धं ग्राहि समीरास्रपित्तास्रक्षतनाशनम् ॥
बालाचतुष्टयविशेषगुणाः ।
बलामूलत्वचश्चूर्णं पीतं सक्षीरशर्करम् ।
मूत्रातिसारं हरति दुष्टमेतन्न संशयः ॥
हरेन्महाबला कृच्छ्रं भवेद्वातानुलोमनी ।
हन्यादतिबला मोहं पयसा सितया सह ॥”
इति भावप्रकाशः ॥

बालः, त्रि, (बलतीति । बल प्राणने + “ज्वलि-

तिकसन्तेभ्यो णः ।” ३ । २ । १४० । इति णः ।)
मूर्खः ॥ (यथा, मनुः । २ । १५३ ।
“अज्ञो भवति वै बालः पिता भवति मन्त्रदः ।
अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम् ॥”
“वैशब्दोऽवधारणे अज्ञ एव बालो भवति
नत्वल्पवयाः ।” इति तट्टीकायां कुल्लूकभट्टः ॥)
अर्भकः । इति मेदिनी । ले, ४० ॥ द्बितीयस्य
पर्य्यायः । माणवकः २ । इत्यमरः । २ । ६ । ४२ ॥
बालकः ३ माणवः ४ किशोरः ५ बटुः ६ मुष्टि-
न्धयः ७ बटुकः ८ किशोरकः ९ । इति शब्द-
रत्नावली ॥ पाकः १० गर्भः ११ हितकः १२
पृथुकः १३ शिशुः १४ शावः १५ अर्भः १६
डिम्भकः १७ डिम्बः १८ । इति राजनिर्घण्टः ॥
स तु षोडशवर्षपर्य्यन्तः प्रथमवयस्कः । यथा, --
“आषोडशाद्भवेद्बालस्तरुणस्तत उच्यते ।
वृद्धः स्यात् सप्ततेरूर्द्ध्वं वर्षीयान् नवतेः परम् ॥”
इति स्मृतिः । इति भरतः ॥
तस्य रक्षकाः सर्व्वदेवताः । यथा, --
“अनाथबालवृद्धानां रक्षकाः सर्व्वदेवताः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८६ अध्यायः ॥
अथ बालस्य परिचर्य्याविधिः ।
“बालमङ्के सुखं दध्यान्न चैनं तर्ज्जयेत् क्वचित् ।
पृष्ठ ३/४२०
सहसा बोधयेन्नैव नायोग्यमुपवेशयेत् ॥”
अयोग्यमुपवेशनासमर्थम् ।
“नाकृष्य स्थापयेत् क्रोडे न क्षिप्रं शयने क्षिपेत् ।
रोदयेन्न क्वचित् कार्य्य विधिमावश्यकं विना ॥”
आवश्यको विधिः भेषजदानतैलाभ्यङ्गोद्बर्त्तनादि ॥
तच्चित्तमनुवर्त्तेत तं सदैवानुमोदयेत् ।
संसेवितमना एकं नित्यमेवाभिवर्द्धयेत् ॥
बालातपतडिद्वृष्टिधूमानलजलादितः ।
निम्नोच्चस्थानतश्चापि रक्षेद्बालं प्रयत्नतः ॥”
बालस्य स्वभावाद्धितान्याह ।
“अभ्यङ्गोद्वर्त्तने स्नानं नेत्रयो रञ्जनं तथा ।
वसनं मृदु यत्तच्च तथा मृद्बनुलेपनम् ॥
जन्मप्रभृति पथ्यानि बालस्यैतानि सर्व्वथा ॥”
बालस्य कवलादेः समयमाह ।
“कबलः पञ्चमाद्वर्षाद्बिंशतेश्चैव मैथुनम् ॥”
बाल्यादेरवधिभाह सुश्रुतः ।
“वयस्तु त्रिविधं बाल्यं मध्यमं वार्द्धकं तथा ।
ऊनषोडशवर्षस्तु नरो बालो निगद्यते ॥
त्रिविधः सोऽपि दुग्धाशी दुग्धान्नाशी तथान्न-
भुक् ॥
दुग्धाशी वषपर्य्यन्तं दुग्धान्नाशी शरद्द्वयम् ।
तदुत्तरं स्यादन्नाशी एवं बालस्त्रिधा मतः ॥
मध्ये षोडशसप्तत्योर्मध्यमः कथितो बुधैः ।
चतुर्धा मध्यमं प्राहुर्युवा द्वात्रिंशतो मतः ॥
चत्वारिंशत्समा यावत्तिष्ठेद्वीर्य्यादिपूरितः ।
ततः क्रमेण क्षीणः स्याद्यावद्भवति सप्ततिः ॥
वीर्य्यादीत्यादिशब्देन रसादिसर्व्वधात्विन्द्रिय-
बलोत्साहा उच्यन्ते । क्षीणः सर्व्वधात्विन्द्रिय-
बलोत्साहैर्हीनः ।
ततस्तु सप्तवेरूर्द्ध्वं क्षीणधातुरसादिकः ॥
क्षीयमाणेन्द्रियबलः क्षीणरेता दिने दिने ।
बलीपलितखालित्ययुक्तः कर्म्मसु चाक्षमः ॥
कासश्वासादिभिः क्लिष्टो वृद्धो भवति मानवः ॥
बाल्ये विवर्द्धते श्लेष्मा पित्तं स्यान्मध्यमाब्दिकम् ।
वार्द्धक्ये वर्द्धते वायुर्विचार्य्यैतदुपक्रमेत् ॥
उपक्रमेत् चिकित्सेत् ॥ तन्त्रान्तरे तु ।
बाल्यं वृद्धिश्छविर्मेधा त्वग्दृष्टिः शुक्रविक्रमौ ।
बुद्धिः कर्म्मेन्द्रियं रेतो जीवितं दशतो हसेत् ॥”
इति भावप्रकाशः ॥
(अथ बालाद्यशौचम् ।
“नवमादिमासजातबालस्याशौचकालाभ्यन्तर-
मरणे मातापित्रोरस्पृश्यत्वं युक्तम् । तदेव
स्वजात्युक्तजननाशौचम् । ज्ञातीनान्त्वशौचं
नास्ति । नवमादिमासमृतजातयोस्तु कन्या-
पुत्त्रयोः पित्रादि सपिण्डानां मातुश्च जनना-
शौचम् । तच्च ब्राह्मणानां दशाहं शूद्राणां
मासः । पुत्त्रजन्मनि पितुः सचेलस्नानं पुत्त्रमुख-
दर्शनात् परं पुनः सचेलस्नानम् । पुत्त्रकन्याजनने
ब्राह्मण्या दशाहानन्तरं लौकिककर्म्माधिकार ॥
पुत्त्रजनने ब्राह्यण्या विंशतिरात्रोत्तरस्नानात्
वैदिककर्म्माधिकारः । कन्याजनने तु ब्राह्मण्या
मासोत्तरस्नानात् वैदिककर्म्माधिकारः ।
शूद्रायाः कन्यापुत्त्रजनने त्रयोदशाहोत्तरं
लौकिककर्म्माधिकारः वैदिककर्म्मणि तु मासो-
त्तरस्नानात् शुद्धिः । एतत् सर्व्वं कन्यापुत्त्रयो-
र्विद्यमानत्वे बोध्यम् ॥
जननाशौचोत्तरं षण्मासाभ्यन्तरमजातदन्त-
मरणे मातापित्रोरेकाहः । सपिण्डानान्तु सद्यः
शौचम् ॥ षण्मासाभ्यन्तरेऽपि जातदन्तस्य
मरणे मातापित्रोस्त्र्यहः । सपिण्डानामेकाहः ।
षण्मासोपरिद्विवर्षपर्य्यन्तं पित्रोस्त्य्रहः । सपिण्डा-
नामकृतचूडे एकाहः कृतचूडे त्र्यहः । द्बिवर्षो-
परिमासत्रयाधिकषड्वर्षपर्य्यन्तमनुपनीतबाल-
कस्य मरणे मातापित्रादिसपिण्डानां त्र्यहः ॥
तन्मध्येऽप्युपनीतस्य मरणे दशाहः । मासत्रया-
धिकषड्वर्षोपरि मरणे पित्रादिसपिण्डानां
दशाहः ॥
शूद्रस्य षण्मासाभ्यन्तरे अनुत्पन्नदन्तस्य मरणे
त्रिरात्रम् । उत्पन्नदन्तस्य पञ्चाहः । षण्मा-
सोपरिद्बिवर्षाभ्यन्तरे अकृतचूडमरणे पञ्चाहः ।
तत्रापि कृतचूडमरणे द्बादशाहः । द्विवर्षोपरि
षड्वर्षाभ्यन्तरे मरणे द्बादशाहः । अत्रापि
कृतोद्वाहेऽपि मासो व्यवह्रियते षड्वर्षोपरि-
मासः ॥ * ॥ “बालकजननान्तरकर्त्तव्यमाह
वैद्यके । यथा,--“अथबालं क्षौमपरिवृतं
क्षौमवस्त्रास्तृतायां शय्यायां शाययेत् । पीलु-
बदरीनिम्बपरूषकशाखाभिश्चैनं वीजयेत् ।
मूर्द्ध्नि चास्याहरहस्तैलपिचुमवचारयेत् ।
धूपयेच्चैनं रक्षोघ्नैधूपैः । रक्षोघ्नानि चास्य
पाणिपादशिरोग्रीवास्ववसृजेत् तिलातसी-
सर्षपकणांश्चात्र प्रकिरेत् । अघिष्ठाने
चाग्निं प्रज्वालयेत् । व्रणितोपासनीयञ्चावेक्षेत ॥
ततो दशमेऽहनि मातापितरौ कृतमङ्गल-
कौतुकौ स्वस्तिवाचनं कृत्वा नाम कुर्य्यातां
यदभिप्रेतं नक्षत्रनाम वा ॥
ततो यथावर्णं धात्रीमुपेयान्मध्यमप्रमाणां
मध्यमवयसमरोगां शीलवतीमचपलामलोलु-
पामकृपामस्थूलां प्रसन्नक्षीरामलम्बौष्ठीमल-
म्बोर्द्धस्तनीमव्यङ्गामव्यसनिनीं जीवद्बत्सां दोग्ध्रीं
वत्मलामक्षुद्रकर्म्मिणीं कुले जातामतो भूयि-
ष्ठैश्च गुणैरन्वितां श्यामामारोग्यब्रलवृद्धये
बालस्य । तत्रोर्द्धस्तनी करालं कुर्य्यात् । लम्ब-
स्तनीं नासिकामुखं छादयित्वा मरणमापा-
दयेत् । ततः प्रशस्तायां तिथौ शिरःस्नात-
महतवाससमुदङ्मुखं शिशुमुपवेश्य धात्रीं
प्राङ्मुखीमुपवेश्य दक्षिणं स्तनं धौतमीषत्परि-
स्रुतमभिमन्त्र्य मन्त्रेणानेन पाययेत् ।
चत्वारः सागरास्तुभ्यं स्तनयोः क्षीरवाहिणः ।
भवन्तु सुभगे नित्यं बालस्य बलवृद्धये ॥
पयोऽमृतरसं पीत्वा कुमारस्ते शुभानने ।
दीर्घमायुरवाप्नोतु देवाः प्राश्यामृतं यथा ॥
अतोऽन्यथा नानास्तन्योपयोगस्यासात्म्यात्
व्याधिजन्म भवति । अपरिस्रुतेऽप्यतिस्तब्ध-
स्तन्यपूर्णस्तनपानादुत्स्रुहितस्रोतसः शिशोः
कासश्वासवमीप्रादुर्भावः । तस्मादेवं विधानं
स्तन्यं न पाययेत् ॥”
“बालं पुनर्गात्रंमुखं गृह्णीयान्न चैनं तर्ज्जयेत्
सहसा न प्रतिबोधयेद्वित्रासभयात् सहसा
नापहरेदुत्क्षिपेद्बा वातादिविघातभयान्नोपवे-
शयेत् कौब्ज्यभयात् नित्यञ्चैनमनुवर्त्तेत प्रिय-
शतैरजिघांसुः । एवमनभिहतमनास्त्वभिवर्द्धते
नित्यमुदग्रसत्त्वसम्पन्नो नीरोगः सुप्रसन्नमनाश्च
भवति । वातातपंविद्युत्प्रभापादपलताशून्या-
गारनिम्नस्थानगृहच्छायादिभ्यो दुर्ग्रहोपसर्ग-
तश्च बालं रक्षेत् ।
नाशुचौ विसृजेद्बालं नाकाशे विषमे न च ।
नोष्ममारुतवर्षेषु रजोधूमोदकेषु च ॥
क्षीरसात्म्यतया क्षीरमाजं गव्यमथापि वा ।
दद्यादास्तन्यपर्य्याप्तेर्बालानां वीक्ष्यमात्रया ॥”
इति सुश्रुते शारीरस्थाने दशमेऽध्याये ॥)

बा(वा)लः, पुं, (बलति मस्तकं रक्षति संवृणोतीति

वा । बल + णः ।) शिरोभवाच्छादनविशेषः ।
चुल इति भाषा । तत्पर्य्यायः । चिकुरः २ कचः
३ केशः ४ कुन्तलः ५ कुञ्जरः ६ शिरोरुहः ७
शिरसिरुट् ८ शिरोरुट् ९ शिरजः १० । इति
शब्दरत्नावली ॥ घोटकशिशुः । तत्पर्य्यायः ।
किशोरः २ । इत्यमरः ॥ अश्वबालधिः । करि-
बालधिः । नारिकेलः । इति मेदिनी । ले, ३९ ॥
पञ्चवर्षीयहस्ती । यथा, --
“पञ्चवर्षो गजो बालः स्यात् पोतो दशवर्षकः ॥”
इति हेमचन्द्रः ॥
(यथा, भागवते । ९ । १० । ६ ।
“यो लोकवीरसमितौ धनुरैशमुग्रं
सीतास्वयंवरगृहे त्रिशतोपनीतम् ।
आदाय बालगजलील इवेक्षुयष्टिं
सज्यीकृतं नृप ! विकृष्य बभञ्ज मध्ये ॥”)
पुच्छः । इति शब्दरत्नावली ॥ (यथा, कुमारे ।
१ । ४८ ।
“लज्जा तिरश्चां यदि चेतसि स्या-
दसंशयं पर्व्वतराजपुत्त्र्याः ।
तं केशपाशं प्रसमीक्ष्य कुर्य्यु-
र्बालप्रियत्वं शिथिलं चमर्य्यः ॥”)
मत्स्यविशेषः । इति शब्दचन्द्रिका ॥

बालकं, क्ली, (बाल + स्वार्थे कन् ।) ह्रीवेरम् ।

इति राजनिर्घण्टः ॥ (अस्य गुणा यथा, --
“बालकं शीतलं रूक्षं लघुदीपनपाचनम् ।
हृल्लासारुचिवीसर्पहृद्रोगामातिसारजित् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
अङ्गुलीयकम् । पारिहार्य्यम् । इति विश्वः ॥

बालकः, पुं, (बाल एव । बाल + स्वार्थे कन् ।)

शिशुः । (यथा, मार्कण्डेये । ५१ । ५३ ।
“भूतानां मातृभिः सार्द्धं बालकानान्तु
शान्तये ॥”)
अज्ञः । हयबालधिः । हस्तिबालधिः । अङ्गुरी-
यकम् । ह्रीवेरम् । बलयम् । इति मेदिनी ।
के, १५७ ॥ केशः । इति विश्वः ॥ * ॥
पृष्ठ ३/४२१
बालाशौचं यथा, --
“अजातदन्ता ये बाला ये च गर्भाद्विनिःसृताः ।
न तेषामग्निसंस्कारो न पिण्डं नोदकक्रिया ॥
यदि गर्भो विपद्येत स्रवते वापि योषितः ।
यावन्मासान् स्थितो गर्भस्तावद्दिनानि सूतकम् ॥
आ नामकरणात् सद्य आ चूडान्तादहर्निशम् ।
आ व्रतस्थात्त्रिरात्रेण तदूर्द्ध्वं दशभिर्दिनैः ॥”
इति गारुडे १०६ अध्यायः ॥
वालकस्य रक्षा यथा, --
“आदाय कृष्णं संत्रस्ता यशोदापि ततो द्बिज ! ।
गोपुच्छभ्रामणेनाशु बालदोषमपाकरोत् ॥
गोपुरीषमुपादाय नन्दगोपोऽपि मस्तके ।
कृष्णस्य प्रददौ रक्षां कुर्व्वन्निदमुदीरयन् ॥
नन्द उवाच ।
रक्षतु त्वामशेषाणां भूतानां प्रभवो हरिः ।
यस्य नाभिसमुद्भूतपङ्कजादभवज्जगत् ॥
येन दंष्ट्राग्रविधृता धारयत्यवनी जगत् ।
वराहरूपधृक् देवः स त्वां रक्षतु केशवः ॥
नखाङ्कुरविनिर्भिन्नवैरिवक्षःस्थलो विभुः ।
नृसिंहरूपी सर्व्वत्र स त्वां रक्षतु केशवः ॥
वामनो रक्षतु सदा भवन्तं यः क्षणादभूत् ।
त्रिविक्रमः क्रमाक्रान्तत्रैलोक्यः स्फुरदायुधः ॥
शिरस्ते पातु गोविन्दः कण्ठं रक्षतु केशवः ।
गुह्यं सजठरं विष्णुर्जङ्घापादं जनार्द्दनः ॥
मुखं बाहू प्रबाहू च मनः सर्व्वेन्द्रियाणि च ।
रक्षत्वव्याहतैश्वर्य्यस्तव नारायणोऽव्ययः ॥
शार्ङ्गखड्गगदाचक्रशङ्खनादहताः क्षयम् ।
गच्छन्तु प्रेतकुष्माण्डा राक्षसा ये तवाहिताः ॥
त्वां पातु दिक्षु वैकुण्ठो विदिक्षु मधुसूदनः ।
हृषीकेशोऽम्बरे भूमौ रक्षतु त्वां महीधरः ॥
एवं कृतस्वस्त्ययनो नन्दगोपेन बालकः ।
शायितः शकटास्याधो बालपर्य्यङ्किकातले ॥”
इति विष्णुपुराणे । ५ । ५ ॥

बालकप्रिया, स्त्री, (बालकानां प्रिया ।) इन्द्र-

वारुणी । कदली । इति राजनिर्घण्टः ॥

बालकृमिः, पुं, (बालस्य केशस्य कृमिः ।) केश-

कीटः । इति जटाधरः ॥

बालक्रीडनं, क्ली, (बालस्य क्रीडनम् । क्रीड् +

भावे ल्युट् ।) बालखेला । यथा, --
“बालक्रीडनमिन्दुशेखरधनुर्भङ्गावधि प्रह्वता ॥”
इत्यादि महानाटकम् ॥

बालक्रीडनकः, पुं, (बालानां क्रीडनकः क्रीडन-

द्रव्यम् । बालका हि कपर्द्दकेन क्रीडन्तीति प्रसिद्धे-
स्तथात्वम् ।) कपर्द्दकः । इति राजनिर्घण्टः ॥

बालखिल्यः, पुं, बालखिल्यमुनिः । यथा, --

“विधिना निर्म्मिता पूर्ब्बं वेदी परमपावनी ।
अग्निवेश्यादिमुनयो बालखिल्यादयः स्थिताः ॥”
इति बृहद्रामायणे चित्रकूटमाहात्म्ये १ सर्गः ॥
(बालखिल्यास्तु अङ्गुष्ठपरिमिताः षष्टिसहस्र-
संख्यकाः । यथा, मार्कण्डेये । ५२ । २४ ।
“क्रतोश्च सन्ततिर्भार्य्या बालखिल्यानसूयत ।
षष्टिर्यानि सहस्राणि ऋषीणामूर्द्वरेतसाम् ॥”
अङ्गुष्ठपरिमितमुक्तमेतेषान्देहपरिमाणम् ।
यथा, महाभारते । १ । ३१ । ८ -- ९ ।
“अथापश्यदृषीन् ह्नस्वान् अङ्गुष्ठोदरवर्ष्मणः ।
पलाशवृन्तिकामेकां सहितान् वहतः पथि ॥
क्लिश्यमानान् मन्दबलान् गोष्पदे संप्लुतोदके ॥”)

बालगर्भिणी, स्त्री, प्रथमगर्भवती गौः । तत्-

पर्य्यायः । प्रष्ठौही २ । इत्यमरः । २ । ९ । ७० ॥
पलीक्नी ३ । इति जटाधरः ॥ बालगर्भ-
वती ४ । इति शब्दरत्नावली ॥

बालगोपालः, पुं, (बालः शिशुमूर्त्तिधरो गोपालः ।)

श्रीकृष्णमूर्त्तिविशेषः । यथा, --
“तीरपयोनिधिवृक्षनिवासं
हास्यकटाक्षजवंशिनिनादम् ।
श्यामलसुन्दरनृत्यविलापं
तं प्रणमामि च बालगोपालम् ॥”
इति नारदपञ्चरात्रे गोपालाष्टकम् ॥

बालग्रहः, पुं, (बालानां बालकानां ग्रहः ।)

बालकहन्तृग्रहविशेषः । (यथा, मार्कण्डेये ।
९२ । २७ ।
“बालग्रहाभिभूतानां बालानां शान्ति-
कारकम् ॥”)
एतेषां विवरणम् । यथा, --
“बाल ग्रहा अनाचारात् पीडयन्ति शिशुं यतः ।
तस्मात्तदुपसर्गेभ्यो रक्षेद्बालं प्रयत्नतः ॥”
अथ बालग्रहाणां नामान्याह ।
“स्कन्दग्रहस्तु प्रथमं स्कन्दापस्मार एव च ।
शकुनी रेवती चैव पूतना गन्धपूतना ॥
पूतना शीतपूर्व्वा च तथैव मुखमण्डिका ।
नवमो नैगमेयश्च प्रोक्ता बालग्रहा अमी ॥”
अथ ग्रहाणामुत्पत्तिमाह ।
“नवस्कन्दादयः प्रोक्ता बालानां ये ग्रहा अमी ।
श्रीमन्तो दिव्यवपुषो नारीपुरुषविग्रहाः ॥
एते स्कन्दस्य रक्षार्थं कृत्तिकोमाग्निशूलिभिः ।
सृष्टाः शरवणस्थस्य रक्षितस्य स्वतेजसा ॥
स्कन्दः सृष्टो भगवता देवेन त्रिपुरारिणा ।
बिभर्त्ति चापरां संज्ञां कुमार इति संग्रहः ॥”
अयं हि कार्त्तिकेयादन्यः ।
“स्कन्दापस्मारसंज्ञो यः सोऽग्निना तत्समद्युतिः ।
स च स्कन्दसखो नाम्ना विशाख इति चोच्यते ॥
ग्रहाः स्त्रीविग्रहा ये ते नानारूपाः प्रकीर्त्तिताः ।
देवानां कृत्तिकानां ते भागा राजसतामसाः ॥
नैगमेयस्तु पार्व्वत्या सृष्टो ह्येषां ततो ग्रहः ।
कुमारस्य हि देवस्य गुहस्यात्मसमोऽस्ति वै ॥
ततो भगवति स्कन्दे सुरसेनापतौ कृते ।
उपतस्थुर्ग्रहा ह्येते दीप्तशक्तिधरं गुहम् ॥
ऊचुः प्राञ्जलयश्चैनं वृत्तिर्नो दीयतामिति ।
तेषामर्थे ततः स्कन्दः शिवं देवमचोदयत् ॥
ततो ग्रहांस्तानुवाच भगवान् भगनेत्रहृत् ।
तिर्य्यग्योनिं मानुषञ्च दैवञ्च त्रितयं जगत् ॥
परस्परोपकारेण वर्त्तते धार्य्यते तथा ।
देवा नरान् प्रीणयन्ति तिर्य्यग्योनींस्तथैव च ॥
यथाकालं प्रवृत्तास्तु उष्मवर्षाहिमानिलैः ।
इत्यञ्जलिनमस्कारैर्जपहोमैस्तथैव च ॥
सम्यक् प्रयुक्तैश्च नराः प्रीणयन्त्यपि देवताः ।
भागधेयं विभक्तञ्च शेषं किञ्चिन्न विद्यते ॥
तद्युष्माकं शुभा वृत्तिर्बालेष्वेव भविष्यति ॥”
अथ बालग्रहाणां बालग्रहणकारणमाह ।
“कुलेषु येषु नेज्यन्ते देवाः पितर एव च ।
ब्राह्मणाः साधवो वापि गुरवोऽतिथयस्तथा ॥
निवृत्तशौचाचारेषु तथा कुत्सितवर्त्तिषु ।
निवृत्तभिक्षावलिषु भग्नकांस्यगृहेषु च ॥
गृहेषु तेषु बालांस्तान् ग्रहा हिंसन्त्यशङ्किताः ।
तत्र वो विपुला वृत्तिः पूजा चैव भविष्यति ॥
एवं ग्रहाः समुत्पन्ना बालान् हिंसन्ति चाप्यथ ।
ग्रहोपसृष्टा बालाः स्युर्दुश्चिकित्स्यतमास्ततः ॥”
अथ सामान्यग्रहजुष्टानां बालानां लक्षणा-
न्याह ।
“क्षणादुद्विजते बालः क्षणात्त्रस्यति रोदिति ।
नखेर्दन्तैर्दारयति धात्रीमात्मानमेघ च ॥
ऊर्द्ध्वं निरीक्षते दन्तान् खादेत् कूजति जृम्भते ।
भ्रुवौ क्षिपति दन्तौष्ठः फेनं वमति वासकृत् ॥
क्षामोऽति निशि जागर्त्ति शूलाङ्गो भिन्नविट्-
स्वरः ।
मत्स्यशोणितगन्धश्च न चाश्नाति यथा पुरा ॥
दुर्ब्बलो मलिनाङ्गश्च नष्टसंज्ञोऽपि जायते ।
सामान्यग्रहजुष्टस्य लक्षणं समुदाहृतम् ॥”
अथ विशिष्टग्रहजुष्ठानां लक्षणान्याह ।
“स्रस्ताङ्गः क्षतजसगन्धिकस्तनद्बिट्-
वक्रास्यो हतचरणैकपक्षनेत्रः ।
उद्विग्नः ससलिलचक्षुरल्परोदी
स्कन्दार्त्तो भवति च गाढमुष्टिबन्धः ॥
निःसंज्ञो भवति पुनर्लभेत संज्ञां
संस्तब्धः करचरणैश्च नृत्यतीव ।
विणमूत्रे सृजति विनद्य जृम्भमाणः
फेनं वा सृजति च तत्सखाभिजुष्टः ॥”
तत्सखाभिजुष्टः स्कन्दापस्मारयुक्तः ।
“स्रस्ताङ्गो भयचकितो विहङ्गगन्धिः
सास्रावव्रणपरिपीडितः समन्तात् ।
स्फोटैश्च प्रचिततनुः सदाहपाकै-
र्विज्ञेयो भवति शिशुः क्षतः शकुन्या ॥
रक्तास्यो हरितमलोऽतिपाण्डुदेहः
श्यावो वा मुखकरपाकवेदनार्त्तः ।
गृह्णातिव्यथिततनुश्च कर्णनासं
रेवत्या भृशमभिपी इतः कुमारः ॥
स्रस्ताङ्गः स्वपिति न वासरे न रात्रौ
विड्भिन्नं विसृजति काकतुल्याङ्गगन्धिः ।
च्छर्द्द्यार्त्तो हृषिततनूरुहः कुमार-
स्तृष्णालुर्भवति च पूतनागृहीतः ॥
यो द्वेष्टि स्तनमत्ति न कासहिक्का-
च्छर्द्दीभिर्ज्वरसहिताभिरर्द्द्यमानः ।
दुर्व्वर्णः सततमथापि योऽस्रगन्धि-
स्तं ब्रूयाद्भिषगथ गन्धपूतनार्त्तम् ॥
आक्रन्दन् परिचकितः सुवेपमानः
संलीनो भवति व्यथान्त्रकूजयुक्तः ।
पृष्ठ ३/४२२
स्रस्ताङ्गो भृशमतिसार्य्यते च यो वै
तं ब्रूयाद्भिषगथ शीतपूतनार्त्तम् ॥
म्लानाङ्गः सरुधिरपाणिपादवक्त्रो
वह्वाशी कलुषशिरावृतोदरो यः ।
स ज्ञेयः शिशुरथ रक्तमण्डिकार्त्तः
सोद्वेगो भवति च मूत्रतुल्यगन्धिः ॥
यः फेनं वमति विनम्यते च मध्ये
सोद्वेगो विहसति वोर्द्ध्वमीक्षमाणः ।
कूजेच्च प्रततमथो वसास्रगन्धि-
र्निसंज्ञो भवति स नैगमेयजुष्टः ॥”
अथ सामान्यग्रहजुष्टानां चिकित्सामाह ।
सहामुण्डतिकोदीच्यक्वाथस्नानं ग्रहापहम् ।
सहा माषपर्णी ।
“सप्तच्छदामयनिशाचन्दनैश्चानुलेपयेत् ।
सर्पत्वक् लशुनं मूर्व्वा सर्षपारिष्टपल्लवाः ॥
विडालविडजालोममेषशृङ्गी वचा मधु ।
धपः शिशोर्ज्वरघ्नोऽयमशोषग्रहनाशनः ॥
बालशान्तीष्टकर्म्माणि कार्य्याणि ग्रहशान्तये ।
वचा कुष्ठं तथा ब्राह्मी सिद्धार्थकमथापि च ॥
सारिवा सैन्धवञ्चैव पिप्पली घृतमष्टमम् ।
सिद्धं घृतमिदं मेध्यं पिबेत् प्रातर्दिने दिने ॥
दृढस्मृतिः क्षिप्रमेधा कुमारो बुद्धिमान् भवेत् ।
न पिशाचा न रक्षांसि न भूता न च मातरः ॥
न भवन्ति कुमाराणां पिबतामष्टमङ्गलम् ॥”
अष्टमङ्गलं घृतम् ॥
अथ विशिष्टग्रहजुष्टानां चिकित्सामाह ।
“सोमबल्लीमिन्द्रवृक्षं बन्दाकं विषजं शमीम् ।
मृगादन्याश्च मूलानि ग्रथितानि विधारयेत् ॥”
तत्र स्कन्दग्रहजुष्टस्य चिकित्सामाह ।
“स्कन्दग्रहोपसृष्टस्य कुमारस्य प्रशस्यते ।
वातघ्नद्रुमपत्त्राणां क्वाथेन परिषेचनम् ॥
देवदारुणि रास्नायां मधुरेषु गणेषु च ।
सिद्धं सर्पिश्च सक्षीरं पातुमस्मे प्रदापयेत् ॥
सर्षपाः सर्पनिर्म्मोको वचा काकादनी घृतम् ।
उष्ट्राजाविगवाञ्चापि रोमाण्युद्धूपनं भवेत् ॥”
काकादनी श्वेतगुञ्जा ।
सोमवल्लीमिन्द्रवृक्षं वृन्ताकं विषजं शमीम् ।
मृगादन्याश्च मूलानि ग्रथितानि विधारयेत् ॥”
सोमबल्ली सोमलता । इन्द्रवृक्षं ककुभम् ।
मृगादनी इन्द्रवारुणी ।
रक्तानि माल्यानि तथा पताकां
रक्तांश्च गन्धा विविधांश्च भक्ष्यान् ।
घृतञ्च देवाय बलिं निवेद्य
सकुक्कुटं स्कन्दगृहे निधाय ॥
स्नानं त्रिरात्रं निशि चत्वरेषु
कुर्य्यात् परं शालियवैर्निवेद्य ।
गायत्त्रियुक्ताभिरथाद्भिरग्निं
प्रज्वालयेदाहुतिभिश्च धीमान् ॥
रक्षामतः प्रवक्ष्यामि बालानां पापनाशिनीम् ।
अहन्यहनि कर्त्तव्या याभिरद्भिरतन्द्रितैः ॥
तपसां तजसाञ्चैव यशसां वयसां तथा ।
निधानं योऽव्ययो देवः स ते स्कन्दः प्रसीदतु ॥
ग्रहसेनापतिर्देवो देवसेनापतिर्विभुः ।
देवसेनारिपुहरः पातु त्वां भगवान् गुहः ॥
देवदेवस्य महतः पावकस्य च यः सुतः ।
गङ्गोमाकृत्तिकानाञ्च स ते शर्म्म प्रयच्छतु ॥
रक्तमाल्याम्बरधरो रक्तचन्दनभूषितः ।
रक्तदिव्यवपुर्देवः पातु त्वां क्रौञ्चसूदनः ॥”
अथ स्कन्दापस्मारग्रहजुष्टस्य चिकित्सामाह ।
“विल्वः शिरीषो गोलोमी सुरसादिश्च यो
गणः ।
परिषेकः प्रयोक्तव्यः स्कन्दापस्मारशान्तये ॥”
गोलोमी श्वेता दूर्व्वा । सुरसादिगणो यथा, --
“सुरसा श्वेतसुरसा पाठा फञ्जी फणिज्झकः ।
सौगन्धिकं भूस्तृणको राजिका श्वेतवर्व्वरी ॥
कट्फलं खरपुष्पा च कासमर्द्दश्च शल्लकी ।
विडङ्गमथ निर्गुण्डी कर्णिकार उदुम्बरः ॥
बला च काकमाची च तथा च विषमुष्टिका ।
कफक्रिमिहरः ख्यातः सुरसादिरयं गणः ॥”
सुरसा कृष्णतुलसी । श्वेतसुरसा श्वेततुलसी ।
फञ्जी भार्गी । फणिज्झकः मरुबकः । सौग-
न्धिकं कह्लारम् । भूस्तृणकः सुगन्धतृणम् ।
खरपुष्पा वर्वरी । कासमर्द्दः कसौदी । विष-
मुष्टिका वकाइनि ॥ * ॥
“अष्टमूत्रविपक्कञ्च तैलमभ्यञ्जने हितम् ।”
मूत्राष्टकमाह ।
“गोजाविमहिषाश्वानां खरोष्ट्रकरिणान्तथा ।
मूत्राष्टकमिति ख्यातं सर्व्वशास्त्रेषु सम्मतम् ॥
क्षीरीवृक्षकषायेण काकोल्यादिगणेन च ।
विपक्तव्यं घृतं पश्चाद्दातव्यं पयसा सह ॥
काकोल्यादिगणेन कल्कीकृतेन तैलं पक्तव्यम् ।
काकोल्यादिगणो यथा, --
“काकोली क्षीरकाकोली जीवकर्षभकस्तथा ।
ऋद्धिर्वृ द्धिस्तथा मेदा महामेदा गुडूचिका ॥
मुद्गपर्णी माषपर्णी पद्मकं वंशरोचना ।
शृङ्गी प्रपौण्डरीकञ्च जीवन्ती मधुयष्टिका ।
द्राक्षा चेति गणो नाम्ना काकोल्यादिरुदीरितः ।
स्तन्यकृद्बृंहणो वृष्यः पित्तरक्तानिलापहः ।
उत्सादनं वचा हिङ्गुयुक्तमत्र प्रकीर्त्तितम् ॥
गृध्रोलूकपुरीषाणि केशा हस्तिनखो घृतम् ।
वृषभस्य च रोमाणि योज्यान्युद्धूपने सदा ॥
अनन्तां कुक्कुटीं विम्बीं मर्कटीञ्चापि धारयेत् ॥”
अनन्ता यवासा इति लोके । कुक्कुटी शाल्मली ।
“पक्वान्यामानि मांसानि प्रसन्नं रुधिरं पयः ।
मुद्गोदनं निवेद्याथ स्कन्दापस्मारिणे वटे ॥”
वटे वटतले बलिं निवेद्येत्यन्वयः ।
तेन स्कन्दापस्मारिणा स्नानं कारयेदित्यन्वयः ।
“चतुष्पथे कारयेच्च स्नानं तेन ततः पठेत् ।
स्कन्दापस्मारसंज्ञो यः स्कन्दस्य दयितः सखा ।
विशाखः स शिशोरस्य शिवायास्तु शुभाननः ॥”
अथ शकुनीग्रहजुष्टस्य चिकित्सामाह ।
“शकुनीग्रहजुष्टस्य कार्य्यं वैद्येन जानता ।
वेतसाम्रकपित्थानां क्वाथेन परिषेचनम् ॥
ह्रीवेरमधुकोशीरसारिवोत्पलपद्मकैः ।
लोध्रप्रियङ्गुमञ्जिष्ठागैरिकैः प्रदिहेच्छिशुम् ॥”
प्रदिहेत् लिम्पेत् । रूपसिद्धिरार्ष्यत्वात् ।
“स्कन्दग्रहोक्ता धूपाश्च हिता अत्र भवन्ति हि ।
स्कन्दापस्मारशमनं घृतमत्रापि पूजितम् ॥
शतावरीं मृगेर्व्वारुनागदन्तीनिदिग्धिकाः ।
लक्षणां सहदेवाञ्च वृहतीञ्चापि धारयेत् ॥”
मृगेर्व्वारुः वडी इन्द्रवारुणी । नागदन्ती नाग-
हुली इति लोके प्रसिद्धा ।
“तिलतण्डुलकं माल्यं हरितालं मनःशिलाम् ।
बलिरेष निकुञ्जेषु निवेद्यो नियतात्मना ॥
निकटे च प्रयोक्तव्यं स्नानमस्य यथाविधि ।
श्वेतशिरीषगन्धाष्टकुष्ठगुग्गुलुसर्षपैः ॥
सिद्धमभ्यञ्जने तैलं धारणं पूर्ब्बमेव तु ।
शकुनीग्रहशान्त्यर्थं प्रदेहं कारयेद्धितम् ॥
कुर्य्याच्च विविधां पूजां शकुन्याः कुसुमैः शुभैः
निकुम्भोक्तेन विधिना स्नपयेत्तं ततः पठेत् ॥
अन्तरीक्षचरा देवी सर्व्वालङ्कारभूषिता ।
अधोमुखी सूक्ष्मतुण्डा शकुनी ते प्रसीदतु ॥
दुर्दर्शना महाकाया पिङ्गाक्षी भैरवस्वरा ।
लम्बोदरी शङ्कुकर्णी शकुनी ते प्रसीदतु ॥” * ॥
अथ रेवतीग्रहजुष्टस्य चिकित्सामाह ।
“अश्वगन्धाजशृङ्गी च शारिवाथ पुनर्नवा ।
सहा विदारी ह्येतासां क्वाथेन परिषेचनम् ॥
अजशृङ्गी मेढाशृङ्गी । सहा सेवतीपुष्पजातिः ।
तैलमभ्यञ्जने कार्य्यं कुष्ठे सर्जरसे तथा ।
पलङ्कषायां नलदे तथा गौरकदम्बके ॥
सर्जरसः रालः पलङ्कषा गुग्गुलुः । नलदं
लामज्जकमुशीरवत्पीतच्छविः । गौरकदम्बकः
हारिद्रकः । हरदुया कदम्ब इति लोके ।
धवाश्वकर्णककुभशल्लकीतिन्दुकेषु च ।
काकोल्यादौ गणे चापि सिद्धं सर्पिः पिबेच्छिशुः ॥
अश्वकर्णः शांखु इति लोके प्रसिद्धः ।
कुलत्थाः शङ्खचूर्णञ्च प्रदेहः साखगन्धिकः ।
गृध्रोलूकपुरीषाणि यवान् यवफले घृतम् ॥
सन्ध्ययोरुभयोः कार्य्यमेतदुद्धूपनं शिशोः ॥
यवफलो वंशाङ्कुरः ।
शुक्लाः सुमनसो लाजाः पयः शाल्योदनं दधि ।
वलिर्निवेद्यो गोतीर्थे रेवत्यै प्रयतात्मना ॥
गोतीर्थे गोष्ठे ।
स्नानं धात्रीकुमाराभ्यां सङ्गमे कारयेद्भिषक् ।
नानावस्त्रधरा देवी चित्रमाल्यानुलेपना ॥
चलत्कुण्डलिनी श्यामा रेवती ते प्रसीदतु ।
उपासते यां सततं देव्यो विविधभूषणाः ॥
लम्बा करालाविनता तथैव बहुपुत्त्रिका ।
रेवती शुष्कनासा च तुभ्यं देवी प्रसीदतु ॥ * ॥
अथ पूतनाग्रहजुष्टस्य चिकित्सामाह ।
कपोतवङ्का श्योनाको वरुणः पारिभद्रकः
आस्फोता चैव योज्याः स्युर्ब्बालानां परिषेचने ॥
कपोतवङ्का ब्राह्मी इति लोके । पारिभद्रो
निम्बः । आस्फोता अपराजिता ।
नवा पयस्या गोलोमी हरितालं मनःशिला ।
कुष्ठं सर्जरसश्चैव तैलार्थे कल्क इष्यते ॥
पृष्ठ ३/४२३
नवा पयस्या नूतना क्षीरविदारी । गोलोमी
श्वेतदूर्व्वा ।
हितं घृतं तगाक्षीर्य्या संसिद्धं मधुकेऽपि च ।
कुष्ठतालीसखदिराः स्यन्दनोऽर्जुन एव च ॥
पनसः ककुभश्चापि मज्जानो वदरस्य च ।
कुक्कुटास्थि घृतञ्चापि धूपनं सह सर्षपैः ॥
स्यन्दनः स्यन्दन इत्येव नाम्ना प्रसिद्धः ।
काकादनीं चित्रफलां विम्बीं गुञ्जाञ्च धारयेत् ।
काकादनी श्वेतगुञ्जा । चित्रफला बृहदिन्द्र-
वारुणी ।
मत्स्यौदनं बलिं दद्यात् कृशरं पललं तथा ।
सरावसंपुटं कृत्वा तस्यै शून्ये गृहे भिषक् ।
उत्सृष्टान्नाभिषिक्तस्य शिशोः स्नपनमिष्यते ॥
कुष्ठतालीसखदिरं चन्दनं स्यन्दनं तथा ।
देववारु वचा हिङ्गु कुष्ठं गिरिकदम्बकः ।
एला हरेणवश्चापि योज्या उद्धूपने सदा ॥
मलिनाम्बरसंवीता मलिना रूक्षमूर्द्धजा ।
शून्यागाराश्रया देवी दारकं पातु पूतना ॥ * ॥
अथ गन्धपूतनाग्रहजुष्ठस्य चिकित्सामाह ।
तिक्तद्रुमाणां पत्रेषु क्वाथं कार्य्येऽभिषेचने ।
तिक्तद्रुमानाह ।
निम्बः पटोलः क्षुद्रा च गुडूची वासकस्तथा ।
विसर्पकुष्ठनुत् ख्यातो गणोऽयं पञ्चतिक्तकः ॥
पिप्पली पिप्पलीमूलं वर्गो मधुरको मधु ।
शालपर्णीबृहत्यौ च घृतार्थं सममाहरेत् ॥
सर्व्वगन्धैः प्रदेहश्च गात्रे चाक्ष्णोश्च शीतलैः ॥
सर्व्वगन्धैः कुङ्कुमागुरुकर्पूरकस्तूरीचन्दनैः ।
अक्ष्णोस्तु शीतलैः चन्दनकर्पूरैः न तु कस्तूरी-
कुङ्कुमागुरुभिस्तेषामुष्णत्वात् ।
पुराषं कौक्कुटं केशञ्चर्म्म सर्पभवन्तथा ।
जीर्णञ्चाभीक्ष्णशो वासो धूपनायोपकल्पयेत् ॥
कुक्कुटीं मर्कटीं विम्बीमनन्ताञ्चापि धारयेत् ।
मांसमामं तथा पक्वं शोणितञ्च चतुष्पथे ।
निवेद्यमन्तश्च गृहे शिशोः स्नपनमिष्यते ॥
कराला पिङ्गला मुण्डा कषायाम्बरसंवृता ।
देवी बालमिमं प्रीता रक्ष त्वं गन्धपूतने ॥” * ॥
अथ शीतपूतनाग्रहजुष्टस्य चिकित्सामाह ।
गोमूत्रं वस्तमूत्रञ्च मुस्ताञ्चामरदारु च ।
कुष्ठञ्च सर्व्वगन्धांश्च तेलार्थमवधारयेत् ॥
सर्व्वगन्धान् चन्दनादीन् ।
रोहिणीनिम्बखदिरपलाशककुभत्वचः ।
निःक्वाथ्य तस्मिन्निःक्वाथे सक्षीरे विपचेद् घृतम् ॥
गृध्रोलूकपुरीषाणि वस्तिगन्धा महित्वचम् ।
निम्बपत्राणि च तथा धूपनार्थं समाहरेत् ॥
धारयेदपि गुञ्जाञ्च बलां काकादनीं तथा ।
नद्यां मुद्गौदनैश्चापि तर्पयेच्छीतपूतनाम् ॥
जलाशयान्ते बालस्य स्नपनञ्चोपदिश्यते ।
जलाशयान्ते जलाशयतीरे ।
देव्यै देयश्चौपहारो वारुणी रुधिरं तथा ॥
मुद्गौदनाशिनी देवी सुराशोणितपायिनी ।
जलाशयरता नित्यं पातु त्वां शीतपूतना ॥” * ॥
अथ मुखमण्डिकाग्रहजुष्टस्य चिकित्सामाह ।
कपित्थं विल्वतर्कारीवासागन्धर्व्वहस्तकाः ।
कुवेराक्षी च योज्याः स्युंर्बालानां परिषेचने ॥
तर्कारी गणियारि इति लोके । गन्धर्व्वहस्तकः
श्वेत एरण्डः । कुवेराक्षी पाडरि इति लोके ।
स्वरसैर्भृङ्गवृक्षाणां तथैव हयगन्धया ।
तैलं वचाञ्च संयोज्य पचेदभ्यञ्जनं शिशोः ॥
भृङ्गवृक्षः भगरा इति लोके ।
वचा सर्जरसं कुष्ठं सर्पिश्चोद्धूपने हितम् ॥
वर्णकं चूर्णकं माल्यमञ्जनं पारदं तथा ।
मनःशिलाञ्चोपहरेत् गोष्ठमध्ये बलिन्ततः ॥
पायसं सपुरोडाशं तद्बल्यर्थमुपाहरेत् ।
मन्त्रपूताभिरद्भिश्च तत्रैव स्नपनं हितम् ॥
जलाभिमन्त्रणमन्त्रमाह ।
अलङ्कृता कामवती सुभगा कामरूपिणी ।
गोष्ठमध्यालयरता पातु त्वां मुखमण्डिका ॥ * ॥
अथ नैगमेयग्रहजुष्टस्य चिकित्सामाह ।
विल्वाग्निमन्थपूतीकैः कार्य्यं स्यात् परिषेचनम् ।
पूतीकः घोराकरञ्ज इति लोके प्रसिद्धः ।
प्रियङ्गुशरलानन्ताशतपुष्पाकुटन्नटैः ।
पचेत्तैलं सगोमूत्रं दधिमस्त्वम्लकाञ्जिकैः ॥
कुटन्नटं वितुन्नकनाम्नो वृक्षविशेषस्य त्वक् ।
गुडतजी इति लोके प्रसिद्धा । मुस्ताकृतिः
श्योनाको वा ।
वचां वयस्थां जटिलां गोलोमीं चापि धारयेत् ।
वयस्था आमलकी गुडूची वा ।
उत्सादनं हितञ्चात्र स्कन्दापस्मारनाशनम् ॥
मर्कटोलूकगृध्राणां पुरीषाणि पितृगृहे ।
धूमः सुप्तजने कार्य्यो बालस्य हितमिच्छता ॥
पितृगृहे नैगमेयगृहे ।
तिलतण्डुलकं माल्यं भक्ष्यांश्च विविधानपि ।
कौमारपितृमेषाय प्लक्षमूले निवेदयेत् ॥
मेषाय नैगमेयग्रहाय ।
अधस्तात् क्षीरवृक्षस्य स्नपनञ्चोपदिश्यते ॥
अजाननश्चलाक्षिभ्रुः कामरूपी महायशाः ।
बालं पालयिता देवो नैगमेयोऽभिरक्षतु ॥”
इति भावप्रकाशः ॥
(तथास्य लक्षणान्तरं चिकित्सितञ्च यथा, --
“बलिशान्तीष्टकर्म्माणि कार्य्याणि ग्रहशान्तये ।
मन्त्रश्चायं प्रयोक्तव्यस्तत्रादौ सर्व्वकामिकः ॥
ॐ नमो भगवते गरुडाय त्र्यम्बकाय सद्यस्तर
स्तुत स्तुत स्वाहा । ॐ कं खं टं पं शं वैनतेयाय
नमः । ॐ ह्रीं हुँ क्षं ।
बालदेहप्रमाणेन पुष्पमालान्तु सर्व्वतः ।
प्रगृह्य मुच्छिकाभक्तबलिर्देयस्तु शान्तिकः ।
ॐ कारी सुवर्णपक्षी बालकं रक्ष रक्ष स्वाहा ॥
ॐ नारायणाय नमः ॥”
“प्रथमे दिवसे मासे वर्षे वा गृह्णाति नन्दा
नाम मातृका तया गृहीतमात्रस्य प्रथमं भवति
ज्वरः । चक्षुरुन्मीलयति गात्रमुद्वेजयति न
शेते क्रन्दति स्तन्यं न गृह्णाति । आँत्कारश्च
भवति । बलिन्तस्य प्रवक्ष्यामि येन सम्पद्यते
शुभम् । नद्युभयतटमृत्तिकां गृहीत्वा पुत्त-
लिकां कृत्वा शुक्लौदनः शुक्लपुष्पं सप्तध्वजाः
सप्तप्रदीपाः सप्तस्वस्तिकाः सप्तवटकाः । सप्त-
सष्कुलिकाः जम्बुडिका गन्धताम्बूलं मत्स्यमांसं
सुरामग्रभक्तञ्च पूर्ब्बस्यान्दिशि चतुष्पथे मध्याह्ने
बलिर्दातव्यः अश्वत्थपत्रं जलकुम्भे निक्षिप्य
शान्त्युदकेन स्नापयेत् । रसोनसिद्धार्थक
मेषशृङ्गनिम्बपत्रशिवनिर्म्माल्यैर्बालकं धूपयेत् ।
ॐ नमो नारायणाय अमुकस्य व्याधिं हन
हन मुञ्च मुञ्च स्वाहा एवं दिनत्रयं बलिं
दत्त्वा चतुर्थे दिवसे ब्राह्मणं भोजयेत् । ततः
सम्पद्यते शुभम् ॥
द्वितीये दिवसे मासे वर्ष वा गृह्णाति सुनन्दा-
नाम मातृका । तया गृहीतमात्रस्य प्रथमं
भवति ज्वरः । चक्षुरुन्मीलयति गात्रमुद्वेजयति
न शेते क्रन्दति स्तन्यं न गृह्णाति आँत्कारश्च
भवति ।
बलिन्तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम् ।
तण्डुलं हस्तपृष्ठैकं गृहीत्वा दधिगुडघृतमिश्रितं
शरावैकं गन्धताम्बूलं पीतपुष्पं पीतसप्त-
ध्वजाः । चत्वारः प्रदीपाः दशस्वस्तिकाः
मत्स्यमांससुरास्तिलचूर्णञ्च पश्चिमस्यान्दिशि
चतुष्पथे बलिर्दातव्यः । दिनानि त्रीणि त्रिसन्ध्यं
ततः शान्त्युदकेन स्नापयेत् । शिवनिर्म्माल्य-
सिद्धार्थमार्ज्जाररोम उशीरबालकघृतैर्धूपं
दद्यात् । ॐ नमो नारायणाय अमुकस्य व्याधिं
हन हन मुञ्च मुञ्च ह्रीं फट् स्वाहा । चतुर्थे
दिवसे ब्राह्मणान् भोजयेत् ततः सम्पद्यते शुभम् ।
तृतीये दिवसे मासे वर्षे वा गृह्णाति पूतनानाम-
मातृका तया गृहीतमात्रेण प्रथमं भवति
ज्वरः । गात्रमुद्वेजयति स्तन्यं न गृह्णाति
मुष्टिं बध्नाति क्रन्दति ऊर्द्ध्वं निरीक्षते ।
बलिन्तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम् ।
नद्युभयतटमृत्तिकां गृहीत्वा पुत्तलिकां कृत्वा
रक्तचन्दनं गन्धताम्बूलं रक्तसप्तध्वजाः । सप्त-
प्रदीपाः सप्तस्वस्तिकाः । पक्षिमांससुराग्रभक्तं
दक्षिणस्यान्दिशि अपराह्णे चतुष्पथे बलि-
र्दातव्यः । शिवनिर्म्माल्यगुग्गुलुसर्षपनिम्बपत्रमेष
शृङ्गैर्दिनत्रयं धूपयेत् । ॐ नमो नारायणाय
अमुकस्य व्याधिं हन हन मुञ्च मुञ्च स्वाहा ।
चतुर्थे दिवसे ब्राह्मणान् भोजयेत् ततः सम्प-
द्यते शुभम् ॥
चतुर्थे दिवसे मासे वष वा गृह्णाति मुख-
मुण्डिकानाम मातृका तया गृहीतमात्रेण
प्रथमं भवति ज्वरः । ग्रीवां नामयति चक्षुरु-
न्मीलयति स्तन्यं न गृह्णाति रोदिति स्वपिति
मुष्टिं बध्नाति बलिन्तस्य प्रवक्ष्यामि येन सम्पद्यते
शुभम् । नद्युभयतटमृत्तिकां गृहीत्वा पुत्तलिकां
कृत्वा उत्पलपुष्पं गन्धं ताम्बूलं दशध्वजाः
दीपाश्चत्वारः । त्रयोदश स्वस्तिकाः मत्स्य-
मांससुरामग्रभक्तञ्च उत्तरस्यां दिशि अपराह्णे
बलिर्देयः चतुष्पथे । ॐ नमो नारायणाय अमु-
कस्य व्याधिं हन हन मथ मथ स्वाहा । चतुर्थे
पृष्ठ ३/४२४
दिवसे ब्राह्मणान् भोजयेत् ततः सम्पद्यते
शुभम् ।
पञ्चमे दिवसे मासे वर्षे वा गृह्णाति कटपूतना
नाम मातृका । तया गृहीतमात्रेण प्रथमं
भवति ज्वरः । गात्रमुद्बेजयति स्तन्यं न गृह्णाति
मुष्टिं बध्नाति । बलिन्तस्य प्रवक्ष्यामि येन सम्प-
द्यते शुभम् । कुम्भकारचक्रस्य मृत्तिकां
गृहीत्वा पुत्तलिकां विधाय गन्धताम्बूलं शुक्ल-
पुष्पं शुक्लौदनं पञ्च ध्वजाः पञ्च प्रदीपाः पञ्च-
वटकाः ऐशान्यां दिशि बलिर्दातव्यः । शान्त्यु-
दकेन स्नापयेत् । शिवनिर्म्माल्यसर्पनिर्म्मोक
गुग्गुलु निम्बपत्रबालकघृतैर्धूपं दद्यात् ।
ॐ नमो नारायणाय अमुकस्य व्याधिं चूर्णय
चूर्णय हन हन स्वाहा । चतुर्थे दिवसे
ब्राह्मणान् भोजयेत् ततः सम्पद्यते शुभम् ॥
षष्ठे दिवसे मासे वर्षे वा गृह्णाति शकुनिकानाम
मातृका तया गृहीतमात्रेण प्रथमं भवति
ज्वरः । गात्रभेदं दर्शयति दिवारात्रावुत्थानं
भवति । ऊर्द्धं निरीक्षते । बलिं तस्य प्रव-
क्ष्यामि येन सम्पद्यते शुभम् । पिष्टकेन पुत्तलिकां
कृत्वा शुक्लपीतरक्तपुष्पगन्धताम्बूलानि दश
दीपाः । दश पीतध्वजाः दश स्वस्तिकाः दश
वटकाः । क्षीरजम्बुडिकाः । मत्स्यमांससुरा
आग्नेय्यान्दिशि निष्क्रान्ते मध्याह्ने बलिर्दातव्यः ।
शान्त्युदकेन स्नापयेत् । शिवनिर्म्माल्यरसोन-
गुग्गुलुसर्पनिर्म्मोकनिम्बपत्रघृतैर्धूपं दद्यात् ।
ॐ नमो नारायणाय अमुकस्य व्याधिं चूर्णय
चूर्णय हन हन स्वाहा । चतुर्थे दिवसे ब्राह्म-
णान् भोजयेत् ततः सम्पद्यते शुभम् ॥
सप्तमे दिवसे मासे वर्षे वा गृह्णाति शुष्करेवती
नाम मातृका । तया गृहीतमात्रेण प्रथमं
भवति ज्वरः । गात्रमुद्वेजयति मुष्टिं बध्नाति
रोदिति । बलिन्तस्य प्रवक्ष्यामि येन सम्पद्यते
शुभम् । रक्तशुक्लपुष्पं गन्धताम्बूलरक्तौदनं
कृशरास्त्रयोदश स्वस्तिकाः त्रयोदश सष्कुलिका
जम्बुडिका मत्स्यमांससुराः त्रयोदश ध्वजाः
पञ्च प्रदीपाः । पश्चिमस्यान्दिशि ग्रामनिष्क्रा-
न्तेऽपराह्णे वृक्षमाश्रित्य बलिर्दातव्यः । शान्त्यु-
दकेन स्नापयेत् । गुग्गुलुमेषशृङ्गसर्षपोशीर
बालकघृतैर्धूपन्दद्यात् । ॐ नमो नारायणाय
दीप्ततेजसे हन हन मुञ्च मुञ्च स्वाहा ॥ चतुर्थे
दिवसे ब्राह्मणान् भोजयेत् ततः सम्पद्यते शुभम् ।
अष्टमे दिवसे मासे वर्षे वा गृह्णाति अर्य्यका
नाम मातृका तया गृहीतमात्रेण प्रथमं भवति
ज्वरः । गृध्रगन्धः पूतिगन्धश्च जायते । आहारं
न गृह्णाति गात्रमुद्बेजयति । बलिन्तस्य प्रव-
क्ष्याभि ततः सम्पद्यते शुभम् । रक्तपीतध्वजाः
चन्दनं पीतपुष्पं सष्कुल्यः पर्पटिका मत्स्य-
मांससुराः जम्बुडिकाः प्रत्यूषे बलिन्दद्यात् ॥
ॐ नमो नारायणाय त्रैलोक्यविद्रवणाय चतु-
द्दिशामीक्षणाय व्याधिं हन हन मुञ्च मुञ्च ज्वल
ज्वल दह दह ॐ ह्रीं फट् स्वाहा ॥ चतुर्थे
दिवसे ब्राह्मणान् भोजयेत् ततः सम्पद्यते
शुभम् ।
नवमे दिवसे मासे वर्षे वा गृह्णाति सूतिका
नाम मातृका । तया गृहीतमात्रस्य प्रथमं
भवति ज्वरः । नित्यं छर्द्दयति गात्रभेदं दर्शयति
मुष्टिं बध्नाति । निद्रातितरा स्याद्वलिन्तस्य प्रव-
क्ष्यामि येनसम्पद्यते शुभम् । नद्युभयतटमृत्तिकां
गृहीत्वा पुत्तलिकां निर्म्माय शुक्लवस्त्रेण वेष्ट-
येत् । शुक्लपुष्पं शुक्लोदनं गन्धताम्बूलं शुक्लाः
त्रयोदश ध्वजाः त्रयोदश प्रदीपाः त्रयोदश
स्वस्तिकाः त्रयोदश मत्स्यमांससुराः । उत्तर-
दिग्विभागे ग्रामनिष्काशे बलिं दापयेत् । शान्त्यु-
दकेन स्नापयेत् । गुग्गुलुनिम्बपत्रगोधूमगोशृङ्ग-
श्वेतसर्षपघृतैर्धूपं दद्यात् । ॐ नमो नारायणाय
चतुर्भुजाय हन हन मुञ्च मुञ्च स्वाहा । चतुर्थ-
दिवसे ब्राह्मणान् भोजयेत्ततः सम्पद्यते शुभम् ।
दशमे दिवसे मासे वर्षे वा यदि गृह्णाति
निरृता नाम मातृका । तया गृहीतमात्रेण
प्रथमं भवति ज्वरः । गात्रमुद्वेजयति आँत्कारं
करोति पुरीषमूत्रञ्च बहु भवेत् । बलिन्तस्य
प्रवक्ष्यामि येन सम्पद्यते शुभम् । पारावारस्य
मृत्तिकया पुत्तलिकां कृत्वा रक्तचन्दनगन्ध-
ताम्बूलादिभिर्भूषयित्वा पञ्च वर्णाः पञ्च ध्वजाः
पञ्च प्रदीपाः पञ्च स्वस्तिकाः पञ्च पुत्तलिका
मत्स्यमांससुराः वायव्यान्दिशि बलिन्दद्यात् ।
काकविष्ठागोमांसगोशृङ्गरसोनमार्ज्जाररोम-
निम्बपत्रघृतैर्धूपयेत् । ॐ नमो नारायणाय
चूर्णितहस्ताय हन हन मुञ्च मुञ्च स्वाहा ।
चतुर्थे दिवसे ब्राह्मणान् भोजयेत्ततः सम्पद्यते
शुभम् ॥
एकादशे दिवसे मासे वर्षे वा यदा गृह्णाति
पिलिपिच्छिका नाम मातृका । तया गृहीत-
मात्रस्य प्रथमं भवति ज्वरः । आहारं न
गृह्णाति । ऊर्द्ध्वदृष्टिर्भवति गात्रभङ्गश्च भवति
आँत्कारश्च भवति । बलिन्तस्य प्रवक्ष्यामि येन
सम्पद्यते शुभम् । पिष्टकेन पुत्तलिकां कृत्वा
रक्तचन्दनरक्तं तस्या मुखं दुग्धेन सिञ्चेत्
पीतपुष्पं गन्धताम्बूलं सप्त प्रदीपा अष्टौ वटका
अष्टौ सष्कुलिका अष्टौ पुरिका मत्स्यमांस-
सुराः पूर्ब्बस्यान्दिशि बलिर्दातव्यः । शान्त्यु-
दकेन स्नापयेत् । शिवनिर्म्माल्य गुग्गुलु
गोशृङ्गसर्पनिर्म्मोकघृतैर्धूपयेत् । ॐ नमो नारा-
यणाय मुञ्च मुञ्च स्वाहा । चतुर्थदिवसे विप्रान्
भोजयेत्तेन सम्पद्यते शुभम् ॥
द्बाशशे दिवसे मासे वर्षे वा यदा गृह्णाति
कामुका नाम मातृका । तया गृहीतमात्र
स्यादौ जायते ज्वरः । हसित्वा वदति अङ्गुल्या-
तर्ज्जयति क्रामति निःश्वसिति । मुहुर्मुहु-
श्छर्द्दयति । आहारं न करोति । बलिन्तस्य
प्रवक्ष्यामि येन सम्पद्यते शुभम् । क्षीरेण पुत्त-
लिकां कृत्वा शुक्लकुसुमं गन्धताम्बूलं शुक्लाः
सप्त ध्वजाः । सप्त सष्कुलिकाः ॥ सप्त प्रदीपाः ।
करस्थेन दधिभक्तेन सर्व्वकर्म्मबलिं दद्यात्
शान्त्युदकेन स्नापयेत् । श्वेतसर्षपगुग्गुलुशिव-
निर्म्माल्यघृतैर्धूपयेत् । ॐ नमो नारायणाय
व्याधिं मुञ्च मुञ्च हन हन स्वाहा । चतुर्थ-
दिवसे विप्रान् भोजयेत् । ततः सम्पद्यते शुभम् ॥
इति रावणकृतं बालतन्त्रं समाप्तम् ॥
इति वैद्यकचक्रपाणिसंग्रहे बालरोगाघिकारे ॥)

बालचर्य्यः, पुं, (बालस्य बालकस्येव चर्य्या यस्य ।)

कार्त्तिकेयः । इति त्रिकाण्डशेषः ॥ बालकस्य
चरित्रे, क्ली ॥

बालतनयः, पुं, (बालानि नवोद्गतपत्रानि तनया-

इव यस्य ।) खदिरवृक्षः । इत्यमरः । २ । ४ । ४९ ॥
(गुणादयोऽस्य खदिरशब्दे ज्ञातव्याः ॥)
बालकपुत्त्रश्च ॥

बालतन्त्रं, क्ली, (बालाय बालकरक्षार्थं तन्त्रमुपायः

शास्त्रं वा ।) गर्भिणीचर्य्या । तत्पर्य्यायः ।
कुमारभृत्या २ गर्भिण्यवेक्षणम् ३ । इति
त्रिकाण्डशेषः ॥ (अस्य विवरणन्तु सुश्रुते सूत्र-
स्थाने १ अध्याये । यथा, “शल्यं शालाक्यं
कायचिकित्सा भूतविद्या कौमारभृत्यमगद-
तन्त्रं वाजीकरणतन्त्रमिति ॥” कौमारभृत्यस्य
वा बालतन्त्रस्य लक्षणमाह तत्रैव । “कौमार-
भृत्यं नाम कुमारभवनधात्रीक्षीरदोषसंशोध-
नार्थं दुष्टस्तन्यग्रहसमुत्थानाञ्च व्याधीनामुप-
शमनार्थम् ॥” बालतन्त्राणि कानि तान्याह
तत्रैव ३ अध्याये ।
“नवग्रहाकृतिज्ञानं स्कन्दस्य च निषेधनम् ।
अपस्मारशकुन्योश्च रेवत्याश्च पुनः पृथक् ॥
पूतनायास्तथान्धाया मण्डिका शीतपूतना ।
नैगमेयचिकित्सा च ग्रहोत्पत्तिः सयोनिजा ॥
कौमारतन्त्रमित्येतत् शारीरेषु प्रकीर्त्तितम् ॥”
एतेषां विवरणन्तु बालग्रहशब्दे द्रष्टव्यम् ॥)

बालतृणं, क्ली, (बालं नवजातं तृणम् ।) नवतृणम् ।

तत्पर्य्यायः । शष्पम् २ । इत्यमरः । २ । ४ । २६७ ॥
(यथा, रघौ २ । २६ श्लोकटीकायां मल्लिनाथः ।
गङ्गायाः प्रपातस्तस्यान्ते समीपे विरूढानि
जातानि शष्पाणि बालतृणानि यस्मिन् तत् ॥”)

बालदलकः, पुं, (बालानि दलानीव दलानि यस्य ।

यद्वा बाल इव क्षुद्रं दलं यस्य । ततः स्वार्थे
कन् ।) खदिरवृक्षः । इत्यमरटीकायां
भरतः ॥

बालधिः, पुं, (बालाः केशाः धीयन्तेऽत्र । बाल +

धा + कि ।) केशयुक्तलाङ्गूलम् । इत्यमरः । २ । ८
५० ॥ (यथा, किराते । १२ । ४७ ।
“चमरीगणैः शिवबलस्य
बलवति भयेऽप्युपस्थिते ।
वंशविततिषु विषक्तपृथु-
प्रियबालबालधिभिराददे धृतिः ॥”)

बालपत्रः, पुं, (बाल इव क्षुद्रं पत्रं यस्य ।) खदिर-

वृक्षः । इत्यमरटीकायां भरतः ॥ यवासः । इति
राजनिर्घण्टः ॥ (बालं पत्रमिति विग्रहे ।) क्ली ।
नूतनपर्णम् ॥ (यथास्य पर्य्यायः ॥
पृष्ठ ३/४२५
“खदिरो रक्तसारश्च गायत्री दन्तधावनः ।
कण्टकी बालपत्रश्च बहुशल्यश्च यज्ञियः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

बालपत्रकः, पुं, (बालपत्र एव । स्वार्थे कन् ।)

खदिरवृक्षः । इति त्रिकाण्डशेषः ॥

बालपाश्या, स्त्री, (बालपाशे केशसमूहे साधुः

तत्र साधुरिति यत् ।) सीमन्तिकास्थितस्वर्णादि-
रचितपट्टिका । सिँती इति भाषा । तत्-
पर्य्यायः । परितथ्या २ । इत्यमरः । २ । ६ । १०३ ॥
बालपाशस्थितमणिः । इति तट्टीकायां तर्क-
वागीशः ॥

बालपुष्पिका, स्त्री, (बालानि क्षुद्राणि पुष्पाणि

यस्याः । ततः स्वार्थे कन् कापि अत इत्वम् ।)
यूथिका । इति राजनिर्घण्टः ॥ (विवृतिरस्या
यूथिकाशब्दे निर्द्देश्या ॥)

बालपुष्पी, स्त्री, (बालानि क्षुद्राणि पुष्पाणि यस्याः

सा ।) यूथिका । इति जटाधरः ॥

बालभद्रकः, पुं, (बालेऽपि भद्र इव । ततः स्वार्थे

कन् ।) विषभेदः । तत्पर्य्यायः । शाम्भवः २ ।
इति शब्दचन्द्रिका ॥

बालभैषज्यं, क्ली, (बालं भैषज्यम् । यद्वा, बालस्य

शिशोभषज्यम् ।) रसाञ्जनम् । इति राज-
निर्घण्टः ॥ बालकस्यौषधञ्च ॥ (तद्यथा, --
“भैषज्यं पूर्ब्बमुद्दिष्टं नराणां यज्ज्वरादिषु ।
कार्य्यन्तदेव बालानां मात्रा तस्य कनीयसी ॥”
इति वैद्यकचक्रपाणिसंग्रहे बालरोगाधिकारे ॥)

बालभोज्यः, पुं, (बालानां भोज्यः ।) चणकः ।

इति राजनिर्घण्टः ॥ बालकभक्षणीये, त्रि ॥

बालमूषिका, स्त्री, (बाला क्षुद्रा मूषिका इन्दुरः ।)

क्षुद्रमूषिका । छिट्का इन्दुर इति भाषा ।
तत्पर्य्यायः । गिरिका २ । इत्यमरः । २ । ५ । १२ ॥
चिक्कः ३ वेश्मनकुलः ४ चिक्वा ५ । इति शब्द-
रत्नावली ॥

बालयज्ञोपवीतकं, क्ली, (बालं यज्ञोपवीतम् । ततः

स्वार्थे कन् ।) उपवीतिविशेषः । तत्पर्य्यायः ।
उरस्कटः २ पञ्चवटः ३ । इति त्रिकाण्डशेषः ॥

बालराजं, क्ली, (बालः स्वल्पोऽपि राजते इति ।

राज + पचाद्यच् ।) वैदूर्य्यम् । इति शब्दरत्ना-
वली ॥ बालकश्रेष्ठे, पुं ॥

बालरोगः, पुं, (बालस्य रोगः ।) बालकस्य

व्याधिः । तस्य निदानं लक्षणानि चाह ।
“धात्र्यास्तु गुरुभिर्भोज्यैर्विषमैर्दोषजैस्तथा ।
दोषा देहे प्रकुप्यन्ति ततः स्तन्यं प्रदूष्यति ॥
मिथ्याहारविहारिण्या दुष्टा वातादयः स्त्रियाः ।
दूषयन्ति पयस्तेन जायन्ते व्याधयः शिशोः ॥ * ॥
वातदुष्टं शिशुः स्तन्यं पिबन् वातगदातुरः ।
क्षामस्वरः कृशाङ्गः स्याद्बद्धविण्मूत्रमारुतः ॥
स्विन्नो भिन्नमलो बालः कामलापित्तरोगवान् ।
तृष्णालुरुष्णसर्व्वाङ्गः पित्तदुष्ठं पयः पिबन् ॥
श्लेष्मदुष्टं पिबन् क्षीरं लालालुः श्लेष्मरोगवान् ।
निद्रार्द्दितो जडः शूनवक्त्राक्षश्छर्द्दनः शिशुः ॥
ज्वराद्या व्याधयः सर्व्वे वक्ष्यन्ते महतान्तु ये ।
बालानामपि ते तद्बद्बोद्धव्या भिषगुत्तमैः ॥
बालानामेव ये रोगा भवन्ति महतां न च ।
तालुकण्टकमुख्यांस्तानवधारय यत्नतः ॥”
तत्रादौ तालुकण्टकमाह ।
“तालुमांसे कफः क्रुद्धः कुरुते तालुकण्टकम् ।
तेन तालुप्रदेशस्य निम्नता मूर्द्ध्नि जायते ॥
तालुपातात् स्तनद्वेषः कृच्छ्रात् पानं शकृद्-
द्रवम् ।
तृडक्षिकण्ठास्यरुजा ग्रीवादुर्द्धरता वमिः ॥”
पानं स्तन्यस्य । शकृद्द्रवं द्रवरूपम् ॥
अथ महापद्ममाह ।
“विसर्पस्तु शिशोः प्राणनाशनः शीर्षवस्तिजः ।
पद्मवर्णो महापद्मरोगो दोषत्रयोद्भवः ।
शङ्खाभ्यां हृदयं याति हृदयाच्च गुदं ब्रजेत् ॥”
पद्मवर्णः लोहितवर्णः तत्र शीर्षजो विसर्पः
शङ्खाभ्यां हृदयं याति हृदयात् गुदं व्रजेत् ।
एवं वस्तितो गुदं याति । गुदतो हृदयं हृदया-
च्छिरो याति इति बोद्धव्यम् ॥
अथ कुकूणकमाह ।
‘कुकूणकः क्षीरदोषात् शिशूनामेव वर्त्मनि ।
जायते तेन तन्नेत्रं कण्डुरं प्रस्रवेन्मुहुः ॥
शिशुः कुर्य्याल्ललाटाक्षिकूटनासाप्रघर्षणम् ।
शक्तो नार्कप्रभां द्रष्टं न वर्त्मोन्मीलनक्षमः ॥’
कुकूणकः कोथुया इति लोके ख्यातः ॥ * ॥
अथ तुण्डिगुदपाकमाह ।
‘वातेनाघ्मापिता नाभिः सरुजा तुण्डिरुच्यते ।
बालस्य गुदपाकाख्यो व्याधिः पित्तेन जायते ॥’
अथाहिपूतनं आह ।
‘शकृन्मूत्रसमायुक्तेऽधौतेऽपाने शिशोर्भवेत् ।
स्विन्ने वा स्नाप्यमानस्य कण्डू रक्तकफोद्भवा ॥
कण्डूयनात्ततः क्षिप्रं स्फोटाः स्रावश्च जायते ।
एकीभूतं व्रणं घोरं तं विद्यादहिपूतनम् ॥
स्विन्ने स्वेदिते ॥ * ॥ अथाजगल्लीमाह ।
स्निग्धा सवर्णा ग्रथिता निरुजा मुद्गसन्निभा ।
कफवातोत्थिता ज्ञेया बालानामजगल्लिका ॥’
ग्रथिता गुम्फितेव । मुद्गसन्निभा । मुद्गाकृतिः ॥
अथ पारगर्भिकमाह ।
‘मातुः कुमारो गर्भिण्याः स्तन्यं प्रायः पिबन्नपि ।
कासाग्निसादवमथुतन्द्राकार्श्यारुचिभ्रमैः ॥
युज्यते कोष्ठवृद्ध्या च तमाहुः पारिगर्भिकम् ।
रोगं परिभवाख्यञ्च तत्र युञ्जीत दीपनम् ॥’
पिबन्नपीत्यपिशब्दादपिबन्नपि पारिगर्भिकः ।
अहीडी इति लोके ।
परिभवाख्यं परिभवेति नामान्तरम् ॥ * ॥
अथ दन्तोद्भेदकान् रोगानाह ।
‘दन्तभेदः शिशोः सर्व्वरोगाणां कारणं स्मृतम् ।
विशेषाज्ज्वरविड्भेदकासच्छर्द्दिशिरोरुजम् ॥
अभिष्यन्दस्य पोथक्या विसर्पस्य च जायते ॥’
कारणमित्यन्वयः । पोथक्याः वर्त्मरोगविशेषस्य ॥
अथ बालरोगाणां चिकित्सा ।
‘भैषज्यं पूर्ब्बमुद्दिष्टं महतां यज्ज्वरादिषु ।
तदेव कार्य्यं बालानां किन्तु दाहादिकं विना ॥’
दाहादिकं विना अग्निदाहादिक्षारवमनविरे-
चनशिराव्यधादिकं षिना । महाकष्टे चोत्पन्ने
वमनबिरेकाद्यं दद्यात् । यत आह सुश्रुतः ।
विरेकवस्तिवमनानृते कुर्य्याच्च नात्ययादिति ।
अत्ययात् विनाशकरकष्टात् ऋते विना ॥
‘त एव दोषा दूष्याश्च ज्वराद्या व्याधयश्च ते ।
अतस्तदेव भैषज्यं मात्रा त्वस्य कनीयसी ॥’
अस्य बालस्य । कनीयसीमात्रामाह विश्वा-
मित्रः ।
‘विडङ्गफलमात्रन्तु जातमात्रस्य भेषजम् ।
अनेनैव प्रमाणेन मासि मासि प्रवर्द्ध्वयेत् ॥’
विडङ्गपरिमितं भेषजं चूर्णीकृत्य किंवा कल्की-
कृत्याथवावलेहीकृत्य दद्यादित्यर्थः । तन्त्रान्तरे
त्वन्यथाभिहितम् ।
‘प्रथमे मासि बालाय देया भेषजरक्तिका ।
अवलेह्या तु कर्त्तव्या मधुक्षीरसिताघृतैः ॥
एकैकां वर्द्धयेत्तावद्यावत् संवत्सरो भवेत् ।
तदूर्द्ध्वं माषवृद्धिः स्याद्यावत् षोडशवत्सराः ॥’
एकैकां रक्तिकाम् तदूर्द्ध्वं वर्षोपरि माषवृद्धिः
प्रतिवर्षं पञ्चगुञ्जात्मकस्य माषस्य वृद्धिर्भवति ।
गुञ्जाः पञ्चाद्यमाषक इत्यमरसिंहः ॥
‘ततः स्थिरा भवेत्तावद्यावद्वर्षाणि सप्ततिः ।
ततो बालकवन्मात्रा ह्रासनीया शनैः शनैः ॥’
ततः षोडशवत्सरोपरि ।
‘चूर्णकल्कावलेहानामियं मात्रा प्रकीर्त्तिता ।
कषायस्य पुनः सैव विज्ञातव्या चतुर्गुणा ॥
क्षीरपस्य शिशोर्देयमौषधं क्षीरसर्पिषा ।
धात्र्यास्तु केवलं देयं न क्षीरेणापि सर्पिषा ॥’
क्षीरान्नादस्य पूर्ब्बवत् क्षीरसर्पिषा । प्रकारा-
न्तरेणौषधपानमाह सुशुतः ।
‘येषां गदानां ये योगाः प्रवक्ष्यन्ते गदङ्कराः ।
तेषु तत्कल्कसंलिप्तौ पाययेत शिशुं स्तनौ ॥’
अवचनानां बालानामभ्यन्तरव्याधिज्ञानोपाय-
माह ।
‘अङ्गप्रत्यङ्गदेशे तु रुजा यत्रास्य जायते ।
मुहुमुहुः स्पृशति तं स्पृश्यमानेन रोदिति ॥
निमीलिताक्षो मूर्द्धस्थे रोगे नो धारयेच्छिरः ।
वस्तिस्थे मूत्रसङ्गार्त्तो क्षुधातृडपि गच्छति ॥
विण्मूत्रसङ्गवैकल्याच्छर्द्द्याघ्मानान्त्रकूजनैः ।
कोष्ठे व्याधीन् विजानीयात् सर्व्वत्रस्थांश्च
रोदनैः ॥’
अत्रादौ ज्वरस्य चिकत्सामाह ।
‘सर्व्वं निर्वार्य्यते बाले स्तन्यं नैव निषार्य्यते ।
मात्रया लङ्घ्ययेद्धात्रीं शिशोरेतद्विलङ्घनम् ॥’
मात्रया लङ्घयेत् लघु भोजयेत् ।
‘भद्रमुस्ताभयानिम्बपटोलमधुकैः कृतः ।
क्वाथः कोष्णः शिशोरेष निःशेषज्वरनाशनः ॥’
भद्रमुस्तादिक्वाथः सर्व्वज्वरेषु ॥ * ॥
‘घनकृष्णारुणाशृङ्गीचूर्णं क्षौद्रेण संयुतम् ।
शिशोर्ज्वरातिसारघ्नं कासं श्वासं वमिं हरेत् ॥
अरुणा अतिविषा । चतुर्भद्रिका ज्वराति-
सारेषु ॥
पृष्ठ ३/४२६
‘विल्वञ्च पुष्पाणि च धातकीनां
जलं सलोध्रं गजपिप्पली च ।
क्वाथावलेहौ मधुना विमिश्रौ
बालेषु योज्यावतिसारितेषु ॥’
जलं बाला । विल्वादिक्वाथावलेहौ । अतीसारेषु ॥
‘समङ्गाधातकीलोध्रसारिवाभिः सृतं जलम् ।
दुर्द्धरेऽपि शिशोर्देयमतीसारे समाक्षिकम् ॥’
समङ्गा लज्जालुमूलम् । समङ्गादिक्वाथो दुर्द्ध-
रेऽतीसारे ॥ * ॥
‘विडङ्गान्यजमीदा च पिप्पलीतण्डुलानि च ।
एवामालीढ्य चूर्णानि सुखं तप्तेन वारिणा ।
आमे प्रवृत्तेऽतीसारे कुमारं पाययेद्भिषक् ॥’
विडङ्गादिचूर्णमतीसारे ॥ * ॥
‘मोचरसः समङ्गा च धातकी पद्मकेशरम् ।
पिष्टैरेतैर्यवागूः स्याद्रक्तातीसारनाशिनी ॥’
मोचरसलज्जालुमूलधावैफुलकमलकेशरसमुदि-
ततोला १ तण्डुलकीखुदीतोला १ जलतोला
११ सर्व्वमेकीकृत्य यवागूः साधनीया । मोच-
रसादियवागू रक्तातिसारे ॥ * ॥
‘नागरातिविषामुस्ताबालकेन्द्रयवैः शृतम् ।
कुमारं पाययेत् प्रातः सर्व्वातीसारनाशनम् ॥’
नागरादिक्वाथः सर्व्वातीसारे ॥ * ॥
‘लाजासयष्टिमधुका शर्करा क्षौद्रमेव च ।
तण्डुलोदकयोगेन क्षिप्रं हन्ति प्रवाहिकाम् ॥’
लाजादिचूर्णं प्रवाहिकायाम् ॥ * ॥
‘रजनी सरलो दारुवृहती गजपिप्पली ।
शृङ्गिपर्णी शताहा च लीढं माक्षिकसर्पिषा ॥
दीपनं ग्रहणीं हन्ति मारुतार्त्तिसकामलाम् ।
ज्वरातीसारपाण्डूघ्नं बालानां सर्व्वरोगनुत् ॥’
रजन्यादिचूर्णं ग्रहण्यादौ ॥ * ॥
‘पौष्करातिविषाशृङ्गीमागधीधन्वयासकैः ।
कृतं चूर्णन्तु सक्षौद्रं शिशूनां पञ्चकासजित् ॥’
पौष्करादिचूर्णं कासेषु ॥ * ॥
‘पौष्करातिविषावासाकणाशृङ्गीरसं लिहन् ।
मधुना मुच्यते बालः कासैः पञ्चभिरुच्छ्रितैः ॥’
मुस्तकादिरसः कासेषु ॥ * ॥
‘व्याघ्रीकुसुमसंजातकेशरैरवलेहिका ।
मधुना चिरसंजातान् शिशोः कासान् व्यपो-
हति ॥’
कासे ॥ * ॥
‘घान्यं शर्करया युक्तं तण्डुलोदकसंयुतम् ।
पानमेतत् प्रदातव्यं कासश्वासापहं शिशोः ॥’
धान्यादिपानं कासश्वासयोः ॥ * ॥
‘द्राक्षावासाभयाकृष्णाचूर्णं क्षौद्रेण सर्पिषा ।
लीढं श्वासं निहन्त्याशु कासञ्च तमकं तथा ॥’
तमकं श्वासभेदम् । द्राक्षादिचूर्णं कासश्वासयोः ॥
‘चूर्णं कटुकरोहिण्या मधुना सह योजयेत् ।
हिक्कां प्रशमयेत् क्षिप्रं छर्द्दिञ्चापि चिरो-
त्थिताम् ॥’
हिक्कायां छर्द्याञ्च ॥ * ॥
‘आम्रास्थिलाजसिन्धूत्थं सक्षौद्रं छर्द्दिनुद्भवेत् ॥’
छर्द्याम् ॥ * ॥
‘पीतं पीतं वमेद्यस्तु स्तन्यं तं मधुसर्पिषा ।
द्विवार्त्ताकी फलरसं पञ्चकोलञ्च लेहयेत् ॥’
द्विवार्त्ताकी बृहतीद्बयम् ॥ * ॥
‘पञ्चकोलानि पिप्पलीपिप्पली-
मूलचव्यचित्रकनागराणि ॥’
क्षीरच्छर्द्याम् ॥ * ॥
‘ह्रीवेरशर्कराक्षौद्रं लीढं तृष्णाहरं परम् ।
घृतेन सिन्धुविश्वैलाहिङ्गुभार्गीरजोलिहन् ॥
आनाहं वातिकं शूलं हन्यात्तोयेन वा शिशुः ॥’
आनाहे वातशूले च ॥ * ॥
‘कणोषणासिताक्षौद्रसूक्ष्मैलासैन्धवैः कृतः ।
मूत्रग्रहे प्रयोक्तव्यः शिशूनां लेह उत्तमः ॥’
मूत्राघाते ॥ * ॥
‘यदा तु दुर्ब्बलो बालः खादन्नपि च वह्निमान् ।
विदारीकन्दगोधूमयवचूर्णं घृतप्लुतम् ॥
खादयेत्तदनुक्षीरं शृतं समधुशर्करम् ॥’
कार्श्ये ॥ * ॥
‘मुस्तकुष्माण्डबीजानि भद्रदारुकलिङ्गकान् ।
पिष्ट्वा तोयेन संलिम्पेल्लेपोऽयं शोथहृच्छिशोः ॥’
शोथे ॥ * ॥
‘पटोलत्रिफलारिष्टहरिद्राक्वथितं पिबेत् ।
क्षतवीसर्पविस्फोटज्वराणां शान्तये शिशुः ॥’
क्षतवीसर्पविस्फोटज्वरेषु ॥ * ॥
‘गृहधूमनिशाकुष्ठराजिकेन्द्रयवैः शिशोः ।
लेपस्तक्रेण हन्त्याशु सिध्मपामविचर्च्चिकाम् ॥
सारिवातिललोध्राणां कषायो मधुकस्य च ।
संस्राविणि मुखे शस्तो धावनार्थं शिशोः सदा ॥’
मुखस्रावे ॥ * ॥
‘अश्वत्थत्वग्दलक्षौद्रैर्मुखपाके प्रलेपनम् ॥’
मुखपाके ॥ * ॥
‘पिप्पलीत्रिफलाचूर्णं घृतक्षौद्रपरिप्लुतम् ।
बालो रोदिति यस्तस्मै लेढुं दद्यात् सुखा-
वहम् ॥’
रोदने ॥ * ॥
‘हरीतकी वचा कुष्ठं कल्कं माक्षिकसंयुतम् ।
पीत्वा कुमारः स्तन्येन मुच्यते तालुकण्टकात् ॥’
तालुकण्टके ॥ * ॥
‘फलत्रिकं लोध्रपुनर्नवे च
सशृङ्गवेरं बृहतीद्वयञ्च ।
आलेपनं श्लेष्महरं सुखोष्णं
कुकूणके कार्य्यमुदाहरन्ति ॥’
कुकूणके ॥ * ॥
‘मृत्पिण्डेनाग्नितप्तेन क्षीरसिक्तेन सोष्मणा ।
स्वेदयेदुत्थितां नाभिं शोथस्तेनोपशाम्यति ॥’
नाभिशोथे ॥ * ॥
‘नाभिपाके निशालोध्रप्रियङ्गुमधुकैः शृतम् ।
तैलमभ्यञ्जने शस्तमेभिर्वाप्यवधूलनम् ॥
दग्धेन च्छागशकृता नाभिपाकेऽवचूर्णनम् ।
त्वक्चूर्णैः क्षीरिणां वापि कुर्य्याच्चन्दन-
रेणुना ॥’
नाभिपाके ॥ * ॥
‘गुदपाके तु बालानां पित्तघ्नीं कारयेत् क्रियाम् ।
रसाञ्जनं विशेषेण पानलेपनयोर्हितम् ॥
शङ्खयष्ट्यञ्जनैश्चूर्णं शिशूनां गुदपाकनुत् ॥’
अञ्जनं रसाञ्जनम् । गुदपाके ॥ * ॥
‘शङ्खसौवीरयष्ट्याह्वैर्लेपो देयोऽहिपूतने ॥’
अहिपूतने ॥ * ॥
‘पारिगर्भिकरोगे तु पूज्यते वह्निदीपनम् ॥’
पारिगर्भिके ॥ * ॥
‘दन्तपालिन्तु मधुना चूर्णेन प्रतिसारयेत् ।
धातकीपुष्पपिप्पल्योर्धात्रीफलरसेन वा ॥
दन्तोत्थानभवा रोगाः पीडयन्ति न बालकम् ।
जाते दन्ते हि शाम्यन्ति यतस्तद्धेतुका
गदाः ॥’
दन्तोद्भेदजरोगेषु ॥ * ॥
‘सौवर्णं सुकृतं चूर्णं कुष्ठं मधु घृतं वचा ।
मत्स्याक्षकः शङ्खपुष्पी मधु सर्पिः सकाञ्चनम् ॥
अर्कपुष्पीमधु घृतं चूर्णितं कतकं वचा ।
सहेमचूर्णं कैटर्य्यं श्वेता दूर्व्वा घृतं मधु ॥
चत्वारोऽभिहिताः प्राशा अर्द्धश्लोकसमापनाः ।
कुमाराणां वपुर्मेधाबलपुष्टिकराः स्मृताः ॥’
सावर्णचूर्णम् । चतुर्ष्वपि योगेषु मारित-
सुवर्णचूर्णम् । मत्स्याक्षकः ब्राह्मी इति लोके
वकम इत्येके । अर्कपुष्पी अर्कसदृशपुष्पलता ।
कैटर्य्यं कट्फलम् । श्वेता दूर्व्वाविशेषणं वचेति
केचित् । संवत्सरं यावदेते योगाः प्रयोज्याः
द्वादशवर्षाणीति केचित् ॥ * ॥
‘बालानाञ्च वपुर्मेधाबलपुष्टिकराः स्मृताः ।
लाक्षारसे समे तैलं मस्तुन्यथ चतुर्गुणे ॥
रास्नाचन्दनकुष्ठाह्वावाजिगन्धानिशायुतैः ।
शताह्वादारुयष्ट्याह्वमुर्व्वातिक्ताहरेणुभिः ॥
संसिद्धं ज्वररक्षोघ्नं बलवर्णकरं शिशोः ॥”
लाक्षादितैलं बालेषु ॥ * ॥ इति भावप्रकाशे
बालरोगाधिकारः ॥

बालवायजं क्ली, (बालवाये वैदुर्य्यप्रभवे देश-

विशेषे जायते इति । जन् + ड ।) वैदूर्य्यम् ।
इति त्रिकाण्डशेषः ॥ (विवृतिर्विशेषश्चास्य
वैदूर्य्यशब्दे ज्ञेयः ॥)

बालवासः [स्] क्ली, (बालानां लोम्नां बालै-

र्निर्म्मितं वा वासः ।) केशनिर्म्मितवस्त्रम् ।
बालकस्य वस्त्रञ्च । इति केचित् ॥

बालवाह्यः पुं, (बालाः शिशवो वाह्या यस्य ।

एते खलु कस्मिंश्चिदुपस्थिते भये शिशून् पृष्ठे
निघाय पलायन्त इति प्रसिद्धेस्तथात्वम् ।)
वनच्छागः । इति हाराबली । ८१ ॥ बालक-
वहनीये त्रि ॥

बालव्यजनं, क्ली, (बालस्य चमरीपुच्छस्य वालेन

वा निर्म्मितं व्यजनम् ।) चामरम् । तत्पर्य्यायः ।
रोमगुच्छः २ प्रकीर्णकम् ३ । इति हेमचन्द्रः ॥
(यथा, कुमारे । १ । १३ ।
“लाङ्गूलविक्षेपविसर्पिशोभै-
रितस्ततश्चन्द्रमरीचिगौरैः ।
यस्यार्थयुक्तं गिरिराजशब्दं
कुर्व्वन्ति बालव्यजनैश्चमर्य्यः ॥”)
पृष्ठ ३/४२७
बालकस्य व्यजनञ्च ॥
“बालव्यजनमोजस्यं मक्षिकादीन् व्यपोहति ।”
इति द्रव्यगुणः ॥

बालव्रतः, पुं, मञ्जुघोषनामकपूर्ब्बजिनविशेषः ।

इति त्रिकाण्डशेषः ॥

बालसन्ध्याभः, पुं, (बालसन्ध्या इव आभा यस्य ।)

अरुणवर्णः । इति हेमचन्द्रः ॥

बालसूर्य्यं, क्ली, (बालः सूर्य्य इव) वैदूर्य्यमणिः ।

इति त्रिकाण्डशेषः ॥ प्रातःकालीनसूर्य्ये, पुं ॥

बालसूर्य्यकं, क्ली, (बालसूर्य्य एव । बालसूर्य्य +

स्वार्थे कन् ।) वैदूर्य्यम् । इति शब्दरत्नावली ॥

बालहस्तः, पुं, (बाला हस्त इव मक्षिकादीनां

निवारकत्वात् ।) बालधिः । लोमयुक्तलाङ्गू-
लम् । इत्यमरः ॥ (केशानां हस्तः समूहः त्रि ।
केशसमूहश्च इत्युज्ज्वलदत्तः ॥)

बाला, स्त्री, (बालाः केशा इव पदार्था विद्यन्ते

यस्याः । बाल + अर्श आद्यच् ततष्टाप् ।)
नारिकेलः । हरिद्रा । मल्लिकाभेदः । अलङ्कार-
भेदः । मेध्यम् । त्रुटिः । स्त्री । इति मुद्राङ्किता
मेदिनी ॥ घृतकुमारी । ह्रीवेरम् । इति शब्द-
चन्दिका ॥ अम्बष्ठा । नीलझिण्टी । इति राज-
निर्घण्टः ॥ एकवर्षवयस्का गौः । यथा, --
“वर्षमात्रातुबाला स्यादतिबाला द्विवार्षिकी ।”
इति प्रायश्चित्ततत्त्वम् ॥
षोडशवर्षोया स्त्री । सा ग्रीष्मशरत्काले च
प्रशंसनीया हर्षदा च । इति राजवल्लभः ॥
(यथा, रतिमञ्जर्य्याम् ।
“बाला स्त्री प्राणदा प्रोक्ता तरुणी प्राण-
हारिणी ।
प्रौढा करोति वृद्धत्वं वृद्धा मरणमादिशेत् ॥”
यथा, मेघदूते । ८३ ।
“गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बालां
जातां मन्ये शिशिरमथितां पद्मिनीं बाल्य-
रूपाम् ॥”
कन्यामात्रेऽपि । यथा, मार्कण्डये । २१ । २८ ।
“इयञ्च मूर्च्छामगत् कारणं यत् शृणुष्व तत् ।
त्वयि प्रीतिमती बाला दर्शनादेव मानद ! ॥”
पञ्चवर्षा स्मृता बाला । इति हारीते । १ । ५ ।)
ऊनद्बिवार्षिकी कन्या । तस्यास्तद्बयस्कबालस्य
च अग्निसंस्कारादिनिषेधो यथा, --
“अजातदन्ता ये बाला ये च गर्भाद्बिनिःसृताः ।
न तेषामग्निसंस्कारो न पिण्डं नोदकक्रिया ॥”
इति गारुडे १०७ अध्यायः ॥

बालाक्षी, स्त्री, (बालाः केशा इवाक्षिसदृशं च

पुष्पं यस्याः ।) केशपुष्पावृक्षः । तत्पर्य्यायः ।
मानसी २ दुर्गपुष्पी ३ केशधारिणी ४ । इति
शब्दचन्द्रिका ॥

बालार्कः, पुं, (बालो नवोदितोऽर्कः सूर्य्यः ।)

प्रातःकालीनसूर्य्यः । यथा, --
“रक्तवस्त्रपरीधानां बालार्कसदृशीं तनूम् ॥”
इत्यादि विश्वसारे जगद्धात्रीध्यानम् ॥
कन्याराशिस्थसूर्य्यः । यथा, --
“शुष्कमांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि ।
प्रभाते मैथुनं निद्रा सद्यःप्राणहराणि षट् ॥”
इति चाणक्यम् ॥

बालिः, पुं, (बाले केशे जातः । बाल + इञ् ।)

कपिविशेषः । तत्पर्य्यायः । ऐन्द्रः २ बाली ३ ।
इति त्रिकाण्डशेषः ॥ (अयमेव श्रीरामेण हतः ।
अस्य जन्मादिकविवृतिस्तु बालिन् शब्दे
द्रष्टव्या ।)

बालिका, स्त्री, (बाला एव । बाल + स्वार्थे कन् ।

टाप् अत इत्वम् ।) बाला । कन्या । बालुका ।
पत्रकाहला । कर्णभूषणम् । इति मेदिनी । के,
१३० ॥ एला । इति शब्दरत्नावली ॥ कन्या-
स्वरूपलक्षणे यथा, --
“कन्या देव्या स्वयं प्रोक्ता कन्यारूपा तु शूलिनी ।
यावदक्षतयोनिः स्यात्तावद्देवी सुरारिहा ॥”
इति देवीपुराणम् ॥

बालिखिल्याः, पुं, पुलस्त्यकन्यायां सन्नत्यां क्रतोः

षष्टिसहस्रसंख्यकपुत्त्रा ऋषिविशेषाः । यथा, --
“प्रीत्यां पुलस्त्यो भगवान् दत्तात्रिमसृजत् प्रमुः ।
पूर्ब्बजन्मनि सोऽगस्त्यः स्मृतः स्वायम्भुवेऽन्तरे ॥
वेदबाहुं तथा कन्यां सन्नतिर्नाम नामतः ।
पुत्त्राणां षष्टिसाहस्रं सन्नतिः सुषुवे क्रतोः ॥
ते चोर्द्ध्वरेतसः सर्व्वे बालिखिल्या इति स्मृताः ॥”
इति कौर्म्म १२ अध्यायः ॥
अपि च ।
“क्रतोश्च सन्नतिर्भार्य्या बालिखिल्यानसूयत ।
धष्टिर्यानि सहस्राणि ऋषीणामूर्द्ध्वरेतसाम् ॥”
इति मार्कण्डेयपुराणे रुद्रसर्गः । ५२ । २४ ॥
तेषामङ्गुष्ठपरिमाणस्य प्रमाणं यथा, --
“अथापश्यदृषीन् ह्रस्वानङ्गुष्ठोदरवर्ष्मणः ।
पलाशवृन्तिकामेकां सहितान् वहतः पथि ॥
प्रलीनान् स्वेष्विवाङ्गेषु निराहारांस्तपोधनान् ।
क्लिश्यमानान् मन्दबलान् गोष्पदे संप्लुतोदके ॥”
इति महाभारते । १ । ३१ ॥
बालखिल्योऽपि पाठः । यथा, “ऋग्वदान्तर्गत-
बालखिल्यमेकादशसूक्तं बालखिल्याः शंसन्ति
प्राणा वै बालखिल्याः । इति चरणव्यूहभाष्यम् ॥

बालिनी, स्त्री, अश्विनीनक्षत्रम् । इति हेमचन्द्रः ॥

बालिशं, क्ली, (बालाः सन्ति यस्य इति बाली

मस्तकस्तेन शेते यत्र । शी + आधारे ड ।)
उपधानम् । इति शब्दमाला ॥ (ब्राह्मणादि-
राकृतिगणः । इति पाणिनिः । ५ । १ । १२४ ॥)

बालिशः, त्रि, (बाड + इन् । डस्य लत्वं । बालिं

वृद्धिं श्यतीति । बालि + शो + आतोऽनुपेति
कः ।) शिशुः । (यथा, भागवते । ४ । १४ । २३ ।
“बालिशा वत यूयं वा अधर्म्मे धर्म्ममानिनः ॥”
बालिशा शिशुवृत्तय इत्यर्थः ॥) मूर्खः । इति
मेदिनी । शे, २६ ॥ (यथा, मनुः । ३ । १७६ ।
“अपाङ्क्त्यो यावतः पाङ्क्त्यान् भुञ्जानाननु-
पश्यति ।
तावतां न फलं तत्र दाता प्राप्नोति बालिशः ॥”
“बालिशोऽज्ञः ।” इति तट्टीका ॥)

बालिहन्ता, पुं, (बालेर्बालिनो वा बानरराजस्य

हन्ता ।) श्रीरामचन्द्रः । इति शब्दरत्नावली ॥
(बालिवधकथा यथा, रामायणे । ४ । १६ ।
२७ -- ३६ ।
“सूर्य्यपुत्त्रो महावीर्य्यः सुग्रीवः परिहीयत ।
वालिना भग्नदर्पस्तु सुग्रीवो मन्दविक्रमः ॥
बालिनं प्रति सामर्षो दर्शयामास राघवम् ।
वृक्षैः सशाखैः शिखरैर्वज्रकोटिनिभैर्नखैः ॥
मुष्टिभिर्जानुभिः पद्भिर्बाहुभिश्च पुनः पुनः ।
तयोर्युद्धमभूद्घोरं वृत्रवासवयोरिव ॥
तौ शोणिताक्तौ युध्येतां वानरौ वनचारिणौ ।
मेघाविव महाशब्दैस्तर्जमानौ परस्परम् ॥
हीयमानमथापश्यत् सुग्रीवं वानरेश्वरम् ।
प्रेक्षमाणं दिशश्चैव राघषः स मुहुर्मुहुः ॥
ततो रामो महातेजा आर्त्तं दृष्ट्वा हरीश्वरम् ।
स शरं वीक्षते वीरो बालिनो वधकाङ्क्षया ॥
ततो धनुषि सन्धाय शरमाशीविषोपमम् ।
पूरयामास तच्चापं कालचक्रमिवान्तकः ॥
तस्य ज्यातलघोषेण त्रस्ताः पत्ररथेश्वराः ।
प्रदुद्द्रुवुर्मृगाश्चैव युगान्त इव मोहिताः ॥
मुक्तस्तु वज्रनिर्घोषः प्रदीप्ताशनिसन्निभः ।
राघवेण महाबाणो बालिवक्षसि पातितः ॥
ततस्तेन महातेजा वीर्य्ययुक्तः कपीश्वरः ।
वेगेनाभिहतो बाली निपपात महीतले ॥)
ओड्रदेशान्तर्गतग्रामविशेषश्च ॥

बाली, [न्] पुं, (बालः केश उत्पत्तिस्थानत्वेन

विद्यते यस्य । बाल + इनिः । नामनिरुक्तिश्च
यथा, रामायणे ।
“अमोघरेतसस्तस्य वासवस्य महात्मनः ।
बालेषु पतितं बीजं बाली नाम बभूव सः ॥”)
इन्द्रपुत्त्रवानरराजविशेषः । स तु श्रीरामचन्द्रेण
हतः । तस्योत्पत्तिर्यथा, --
“मेरुर्नगवरः श्रीमान् जाम्बूनदमयः शुभः ।
तस्य यन्मध्यमं शृङ्गं सर्व्वदैवतपूजितम् ॥
तस्मिन् दिव्या सभा रम्या ब्रह्मणः शतयोजना ।
तस्यामास्ते सदा देवः पद्मयोनिश्चतुर्मुखः ॥
योगमभ्यसतस्तस्य नेत्राभ्यां यदश्रु स्रवत् ।
तद्गृहीतं भगवता पाणिना चर्च्चितश्च तत् ॥
निःक्षिप्तमात्रं तद्भूमौ ब्रह्मणा लोककर्त्तृणा ।
तस्मिन्नश्रुकणे राम ! वानरः संबभूव ह ॥
उत्तरं मेरुशिखरं गतस्तत्र च दृष्टवान् ।
नानाविहगसंघुष्टं प्रसन्नसलिलं सरः ॥
आप्लुत्य चापतत्तस्मिन् ह्रदे वानरसत्तमः ॥
उत्प्लुत्य तस्मात् स ह्रदादुत्थितः प्लवगः पुनः ॥
तस्मिन्नेव क्षणे राम ! स्त्रीत्वं प्राप स वानरः ॥
तद्रूपमद्भुतं दृष्ट्वा त्याजितौ धैर्य्यमात्मनः ।
ततस्तस्यां सुरेन्द्रेण स्कन्नं शिरसि पातितम् ॥
अनासाद्यैव तां नारीं सन्निवृत्तमथाभवत् ।
ततः सा वानरपतिं जज्ञे वानरमीश्वरम् ॥
अमोघरेतसस्तस्य वासवस्य महात्मनः ।
बालेषु पतितं बीजं बाली नाम बभूव ह ॥
भास्करेणापि तस्यां वै कन्दर्पवशवर्त्तिना ।
पृष्ठ ३/४२८
बीजं निषिक्तं ग्रीवायां विधानमनुवर्त्तत ।
ग्रीवायां पतितं बीजं सुग्रीवः समजायत ॥”
इति रामायणे उत्तरकाण्डे । ३७ सर्गः ॥
अपि च ।
“वानरेन्द्रं महेन्द्राभमिन्द्रो बालिनमात्मजम् ।
सुग्रीवं जनयामास तपनस्तपतां वरः ॥”
इति रामायणे बालकाण्डे १७ सर्गः ॥
“ततः शरेणाभिहतो रामेण रणकर्कशः ।
पपात सहसा बाली निकृत्त इव पादपः ॥”
इति किष्किन्ध्याकाण्डे १७ सर्गः ॥
(बालाः केशाः सन्त्यस्य ।) बालविशिष्टे, त्रि ॥

बालीशः, पुं, मूत्रकृच्छ्ररोगः । इति शब्दरत्ना-

वली ॥

बा(वा)लुः, स्त्री, (बलते अनेन । बल प्राणने । बल

+ उण् ।) एलबालुकनामकगन्धद्रव्यम् । इत्यु-
णादिकोषः ॥

बा(वा)लुकं, क्ली, (बालुरेव । स्वार्थे कन् ।) एल-

बालुकम् । इत्यमरः । २ । ४ । १२१ ॥

बा(वा)लुकः, पुं, पानीयालुः । इति राजनिर्घण्टः ॥

बा(वा)लुका, स्त्री, (बालुक + टाप् ।) रेणुविशेषः ।

बालि इति भाषा । तत्पर्य्यायः । सिकता २
सिक्ता ३ शीतला ४ सूक्ष्मशर्करा ५ प्रवाही ६
महासूक्ष्मा ७ सूक्ष्मा ८ पाणीयवर्णिका ९ ।
अस्या गुणाः । मधुरत्वम् । शीतत्वम् । सन्ताप-
श्रमनाशित्वञ्च ।
“सेकप्रयोगतश्चैव शाखाशेषानिलापहा ॥”
इति राजनिर्घण्टः ॥
शाखा हस्तपादादि ॥ कर्कटी । इति जटा-
घरः ॥ कर्पूरः । यन्त्रविशेषः । इति शब्द-
चन्द्रिका ॥

बा(वा)लुकागडः, पुं, (बालुकायाः गडतीति

तस्मात् क्षरति यः । बालुका + गडक्षरणे +
पचाद्यच् । बालुकाजातत्वादस्य तथात्वम् ।)
मत्स्यविशेषः । बालिया इति भाषा । तत्पर्य्यायः ॥
सिताङ्कः २ । इति हारावली । १९० ॥

बा(वा)लुकात्मिका, स्त्री, (बालुकावदात्मा स्वरूपो

यस्याः । कन् अत इत्वम् ।) शर्करा । इति
शब्दचन्द्रिका ॥ (बालुका आत्मा यस्य ।)
बालुकामये, त्रि ॥

बा(वा)लुकाप्रभा, स्त्री, (बालुकानामुष्णरेणूनां

प्रभा यस्याम् । अत्युष्णबालुकापरिव्याप्तत्वादस्य
तथात्वम् ।) नरकविशेषः । इति हेमचन्द्रः ।
५ । ३ ॥

बा(वा)लुकामयं, त्रि, (बालुका + मयट् ।) सिकता-

मयम् । इति सैकतशब्दटीकायां भरतः ॥

बा(वा)लुकायन्त्रं, क्ली, (बालुकाया यन्त्रम् ।)

औषधपाकार्थयन्त्रविशेषः । यथा, --
“भाण्डे वितस्तिगम्भीरे मध्ये निहितकूपके ।
कूपिकाकण्ठपर्य्यन्तं बालुकाभिश्च पूरिते ॥
भेषजं कूपिकासंस्थं बह्रिना यत्र पच्यते ।
बालुकायन्त्रमेतद्धि यन्त्रतन्त्रबुधैः स्मृतम् ॥”
इति भावप्रकाशः ॥

बा(वा)लुकास्वेदः, पुं, (बालुकाभिर्विहितः

स्वेदः ।) तप्तबालुकाभिस्तापनम् । यथा, --
“वातश्लेष्मकृते स्वेदान् कारयेद्रुक्षनिर्म्मितान् ।
स्निग्धः स्वेदो निषिद्धोऽत्र विना केवलवातजान् ॥
खर्परभृष्टपटस्थितकाञ्जिकसंसिक्तबालुका स्वेदः ।
शमयति वातकफामयमस्तकशूलाङ्गभङ्गादीन् ॥
स्रोतसां मार्द्दवं कृत्वा नीत्वा पावकमाशयम् ।
हत्वा वातकफस्तम्भं स्वदो ज्वरमपोहति ॥”
इति भावप्रकाशः ॥

बा(वा)लुकी, स्त्री, (बलति बालयति वा । बल-

प्राणने + उक । स्त्रियां ङीप् ।) कर्कटीभेदः ।
तत्पर्य्यायः । बहुफला २ स्निग्धफला ३
क्षेत्रकर्कटी ४ क्षेत्ररुहा ५ काण्डिका ६ मूत्रला
७ । अस्या गुणाः ।
“बालुकी वातशमनी शीता हृद्या श्रमापहा ।
पित्तास्रशमनी रुच्या कुरुते कासपीनसौ ॥
“स्याद्बालुकी शरदि वर्षजदोषकर्त्री
हेमन्तजा च खलु पित्तहरा च रुच्या ।
क्षिप्रं करोति खलु पीनसमर्द्धपक्वा
पक्वा त्वतीवमधुरा फलकारिणी च ॥”
इति राजनिर्घण्टः ॥

बा(वा)लुङ्की, स्त्री, कर्कटी । इति त्रिकाण्डशेषः ॥

बा(वा)लुङ्गिका, स्त्री, कर्कटी । इति शब्दरत्ना-

वली ॥

बा(वा)लुङ्गी, स्त्री, कर्कटी । इति शब्दरत्नावली ॥

बा(वा)लूकः, पुं, (बलते प्राणान् हन्ति यः । बल

ङ वधे + ऊक ।) विषभेदः । इति हेमचन्द्रः ।
४ । २ । ३ ॥

बा(वा)लेयः, पुं, (बलये उपकरणाय साधुः । बलि

+ “छदिरुपघिवलेर्ढञ् ।” ५ । १ । १३ । इति
ढञ् ।) रासभः । इत्यमरः । २ । ९ । ७७ ॥
(यथा, मार्कण्डेये । ५० । ८५ ।
“एकच्छागं द्बिबालेयं त्रिगवं पञ्चमाहिषम् ।
षडश्वं सप्तमातङ्गं गृहं यक्षाशु शोषय ॥”
बलेः स्वनामख्यातस्य दैत्यस्यापत्यं पुमान् । बलि
+ ढञ् ।) दैत्यविशेषः । इति धरणिः ॥ (बलिः
विरोचनपुत्त्रस्तस्य बाणज्येष्ठं पुत्त्रशतं जातम्
ते च बालेयनाम्ना विख्याताः । यदुक्तमग्नि-
पुराणे ।
“विरोचनस्य पुत्त्रस्तु बलिरेकः प्रतापवान् ।
बलेः पुत्त्रशतं जज्ञे राजानः सर्व्व एव ते ॥
तेषां प्रधानाश्चत्वारो विक्रान्ताः सुमहावलाः ।
सहस्रबाहुर्ज्येष्ठश्च कन्य द्बे च बलेः शुभे ॥
बलेः पुत्त्रास्तु पौत्राश्च शतशोऽथ सहमशः ।
बालेयो नाम विख्यातो गणो विक्रान्तपौरुषः ॥”
जनमेजयवंशोद्भवस्य सुतपसो राज्ञः पुत्त्रो
बलिस्तस्य पञ्च पुत्त्राश्च बालेयाः । यथा, हरि-
बंशे । ३१ । ३० -- ३३ ।
“फेनस्य सुतपा जज्ञे जज्ञे सुतपसो बलिः ।
जातो मानुषयोनौ तु स राजा काञ्चनेषुधिः ॥
महायोगी स तु बलिर्बभूव नृपतिः पुरा ।
पुत्त्रानुत्पादयामास पञ्च वंशकरान् भुवि ॥
अङ्गः प्रथमतो जज्ञे वङ्गः सुह्मस्तथैव च ।
पुण्ड्रः कलिङ्गश्च तथा बालेयं क्षत्त्रमुच्यते ॥
बालेया ब्राह्मणाश्चैव तस्य वंशकरा भुवि ।
बलेस्तु ब्रह्मणा दत्ता वराः प्रीतेन भारत ! ॥”)
अङ्गारवल्लरी । इति विश्वः ॥ चाणक्यमूल-
कम् । इति राजनिर्घण्टः ॥

बालेयः, त्रि, (बालाय हितः । बाल + ढञ् ।)

मृदुः । बालहितः । इति मेदिनी ॥
(बलये उपहाराय हितः । बलि + छदिरुपधि-
बलेर्ढञ् ।” ५ । १ । १३ । इति ढञ् । तण्डुलः ॥
यथा, सिद्धान्तकौमुद्याम् । “बालेयास्तण्डुलाः ॥”
बलियोग्यः । यथा, रघौ । १४ । ७७ ।
“पुष्पं फलञ्चार्त्तवमाहवन्त्यो
बीजञ्च बालेयमकृष्टरोहि ।
विनोदयिष्यन्ति नवाभिषङ्गा-
मुदारवाचो मुनिकन्यकास्त्वाम् ॥”
वितुन्नकनाम्नो वृक्षस्य त्वचि क्ली । तत्पर्य्यायो
यथा, --
“कुटन्नटं दासपुरं बालेयं परिपेलवम् ।
प्लवगोपुरगोनर्द्दकैवर्त्तीमुस्तकानि च ॥
मुस्तावत् पेलवपुटं शुक्राभं स्याद्वितुन्नकम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

बालेयशाकः, पुं, (बालेयः बलिहितः शाकः ।)

ब्राह्मणयष्टिका । इत्यमरः । २ । ४ । ९० ॥

बालेष्टः, पुं, (बालानां इष्टः प्रियः ।) वदरः । इति

राजनिर्घण्टः ॥ बालकाभिलषिते, त्रि ॥

बालोपवीतं, क्ली, (बालानां बालकानां उपवी-

तम् ।) बालकपरिधानवस्त्रम् । तत्पर्य्यायः ।
पञ्चावटम् २ उरस्कटम् ३ । इति हारावली ।
४८ ॥ द्विजबालकानां यज्ञसूत्रञ्च ॥

बाल्मीकिः, पुं, बल्मीकस्यापत्यम् । (बल्मीक +

इञ् ।) बल्मीकप्रभवो यस्मात् तस्माद्बाल्मीकि-
रित्यसौ इति ब्रह्मवैवर्त्तोक्तेः । बल्मीकप्रभवत्वेन
गौणी पुत्त्रादिवद्गौणमस्य बल्मीकापत्यत्वं गृही-
त्वैव साधुरपत्यार्थः । यद्वा बल्मीक इति ऋषि-
विशेषस्य संज्ञेत्याहुः ॥ मुनिविशेषः । यथा, --
“तपःस्वाध्यायनिरतं तपस्वी वाग्विदाम्बरम् ।
नारदं परिपप्रच्छ बाल्मीकिर्मुनिपुङ्गवम् ॥”
इति रामायणप्रथमश्लोकः ॥
अपि च । ततस्तदनुग्रहलब्धं रामचरितं सर-
हस्यं निरवशेषं तत्प्रसादादेव सम्यक् विज्ञाय
भूलोकवर्त्तिनां चतुर्णां वर्णानां तापत्रयविमो-
चनाय ब्रह्मांशभूत एव भगवान् प्राचेतसो
बाल्मीकिः स्वकृतशतकोटिरामायणसारभूतं
चतुर्षिंशत्यक्षरगायत्त्र्याख्यापरब्रह्मविद्याविलास
भूतं रामायणं चतुर्विंशतिसहस्रश्लोकरूपं कुश-
लवाभ्यामग्राहयत् । इति तट्टीका ॥ अपि च ।
“नारायणात्मकाः सर्व्वे तेषां रामोऽग्रजोऽ-
भवत् ।
रावणान्तकरो राजा रघूणां वंशवर्द्धनः ॥
बाल्मीकिर्यस्य चरितं चक्रे भार्गवसत्तमः ॥”)
इति मात्स्ये १३ अध्यायः ॥