शब्दकल्पद्रुमः/प्राथमकल्पिकः

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ३/३१८

प्राथमकल्पिकः, पुं, (प्रथमकल्प आद्यारम्भः

प्रयोजनं यस्य । “प्रयोजनम् ।” ५ । १ । १०९ ।
इति ठञ् । यद्वा, प्रथमकल्पमधीते इति ।
विद्यालक्षणकल्पान्ताच्चेति वक्तव्यमिति ठक् ।)
प्रथमारब्धवेदाध्ययनः । प्रथमं शिक्षणीयं कल्पं
शास्त्रमधीते यः इत्यर्थे ष्णिकः । तत्पर्य्यायः ।
शैक्षः २ । इत्यमरभरतौ ॥

प्राथमिकः, त्रि, (प्रथमे भवः । प्रथम + ठञ् ।)

प्रथमभवः । यथा । यत्राविरलक्रमेण सिद्धि-
सिषाधयिषानुमितयस्तत्र द्बितीयक्षणे पक्षता-
सम्पत्त्यर्थं द्बितीयः सिषाधयिषाविरहो विशे-
षणमस्तु सिद्धेः प्राथमिकस्तु किमर्थम् । इति
पक्षताशिरोमणिः ॥

प्राथम्यं, त्रि, (प्रथम + ष्यञ् ।) प्रथमस्य भावः ।

यथा, “अस्माभिरेव प्राथम्येन नानामुनीनां
वचनैरेवंविधो निबन्धः क्रियते ।” इति विजय-
रक्षितः ॥

प्रादुः, [स्] व्य, (प्रात्तीति । प्र + अद् + “बाहु-

लकाददेरप्युसिप्रत्ययः ।” उणा० २ । ११८ ।
इत्यत्र उज्ज्वलदत्तोक्त्या उसिः ।) नाम ।
प्राकाश्यम् । स्फुटत्वम् । तत्पर्य्यायः । आविः २ ।
यथा । प्रादुरासीत् । आविर्भूतः । इत्यमर-
भरतौ ॥ (यथा, रघुः । ११ । १५ ।
“ज्यानिनादमथ गृह्णती तयोः
प्रादुरास बहुलक्षपाच्छविः ।
ताडका चलकपालकुण्डला
कालिकेव निविडा वलाकिनी ॥”)
प्रकाशः । सम्भाव्यम् । वृत्तिः । इति शब्दरत्ना-
वली ॥

प्रादुर्भावः, पुं, (प्रादुस् + भू + भावे घञ् ।)

आविर्भावः । यथा, --
“वपुः प्रादुर्भावादनुमितमिदं जन्मनि पुरा ॥”
इति कुवलयानन्दः ॥

प्रादेशः, पुं, (प्रदिश्यते इति । प्र + दिश् + हल-

श्चेति घञ् । “उपसर्गस्य घञि” इति दीर्घः ।)
तर्ज्जनीसहितविस्तृताङ्गुष्ठः । इत्यमरः । २ । ६ ।
८३ ॥ (यथा, महाभारते । ५ । ५१ । १९ ।
“प्रमाणतो भीमसेनः प्रादेशेनाधिकोऽर्ज्जुनात् ॥”
प्रदेश एव । स्वार्थे अण् ।) देशमात्रम् । यथा,
“प्रादेशो देशमात्रे च तर्ज्जन्यङ्गुष्ठसम्मिते ॥”
इति मेदिनी ॥
“अङ्गुष्ठस्य प्रदेशिन्या व्यासः प्रादेश उच्यते ॥”
इति देवीपुराणञ्च ॥

प्रादेशनं, क्ली, (प्र + आ + दिश् + ल्युट् ।) दानम् ।

इत्यमरः । २ । ७ । ३० ॥

प्रादोषः, त्रि, (प्रदोषस्यायमिति । प्रदोष + अण् ।)

प्रदोषसम्बन्धी । इति सिद्धान्तकौमुदी ॥ (प्रदोषे
व्याहरतीति । “व्याहरति मृगः ।” ४ । ३ । ५१ ।
इति अण् । प्रादोषो मृगः । प्रदोषसहचरितं
अध्ययनं सोढमस्य । “तदस्य सोढम् ।” ४ ।
३ । ५२ । इति अण् । प्रादोषः शिष्यः । इति
व्याकरणम् ॥)

प्रादोषिकः, त्रि, (प्रदोषस्यायमिति । प्रदोष +

“निशाप्रदोषाभ्याञ्च ।” ४ । ३ । १४ । इति
ठञ् ।) प्रदोषसम्बन्धी । इति सिद्धान्तकौमुदी ॥

प्राधान्यं, क्ली, प्रधानस्य भावः । (प्रधान + भावे

ष्यञ् ।) प्रधानत्वम् । यथा, धर्म्मदीपिकायाम् ।
“वेदार्थोपनिबन्धृत्वात् प्राधान्यं हि मनोः
स्मृतम् ॥”

प्राध्वं, व्य, (प्राध्वनतीति । प्र + आ + ध्वन +

डम् ।) अनुकूलम् । इत्यमरः । ३ । ४ । ४ ॥
(यथा, रघुः । १३ । ४३ ।
“सभाजने मे भुजमूर्द्ध्वबाहुः
सव्येतरं प्राध्वमितः प्रयुङ्क्ते ॥”)

प्राध्वः, त्रि, (प्रगतोऽध्वानमिति । “उपसर्गाद-

ध्वनः ।” ५ । ४ । ८५ । इति अच् ।) बहुदूर-
गामि-रथादिः । इति वोपदेवः ॥ दूरपथः ।
प्रह्वः । बन्धः । इति हेमचन्द्रः ॥ (यथा, महा-
भारते । ३ । १६२ । २७ ।
“ततः शक्तिं गदां खड्गं धनुश्च भरतर्षभः ।
प्राध्वं कृत्वा नमश्चक्रे कुवेराय वृकोदरः ॥”)

प्रान्तः, पुं, (प्रकृष्टोऽन्तः ।) अन्तभागः । शेष-

सीमा । यथा, कुमारे । ३ । ४३ ।
“प्रान्तेषु संसक्तनमेरुशाखं
ध्यानास्पदं भूतपतेर्विवेश ॥”

प्रान्ततः, [स्] व्य, (प्रान्त + तसिल् ।) प्रान्त-

भागे । यथा, प्राचीरं प्रान्ततो वृतिः । इत्य-
मरः । २ । २ । ३ ॥

प्रान्तरं, क्ली, (प्रकृष्टमन्तरमवकाशो व्यवधानं वा

यत्र ।) दूरशून्योऽध्वा । इत्यमरः । २ । १ । १७ ॥
छायातरुजलादिरहिते पथि प्रान्तरं दूरं शून्यो
दूरशून्यः दूरश्चासौ शून्यश्चेति वा दूरशून्यो
जलादिवर्जितत्वात् ईदृक् योऽध्वा स प्रान्तर-
मित्यन्वयः । प्रकृष्टमन्तरं व्यवधानमवकाशो वा
अत्रेति प्रान्तरम् । इति भरतः ॥ (यथा, महा-
निर्व्वाणतन्त्रे । १ । ६४ ।
“ह्रदे गर्त्ते प्रान्तरे च प्रासादात् पर्व्वतादपि ।
पतिष्यन्ति मरिष्यन्ति मनुजा मदविह्वलाः ॥”)
विपिनम् । कोटरम् । इति मेदिनी ॥

प्रान्तशून्यं, क्ली, (प्रान्ते शून्यमस्य ।) दूरशून्य-

पथः । छायादिरहितपथः । इति शब्दरत्ना-
वली ॥

प्रापणं, क्ली, (प्र + आप् + ल्युट् ।) नयनम् ।

प्राप्तिः । (यथा, मनुः । २ । ९५ ।
“प्रापणात् सर्व्वकामानां परित्यागो विशि-
ष्यते ॥”
प्राप्तिप्रेरणा । प्रकर्षेण व्यापनम् । ञ्यन्ता-
दञ्यन्ताद्बा प्रपूर्ब्बापधातोर्भावे अनट् प्रत्ययः ॥

प्रापणिकः, पुं, (प्रापणाय्यते इति । प्र + आ + पण

व्यवहारे + “प्राङि पणिकषः ।” उणा० २ । ४१ ।
इति किकन् ।) पण्यविक्रयी । इति सिद्धान्त-
कौमुद्यामुणादिवृत्तिः ॥ (यथा, माघे । ४ । ११ ।
“आढ्यादिव प्रापणिकादजस्रं
जग्राह रत्नान्यमितानि लोकः ॥”)

प्रापणीयं, त्रि, प्राप्यते यत् । (प्र + आप् + अनी-

यर् ।) प्राप्यम् । (यथा, मेघदूते । ५ ।
“धूमज्योतिःसलिलमरुतां सन्निपातः क्व मेघः
सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्राप-
णीयाः ॥”)

प्रापेयः, पुं, गन्धर्व्वगणविशेषः । यथा, अग्निपुराणे ।

“प्रवाच्य जनयत् पुत्त्रान् दिव्यान् वै गायनो-
त्तमान् ।
चतुर्द्दश देवगन्धर्व्वाः प्रापेयाः परिकीर्त्तिताः ॥”

प्राप्तः, त्रि, (प्र + आप् + क्त ।) प्रस्थापितः ।

तत्पर्य्यायः । प्रणिहितः २ । लब्धः । तत्पर्य्यायः ।
विन्नः २ भावितः ३ आसादितः ४ भूतः ५ ।
इत्यमरः । ३ । १ । ८६, ३ । १ । १०४ ॥
(उत्पन्नः । समुपस्थितः । यथा, मनुः । ११ । १२२ ।
“एतस्मिन्नेनसि प्राप्ते वसित्वा गर्द्दभाजिनम् ।
सप्तागारांश्चरेद्भैक्ष्यं स्वकर्म्म परिकीर्त्तयन् ॥”)

प्राप्तपञ्चत्वं, त्रि, (प्राप्तं पञ्चत्वम् मरणं येन ।)

मृतम् । इत्यमरः । २ । ८ । ११७ ॥

प्राप्तभावः, पुं, (प्राप्तो भावो येन ।) जातोक्षः ।

इति शब्दचन्द्रिका ॥ (प्राप्तभार इत्यपि क्वचित्
पाठः ॥) लब्धसत्तादौ, त्रि ॥

प्राप्तरूपः, त्रि, (प्राप्तं रूपं येन ।) पण्डितः ।

मनोज्ञः । इत्यमरः । ३ । ३ । १३१ ॥ रूपवांश्च ॥

प्राप्तव्यं, त्रि, प्राप्यते यत् । प्रपूर्ब्बापधातोः कर्म्मणि

तव्यप्रत्ययः । प्राप्यम् । (यथा, रामायणे । २ ।
२९ । १० ।
“आदेशो वनवासस्य प्राप्तव्यः स मया किल ॥”)

प्राप्तिः, स्त्री, (प्र + आप् + क्तिन् ।) उदयः ।

(यथा, महाभारते । १४ । ४८ । ३ ।
“गच्छत्यात्मप्रसादेन विदुषां प्राप्तिमव्ययाम् ॥”)
धनादिवृद्धिः । अधिगमः । लाभः । इत्यमर-
भरतौ ॥ प्रापणम् । (यथा, मनुः । ९ । १०३ ।
“एष स्त्रीपुंसयोरुक्तो धर्म्मो वो रतिसंहितः ।
आपद्यपत्यप्राप्तिश्च दायभागं निबोधत ॥”)
संहतिः । इति शब्दरत्नावली ॥ अणिमाद्यष्टैश्व-
र्य्यान्तर्गतैश्वर्य्यविशेषः । स च अभीप्सितप्राप-
णम् । इति हेमचन्द्रो भरतश्च ॥

प्राप्यं, त्रि, (प्र + आप् + ण्यत् ।) प्राप्तव्यम् ।

तत्पर्य्यायः । गम्यम् २ समासाद्यम् ३ । इत्य-
मरः । ३ । १ । ९२ ॥ (यथा, मार्कण्डेये । ६२ । २० ।
“मयैषा सानुरागेण बहुशः प्रार्थिता सती ।
निराकृतवती सेयमद्य पाप्या भविष्यति ॥”
व्य, प्र + आप् + ल्यप् । यथा, मेघदूते ।
“प्राप्यावन्तीमुदयनकथाकोविदग्रामवृद्धान् ॥”)

प्राबोधिकः, पुं, (प्रबोधाय हितः । प्रबोध + ठक् ।)

उषःकालः । इति शब्दमाला ॥ प्राबोधकोऽपि
पाठः ॥

प्राभवं, क्ली, (प्रभोर्भावः । प्रभु + अण् ।) श्रेष्ठ-

त्वम् । इति शब्दचन्द्रिका ॥

प्राभाकरः पुं, (प्रभाकरस्यायं तन्मतं वेत्तीति ।

प्रभाकर + अण् ।) मीमांसकविशेषः । यथा,
“व्याप्तिस्वरूपं निरूप्य परमतनिराकरणपूर्ब्बकं
पृष्ठ ३/३१९
स्वमतेन तद्ग्रहीपायमभिधातुं प्रथमं प्राभा-
करमतमुपदर्शयति सेयमित्यादिना ।” इति
व्याप्तिग्रहोपायशिरोमणिः ॥ प्राभाकरमते
व्याप्तेः सकृद्दर्शनगम्यत्वं यथा तस्मात् परिशेषेण
सकृद्दर्शनगम्या सा । इति व्याप्तिग्रहोपाय-
चिन्तामणिः ॥

प्राभृतं, क्ली, (प्राभ्रियते स्मेति । प्र + आ + भृ +

क्त ।) उपढौकनम् । इत्यमरः ॥ (यथा, कथा-
सरित्सागरे । १७ । १६४ ।
“तं दत्तप्राभृतं दूतं स संमान्य व्यसर्जयत् ॥”)

प्राभृतकं, क्ली, (प्राभृत + स्वार्थे कन् ।) पाभृतम् ।

तत्पर्य्यायः । कौशलिका २ । इति हारावली ।
१५९ ॥

प्रामाद्यः, पुं, (प्रमाद्यत्यनेनेति । प्र + मद् + ण्यत् ।)

वासकः । इति शब्दचन्द्रिका ॥ स्वार्थे ष्ण्ये
प्रमादः । तस्य भावे, क्ली ॥

प्रामाणिकः, त्रि, (प्रमाणादागतः । प्रमाण +

ठक् ।) हैतुकः । मर्य्यादार्हः । शास्त्रज्ञः । परि-
च्छेदकः । प्रमाणकर्त्ता । इति प्रमाणशब्दात्
कर्त्तरि ष्णिकप्रत्ययः ॥

प्रामाण्यं, क्ली, (प्रमाणस्य भावः । प्रमाण +

ष्यञ् ।) प्रमाकरणत्वम् । प्रमाणशब्दाद्भावार्थे
ष्ण्यप्रत्ययः ॥ (यथा, मार्कण्डेये । १५ । ४३ ।
“सत्यं भूतहितार्थोक्तिर्वेदप्रामाण्यदर्शनम् ।
गुरुदेवर्षिसिद्धर्षिपूजनं साधुसङ्गमः ॥”)

प्रामाण्यवादः, पुं, (प्रामाण्यस्य वादः कथनम् ।)

प्रमाकरणताकथनम् । तद्वति तत्प्रकारकत्व-
प्रमात्वकथनम् । चिन्तामणिन्यायग्रन्थविशेषः ।
इति पूर्ब्बाचार्य्याः ॥ स यथा । अथ जगदेव
पङ्कनिमग्नमुद्दिधीर्षुरष्टादशसु विद्यास्थानेष्वभ्य-
र्हिततमामान्वीक्षिकीं परमकारुणिको मुनिः
प्रणिनाय । तत्र प्रेक्षावत् प्रवृत्त्यर्थं प्रमाणादि-
पदार्थतत्त्वज्ञानान्निःश्रेयसाधिगम इत्यादावसूत्र-
यत् । तेषु प्रमाणाधीना सर्व्वेषां व्यवस्थितिरिति
प्रमाणतत्त्वमत्र विविच्यते । इत्यादि गङ्गेशो-
पाध्यायः ॥

प्रामीत्यं, क्ली, (प्रमयनमिति । प्र + मी वधे +

भावे क्त । तत्र प्रमीते मरणे साधु इति ष्यञ् ।
अस्य वधतुल्यत्वात्तथात्वम् ।) ऋणम् । इति
त्रिकाण्डशेषः । (प्रमीतस्य भाव इति । प्रमीत +
ष्यञ् ।) मृतत्वञ्च ॥

प्रायः, पुं, (प्रकृष्टमयनमिति । प्र + अय + घञ् ।

यद्बा, प्र + इ + “एरच् ।” ३ । ३ । ५६ ।
इत्यच् ।) मरणम् । मरणार्थमनशनम् । (यथा,
रामायणे । ४ । ५३ । १२ ।
“अहं वः प्रतिजानामि न गमिष्याम्यहं पुरीम् ।
इहैव प्रायमासिष्ये श्रेयो मरणमेव च ॥”)
तुल्यम् । बाहुल्यम् । इति मेदिनी । ये, ३६ ॥
(यथा, साहित्यदर्पणे । ३ । १११ ।
“तस्कराः पण्ड्रका मूर्खाः सुखप्राप्तधनास्तथा ।
लिङ्गिनश्छन्नकामाद्या आसां (वेश्यानाम्) प्रायेण
वल्लभाः ॥”)
वयः । इति हेमचन्द्रः ॥ (पापम् । तपः । इति
स्मृतिः ॥ क्ली, प्रवेशः । युद्धम् । यथा, ऋग्वेदे ।
२ । १८ । ८ ।
“उप ज्येष्ठे वरूथे गभस्तौ
प्राये प्राये जिगीवांसः स्याम ॥”
“किञ्च प्राये प्राये सोमपानार्थमिन्द्रस्य यज्ञ-
शालायां प्रवेशे प्रवेशे जिगीवांसः शत्रूणां
जेतारो भवेम । यद्बा, प्राये प्राये प्रकर्षेण
इयते गम्यते योद्धृभिरिति प्रायं युद्धम् । तस्मिन्
युद्धे जिगीवांसः शत्रून् जितवन्तो भवेम ॥”
इति तद्भाष्ये सायनः ॥ त्रि, गमकः । यथा,
मनौ । ३ । २६४ ।
“प्रक्षाल्यहस्तावाचम्य ज्ञातिप्रायं प्रकल्पयेत् ।
ज्ञातिभ्यः सत्कृतं दत्त्वा बान्धवानपि भोजयेत् ॥”
“प्रक्षाल्येति । तदनुहस्तौ प्रक्षाल्याचम्य ज्ञाति-
प्रायमन्नं कुर्य्यात् । ज्ञातीन् प्रैति गच्छतीति
ज्ञातिप्रायं कर्म्मण्यण् । ज्ञातीन् भोजये-
दित्यर्थः ॥” इति कुल्लूकभट्टः ॥)

प्रायः, [स्] व्य, (प्र + अय गतौ + असुन् ।)

बाहुल्यम् । इत्यमरः । ३ । ४ । १७ ॥ (यथा,
कथासरित्सागरे । ६ । १२३ ।
“ततोऽहं शर्म्मवर्म्मा च ज्ञातवन्तौ क्रमेण ताम् ।
अत्रान्तरे स च प्रायः पर्य्यहीयत वासरः ॥”)

प्रायश्चित्तं, क्ली, (प्रायस्य पापस्य चित्तं विशोधनं

यस्मात् । यदुक्तं स्मृतौ ।
“प्रायः पापं समुद्दिष्टं चित्तं तस्य विशोधनम् ॥”
यद्वा, प्रायस्य तपसः चित्तम् निश्चय इति ।
“पारस्करप्रभृतीनि च संज्ञायाम् ।” ६ । १ ।
१५७ । इत्यत्र । “प्रायस्य चित्तिचित्तयोः ।”
इति वार्त्तिकोक्त्या सुट् निपात्यते च । निरु-
क्तिस्तु निम्ने द्रष्टव्या ।) पापक्षयमात्रसाधनं
कर्म्म । यथा, हारीतः । प्रयतत्वाद्बोपचित-
मशुभं नाशयतीति प्रायश्चित्तम् ॥ * ॥ (“प्राय-
श्चित्तमिति । यत्तपःप्रभृतिकं कर्म्म उपचितं
सञ्चितमशुभं पापं नाशयतीति कृततत्तत्-
कर्म्मभिः कर्त्तुः प्रयतत्वाद्वा शुद्धत्वादेव तत्-
प्रायश्चित्तम् । तथाच पुनर्हारीतः । यथा,
क्षारोपस्वेदचण्डनिर्णोदनप्रक्षालनादिभिर्वासांसि
शुध्यन्ति एवं तपोदानयज्ञैः पापकृतः शुद्धि-
मुपयान्ति । शुद्धिं पापक्षयम् । यथा, महा-
भारते ।
‘अद्भिर्गात्रान् मलमिव तमा ह्यग्निभयाद्यथा ।
दानेन तपसा चैव सर्व्वपापमपोहति ॥’
तेन पापक्षयमात्रसाधनत्वेन विधिबोधितं
कर्म्म प्रायश्चित्तम् । मात्रार्थलाभस्तु प्रयतत्वाद्-
वेत्येवकारार्थकवाशब्दात् । तथाच विश्वः ।
‘वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये ।’
एवञ्च ।
‘अश्वमेधेन शुध्यन्ति महापातकिनस्त्विमे ।’
इति विष्णूक्तस्याश्वमेधस्यापि प्रायश्चित्तत्वम् ।
पापक्षयस्वर्गोभयसाधकस्य तु तस्यापि न प्राय-
श्चित्तत्वम् । प्रायश्चित्तस्य स्वध्वं सादिजनकत्वेऽपि
तदंशे विधिबोधितत्वाभावान्नासम्भवः ॥ इति
प्रायश्चित्ततत्त्वम् ॥) तस्य व्युत्पपत्तिर्यथा ।
अङ्गिराः ।
“प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते ।
तपोनिश्चयसंयुक्तं प्रायश्चित्तमिति स्मृतम् ॥”
निञ्चयसंयुक्तम्पापक्षयसाधनत्वेन निश्चित-
मित्यर्थः ॥ * ॥ पापन्तु वैदिकप्रतिपाद्योऽनर्थः ।
अनर्थश्चानिष्टसाधनम् । पापकारणमुक्तं याज्ञ-
वल्क्येन । यथा, --
“विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् ।
अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ॥” * ॥
पापविशेषेणावस्थाविशेषमाह मनुः ।
“शरीरजैः कर्म्मदोषैर्याति स्थावरतां नरः ।
वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ॥
इह दुश्चरितैः केचित् केचित् पूर्ब्बकृतैस्तथा ।
प्राप्नुवन्ति दुरात्मानो नरा रूपविपर्य्ययम् ॥”
यमः ।
“सुरापो ब्रह्महा गोघ्नः सुवर्णस्तेयकृन्नरः ।
पतितैः संप्रयुक्तश्च कृतघ्नो गुरुतल्पगः ।
एते पतन्ति सर्व्वेषु नरकेष्वनुपूर्ब्बशः ॥” * ॥
प्रायश्चित्तमाहात्म्यं यथा । अङ्गिराः ।
“उद्यच्छन् यद्वदादित्यस्तमः सर्व्वं व्यपोहति ।
तद्बत् कल्याणमातिष्ठन् सर्व्वं पापं व्यपोहति ॥
पापञ्चेत् पुरुषः कृत्वा कल्याणमभिपद्यते ।
मुच्यते पातकैः सर्व्वैर्महाभ्रैरिव चन्द्रमाः ॥”
कल्याणं प्रायश्चित्तम् ॥ * ॥ तस्यावश्यकर्त्तव्यत्व-
माह यमः ।
“तपसोऽन्ते विशुध्यन्ति कर्म्मणां वा परिक्षयात् ।
तस्मात् कर्त्तव्यमेतैस्तु प्रायश्चित्तं विशुद्धये ॥”
कर्म्मणां भोगेन परिक्षयादित्यर्थः ॥ * ॥ प्राय-
श्चित्तार्हत्वमाह मनुः ।
“अकुर्व्वन् विहितं कर्म्म निषिद्धन्तु समाचरन् ।
प्रसजंश्चेन्द्रियार्थेषु प्रायश्चित्तीयते नरः ॥ * ॥
अज्ञानाद्यदि वा ज्ञानात् कृत्वा कर्म्म विग-
र्हितम् ।
तस्माद्विमुक्तिमन्विच्छन् द्बितीयं न समाचरेत् ॥”
प्रायश्चित्तस्य काम्यत्वं नैमित्तिकत्वं नित्यत्वञ्च
यथा । जावालः ।
“काम्यानां सफलार्थञ्च दोषघातार्थमेव च ।
अतः काम्यं नैमित्तिकञ्च प्रायश्चित्तमिति
स्थितिः ॥
चरितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये ।
निन्द्यैश्च लक्षणैर्युक्ता जायन्ते निष्कृतैनसः ॥ * ॥
ज्ञानाज्ञानकृतपापयोः प्रायश्चित्तभेदो यथा ।
अङ्गिराः ।
“अकामतः कृते पापे प्रायश्चित्तं न कामतः ।
स्यात्त्वकामकृते यत्तु द्बिदुणं बुद्धिपूर्ब्बके ॥” * ॥
अथ प्रायश्चित्तिनस्पर्षदुपस्थानम् ।
तत्राङ्गिराः ।
“कृते निःसंशये पापे न भुञ्जीतानुपस्थितः ।
भुञ्जानो वर्द्धयेत् पापमसत्यं पर्षदि ब्रुवन् ॥
सचेलं वाग्यतः स्नात्वा क्लिन्नवासाः समाहितः ।
पृष्ठ ३/३२०
उपस्थाय ततः शीघ्रमार्त्तिमान् धरणीं गतः ।
गात्रैश्च शिरसा चैव न च किञ्चिदुदाहरेत् ॥”
उपस्थानञ्च ब्राह्मणान् वस्त्रादिना तोषयित्वा
कार्य्यम् । महत्सु पापेषु राज्ञोऽप्युपस्थितिः
कार्य्येत्याह देवलः ।
“स्वयं वा ब्राह्मणैः कृच्छ्रमल्पदोषे विधीयते ।
राज्ञा च ब्राह्मणैश्चैव महत्सु परिचक्षते ॥” * ॥
परिषदमाहाङ्गिराः ।
“एकविंशतिसंख्याकैर्मीमांसावेदपारगैः ।
वेदाङ्गकुशलैश्चैव परिषत् संप्रकल्पयेत् ॥
चातुर्विद्यो विकल्पी च अङ्गविद्धर्म्मपाठकः ।
त्रयश्चाश्रमिणो वृद्धाः पर्षत् स्यात्तु दशावरा ॥”
मनुः ।
“त्रैविद्यो हेतुकस्तर्की नैरुक्तो धर्म्मपाठकः ।
त्रयश्चाश्रमिणः पूर्ब्बे पर्षत् स्यात्तु दशावरा ॥”
अङ्गिराः ।
“एषा तु लघुकार्य्येषु मध्यमेषु तु मध्यमा ।
महापातकिशोध्येषु शतशो भूय एव वा ॥”
प्रदर्शनार्थमिदम् । यावद्भिरेव निरूपणं ताव-
द्भिरेव परिषत् । दृष्टार्थत्वादेव तस्याः । तथा च
यमः ।
“एको द्बौ वा त्रयो वापि यद्ब्रूयुर्धर्म्मपाठकाः ।
स धर्म्म इति विज्ञेयो नेतरेषां सहस्रशः ॥ *” ॥
प्रायश्चित्ताकथने दोषो यथा, --
“आर्त्तानां मार्गमाणानां प्रायश्चित्तानि ये
द्विजाः ।
जानन्तो न प्रयच्छन्ति तेऽपि तद्द्वोषभागिनः ॥
अनर्च्चितैरनाहूतैरपृष्टैश्चैव संसदि ।
प्रायश्चित्तं न वक्तव्यं जानद्भिरपि जल्पतः ॥
न्यायतो मार्गमाणस्य क्षत्त्रियादेः प्रणामिनः ।
अन्तरा ब्राह्मणं कृत्वा व्रतमेतत् समादिशेत् ॥”
हारीतः ।
“यथावयो यथाकालं यथाप्राणञ्च ब्राह्मणे ।
प्रायश्चित्तं प्रदातव्यं ब्राह्मणैर्धर्म्मपाठकैः ॥
तस्मात् कृच्छ्रमथाप्यर्द्धं पादं वापि विधानतः ।
ज्ञात्वा बलाबलं कालं प्रायश्चित्तं प्रकल्पयेत् ॥”
अशक्तावनुग्रहमाह पराशरः ।
“दुर्ब्बलेऽनुग्रहः कार्य्यस्तथा वै शिशुवृद्धयोः ।
अतोऽन्यथा भवेद्दोषस्तस्मान्नानुग्रही भवेत् ॥”
स्नेहादिनानुग्रहे दोषो यथा, --
“स्नेहाद्वा यदि वा लोभात् मोहादज्ञानतो-
ऽपि वा ।
कुर्व्वन्त्यनुग्रहं ये तु तत् पापं तेषु गच्छति ॥”
शास्त्रीयप्रायश्चित्तमुदाहृत्य पश्चादनुग्रहः कार्य्य
इत्याहाङ्गिराः ।
“कृत्वा पूर्ब्बमुदाहारं यथोक्तं धर्म्मवक्तृभिः ।
पश्चात् कार्य्यानुसारेण शक्त्या कुर्व्वन्त्यनुग्रहम् ॥”
वृद्धत्वादिभेदात् प्रायश्चित्तं यथा, --
“अशीतिर्यस्य वर्षाणि बालो वाप्यूनषोडशः ।
प्रायश्चित्तार्द्धमर्हन्ति स्त्रियो रोगिण एव च ॥”
अथ पापनिष्क्रमणादिः ।
तत्र मनुः ।
“ख्यापनेनानुतापेन तपसाध्ययनेन च ।
पापकृन्मुच्यते पापात्तथा दानेन चापदि ॥”
आपदीत्यनेन अध्ययनतपसोर्दानमनुकल्प इत्यु-
क्तम् । एतद्धिंसाव्यतिरिक्तविषयम् । हिंसा-
यान्तु दानं मुख्यम् । यथा, भविष्ये ।
“हिंसात्मकानां सर्व्वेषां कीर्त्तितानां मनीषिभिः ।
प्रायश्चित्तकदम्बानां दानं प्रथम उच्यते ॥”
तथा मनुः ।
“दानेन वधनिर्णेकं सर्पादीनामशक्नुवन् ।
एकैकशश्चरेत् कृच्छ्रं द्बिजः पापापनुत्तये ॥” * ॥
सामान्यप्रायश्चित्तानि यथा, संवर्त्तः ।
“हिरण्यदानं गोदानं भूमिदानं तथैव च ।
नाशयन्त्याशु पापानि महापातकजान्यपि ॥”
यमः ।
“शोषणेन शरीरस्य तपसाध्ययनेन च ।
पापकृन्मुच्यते पापात् दानेन च दमेन च ॥”
मनुः ।
“कृत्वा पापं हि सन्तप्य तस्मात् पापात्प्रमुच्यते ।
नैतत् कुर्य्यात् पुनरिति निवृत्त्या पूयते नरः ॥”
विष्णुपुराणम् ।
“प्रायश्चित्तान्यशेषाणि तपःकर्म्मात्मकानि वै ।
यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥”
यमः ।
“गवाह्निका देवपूजा वेदाभ्यासः सरित्प्लवः ।
नाशयन्त्याशु पापानि महापातकजान्यपि ॥”
गीतमः । “हिरण्यं गौर्व्वासोऽश्वो भूमिस्तिला
घृतमन्नमिति देयानि । एतान्येवानादेशे विक-
ल्पेन क्रियेरन् एनसि लघुनि लघूनि गुरुणि
गुरूणि ।” विष्णुपुराणम् ।
“एवं विषयभेदाद्वै व्यवस्थाप्यानि पुत्त्रक ! ।
प्रायश्चित्तानि सर्व्वाणि गुरूणि च लघूनि च ॥
अन्यथा हि महाबाहो ! लघूनामुपदेशतः ।
गुरूणामुपदेशो हि निष्प्रयोजनतां व्रजेत् ॥”
महाभारते ।
“यद्यकार्य्यशतं कृत्वा कृतं गङ्गाभिषेचनम् ।
सर्व्वं दहति गङ्गाम्भस्तूलराशिमिवानलः ॥”
व्रतानि शुद्धिकारणान्याह विश्वामित्रः ।
“कृच्छ्रं चान्द्रायणादीनि शुद्ध्यभ्युदयकारणम् ।
प्रकाशे वा रहस्ये वा संशयेऽनुक्तके स्फुटे ॥
प्राजापत्यः शान्तपनः शिशुकृच्छ्रः पराककः ।
अतिकृच्छ्रः पर्णकृच्छ्रः सौम्यः कृच्छ्राति-
कृच्छ्रकः ॥
महाशान्तपनः शुद्ध्यै तप्तकृच्छ्रस्तु पावनः ।
जलोपवासकृच्छ्रश्च ब्रह्मकूर्च्चस्तु शोधकः ॥
एते समस्ता व्यस्ता वा प्रत्येकमेकशोऽपि वा ।
पातकादिषु सर्व्वेषु पापकेषु प्रयत्नतः ॥
कार्य्याश्चान्द्रायणैर्युक्ताः केवला वा विशुद्धये ।
शिशुचान्द्रायणं प्रोक्तं यतिचान्द्रायणं तथा ॥
यवमध्यं तथा प्रोक्तं तथा पिपीलिकाकृति ।
उपवासस्त्रिरात्रं वा मासः पक्षस्तदर्द्धकम् ॥
षडहद्वादशाहादि कार्य्यं शुद्धिफलार्थिना ।
उपपातकयुक्तानामनादिष्टेषु चैव हि ॥
प्रकाशे च रहस्ये च अभिसन्ध्याद्यपेक्षया ।
जातिशक्तिगुणान् दृष्ट्वा सकृद्बुद्धिकृतं तथा ॥
अनुबन्धादिकं दृष्ट्वा सर्व्वं कार्य्यं यथाक्रमम् ॥”
प्रकाशकृते पापे व्रतानि मुख्यानि । रहस्यकृते
जपादीनि । यथा प्राजापत्यादीन्यभिधाय मनुः ।
“एतैर्द्विजातयः शोध्या व्रतैराविष्कृतैनसः ।
अनाविष्कृतपापांस्तु मन्त्रैर्होमस्तु शोधघेत् ॥”
देवलः ।
“प्रकाश उक्तं यक्तिञ्चित् विंशभागो रहस्यके ।
त्रिंशभागः षष्टिभागः कल्प्यो जात्याद्यपेक्षया ॥”
इति प्रायश्चित्तविवेकः ॥
अथ प्रायश्चित्तपूर्ब्बाहकृत्यम् । शङ्खलिखितौ ।
“वाप्य केशनखान् पूर्ब्बं घृतं प्राश्य बहिर्निशि ।
प्रत्येकं नियतं कालमात्मनो व्रतमादिशेत् ।
प्रायश्चित्तमुपासीनो वाग्यतस्त्रिसवनं स्पृशेत् ॥”
केशधारणेच्छायां द्विगुणव्रतादिकमाह हारीतः ।
“राजा वा राजपुत्त्रो वा ब्राह्मणो वा बहुश्रुतः ।
केशानां वपनं कृत्वा प्रायश्चित्तं समाचरेत् ॥
केशानां धारणार्थन्तु द्बिगुणं व्रतमाचरेत् ।
द्बिगुणे तु व्रते चीर्णे द्विगुणा दक्षिणा भवेत् ॥”
विद्वद्विप्रनृपस्त्रीणां नेष्यते केशवापनम् ।
ऋते महापातकिनो गोहन्तुश्चावकीर्णिनः ॥”
सधवास्त्रीणां विशेषमाह भवदेवभट्टधृतं वच-
नम् ।
“वपनं नैव नारीणां नानुव्रज्या जपादिकम् ।
न गोष्ठे शयनं तासां न च दद्याद्गवाजिनम् ॥
सर्व्वान् केशान् समुद्ध्वृत्य छेदयेदङ्गुलिद्वयम् ।
सर्व्वत्रैवं हि नारीणां शिरसो मुण्डनं स्मृतम् ॥”
अथ धेनुमूल्यव्यवस्था । तत्र संवर्त्तः ।
“प्राजापत्यव्रताशक्तौ धेनुं दद्यात् पयस्विनीम् ।
धेनोरभावे दातव्यं तुल्यं मूल्यं न संशयः ॥”
पयस्विनीमिति विशेषणं दुग्धोपयोगाय । स च
वत्सं विना न सम्भवति । अतः सवत्साया एव
दानं मुख्यम् । तदभावे यथोचितं मूल्यम् । तद-
सम्भवे पुराणत्रयम् । द्वात्रिंशत्पणिका गावो
वत्सः पौराणिको भवेदिति कात्यायनवचनात् ।
षट्त्रिंशन्मतमिति कृत्वा पठन्ति ।
“धेनुः पञ्चभिराढ्यानां मध्यानां त्रिपुराणिकी ।
कार्षापणैकमूल्या हि दरिद्राणां प्रकीर्त्तिता ॥”
प्रायश्चित्तोत्तरकर्त्तव्याणि । यथा । भविष्ये ।
“क्रियते शुद्धये यत्तु ब्राह्मणानान्तु भोजनम् ।
शुद्ध्यर्थमिति तत् प्रोक्तं वैनतेय ! मनीषिभिः ॥”
जावालः ।
“आरम्भे सर्व्वकृच्छ्राणां समाप्तौ च विशेषतः ।
आज्येनैव हि शालाग्नौ जुहुयादाहुतीः पृथक् ।
श्राद्धं कुर्य्याद्व्रतस्यान्ते गोहिरण्यान्नदक्षिणम् ॥”
प्रायश्चित्तानन्तरं गोभ्यो यवसं दद्यात् । यदि तु
गावस्तद्दत्ततृणं न गृह्णीयुस्तदा पुनस्तत्प्राय-
श्चित्तमनुतिष्ठेत् । यथा हारीतः । स्वशिरसा
यवसमादाय गोभ्यो दद्यात् यदि ताः प्रमुदिता
गृह्णीयुरथैनं प्रवर्त्तयेयुः । एनं कृतप्रायश्चित्तम् ।
इतरथा न । इति प्रायश्चित्ततत्त्वम् ॥ * ॥
अथ प्रायश्चित्तविवेकोक्तनवविधपापानां प्रायश्चित्तानि लिख्यन्ते ।
अथातिपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
ब्राह्मणस्य मातृगमनं दुहितृगमनं स्नुषागमनञ्च । अज्ञानतो द्बिगुणद्बादशवार्षिकव्रतम् । तत्तु महापातके द्रष्टव्यम् । ज्ञानत एतद्द्विगुणम् । ३६० धेनवः । १०८० कार्षापणाः । तल्लभ्यस्वर्णादि वा । २०० गावः । अशक्तौ २०० कार्षापणाः ।
क्षत्त्रियवैश्यशूद्राणां मातृदुहितृस्नुषागमनम् । हुताशनप्रवेशेन मरणम् । चतुर्व्विंशतिवार्षिकव्रतं वा । एतत्तु अकामतः कामतस्तद्द्वैगुण्यम् । मातृदुहितृस्नुषाणामपि एतद्व्रतादिकं करणीयम् । ३६० धेनवः । १०८० कार्षापणाः । तल्लभ्यस्वर्णादि वा । २०० गावः । अशक्तौ २०० कार्षापणाः ।
अथ महापातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
अकामतो ब्राह्मणकर्त्तृकब्रह्मवधः । द्बादशवार्षिकव्रतम् । यथा मनुः । “ब्रह्महा द्बादशाब्दानि कुटों कृत्वा वने वसेत् । भैक्ष्याण्यात्मविशुद्ध्यर्थं कृत्वा शवशिरोध्वजम् । भिक्षाशी विचरेद्ग्रामं वन्यैर्यदि न जीवति ॥” १८० धेनवः । ५४० कार्षापणाः । तल्लभ्यहिरण्यादिकं वा । १०० गावः । तदशक्तौ १०० कार्षापणाः ।
कामतो ब्राह्मणकर्त्तृकब्रह्मवधः । याज्ञवल्क्योक्तप्रकारेण मरणम् । तथा । लोमभ्यः स्नाहीति ऋचा लोमप्रभृति वै तनुम् । मज्जान्तां जुहुयाद्बापि मन्त्रैरेभिर्यथाक्रमम् । एतत्तु कलौ ब्राह्मणेतरपरम् । तदशक्तौ द्बिगुणद्बादशवार्षिकव्रतम् । ३६० धेनवः । १०८० कार्षापणाः । तल्लभ्यस्वर्णादि वा । २०० गावः । अशक्तौ २०० कार्षापणाः ।
ज्ञानतो ब्राह्मणकर्त्तृकब्राह्मणीगर्भवधः । ब्रह्मवधप्रायश्चित्तम् । अज्ञानत एतदर्द्धम् । अनुपनीतबालकवधेऽप्येवम् । ३६० धेनवः । १०८० कार्षापणाः । तल्लम्यस्वर्णादि वा । २०० गावः । अशक्तौ २०० कार्षापणाः ।
अकामतः सवनस्थब्राह्मणवधः । द्बिगुणद्वादशवार्षिकव्रतम् । ३६० धेनवः । १०८० कार्षापणाः । तल्लभ्यस्वर्णादि वा । २०० गावः । अशक्तौ २०० कार्षापणाः ।
कामतः सवनस्थब्राह्मणवधः । तद्द्वैगुण्यम् । ४८ अष्टचत्वारिंशद्वार्षिकव्रतम् । ७२० धेनवः । २१६० कार्षापणाः । तल्लभ्यस्वर्णादि वा । ४०० गावः । अशक्तौ ४०० कार्षापणाः ।
ब्राह्मणकर्त्तृकमातृसोदरभ्रातृगुरुश्रोत्रियाहिताग्नीनां वधः । ४८ अष्टचत्वारिंशद्बार्षिकव्रतम् । एतच्च कामतः । अकामत एतदर्द्धम् । ७२० धेनवः । २१६० कार्षापणाः । तल्लभ्यस्वर्णादि वा । ४०० गावः । अशक्तौ ४०० कार्षापणाः ।
ज्ञानतो ब्राह्मणकर्त्तृकवेदपारगाततायिब्राह्मणवधः । १२ वार्षिकव्रतम् । १८० धेनवः । ५४० कार्षापणाः । तल्लभ्यस्वर्णादि वा । १०० गावः । अशक्तौ १०० कार्षापणाः ।
अज्ञानतस्तस्य वधः । तदर्द्धम् । ६ वार्षिकव्रतम् । ९० धेनवः । २७० कार्षापणाः । ५० गावः । तदशक्तौ ५० कार्षापणाः ।
ज्ञानतोऽज्ञानतो वा ब्राह्मणकर्त्तृकपतितब्राह्मणवधः । तथा । तथा । तथा । तथा ।
अकामत आग्रहारिकादिब्राह्मणवधः । एकवार्षिकव्रतम् । १५ धेनवः । ४५ कार्षापणाः । ९ गावः । तदशक्तौ ८ । ६ ॥। कार्षापणाः ।
कामतस्तस्य वधः । तद्द्विगुणम् । तद्द्विगुणम् । तद्द्विगुणम् । तद्द्विगुणम् ।
अकामतः क्षत्त्रियकर्त्तृकब्रह्मवधः । ब्राह्मणकर्त्तृकवधप्रायश्चित्तद्बिगुणम् । तच्च २४ वार्षिकव्रतम् । ३६० धेनवः । १०८० कार्षापणाः । तल्लभ्यस्वर्णादि वा । २०० गावः । अशक्तौ २०० कार्षापणा ।
अथ महापातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
कामतस्तद्वधः । तद्द्विगुणम् । तद्द्विगुणम् । तद्द्विगुणम् । तद्द्विगुणम् ।
अकामतो वैश्यकर्त्तृकब्रह्मवधः । ब्राह्मणकर्त्तृकवधप्रायश्चित्तत्रिगुणम् । तच्च ३६ वार्षिकव्रतम् । ५४० धेनवः । १६२० कार्षापणाः । ३०० गावः । अशक्तौ ३०० कार्षापणाः ।
कामतो वैश्यकर्त्तृकब्रह्मवधः । ७२ वार्षिकव्रतम् । १०८० धेनवः । ३२४० कार्षापणाः । ६०० गावः । अशक्तौ ६०० कार्षापणाः ।
अकामतः शूद्रकर्त्तृकब्रह्मवधः । ब्राह्मणकर्त्तृकवधप्रायश्चित्तचतुर्गुणम् । तच्च ४८ वार्षिकव्रतम् । ७२० धेनवः । २१६० कार्षापणाः । ४०० गावः । अशक्तौ ४०० कार्षापणाः ।
कामतस्तद्वधः । तद्द्विगुणम् । तद्द्विगुणम् । तद्द्विगुणम् । तद्द्विगुणम् ।
अकामतो ब्राह्मणकर्त्तृकब्राह्मणीवधः । ब्रह्मवधप्रायश्चित्तार्द्धम् । तच्च ६ वार्षिकव्रतम् । ९० धेनवः । २७० कार्षापणाः । ५० गावः । अशक्तौ ५० कार्षापणाः ।
कामतस्तद्वधः । तद्द्विगुणम् । क्षत्त्रियस्य ब्राह्मणीवधे ब्राह्मणकंर्त्तृकवधप्रायश्चित्तद्बिगुणम् । वैश्यस्य त्रिगुणम् । शूद्रस्य चतुर्गुणम् । अनेकब्राह्मणवधे प्रायश्चित्तस्यैकत्वम् । यदेव साक्षाद्वधकर्त्तुः प्रायश्चित्तं तदेव स्वल्पप्रहर्त्तुरनग्राहकस्य अप्रवृत्तप्रवर्त्तकरूपप्रयोजकस्य च पादहीनम् । बध्यप्रतिरोधकस्य अनुग्राहकस्य प्रवृत्तप्रवर्त्तकरूपप्रयोजकस्य च अर्द्धम् । अनुमन्तुर्निमित्तिनश्च पादः । अशक्तौ स्त्रीबालवृद्धानां सर्व्वत्रार्द्धम् । तद्द्विगुणम् । तद्द्विगुणम् । तद्द्विगुणम् ।
ज्ञानतो ब्राह्मणस्य पैष्टीसुरापानम् । द्विरभ्यस्तगौडीमाध्बीपानञ्च । अग्निसमस्पर्शानां सुरागोमूत्रजलदुग्धघृतगोमयरसानामन्यतमस्यामरणात् पानम् । चतुर्विंशतिवार्षिकव्रतं वा । ३६० धेनवः । १०८० कार्षापणाः । तल्लभ्यस्वर्णादि वा । २०० गावः । अशक्तौ २०० कार्षापणाः ।
अज्ञानतो ब्राह्मणस्य तासां पानम् । एतदर्द्धम् । तत्तु द्वादशवार्षिकव्रतम् । १८० धेनवः । ५४० कार्षापणाः । तल्लभ्यस्वर्णादि वा । १०० गावः । अशक्तौ १०० कार्षापणाः ।
अज्ञानतः क्षत्त्रियस्य पैष्टीसुरापानम् । नववार्षिकव्रतम् । ज्ञानत एतद्द्विगुणम् । १३५ धेनवः । ४०५ कार्षापणाः । तल्लभ्यस्वर्णादि वा । ७५ गावः । अशक्तौ ७५ कार्षापणाः ।
अज्ञानतो वैश्यस्य पैष्टीसुरापानम् । षाड्वार्षिकव्रतम् । ज्ञानत एतद्द्विगुणम् । स्त्रीबालवृद्धानामर्द्धादिकम् । ९० धेनवः । २७० कार्षापणाः । तल्लभ्यस्वर्णादि वा । ५० गावः । अशक्तौ ५० कार्षापणाः ।
अज्ञानतो ब्राह्मणकर्त्तृकब्राह्मणस्वामिकाशीतिरक्तिकापरिमितसुवर्णस्तेयम् । अपहृतद्रव्यं तस्यानुरूपं मूल्यं वा स्वामिने दत्त्वा द्बादशवार्षिकव्रतं करणीयम् । १८० धेनवः । ५४० कार्षापणाः । तल्लभ्यस्वर्णादि वा । १०० गावः । अशक्तौ १०० कार्षापणाः ।
ज्ञानतस्तत्कर्त्तृकतत्स्तेयम् । एतद्द्विगुणं २४ वार्षिकव्रतम् । गुणवद्ब्राह्मणकर्त्तुके तु सर्व्वत्रार्द्धम् । ३६० धेनवः । १०८० कार्षापणाः । २०० गावः । अशक्तौ २०० कार्षापणाः ।
ज्ञानतः क्षत्त्रियवैश्यशूद्रकर्त्तृकब्राह्मणस्वामिकाशीतिरक्तिकापरिमितसुवर्णस्तेयम् । राजकर्त्तृकमुषलाघातेन मरणम् । चतुर्विंशतिवार्षिकव्रतं वा । ३६० धेनवः । १०८० कार्षापणाः । तल्लभ्यस्वर्णादि वा । २०० गावः । अशक्तौ २०० कार्षापणाः ।
अथ महापातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
अज्ञानतस्तत्कर्त्तृकतत्स्वामिकतत्सुवर्णस्तेयम् । द्वादशवार्षिकव्रतं स्त्रीबालवृद्धानामर्द्धम् । एकस्योभयधर्म्मवत्त्वे पादः । १८० धेनवः । ५४० कार्षापणाः । तल्लभ्यस्वर्णादि वा । १०० गावः । अशक्तौ १०० कार्षापणाः ।
ज्ञानतो गुर्व्वङ्गनागमनम् । अर्थात् विमातृगमनम् । शूद्रस्य ब्राह्मणीगमनञ्च । गुरुतल्पगः पापमभिभाष्य तप्ते लौहमये सुप्यात् । ज्वलन्तीं लौहप्रतिमां मृण्मयीं प्रतिमां वा आलिङ्ग्य म्रियेत । स्वयं वा शिश्नवृषणावुत्कृत्य अञ्जलौ निधाय आमरणात् नैरृतीन्दिशमातिष्ठेत् । चतुर्विंशतिवार्षिकव्रतं वा कुर्य्यात् । गुर्व्वङ्गनयापि एतत् करणीयम् । ३६० धेनवः । १०८० कार्षापणाः । तल्लभ्यस्वर्णादि वा । २०० गावः । अशक्तौ २०० कार्षापणाः ।
अज्ञानतो गुर्व्वङ्गनागमः । द्वादशवार्षिकव्रतम् । बालवृद्धयोरर्द्धम् । एतच्चातुर्वर्ण्यविषयम् । १८० धेनवः । ५४० कार्षापणाः । तल्लभ्यस्वर्णादि वा । १०० गावः । अशक्तौ १०० कार्षापणाः ।
चतुर्णां महापातकिनां संसर्गः । ज्ञानतः सकृत् प्रथमसंसर्गिणोऽष्टादशवार्षिकव्रतम् । २७० धेनवः । ८१० कार्षापणाः । तल्लभ्यस्वर्णादि वा । १५० गावः । अशक्तौ १५० कार्षापणाः ।
तत्र गुरुसंसर्गो यथा । पतिताचार्य्यात् वेदाध्ययनम् । १ । पतितशिष्याय वेदाध्यापनम् । २ । पतितेन ऋत्विजा ज्योतिष्टोमादियजनम् । ३ । पतितस्य ज्योतिष्टोमादिनिष्पादनरूपयाजनम् । ४ । पतितेन पतितया वा परिणयनम् । ५ । स्तेयादिपतितान्यब्राह्मणीगमनम् । ६ । पतितान्नस्य पतितेन सहैकपात्रे भोजनम् । ७ । अज्ञानतः सकृत्प्रथमसंसर्गिणो नववार्षिकव्रतम् । १३५ धेनवः । ४०५ कार्षापणाः । ७५ गावः । अशक्तौ ७५ कार्षापणाः ।
ज्ञानतो द्वितीयसंसर्गिणः नववार्षिकव्रतम् । १३५ धेनवः । ४०५ कार्षापणाः । ७५ गावः । अशक्तौ ७५ कार्षापणाः ।
अज्ञानतो द्बितीयसंसर्गिणः सार्द्धचतुर्वार्षिकव्रतम् । ६८ धेनवः । २०२ ॥ ० कार्षापणाः । ३८ गावः । अशक्तौ ३७ ॥ ० कार्षापणाः ।
ज्ञानतस्तृतीयसंसर्गिणः षाड्वार्षिकव्रतम् । ९० धेनवः । २७० कार्षापणाः । ५० गावः । अशक्तौ ५० कार्षापणाः ।
अज्ञानतस्तृतीयसंगर्गिणस्त्रैवार्षिकव्रतम् । ४५ धेनवः । १३५ कार्षापणाः । २५ गावः । अशक्तौ २५ कार्षापणाः ।
ज्ञानाज्ञानतश्चतुर्थसंसर्गिणः प्रायश्चित्ताभावः । ब्रह्मघातिनां क्षत्त्रियवैश्यशूद्राणां ज्ञानाज्ञानतः संसर्गे तु क्रमेण एतस्य द्बिगुणं त्रिगुणंचतुर्गुणं ज्ञेयम् ।
तत्र लघुसंसर्गो यथा । उपनयनं बिना पतिताय वेदाध्यापनम् । १ । पतितांत्तादृशाध्ययनम् । २ । पतितयजमानस्य अष्टकादियज्ञयाजनम् । ३ । पतितेन ऋत्विजाष्टकादियज्ञयजनम् । ४ । पतितस्वब्राह्मणीगमनम् । ५ । पतितशूद्रागमनम् । ६ । अपतितान्नस्य पतितेन सहैकपात्रे भोजनम् । ७ । पतितोच्छिष्टभोजनम् । ८ । ज्ञानतः षण्माससंसर्गे प्रथमसंसर्गिणोऽष्टादशवार्षिकव्रतम् । २७० धेनवः । ८१० कार्षापणाः । १५० गावः । अशक्तौ १५० कार्षापणाः ।
अज्ञानतः षण्माससंसर्गे प्रथमसंसर्गिणो नववार्षिकव्रतम् । १३५ धेनवः । ४०५ कार्षापणाः । ७५ गावः । अशक्तौ ७५ कार्षापणाः ।
ज्ञानतः षण्माससंसर्गे द्वितीयसंसर्गिणो नववार्षिकव्रतम् । १३५ धेनवः । ४०५ कार्षापणाः । ७५ गावः । अशक्तौ ७५ कार्षापणाः ।
अज्ञाततः षण्माससंसर्गे द्वितीयसंसर्गिणः सार्द्धचतुर्वार्षिकव्रतम् । ६८ धेनवः । २०२ ॥ ० कार्षापणाः । ३८ गावः । अशक्तौ ३७ ॥ ० कार्षापणाः ।
ज्ञानतः षण्माससंसर्गे तृतीयसंसर्गिणः षाड्वार्षिकव्रतम् । ९० धेनवः । २७० कार्षापणाः । ५० गावः । अशक्तौ ५० कार्षापणाः ।
अज्ञानतः षण्माससंसर्गे तृतीयसंसर्गिणस्त्रैवार्षिकव्रतम् । ४५ धेनवः । १३५ कार्षापणाः । २५ गावः । अशक्तौ २५ कार्षापणाः ।
चतुर्थसंसर्गिणो ज्ञानाज्ञानतः प्रायश्चित्ताभावः ।
अथ महापातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
महापातकिनां लघुतरसंसर्गो यथा । एकशय्याशनयानादिः । ततो लघुतर आलापस्पर्शनिःश्वासादिः । एभिश्च त्रिभिर्लघुतरसंसर्गैरेको लघुसंसर्गः ।
ज्ञानतस्त्रिभिर्लघुसंसर्गैर्वत्सरेण साम्यम् । तेनाष्टादशवार्षिकव्रतम् । २७० धेनवः । ८१० कार्षापणाः । तल्लभ्यस्वर्णादि वा । १५० गावः । अशक्तौ १५० कार्षापणाः ।
अज्ञानतो वत्सरद्वयेन । तथा । तथा । तथा ।
ज्ञानत एकैकशो वत्सरत्रंयेण । तथा । तथा । तथा ।
अज्ञानाद्वत्सरषट्केन । तथा । तथा । तथा ।
संलापादीनां त्रयाणां एकैकयानादिसमानत्वात् ज्ञानतो वत्सरत्रयेण पातः । तथा । तथा । तथा ।
संलापादीनां त्रयाणां एकैकयानादिसमानत्वादज्ञानाद्बर्षषट्केन पातः । तेनाष्टादशवार्षिकव्रतम् । २७० धेनवः । ८१० कार्षापणाः । तल्लम्यस्वर्णादि वा । १५० गावः । अशक्तौ १५० कार्षापणाः ।
ज्ञानादेकैकशो वत्सरनवकेन । तथा । तथा । तथा ।
अज्ञानादेकैकशोऽष्टादशवत्सरैः पातः ॥ * ॥ नवविधपापान्वितानां मध्यात् येन पापीयसा यः संसृष्टः स तस्य व्रतं पादहीनं कुर्य्यात् ॥ एतच्च प्रथमसंसर्गिणाम् । द्वितीयसंसर्गिणां द्बिपादहीनम् । तृतीयसंसर्गिणां त्रिपादहीनं सर्व्वत्र ज्ञेयम् ॥ * ॥ संसर्गाणामुक्तकालन्यूनाधिक्ये भागहारेण प्रायश्चित्तन्यूनाधिक्यं ज्ञेयम् ॥ * ॥ रघुनन्दनभट्टाचार्य्यमते कलौ लघुसंसर्गेषु प्रतिग्रहादिषु पातित्याभावात् तत्प्रायश्चित्ताभावः ॥ तथा । तथा । तथा ।
पतितोत्पन्नत्वमपि महापातकिसंसर्गविशेषः । यस्य पतितस्य यत् प्रायश्चित्तं तस्य पातित्यदशायां जातस्य पुत्त्रस्य तत् तृतीयभागप्रायश्चित्तम् । तदानीं तज्जातायाः कन्यायाः पतितोत्पन्नपुत्त्रप्रायश्चित्ततृतीयभागप्रायश्चित्तम् ।
अथानुपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
समुत्कर्षे अनृतम् । तत्तु समुत्कर्षिनिमित्तं वाचा क्रियया वा अन्यथा प्रतिपादनं यथा शूद्रस्य ब्राह्मणोऽहमिति वचनं यज्ञोपवीतधारणञ्च । अथवा परस्य सम्यग्जातिविद्योत्कर्षे सति नायं ब्राह्मणो न च किञ्चिदयं जानीते इत्यनृतवचनम् । १ । राजगामिपैशुनम् । तत्तु राजनि निर्द्दोषस्य दोषख्यापनम् । २ । गुरोरलीकनिर्ब्बन्धः । स तु गुरोर्जन्मदातुर्मृषादोषाभियोगः । ३ । द्वादशवार्षिकव्रतम् । एतच्च ज्ञानात्यन्ताभ्यासतः ॥ * ॥ एतन्मध्याद्यदुपपातके दृश्यते तदज्ञानादिना लघुविषयञ्चेत्यादिव्यवस्थेयम् ॥ * ॥ यच्च वशिष्ठवचनं ब्रह्मोज्झः कृच्छ्रं द्बादशरात्रं चरित्वा पुनरुपयुञ्जीत वेदमाचार्य्यात् । विष्णुः । समुत्कर्षानृते गुरोश्चालीकनिर्बन्धे तदाक्षारणे च मासं पयसा वर्त्तेत । आक्षारणं परदारगमनाभिशापः । वशिष्ठः । गुरोश्चालीकनिर्बन्धे सचेलस्नातो गुरुं प्रसादयेत् प्रसादात् पूतो भवति । एतानि प्रमादादिकृते बोध्यानि । १८० धेनवः । ५४० कार्षापणाः । १०० गावः । अशक्तौ १०० कार्षापणाः ।
अथानुपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
एतानि त्रीणि ज्ञानतः अत्यन्ताभ्यासे अज्ञानकृतब्रह्महत्यासमानि । यागस्थयोः क्षत्त्रियवैश्ययोर्व्वधः । ४ । गर्भिणीवधः । ५ । रजस्वलावधः । ६ । अत्रिगोत्रावधः । ७ । ब्राह्मणव्यतिरिक्ताविज्ञातगर्भवधः । ८ । शरणागतवधः । ९ । एतानि च अज्ञानकृतब्रह्महत्यासमानानि ।
ब्रह्मोज्झता । सा च असच्छास्त्राभियोगेन अधीतवेदविस्मरणम् । १ । वेदनिन्दा । अर्थतो ग्रन्थतश्च । २ । कौटसाक्ष्यम् । ३ । सुहृद्वधः । स च ब्राह्मणव्यतिरिक्तमित्रवधः । ४ । गर्हितान्नजग्धिः । सा च ज्ञानतोऽत्यन्ताभ्यासेन अन्त्यजान्नभोजनम् । ५ । गर्हिताद्यजग्धिः । ज्ञानतोऽत्यन्ताभ्यासेन छत्राकलशुनादिभोजनम् । ६ । एतानि षट् अज्ञानकृतसुरापानसमानि । द्वादशवार्षिकव्रतम् । १८० धेनवः । ५४० कार्षापणाः । तल्लभ्यस्वर्णादि वा । १०० गावः । अशक्तौ १०० कार्षापणाः ।
ब्राह्मणसम्बन्धिनिःक्षेपहरणम् । १ । नरा २ श्व ३ रजत ४ भूमि ५ वज्र ६ मणीना ७ ञ्चाभ्यासेन हरणम् । एतानि सप्त ब्राह्मणस्वामिकाशीतिरक्तिकापरिमितसुवर्णस्तेयसमानि । ज्ञानतो द्बादशवार्षिकव्रतम् । अज्ञानतस्तदर्द्ध्वम् । १८० धेनवः । ५४० कार्षापणाः । तल्लभ्यस्वर्णादि वा । १०० गावः । अशक्तौ १०० कार्षापणाः ।
सपिण्डस्त्रीगमनम् । १ । ब्राह्मणकुमारीगमनम् । २ । चाण्डालादिस्त्रीगमनम् । ३ । सवर्णमित्रस्त्रीगमनम् । ४ । पुत्त्रस्यासवर्णस्त्रीगमनम् । ५ । औरसेतरपुत्त्रभार्य्यागमनम् । ६ । पितृष्वसृगमनम् । ७ । मातृष्वसृगमनम् । ८ । गन्तारमपेक्ष्य हीनवर्णपितृपत्नीगमनम् । ९ । पितृव्यपत्नीगमनम् । १० । मातामहपत्नीगमनम् । ११ । मातुलपत्नीगमनम् । १२ । श्वश्रूगमनम् । १३ । स्वसृगमनम् । १४ । ज्येष्ठभ्रातृपत्नीगमनम् । १५ । राजपत्नीगमनम् । १६ । श्रोत्रिय- ज्ञानतो महापातकोक्तप्रकारेण मरणं तद्वैकल्पिकं चतुर्विंशतिवार्षिकव्रतम् । ३६० धेनवः । १०८० कार्षापणाः । तल्लभ्यस्वर्णादि वा । २०० गावः । अशक्तौ २०० कार्षापणाः ।
अज्ञानतो द्वादशवार्षिकव्रतम् । १८० धेनवः । ५४० कार्षापणाः । तल्लभ्यस्वर्णादि वा । १०० गावः । अशक्तौ १०० कार्षापणाः ।
पञ्चपुरुषाधिकगामिनीनामासां गमने चान्द्रायणम् । ८ धेनवः । २२ ॥ ० कार्षापणाः । सार्द्धसप्तधेनुसंकलनात् । यथाशक्ति ।
अभ्यासव्यभिचारिण्याः सकृद्गमने अर्थात् सप्तमपुरुषगामिन्या गमने पराकः । ५ धेनवः । १५ कार्षापणाः । यथाशक्ति ।
अष्टमादिपुरुषगामिन्या गमने तप्तकृच्छ्रम् । ४ धेनवः । ११ । ० कार्षापणाः । पादोनधेनुचतुष्टयस्य ग्राह्यत्वात् । यथाशक्ति ।
अथानुपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
पत्नीगमनम् । १७ । ऋत्विक्पत्नीगमनम् । १८ । उपाध्यायपत्नीगमनम् । १९ । शिष्यपत्नीगमनम् । २० । स्वसृसखीगमनम् । २१ । असवर्णाजातदुहितृगमनम् । २२ । आचार्य्यपत्नीगमनम् । २३ । शरणागतागमनम् । २४ । प्रव्रजितागमनम् । २५ । धात्रीगगनम् । २६ । साध्वीगमनम् । २७ । निःक्षप्तस्त्रीगमनम् । २८ । वर्णोत्तमागमनम् । २९ । एतानिगुरुतल्पगमनसमानि । * । इति चतुःप्रकाराण्यनुपातकानि मिलित्वा एकपञ्चाशत्संख्येयानि ॥ अज्ञानादारोहणमात्रे सम्बन्धविप्रकर्षे वा पराकस्तप्तकृच्छ्रो वा ।
ज्ञानतो महापातकोक्तप्रकारेण मरणम् । तद्बैकल्पिकं चतुर्विंशतिवार्षिकव्रतम् । ३६० धेनवः । १०८० कार्षापणाः । तल्लभ्यस्वर्णादि वा । २०० गावः । अशक्तौ २०० कार्षापणाः ।
अज्ञानतो द्बादशवार्षिकव्रतम् । १८० धेनवः । ५४० कार्षापणाः । तल्लभ्यस्वर्णादि वा । १०० गावः । अशक्तौ १०० कार्षापणाः ।
पञ्चपुरुषाधिकगामिनीनामासां गमने चान्द्रायणम् । ८ धेनवः । २२ ॥ ० कार्षापणाः । सार्द्धसप्तधेनुसंकलनात् । यथाशक्ति ।
अभ्यासव्यभिचारिण्याः सकृद्गमने अर्थात् सप्तमपुरुषगामिन्या गमने पराकः । ५ धेनवः । १५ कार्षापणाः । यथाशक्ति ।
अष्टमादिपुरुषगामिन्या गमने तप्तकृच्छ्रम् । ४ धेनवः । ११ । ० कार्षापणाः । पादोनधेनु-चतुष्टयस्य ग्राह्यत्वात् । यथाशक्ति ।
अथोपपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतब्राह्मणस्वामिकगवीवधः । त्रैमासिकव्रतम् । तद्यथा । कृतसशिखवपनो व्यापादिताया गोश्चर्म्मणा कृतपरिधानोत्तरावगुण्ठनो मासमेकं गोमूत्रेण यवागूकृतान् यवान् पिबन् गोष्ठे वसेत् । अपरमासद्बये उपोष्यापरदिने सायं स्वल्पं भुञ्जीत । जितेन्द्रियो गोमूत्रेण स्नानं चरेत् । दिवा गवानुगमनं ऊर्द्ध्वं तिष्ठन् गोरजःपानञ्च चरेत् । गोः शुश्रूषां नमस्कारञ्च कुर्य्यात् । रात्रौ वीरासनं वसेत् । तिष्ठन्तीषु गोष्वनुतिष्ठेत् । व्रजन्तीषु तास्वनुव्रजेत् । आसीनासु तास्वासीनः । वीतमत्सरः । आतुरामभिशस्तां पतितां पङ्कलग्नां भयनिमित्तैश्चौरव्याघ्रादिभिराक्रान्ताञ्च गां सर्व्वशक्तिभिर्विमोचयेत् । ग्रीष्मवर्षाशीतेषु मारुते भृशं वाति वा गोस्त्राणमकृत्वा आत्मत्राणं न कुर्य्यात् । आत्मनः अन्येषां वा गृहक्षेत्रखलेषु भक्षयन्तीं पिवन्तं वत्सञ्च निवारणाभिप्रायेण न कथयेत् । एतद्विधानेन यो गामनुगच्छति स गोहत्याकृतपापात् प्रमुच्यते । एकं वृषं दश गाश्च दक्षिणां दद्यात् । एतदशक्तौ वेदविद्भ्यः सर्व्वस्वं दद्यात् । एतच्चतुर्हायण्यादिविषयम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । १२ धेनवो भवदेवभट्टसम्मताः । ३६ कार्षापणाः । तल्लभ्यस्वर्णादि वा । १ वृषः १० गावः । अशक्तौ १५ कार्षपणाः ।
१७ धेनवो बहुसम्मताः । ५१ कार्षापणाः । तथा ।
अथोपपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकब्राह्मणस्वामिकाज्ञानकृतगवीवधः । सार्द्धमासिकव्रतम् । तद्यथा । गोष्ठे गोसमीपे गोघ्नः स्थितिं कुर्य्यात् । तत्रैव क्षितौ शयनञ्च । शक्तुयावकपयोदधिसरगोमयानां भक्षणं क्रमशः कुर्य्यात् । नखरोमविवर्जितस्त्रिसवनस्नानञ्चरेत् । जितेन्द्रियो वीतमत्सरश्च भवेत् । यथाशक्ति गायत्त्रीञ्च जपेत् । सार्द्धमासे पूर्णे सति विप्रान् भोजयेत् । गां तन्मूल्यं वा दक्षिणां दद्यात् । अनेन विधानेन गोघ्नः पापान्मुच्येत । एतद्व्रतं गोस्वामिने तत्प्रतिरूपं गवान्तरं यथोक्तमूल्यं वा दत्त्वा कर्त्तव्यम् । स्त्रीशूद्रबालवृद्धानामर्द्धं प्रायश्चित्तम् । ६ धेनवो भवदेवभट्टसम्मताः । ९ धेनवो बहुसम्मताः । १८ कार्षापणाः । तल्लभ्यस्वर्णादि वा । २५ ॥ ० कार्षापणाः । बहुसम्मताः । सार्द्धाष्टधेनुसंकलनात् । १ गौः । अशक्तौ १ कार्षापणः । स्मार्त्तमते ७ ॥ ० कार्षापणाः ।
ज्ञानकृतशूद्रकर्त्तृक-ब्राह्मणस्वामिकगवीवधः । त्रैमासिकव्रतार्द्धम् । अज्ञानतस्तदर्द्धम् । ६ धेनवो भवदेवभट्टसम्मताः । ९ धेनवो बहुसम्मताः । १८ कार्षापणाः । २५ ॥ ० कार्षापणाः । बहुसम्मताः । तल्लभ्यस्वर्णादि वा । १ गौः । अशक्तौ १ कार्षापणः
ज्ञानकृतब्राह्मणक्षत्रियवैश्यकर्त्तृकक्षत्त्रियस्वामिकगवीवधः । षाण्मासिकव्रतम् । तद्यथा । षण्मासान् तच्चर्म्मणा परिवृतो गोग्रासाहर्त्ता गोव्रतो यवाशी गोभिरेव सञ्चरन् तत्पापात् विमुच्येत । १२ धेनवः । ३६ कार्षापणाः । तल्लभ्यस्वर्णादि वा । यथाशक्ति ।
ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकाज्ञानकृतक्षत्त्रियस्वामिकगवीवधः । षाण्मासिकव्रतार्द्धम् । ६ धेनवः । १८ कार्षापणाः । तल्लभ्यस्वर्णादि वा । यथाशक्ति ।
शूद्रकर्त्तृकज्ञानकृतक्षत्त्रियस्वामिकगवीवधः । षाण्मासिकव्रतार्द्धम् । ६ धेनवः । १८ कार्षापणाः । तल्लभ्यस्वर्णादि वा । यथाशक्ति ।
तत्कर्त्तृकाज्ञानकृततत्स्वामिकगवीवधः । एतद्व्रतार्द्धम् । स्त्रीशूद्रबालवृद्धानां सर्व्वत्रार्द्धम् । ३ धेनवः । ९ कार्षापणाः । तल्लभ्यस्वर्णादि वा । यथाशक्ति ।
ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवैश्यस्वामिकगवीवधः । द्बिगुणं मासब्रतम् । मासव्रतं यथा । मासैकं पञ्चगव्यपानं गोष्ठे वासः गवानुगमनं गोमतीजपः । १० धेनवः । ३० कार्षापणाः । तल्लभ्यस्वर्णादि वा । यथाशक्ति ।
तत्कर्त्तृकाज्ञानकृततत्स्वामिकगवीवधः । एतदर्द्धम् । ५ धेनवः । १५ कार्षापणाः । तल्लभ्यस्वर्णादि वा । यथाशक्ति ।
ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतशूद्रस्वामिकगवीवधः । ४ प्राजापत्यानि । ४ धेनवः । १२ कार्षापणाः । तल्लभ्यस्वर्णादि वा । यथाशक्ति ।
ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकाज्ञानकृतशूद्रस्वामिकगवीवधः । २ प्राजापत्ये । स्त्रीशूद्रबालवृद्धानां सर्व्वत्राद्धम् । एकस्य स्त्रीत्वशूद्रत्वाद्युमयधर्म्मवत्त्वे प्रायश्चित्तपादः । २ धेनू । ६ कार्षापणाः । तल्लभ्यस्वर्णादि वा । यथाशक्ति ।
ब्राह्मणस्वामिकगर्भिणीकपिलादोग्ध्रीहोमधेनुसुव्रतानां गवां ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवधः । द्बिगुणं त्रैमासिकव्रतम् । अज्ञानतस्तदर्द्धम् । २४ धेनवो भवदेवभट्टसम्मताः । ३४ धेनवो बहुसम्मताः । ७२ कार्षापणाः । १०२ कार्षापणा बहुसम्मताः । २ वृषौ २० गावः । अशक्तौ ३० कार्षापणाः ।
ब्राह्मणस्वामिकगर्भिणीकपिलादोग्ध्रीहोमधेनुसुव्रतानां गवां शूद्रकर्त्तृकज्ञानकृतवधः । त्रैमासिकव्रतम् । अज्ञानतस्तदर्द्धम् । १२ धेनवः । १७ धेनवो बहुसम्मताः । ३६ कार्षापणाः । ५१ कार्षापणा बहुसम्मताः । १० वृषः १० गावः । अशक्तौ १५ कार्षापणाः ।
अथोपपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
क्षत्त्रियस्वामिकगर्भिणीकपिलादोग्ध्रीहोमधेनुसुव्रतानां गवां ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतबधः । द्विगुणं षाण्मासिकव्रतम् । अज्ञानतस्तदर्द्धम् । २४ धेनवः । ७२ कार्षापणाः । यथाशक्ति ।
क्षत्त्रियस्वामिकगर्भिणीकपिलादोग्ध्रीहोमधेनुसुव्रतानां गवां शूद्रकर्त्तृकज्ञानकृतवधः । षाण्मासिकव्रतम् । अज्ञानतस्तदर्द्धम् । १२ धेनवः । ३६ कार्षापणाः । यथाशक्ति ।
वैश्यस्वामिकगर्भिणीकपिलादोग्ध्रीहोमधेनुसुव्रतानां गवां ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवधः । चतुर्गुणं मासिकव्रतम् । अज्ञानतस्तदर्द्धम् । २० धेनवः । ६० कार्षापणाः । यथाशक्ति ।
वैश्यस्वामिकगर्भिणीकपिलादोग्ध्रीहोमधेनुसुव्रतानां गवां शूद्रकर्त्तृकज्ञानकृतवधः । द्विगुणं मासिकव्रतम् । अज्ञानतस्तदर्द्धम् । १० धेनवः । ३० कार्षापणाः । यथाशक्ति ।
शूद्रस्वामिकगर्भिणीकपिलादोग्ध्रीहोमधेनुसुव्रतानां गवां ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवधः । ८ प्राजापत्यानि । अज्ञानतस्तदर्द्धम् । ८ धेनवः । २४ कार्षापणाः । यथाशक्ति ।
शूद्रस्वामिकगर्भिणीकपिलादोग्ध्रीहोमधेनुसुव्रतानां गवां शूद्रकर्त्तृकज्ञानकृतवधः । ४ प्राजापत्यानि । अज्ञानतस्तदर्द्धम् । ४ धेनवः । १२ कार्षापणाः । यथाशक्ति ।
ज्ञानकृतब्राह्मणक्षत्त्रियवैश्यकर्त्तृकाधमशूद्रस्वामिकगवीवधः । २ प्राजापत्ये । अज्ञानतस्तदर्द्धम् । २ धेनू । ६ कार्षापणाः । यथाशक्ति ।
ज्ञानकृतशूद्रकर्त्तृकाधमशूद्रस्वामिकगवीवधः । १ प्राजापत्यम् । अज्ञानतस्तदर्द्धम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
अधमशूद्रस्वामिकगर्भिणीकपिलादोग्ध्रीहोमधेनुसुव्रतानां गवां ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवधः । ४ प्राजापत्यानि । अज्ञानतस्तदर्द्धम् । ४ धेनवः । १२ कार्षापणाः । यथाशक्ति ।
अधमशूद्रस्वामिकगर्भिणीकपिलादोग्ध्रीहोमधेनुसुव्रतानां गवां शूद्रकर्त्तृकज्ञानकृतवधः । २ प्राजापत्ये । अज्ञानतस्तदर्द्धम् । २ धेनू । ६ कार्षापणाः । यथाशक्ति ।
ब्राह्मणस्वामिकाया गोरुत्पन्नमात्रगर्भस्य ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवधः । त्रैमासिकव्रतपादः । अज्ञानतस्तदर्द्धम् । ५ धेनवः । १२ ॥। ० कार्षापणाः । सपादधेनुचतुष्टयसङ्कलनात् । ३ ॥। ० कार्षापणाः ।
ब्राह्मणस्वामिकाया गोर्गात्रसम्मितगर्भस्य ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवधः । त्रैमासिकव्रतपादद्बयम् । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् ९ धेनवः । २५ ॥ ० कार्षापणाः । सार्द्धाष्टधेनुसङ्कलनात् । ७ ॥ ० कार्षापणाः ।
ब्राह्मणस्वामिकाया गोर्निष्पन्नसकलगात्रचैतन्यरहितगर्भस्य ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवधः । त्रैमासिकव्रतपादत्रयम् । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । चैतन्ययुक्तगर्भवधे कृत्स्नमेव प्रायश्चित्तम् । १३ धेनवः । ३८ । ० कार्षापणाः । पादोनत्रयोदशधेनुसङ्कलनात् । ११ । ० कार्षापणाः ।
क्षत्त्रियस्वामिकाया गोरुत्पन्नमात्रगर्भस्य ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवधः । षाण्मासिकव्रतपादः । अज्ञानतस्तदर्द्धम् । ३ धेनवः । ९ कार्षापणाः । यथाशक्ति ।
अथोपपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
क्षत्त्रियस्वामिकाया गोर्गात्रसम्मितगर्भस्य ब्राह्मणक्षत्त्रियवैश्यकर्त्तृ कज्ञानकृतवधः । षाण्मासिकव्रतपादद्बयम् । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । ६ धेनवः । १८ कार्षापणाः । यथाशक्ति ।
क्षत्त्रियस्वामिकाया गोर्निष्पन्नसकलगात्रचैतन्यरहितगर्भस्य ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवधः । षाण्मासिकव्रतपादत्रयम् । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । चैतन्ययुक्तगर्भवधे कृत्स्नमेव प्रायश्चित्तम् । ९ धेनवः । २७ कार्षापणाः । यथाशक्ति ।
वैश्यस्वामिकाया गोरुत्पन्नमात्रगर्भस्य ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवधः । द्बिगुणमासव्रतस्य पादः । अज्ञानतस्तदर्द्धम् । ३ धेनवः । ७ ॥ ० कार्षापणाः । सार्द्धद्वयधेनुसङ्कलनात् । यथाशक्ति ।
वैश्यस्वामिकाया गोर्गात्रसम्मितगर्भस्य ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकवधः । द्बिगुणमासव्रतस्य पादद्बयम् । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । ५ धेनवः । १५ कार्षापणाः । यथाशक्ति ।
वैश्यस्वामिकाया गोर्निष्पन्नसकलगात्रचैतन्यरहितगर्भस्य ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवधः । द्विगुणमासव्रतस्य पादत्रयम् । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । ८ धेनवः । २२ ॥ ० कार्षापणाः । सार्द्धसप्तधेनुसङ्कलनात् । यथाशक्ति ।
शूद्रस्वामिकाया गोरुत्पन्नगर्भस्य अर्थात् गर्भग्रहणदिनात् सावनमासद्बयानतिक्रान्तगर्भस्य ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवधः । १ प्राजापत्यम् । अज्ञानतस्तदर्द्धम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
शूद्रस्वामिकाया गोर्गात्रसम्मितगर्भस्य अर्थात् मासद्वयोपरिसावनमासद्वयानतिक्रान्तगात्राद्यवयवोत्पन्नगर्भस्य ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवधः । २ प्राजापत्ये । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । २ धेनू । ६ कार्षापणाः । यथाशक्ति ।
शूब्रस्वामिकाया गोर्निष्पन्नसकलगात्रचैतन्यरहितगर्भस्य अर्थात् चतुर्थमासोपरि सावनमासद्बयानतिक्रान्तगर्भस्य ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवधः । ३ प्राजापत्यानि । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । चैतन्ययुक्तगर्भवधे कृत्स्नमेव प्रायश्चित्तम् । ३ धेनवः । ९ कार्षापणाः । यथाशक्ति ।
ब्राह्मणस्वामिकानामतिवृद्धाति कृशातिबालातिरोगिणीनां गवां ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवधः । त्रैमासिकव्रतार्द्धम् । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । ९ धेनवः । २५ ॥ ० कार्षापणाः । सार्द्धाष्टधेनुसङ्कलनात् । ७ ॥ ० कार्षापणाः ।
क्षत्त्रियस्वामिकानामतिवृद्धातिकृशातिबालातिरोगिणीनां गवां ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवधः । षाण्मासिकव्रतार्द्धम् । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । ६ धेनवः । १८ कार्षापणाः । यथाशक्ति ।
वैश्यस्वामिकानामतिवृद्धातिकृशातिबालातिरोगिणीनां गवां ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवधः । १ मासव्रतम् । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । ५ धेनवः । १५ कार्षापणाः । यथाशक्ति ।
शूद्रस्वामिकानामतिवृद्धातिकृशातिबालातिरोगिणीनां २ प्राजापत्ये । अज्ञानतस्तदर्द्धम् । २ धेनू । ६ कार्षापणाः । यथाशक्ति ।
अथोपपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
गवां ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवधः । स्त्रीशूद्रबालवृद्धानामर्द्धम् ।
ब्राह्मणस्वामिकानां बहूनां गवां ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकैकप्रयत्ननिष्पन्नज्ञानकृतवधः । द्बिगुणत्रैमासिकव्रतम् । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । ३४ धेनवः । १०२ कार्षापणाः । २ वृषौ २० गावः । अशक्तौ ३० कार्षापणाः ।
क्षत्त्रियस्वामिकानां बहूनां गवां ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकैकप्रयत्ननिष्पन्नज्ञानकृतवधः । द्बिगुणषाण्मासिकव्रतम् । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । २४ धेनवः । ७२ कार्षापणाः । यथाशक्ति ।
वैश्यस्वामिकानां बहूनां गवां ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकैकप्रयत्ननिष्पन्नज्ञानकृतवधः । चतुर्गु णमासव्रतम् । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । २० धेनवः । ६० कार्षापणाः । यथाशक्ति ।
शूद्रस्वामिकानां बहूनां गवां ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकैकप्रयत्ननिष्पन्नज्ञानकृतवधः । ८ प्राजापत्यानि । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । स्त्रीत्वाद्युभयधर्म्मवत्त्वे पादः । प्रयत्नभेदे प्रायश्चित्तावृत्तिः । ८ धेनवः । २४ कार्षापणाः । यथाशक्ति ।
ज्ञानकृतबहुकर्त्तृकब्राह्मणस्वामिकैकगवीवधः । प्रत्येकं त्रैमासिकव्रतपादः । अज्ञानतस्तदर्द्धम् । ५ धेनवः । १२ ॥। ० कार्षापणाः । सपादधेनुचतुष्टयसङ्कलनात् । ३ ॥। ० कार्षापणाः ।
ज्ञानकृतबहुकर्त्तृकक्षत्त्रियस्वामिकैकगवीवधः । प्रत्येकं षाण्मासिकव्रतपादः । अज्ञानतस्तदर्द्धम् । ३ धेनवः । ९ कार्षापणाः । यथाशक्ति ।
ज्ञानकृतबहुकर्त्तृकवैश्यस्वामिकैकगवीवधः । प्रत्येकं द्विगुणमासव्रतपादः । अज्ञानतस्तदर्द्धम् । ३ धेनवः । ७ ॥ ० कार्षापणाः । सार्द्धद्बयधेनुसङ्कलनात् । यथाशक्ति ।
ज्ञानकृतबहुकर्त्तृकशूद्रस्वामिकैकगवीवधः । प्रत्येकं प्राजापत्यम् । अज्ञानतस्तदर्द्धम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
द्बाभ्यामेकगवीवधः । यद्यत्स्वामिकाया गोर्वधे यद्यत्प्रायश्चित्तमुक्तं प्रत्येकं संपूर्णं तत्तत् प्रायश्चित्तम् ।
द्वाभ्यामेकप्रयत्ननिष्पन्नबहुगवीवधः । यद्यत्स्वामिकाया गोर्वधे यद्यत्प्रायश्चित्तं प्रत्येकं तद्द्वैगुण्यम् ।
एकप्रयत्ननिष्पन्नबहुकर्त्तृकबहुगवीवधः । प्रत्येकं तत्तद्वधोक्तव्रतपादद्बयम् ।
एकप्रयत्ननिष्पन्नाभ्यासकृतबहुकर्त्तृकबहुगवीवधः । प्रत्येकं तत्तद्बधोक्तव्रतद्विपादप्रायश्चित्तावृत्तिः ।
ज्ञानकृतब्राह्मणक्षत्त्रियवैश्यकर्त्तृकब्राह्मणस्वामिकैकहायबगवीवधः । त्रैमासिकव्रतपादः । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । ५ धेनवः । १२ ॥। ० कार्षापणाः । सपादधेनुचतुष्टयसङ्कलनात् । ३ ॥। ० कार्षापणाः ।
ज्ञानकृतब्राह्मणक्षत्त्रियवैश्यकर्त्तृकब्राह्मणस्वामिकद्विहायनगवीवधः । त्रैमासिकव्रतार्द्धम् । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । ९ धेनवः । २५ ॥ ० कार्षापणाः । सार्द्धाष्टधेनुसङ्कलनात् । ७ ॥ ० कार्षापणाः ।
ज्ञानकृतब्राह्मणक्षत्त्रियवैश्यकर्त्तृकब्राह्मणस्वामिकत्रिहायणगवीवधः । पादन्यूनत्रैमासिकव्रतम् । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । १३ धेनवः । ३८ । ० कार्षापणाः । पादोनत्रयोदशधेनुसङ्कलनात् । ११ । ० कार्षापणाः ।
ज्ञानकृतब्राह्मणक्षत्त्रियवैश्यकर्त्तृकक्षत्त्रियस्वामिकैकहायनगवीवधः । षाण्मासिकव्रतपादः । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । ३ धेनवः । ९ कार्षापणाः । यथाशक्ति ।
अथोपपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
ज्ञानकृतब्राह्मणक्षत्त्रियवैश्यकर्त्तृकक्षत्त्रियस्वामिकद्विहायनगवीवधः । षाण्मासिकव्रतपादद्बयम् । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । ६ धेनवः । १८ कार्षापणाः । यथाशक्ति ।
ज्ञानकृतब्राह्मणक्षत्त्रियवैश्यकर्त्तृकक्षत्त्रियस्वामिकत्रिहायणगवीवधः । पादन्यूनषाण्मासिकव्रतम् । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । ९ धेनवः । २७ कार्षापणाः । यथाशक्ति ।
ज्ञानकृतब्राह्मणक्षत्त्रियवैश्यकर्त्तृकवैश्यस्वामिकैकहायनगवीवधः । मासैकव्रतार्द्धम् । अज्ञानतस्तदर्द्धम् । ३ धेनवः । ७ ॥ ० कार्षापणाः । सार्द्धद्बयधेनुसङ्कलनात् । यथाशक्ति ।
ज्ञानकृतब्राह्मणक्षत्त्रियवैश्यकर्त्तृकवैश्यस्वामिकद्बिहायनगवीवधः । मासव्रतम् । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । ५ धेनवः । १५ कार्षापणाः । यथाशक्ति ।
ज्ञानकृतब्राह्मणक्षत्त्रियवैश्यकर्त्तृकवैश्यस्वामिकत्रिहायणगवीवधः । पादोनं द्विगुणमासव्रतम् । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । ८ धेनवः । २२ ॥ ० कार्षापणाः । सार्द्धसप्तधेनुसङ्कलनात् । यथाशक्ति ।
ज्ञानकृतब्राह्मणक्षत्त्रियवैश्यकर्त्तृकशूद्रस्वामिकैकहायनगवीवधः । १ प्राजापत्यम् । अज्ञानतस्तदर्द्धम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
ज्ञानकृतब्राह्मणक्षत्त्रियवैश्यकर्त्तृकशूद्रस्वामिकद्बिहायनगवीवधः । २ प्राजापत्ये । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । २ धेनू । ६ कार्षापणाः । यथाशक्ति ।
ज्ञानकृतब्राह्मणक्षत्त्रियवैश्यकर्त्तृकशूद्रस्वामिकत्रिहायणगवीवधः । ३ प्राजापत्यानि । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । ३ धेनवः । ९ कार्षापणाः । यथाशक्ति ।
क्षीणाया गोरक्षीणत्वभ्रमेणाहारप्रचारनिर्गमरोधनिमित्तवधः । प्राजापत्यपादः । १ धेनुः । ॥। ० पणाः । धेनुपादसङ्कलनात् । यथाशक्ति ।
क्षैण्यज्ञाने प्रायिकमरणं ज्ञात्वा प्रवृत्तस्य चान्द्रायणपदः । इदन्तु सर्व्वस्वामिकायाः सर्व्ववयस्काया गोः सर्व्वकर्त्तृकवधे बोद्धव्यम् । २ धेनू । ५ ॥ ० कार्षापणाः । पादार्द्धोनधेनुद्बयसङ्कलनात् । यथाशक्ति ।
क्षीणाया गोरक्षीणत्वभ्रमेण अकालबन्धनायथाबन्धननिमित्तवधः । प्राजापत्यपादद्वयम् । १ धेनुः । १ ॥ ० कार्षापणाः । धेन्वर्द्ध सङ्कलनात् । यथाशक्ति ।
क्षैण्यज्ञाने तु प्रायिकमरणं ज्ञात्वा प्रवृत्तस्य चान्द्रायणपादद्बयम् । एतदपि सर्व्वस्वामिकायाः सर्व्ववयस्काया गोः सर्व्वकर्त्तृकवधे बोद्धव्यम् । ४ धेनवः । ११ । ० कार्षापणाः । पादोनधेनुचतुष्टयसङ्कलनात् । यथाशक्ति ।
क्षीणाया गोरक्षीणत्वभ्रमेण हलशकटादियोजननिमित्त वधः । प्राजापत्यपादत्रयम् । १ धेनुः । २ । ० कार्षापणाः । पादोनधेनुसङ्कलनात् । यथाशक्ति ।
क्षैण्यज्ञाने तु चान्द्रायणपादत्रयम् । ६ धेनवः । १६ ॥। ० कार्षापणाः । पादोनसार्द्धसप्तधेनुसङ्कलनात् । यथाशक्ति ।
क्षीणाया गोरक्षीणत्वभ्रमेण कूपावटादिषु भयादिना निपातनेन शास्त्रीयदण्डनिपातनेन च वधः । प्राजापत्यम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
क्षैण्यज्ञाने प्रायिकमरणं ज्ञात्वा प्रवृत्तस्य चान्द्रायणम् । एतदपि सर्व्वस्वामिकादिविषयम् । यद्यत्स्वामिकयद्यत्-
अथोपपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
कर्त्तृकयद्यद्गववधे यद्यत्प्रायश्चित्तमुक्तं अप्रवृत्तप्रवर्त्तकरूपप्रयोजकस्य तत्तत् प्रायश्चित्तस्य पादत्रयम् । प्रवृत्तप्रवर्त्तकरूपप्रयोजकस्य पादद्बयम् । स्वल्पप्रहर्त्तृरूपानुग्राहकस्य पादत्रयम् । वध्यप्रतिरोधकरूपानुग्राहकस्य पादद्वयम् । ८ धेनवः । २२ ॥ ० कार्षापणाः । सार्द्धसप्तधेनुसङ्कलनात् । यथाशक्ति ।
ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकशूद्रेतरस्वामिकगवापालननिमित्तवधः । सेतिकर्त्तव्यताकप्राजापत्यम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । इति कर्त्तव्यता यथा । सशिखं वपनं कार्य्यं त्रिसन्ध्यमवगाहनम् । शृङ्गैर्वापि खुरैर्युक्तं लाङ्गूलश्रवणादिभिः ॥ आर्द्रमेव हि तच्चर्म्म परिधाय स गां व्रजेत् । तासां मध्ये वसेद्रात्रौ दिवा ताभिः समं व्रजेत् ॥ ब्राह्मणस्य विशेषेण तथा राजन्यवैश्ययोः । प्रायश्चित्ते ततश्चीर्णे कुर्य्याद्ब्राह्मणभोजनम् ॥ अनडुत्सहितां गाञ्च दद्याद्बिप्राय दक्षिणाम् ॥ इति पराशरोक्ता । २ धेनू । ६ कार्षापणाः । १ वृषः १ गौः । अशक्तौ ६ कार्षापणाः ।
ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकशूद्रस्वामिकगवापालननिमित्तवधः । प्राजापत्यद्वयम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । २ धेनू । ६ कार्षापणाः । यथाशक्ति ।
ब्राह्मणक्षत्त्रियवैश्यशूद्रकर्त्तृकशूद्रेतरस्वामिकाप्राप्तदम्यावस्थगोवत्सापालननिमित्तवधः । अप्राप्तदम्यावस्था तु त्रिहायणपर्य्यन्तम् । सेतिकर्त्तव्यताकप्राजापत्यपादः । धेनोरर्द्धस्यासम्भवात् १ एका धेनुः । १ ॥ ० कार्षापणाः । १ ॥ ० कार्षापणाः ।
ब्राह्मणक्षत्त्रियवैश्यशूद्रकर्त्तृकशूद्रस्वामिकाप्राप्तदम्यावस्थगोवत्सापालननिमित्तवधः । प्राजापत्यव्रतद्बयपादः । धेनोरर्द्धस्यासम्भवात् १ एका धेनुः । १ ॥ ० कार्षापणाः । यथाशक्ति ।
उत्सृष्टवृषवत्सतर्य्योर्वधः । भूतपूर्ब्बस्वामिकगववधप्रायश्चित्तद्विगुणम् । पूर्ब्बस्वाम्यज्ञाने ब्राह्मणस्वामिकगववधद्विगुणप्रायश्चित्तम् ।
गवां शृङ्गभङ्गास्थिभङ्गचर्म्मनिर्म्मोचनलाङ्गूलच्छेदनम् । दशरात्रं वज्रव्रतम् । मासार्द्धयवपानम् । प्राजापत्यं वा । वज्रव्रतं यथा । गोमूत्रेण समायुक्तं यावकञ्चोपयोजयेत् । एकाहे नैव कृच्छ्रोऽयमुक्तश्चाङ्गिरसा स्वयम् । सर्व्वपापहरो दिव्यो नाम्ना वज्र इति स्थितः ॥ * ॥ शृङ्गभङ्गादिना षण्मासाभ्यन्तरे गोर्मरणे अन्यूनं वधप्रायश्चित्तं करणीयम् । गुरुणा समेन वा तेन प्रायश्चित्तेन शृङ्गभङ्गादिप्रायश्चित्तसिद्धिः । षण्मासोत्तरमरणे शृङ्गभङ्गादिप्रायश्चित्तमात्रं कर्त्तव्यम् ॥ १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
गवां मुष्कमोषः । यत्कर्त्तृकयत्स्वामिकगववधे यत्प्रायश्चित्तमुक्तं तत्कर्त्तृकतत्स्वामिकगवमुष्कमोषे तत्प्रायश्चित्तम् । मृत्युलिङ्गच्छेदयोस्तुल्यत्वाभिधानात् । अत्र प्रयोजकभेदस्यार्द्धं पादोनञ्च ।
अथोपपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
वृषस्य स्वयं ब्राह्मणकर्त्तृकहलशकटादियोजनम् । प्राजापत्यद्बयम् । २ धेनू । ६ कार्षापणाः । यथाशक्ति ।
योषिद्गवां ब्राह्मणकर्त्तृकहलशकटादियोजनम् । ४ प्राजापत्यानि । ब्राह्मणेतरेषां प्राजापत्यद्वयम् । ४ धेनवः । १२ कार्षापणाः । यथाशक्ति ।
उत्सृष्टवृषस्य कपिलायाश्च ब्राह्मणकर्त्तृ कहलशकटादियोजनम् । यतिचान्द्रायणद्बयम् । ब्राह्मणेतरेषां यतिचान्द्रायणैकम् । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
गोमांसखादके गोविक्रयविनिमयादिः । विक्रयादिमात्रे अज्ञानकृततत्तत्कर्त्तृकतत्तत्स्वामिकगववधप्रायश्चित्तार्द्धम् । गोमांसखादककर्त्तृकतद्गववधे तु अज्ञानकृततत्तत्कर्त्तृकतत्तत्स्वामिकगववधोक्तसंपूर्णप्रायश्चित्तम् ।
अथ गोवधापवादः । तत्र पराशरः ।

“धूर्य्येषु वहमानेषु दण्डेनाभिहतेषु च । काष्ठेन लेष्टुना वापि पाषाणेन तु ताडितः ॥ मूर्च्छितः पतितश्चैव मृतो वा सद्य एव च । एवंगतानां धूर्य्याणां प्रवक्ष्यामि यथाविधि ॥ उत्थितन्तु पदं गच्छेत् पञ्च सप्त दशापि वा । ग्रासं वा यदि गृह्णाति तोयं वा पिबति स्वयम् । पूर्ब्बव्याधिविनष्टानां प्रायश्चित्तं न विद्यते ॥” सम्बर्त्तः ।

“यन्त्रणे गोचिकित्सायां मूढगर्भविमोचने । यत्ने कृते विपत्तिः स्यात् प्रायश्चिचं न विद्यते ॥ औषधं स्नेहमाहारं ददद्गोब्राह्मणेषु च । प्राणिनां प्राणवृत्त्यर्थं प्रायश्चित्तं न विद्यते ॥ दाहच्छेदसिराभेदप्रयत्नैरुपकुर्व्वताम् । द्बिजानां गोहितार्थं वा प्रायश्चित्तं न विद्यते ॥” याज्ञवल्क्यः ।

“क्रियमाणोपकारे तु मृते विप्रे न पातकम् । विपाके गोवृषाणाञ्च भेषजाग्निक्रियासु च ॥” मिताक्षराधृतपराशरवचनम् ।

“कूपे खाते च धर्म्मार्थे गृहदाहे च ये मृताः । ग्रामदाहे तथा घोरे प्रायश्चित्तं न विद्यते ॥” भवदेवभट्टधृतवचनम् ।

“शृङ्गभङ्गेऽस्थिभङ्गेच कटिभङ्गे तथैव । यदि जीवति षण्मासान् प्रायश्चित्तं न विद्यते ॥” सम्बर्त्तः ।

“देवद्रोण्यां विहारे च कूपेष्वायतनेषु च । एषु गोषु प्रपन्नासु प्रायश्चित्तं न विद्यते ॥” देवद्रोणी स्वयम्भूलिङ्गाद्यवस्थानगह्वरम् । विहारो गवां मैथुनम् । आयतनं सीमानिबन्धनस्थानम् । अत्र कूपायतनकर्त्तुर्दोषाभावो न तु गोस्वामिनः । इति

प्रायश्चित्तविवेकप्रायश्चित्ततत्त्वस्मृतिसारमौर्खहसम्मतं गोवधप्रायश्चित्तं समाप्तम् ॥ * ॥

अथोपपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
ब्राह्मणक्षत्त्रियकर्त्तृकज्ञानकृतक्षत्त्रियवधः । अज्ञानकृतब्रह्महत्याप्रायश्चित्तपादः । स तु त्रैवार्षिकव्रतरूपः । ४५ धेनवः । १३५ कार्षापणाः । २५ गावः । अशक्तौ २५ कार्षापणाः ।
ब्राह्मणक्षत्त्रियकर्त्तृकाज्ञानकृतक्षत्त्रियवधः । सार्द्धवार्षिकव्रतम् । सार्द्धद्बाविंशतिधेन्वसम्भवात् २३ धेनवः । ६७ ॥ ० कार्षापणाः । १३ गावः । अशक्तौ १२ ॥ ० कार्षापणाः ।
वैश्यकर्त्तृकज्ञानकृतक्षत्त्रियवधः । षाड्वार्षिकव्रतम् । ९० धेनवः । २७० कार्षापणाः । ५० गावः । अशक्तौ ५० कार्षापणाः ।
वैश्यकर्त्तृकाज्ञानकृतक्षत्त्रियवधः । त्रैवार्षिकव्रतम् । ४५ धेनवः । १३५ कार्षापणाः । २५ गावः । अशक्तौ २५ कार्षापणाः ।
शूद्रकर्त्तृकज्ञानकृतक्षत्त्रियवधः । नववार्षिकव्रतम् । १३५ धेनवः । ४०५ कार्षापणाः । ७५ गावः । अशक्तौ ७५ कार्षापणाः ।
शूद्रकर्त्तृकाज्ञानकृतक्षत्त्रियवधः । सार्द्धचतुर्वार्षिकव्रतम् । सार्द्धसप्तषष्टिधेन्वसम्भवात् ६८ धेनवः । २०२ ॥ ० कार्षापणाः । ३८ गावः । अशक्तौ ३७ ॥ ० कार्षापणाः ।
ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवैश्यवधः । ब्रह्महत्याव्रताष्टमभागः । स च सार्द्धवार्षिकव्रतरूपः । सार्द्धद्वाविंशतिधेन्वसम्भवात् २३ धेनवः । ६७ ॥ ० कार्षापणाः । १३ गावः । अशक्तौ १२ ॥ ० कार्षापणाः ।
ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकाज्ञानकृतवैश्यवधः । ब्रह्महत्याव्रतषोडषभागः । स च नवमासिकव्रतरूपः । सपादैकादशधेन्वसम्भवात् १२ धेनवः । ३३ ॥। ० कार्षापणाः । ७ गावः । अशक्तौ ६ । ० कार्षापणाः ।
अथानुपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
शूद्रकर्त्तृकज्ञानकृतवैश्यवधः । ब्रह्महत्याव्रतचतुर्थभागः । स च त्रैवार्षिकव्रतरूपः । ४५ धेनवः । १३५ कार्षापणाः । २५ गावः । अशक्तौ २५ कार्षापणाः ।
शूद्रकर्त्तृकाज्ञानकृतवैश्यवधः । ब्रह्महत्याव्रताष्टमभागः । स च सार्द्धवार्षिकव्रतरूपः । सार्द्धद्बाविशतिधेन्वसम्भवात् २३ धेनवः । ६७ ॥ ० कार्षापणाः । १३ गावः । अशक्तौ १२ ॥ ० कार्षापणाः ।
ब्राह्मणक्षत्त्रियवैश्यशूद्रकर्त्तृकज्ञानकृतशूद्रवधः । ब्रह्महत्याव्रतषोडशभागः । स च नवमासिकव्रतरूपः । सपादैकादशधेन्वसम्भवात् १२ धेनवः । ३३ ॥। ० कार्षापणाः । ७ गावः । अशक्तौ ६ । ० कार्षापणाः ।
ब्राह्मणक्षत्त्रियवैश्यशूद्रकर्त्तृकाज्ञानकृतशूद्रवधः । ब्रह्महत्याव्रतद्बात्रिंशत्तमभागः । स च सार्द्धचतुर्म्मासिकव्रतरूपः । सर्व्वत्र बालवृद्धस्त्रीणामर्द्धम् । एकस्य बालत्वादिधर्म्मद्बयवत्त्वे पादः । पादार्द्धाधिकसार्द्धपञ्चधेन्वसम्भवात् ६ धेनवः । १६ ॥। ० कार्षापणाः । ४ गावः । अशक्तौ ३ ० कार्षापणाः ।
ब्राह्मणक्षत्त्रियवैश्यशूद्रकर्त्तृकज्ञानकृतवृत्तिस्थशूद्रवधः । ब्रह्महत्याव्रतद्वादशभागः । स च वार्षिकव्रतरूपः । अज्ञानतस्त्वेतदर्द्धम् । १५ धेनवः । १५ कार्षापणाः । ९ गावः । अशक्तौ ८ । ६ ॥ = कार्षापणाः ।
सर्व्ववर्णकर्त्तृकज्ञानकृतप्रतिलोमजातवधः अर्थात् अपकृष्टशूद्रवधः । चान्द्रायणव्रतम् । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
सर्व्ववर्णकर्त्तृ काज्ञानकृतापकृष्टशूद्रवधः । पराकव्रतम् । सर्व्वत्र बालवृद्धस्त्रीणामर्द्धम् । एकस्य बालत्वादिधर्म्मद्वयवत्त्वे पादः । ५ धेनवः । १५ कार्षापणाः । यथाशक्ति ।
ब्राह्मणकर्त्तृकज्ञानकृतब्राह्मणीवधः । षाड्वार्षिकं महाव्रतम् । अज्ञानतस्त्वेतदर्द्धम् । ९० धेनवः । २७० कार्षापणाः । ५० गावः । ५० कार्षापणा वा ।
क्षत्त्रियकर्त्तृकज्ञानकृतब्राह्मणीवधः । द्बादशवार्षिकव्रतम् । अज्ञानतस्त्वेतदर्द्धम् । १८० धेनवः । ५४० कार्षापणाः । १०० गावः । १०० कार्षापणा वा ।
वैश्यकर्त्तृकज्ञानकृतब्राह्मणीवधः । अष्टादशवार्षिकव्रतम् । अज्ञानतस्त्वेतदर्द्धम् । २७० धेनवः । ८१० कार्षापणाः । १५० गावः । १५० कार्षापणा वा ।
शूद्रकर्त्तृकज्ञानकृतब्राह्मणीवधः । चतुर्व्विंशतिवार्षिकव्रतम् । अज्ञानतस्त्वेतदर्द्धम् । सर्व्वत्र बालवृद्धस्त्रीणामर्द्धम् । एकस्य बालत्वाद्युभयधर्म्मवत्त्वे पादः । ३६० धेनवः । १०८० कार्षापणाः । २०० गावः । अशक्तौ २०० कार्षापणाः ।
ब्राह्मणक्षत्त्रियकर्त्तृकज्ञानकृतक्षत्त्रियावधः । त्रैवार्षिकव्रतम् । अज्ञानतस्त्वेतदर्द्धम् । ४५ धेनवः । १३५ कार्षापणाः । २५ गावः । २५ कार्षापणा वा ।
वैश्यकर्त्तृकज्ञानकृतक्षत्त्रियावधः । षाड्वार्षिकव्रतम् । अज्ञानतस्त्वेतदर्द्धम् । ९० धेनवः । २७० कार्षापणाः । ५० गावः । ५० कार्षापणा वा ।
शूद्रकर्त्तृकज्ञानकृतक्षत्त्रियावधः । नववार्षिकव्रतम् । अज्ञानतस्त्वेतदर्द्धम् । सर्व्वत्र बालवृद्धस्त्रीणामर्द्धम् । एकस्य बालत्वाद्युभयधर्म्मवत्त्वे षादः । १३५ धेनवः । ४०५ कार्षापणाः । ७५ गावः । अशक्तौ ७५ कार्षापणाः ।
ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवैश्यावधः । वार्षिकव्रतम् । अज्ञानतस्त्वेतदर्द्धम् । १५ धेनवः । ४५ कार्षापणाः । ९ गावः । ८ । ६ ॥। कार्षापणा वा ।
शूद्रकर्त्तृकज्ञानकृतवैश्यावधः । द्बिवार्षिकव्रतम् । अज्ञानतस्त्वेतदर्द्धम् । स्त्रीबालवृद्धानामर्द्धम् । एकस्य स्त्रीत्वाद्युभयधर्म्मवत्त्वे पादः । ३० धेनवः । ९० कार्षापणाः । १७ गावः । अशक्तौ १६ ॥ = १३ ॥ कार्षापणाः ।
ब्राह्मणक्षत्त्रियवैश्यशूद्रकर्त्तृकशूद्रावधः । वार्षिकव्रतम् । अज्ञानतस्तु एतदर्द्धम् । स्त्रीबालवृद्धानामर्द्धम् । एकस्य स्त्रीत्वाद्युभयधर्म्मवत्त्वे पादः । १५ धेनवः । ४५ कार्षापणाः । ९ गावः । अशक्तौ ८ । ६ ॥। कार्षापणाः ।
आत्रेयीवधः । यत्कर्त्तृकयद्वर्णस्त्रीवधे यत्प्रायश्चित्तं तद्द्वैगुण्यम् ।
आत्रेयी त्रिविधा । अत्रिगोत्रा ऋतुस्नाता गर्भिणी च
अथोपपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
ब्राह्मणकर्त्तृकज्ञानकृतसकृत्सवर्णव्यभिचरितब्राह्मणीवधः । वार्षिकव्रतम् । अज्ञानतस्त्वेतदर्द्धम् । १५ धेनवः ४५ कार्षापणाः । ९ गावः । अशक्तौ ८ । ६ ॥। कार्षापणाः ।
क्षत्त्रियकर्त्तृकज्ञानकृतसकृत्सवर्णव्यभिचरितब्राह्मणीवधः । द्बिवार्षिकव्रतम् । अज्ञानतस्त्वेतदर्द्धम् । ३० धेनवः । ९० कार्षापणाः । १७ गावः । अशक्तौ १६ ॥ १३ ॥ कार्षापणाः ।
वैश्यकर्त्तृकज्ञानकृतसकृत्सवर्णव्यभिचरितब्राह्मणीवधः । त्रैवार्षिकव्रतम् । अज्ञानतस्त्वेतदर्द्धम् । ४५ धेनवः । १३५ कार्षापणाः । २५ गावः । अशक्तौ २५ कार्षापणाः ।
शूद्रकर्त्तृकज्ञानकृतसकृत्सवर्णव्यभिचरितब्राह्मणीवधः । चतुर्वार्षिकव्रतम् । अज्ञानतस्त्वेतदर्द्धम् । बालवृद्धस्त्रीणामर्द्धम् । एकस्य उभयधर्म्मवत्त्वे पादः । ६० धेनवः । १८० कार्षापणाः । ३४ गावः । अशक्तौ ३३ । ६ ॥। कार्षापणाः ।
ब्राह्मणकर्त्तृकाज्ञानकृतो भूयो व्यभिचरिताया अधमवर्णव्यभिचरितायाश्च ब्राह्मण्या वधः । दृतिदानम् । ज्ञानकृते तु द्बैगुण्यम् । क्षत्त्रियस्य एतद्द्विगुणम् । वैश्यस्य त्रिगुणम् । शूद्रस्य चतुर्गुणम् । यथाशक्ति ।
ब्राह्मणक्षत्त्रियकर्त्तृ काज्ञानकृतो भूयो व्यभिचरिताया अधमवर्णव्यभिचरितायाश्च क्षत्त्रियाया वधः । धनुर्दानम् । कामतो द्वैगुण्यम् । वैश्यस्य एतद्द्विगुणम् । शूद्रस्य त्रिगुणम् । यथाशक्ति ।
ब्राह्मणक्षत्त्रियवैश्यकर्त्तृ काज्ञानकृतो भूयो व्यभिचरिताया अधमवर्णव्यभिचरितायाश्च वैश्याया वधः । छागदानम् । कामतस्त्वेतद्द्विगुणम् । शूद्रस्य एतद्द्विगुणम् । यथाशक्ति ।
ब्राह्मणक्षत्त्रियवैश्यशूद्रकर्त्तृ काज्ञानकृतो मूयो व्यभिचरिताया अधमवर्णव्यभिचरितायाश्च शूद्राया वधः । मेषदानम् । ज्ञानतो द्वैगुण्यम् । सर्व्वत्र स्त्रीबालवृद्धानामर्द्धम् । एकस्य उभयधर्म्मवत्त्वे पादः । प्रयोजकादीनां पादपादहानिः । यथाशक्ति ।
ब्राह्मणकर्त्तृ कज्ञानकृतब्राह्मणीगर्भवधः । द्वादशवार्षिकव्रतम् । अज्ञानतोऽर्द्धम् । १८० धेनवः । ५४० कार्षापणाः । १०० गावः । अशक्तौ १०० कार्षापणाः ।
ब्राह्मणकर्त्तृ कज्ञानकृतक्षत्त्रियागर्भवधः । त्रैवार्षिकव्रतम् । अज्ञानतोऽर्द्धम् । ४५ धेनवः । १३५ कार्षापणाः । २५ गावः । अशक्तौ २५ कार्षापणाः ।
ब्राह्मणकर्त्तृ कज्ञानकृतवैश्यागर्भवधः । सार्द्धवार्षिकव्रतम् । अज्ञानतोऽर्द्धम् । सार्द्धद्वाविंशतिधेन्वसम्भवात् २३ धेनवः । ६७ ॥ ० कार्षापणाः । १३ गावः । अशक्तौ १२ ॥ ० कार्षापणाः ।
ब्राह्मणकर्त्तृ कज्ञानकृतशूद्रागर्भवधः । नवमासिकव्रतम् । अज्ञानतोऽर्द्धम् । सपादैकादशधेन्वसम्भवात् १२ धेनवः । ३३ ॥। ० कार्षापणाः । ७ गावः । अशक्तौ ६ । ० कार्षापणाः ।
क्षत्त्रियकर्त्तृ कज्ञानकृतब्राह्मणीगर्भवधः । चतुर्विंशतिवार्षिकव्रतम् । अज्ञानतोऽर्द्धम् । ३६० धेनवः । १०८० कार्षापणाः । २०० गावः । अशक्तौ २०० कार्षापणाः ।
क्षत्त्रियकर्त्तृ कज्ञानकृतक्षत्त्रियागर्भवधः । त्रैवार्षिकव्रतम् । अज्ञानतोऽर्द्धम् । ४५ धेनवः । १३५ कार्षापणाः । २५ गावः । अशक्तौ २५ कार्षापणाः ।
क्षत्त्रियकर्त्तृ कज्ञानकृतवैश्यागर्भवधः । सार्द्धवार्षिकव्रतम् । अज्ञानतोऽर्द्धम् । सार्द्धद्वाविंशतिधेन्वसम्भवात् २३ धेनवः । ६७ ॥ ० कार्षापणाः । १३ गावः । अशक्तौ १२ ॥ ० कार्षापणाः ।
क्षत्त्रियकर्त्तृ कज्ञानकृतशूद्रागर्भवधः । नवमासिकव्रतम् । अज्ञानतोऽर्द्धम् । सपादैकादशधेन्वसम्भवात् १२ धेनवः । ३३ ॥। ० कार्षापणाः । ७ गावः । अशक्तौ ६ । ० कार्षापणाः ।
वैश्यकर्त्तृ कज्ञानकृतब्राह्मणीगर्भवधः । षट्त्रिंशद्बार्षिकव्रतम् । अज्ञानतोऽर्द्धम् । ५४० धेनवः । १६२० कार्षापणाः । ३०० गावः । अशक्तौ ३०० कार्षापणाः ।
अथोपपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
वैश्यकर्त्तृ कज्ञानकृतक्षत्त्रियागर्भवधः । षाड्वार्षिकव्रतम् । अज्ञानतोऽर्द्धम् । ९० धेनवः । २७० कार्षापणाः । ५० गावः । अशक्तौ ५० कार्षापणाः ।
वैश्यकर्त्तृ कज्ञानकृतवैश्यागर्भवधः । सार्द्ध वार्षिकव्रतम् । अज्ञानतोऽर्द्धम् । सार्द्धद्वाविंशतिधेन्वसम्मवात् २३ धेनवः । ६७ ॥ ० कार्षापणाः । १३ गावः । अशक्तौ १२ ॥ ० कार्षापणाः ।
वैश्यकर्त्तृ कज्ञानकृतशूद्रागर्भवधः । नवमासिकव्रतम् । अज्ञानतोऽर्द्धम् । सपादैकादशधेन्वसम्भवात् १२ धेनवः । ३३ ॥। ० कार्षापणाः । ७ गावः । अशक्तौ ६ । ० कार्षापणाः ।
शूद्रकर्त्तृ कज्ञानकृतब्राह्मणीगर्भवधः । अष्टचत्वारिंशद्बार्षिकव्रतम् । अज्ञानतोऽर्द्धम् । ७२० धेनवः । २१६० कार्षापणाः । ४०० गावः । अशक्तौ ४०० कार्षापणाः ।
शूद्रकर्त्तृ कज्ञानकृतक्षत्त्रियागर्भवधः । नववार्षिकव्रतम् । अज्ञानतोऽर्द्धम् । १३५ धेनवः । ४०५ कार्षापणाः । ७५ गावः । अशक्तौ ७५ कार्षापणाः ।
शूद्रकर्त्तृ कज्ञानकृतवैश्यागर्भवधः । त्रैवार्षिकव्रतम् । अज्ञानतोऽर्द्धम् । ४५ धेनवः । १३५ कार्षापणाः । २५ गावः । अशक्तौ २५ कार्षापणाः ।
शूद्रकर्त्तृ कज्ञानकृतशूद्रागर्भवधः । नवमासिकव्रतम् । अज्ञानतोऽर्द्धम् । ब्राह्मण्यादिगर्भे पुंस्त्वेन ज्ञाते विशेषेणाज्ञाते चोक्तं प्रायश्चित्तम् । स्त्रीत्वेन ज्ञाते सर्व्वत्रार्द्धं प्रायश्चित्तं ज्ञेयम् । सर्व्वत्र स्त्रीबालवृद्धानामर्द्धम् । प्रयोजकादीनां पादपादहानिः । सपादैकादशधेन्वसम्भवात् १२ धेनवः । ३३ ॥। ० कार्षापणाः । ७ गावः । अशक्तौ ६ । ० कार्षापणाः ।
यद्यपि गजाश्वादिवधः सङ्करीकरणपापमिदं तथापि हिंसासाजात्यादुपपातकप्रकरणे तत्प्रायश्चित्तं निरूप्यते ।
वृथासामान्यपशुघातः । वृथेतिग्रहणात् यागाद्यर्थे प्रायश्चित्ताद्यभावः । प्राजापत्यम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
राजसम्बन्ध्युत्तमगजवधः । पञ्चनीलवृषदानम् । २५ कार्षापणाः । यथाशक्ति ।
अत्यन्तोत्तमवाजिरासभवधः । चान्द्रायणम् । ८ धेनवः । सार्द्धसप्तधेन्वसम्भवात् । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
अश्ववधः । वासोयुगदानम् । एतच्च ज्ञानतः । अज्ञानतस्तदर्द्धम् । यथाशक्ति ।
मृगमहिषवराहकुञ्जरगण्डतरक्षुऋक्षवानरसिंहव्याघ्रपृषतचमररुरुकादीनां वधः । अहोरात्रोपवासान्ते घृतघटदानम् । एतच्चाज्ञानतः सकृद्वधविषयम् । ज्ञानतो द्वैगुण्यम् । उपवासासामर्थे । अष्ट पणाः । यथाशक्ति ।
अजाव्यादिवधः । त्रिरात्रोपवासः । एतदज्ञानतोऽत्यन्तधार्म्मिकब्राह्मणकर्त्तृकसकृद्बधे वेदितव्यम् । १ ॥ ० कार्षापणः । हिरण्यं वस्त्रं वा ।
शक्तस्य एकहायनवृषदानम् । वृषमूल्यम् ५ कार्षापणाः । यथाशक्ति ।
अशक्तस्य धेनुदानम् । तदशक्तौ प्राजापत्यव्रतम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
अभ्यासे मासं यावकपानम् । २ धेनू । ६ कार्षापणाः । यथाशक्ति ।
अत्यन्ताभ्यासे कृच्छ्रातिकृच्छ्रम् । ४ धेनवः । १२ कार्षापणाः । यथाशक्ति ।
मार्जारगोधानकुलमण्डूकश्वपतत्रिमूषिकसर्पवधः । पतत्री गृहपक्षी । त्र्यहं क्षीरपानम् । पादिककृच्छ्रं वा । एतत्सकृदज्ञानविषयम् । १ कार्षापणाः । यथाशक्ति ।
ज्ञानतोऽभ्यासे द्वादशरात्रं कृच्छ्रम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । यत्किञ्चिदधिकसपादधेन्वसम्भवात् २ धेन । ४ कार्षापणाः । यथाशक्ति ।
अथोपपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
कृष्णसर्पवधे तीक्ष्णाग्रलौहकीलिकादानमादौ कर्त्तव्यम् । सर्पजातीयषण्डवधे पलालभारः सीसकमाषश्च दातव्यः । एतज्ज्ञानतः । एतदशक्तौ व्रतादिकं कर्त्तव्यम् ।
अथ सामान्यपक्षिवधः । नक्तव्रतम् । द्बिरक्तिपरिमितरौप्यदानं वा । १३ ।- पणौ । नक्तव्रतस्योपवासतृतीयभागत्वात् । यथाशक्ति ।
कामतोऽत्यन्ताभ्यासे शूद्रहत्याव्रतम् । गुरुगोवधव्रतं वा । स्त्रीशूद्रबालवृद्धानामर्द्धम् । एकस्य स्त्रीत्वाद्युभयधर्म्मवत्त्वे पादः । १२ धेनवः । ३६ कार्षापणाः । ७ गावः । अशक्तौ ६ । ० कार्षापणाः ।
अथ विशेषपक्षिवधः । वकवलाका-हंससारसकारण्डवचक्रवाककुररगृध्रश्येनखञ्जरीटटिट्टिभोलूक-शुकशारिकातित्तिरिमयूरकाककलविङ्ककालञ्जकमद्गुकपोतपारावतादीनां वधः । अहोरात्रोपवासः सर्व्वबीजदानञ्च । एतदज्ञानविषयम् । उपवासानुकल्पः ॥ ० पणाः । सर्व्वबीजमूल्यम् । ० पणाः । यथाशक्ति ।
ज्ञानकृते त्र्यहोपवासः । शक्तस्य गोदानम् । तत्रायं विशेषः । शुकवधे द्बिहायनगवदानम् । क्रौञ्चवधे त्रिहायणगवदानम् । क्रौञ्चशुकभासमयूरश्येनगृध्रवधे वत्सतरीदानम् । अत्र वृषदानवत्सतरीदानयोर्व्यवस्था शक्ताशक्तविषयिका । एतद्दानाशक्तानां व्रतादिकम् । १ ॥ ० कार्षापणः । यथाशक्ति ।
कोकिलशुककपोतकपिञ्जलकुक्कुटटिट्टिभखर्ज्जूरखञ्जरीटानां पुरुषभारपरिमितानां वधः । उत्कृष्टशूद्रहत्याव्रतम् । १५ धेनवः । ४५ कार्षापणाः । ९ गावः । अशक्तौ ८ । ६ ॥। कार्षापणाः ।
मत्समण्डूकमकरशिशुमारादिजलचरवधः । सप्तरात्रब्रह्महत्याव्रतम् । एतदज्ञानतः सकृद्वधे । १ कार्षापणः । ११ ॥।- पणौ ।
अहोरात्रोपवासः यथाशक्तिलवणदानञ्च । एतत् कामतः सकृत् । अभ्यासात्यन्ताभ्यासयोस्तु मलावहप्रायश्चित्ते दर्शयिष्यते । ॥ ० पणाः उपवासानुकल्पः । १ ॥ ० कार्षापणः । लवणमूल्यम् । २ । । ३ ॥ = पणाः ।
अथ सास्थ्यनस्थिप्राणिवधः ।
सहस्रसंख्यकानां अस्थिमतां कृकलासादीनां ज्ञानकृतवधः । आब्दिकं शूद्रहत्याव्रतम् । अज्ञाने षाण्मासिकम् । १५ धेनवः । ४५ कार्षापणाः । ९ गावः । अशक्तौ ८ । ६ ॥। कार्षापणाः ।
अनस्थ्नां क्रमिकीटपतङ्गभ्रमरदंशमशकमक्षिकादीनां शकटपूरितमितानां ज्ञानकृतवधः । आब्दिकं शूद्रहत्याव्रतम् । अज्ञाने षाण्मासिकम् । १५ धेनवः । ४५ कार्षापणाः । ९ गावः । अशक्तौ ८ । ६ ॥। कार्षापणाः ।
अस्थिमतां प्रत्येकं वधः । पणदानम् । यत्किञ्चित् ।
अनस्थ्नां प्रत्येकं वधः । प्राणायामः । पणदानं वा । तथा ।
अन्नशक्त्रादिगुडादिसर्व्वरसफलपुष्पजातप्राणिवधः । दिनमेकं घृतमात्रभोजनम् । एतदज्ञाने । ज्ञाने तद्द्वैगुण्यम् । ॥ ० पणाः । यथाशक्ति ।
अभ्यासे तप्तकृच्छ्रम् । ४ धेनवः । ११ । ० कार्षापणाः । यथाशक्ति ।
अत्यन्ताभ्यासे कृच्छ्रातिकृच्छ्रम् । ६ धेनवः । १८ कार्षापणाः । यथाशक्ति ।
फलवद्वृक्षलतागुल्मच्छेदनम् । प्राजापत्यम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
अथोपपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
अफलवतामेतेषां छेदनम् । अष्टाहसाध्यवृद्धकृच्छ्रम् । २ कार्षापणौ । यथाशक्ति ।
अत्यन्तोत्कृष्टफलवद्वृक्षच्छेदनम् । चान्द्रायणम् । ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
अभ्यासादत्यन्तोत्कृष्टफलवद्वृक्षच्छेदनम् । आब्दिकव्रतम् । १५ धेनवः । ४५ कार्षापणाः । ९ गावः । अशक्तौ ८ । ६ ॥। कार्षापणाः ।
चैत्यवृक्षश्मशानसीमपुण्यस्थानसुरालयजातवृक्षच्छेदनम् । विंशतिसंख्यकोपजीव्यवृक्षच्छेदनम् । ख्यातवृक्षच्छेदनञ्च । पूर्ब्बोक्तवृक्षच्छेदनप्रायश्चित्तद्बैगुण्यादि । सर्व्वत्र स्त्रीशूद्रबालवृद्धानामर्द्धम् ।
वापीकूपारामसेतुसभातडागवप्रदेवतायतनभेदनम् । ब्राह्मणेभ्यो निवेद्य चतस्र आहुतीर्ज्जुहुयात् । इदं विष्णुरिति प्रथमां मानस्तोके इति द्वितीयां विष्णोः कर्म्माणीति तृतीयां पादोऽस्यान्त्यामिति चतुर्थीं यां देवतामुत्सादयति तस्यै देवतायै । ब्राह्मणान् भोजयेत् । एतत् सकृदल्पोपघातविषयम् । अभ्यासे महोपघाते च प्राजापत्यम् । दण्डश्च । यथा । सकृदल्पोपघाते प्रथमसाहसः २५० पणाः । अभ्यासे महोपघाते उत्तमसाहसः । १००० पणाः ।
देवताया उत्कृष्टप्रतिमाभेदनच्छेदनदहनहरणानि । चान्द्रायणम् । वाप्यादिभेदनोक्ताश्चतस्र आहुतयः । उत्तमसाहसो दण्डश्च । १००० पणाः । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
देवताया अपकृष्टप्रतिमाभेदनच्छेदनदहनहरणानि । प्राजापत्यम् । पूर्ब्बोक्तचतुराहुत्यादिदानम् । प्रथमसाहसो दण्डश्च । २५० पणाः । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
अथाभिचारः । स तु परहिंसार्थं जपहोमादिकर्म्म । अतिकृच्छ्रम् । एतत् सकृदाचरणे । अभ्यासे प्रायश्चित्तावृत्तिः । इति हिंसाप्रायश्चित्तम् ॥ * ॥ ३ धेनवः । ९ कार्षापणाः । यथाशक्ति ।
व्रात्ययाजनम् । प्राजापत्यम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
मूल्येन मृतस्य दहनवहनादिकम् । सान्तपनम् । २ धेनू । ६ कार्षापणाः । यथाशक्ति ।
अथाभक्ष्यभक्षणम् । अभक्ष्यं षड्विधम् । जातिदुष्टम् १ क्रियादष्टम् २ कालाश्रयविदूषितम् ३ संसर्गाश्रयदुष्टम् ४ सहृल्लेखम् ५ स्वभावतो दुष्टम् ६ । जातिदुष्टं लशुनगृञ्जनपलाण्डुच्छत्राकश्वेतवार्त्ताकीलालिकावर्त्तुलाकारालावूरूपम् १ क्रियादुष्टं पतितसंस्पृ ष्टम् २ कालदुष्टं ह्यस्तनं चिरसंस्थितञ्च ३ संसर्गदुष्टं सुरालशुनपेयूषादियुक्तम् ४ सहृल्लेख विचिकित्सितान्नम् ५ स्वभावदुष्टं पुरीषादि ६ । चान्द्रायणम् । एतद्गुरुतरविषयम् । विशेषानिर्द्देशे ज्ञेयम् । सार्द्धसप्तधेन्वसम्भकात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
अथोपपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
अपरञ्च । संघातान्नम् । शूद्रोपनीतान्नम् । पतितोपनीतान्नम् । शूद्रवेश्मस्थान्नञ्च ।
शूद्रस्य पक्वान्नभक्षणम् । ब्राह्मणस्य त्र्यहोपवासः । एतदज्ञानतः । १ धेनुः । अर्द्धधेन्वसम्भवात् । १ ॥ ० कार्षापणः । यथाशक्ति ।
ज्ञानतः प्राजापत्यम् । आपदि भक्षणे मनस्तापः द्रुपदां शतजपो वा । क्षत्त्रियादीनां पादपादहानिः । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
अभ्यासात् शूद्रस्य पक्वान्नभक्षणम् । ब्राह्मणस्य मासयाधकपानम् । क्षत्त्रियादीनां पादपादहानिः । २ धेनू । ६ कार्षापणाः । यथाशक्ति ।
शूद्रस्यामान्नभक्षणम् । उक्तप्रायश्चित्ततुरीयभागः । आपदि भक्षणे प्रायश्चित्ताभावः ।
अथ रजकशैलूषवेणुचर्म्मोपजीविकैवर्त्ताद्यन्त्यजान्नभक्षणम् । चान्द्रायणम् । एतत् ज्ञानाभ्यासविषयम् । अज्ञाने त्वर्द्धम् । ८ धेनवः । सार्द्धसप्तधेन्वसम्भवात् । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
ज्ञानतोऽष्टधाभ्यासे कृच्छ्राब्दव्रतम् । ३० धेनवः । ९० कार्षापणाः । १७ गावः । अशक्तौ १६ ॥ १६ ॥। कार्षापणाः ।
अज्ञानतोऽष्टधाभ्यासे एतदर्द्धम् । एतत्तु ब्राह्मणविषयम् । क्षत्त्रियादीनां पादपादहानिः । १५ धेनवः । ४५ कार्षापणाः । ९ गावः अशक्तौ ८ । ८ ॥ कार्षापणाः ।
सकृदज्ञानकृतान्त्यजोत्सृष्टाशनम् । ब्राह्मणस्य चान्द्रायणम् । ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
क्षत्त्रियस्य तप्तकृच्छ्रम् । ४ धेनवः । १२ कार्षापणाः । यथाशक्ति ।
वैश्यस्य तप्तकृच्छ्रार्द्धम् । २ धेनू । ६ कार्षापणाः । यथाशक्ति ।
शूद्रस्य तप्तकृच्छ्रपादः । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
ज्ञानत एतद्द्वैगुण्यम् ।
कापालिकान्नभक्षणम् । ज्ञानात् कृच्छ्राब्दम् । ३० धेनवः । ९० कार्षापणाः । १७ गावः । अशक्तौ १६ ॥ १६ ॥। कार्षापणाः ।
अज्ञानात् चान्द्रायणद्वयम् । एतदष्टधाभ्यस्तविषयम् । एतत् सर्व्वं ब्राह्मणस्य । क्षत्त्रियादौ पादपादहानिः । १५ धेनवः । ४५ कार्षापणाः । यथाशक्ति ।
चाण्डालश्वपचक्षत्तृसूतवैदेहकमागधायोगवानामन्त्यावसायिनामन्नभक्षणम् । ब्राह्मणस्य कामतः सकृद्भोजने चान्द्रायणम् । ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
अज्ञानतस्तप्तकृच्छ्रम् । ४ धेनवः । १२ कार्षापणाः । यथाशक्ति ।
बलाद्भोजने पराकः । ५ धेनवः । १५ कार्षापणाः । यथाशक्ति ।
अज्ञानतोऽष्टचत्वारिंशद्वारभोजने द्वादशवार्षिकव्रतम् । ज्ञानतश्चतुर्विंशतिवारभोजने एतदेव । १८० धेनवः । ५४० कार्षापणाः । १०० गावः । अशक्तौ १०० कार्षापणाः ।
ज्ञानतोऽष्टचत्वारिंशद्वारभोजने चतुर्व्विंशतिवार्षिकव्रतं अव्यवहार्य्यता च । ३६० धेनवः । १०८० कार्षापणाः । २०० गावः । अशक्तौ २०० कार्षापणाः ।
सकृद्ज्ञानत आमान्नभोजने त्रिरात्रोपवासः । सर्व्वत्र क्षत्त्रियादीनां पादपादहानिः । १ ॥ ० कार्षापणः । यथाशक्ति ।
आपदि पक्वान्नभोजने क्षत्त्रियस्य सान्तपनम् । २ धेनू । ६ कार्षापणाः । यथाशक्ति ।
वैश्यस्य षड्रात्रम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
शूद्रस्य त्रिरात्रम् । १ ॥ ० कार्षापणः । यथाशक्ति ।
चाण्डालपतितादीनामुत्सृष्टान्नभक्षणम् । द्विजस्य पराकः । ५ धेनवः । १५ कार्षापणाः । यथाशक्ति ।
शूद्रस्य कृच्छ्रम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
एतत् सकृदज्ञानविषयं ज्ञानतो द्वैगुण्यादिकम् ।
अथोपपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
अथ सामान्याभोज्यान्नभोजनम् । त्र्यहोपवासः । एतत् सकृदज्ञानविषयम् । १ ॥ ० कार्षापणः । यथाशक्ति ।
ज्ञाने प्राजापत्यम् । क्षत्त्रियादीनां पादपादहानिः । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
अभोज्यान्नानि यथा । अनधीतवेदारब्धयज्ञान्नम् । ग्रामयाजिहोतृकयज्ञान्नम् । स्त्रीक्लीवहुतयज्ञान्नम् । मत्तक्रुद्धातुराणामन्नम् । केशेन कीटेन वा सह पक्वमन्नम् । कामतः पादस्पृ ष्टमन्नम् । भ्रूणघ्नादिपतितावेक्षितान्नम् । रजस्वलास्पृ ष्टान्नम् । पतत्रिणावलीढमन्नम् । शुना स्पृष्टमन्नम् । गवाघ्रातमन्नम् । घुष्टान्नम् । घोषणया दत्तमन्नमित्यर्थः । गणान्नम् । मठब्राह्मणसंघान्नमित्यर्थः । गणिकान्नम् । विद्बज्जुगुप्सितान्नम् । स्तेनान्नम् । गायनान्नम् । तक्षान्नम् । वार्द्धुषिकान्नम् । दीक्षितान्नम् । दीक्षणीययागानन्तरं यज्ञसमाप्तिपर्य्यन्तं तद्यागकर्त्तुरन्नमित्यर्थः । कदर्य्यस्यान्नम् । रज्ज्वादिनाबद्धस्यान्नम । अयोनिगडयुक्तस्यान्नम् । अभिशस्तस्यान्नम् । क्लीवान्नम् । पुंश्चल्यन्नम् । दाम्भिकान्नम् । छद्मना धर्म्मचारिणोऽन्नमित्यर्थः । शुक्तान्नम् । पर्य्युषितान्नम् । शूद्रोच्छिष्टान्नम । चिकित्सकान्नम् । व्याधान्नम् । क्रूरान्नम् । उच्छिष्टभोजिनामन्नम् । उग्रस्यान्नम् । दारुणकर्म्मणो जातिविशेषस्य वा अन्नमित्यर्थः । सूतिकोद्देशेन पक्वमन्नम् । पर्य्याचान्तम् । आचमनव्यवहितान्नमित्यर्थः । एकपंक्तिस्थानन्यानवमन्य यत्रान्ने भुज्यमाने केनचिदाचमनं क्रियते तत् पर्य्याचान्तमिति कुल्लूकभट्टः । अनर्च्चितान्नम् । अर्च्चार्हस्यावज्ञया दत्तमन्नमित्यर्थः । वृथामांसम् । अवीरान्नम् । द्विषदन्नम् । नगराधिपान्नम् । एतेषामभोज्यानामन्यतमानां भक्षणे पूर्ब्बोक्तस्त्र्यहोपवासः । एष सकृदज्ञानविषयः । १ ॥ ० कार्षापणः । यथाशक्ति ।
ज्ञाने प्राजापत्यम् । क्षत्त्रियादीनां पादपादहानिः । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
अथोपपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
पतितान्नम् । अवक्षुतान्नम् । क्षवथुसहितान्नमित्यर्थः । पिशुनान्नम् । अनृतिनामन्नम् । कूटसाक्ष्याद्यन्नमित्यर्थः । यज्ञफलविक्रायकान्नम् । शैलूषान्नम् । तुन्नवायान्नम् । कृतघ्नान्नम् । कर्म्मारान्नम् । निसादान्नम् । रङ्गावतारकान्नम् । स्वर्णकारान्नम् । वेणुजीविनामन्नम् । लौहविक्रायकान्नम् । श्ववतामन्नम् । आखेटकाद्यर्थं शुनः पोषकाणामन्नमित्यर्थः । शौण्डिकवृत्तिद्बिजान्नम् । चेलनिर्णेजकस्यान्नम् । वस्त्रधावकस्यान्नमित्यर्थः । रञ्जकान्नम् । कुसुम्भादिना वस्त्ररागकारकस्यान्नमित्यर्थः । नृशंसान्नम् । गृहस्थितोपपतिकान्नम् । उपपतिमर्षकान्नम् । गेहे ज्ञातं भार्य्याजारं ये सहन्ते तेषामन्नमित्यर्थः । स्त्रीजितान्नम् । अनिर्द्दशं प्रेतान्नम् । अनिर्गताशौचञ्च सूतिकान्नमित्यर्थः । अतुष्टिकरान्नञ्च ॥ ७० ॥ एतेषामभोज्यानामन्यतमानां भक्षणे पूर्ब्बोक्तस्त्र्यहोपवासः । एष सकृदज्ञानविषयः । १ ॥ ० कार्षापणः । यथाशक्ति ।
ज्ञाने प्राजापत्यम् । क्षत्त्रियादीनां पादपादहानिः । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
चाण्डालादिपतितस्पृष्टान्नभक्षणम् । अत्र पतितपदं सर्व्वधर्म्मबहिष्कृतवाचि यवनादिम्लेच्छपरं उच्छिष्टान्नभोजनप्रकरणे तथा लिखनात् अतएव चाण्डालस्पृ ष्टान्नभक्षणप्रतिज्ञायां पतितपदं पृथक् न लिखितम् । प्राजापत्यम् । एतत्सकृदज्ञाने ब्राह्मणविषयम् । ज्ञाने द्वैगुण्यम् । अभ्यासे तु प्रायश्चित्तावृत्तिः । क्षत्त्रियादीनां पाद-पादहानिः । एतत्कुण्यादिष्वभ्यासे ज्ञेयम् । रजकादिस्पृ ष्टान्नभक्षणे तु एतदर्द्धम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
पतितस्पर्शे अकृतस्नातस्य भोजनम् । याज्ञवल्क्योक्त चतुरहःसाध्यं तप्तकृच्छ्रम् । सपादधेन्वसम्भवात् २ धेनू । ३ ॥। ० कार्षापणाः । यथाशक्ति ।
अज्ञानत एतदर्द्धम् । अभ्यासे प्रायश्चित्तावृत्तिः ।
अत्यन्ताभ्यासे चान्द्रायणम् । क्षत्त्रियादीनां पादपादहानिः । चाण्डालादिस्पर्शे एतद्बोधितव्यम् । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
शूद्रादिस्पृ ष्टान्नस्य केशकीटोपहतान्नस्य च भक्षणम् । एकोपवासः । ॥ ० पणाः । यथाशक्ति ।
वृथापाकान्नभक्षणम् । तत्तु देवतापित्रतिथिभक्षणवर्जितान्नम् । प्राणायामत्रयम् घृतमात्रभोजनञ्च । एतदज्ञानतः । ज्ञानतो द्वैगुण्यम् । ॥ ० पणाः । यथाशक्ति ।
अथोपपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
वृथामांसभक्षणम् । तत्तु पितृदेवार्च्चनरहितं मांसम् । प्राजापत्यव्रतम् । एतद्ब्राह्मणस्य । क्षत्त्रियादीनां पादपादहानिः । अभ्यासे प्राजापत्यावृत्तिः । एतत् रोगिदैवपितृकर्म्मनिमन्त्रितेतरविषयम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
सामान्याभक्ष्यमांसभक्षणम् । सप्तरात्रयवागूपानम् । एतत् सकृदज्ञाने । ज्ञानतो द्वैगुण्यम् । क्षत्त्रियादीनां पादपादहानिः । एतदभ्यासे प्रायश्चित्तावृत्तिः । १ ॥ ० कार्षापणः । यथाशक्ति ।
अश्वगोकुञ्जरोष्ट्रशशकादिपञ्चनखातिरिक्तपञ्चनखक्रव्यादग्राम्यकुक्कुटानां मांसभक्षणम् । विड्वराहनरमांसभक्षणञ्च । ब्राह्मणानां सकृदज्ञानतः प्राजापत्यम् । पुनरुपनयनञ्च । ज्ञाने तु द्वैगुण्यम् । अभ्यासे उपनयनसहितप्रायश्चित्तावृत्तिः । उपनयनाशक्तौ चान्द्रायणं तदशक्तौ धेन्वष्टकम् । क्षत्त्रियादीनां पादपादहानिः । १ धेनुः । ३ कार्षापणाः । अनडुत्सहितगौः । अशक्तौ ६ कार्षापणाः ।
हंसमद्गुकाकोलकाकखञ्जरीटमत्स्यादवलाकाशुकसारिकाचक्रवाकप्लवकोककलविङ्करज्जुवालसारसदात्यूहभासकोकिलमण्डूकभुजगानामन्यतमस्य मांसभक्षणम् । विप्रस्याज्ञानतः सकृद्भोजने त्रिरात्रोपवासः । ज्ञानतो द्वैगुण्यम् । ज्ञानाभ्यासे प्रायश्चित्तावृत्तिः । क्षत्त्रियादीनां पादपादहानिः । १ ॥ ० कार्षापणः । यथाशक्ति ।
मत्स्यभक्षणम् । विप्रस्य कामतस्त्र्यहोपवासः । अकामत एतदर्द्धम् । क्षत्त्रियादीनां पादपादहानिः । १ ॥ ० कार्षापणः । यथाशक्ति ।
पृष्ठमांस-गर्भशय्याभूम्यन्तर्गतपक्वमांसर्जीषपक्वमांससूनामांसशुष्कमांसानामन्यतमस्य भक्षणम् । सूना घातनस्थली तद्भवं मांसम् । कामतः सकृद्भक्षणे त्र्यहोपवासः । अकामत एतदर्द्धम् । अभ्यासे प्रायश्चित्तावृत्तिः । एतत् ब्राह्मणस्य । क्षत्त्रियादीनां पादपादहानिः । ॥। ० पणाः । यथाशक्ति ।
वृथापायसपूपशस्कुलीकृशरसंयावशिग्रुलोहितवृक्षनिर्यासागेध्यप्रभवानां भक्षणम् । कामतस्त्र्यहोपवासः । अज्ञानतस्तदर्द्धम् । एतद्ब्राह्मणस्य । क्षत्त्रियादीनां पादपादहानिः । १ ॥ ० कार्षापणः । यथाशक्ति ।
एकाकिमिष्टान्नभक्षणम् । एकाहोपवासः । अभ्यासे द्वैगुण्यम् । ॥ ० पणाः । यथाशक्ति ।
अस्नेहाक्तपर्य्युषितान्नदधिवर्जशुक्तक्षारलवणभक्षणम् । अज्ञानत एकाहोपवासः । ॥ ० पणाः । यथाशक्ति ।
ज्ञानतस्त्र्यहोपवासः । अभ्यासे द्वैगुण्यम् । १ ॥ ० कार्षापणः । यथाशक्ति ।
वाग्दुष्टभावदुष्टभावदुष्टभाजनपक्वद्रव्यभक्षणम् । अभ्यासे त्रिरात्रयावकपानम् । ॥। ० पणाः । यथाशक्ति ।
शूद्रभाजने भिन्नकांस्ये च भो जनम् । अहोरात्रोपवासः पञ्चगव्यपानञ्च । ॥ ० पणाः । यथाशक्ति ।
कुम्भीभक्षणम् । द्बादशरात्रं पयःपानम् । सपादधेन्वसम्भवात् २ धेनू । ३ ॥। ० कार्षापणाः । यथाशक्ति ।
अथोपपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
लशुणपलाण्डुगृञ्जनभक्षणम् । रुपरसादिभिर्लशुनादितुल्यद्रव्यभक्षणञ्च । ज्ञानतश्चान्द्रायणम् । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
अज्ञानात्तप्तकृच्छ्रम् । पादोनधेनुचतुष्टयासम्भवात् ४ धेनवः । ११ । ० कार्षापणाः । यथाशक्ति ।
चिरतराभ्यासे संवत्सरयावकपानम् । एतदुभयत्र पुनरुपनयनमपि शूद्राणामुपनयनतुल्यचान्द्रायणेन सह प्रकृतव्रतस्य पादः । १५ धेनवः । ४५ कार्षापणाः । यथाशक्ति ।
सजातीयमृतसूतकिनां पक्वान्नभक्षणम् । ज्ञानतः प्राजापत्यम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
अज्ञानात् त्र्यहोपवासः । अभ्यासे द्वैगुण्यादिकम् । १ ॥ ० कार्षापणः । यथाशक्ति ।
मृतसूतकिनां ब्राह्मणक्षत्त्रियवैश्यशूद्राणामामान्नस्य ब्राह्मणकर्त्तृकभक्षणम् । विप्रस्यामान्ने प्राणायामः । क्षत्त्रियस्यामान्ने शतगायत्त्रीजपः । वैश्यस्यामान्ने पञ्चशतगायत्त्रीजपः । शूद्रस्यामान्ने अष्टसहस्रगायत्त्रीजपः । अभ्यासे द्वैगुण्यम् ।
मृतकिसूतकिजलपानम् । ब्राह्मणस्य पञ्चगव्यं पीत्वा उपवासः । एतत् सकृदज्ञाने ज्ञाने तु द्बैगुण्यम् । अभ्यासे त्वावृत्तिः । तज्जलस्पर्शे स्नानमात्रम् । क्षत्त्रियादीनां पादपादहानिः । ॥ ० पणाः । यथाशक्ति ।
नवश्राद्धान्नभोजनम् । नवश्राद्धन्तु साग्नीनां चतुर्थपञ्चमनवमैकादशाहक्रियमाणं निरग्नीनान्तु आद्यश्राद्धमात्रम् । चान्द्रायणम् । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
प्रथममासिकश्राद्धान्नभोजनम् । पराकः । ५ धेनवः । १५ कार्षापणाः । यथाशक्ति ।
त्रिपक्षे प्रेतश्राद्धान्नभोजनम् । अतिकृच्छ्रम् । ३ धेनवः । ९ कार्षापणाः । यथाशक्ति ।
द्बिमासादिषण्मासपर्य्यन्तं प्रेतश्राद्धान्नभोजनम् । प्राजापत्यम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
षण्मासादूर्द्ध्वमब्दपर्य्यन्तं प्रेतश्राद्धान्नभोजनम् । पादकृच्छ्रम् । १ कार्षापणः । यथाशक्ति ।
पुनराब्दिकश्राद्धान्नभोजनं अर्थात् सपिण्डीकरणान्नभोजनम् । एतत् स्मार्त्तमतं शूलपाणिमते तु द्बितीयसांवत्सरिकान्नभोजनम् । एकाहोपवासः । ॥ ० पणाः । यथाशक्ति ।
पत्राद्यनन्तरितहस्तदत्तानां एकहस्तदत्तानां शूद्रादत्तानाञ्चघृततैललवणव्यञ्जनपानीयपायसमाक्षिकफाणितगोरसशाकानां भक्षणम् । द्व्यहसाध्यसान्तपनम् । एतत् ज्ञानतः । अज्ञानादर्द्धम् । लौहपात्रेण परिवेशनेऽप्येतदेव प्रायश्चित्तं ज्ञेयम् । एतद् ब्राह्मणस्य । क्षत्त्रियादीनां पादपादहानिः । १ कार्षापणः । यथाशक्ति ।
अकृतापोशानस्य अकृतमौनस्य च भोजनम् । अष्टोत्तरशतगायत्त्रीजपः एतद्द्विजानामनापद्बिषयम् ।
अकृताचमनस्य पानभोजनम् । अष्टोत्तरसहस्रगायत्त्रीजपः उपवासो वा । अभ्यासे द्विगुणादि । एतत् कटुकषायताम्बूलेक्षुव्यतिरिक्तभोजनविषयम् । ॥ ० पणाः । यथाशक्ति ।
अथोपपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
यज्ञोपवीतरहितकर्त्तृकान्नभोजनम् । स्नानं शतगायत्त्रीजपः उपवासश्च । ॥ ० पणाः । यथाशक्ति ।
रेतोमूत्रपुरीषाणामन्यतमस्य भक्षणम् । ज्ञानतश्चान्द्रायणम् । ८ धेनवः । सार्द्धसप्तधेन्वसम्भवात् । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
अज्ञानतस्तप्तकृच्छ्रम् । पादोनधेनुचतुष्टयासम्भवात् ४ धेनवः । ११ । ० कार्षापणाः । यथाशक्ति ।
बलात्कारे प्राजापत्यम् । सर्व्वत्र द्विजातीनां पुनः संस्कारश्च । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
विण्मूत्रादिदूषितफलादिभक्षणम् । संसर्गमात्रे कृच्छ्रपादः । ॥। ० पणाः । यथाशक्ति ।
सन्निकृष्टे अर्थात् महत्संसर्गे कृच्छ्रार्द्धम् । एतत् रसास्वादनानुपलम्भनपक्षे अज्ञानतः सकृद्विषयम् । ज्ञानतो द्वैगुण्यम् । १ ॥ ० कार्षापणः । यथाशक्ति ।
रसाद्युपलम्भे तु गोतमोक्ततप्तकृच्छ्रं द्वादशाहसाध्यम् । अज्ञानत उपलम्भे अर्द्धम् । क्षत्त्रियादीनां पादपादहानिः । पादोनधेनुचतुष्टयासम्भवात् ४ धेनवः । ११ । ० कार्षापणाः । यथाशक्ति ।
मृल्लोष्टभोजनम् । अहोरात्रोपवासः । ॥ ० पणाः । यथाशक्ति ।
अभ्यासे याज्ञवल्क्योक्तचतुरहसाध्यतप्तकृच्छ्रम् । सपादधेन्वसम्भवात् २ धेनू । ३ ॥। ० कार्षापणाः । यथाशक्ति ।
ब्रह्मचारिणां मधुमांसभोजनम् । ज्ञानतः प्राजापत्यम् । अज्ञानात् अर्द्धम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
ब्रह्मचारिणामामिषभाण्डपक्वान्नभोजनम् । त्र्यहं कुशमूलविपक्वक्षीरपानमात्रम् । एतदज्ञानतः । १ कार्षापणः । यथाशक्ति ।
ज्ञानतो द्वैगुण्यम् । २ कार्षापणौ । यथाशक्ति ।
देवतातिथिभृत्यादिवर्जनभोजनम् । अभ्यासे प्राजापत्यम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
अस्थ्यादिदूषितान्नभोजनम् । अस्थिशब्दोऽत्राभक्ष्यास्थिमात्रवचनम् । स्नात्वार्कमर्च्चयित्वा घृतमात्राशनम् । ॥ ० पणाः । यथाशक्ति ।
मत्स्यकण्टकशम्बूकशङ्खशुक्तिकपर्द्दकभक्षणम् । पञ्चगव्यमात्रभक्षणम् । ॥ ० पणाः । यथाशक्ति ।
पुंसवनसीमन्तोन्नयनकर्म्मणि भोजनम् । ज्ञानाभ्यासे चान्द्रायणम् । ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
अज्ञानाभ्यासे तदर्द्धम् । ४ धेनवः । ११ । ० कार्षापणाः । यथाशक्ति ।
सकृदज्ञाने विष्णूक्तकृच्छ्रपादः । ॥। ० पणाः । यथाशक्ति ।
सकृज्ज्ञाने द्वैगुण्यं कृच्छ्रार्द्धम् । १ ॥ ० कार्षापणः । यथाशक्ति ।
जातकर्म्मादिसंस्कारान्नभोजनम् । अज्ञानतोऽसपिण्डानां द्ब्यहसाध्यं सान्तपनम् । १ कार्षापणः । यथाशक्ति ।
ज्ञानतो द्वैगुण्यम् । २ कार्षापणौ । यथाशक्ति ।
भोजनकाले गुदस्मवः । अहोरात्रमुषित्वा पञ्चगव्यपानम् । एतत् सकृन्निगीर्णग्रासे । ॥ ० पणाः । यथाशक्ति ।
अत्यन्तग्रासाशने त्रिरात्रोपवासः । १ ॥ ० कार्षापणः । यथाशक्ति ।
भोजनकाले मृतसूतकाद्यशौचे तदन्नभक्षणम् । ग्रासभोजने एकोपवासः । ॥ ० पणाः । यथाशक्ति ।
सकलान्नभोजने त्रिरात्रोपवासः । अभोजने स्नानमात्रम् । १ ॥ ० कार्षापणः । यथाशक्ति ।
तैलाभ्यङ्गादिस्नानार्हस्याकृतस्नानस्य भोजनम् । स्नात्वा अष्टोत्तरसहस्रगायत्त्रीजपः । अभ्यासे प्रायश्चित्तावृत्तिः ।
अथोपपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
परिहितनीलीवस्त्रस्य भोजनम् । अज्ञानतस्त्रिरात्रोपवासः । १ ॥ ० कार्षापणः । यथाशक्ति ।
ज्ञानात् द्बैगुण्यम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
स्वकीयोच्छिष्टभोजनम् । कृच्छ्रपादः । एतत् सकृदज्ञानतः । अभ्यासे द्वैगुण्यादिकम् । त्यक्तभाजने भोजनेऽप्येवम् । ॥। ० पणाः । यथाशक्ति ।
ब्राह्मणकर्त्तृकब्राह्मणोच्छिष्टभोजनम् । महाव्याहृतिभिरामन्त्र्य जलं पीत्वा उपवसेत् । एतत् सकृदज्ञानतः । ॥ ० पणाः । यथाशक्ति ।
ज्ञानात् द्वैगुण्यम् । १ कार्षापणः । यथाशक्ति ।
ब्राह्मणकर्त्तृकक्षत्त्रियोच्छिष्टभोजनम् । सकृदज्ञाने त्र्यहं ब्राह्मीरसविपक्वक्षीरपानमात्रम् । १ ॥ ० कार्षापणः । यथाशक्ति ।
ज्ञाने द्वैगुण्यम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
ब्राह्मणकर्त्तृकवैश्योच्छिष्टभोजनम् । सकृदज्ञाने त्र्यहोपवासः ब्रह्मसुवर्च्चलापानञ्च । १ ॥ ० कार्षापणः । यथाशक्ति ।
ज्ञानात् द्वैगुण्यम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
ब्राह्मणकर्त्तृकशूद्रोच्छिष्टभक्षणम् । सकृदज्ञाने षड्रात्रोपवासः । ज्ञानात् द्बैगुण्यम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
ज्ञानाभ्यासे चान्द्रायणम् । क्षत्त्रियादीनां पादपादहानिः । एतन्मातृपितृज्येष्ठभ्रातॄणामुच्छिष्टव्यतिरिक्तविषयं तेषामुच्छिष्टस्य भोज्यत्वात् । ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
विडालकाकमूषिकनकुलश्वगवां उच्छिष्टभोजनम् । त्र्यहोपवासः । १ ॥ ० कार्षापणः । यथाशक्ति ।
एनत् सकृज्ज्ञानतः । अज्ञाने ब्रह्मसुवर्च्चलां पीत्वोपवासः । ब्रह्मसुवर्च्चला तु पीतकुसुमसूर्य्यावर्त्तः । ॥ ० पणाः । यथाशक्ति ।
अत्यन्ताभ्यासे अतिकृच्छ्रम् । ३ धेनवः । ९ कार्षापणाः । यथाशक्ति ।
ब्राह्मणस्य कुत्सितपङ्क्तौ भोजनम् । पङ्क्तेः कुत्सितत्वन्तु निब्दितब्राह्मणाद्युपवेशनेन जलादिना पङ्क्तिभेदमन्तरेण च भवति । अहोरात्रोपवासः स्नानं पञ्चगव्यपानञ्च । एतत् ज्ञानतः । ॥ ० पणाः । यथाशक्ति ।
क्षत्त्रियपङ्क्तौ भोजने नक्तव्रतम् । । ० पणाः । यथाशक्ति ।
वैश्यपङ्क्तौ एकरात्रोपवासः । ॥ ० पणाः । यथाशक्ति ।
शूद्रपङ्क्तौ त्रिरात्रोपवासः । १ ॥ ० कार्षापणः । यथाशक्ति ।
पङ्क्तिषु एकस्योत्थाने भोजनम् । द्व्यहसाध्यसान्तपनम् । एतद्ब्राह्मणस्य । क्षत्त्रियादीनां पादपादहानिः । एतज्ज्ञानतः सकृत् । अज्ञानतोऽर्द्धम् । १ कार्षापणः । यथाशक्ति ।
सुराभाजनस्थजलपानम् । पक्षं यावकपानम् । एतज्ज्ञानतः । अज्ञानतोऽर्द्धम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
मद्यभाण्डस्थजलपानम् । सप्तरात्रं यावकपानम् । एतज्ज्ञानतः । अज्ञानतोऽर्द्धम् । १ ॥ ० कार्षापणः । यथाशक्ति ।
सुरासंस्पृ ष्टरेतोमूत्रादिदूषितजलादिपाने तु चतुरहसाध्यं तप्तकृच्छ्रम् । एतदपि स्वाद्बनुपलब्धावभ्यासे । सपादधेन्वसम्भवात् २ धेनू । ३ ॥। ० कार्षापणाः । यथाशक्ति ।
चण्डालकूपभाण्डोदकपानम् । ब्राह्मणस्य सान्तपनम् । २ धेनू । ६ कार्षापणाः । यथाशक्ति ।
क्षत्त्रियस्य प्राजापत्यम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
वैश्यस्य प्राजापत्यार्द्धम् । १ ॥ ० कार्षापणः । यथाशक्ति ।
शूद्रस्य प्राजापत्यपादः । ॥। ० पणाः । यथाशक्ति ।
एतत् सर्व्वं ज्ञानतः ।
अज्ञानादेतस्यार्द्धम् ।
आपत्काले तु पूर्ब्बेद्युरुपोष्य पञ्चगव्यपानम् । ॥ ० पणाः । यथाशक्ति ।
अथोपपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
चण्डालस्पृ ष्टक्षीरजलादिपानम् । त्रिरात्रमुपोष्य पञ्चगव्यपानम् । एतत् ज्ञानतः । १ ॥ ० कार्षापणः । यथाशक्ति ।
अज्ञानात् द्व्यहसाध्यसान्तपनम् । १ कार्षापणः । यथाशक्ति ।
अन्त्यजखानितकूपादिजलपानम् । उपवासपूर्ब्बकपञ्चगव्यपानम् । एतदज्ञानतः । ॥ ० पणाः । यथाशक्ति ।
ज्ञातात् द्बैगुण्यम् । १ कार्षापणः । यथाशक्ति ।
अन्त्यजभाण्डस्थजलादिपानम् । ब्राह्मणस्य द्व्यहसाध्यं ब्रह्मकूर्च्चव्रतम् । एतत् अज्ञानतः । ज्ञानतो द्बैगुण्यम् । १ कार्षापणः । यथाशक्ति ।
शूद्रस्य नोपवासः पञ्चगव्यपानमात्रम् । ब्रह्मकूर्च्चं यथा । “अहोरात्रोषितो भूत्वा पौर्णमास्यां विशेषतः । पञ्चगव्यं पिबेत् प्रातर्ब्रह्मकूर्च्चविधिः स्मृतः ॥” पञ्चगव्यं यथा । “गोशकृत् द्विगुणं मूत्रं सर्पिर्विद्याच्चतुर्गुणम् । क्षीरमष्टगुणञ्चैव पञ्चगव्ये तथा दधि ॥” अथवा । “गोमूत्रमाषकास्त्वष्टौ गोमयस्य तु षोडश । क्षीरस्य द्बादश प्रोक्ता दध्नस्तु दश कीर्त्तिताः ॥ गोमूत्रवद्घृतस्योक्तास्तदर्द्धेन कुशोदकम् ॥” ॥ ० पणाः । यथाशक्ति ।
शूद्रोदकपानम् । उपोष्य विल्वपद्मपलाशकुशानामुदकमात्रपानम् । एतद्द्व्यहसाध्यं ज्ञानतः सकृत्पाने । अज्ञानादर्द्धम् । नवभाण्डोदकपाने प्रायश्चित्ताभावः । १ कार्षापणः । यथाशक्ति ।
पीतशेषपानीयपानम् । केवलवामहस्तेन जलपानञ्च । त्रिरात्रोपवासः । एतच्च ज्ञानतः । १ ॥ ० कार्षापणः । यथाशक्ति ।
अज्ञानतोऽर्द्धम् । एतत् प्रायश्चित्तं ग्रासशेषाशनादिष्वपि ज्ञेयम् । ॥। ० पणाः । यथाशक्ति ।
शूद्रपीतशेषजलपाने तु ब्राह्मणस्य चान्द्रावणम् । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
प्रपादिजलपानम् । आदिना कूपजलाहरणार्थघटस्यजलं द्रोणीजलं खड्गादिकोषस्थजलञ्च । सचेलस्नानम । उपवासश्च । एतत् सकृज्ज्ञानतः । आपदि दोषाभावः । ॥ ० पणाः । यथाशक्ति ।
विण्मूत्रसंस्पृ ष्टकूपजलपानम् । त्रिरात्रोपवासः । एतदज्ञानतः । १ ॥ ० कार्षापणः । यथाशक्ति ।
ज्ञानतः सान्तपनम् । २ धेनू । ६ कार्षापणाः । तथा ।
विण्मूत्रसंस्पृ ष्टकुम्भस्थजलपानम् । अज्ञानतः सान्तपनम् । ज्ञानतो द्वैगुण्यम् । २ धेनू । ६ कार्षापणाः । यथाशक्ति ।
शवदूषितजलपानम् । एतत्मानुषेतराभक्ष्यपञ्चनखशवदूषितकूपजलपानपरम् । ब्राह्मणस्य त्रिरात्रोपवासः । १ ॥ ० कार्षापणः । यथाशक्ति ।
क्षत्त्रियस्य द्व्यहोपवासः । १ कार्षापणः । यथाशक्ति ।
वैश्यस्यैकाहोपवासः । ॥ ० पणाः । यथाशक्ति ।
शूद्रस्य नक्तम् । सर्व्वेषां व्रतान्ते पञ्चगव्यपानम् । एतत् ज्ञानतः । अज्ञानतोऽर्द्धम् । एतदक्लिन्नशवे । । ० पणाः । यथाशक्ति ।
ज्ञानतः क्लिन्ने षड्रात्रोपवासः । एतत् सर्व्वं मानुषशवेतरपरम् । मानुषशये द्विगुणम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
कामाभ्यासे पराकः । ५ धेनवः । १५ कार्षापणाः । यथाशक्ति ।
अत्यन्ताभ्यासे चान्द्रायणम् । ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
अथोपपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
अपेयक्षीरपानम् । तत्क्षीरविकारपानञ्च । अपेयक्षीरं यथा । अनिर्द्दशानां गोमहिषीच्छागीनां क्षीरम् । औष्ट्रं ऐकशफं आविकञ्च । सन्धिनीक्षीरम् । सन्धिनी वृषाक्रान्ता । विवत्साक्षीरम् । अरण्यमृगीक्षीरम् । स्त्रीक्षीरम् । स्रवद्दुग्धाक्षीरम् । यमसूक्षीरम् । विवत्साया अन्यवत्सायाश्च क्षीरम् । मथितक्षीरम् । छागवर्ज्जं द्बिस्तनीक्षीरम् । अमेध्यभुजः क्षीरम् । व्रणादिदूषितस्तनीक्षीरञ्च । ज्ञानतोऽभ्यासे पक्षं यावकपानम् । अज्ञानतोऽर्द्धम् । क्षत्त्रियादौ पादपादहानिः । अत्र उष्ट्रीक्षीरमानुषीक्षीरपाने पुनरुपनयनञ्च । इति अभक्ष्यभक्षणप्रायश्चित्तम् ॥ * ॥ १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
अथ स्तेयम् । मणिमुक्ताप्रवालाश्ममयलौहकांस्योपलानां हरणम् । द्वादशाहं कणभक्षणम् । तत् षडुपवासात्मकम् । अपहृतद्रव्यं स्वामिने दत्त्वैतत् करणीयम् । अत्र च सकृदभ्यासकालदेशद्रव्यस्वाम्यपहर्त्तृगुणदैन्याद्यपेक्षया उत्कृष्टापकृष्टद्रव्ययोर्वैषम्यदोषः समर्थनीयः । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
रजताश्वगोभूमिकन्यानां सकृत् हरणम् । एतत् ब्राह्मणासम्बन्धिविषयम् । अत्र कन्यापदं अधमकन्यापरम् । चान्द्रायणम् । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
उक्तेतरक्षुद्रपशुहरणम् । प्राजापत्यम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
अभ्यासे चान्द्रायणम् । ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
धान्यान्नधनानां हरणम् । अन्नं कृतान्नम् । धनं गवादि । अब्दकृच्छ्रम् । एतत् ब्राह्मणकर्त्तृकब्राह्मणस्वामिकदशकुम्भाधिकधान्यस्तेये ज्ञेयम् । कुम्भपरिमाणं यथा । दशद्रोणं भवेत् खारी कुम्भोऽपि द्रोणविंशतिः । १५ धेनवः । ४५ कार्षापणाः । यथाशक्ति ।
द्विकालभोजनोचितभक्ष्यभोज्यान्नहरणे त्रिरात्रं पञ्चगव्यपानमात्रम् । भक्ष्यं मोदकादि । भोज्यं शक्त्वादि । १ ॥ ० कार्षापणः । यथाशक्ति ।
एककालभोजनोचितान्नहरणे एकरात्रं पञ्चगव्यमात्रपानम् । धनमपि एतत्परिमाणधान्यमूल्यमवसेयम् । ॥ ० पणाः । यथाशक्ति ।
मनुष्यादिस्तेयम् । तत्तु दासदासीक्षेत्रगृहकूपवापीजलानां हरणम् । चान्द्रायणम् । क्षेत्रादीनान्तु उपयोगातिशयाद्यभ्यासाद्यपेक्षयास्त्येव प्रायश्चित्तं गुरुलाघवमिति । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
गुडादिस्तेयम् । आदिना कार्पाससर्पिर्लवणधान्यपक्वान्नौषधतैलशय्यावस्त्रोपानत्कांस्यलोहताम्रसीसकादयः । कृच्छ्रपादः । एतत् सकृद्धरणविषयम् । अभ्यासे द्वैगुण्यम् । अत्र किञ्चिदधिकद्रोणत्रयस्य धान्यस्य तावद्धान्यमूल्यानाञ्चान्येषाञ्च हरणे एतद्वेदितव्यम् । ॥। ० पणाः । यथाशक्ति ।
अथोपपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
तृणादिस्तेयम् । आदिना काष्ठद्रुमचेलचर्म्मामिषेक्षुतक्रमूलपुष्पवैदलसूत्रगन्धानां ग्रहणम् । वैदलं वेणुघटितभाण्डम् । गन्धः कस्तूर्य्यादिः । अत्रापवादः । अस्तेयमग्नये काष्ठमस्तेयञ्च तृणं गवे । त्रिरात्रोपवासः । तृणादीनां हरणे मासैकव्रतम् । मासार्द्धव्रतञ्च । शङ्खमुनिना यदुक्तं तत् कालदेशापहर्त्तृस्वामिगुणदौर्गत्याभ्यासानभ्यासकामाकामापेक्षया उत्कृष्टापकृष्टद्रव्यापहारे च वेदितव्यम् । १ ॥ ० कार्षापणः । यथाशक्ति ।
जीविकाहरणम् । यस्य यस्य वर्णस्य वृत्तिच्छेदः तत्तद्वर्णवधोक्तं प्रायश्चित्तं कर्त्तव्यम् ।
अल्पवृत्त्यपहारे चान्द्रायणम् । अत्र चोत्तमाधमत्वे प्रयोजकादिकं सकृदभ्यासौ ज्ञानाज्ञाने च संवीक्ष्य वधोक्तपादार्द्धादिव्यवस्थोहनीया । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
देवद्बिजद्रव्यापहरणम् । संवत्सरमप्सु मज्जनं अघमर्षणावर्त्तनञ्च । यच्चात्र गुरुप्रायश्चित्तं मुन्यन्तरोक्तं तदत्यन्ताभ्यास उत्तमसम्बन्धादपेक्षया समूह्यम् । इति स्तेयप्रायश्चित्तम् ॥ * ॥
अथ अगम्यागमनम् । तत्र सवर्णासु अस्वजनस्त्रीगमनम् । तत्र ब्राह्मणस्य श्रोत्रियभार्य्यागमनम् । सकृद्गमने त्रैवार्षिकव्रतम् । द्बितीये पाड्वार्षिकं तृतीये नववार्षिकं चतुर्थे संपूर्णं द्बादशवार्षिकम् । ४५ धेनवः । १३५ कार्षापणाः । २५ गावः । अशक्तौ २५ कार्षापणाः ।
अश्रोत्रियनिर्गुणभार्य्यागमने द्वैवार्षिकव्रतम् । एतज्ज्ञानतः । अज्ञानादर्द्धम् । ३० धेनवः । ९० कार्षापणाः । १७ गावः । अशक्तौ १६ ॥ १३ कार्षापणाः ।
क्षत्त्रियस्य क्षत्त्रियभार्य्यागमनम् । द्वैवार्षिकव्रतम् । एतज्ज्ञानतः । अज्ञानादर्द्धम् । अभ्यासे द्वैगुण्यादिकम् । ३० धेनवः । ९० कार्षापणाः । १७ गावः । अशक्तौ १६ ॥ १३ कार्षापणाः ।
वैश्यस्य वैश्यभार्य्यागमनम् । वार्षिकव्रतम् । एतज्ज्ञानतः । अज्ञानादर्द्धम् । १५ धेनवः । ४५ कार्षापणाः । ९ गावः । अशक्तौ ८ । ७ कार्षापणाः ।
शूद्रस्य पञ्चयज्ञानुष्ठायिन्यायवृत्तशूद्रभार्य्यागमनम् । वार्षिघ्रव्रतम् । एतज्ज्ञानतः । अज्ञानादर्द्धम् । १५ धेनवः । ४५ कार्षापणाः । ९ गावः । अशक्तौ ८ । ७ कार्षापणाः ।
शूद्रस्यान्यशूद्रागमनम् । षाण्मासिकव्रतम् । एतज्ज्ञानतः । अज्ञानादर्द्धम् । ८ धेनवः । २२ ॥ ० कार्षापणाः । ५ गावः । अशक्तौ ४ १३ ॥ कार्षापणाः ।
ब्राह्मणस्य क्षत्त्रियागमनम् । सार्द्धवार्षिकव्रतम् । एतत् सकृज्ज्ञानतः । अज्ञानादर्द्धम् । २३ धेनवः । ६७ ॥ ० कार्षापणाः । १३ गावः । अशक्तौ १२ ॥ ० कार्षापणाः ।
ब्राह्मणस्य वैश्यागमनं विशिष्टशूद्रागमनञ्च । षाण्मासिकव्रतम् । एतत् सकृज्ज्ञानतः । अज्ञानादर्द्धम् । ८ धेनवः । २२ ॥ ० कार्षापणाः । ५ गावः । अशक्तौ ४ १३ ॥ कार्षापणाः ।
ब्राह्मणस्याधमशूद्रागमनम् । सार्द्धमासिकव्रतम् । एतत् सकृज्ज्ञानतः । अज्ञानादर्द्धम् । २ धेनू । ५ ॥ ० कार्षापणाः । १ गौः । अशक्तौ १ कार्षापणः ।
क्षत्त्रियश्य वैश्यभार्य्यागमनं सच्छूद्रागमनञ्च । नवमासिकव्रतम् । एतत् सकृज्ज्ञानतः । अज्ञानादर्द्धम् । १२ धेनवः । ३३ ॥। ० कार्षापणाः । ७ गावः । अशक्तौ ६ । ० कार्षापणाः ।
क्षत्त्रियस्याधमशूद्रागमनम् । त्रैमासिकव्रतम् । एतत् सकृज्ज्ञानतः । अज्ञानादर्द्धम् । ४ धेनवः । ११ । ० कार्षापणाः । २ गावौ । अशक्तौ २ कार्षापणौ ।
वैश्यस्य सच्छूद्रागमनम् । वार्षिकव्रतम् । एतजज्ञानतः । अज्ञानादर्द्धम् । १५ धेनवः । ४५ कार्षापणाः । ९ गावः । अशक्तौ ८ । ७ कार्षापणाः ।
वेश्यस्याधमशूद्रागमनम् । सार्द्धचातुर्मामिकव्रतम् । एतज्ज्ञानतः । अज्ञानादर्द्धम् । ६ धेनवः । १६ ॥। ० कार्षापणाः । ३ गावः । अशक्तौ ३ १ कार्षापणाः ।
अथ प्रतिलोमस्त्रीगमनम् । तत्र शहस्याज्ञानतो ब्राह्मणीगमनम् । द्बादशवार्विकव्रतम् । ज्ञानात् गुर्व्वङ्गनागमनोक्तप्रकारेण मरणम् । १८० धेनवः । ५४० कार्षापणाः । १०० गावः । अशक्तौ १०० कार्षापणाः ।
अथोपपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
वैकल्पिकं चतुर्विंशतिवार्षिकव्रतम् । एतद्ब्राह्मण्यापि करणियम् । ३६० धेनवः । १०८० कार्षापणाः । २०० गावः । अशक्तौ २०० कार्षापणाः ।
वैश्यस्याज्ञानतो ब्राह्मणीगमनम् । नववार्षिकव्रतम् । ज्ञानाद्द्वैगुण्यम् । ब्राह्मण्यापि एतत् कार्य्यम् । १३५ धेनवः । ४०५ कार्षापणाः । ७५ गावः । अशक्तौ ७५ कार्षापणाः ।
क्षत्त्रियस्याज्ञानतो ब्राह्मणीगमनम् । षाड्वार्षिकव्रतम् । ज्ञानाद्द्वैगुण्यम् । ब्राह्मण्यापि एतत् कार्य्यम् । ९० धेनवः । २७० कार्षापणाः । ५० गावः । अशक्तौ ५० कार्षापणाः ।
यद्यपि शूद्रस्य ब्राह्मणीगमनं महापातकत्वेन तथा क्षत्त्रियवैश्ययोर्ब्राह्मणीगमनमनुपातकत्वेन चोक्तं तथाप्यनुलोमगमनं तावदुपपातकमेव तत्प्रसङ्गादसवर्णत्वेन प्रतिलोमस्त्रीगमनप्रायश्चित्तमप्युक्तमतो न वैषम्यमिति ।
शूद्रस्याज्ञानतः क्षत्त्रियागमनम् । नववार्षिकव्रतम् । ज्ञानाद्द्वैगुण्यम् । क्षत्त्रियाया अप्येतत् । १३५ धेनवः । ४०५ कार्षापणाः । ७५ गावः । अशक्तौ ७५ कार्षापणाः ।
वैश्यस्याज्ञानतः क्षत्त्रियागमनं शूद्रस्याज्ञानतो वैश्यागमनञ्च । नवमासाधिकषाड्वार्षिकव्रतम् । ज्ञानाद्द्वैगुण्यम् । क्षत्त्रियाया वैश्यायाश्चाप्येतत् । १०२ धेनवः । ३०३ ॥। ० कार्षापणाः । ५७ गावः । अशक्तौ ५६ । ० कार्षापणाः ।
अथ समोत्तमवर्णद्वित्रिपुरुषव्यभिचरितसवर्णासवर्णस्त्रीगमनम् ।
तत्र ब्राह्मणस्य समोत्तमवर्णद्बित्रिपुरुषव्यभिचरितशूद्रागमनम् । सकृद्गमने मासार्द्धं गोमूत्रसिद्धयावकपानम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
अभ्यासे मासं गोमूत्रसिद्धयावकपानम् । २ धेनू । ६ कार्षापणाः । यथाशक्ति ।
ब्राह्मणस्य समोत्तमवर्णद्बित्रिपुरुषव्यभिचरितक्षत्त्रियागमनम् । तथाविधवैश्यागमनञ्च । सकृद्गमने सान्तपनम् । अभ्यासे प्रायश्चित्तावृत्तिः । २ धेनू । ६ कार्षापणाः । यथाशक्ति ।
अथ चातुवर्ण्यस्वैरिणीगमनम् । स्वैरिणीचतुःपुरुषगामिनी । सा द्विविधा । केनचिदनवरुद्धा अवरुद्धा च । ब्राह्मणस्य स्वैरिण्या ब्राह्मण्या गमने त्रिरात्रोपवासः ब्राह्मणाय मृगाजिनदानञ्च । १ ॥ ० कार्षापणः । यथाशक्ति ।
तथाविधक्षत्त्रियाया गमने त्रिरात्रोपवासः धनुर्दानञ्च । १ ॥ ० कार्षापणः । यथाशक्ति ।
तथाविधवैश्याया गमने त्रिरात्रोपवासः अथःशिलादानञ्च । १ ॥ ० कार्षापणः । यथाशक्ति ।
तथाविधशूद्राया गमने त्रिरात्रोपवासः उदकुम्भदानन्तथा संमार्जनीदानञ्च । १ ॥ ० कार्षापणः । यथाशक्ति ।
ब्राह्मणस्य शूद्रान्त्यजादिगामिस्वैरिणीगमनम् । द्बादशवार्षिकव्रतम् । क्षत्त्रियादौ पादपादहानिः । विमातृस्वैरिणीचाण्डालस्वैरिणीगमनेऽप्येवम् । सर्व्वत्राभ्यासे द्वैगुण्यम् । १८० धेनवः । ५४० कार्षापणाः । १०० गावः । अशक्तौ १०० कार्षापणाः ।
ब्राह्मणबन्धकीगमनम् । बन्धकी चात्र स्वभर्त्तृव्यतिरिक्तपञ्चपुरुषगामिनी । कमण्डलुदानम् । यथाशक्ति ।
क्षत्त्रियबन्धकीगमनम् । आयुधदानम् । यथाशक्ति ।
अथोपपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
वैश्यबन्धकीगमनम् । प्रतोददानम् । यथाशक्ति ।
शूद्रबन्धकीगमनम् । स्नानपुरःसरप्राणायामः । एतानि बन्धकीगमनप्रायश्चित्तानि सवर्णानुलोमप्रतिलोमविषयाणि ॥ * ॥
अथ व्युत्क्रमविवाहः । तत्र ब्राह्मणस्य प्रथमतः क्षत्त्रियादिविवाहः । दारव्यतिक्रमी खराजिनं वहिर्लोम परिधाय दारव्यतिक्रमिणे भिक्षां देहीति सप्तागाराणि चरेत् । सा वृत्तिः षण्मासान् । दारव्यतिक्रमी ब्राह्मणक्षत्त्रियवैश्यकन्याविवाहमकृत्वा यो ब्राह्मणः शूद्राविवाहं करोति स उच्यते । एतदनापदि सकृदज्ञानविषयम् । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
आपदि त्वाह शातातपः । ब्राह्मणो राजन्यापूर्ब्बी द्बादशरात्रं चरित्वा निर्व्विशेत् ताञ्चैवोपगच्छेत् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
वैश्यापूर्ब्बी तप्तकृच्छ्रम् । सपादधेन्वसम्भवात् २ धेनू । ३ ॥। ० कार्षापणाः । यथाशक्ति ।
शूद्रापूर्ब्बी कृच्छ्रातिकृच्छ्रम् । ५ धेनवः । १५ कार्षापणाः । यथाशक्ति ।
अनापदि ज्ञानाभ्यासे मनूक्तत्रैवार्षिकव्रतम् । ४५ धेनवः । १३५ कार्षापणाः । २५ गावः । अशक्तौ २५ कार्षापणाः ।
वेश्यागमनम् । प्राजापत्यम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
पञ्चाधिकपुरुषगामिनी वेश्या । अभ्यासे चान्द्रायणम् । ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
रजस्वलागमनम् । त्रिरात्रोपवासः । घृतप्राशनञ्च । एतत् कामतः सकृद्गमने । अभ्यासे तु द्वैगुण्यादिकम् । १ ॥ ० कार्षापणः । यथाशक्ति ।
ऋतौ भार्य्यानभिगमनम् । त्रिरात्रोपवासः । १ ॥ ० कार्षापणः । यथाशक्ति ।
ज्ञानाभ्यासे प्राजापत्यम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
पर्व्वसु स्त्रीगमनम् । एकोपवासः । ॥ ० पणाः । यथाशक्ति ।
श्राद्धदिने मैथुनम् । एकोपवासः । ॥ ० पणाः । यथाशक्ति ।
दिवामैथुनम् । एकाहं यावकपानम् । नग्नस्य स्नाने नग्नपरस्त्रीदर्शनेऽप्येवं प्रायश्चित्तम् । अभ्यासे प्रायश्चित्तावृत्तिः ॥ * ॥
अथ स्त्रीव्यभिचारः । समोत्तमवर्णेसु सकृदुपगमे प्राजापत्यम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
द्विरभ्यासे पराकः । ५ धेनवः । १५ कार्षापणाः । यथाशक्ति ।
त्रिरभ्यासे चान्द्रायणम् । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
अन्त्यजागमनम् । अर्थात् रजकचर्म्मकारनटवरुडकैवर्त्तमेदभिल्लवेणुजीविशैलूषाणां स्त्रीषु गमनम् । अज्ञानतश्चान्द्रायणम् । ज्ञानाद्द्वैगुण्यम् । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
चतुर्व्विंशतिवारगमने द्बादशवार्षिकव्रतम् । एतदज्ञानतः । ज्ञानतो द्बैगुण्यम् । अव्यवहार्य्यता च । १८० धेनवः । ५४० कार्षापणाः । १०० गावः । अशक्तौ १०० कार्षापणाः ।
कापालिकस्त्रीगमनम् । ज्ञानादब्दकृच्छ्रम् । ३० धेनवः । ९० कार्षापणाः । यथाशक्ति ।
अज्ञानाच्चान्द्रायणद्वयम् । १५ धेनवः । ४५ कार्षापणाः । यथाशक्ति ।
अथ तिर्य्यग्योनिगमनम् । तत्र गोवर्ज्जपशुगमनम् । सचेलस्नानपूर्ब्बकं गोभ्यो यवसभारदानम् । इदं सकृद्गमने ।
गोगमनम् । गोवधोक्तमासिकव्रतम् । एतत् सकृद्गमने । ४ धेनवः । १२ कार्षापणाः । यथाशक्ति ।
अभ्यासे संवत्सरं प्राजापत्यम् । ३० धेनवः । ९० कार्षापणाः । १७ गावः । अशक्तौ १६ ॥ १६ । कार्षापणाः ।
अथोपपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
अत्यन्ताभ्यासे द्वादशवार्षिकव्रतम् । इत्युपपातके अगम्यागमनप्रायश्चित्तं समाप्तम् ॥ * ॥ १८० धेनवः । ५४० कार्षापणाः । १०० गावः । अशक्तौ १०० कार्षापणाः ।
अथ परिवेदनादि । ज्येष्ठेऽनिर्व्विष्टे कनीयान्निर्व्विशन् परिवेत्ता । परिविण्णो ज्येष्ठः । परिवेदनीया कन्या । परिदायी दाता । परिकर्त्ता याजकः । ते सर्व्वे पतिताः । एतेषां प्रायश्चित्तम् ।
संवत्सरं प्राजापत्यम् । एतत् कामतः । अकामतोऽर्द्धम् । अत्रापवादः । “देशान्तरस्थक्लीवैकवृषणानसहोदरान् । वेश्याभिसक्तपतितशूद्रतुल्यातिरोगिणः ॥ जडमूकान्धवधिरकुब्जवामनकुण्ठकान् । अतिवृद्धानभार्य्यांश्च कृषिसक्तान्नृपस्य च । धनवृद्धिप्रसक्तांश्च कामतः कारिणस्तथा । कुलटोन्मत्तचौरांश्च परिविन्दन्न दुष्यति ॥” ३० धेनवः । ९० कार्षापणाः । १७ गावः । अशक्तौ १६ ॥ १६ । कार्षापणाः ।
व्रात्यत्वम् । अर्थात् सावित्रीपतितत्वम् । पञ्चदशाब्दपर्य्यन्तमुपनयनाभावे ब्राह्मणस्य व्रात्यत्वम् । एकविंशतिवर्षपर्य्यन्तमुपनयनाभावे क्षत्त्रियस्य व्रात्यत्वम् । त्रयोविंशतिवर्षपर्य्यन्तमुपनयनाभावे वैश्यस्य व्रात्यत्वम् । पितृमातृरहितनिःस्वजनस्य सावित्रीपाते प्राजापत्यत्रयम् । यथाविध्युपनयनञ्च । आलस्यानवधानादिना सावित्रीपाते तु व्रात्यस्तोमयागः । ३ धेनवः । ९ कार्षापणाः । यथाशक्ति ।
तद्वैकल्पिकं दिनत्रयाधिकमासचतुष्टयसमाप्यमुद्दालकव्रतम् । तद्व्रतं यथा । द्वौ मासौ यावकेन वर्त्तयेत् मासं पयसा अर्द्धमासमामिक्षया अष्टरात्रं घृतेन षड्रात्रमयाचितं त्रिरात्रमब्भक्ष्यः अहोरात्रमुपवसेत् । सपादनवधेन्वसम्भवात् १० धेनवः । २७ ॥। ० कार्षापणाः । यथाशक्ति ।
देशोपप्लवादिनासावित्रीपतने एकविंशतिरात्रं प्रसृतिमितयावकपानम् । तत उपनयनम् । ४ धेनवः । ९ ॥। ० कार्षापणाः । यथाशक्ति ।
अथावकीर्णम् । अर्थाद्ब्रह्मचारिणो योषिद्गमनम् । षण्मासं ब्रह्महत्याव्रतम् । खरचर्म्मपरिधानञ्च । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । ५ गावः । अशक्तौ ४ १४ कार्षापणाः ।
अभ्यासे संवत्सरं ब्रह्महत्याव्रतम् । १५ धेनवः । ४५ कार्षापणाः । ९ गावः । अशक्तौ ८ । ६ ॥। कार्षापणाः ।
पितृष्वसृसुतादिपरिणयनम् । आदिना मातृष्वसृसुतामातुलसुतामातामहसपिण्डासगोत्रासमानप्रवरादीनां ग्रहणम् । चान्द्रायणम् । त्यागानन्तरं मातृवद्भरणम् । एतत्ज्ञानतः । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
अज्ञाने कृच्छ्राब्दपादः । ४ धेनवः । ११ । ० कार्षापणाः । यथाशक्ति ।
अग्न्युत्सादनम् । अर्थात् अग्निहोत्रिणामग्नित्यागः । कामतः संवत्सरोत्सन्ने चान्द्रायणम् । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
द्विवर्षोत्सन्ने सोमायनचान्द्रायणे । एतदनुसारेणोनाधिककालयोरुह्यम् । सार्द्धाष्टधेन्वसम्भवात् ९ धेनवः । २५ ॥ ० कार्षापणाः । यथाशक्ति ।
गृहस्थस्य चिरतरकालानग्नित्वम् । गोवधोक्तत्रैमासिकव्रतम् । अल्पकाले अनाधाने च चान्द्रायणम् । १२ धेनवः । ३६ कार्षापणाः । १० गावः । १ वृषः । अशक्तौ १५ कार्षापणाः ।
अथोपपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
ब्राह्मणस्य वेदानध्ययनं यज्ञाकरणं पुत्त्रानुत्पादनञ्च । त्रैमासिकं गोव्रतम् । १२ धेनवः । ३६ कार्षापणाः । १ वृषः । १० गावः । अशक्तौ १५ कार्षापणाः ।
अनाश्रमित्वम् । संवत्सरे प्राजापत्यम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
वर्षद्बये अतिकृच्छ्रम् । ३ धेनवः । ९ कार्षापणाः । यथाशक्ति ।
वर्षत्रये कृच्छ्रातिकृच्छ्रम् । ६ धेनवः । १८ कार्षापणाः । यथाशक्ति ।
अत ऊर्द्ध्वं चान्द्रायणम् । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
सूर्य्योदयास्तकालयोः शयनम् । सकृदाचरणे स्नानम् । अभ्यासे प्राजापत्यम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
ब्रह्मचारिणः सन्ध्यादीनामतिक्रमः । आदिना अग्नीन्धनाकरणं भैक्ष्यचर्य्याकरणञ्च । अरोगिणो निरन्तरं सप्तरात्रमकरणे अवकीर्णिव्रतम् । तत्तु खरचर्म्मपरिधानपूर्ब्बकषाण्मासिकं ब्रह्महत्याव्रतम् । एतदूने ऊनं अधिके अधिकम् । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । ५ गावः । अशक्तौ ४ १४ कार्षापणाः ।
अनातुरगृहस्थस्य सन्ध्यास्नानाह्निकनित्यक्रियापातः । दिनैकनित्यक्रियातिपाते एकाहोपवासः । ६ रक्तिकरजतम् । यथाशक्ति ।
दिनत्रयक्रियातिपाते कृच्छ्रार्द्धम् । १ ॥ ० कार्षापणः । यथाशक्ति ।
वर्षैकनित्यक्रियातिपाते एकदिनक्रियातिपातप्रायश्चित्तानुसरणेन प्रायश्चित्तम् । २ पल ६ तोलक४ माषकमितरजतम् । यथाशक्ति ।
शूद्रव्यतिरिक्तायाज्ययाजनम् । अयाज्याश्च निन्दितप्रतिग्रहादिना निन्दितब्राह्मणादयः । शतगायत्त्रीजपः ।
अभ्यासे सहस्राधिकं चान्द्रावणं वा । दक्षिणात्यागाच्च पूतो भवति । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
शूद्रयाजनम् । लोभादिना याजने अर्जितभुक्तावशिष्टधनस्यागाधजले प्रक्षेपपूर्ब्बकं ब्रह्मचारिणे दानपूर्ब्बकं वा चान्द्रायणं पुनरुपनयनञ्च । अक्षारलवणब्रह्मसुवर्च्चलापानञ्च । एतदशक्तौ तद्धनं परित्यज्य त्रिंशत्पुराणाः प्रदातव्याः । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
स्नेहादनुप्रसङ्गादिना याजने द्रव्यत्यागपूर्ब्बकं प्राजापत्यम् । अज्ञानतः प्राणायामसहस्रम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
शूद्रप्रतिग्रहः । सकृत्प्रतिग्रहे त्रिसहस्रगायत्त्रीजपः ।
अभ्यासे चान्द्रायणम् । एतच्च द्रव्यत्यागपूर्ब्बकं कार्य्यम् । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
उच्छास्त्रवर्त्तिक्षत्त्रियनृपतिप्रतिग्रहः । षष्ठे काले क्षीराशनं मासैकं जलवासः प्रचुरतरद्बिजतर्पणञ्च । मासोपवासेनैवास्य सङ्कलनम् । १५ धेनवः । ४५ कार्षापणाः । यथाशक्ति ।
अथान्त्यजप्रतिग्रहः । स च अयाचितपुष्पफलशाकतृणकाष्ठधान्यपयोमांसदधिशय्यगिहकुशगन्धमणिमत्स्यादीतरविषयः । ज्ञानादष्टचत्वारिंशद्बाराभ्यासात् द्बादशवार्षिकव्रतम् । १८० धेनवः । ५४० कार्षापणाः । १०० गावः । अशक्तौ १०० कार्षापणाः ।
अज्ञानात् द्बिरभ्यासे तप्तकृच्छ्रम् । ४ धेनवः । १२ कार्षापणाः । यथाशक्ति ।
ज्ञानात् द्विरभ्यासे चान्द्रायणम् । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
चाण्डालप्रतिग्रहः । अज्ञानात् अष्टचत्वारिंशद्वाराभ्यासात् द्बादशवार्षिकव्रतम् । १८० धेनवः । ५४० कार्षापणाः । १०० गावः । अशक्तौ १०० कार्षापणाः ।
अज्ञानात् सकृत्कृते तप्तकृच्छ्रम् । ४ धेनवः । १२ कार्षापणाः । यथाशक्ति ।
ज्ञानात् सकृत्कृते चान्द्रायणम् । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
पतितप्रतिग्रहः । ज्ञानात् सकृत्कृते चान्द्रायणम् । अज्ञानात्तदर्द्धम् । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
अथोपपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
प्रायश्चित्तद्रव्यग्रहणम् । त्रिसहस्रगायत्त्रीजपः मासैकं गोष्ठे पयःपानं वा । एतत् लघुतरपापप्रायश्चित्तद्रव्यग्रहणे ।
स्वभावाग्राह्यकृष्णाजिनोभयतोमुखीमण्यादिप्रतिग्रहः । उत्तममण्यादिप्रतिग्रहे दशसहस्रगायत्त्रीजपः । मध्यमे पञ्चसहस्रगायत्त्रीजपः । अधमे अष्टोत्तरसहस्रसावित्रीजपः । द्बादशरात्रं पयोव्रतञ्च । अत्यन्तनिषिद्धकृष्णाजिनोभयतोमुखीप्रतिग्रहे लक्षगायत्त्रीजपः ।
अथ ब्राह्मणस्य क्षत्त्रियवैश्यवृत्त्या धनार्जनम् । संवत्सरे चान्द्रायणम् । संवत्सराभ्यन्तरे मासैकद्विकदौ चान्द्रायणभागहारः कल्प्यः । संवत्सरादूर्द्ध्वं द्बैगुण्यत्रैगुण्यादिकं कल्प्यम् । आपत्काले दोषाभावः । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
ब्राह्मणस्य सेवावृत्तिधनार्ज्जनम् । प्राजापत्यत्रयं पुनरुपनयनञ्च । द्रव्यत्यागपूर्ब्बकं करणीयम् । ३ धेनवः । ९ कार्षापणाः । यथाशक्ति ।
ब्राह्मणस्य गीतादिना धनार्जनम् । चान्द्रायणम् । कृतप्रायश्चित्तस्याप्यव्यवहार्य्यत्वम् । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
ब्राह्मणस्य शूद्रसेवनम् । चान्द्रायणम् । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
चिरतरकालाभ्यासे त्रैवार्षिकव्रतम् ४५ धेनवः । १३५ कार्षापणाः । २५ गावः । अशक्तौ २५ कार्षापणाः ।
अविक्रेयविक्रयः । ब्राह्मणस्याविक्रेयद्रव्यानि यथा । लवण पक्वान्न मधु क्षीर दधि घृतोदक सर्व्वगन्धोपल लाक्षा रक्तवासः गुडतैल ग्राम्यपशु एकशफ केशि सर्व्वारण्यपशु विद्या याग खात गो शङ्ख ऊर्णा रस विष तिल शस्त्र नीली कौषेयवासः चर्म्म तक्राममांस सुरा सोम केश गोधूम कन्या हिङ्गु गुग्गुलु सर्जरस हरिताल मनःशिलाञ्जन गैरिक क्षार मणि मौक्तिक प्रवाल दन्त नख आर्द्रौषधि शुक्ति वेणु वैणव मृण्मयपात्र पुष्प मूल तुष कार्पास भस्मास्थि पिण्याक त्रपु सीसक कृष्णलोहोडुम्बर खड्गपात्राणि इत्यषिक्रेयाणि । सकृत्कृते त्रिरात्रोपवासः । १ ॥ ० कार्षापणः । यथाशक्ति ।
द्विरभ्यासे प्राजापत्यम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
अत्यन्ताभ्यासे चान्द्रायणम् । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
निखिलविक्रये बहुतरकालाभ्यासे वा त्रिसवनस्नानाधःशयनचतुर्थकालभोजनरूपसंवत्सरव्रतम् । शूद्रस्यात्यन्तापदि दोषाभावः । १५ धेनवः । ४५ कार्षापणाः । ९ गावः । अशक्तौ ८ । ७ कार्षापणाः ।
अथोपपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
निन्दितदेशगमनम् । तत्तु तीर्थयात्राव्यतिरेकेण । निन्दितदेशा यथा । कारस्करकलिङ्गोड्रान्ध्रशवरयुगन्धरभूमिलयसिन्धुसौराष्ट्रसौवीरप्रत्यन्तदेशाङ्गवङ्गकलिङ्गादयः । एतान् गत्वा तत्रैव चिरमुसित्वा गङ्गादिगमनम् । तदशक्तौ पुनरुपनयनम् ।
अतिचिरवासे पुनरुपनयनं चान्द्रायणञ्च । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
असत्याभिधानम् । सकृदसत्यभाषणे कृष्णानुस्मरणम् ।
अत्यन्ताभ्यासे तप्तकृच्छ्रम् । ४ धेनवः । १२ कार्षापणाः । यथाशक्ति ।
अतिबहुतरकालाभ्यासे माससाध्यचान्द्रायणम् । साक्षिणोऽसत्यभाषणे ज्ञानाज्ञानतो द्वादशवार्षिकव्रतमित्युक्तमनुपातके । विवाहभयमैथुनबालप्रतारणपरीहासगोब्राह्मणहितस्त्रीराजस्वप्राणात्ययसर्व्वधनापहारविषयेषु मिथ्याकथने दोषाभावः । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
उच्छिष्टस्य चाण्डालादिदर्शनम् । दर्शने एकरात्रोपवासः । ॥ ० पणाः । यथाशक्ति ।
सम्भाषणे द्विरात्रोपवासः । १ कार्षापणः । यथाशक्ति ।
संस्पर्शे त्रिरात्रोपवासः । सहगमने सचेलस्नानम् । अनुच्छिष्टस्य दर्शने सूर्य्यादिदर्शनम् । सम्भाषणे ब्राह्मणसम्भाषणम् । इदं ज्ञाने । १ ॥ ० कार्षापणः । यथाशक्ति ।
उच्छिष्टस्य सूर्य्यादिदर्शनम् । आदिना नक्षत्रचन्द्रौ । कामत इदम् । एकोपवासः । ६ रक्तिकरजतम् । यथाशक्ति ।
तैलाभ्यक्तादिमूत्रोच्चारसमुत्सर्गः । आदिना अनाचान्तश्मश्रुकर्म्मिमैथुनिनः । एकोपवासः । ॥ ० पणाः । यथाशक्ति ।
विप्राग्न्यादिमध्यगमनम् । आदिना दम्पतीगवोर्ग्रहणम् । कामतोऽत्यन्ताभ्यासे चान्द्रायणम् । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
सकृदभ्यासादिषु तु स्नातकव्रतलोपप्रायश्चित्तम् । एकदिनाभोजनम् । तदावृत्तिश्चोहनीया । ॥ ० पणाः । यथाशक्ति ।
अग्नौ पादप्रतापनम् । कुशेन पादसम्मार्जनञ्च । एकोपवासः । इदं सकृत्करणे । अभ्यासे द्वैगुण्यादिकम् । ॥ ० पणाः । यथाशक्ति ।
गुरोर्ब्राह्मणस्य च तिरस्कारः । दर्पेण हुङ्कारे त्वहङ्कारे वादेन जये वाससा बन्धने तृणेन ताडने च क्षिप्रं प्रसाद्य दिनमेकमुपवासः । एतदीषत्संरम्भतः सकृज्ज्ञेयम् । ॥ ० पणाः । यथाशक्ति ।
शास्त्रीयविवादे दर्पात् पुनः पुनर्जये स्नात्वा प्रणिपत्य त्रिरात्रोपवासः । १ ॥ ० कार्षापणः । यथाशक्ति ।
प्रमादतः पादेन स्पर्शे एकरात्रोपवासः अभिवादनं प्रसादनञ्च । ॥ ० पणाः । यथाशक्ति ।
क्रोधादिना अनुबन्धापेक्षया त्र्यहप्राजापत्यादिकं कल्प्यम् ।
महापातकेन ब्राह्मणस्य विरुद्धाभिधाने कृच्छ्रातिकृच्छ्रम् । ५ धेनवः । १५ कार्षापणाः । यथाशक्ति ।
अथोपपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
उपपातकेन ब्राह्मणस्य विरुद्धाभिधाने प्राजापत्यम् । जातिभ्रंशकरपातकोपपातकादन्यत्राक्रोशस्य लघुगुरुभावं प्रतिसन्धाय एकरात्रत्रिरात्रषड्रात्रोपवासाः । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
प्रतिश्रुत्यादानादौ अल्पत्वबहुत्वाभ्याम् एकरात्रत्रिरात्रषड्रात्रोपवासाः ।
देवर्षिगोब्राह्मणाचार्य्यमातृपितृनरेन्द्राणां प्रति ष्ठीवनाक्रोशे उल्मुकेन जिह्वा दाहो हिरण्यदानञ्च । गुरुब्राह्मणभिन्ने प्रत्याक्रोशने प्रतिताडने च दोषाभावः ।
मिथ्याब्राह्मणशपथः । यावज्जीवसुकृतशपथश्च । विप्रस्य वधसंयुक्तमिथ्याशपथे चान्द्रायणम् । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
यावज्जीवसुकृतशपथे प्राजापत्यम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
अभिशापकरणम् । मासमब्भक्षणम् । गायत्त्र्या वशिष्ठोक्तशुद्धवतीनां वा शतजपश्च । एतत् सकृन्महापातकाद्यभिशापे । उपपातके त्वभ्यासतो ज्ञेयम् । मृषामहापातकाभिशापाभ्यासे त्वावृत्तितारतम्यात् प्रायश्चित्ततारतम्यं कल्प्यम् । महापातकादन्यत्र एकविंशतिरात्रं सुवर्च्चलापानम् । हीनवर्णेन उत्तमवर्णाभिशापे प्रतिलोमोक्तदण्डव्यवस्थया प्रायश्चित्तं कल्प्यम् । १३ धेनवः । ३९ कार्षापणाः । यथाशक्ति ।
अनृताभिशस्तता । मासं कृच्छ्रम् । सार्द्धधेनुद्वयासम्भवात् ३ धेनवः । ७ ॥ ० कार्षापणाः । यथाशक्ति ।
महापातकाभिशापे द्बिमासं कृच्छ्रम् । एतदभिशापकालातिक्रमे ज्ञेयम् । ५ धेनवः । १५ कार्षापणाः । यथाशक्ति ।
अभिशापकालनिर्णयप्रवृत्तस्य उपपातकादिना अभिशस्तस्य कृच्छ्रम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
आरूढपतितत्वम् । व्याधिक्रोधादिना सन्न्यासवाक्यमुच्चार्य्य यो गृहस्थाश्रममाश्रयितुमिच्छति स आरूढपतितः तस्य भावः । षण्मासान् प्राजापत्यम् । एतत् सन्न्यासग्रहणान्तरनिवृत्तानाम् । चिरतरकालसन्न्यासनिवृत्तस्य ब्राह्मणस्य श्वपदाङ्कनपूर्ब्बकनिर्व्वासनम् । क्षत्त्रियविशोर्दास्यकरणम् । १५ धेनवः । ४५ कार्षापणाः । यथाशक्ति ।
यावज्जीवव्रतानुष्ठानप्रवृत्तयोः ब्रह्मचारिवाणप्रस्थयोः स्वधर्म्मनिवृत्तयोश्चान्द्रायणम् । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
जलाग्न्यादिभ्रष्टता । आदिना उद्बन्धनप्रव्रज्यानशनविषप्रपतनप्रायोपवेशशस्त्रघातेभ्यो भ्रंशनम् । चान्द्रायणं तप्तकृच्छ्रद्वयं वा । अभ्यासे त्रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि च । जातकर्म्मादिसंस्काराश्च । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
चिताभ्रष्टायाः प्राजापत्यम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
व्रणकृम्यत्पपत्तिः त्रिसन्ध्यं गोमयगोमूत्राभ्यां स्नानम् । त्र्यहं पञ्चगव्यकुशोदकमात्रपानञ्च । इदञ्च नाभ्यधोदेशदंशविषयम् ।
नाभेरूर्द्ध्वं क्रम्युत्पत्तौ षड्रात्रमुपवासः । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
अथोपपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
शिरसि क्रिमिदंशने वृषदक्षिणायुक्तसान्तपनं तप्तकृच्छ्रं वा । पादोनधेनुचतुष्टयासम्भवात् ४ धेनवः । ११ । ० कार्षापणाः । यथाशक्ति ।
श्वादिदंशः । आदिना शृगालखरग्राम्यक्रव्यान्नराश्वोष्ट्रवराहपुंश्चलीवानरवायसानां दंशनम् । पादयोररुधिरदर्शने जले प्राणायामः घृतप्राशनञ्च । पादयोरतिगाढदंशने नद्यां १६ प्राणायामाः । नाभेरधोगाढदंशने ब्रह्मचारिणस्त्र्यहं सायं पयःपानम् ।
गृहस्थस्य त्रिरात्रमुपवासः । १ ॥ ० कार्षापणः । यथाशक्ति ।
एकाहमग्निहोत्रिणः । नाभ्यूर्द्ध्वं दंशने एतद्द्वैगुण्यम् । बाह्वोश्चतुर्गुणम् । मूर्ध्नि षोडशगुणम् । इदं सरुधिरदंशने । नाभेरूर्द्ध्वमतिगाढदंशने सागरगनदीस्नानपूर्ब्बकोपवासः शतं प्राणायामावर्त्तनञ्च । ॥ ० पणाः । यथाशक्ति ।
व्रतस्थस्य श्वादिदंशने त्रिरात्रोपवासः सघृतयावकपानञ्च । बालस्याज्ञत्वे अशक्तत्वेवा तदीयपापक्षयं संकल्प्य पित्रादिः प्रायश्चित्तं कुर्य्यात् । दष्टस्थानस्य गायत्त्र्यष्टसहस्राभिमन्त्रणपूर्ब्बकमुल्मुके न दहनम् । चतुर्भिः कलसैर्नदीसङ्गमे वा स्नानम् । स्त्रियास्तु विशेषः । उदितसोमनक्षत्रदर्शनं समुद्रदर्शनं वा । कृष्णपक्षे चन्द्रगमनदिग्दर्शनम् । १ ॥ ० कार्षापणः । यथाशक्ति ।
विप्रादिहते चात्मघातमृते वा अश्रुपातजलादिदानम् । दहनवहनकटक्रियातर्पणश्राद्धादौ तप्तकृकृच्छ्रम् । ४ धेनवः । १२ कार्षापणाः । यथाशक्ति ।
तच्छवस्य केवलस्पर्शे अश्रुपाते वा एकाहोपवासः । ६ रक्तिकरजतम् । यथाशक्ति ।
अभ्यासे अनडुत्सहितगोदक्षिणायुक्ततप्तकृच्छ्रम् । ४ धेनवः । १२ कार्षापणाः । १ वृषः । १ गौः । अशक्तौ ६ कार्षापणाः ।
आत्मघातिनः स्नेहात् दाहादिकरणे तप्तकृच्छ्रसहितचान्द्रायणम् । बलात्कारेण उद्बन्धनमृतस्य पाशच्छेदनदहनवहनेषु मासं भैक्ष्यभक्षणं त्रिसवनस्नानञ्च । वेतनेन दहनवहनादिकरणे असम्बन्धिनां कृच्छ्रपादः । १२ धेनवः । ३४ ॥ ० कार्षापणाः । यथाशक्ति ।
दहनवहनव्यतिरेकेण कामतः सर्व्वाङ्गीनानभ्यासस्पर्शे प्राजापत्यम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
तथैवाभ्यासे तप्तकृच्छ्रम् । द्विजस्य शूद्रशवानुगमने त्रिरात्राशौचं तदन्ते समुद्रगां नदीं गत्वा प्राणायामशतं कृत्वा घृतप्राशनम् । श्रवन्तीमासाद्य १००८ गायत्त्रीजपो वा । द्विजस्य द्विजशवानुगमने १०८ गायत्त्रीजपः । शूद्रस्य सर्व्वशवानुगमने स्नानम् । ४ धेनवः । १२ कार्षापणाः । यथाशक्ति ।
वलातुकारितम्लेच्छदास्याशुभकर्म्म । म्लेच्छैश्चाण्डालाद्यैर्दस्युभिः उच्छिष्टमार्ज्जनोच्छिष्टभक्षणखरोष्ट्रविड्वराहमांसभक्षणम्लेच्छस्त्रीसङ्गतदीयस्त्रीसहभोजना-
अथोपपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
दिकुत्सितकर्म्म बलान्मासैकं कारितस्य निरग्निद्बिजातेः प्राजापत्यम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
साग्नेश्चान्द्रायणम् । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
क्षत्त्रियवैश्ययोः पराकः । ५ धेनवः । १५ कार्षापणाः । यथाशक्ति ।
शूद्रस्य मासार्द्धं यावकपानम् । वत्सरादूर्द्ध्वं वर्षचतुष्टयं यावत् भागहारेण प्रायश्चित्तमूहनीयम् । तदूर्द्ध्वं तत्समत्वात् पतितत्वेन प्रायश्चित्तान्तराभावान्मरणम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
अनुदकमूत्रपुरीषकरणम् । सचेलस्नानं गोस्पर्शश्च । अभ्यासे एकोपवासः सचेलस्नानञ्च । ॥ ० पणाः । यथाशक्ति ।
जलाग्न्योरशुचिद्रव्यप्रक्षेपः । मासं यावकपानम् । एतदभ्यासे । २ धेनू । ६ कार्षापणाः । यथाशक्ति ।
ज्ञानत ईषदार्त्तस्य त्रिरात्रोपवासः । इदमापः प्रहरत इति जपश्च । १ ॥ ० कार्षापणः । यथाशक्ति ।
अनार्त्तस्य कौतूहलादिना तप्तकृच्छ्रम् । ४ धेनवः । १२ कार्षापणाः । यथाशक्ति ।
अन्योन्यानुक्तद्बेषोत्पादनम् । अर्थान्मैत्र्यच्छेदकरणम् । अहोरात्रमनश्नन् भूत्वा पयःपानम् । ५ रजतमाषकाः । धनुर्दण्डश्च ।
शक्रधनुःपलाशाग्निदर्शकत्वम् । इदं शक्रधनुरिति व्यपदिश्य कामतो दर्शयित्वाहोरात्रोपवासः । ३ रूप्यमाषकाः । यथाशक्ति ।
श्राद्धनिमन्त्रितब्राह्मणानाह्वानम् । यतिचान्द्रायणम् । ४ धेनवः । ११ । ० कार्षापणाः । यथाशक्ति ।
देवागारकृतेष्टकाकाष्ठशिलादिना गृहकरणम् । प्राजापत्यम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
निष्ठीवनादि । आदिना वातकर्म्मदन्तश्लिष्टानृतक्षुत्पतितसम्भाषणवासःपरिधानानि । आचमनम् । गोपृष्ठस्पर्शः । अर्कदर्शनम् । दक्षिणश्रवणस्पर्शो वा । अत्र पूर्ब्बाभावे ततः परम् । इन्द्रियप्रसृष्टामेध्यस्य मुखस्पर्शे स्नानम् ।
यतीनां व्रतोपव्रतभङ्गः । व्रतानि यथा । अहिंसासत्यास्तेयमैथुनवर्ज्जनानि । उपव्रतानि यथा । अक्रोधगुरुशुश्रूषाप्रमादशौचाहारशुद्धीनि । अहोरात्रोपवासपूर्ब्बकचान्द्रायणम् । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
रमणेच्छया स्त्रीसमीपगमने प्राणायामशतपूर्ब्बकसान्तपनम् । २ धेनू । ६ कार्षापणाः । यथाशक्ति ।
असद्बादे उपवासः प्राणायामशतञ्च । ॥ ० पणाः । यथाशक्ति ।
अकामतः पशुक्रिमिहिंसायां कृच्छ्रातिकृच्छ्रम् । ६ धेनवः । १८ कार्षापणाः । यथाशक्ति ।
चान्द्रायणं वा । इन्द्रियदौर्बल्यात् स्त्रीदर्शनात् स्कन्दने षोडशप्राणायामाः । स्त्रियं विना कामतो दिवास्कन्दने त्रिरात्रोपवासः प्राणायामशताचरणञ्च । रात्रौ स्कन्दने स्नानपूर्ब्बकद्बादशप्राणायामाः । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
एकान्नमधुमांसामश्राद्धप्रत्यक्षलवणानामभोन्यानामेकैकस्य भोजने प्राजापत्यम् । योगिनां प्रमादे योगेन शुद्धिः । ज्ञानिनां ज्ञानमेव शुद्धिकारणम् । ब्रह्मचारिणोऽकामतः स्वप्ने रेतस्खलने स्नानम् । अर्कार्च्चनम् । त्रिः पुनर्मामित्यृचो जपश्च । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
अथोपपातकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
व्रतभङ्गः । लोभान्मोहात् प्रमादाद्वा व्रतभङ्गे उपवासत्रयं केशमुण्डनञ्च । १ ॥ ० कार्षापणः । यथाशक्ति ।
उष्ट्ररासभयानम् । कामतः सकृदारोहणे नग्नस्नाने च प्राणायामः ।
अभ्यासे त्रिरात्रोपवासः । अव्यवधानेनारोहणे नग्नस्य ईषदभ्यस्तस्नानभोजने च प्राणायामशतम् । अत्र उपपातकगणपठितेषु यत्र प्रायश्चित्तं नोक्तं तत्रोपपातकसामान्यप्रायश्चित्तमेव ग्राह्यम् । तत्तु मनूक्तं त्रैमासिकं गोव्रतं चान्द्रायणं वा । याज्ञवल्क्योक्तं मासं पयःपानं पराको वा । एतान्येव प्रायश्चित्तानि पापस्य गुरुलाघवमवगम्य व्यवस्थेयानि ॥ * ॥ १ ॥ ० कार्षापणः । यथाशक्ति ।
अथ जातिभ्रंशकरपापानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
ब्राह्मणपीडाकरणम् । कामतः सान्तपनम् । २ धेनू । ६ कार्षापणाः । यथाशक्ति ।
लशुनादिमद्ययोर्घ्राणम् । मित्रे कौटिल्यम् । पुंसि मैथुनञ्च । अकामतः प्राजापत्यम् । एतच्चाभ्यासे । अत्रायं विशेषः । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
ब्राह्मणावगोरणे प्राजापत्यम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
ब्राह्मणे दण्डादिनिपातने अतिकृच्छ्रम् । ३ धेनवः । ९ कार्षापणाः । यथाशक्ति ।
ब्राह्मणस्य शोणितोत्पादने कृच्छ्रातिकृच्छ्रम् । ५ धेनवः । १५ कार्षापणाः । यथाशक्ति ।
ब्राह्मणाङ्गच्छेदने कृच्छ्रातिकृच्छ्रम् । ५ धेनवः । १५ कार्षापणाः । यथाशक्ति ।
चान्द्रायणम् । दशगोदानञ्च । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
अथ सङ्करीकरणपापानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
खराश्वोष्ट्रमृगहस्तिच्छागमेषमीनाहिमहिषाणां वधरूपाणि । सकृत्करणे मासं यावकपानम् । २ धेनू । ६ कार्षापणाः । यथाशक्ति ।
अभ्यासे कृच्छ्रातिकृच्छ्रम् । ५ धेनवः । १५ कार्षापणाः । यथाशक्ति ।
अत्यन्ताभ्यासे चान्द्रायणम् । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
अथापात्रीकरणपापानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
निन्दितेभ्यो धनादानम् । बाणिज्यम् । शूद्रसेवनम् । असत्यभाषणञ्च । सकृत्करणे चतुरहसाध्यं तप्तकृच्छ्रं शीतकृच्छ्रं वा । सपादधेन्वसम्भवात् २ धेनू । ३ ॥। ० कार्षापणाः । यथाशक्ति ।
अभ्यासे महासान्तपनम् । ६ धेनवः । १८ कार्षापणाः । यथाशक्ति ।
अत्यन्ताभ्यासे चान्द्रायणम् । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
अथ मलावहपापानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
कृमिकीटपक्षिणां हननम् । मद्या नुगतद्रव्यभोजनम् । फलकाष्ठपुष्पाणां स्तेयम् । अधैर्य्यम् । तच्च गीतश्रवणादि । अल्पेऽपचये अत्यन्तवैकृत्यञ्च । सकृदाचरणे त्र्यहयावकपानम् । ॥ १२ यथाशक्ति ।
अभ्यासे तप्तकृच्छ्रम् । ४ धेनवः । १२ कार्षापणाः । यथाशक्ति ।
अत्यन्ताभ्यासे कृच्छ्रातिकृच्छ्रम् । एषु चतुर्षु यत्र यत्र प्रायश्चित्तविशेषो नोक्तस्तत्रैव बोध्यम् । ५ धेनवः । १५ कार्षापणाः । यथाशक्ति ।
अथ प्रकीर्णकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
यदनुक्तं तत्प्रकीर्णकम् । इतिवचनात् अतिपातकाद्यष्टान्यतमत्वेन विशेषतोऽनुक्तानि पापानि । चान्द्रायणम् । पराकः । तुलापुरुषः । गवानुगमनम् । प्राजापत्यम् । एतानि सर्व्वपापप्रणाशकानि । पापस्य गुरुलाघवं वीक्ष्य प्रायश्चित्तान्येतानि शिष्टैर्व्यवस्थेयानि ।
अथास्पृ श्यस्पर्शनम् । तच्च चाण्डालरजस्वलापतितसूतिकाशवशवस्पृ ष्टिव्यङ्गोन्मत्तासूयिकग्राम्याश्वकुक्कुटवराहादीनां स्पर्शनम् । अनुच्छिष्टस्य चाण्डालादिस्पर्शे अकामतः सचेलं सशिरस्कं स्नानम् । कामतः सचेलस्नानम् । महाव्याहृतिभिर्होमः । घृतप्राशनञ्च । चिताधूमस्पर्शे ऋतुकालीनमैथुने दुःस्वप्ने वमने विरेके श्मश्रुकर्म्मणि यूपभक्ष्यपञ्चनखशवसस्नेहतदस्थ्नां स्पर्शे स्नानपूर्ब्बकं प्रक्षालितवस्त्रपरिधानम् । अनृतौ मैथुने मूत्रपुरीषत्यागवच्छुद्धिः ।
सर्व्वाङ्गस्पर्शे त्रिरात्रोपवासः । रात्रौ शववर्जास्पृ श्यस्पर्शने सुवर्णं प्रक्षिप्य अग्निं सन्निधाप्य दिवाहृतजलैः स्नानम् । सर्व्वत्र प्रागन्नप्राशनात् शिशोरभ्युक्षणम् । प्राक् चूडाकरणात् बालस्याचमनम् । प्रागुपनयनात् कुमारस्य स्नानम् । १ ॥ ० कार्षापणः । यथाशक्ति ।
अथोच्छिष्टस्य चाण्डालादिस्पर्शः । आदिना पतितरजस्वलान्त्यजश्वशूकरमद्यभाण्डानां ग्रहणम् । सद्यः स्नात्वा परदिने प्रायश्चित्तं करणीयम् ।
ऊर्द्ध्वोच्छिष्टस्य प्राजापत्यम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
कामाभ्यासे सान्तपनम् । ४ धेनवः । १२ कार्षापणाः । यथाशक्ति ।
अज्ञाने त्रिरात्रोपवासः । पञ्चगव्यपानञ्च । १ ॥ ० कार्षापणः । यथाशक्ति ।
अर्द्धोच्छिष्टस्य अर्थादनिगीर्णग्रासस्य आमाशनोच्छिष्टस्य च प्राजापत्यपादः । ॥। ० पणाः । यथाशक्ति ।
आपदि ज्ञानात् विशेषो यथा ।
मूत्रत्यागाशौचिनः शवादिस्पर्शे एकोपवासः । ॥ ० पणाः । यथाशक्ति ।
पुरीषत्यागाशौचिनः शवादिस्पर्शे दिनद्वयमुपवासः । १ कार्षापणः । यथाशक्ति ।
मैथुनाशौचिनः शवादिस्तर्शे दिनत्रयमुपवासः । १ ॥ ० कार्षापणः । यथाशक्ति ।
पानाशुचीनां शवादिस्पर्शे दिनचतुष्टयमुपवासः । २ कार्षापणौ । यथाशक्ति ।
अथ तलाभ्यक्तस्य चाण्डालादिस्पर्शः । उपवासः । पञ्चगव्यपानञ्च । चाण्डालोदकसंस्पृ ष्टस्य स्नानम् । ॥ ० पणाः । यथाशक्ति ।
उच्छिष्टस्य चाण्डालोदकस्पर्शे त्रिरात्रोपवासः । १ ॥ ० कार्षापणः । यथाशक्ति ।
अथ प्रकीर्णकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
अथरजकादिस्पर्शः । आदिना चर्म्मारवेणधीवरनटानां ग्रहणम् । अनुच्छिष्टस्य द्बिजस्य रजकादिभिरकामतः स्पर्शे आचमनम् । कामतः शिरोव्यतिरिक्ताङ्गस्पर्शे तदङ्गप्रक्षालनपूर्ब्बकमाचमनम् । शिरःस्पर्शे स्नानम् । उच्छिष्टस्य तु ब्राह्मणस्यानुच्छिष्टचर्म्मकारादिस्पर्शे एकरात्रं पयःपानम् ।
उच्छिष्टचर्म्मकारादिकर्त्तृकस्पर्शे त्रिरात्रोपवासान्ते घृतप्राशनम् । ज्ञानत ऊर्द्ध्वोच्छिष्टविषयञ्चेदम् । १ ॥ ० कार्षापणः । यथाशक्ति ।
अज्ञानतस्तदर्द्धम् । ॥। ० पणाः । यथाशक्ति ।
अथोच्छिष्टस्य ब्राह्मणस्योच्छिष्टसच्छूद्रस्पर्शः । एकोपवासानन्तरं पञ्चगव्यपानम् । कामत इदम् । ॥ ० पणाः । यथाशक्ति ।
अकामेऽधोच्छिष्टे च नक्तम् । शुनः स्पर्शेऽप्येवम् । २ रजतरक्तिके । यथाशक्ति ।
अथोच्छिष्टोच्छिष्टसवर्णस्पर्शः । द्बयोरेवोच्छिष्टयोर्ब्राह्मणयोरन्योन्यस्पर्शे तदन्नत्यागपूर्ब्बकं स्नानम् । अत उच्छिष्टस्य विप्रस्यानुच्छिष्टविप्रस्पर्शे दोषाभाव एव । एतदकामतः ।
कामतो नक्तपूर्ब्बं घृताशनम् । २ रजतरक्तिके । यथाशक्ति ।
उच्छिष्टब्राह्मणस्योच्छिष्टक्षत्त्रस्पर्शे नक्तम् । २ रजतरक्तिके । यथाशक्ति ।
तादृशवैश्यस्पर्शे उपवासः । भुञ्जानयोः सवर्णयोः परस्परस्पर्शे तदन्नत्यागपूर्ब्बकं स्नानं प्राणायामश्च । अज्ञानात्तदन्नभोजने परदिने नक्तं पञ्चगव्यपानम् । तदन्ते भोजने न दोषः । ॥ ० पणाः । यथाशक्ति ।
ज्ञानात् उपवासानन्तरं ब्रह्मकूर्च्चपानं हविष्यभोजनञ्च । ॥ ० पणाः । यथाशक्ति ।
शूद्रस्यापि विशेषाश्रवणादुच्छिष्टोच्छिष्टसंस्पर्शे एतदेव । नक्ताशक्तौ रजतरक्तिकाद्वयं देयम् ।
अथ नीलीवस्त्रपरिधानम् । अहोरात्रोपवासानन्तरं पञ्चगव्यपानम् । इदमज्ञाने । ज्ञाने द्वैगुण्यम् । ॥ ० पणाः । यथाशक्ति ।
पालनाद्बिक्रयात्तद्वृत्तैरुपजीवनात् त्रीणि कृच्छ्राणि । नीलीवस्त्रधारिणां स्नानदानतपोहोमस्वाध्यायपितृतर्पणमहायज्ञानां वृथात्वम् । स्त्रीणां क्रीडार्थसंयोगे शयनीये न दोषः । ३ धेनवः । ९ कार्षापणाः । यथाशक्ति ।
अथ पलाण्डुलशुनादिस्पर्शः । आदिना सुरामद्यशूद्रोच्छिष्टानां ग्रहणम् । ऊर्द्ध्वोच्छिष्टस्य द्बिजस्य कामतः स्पर्शे त्र्यहं कुशजलपानं सावित्रीशतजपश्च । १ ॥ ० कार्षापणलभ्यकाञ्चनम् । यथाशक्ति ।
मूत्रोच्छिष्टस्य स्पर्शे नक्तम् । २ रजतरक्तिके । यथाशक्ति ।
कृतपुरीषोत्सर्गस्य पलाण्डुलशुनादिस्पर्शे एकोपवासः । ॥ ० पणाः । यथाशक्ति ।
ऊर्द्ध्वोच्छिष्टस्य द्ब्यहोपवासः । १ कार्षापणः । यथाशक्ति ।
एतत्त्रयमकामतः ।
अनुच्छिष्टस्य स्पर्शे केवलं स्नानम् ।
अथ प्रकीर्णकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
अधोच्छिष्टस्य कामतः सुरेतरमद्यस्पर्शे अकामतः शूद्रोच्छिष्टस्य लशुलादीनाञ्च स्पर्शे अहोरात्रोपवासः । पञ्चगव्यपानञ्च । ॥ ० पणाः । यथाशक्ति ।
कामतः सुराया दर्शने स्नानं प्राणायामत्रयं घृतप्राशनञ्च ।
अकामतः सुरायाः स्पर्शने घ्राणे चाप्येवम् ।
कामतस्तस्याः स्पर्शे घ्राणे च जातिभ्रंशकरपापस्य प्रायश्चित्तं ज्ञेयम् । असोमपायिनां सुरापसम्बन्धिसुराघ्राणे उदकमज्जनं त्रिरघमर्षणं घृतप्राशनञ्च ।
अथोच्छिष्टस्य नरादिपुरीषस्पर्शः । आदिना श्वकाककङ्कगृध्रादिग्रहणम् । अधोच्छिष्टस्य सचेलस्नानम् ।
ऊर्द्ध्वोच्छिष्टस्योपवासः । पञ्चगव्यपानञ्च । ॥ ० पणाः । यथाशक्ति ।
अथानुच्छिष्टस्य मलस्पर्शः । मला यथा । “वसाशुक्रमसृङ्मज्जामूत्रविट्कर्णविण्णखाः । श्लेष्माश्रुदूषिका स्वेदो द्वादशैते नृणां मलाः ॥” पूर्ब्बेषां षण्णां नाभेरधः करद्वये च स्पर्शे मृज्जलाभ्यां क्षालनम् । उत्तरेषां षण्णां नाभेरधः करद्वये च स्पर्शे केवलजलेन क्षालनम् । नाभेरूर्द्ध्वं विण्मूत्रप्रभृतिस्पर्शे स्नानम् । चक्षुषि ओष्ठे बाहुकरयोश्च स्पर्शे मृत्तोयगोमयैस्तदङ्गक्षालनं स्नानं उपवासः पञ्चगव्यपानञ्च । ॥ ० पणाः । यथाशक्ति ।
भासवानरमार्जारखरोष्ट्रशूकराणाममेध्यस्पर्शे सचेलं स्नानम् ।
एतदपि अनुच्छिष्टस्य नाभ्यूर्द्ध्वलेपोपहतविषयम् । अध उच्छिष्टविषयञ्च ।
काकवलाहकाभ्यां विष्ठितस्य श्रोत्रमुखाप्रविष्टामेध्यलिप्तशरीरस्य च तदङ्गक्षालनं स्नानञ्च । अमेध्यानि यथा । “मानुषास्थि शवं विष्ठा रेतो मूत्रार्त्तवं वसा । स्वेदाश्रुदूषिका श्लेष्मा मद्यञ्चामेध्यमुच्यते ॥” एषां देहात् प्रच्युतानामेवामेध्यत्वम् । मद्यविण्मूत्रविप्रुषां मुखमण्डलस्पर्शे मृत्तिकागोमयैर्लेपनं स्नानं उपवासः । तदन्ते पञ्चगव्यपानञ्च । अत्र विशेषो यथा । परस्य मानुषस्यास्थिवसाविष्ठार्त्तवमूत्ररेतोमज्जशोणितानां स्पर्शे लेपमार्जनं स्नानं आचमनञ्च । आत्मसम्बन्धिनामेतेषां स्पर्शे परिमार्ज्जनमाचमनञ्च । ॥ ० पणाः । यथाशक्ति ।
अथ मानुषास्थिस्पर्शः । सस्नेहमानुषास्थिस्पर्शे स्नानम् ।
कामतः स्पर्शे स्नानं गायत्त्र्यष्टशतजपः । घृतप्राशनं त्रिराचमनञ्च ।
कामतोऽत्यन्ताभ्यासे त्रिरात्राशौचान्ते कृच्छ्रपादः । ॥। ० पणाः । यथाशक्ति ।
निःस्नेहस्य स्पर्शे आचमनं गोस्पर्शः अर्कदर्शनं वा । कामतोऽत्यन्ताभ्यासे अहोरात्राशौचान्ते एतानि कार्य्याणि ।
अथ रुद्रनिर्म्माल्यस्पर्शः । सचेलस्नानम् ।
अथ रजस्वलायाः सवर्णासवर्णरजस्वलास्पर्शः । रजस्वलाया ब्राह्मण्याः सवर्णरजस्वलास्पर्शे एकरात्रोपवासः । पञ्चगव्यपानञ्च । एतत् कामतः । ॥ ० पणाः । यथाशक्ति ।
अथ प्रकीर्णकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
अकामतस्तदर्द्धं अर्थान्नक्तव्रतम् । । ० पणाः । यथाशक्ति ।
रजस्वलाया ब्राह्मण्याः शेषवर्णरजस्वलायाः अर्थात् क्षत्त्रियादिरजस्वलायाः स्पर्शे षड्रात्रोपवासः । एतच्च कामतः । अकामतस्तदर्द्धम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
रजस्वलायाः शूद्रायाः सवर्णरजस्वलास्पर्शे एकरात्रोपवासः पञ्चगव्यपानञ्च । ॥ ० पणाः । यथाशक्ति ।
सवर्णयो रजस्वलयोरन्योन्यस्पर्शे एकोपवासः पञ्चगव्यपानञ्च । ॥ ० पणाः । यथाशक्ति ।
अत्यन्ताधमरजक्यादिरजस्वलास्पर्शे द्व्यहसाध्यं ब्रह्मकूर्च्चव्रतम् । १ कार्षापणलभ्यकाञ्चनम् । यथाशक्ति ।
एतच्च कामतः ।
अकामतस्तदर्द्धम् ।
एतत् सर्व्वं शुद्धिकालानन्तरं अर्थात् पञ्चमे ऽहनि कार्य्यम् ।
अथ रजस्वलायाः पतितचाण्डालादिस्पर्शः । आदिना अन्त्यजवायसयोर्ग्रहणम् । प्रथमेऽह्नि स्पर्शे त्रिरात्रोपवासः । १ ॥ ० कार्षापणः । यथाशक्ति ।
द्बितीयेऽह्नि द्व्यहोपवासः । १ कार्षापणः । यथाशक्ति ।
तृतीयेऽह्नि अहोरात्रोपवासः । ॥ ० पणाः । यथाशक्ति ।
चतुर्थेऽह्नि विशुद्धिस्नानात् पूर्ब्बं स्पर्शे नक्तम् । १ रौप्यमाषकम् । यथाशक्ति ।
एतच्चाकामतः ।
कामतः स्पर्शे सर्व्वत्र त्रिरात्रोपवासः । तदन्ते अजाघ्राता कारयितव्या च । १ ॥ ० कार्षापणः । यथाशक्ति ।
अथ रजस्वलाया उच्छिष्टशूद्राश्वशूकरादिस्पर्शः । आदिना जम्बूकखरग्राम्यकुक्कुटानां ग्रहणम् । प्रथमद्वितीयदिनयोरुच्छिष्टशूद्रास्पर्शे द्ब्यहोपवासः । १ कार्षापणः । यथाशक्ति ।
तृतीयदिने स्पर्शे एकोपवासः । ॥ ० पणाः । यथाशक्ति ।
चतुर्थदिने स्पर्शे नक्तम् । २ रजतमाषकौ । यथाशक्ति ।
कुक्कुटादिस्पर्शे सर्व्वत्र नक्तमेव । २ रजतमाषकौ । यथाशक्ति ।
एतच्च प्रायश्चित्तं विशुद्धिस्नानानन्तरं कर्त्तव्यम् ।
एकवृक्षादौ रजस्वलायाश्चाण्डालस्पर्शे अहोरात्रोपवासः । पञ्चगव्यपानञ्च । ॥ ० पणाः । यथाशक्ति ।
रजस्वलाया उच्छिष्टचाण्डालादिस्पर्शे द्विजस्त्रीणां प्राजापत्यम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
शूद्राया धेनुदानम् ।
एषु प्रायश्चित्तेषु रजस्वलात्वमेव निमित्ततो न ब्राह्मण्यादिभ्यो विशेषः । अत्रापवादः । “तीर्थे विवाहे यात्रायां संग्रामे देशविप्लवे । नगरग्रामदाहे च स्पृष्टास्पृष्टि न दूष्यति ॥”
अथ चाण्डालादिसङ्करः । आदिना श्वपाकपुक्कसयोर्ग्रहणम् । संवत्सरैकचाण्डालसङ्करे मासैकं गोमूत्रयावकाहारः । एतत् प्रायश्चित्तं यौनादिवर्जितसंसर्गविषयम् । १२ धेनवः । ३६ कार्षापणाः । १०० गावः । अशक्तौ १०० कार्षापणाः । अभावे सर्व्वस्वम् ।
बालवृद्धस्त्रीशूद्राणामर्द्धम् । आषोडशाद्बालाः । सप्तत्यूर्द्ध्वं स्थविराः । ६ धेनवः । १८ कार्षापणाः । ५० गावः । अशक्तौ ५० कार्षापणाः । अभावे सर्व्वस्वार्द्धम् ।
चीर्णे प्रायश्चित्ते ब्राह्मणभोजनम् ।
एतत् प्रायश्चित्तं ब्राह्मणक्षत्त्रियविशां तुल्यमेव ।
अथ प्रकीर्णकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
पूर्ब्बोक्तकालादल्पकालसङ्करे चान्द्रायणम् । सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । २२ ॥ ० कार्षापणाः । यथाशक्ति ।
स्वल्पतरे पराकः । ५ धेनवः । १५ कार्षापणाः । यथाशक्ति ।
अत्यन्तस्वल्पकाले कृच्छ्रद्वयम् । २ धेनू । ६ कार्षापणाः । यथाशक्ति ।
शूद्रस्यात्र प्राजापत्यम् । १ धेनुः । ३ कार्षापणाः । यथाशक्ति ।
चाण्डालादिसङ्करे गृहादिशुद्धिर्यथा । भवनदहनं अर्थात् हुताशनज्वालासंस्पृष्टम् । पवनं अर्थात् पूर्ब्बमृत्तिकाकर्षणेन मृत्तिकान्तरदानम् । सर्व्वमृण्मयभाण्डमेदनम् । दारवाणां तक्षणम् । शङ्खशुक्तिरजतसुवर्णचेलानामद्भिः प्रक्षालनम् । कांस्यताम्राणामाकरे अर्थादग्नौ शुद्धिः । सौवीरपयोदधितक्राणां परित्यागः । लाक्षादिरसधान्यादिद्रव्याणां रक्षणम् । घृतादीनां तापनञ्च ।
एकस्मिन्नेव कूपे द्विजानां चाण्डालानाञ्च सह जलपानं कुर्व्वतां संसर्गदुष्टानां उपवासः । पञ्चगव्यपानञ्च । ॥ ० पणाः । यथाशक्ति ।
बालापत्यारोगिगर्भिणीवृद्धानां नक्तम् । २ रजतरक्तिके । यथाशक्ति ।
बालानां प्रहरद्बयमभोजनम् । १ रजतरक्तिका । यथाशक्ति ।
चर्म्मकारादीनामविज्ञातसङ्करे तु चाण्डालसङ्करप्रायश्चित्तस्य षष्ठो भागः कर्त्तव्यः । संहतानां एकस्मिन्नुपहते तस्यैव शोधनम् । न तु तत्स्पृष्टिनां सर्व्वेषां शोधनम् । एकशाखापाषाणादौ चाण्डालादिभिः सहारोहणे ब्राह्मणस्य स्नानमात्रम् ।
तत्र फलभोजने ब्राह्मणानुज्ञापनं सचेलस्नानं अहोरात्रोपवासः पञ्चगव्यपानञ्च । एतद्व्यवधाने । ॥ ० पणाः । यथाशक्ति ।
सन्निधाने त्रिरात्रोपवासः । पञ्चगव्यपानञ्च । १ ॥ ० कार्षापणः । यथाशक्ति ।
एतदुभयं ज्ञानविषयम् । अज्ञाने एकवृक्षादौ चाण्डालादिभिः सह फलभोजने अघमर्षणम् । एकावयविद्वारा परम्परास्पर्शेऽपि स्नानादिकम् । अत्रापवादः । “रथ्याकर्द्दमतोयानि नाबः पन्थास्तृणानि च । स्पर्शनान्न प्रदूष्यन्ति पक्वेष्टरचितानि च ॥” तृणानि तृणसमूहः । पक्वेष्टरचितानि मठादीनि । द्बितीयसंसर्गितृतीयसंसर्गिणोर्हस्तपादप्रक्षालनपूर्ब्बकमाचमनम् । चतुर्थसंसर्गे दोषाभावः । इत्यस्पृ श्यस्पर्शप्रायश्चित्तम् ॥ * ॥
अथ रहस्यपापानि । रहस्यकृते पापे रहस्यप्रायश्चित्तं करणीयम् । अन्येनावेदितमित्यर्थः । तत्र यदि कर्त्ता स्वयं प्रायश्चित्तानभिज्ञस्तदा कस्यचिद्रहस्यपापस्य किं रहस्यप्रायश्चित्तमिति सामान्येन प्रायश्चित्ताभिज्ञं स्पृष्ट्वा रहस्यं प्रायश्चित्तं कुर्य्यात् । तत्र यदि
अथ प्रकीर्णकानि । प्रायश्चित्तानि । तदशक्तौ धेनुदानम् । तदशक्तौ चूर्णीदानम् । दक्षिणा ।
मरणान्तिकं प्रायश्चित्तं तत्र रहस्यकृतेऽपि मरणमेव कर्त्तव्यम् । यत्र तु व्रतादिकं तत्र जातिशक्तिगुणसकृद्बुद्ध्याद्यपेक्षया प्रकाशकृतपापोक्तप्रायश्चित्तस्य विंशतिभागत्रिंशद्भागषष्टिभागाः कल्प्याः ।
अथवा महापातकेष्वकामतो मनूक्तमाब्दिकं व्रतं करणीयम् । १५ धेनवः । ४५ कार्षापणाः । ९ गावः । अशक्तौ ८ । ६ ॥। कार्षापणाः ।
कामतो द्वैगुण्यम् । ३० धेनवः । ९० कार्षापणाः । १७ गावः । अशक्तौ १६ ॥ १३ ॥ कार्षापणाः ।

अन्येषु पापेषु गुरुलाघवापेक्षया प्राणायामशतमेव एकाहद्व्यहत्र्यहक्रमेण मासं षण्मासं संवत्सरं वाभ्यसनीयम् । व्रतकरणाशक्तेनापि जपहोमध्यानतीर्थसेवादानवेदाभ्यासादयः कार्य्याः । इति रहस्यप्रायश्चित्तम् ॥ इति शूलपाणिकृतप्रायश्चित्तविवेकोक्तनवविधपापानां प्रायश्चित्तानि समाप्तानि ॥ * ॥

पृष्ठ ३/३६४

प्रायिकं, त्रि, (प्रायेण प्राये वा भवमिति । प्राय +

ठक् ।) बाहुल्ये भवम् । यथा । “क्षैण्यज्ञाने तु
प्रायिकमरणं ज्ञात्वा प्रवृत्तस्य चान्द्रायणादि-
कम् ।” इति प्रायश्चित्ततत्त्वम् ॥

प्रायुद्धेषी, [न्] पुं, (प्रायुधि प्रकृष्टयुद्धादिस्थाने

हेषते शब्दायते इति । हेष् + णिनिः ।)
घोटकः । इति शब्दचन्द्रिका ॥

प्रायोज्यं, त्रि, (प्र + आ + युज् + णिच् + यत् ।)

प्रयोजनार्हम् । यथा । प्रायोज्यं न विभज्येत ।
यद्यस्य प्रयोजनार्हं पुस्तकादि तन्मूर्खैः सह
न विभजनीयमिति दायभागः ॥

प्रायोपविष्टः, त्रि, (प्रायेण मरणार्थमनशनेन उप-

विष्टः ।) प्रायोपवेशविशिष्टः । यथा, --
“प्रायोपविष्टं गङ्गायां परीतं परमर्षिभिः ॥”
इति श्रीभागवतम् ।
“प्रायेण मृत्युपर्य्यन्तानशनेनोपविष्टम् ।” इति
तट्टीकायां श्रीधरस्वामी ॥

प्रायोपवेशः, पुं, (प्रायेण मृत्युनिमित्तकानशनेन

उपवेशः स्थितिः ।) सन्न्यासपूर्ब्बकानशनस्थितिः ।
यथा, --
“प्रायोपवेशो राजर्षेर्विप्रशापात् परीक्षितः ॥”
इति श्रीभागवते १२ स्कन्धः ॥

प्रारब्धं, क्ली, (प्रकृष्टमारब्धं स्वकार्य्यजननायेति ।)

प्रालब्धम् । शरीरारम्भकादृष्टविशेषः । यथा, --
“प्रारब्धकर्म्मणां भोगादेव क्षयः ॥” इति स्मृतिः ।
“प्रारब्धमश्नन्नभिमानशून्यः ।”
इति श्रीभागवतम् ॥
“प्रारब्धकर्म्मविक्षेपाद्बासना तु न नश्यति ॥”
इति भगवद्गीतायां मधुसूदनसरस्वती च ॥
(प्र + आ + रभ् + कर्म्मणि क्तः । कृतारम्भे,
त्रि । यथा, रघौ । १४ । ७ ।
“अथाभिषेकं रघुवंशकेतोः
प्रारब्धमानन्दजलैर्जनन्योः ।
निर्वर्त्तयामासुरमात्यवृद्धा-
स्तीर्थाहृतैः काञ्चनकुम्भतोयैः ॥”)

प्रारब्धिः, स्त्री, (प्र + आ + रभ् + क्तिन् ।) गज-

बन्धनरज्जुः । इति हारावली ॥

प्रारम्भः, पुं, (प्र + आ + रभ् + भावे घञ् ।

मुम् च ।) प्रकर्षेण आरम्भः । यथा, स्मृतिः ।
“प्रारम्भे कर्म्मणां विप्रः पुण्डरीकं स्मरेद्धरिम् ॥”
(प्रारभ्यते इति । प्र + आ + रभ् + कर्म्मणि
घञ् । मुम्च । कर्म्म । यथा, मार्कण्डेयपुराणे ।
५१ । १७ ।
“शुभाशुभञ्च कुशलैः कुमारोऽन्यो ब्रवीति वै ।
तत्रापि दुष्टे व्याक्षेपः प्रारम्भत्याग एव च ॥”
प्रकृष्ट आरम्भो योगो यस्येति विग्रहे । योगी ।
यथा, रघुः । १० । ९ ।
“प्रबुद्धपुण्डरीकाक्षं बालातपनिभांशुकम् ।
दिवसं शारदमिव प्रारम्भसुखदर्शनम् ॥”)

प्रार्थनं, क्ली, (प्र + अर्थ + ल्युट् ।) प्रकर्षेण

याचनम् । तत्पर्य्यायः । याच्ञा २ अभि-
शस्तिः ३ याचना ४ अर्थना ५ प्रार्थना ६ ।
इति शब्दरत्नावली ॥ (यथा, महाभारते ।
३ । १४९ । ३७ ।
“युगक्षयकृता धर्म्माः प्रार्थनानि विकुर्व्वते ।
एतत् कलियुगं नाम अचिराद् यत् प्रवर्त्तते ॥”)

प्रार्थना, स्त्री, (प्र + अर्थ + णिच् + युच् ।) प्रक-

र्षेण याचनम् । (यथा, महाभारते । ३ । ३१२ । ८१ ।
“सन्तो दिग्जलमाकाशं गौरन्नं प्रार्थना
विषम् ।
श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष !
मन्यसे ॥”)

प्रार्थनीयं, क्ली, (प्रार्थ्यते इति । प्र + अर्थ +

णिच् + अनीयर् ।) द्बापरयुगम् । इति शब्द-
रत्नावली ॥ प्रार्थनाविषये, त्रि ॥ (यथा, पञ्च-
तन्त्रे । २ । ११६ ।
“ततस्तयोः स्वभूपं बुद्ध्वा एकस्य वरः प्रार्थ-
नीयः ॥”)

प्रार्थितः, त्रि, (प्रार्थ्यते स्मेति । प्र + अर्थ + क्तः ।)

याचितः । (यथा, देवीभागवते । २ । ६ । ५६ ।
“प्रार्थिता पतिना कुन्ती ददौ मन्त्रं दयान्विता ।
एकपुत्त्रप्रबन्धेन माद्री पतिमते स्थिता ॥”)
शत्रुसंरुद्धः । अभिहितः । इति मेदिनी ॥ हतः ।
इति त्रिकाण्डशेषः ॥

प्रालम्बं, क्ली, (प्रालम्बते इति । लवि अवस्रंसने +

अच् ।) कण्ठात् ऋजुलम्बमानमाल्यम् । इत्य-
मरः । २ । ६ । १३६ ॥ (यथा, रघौ । ६ । १४ ।
“विस्रस्तमंसादपरो विलासी
रत्नानुविद्धाङ्गदकोटिलग्नम् ।
प्रालम्बमुत्कृष्य यथावकाशं
निनाय साचीकृतचारुवक्त्वः ॥”
प्रकर्षेण लम्बमाने, त्रि ॥)

प्रालम्बिका, स्त्री, (प्रालम्बते इति । अच् । संज्ञायां

कन् । टापि अत इत्वम् ।) स्वर्णरचितलल-
न्तिका । सुवर्णहारः । इत्यमरः । २ । ६ । १०४ ॥

प्रालेयं, क्ली, (प्रकर्षेण लीयन्ते लीना भवन्ति

पदार्था अत्रेति प्रलयो हिमालयस्तत आग-
तम् । प्रलय + अण् । “केकयमित्रयुप्रलयानां
यादेरियः ।” ७ । ३ । २ । इति यस्येयादेशः ।)
हिमम् । इत्यमरः । १ । ३ । १८ ॥ (यथा,
देवीभागवते । ४ । ५ । १३ ।
“नरनारायणौ चैव चेरतुस्तप उत्तमम् ।
प्रालेयाद्रिं समागत्य तीर्थे वदरिकाश्रमे ॥”)
पृष्ठ ३/३६५

प्रालेयांशुः, पुं, (प्रालेयाणि हिमानि तद्वत् शीता

वा अंशवो यस्य ।) चन्द्रः । इति हलायुधः ॥
(यथा, माघे । ९ । ८७ ।
“इत्थं नारीर्घटयितुमलङ्कामिभिः काममासन्
प्रालेयांशोः सपदि रुचयः शान्तमानान्त-
रायाः ॥”)

प्रावटः, पुं, (प्र + अव + अट् + अच् । शकन्ध्वा-

दित्वात् साधुः ।) यवः । इति जटाधरः ॥

प्रावरः, पुं, (प्रावृणोत्यनेनेति । प्र + आ + वृ +

करणे अप् ।) प्राचीरम् । इति शब्दरत्नावली ॥

प्रावरणं, क्ली, (प्रावृणोत्यनेन गात्रमिति । प्र +

आ + वृ + करणे ल्युट् ।) उत्तरीयवस्त्रम् ।
तत्पर्य्यायः । प्रच्छादनम् २ संव्यानम् ६ उत्त-
रीयकम् ४ । इति हेमचन्द्रः ॥ (यथा, राज-
तरङ्गिण्याम् । ४ । ६७४ ।
“बन्धकीपादमुद्राङ्कचारुप्रावरणादि सः ।
गौरवार्हान् दुराचारैः सचिवान् पर्य्यधापयत् ॥”)
प्रकृष्टावरणञ्च ॥

प्रावारः, पुं, (प्राव्रियते गात्रमनेनेति । प्र + आ +

वृ + करणे घञ् ।) उत्तरासङ्गः । उत्तरीय-
वस्त्रम् । इत्यमरः ॥ (यथा, महाभारते । २ । ४८ । ९ ।
“आच्छादयसि प्रावारानश्नासि पिशितौदनम् ।
आजानेयावहन्त्यश्वाः केनासि हरिणः कृशः ॥”)

प्रावारकीटः, पुं, (प्रावारस्य कीटः ।) कीट-

विशेषः । तत्प्रर्य्यायः । कुणः २ । इति जटा-
धरः ॥

प्रावृट्, [ष्] स्त्री, (प्रकर्षेण आ सम्यक्प्रकारेण

च वर्षतीति । प्र + आ + वृष् + क्विप् । प्रावर्ष-
त्यत्रेति आधारे क्विप् वा । यद्बा, वर्षणमिति
वृट् प्रकृष्टा वृडत्र । “नहिवृतिवृषिति ।” ६ ।
३ । ११६ । इति पूर्ब्बपदस्य दीर्घः ।) वर्षाकालः ।
श्रावणभाद्रमासौ । इत्यमरः । १ । ४ । १९ ॥
(यथा, रघौ । ६ । ५१ ।
“अध्यास्य चाम्भः पृषतोक्षितानि
शैलेयगन्धीनि शिलातलानि ।
कलापिनां प्रावृषि पश्य नृत्यं
कान्तासु गोवर्द्धनकन्दरासु ॥”)

प्रावृडत्ययः, पुं, (प्रावृषः अत्ययो नाशो यत्र ।)

शरत्कालः । इति राजनिर्घण्टः ॥

प्रावृतं, त्रि, (प्राव्रियते स्मेति । प्र + आ + वृ +

क्तः ।) प्रकृष्टावरणम् । ओडितवस्त्रम् । इति
भरतः ॥ तत्पर्य्यायः । निवीतम् २ । इत्यमरः ॥
निवृतम् ३ । इति तट्टीकायां स्वामी ॥

प्रावृतिः, स्त्री, (प्रावृणोति प्रकर्षेण आच्छादयति

दृष्टिपथमनयेति । प्र + आ + वृ + करणे क्तिन् ।)
प्राचीरम् । इति शब्दरत्नावली ॥ (मलः ।
यथा, सर्व्वदर्शनसंग्रहे शैवदर्शने ।
“प्रावृतीशौ बलं कर्म्म मायाकार्य्यञ्चतुर्विधम् ।
पाशजालं समासेन धर्म्मनाम्नैव कीर्त्तिता ॥”
“अस्यार्थः । प्रावृणोति प्रकर्षेणाच्छादयत्यात्मनो
दृक्क्रिये इति प्रावृतिः स्वाभाविक्यशुचिर्मल
इति ॥”)

प्रावृषा, स्त्री, (प्रावृष् + हलन्तात् टाप् वा ।)

घनागमः । वर्षाकालः । इति त्रिकाण्डशेषः ॥

प्रावृषायणी, स्त्री, (प्रावृषायां अयनमुद्भवो

यस्याः । गौरादित्वात् ङीष् ।) कपिकच्छुः ।
इत्यमरः । २ । ४ । ६ ॥ आलकुशी इति भाषा ॥

प्रावृषिकः, पुं, (प्रावृषि वर्षाकाले कायति शब्दायते

इति । कै + कः । अलुक्समासः ।) मयूरः ।
इति धरणिः ॥ (प्रावृषि भवः । प्रावृष् +
ठक् ।) प्रावृट्कालभवे, त्रि ॥

प्रावृषेण्यः, पुं, (प्रावृषि भवः प्रावृट् देवतास्य वेति ।

प्रावृष् + “कालेभ्यो भववत् ।” ४ । २ । ३४ । इति
“प्रवृष एण्यः ।” ४ । ३ । १७ । इति एण्यः ।)
कदम्बवृक्षः । इति मेदिनी ॥ कुटजवृक्षः ।
धाराकदम्बः । इति राजनिर्घण्टः ॥

प्रावृषेण्यः, त्रि, (प्रावृषि भव इति । प्रावृष् +

एण्यः ।) प्रावृट्कालभवः । इति मेदिनी ॥
(यथा, रघौ । १ । ३६ ।
“स्निग्धगम्भीरनिर्घोषमेकं स्यन्दनमास्थितौ ।
प्रावृषेण्यं पयोवाहं विद्युदैरावताविव ॥”)
प्राचुर्य्यम् । इति शब्दरत्नावली ॥

प्रावृषेण्या, स्त्री, (प्रावृषेण्य + टाप् ।) कपि-

कच्छुः । रक्तपुनर्नवा । इति राजनिर्घण्टः ॥

प्रावृष्यं, क्ली, (प्रावृषि भवमिति । यत् ।) वैदूर्य्यम् ।

इति राजनिर्घण्टः ॥ प्रावृषि भवे, त्रि ॥

प्रावृष्यः, पुं, (प्रावृषि भव इति । प्रावृष् + यत् ।)

कुटजः । धाराकदम्बः । विकण्टकः । इति
राजनिर्घण्टः ॥

प्राशितं, क्ली, (प्रकर्षेण अशितं यत्र ।) पितृ-

यज्ञः । इति जटाधरः ॥ (प्र + अश् + कर्म्मणि
क्तः ।) भक्षिते, त्रि ॥

प्राश्निकः, पुं, (प्रश्नाय तदुत्तरप्रदानाय साधु-

रिति । प्रश्न + ठक् ।) सभ्यः । इति त्रिकाण्ड-
शेषः ॥ प्रश्नकर्त्तरि, त्रि ॥

प्रासः, पुं, (प्रास्यते क्षिप्यते इति । प्र + अस् +

“हलश्च ।” ३ । ३ । १२१ । इति घञ् ।) कुन्ता-
स्त्रम् । इत्यमरः । २ । ८ । ९३ ॥ कोँच इति भाषा ॥
(यथा, महाभारते । ६ । ६७ । २३ ।
“गदाभिरसिभिः प्रासैर्वाणैश्चानतपर्व्वभिः ॥”
अस्य आकृतिलक्षणादिकं यदुक्तं शुक्रनीतौ
तद्यथा, --
“प्रासास्त्रन्तु चतुर्हस्तं दण्डबुध्नं क्षुराननम् ॥”
यथाच ।
“प्रासस्तु सप्तहस्तः स्यादौन्नत्येन तु वैणवः ।
लौहशीर्षस्तीक्ष्णपादः कौशेयस्तवकाञ्चितः ॥
आकर्षश्च विकर्षश्च धूननं वेधनं तथा ।
चतस्र एता गतय उक्ताः प्रासं समाश्रिताः ॥”)

प्रासकः, पुं, (प्रास + संज्ञायां स्वार्थे वा कन् ।)

प्रासास्त्रम् । पाशकः । इति हेमचन्द्रः ॥

प्रासङ्गः, पुं, (प्रसज्यते इति । प्र + सन्ज + घञ् ।

उपसर्गस्येति दीर्घः) युगम् । इत्यमरः । २ ।
८ । ५७ ॥ योयालि इति भाषा । “अनसः
शकटस्य सम्बन्धि अनसि सम्बद्धं वा-यत् युगं
ततोऽन्यत् यत् वत्सानां दमनकाले स्कन्धे आस-
ज्यते तत् युगं प्रासङ्गः ।” इति भरतः ॥
(यथा, महाभारते । १३ । ६४ । १९ ।
“विशाखायामनड्वाहं धेनुं दत्त्वा च दुग्धदाम् ।
सप्रासङ्गञ्च शकट सधान्यं वस्त्रसंयुतम् ॥”)

प्रासङ्ग्यः, पुं, (प्रासङ्गं वहतीति । प्रासङ्ग + “तद्व-

हति रथयुगप्रासङ्गम् ।” ४ । ४ । ७६ । इति यत् ।)
युगवोढृवृषः । इत्यमरः । २ । १ । ६४ ॥

प्रासादः, पुं, (प्रसीदन्त्यस्मिन्निति । प्र + सद् +

“हलश्च ।” ३ । ३ । १२१ । इत्याधारे घञ् ।
“उपसर्गस्य घञ्यमनुष्ये बहुलम् ।” ६ । ३ । १२२ ।
इति उपसर्गस्य दीर्घः ।) देवभूभुजां गृहम् ।
इत्यमरः । २ । २ । ९ ॥ (यथा, देवीभाग-
वते । २ । ९ । ४२ ।
“इत्युक्त्वा सचिवान् राजा कल्पयित्वा सुरक्ष-
कान् ।
कारयित्वाथ प्रासादं सप्तभूमिकमुत्तमम् ॥”)
तल्लक्षणादि यथा, --
सूत उवाच ।
“प्रासादानां लक्षणन्तु वक्ष्ये शौनक ! तच्छृणु ।
चतुःषष्टिपदं कृत्वा दिग्विदिक्षूपलक्षितम् ॥
चतुष्कोणं चतुर्भिश्च द्बाराणि सूर्य्यसंख्यया ।
चत्वारिंशाष्टभिश्चैव भित्तीनां कल्पना भवेत् ॥
ऊर्द्धक्षेत्रसमा जङ्घा जङ्घार्द्धद्बिगुणं भवेत् ।
गर्भविस्तारविस्तीर्णा शुकाघ्रा च विधीयते ॥
तत्त्रिभागेण कर्त्तव्या पञ्चभागेन वा पुनः ।
निर्गमस्तु शुकाघ्राया उच्छ्रयः शिखरार्द्धगः ॥
चतुर्धा शिखरं कृत्वा त्रिभागे वेदिबन्धनन् ।
चतुर्थे पुनरस्यैव कण्ठमामलसारकम् ॥ * ॥
अथवापि समं वास्तुं कृत्वा षोडशभागिकम् ।
तस्य मध्ये चतुर्भागमादौ गर्भन्तु कारयेत् ॥
भागद्वादशकां भित्तिं ततस्तु परिकल्पयेत् ।
चतुर्भागेण भित्तीनामुच्छ्रयः स्यात् प्रमाणतः ॥
द्बिगुणः शिखरोच्छ्रायो भित्त्युच्छ्रायाच्च मानतः ।
शिखरार्द्धस्य चार्द्धेन विधेयास्तु प्रदक्षिणाः ॥
चतुर्द्दिक्षु तथा ज्ञेयो निर्गमस्तु तथा बुधैः ।
पञ्चभागेन संभज्य गर्भमानं विचक्षणः ॥
भागमेकं गृहीत्वा तु निर्गमं कल्पयेत् पुनः ।
गर्भसूत्रसमो भागादग्रतो मुखमण्डपः ॥
एतत् सामान्यमुद्दिष्टं प्रासादस्य हि लक्षणम् ।
लिङ्गमानमथो वक्ष्ये पीठो लिङ्गसमो भवेत् ॥
द्बिगुणेन भवेद्गर्भः समन्ताच्छौनक ! ध्रुवम् ।
तद्बिधा च भवेद्भित्तिर्जङ्घा तद्विस्तरार्द्धगा ॥
द्बिगुणं शिखरं प्रोक्तं जङ्घायाश्चैव शौनक ! ।
पीठं गर्भावरं कर्म्म तन्मानेन शुकाघ्रकाम् ॥
निर्गमस्तु समाख्यातः शेषं मूलवदेव तु ।
लिङ्गमानः स्मृतो ह्येष द्वारमानमथोच्यते ॥ * ॥
कराग्रं वेदवत् कृत्वा द्वारं भागाष्टकं भवेत् ।
विस्तरेण समाख्यातं द्विगुणं वेच्छया भवेत् ॥
द्वारषत् पीठमध्ये तु शेषं शुषिरकं भवेत् ।
पादिकं शेषिकं भित्तिर्द्वारार्द्धेन परिग्रहात् ॥
तद्बिस्तारसमा जङ्घा शिखरं द्विगुणं भवेत् ।
पृष्ठ ३/३६६
शुकाघ्रा पूर्ब्बवज्ज्ञेया निर्गमोच्छ्रायकं भवेत् ॥
मण्डपे मानमेतत्तु स्वरूपञ्चापरं वदे । * ।
त्रैवेदं कारयेत् क्षेत्रं यत्र तिष्ठन्ति देवताः ॥
इत्थं कृतेन मानेन बाह्यभागविनिर्गतम् ।
नेमिः पादेन विस्तीर्णा प्रासादस्य समन्ततः ॥
गर्भन्तु द्विगुणं कुर्य्यात् नेम्या मानं भवेदिह ।
स एव भित्तेरुत्सेधो द्विगुणः शिखरो मतः ॥ * ॥
प्रासादानाञ्च वक्ष्यामि मानं योनिञ्च नामतः ।
वैराजः पुष्पकाख्यश्च कैलासो मालकाह्वयः ॥
त्रिपिष्टपश्च पञ्चैते प्रासादाः सर्व्वयोनयः ।
प्रथमश्चतुरस्रो हि द्वितीयस्तु तदायतः ॥
वृत्तो वृत्तायतश्चान्योऽष्टास्रश्चेह च पञ्चमः ।
एतेभ्य एव सम्भूताः प्रासादाः सुमनोहराः ॥
सर्व्वप्रकृतिभूतेभ्यश्चत्वारिंशच्च एव च ।
मेरुश्च मन्दरश्चैव विमानश्च तथापरः ॥
भद्रकः सर्व्वतोभद्रो रुचको नन्दनस्तथा ।
नन्दिवर्द्धनसंज्ञश्च श्रीवत्सश्च नवेत्यमी ॥
चतुरस्रात् समुद्भूता वैराजादिति गम्यताम् । * ।
वडभी गृहराजश्च शालागृहञ्च मन्दिरम् ॥
विमानश्च तथा ब्रह्ममन्दिरं भवनं तथा ।
उत्तम्भं शिविका वेश्म नवैते पुष्पकोद्भवाः ॥ * ॥
वलयो दुन्दुभिः पद्मो महापद्मस्तथापरः ।
भद्रकः सर्व्वतोभद्रो रुचको नन्दनस्तथा ॥
गुवावृक्षस्तथान्यच्च वृत्ताः कैलाससम्भवाः । * ।
गजोऽथ वृषभो हंसो गरुडः सिंहनामकः ॥
भूमुखो भूधरश्चैव श्रीजयः पृथिवीधरः ।
वृत्तायतः समुद्भू तो नवैते मालकाह्वयात् ॥ * ॥
वज्रं चक्रं तथान्यच्च मुष्टिकं वभ्रुसंज्ञितम् ।
वक्रः स्वस्तिकखड्गौ च गदा श्रीवृक्ष एवच ॥
विजयो नामतः श्वेतस्त्रिपिष्टपसमुद्भवाः । * ।
त्रिकोणपत्रमर्द्धेन्दु चतुष्कोणं द्बिरष्टकम् ॥
यत्र तत्र विधातव्यं संस्थानं मण्डपस्य तु ।
राज्यञ्च विजयश्चैवमायुर्व्वर्द्धनमेव च ॥
पुत्त्रलाभः श्रियः पिष्टिस्त्रिकोणादिक्रमाद्भवेत् ॥ * ॥
कुर्य्यात् ध्वजादिसंख्यां वा द्वारि गर्भगृहन्तथा ।
मण्डपः समसंख्याभिर्गुणितः सूत्रतस्तथा ।
मण्डपस्य चतुर्थांशाद्भद्रः कार्य्यो विजानता ॥
स्पर्द्धागवाक्षकोपेतो निर्गवाक्षोऽथवा भवेत् ।
सार्द्धभित्तिप्रमाणेन भित्तिमानेन वा पुनः ॥
भित्तेर्द्वैगुण्यतो वापि कर्त्तव्या मण्डपाः क्वचित् ।
प्रासादे मञ्जरी कार्य्या चित्रा विषमभूमिका ॥
परिमाणनिरोधेन रेखा वैषम्यभूमिका ।
आधारस्तु चतुर्द्वारश्चतुर्मण्डपशोभितः ॥
शतशृङ्गसमायुक्तो मेरुप्रासाद उत्तमः ।
मण्डपास्तस्य कर्त्तव्या भद्रैस्त्रिभिरलङ्कृताः ॥
घटनाकारमानानां भिन्ना भिन्ना भवन्ति ये ।
कियन्तो येषु साधारा निराधाराश्च केचन ॥
प्रतिच्छन्दकभेदेन प्रासादाः सम्भवन्ति ते ।
अन्योन्यसङ्करास्तेषां घटना नाम भेदतः ॥
देवतानाम् विशेषाय प्रासादा बहवः स्मृताः ।
यासादे नियमो नास्ति देवतानां स्वयम्भुवाम् ॥
तान्येव देवतानाञ्च पूर्ब्बमानेन कारयेत् ।
चतुरस्रायतास्तत्र चतुष्कोणसमन्विताः ॥
चन्द्रशालान्विताः कार्य्या भेरीशिखरसंयुताः ।
पुरतो वाहनानाञ्च कर्त्तव्या लघुमण्डपाः ॥
नाट्यशाला च कर्त्तव्या द्बारदेशसमाश्रया ।
प्रासादा देवतानाञ्च कार्य्या दिक्षु विदिक्ष्वपि ॥
द्बारपालाश्च कर्त्तव्या मुख्या गत्वा पृथक् पृथक् ।
किञ्चिद्बिदूरतः कार्य्या मठास्तत्रोपजीविनाम् ॥
प्रावृता जगती कार्य्या फलपुष्पजलान्विता ।
प्रासादेषु सुरान् स्थाप्य पूजाभिः पूजयेन्नरः ॥
वासुदेवं सर्व्वदेवान् सर्व्वभाक् तद्गृहादिकृत् ॥”
इति गारुडे प्रासादकीर्त्तनं नाम ४७ अध्यायः ॥
(यथाच ।
“एतत् सामान्यमुद्दिष्टं प्रासादस्येह लक्षणम् ।
अथान्यच्च प्रवक्ष्यामि प्रासादं लिङ्गमानतः ॥
लिङ्गपूजाप्रमाणेन कर्त्तव्या पीठिका बुधैः ।
पीठिकार्द्धेन भागः स्यात्तन्मानेन तु भित्तयः ॥
बाह्यमिति प्रमाणेन उत्सेधस्तु भवेत्ततः ।
भित्युच्छ्रायात्तद्बिगुणः शिखरस्य समुच्छ्रयः ॥
शिखरस्य चतुर्भागा कर्त्तव्या स्यात् प्रदक्षिणा ।
प्रदक्षिणायास्तु समस्त्वग्रतो मण्डपो भवेत् ॥
तस्य चार्द्धेन कर्त्तव्यस्त्वग्रतो मुखमण्डपः ।
प्रासादान्निर्गतौ कार्य्यौ कपोतौ गर्भमानतः ॥
ऊर्द्ध्वभित्युच्छ्रयात्तस्य मञ्जरीं तु प्रकल्पयेत् ।
मञ्जर्य्याश्चार्द्धभागेन शुकनासं प्रकल्पयेत् ॥
ऊर्द्धं तथार्द्धभागेन वेदिबन्धो भवेदिह ।
वेद्याश्चोपरि यच्छेषं कण्ठमामलसारकम् ॥
एवं विभज्य प्रासादं शोभनं कारयेद्बुधः ।
अथान्यच्च प्रवक्षामि प्रासादस्येह लक्षणम् ॥
गर्भमानेन प्रासादप्रमाणं शृणुत द्विजाः ।
विभज्य नवधा गर्भं मध्ये लिङ्गस्य पीठिका ॥
पादाष्टकञ्च रुचिरं पार्श्वतः परिकल्पयेत् ।
मानेनानेन विस्तारो भित्तीनान्तु विधीयते ॥
पादे पञ्चगुणं कृत्वा भित्तीनामुच्छ्रयो भवेत् ।
स एव शिखरस्यापि द्विगुणः स्यात् समुच्छ्रयः ॥
चतुर्धा शिखरं भज्य अर्द्धभागद्वयस्य वा ।
शुकनासं प्रकुर्व्वीत तृतीये वेदिका मता ॥
कण्ठमामलसारन्तु चतुर्थे परिकल्पयेत् ।
कपोलयोस्तु संहारो द्विगुणोऽस्य विधीयते ॥
शोभनैश्च प्रवल्लीभिरण्डकैश्च विभूषितः ।
प्रासादेषु तृतीयस्तु मया तुभ्यं निवेदितः ॥
सामान्यमपरं तद्वत् प्रासादं शृणुत द्बिजाः ।
त्रैवेदं कारयेत् क्षेत्रं यत्र तिष्ठन्ति देवताः ॥
इत्थं कृत्वा तु मानेन बाह्यभागविनिर्गतम् ।
नेमिः पादेन विस्तीर्णा प्रासादस्य समन्ततः ॥
गर्भन्तु द्विगुणं कुर्य्यान्नेमिमानं भवेदिह ।
स एव भित्तेरुत्सेधो द्विगुणः शिखरो मतः ॥
प्राग्रीवपञ्चभागेन निश्वासस्तस्य चोच्यते ।
कारयेच्छिखरं तद्वत् प्राकारस्य विधानतः ॥
प्राग्रीवं तस्य मानेन निष्काशेन विशेषतः ।
कुर्य्याद्द्वयञ्च भागेन प्राग्रीवं कर्णमूलतः ॥
कारयेत् कनकं तत्र गर्भान्ते हारमूलतः ।
एवन्तु त्रिविधं कुर्य्यात् ज्येष्ठमध्यकनीयम्रम् ॥
लिङ्गमानात्तु भेदेन रूपभेदेन वा पुनः ।
एते सामान्यतः प्रोक्ता नामतः शृणुताधुना ॥
मेरुमन्दरकैलाशकुम्भसिंहगजास्तथा ।
विमानश्छन्दकस्तद्वच्चतुरस्रस्तथैवच ॥
अष्ट्यस्रः षोडशास्रश्च वर्त्तनः सर्व्वभद्रकः ।
बलभी नन्दनश्चैव नन्दिवर्द्धन एवच ॥
सिंहो वृषः सुपर्णश्च पद्मकोऽथ समुद्रकः ।
प्रासादानां मतः प्रोक्तो विभागं शृणुत द्बिजाः
शतशृङ्गश्चतुर्द्वारो भूमिकाषोडशोच्छ्रितः ।
नानाविचित्रशिखरो मेरुप्रासाद उच्यते ॥
मन्दरो द्बादश प्रोक्तः कैलासो नवभूमिकः ।
विमानश्छन्दकस्तद्बदनेकशिखराततः ॥
स चाष्टभूमिकस्तद्बत् सप्तभिर्नन्दिवर्द्धनः ।
विंशाण्डकसमायुक्तो नन्दनः समुदाहृतः ॥
षोडशाण्डकसंयुक्तो नानारूपसमन्वितः ।
अनेकशिखरस्तद्वत् सर्व्वतोभद्र उच्यते ॥
चन्द्रशालासमापेतो विज्ञेयः पञ्चभूमिकः ।
वलभी छन्दकस्तद्वच्छुकनासत्रयान्वितः ॥
वृषस्योच्छ्रायतस्तुल्यो मण्डलश्च त्रिवर्ज्जितः ।
सिंहः सिंहगतिर्ज्ञेयो गजो गजसमस्तथा ॥
कुम्भः कुम्भाकृतिस्तद्बद्भूमिकानवकोच्छ्रयः ।
अङ्गुलीपुटसंस्थानपञ्चाण्डकविभूषितः ॥
षोडशास्रः समन्तात्तु विज्ञेयः स समुद्रकः ।
पार्श्वयोश्चन्द्रशालास्य उच्छ्रयो भूमिकाद्वयम् ॥
तथैकपद्मकः प्रोक्तः उच्छ्रयो भूमिकात्रयम् ।
षोडशास्रः स विज्ञेयो विचित्रशिखरः शुभः ॥
मृगराजस्तु विख्यातः चन्द्रशालाविभूषितः ।
प्राग्ग्रीवेन विशालेन भूमिका स षडुत्तमाः ॥
अनेकचन्द्रशालस्तु गजप्रासाद उच्यते ।
पर्य्यन्तगृहराजो वै गरुडो नामनामतः ॥
सप्तभूम्युच्छ्रयस्तद्वच्चन्द्रशालात्रयान्वितः ।
भूमिकास्तु षडशीतिर्व्वाह्यतः सर्व्वतो भवेत् ॥
तथान्यो गरुडस्तद्बदुच्छ्रायो दशभूमिकः ।
पद्मकः षोडशास्रस्तु भूमिद्वयमथाधिकः ॥
पद्मतुल्यप्रमाणेन श्रीतुष्टक इति स्मृतः ।
पञ्चाण्डकस्त्रिभूमिस्तु गर्भे हस्तचतुष्टयः ॥
वृषो भवति नाम्ना यः प्रासादः सार्व्वकामिकः ।
सप्तकाः पञ्चकाश्चैव प्रासादा ये मयोदिताः ॥
सिंहस्य ते समा ज्ञेया ये चान्येऽन्यत्प्रमाणतः ।
चन्द्रशालैः समोपेताः सर्व्वे प्राग्रीवसंयुताः ॥
ऐष्टिका दारवाश्चैव शैलजाश्च सतोरणाः ।
मेरुश्च शतहस्तः स्यान्मन्दरः पञ्चहीनकः ॥
चत्वारिंशत्तु कैलासश्चतुस्त्रिंशद्बिमानकः ।
नन्दिवर्द्धनकस्तद्वद्वात्रिंशत् समुदाहृतः ॥
त्रिंशद्भिर्नन्दनः प्रोक्तः सर्व्वतोभद्रकस्तथा ।
एते षोडशहस्ताः स्युश्चत्वारो देववल्लभाः ॥
कैलासो मृगराजस्तु विमानश्छन्दको गजः ।
एते द्वादशहस्ताः स्युरेतेषां सिंहनादकः ॥
गरुडोऽष्टकरो ज्ञेयः सिंहो दश उदाहृतः ।
एवमेव प्रमाणेन कर्त्तव्याः शुभलक्षणाः ॥
यक्षराक्षसनागानां मातृहस्तः प्रशस्यते ।
तथा मेर्व्वादयः सप्त ज्येष्ठलिङ्गाः शुभावहाः ॥
पृष्ठ ३/३६७
श्रीवृक्षकादयश्चाष्टौ मध्यमाश्च उदाहृताः ।
तथा सिंहादयः पञ्च कनिष्ठाः शुभदा मताः ॥”
इति विश्वकर्म्मप्रकाशे ५ अध्यायः ॥)

प्रासादकुक्कुटः, पुं, (प्रासादस्य देवभूभुजां गृहस्य

कुक्कुट इव । सर्व्वदा प्रासादविचारित्वादस्य
तथात्वम् ।) पारावतः । इति त्रिकाण्डशेषः ॥

प्रासिकः, पुं, (प्रासः प्रहरणमस्येति । प्रास +

“प्रहरणम् ।” ४ । ४ । ५७ । इति ठक् ।) प्रासास्त्र-
धारी । प्रासप्रहारी । तत्पर्य्यायः । कौन्तिकः
२ । इत्यमरः । २ । ८ । ७० ॥

प्रास्थिकः, त्रि, (प्रस्थ + “सम्भवत्यवहरति पचति ।”

५ । १ । ५२ । इति ठञ् । प्रस्थपरिमितधान्यादेः
समावेशकः अवहारकः पाचकश्च ।) प्रस्थं सम्म-
वति प्रास्थिकः कटाहः । प्रस्थं स्वस्मिन् समा-
वेशयतीत्यर्थः । प्रास्थिकी ब्राह्मणी । प्रस्थमव-
हरति पचति वेत्यर्थः । इति सिद्धान्तकौमुदी ॥
(प्रस्थं परिमाणमस्येति । “तदस्य परिमाणम् ।”
५ । १ । ५७ । इति ठञ् । प्रस्थपरिमितः ।
यथा, सुश्रुते चिकित्सितस्थाने । १२ अध्याये ।
“यवकोलकुलस्थांश्च प्रास्थिकान् सलिलद्रोणे
निःक्वाथ्येति ॥” प्रस्थेन क्रीतमिति । “तेन
क्रीतम् ।” ५ । १ । ३७ । इति ठञ् । प्रस्थक्रीतः ॥
प्रस्थस्य वापः । “तस्य वापः ।” ५ । १ । ४५ ।
इति ठञ् । प्रस्थपरिमितव्रीह्यादिवपनयोग्ये
क्षेत्रे । यथा, शब्दरत्नावल्याम् ।
“द्रोणाढकखार्य्यादेर्वापादौ द्रौणिकस्तथा ।
स्यादाढकिकखारीकौ उत्तमर्णादयस्त्रिषु ।
आदिभ्यां प्रास्थिकादिश्च पाकादौ द्रौणिको
ऽपि च ॥”)

प्राहः, पुं, नृत्योपदेशः । इति शब्दमाला ॥ निर्व्वि-

सर्गश्चेत् प्रपूर्ब्बतिवन्तब्रूधातो रूपमप्येवम् ॥
(यथा, भट्टिः ।
“प्राह स्म रामं भरतोऽपि सम्यक् ॥”)

प्राह्णः, पुं, (प्रथमञ्च तदहश्चेति । “राजाहःसखि-

भ्यष्टच् ।” ५ । ४ । ९१ । इति टच् । “अह्रोह्र
एतेभ्यः ।” ५ । ४ । ८८ । इति अह्रादेशः ।
“अह्रोऽदन्तात् ।” ८ । ४ । ७ । इति णत्वम् ।)
पूर्ब्बाह्णः । इत्यमरः । १ । ४ । ३ ॥ (यथा, सुश्रुते ।
६ । १८ ।
“अञ्जनानि यथोक्तानि प्राह्णसायाह्नरात्रिषु ॥”
तदभिमानिनी देवता च । यथा, भागवते ।
७ । १५ । ५४ ।
“अग्निः सूर्यो दिवा प्राह्णः शुक्लो राकोत्तरं
स्वराट् ॥” * ॥
प्रकृष्टमहर्यत्रेति विग्रहे । “तिष्ठद्गुप्रभृतीनि च ।”
२ । १ । १७ । इत्यवयीभावः । प्रकृष्टदिन-
युते, व्य ॥)

प्राह्णे, व्य, पूर्ब्बाह्णे । इति सिद्धान्तकौमुदी ॥

प्राह्णेतनः, त्रि, (प्राह्णे भवः । “सायंचिरंप्राह्णे

प्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च ।” ४ । ३ । २३ । इति
ट्यु तुट् च ।) पूर्ब्बाह्णसम्बन्धी । इति सिद्धान्त-
कौमुदी ॥

प्राह्णेतरां, व्य, (द्वयोरतिशयेन प्राह्णे । प्राह्णे +

“किमेव्याच्चाद्रव्ये चतरां चतमाम् ।” ४६५ ।
इति मुग्धबोधसूत्रात् चतराम् ।) अतिशय-
पूर्ब्बाह्णे । इति मुग्धबोधव्याकरणम् ॥

प्रियः, पुं, (प्रीणातीति । प्री + “इगुपधज्ञाप्री-

किरः कः ।” ३ । १ । १३५ । इति कः ।) भर्त्ता ।
इत्यमरः । २ । ६ । ३५ ॥ (यथा, आर्य्यासप्तशत्याम् ।
३४७ ।
“प्रणमति पश्यति चुम्बति संश्लिष्यति पुलक-
मुकुलितैरङ्गैः ।
प्रियसङ्गाय स्फुरितां वियोगिणी वामबाहु-
लताम् ॥”
जामाता । यथा, मनुः । ३ । ११९ ।
“राजर्त्विक्स्नातकगुरून् प्रियश्वशुरमातुलान् ।
अर्हयेन्मधुपर्केण परिसंवत्सरात् पुनः ॥”
कार्त्तिकेयः । यथा, महाभारते स्कन्दनामानु-
कीर्त्तने । ३ । २३१ । ५ ।
“अमोघस्त्वनघो रौद्रः प्रियश्चन्द्राननस्तथा ॥”)
मृगविशेषः । इति जटाधरः ॥ जीवकौषधम् ।
इति राजनिर्घण्टः ॥ ऋद्धिनामौषधम् । हृद्ये,
त्रि । इति मेदिनी ॥ (यथा, महाभारते ।
“सत्यं ब्रूयात् प्रियं ब्रूयात् नब्रूयात् सत्यमप्रियम् ।
प्रियञ्च नानृतं ब्रूयादेष धर्म्मः सनातनः ॥”)
प्रियोऽप्रियश्च कार्य्यवशाद्भवति । यथा, --
“न हि कस्य प्रियः को वा विप्रियो वा जगत्त्रये ।
काले कार्य्यवशात् सर्व्वे भवन्त्येवाप्रियाः प्रियाः ॥”
इति श्रीकृष्णजन्मखण्डे ५ अध्यायः ॥

प्रियंवदः, पुं, (प्रियं वदतीति । वद् + “प्रियवशे

वदः खच् ।” ३ । २ । ३८ । इति खच् । मुम् ।)
खेचरः । गन्धर्व्वभेदः । (यथा, रघुः । ५ । ५३ ।
“अवेहि गन्धर्व्वपतेस्तनूजं
प्रियंवदं मां प्रियदर्शनस्य ॥”)
प्रियभाषिणि, त्रि । इति शब्दरत्नावली ॥ तत्
कारणं यथा, दानसागरे शिवपुराणम् ।
“गोसहस्रप्रदातारो भूमिदातार एव च ।
ये सुवर्णप्रदातारस्तथा सर्व्वे प्रियंवदाः ॥”
(द्वादशाक्षरवृत्तौ, स्त्री । तल्लक्षणं यथा,
वृत्तरत्नाकरे ।
“भुवि भवेन्नभजरैः प्रियंवदा ॥”)

प्रियकः, पुं, (प्रिय + स्वार्थे संज्ञायां वा कन् ।)

पीतशालकः । (यथा, रामायणे । २ । ७१ ।
१२-१३ ।
“तत्र रम्ये वने वासं कृत्वासौ प्राङ्मु खो ययौ ।
उद्यानमुज्जिहानायाः प्रियका यत्र पादपाः ॥
शालांस्तु प्रियकान् प्राप्य शीघ्रानास्थाय वाजिनः ।
अनुज्ञाप्याथ भरतो वाहिनीं त्वरितो ययौ ॥”)
नीपः । (यथा, हरिवंशे । ७२ । १५ ।
“प्रियकैः पुष्पितैः र्गौरं श्यामं वाणासनैः क्वचित् ।
कठोरतृणमाभाति निर्मयूररुतं वनम् ॥”)
चित्रमृगः । (यथा, माघे । ४ । ३२ ।
“रुचिरचित्रतनूरुहशालिभि-
र्विचलितैः परितः प्रियकव्रजैः ॥”
पक्षिविशेषः । यथा, महाभारते । ३ । १५८ । ५१ ।
“प्रियकैश्चातकैश्चैव तथान्यैर्विविधैः खगैः ॥”)
अलिः । प्रियङ्गुः । कुङ्कुमम् । इति मेदिनी ॥
धाराकदम्बः । अशनवृक्षः । इति राजनिर्घण्टः ॥
(स्कन्दानुचरविशेषः । यथा, महाभारते । ९ ।
४५ । ६२ ।
“प्रियकश्चैव नन्दश्च गोनन्दश्च प्रतापवान् ॥”)

प्रियङ्करः, त्रि, (प्रियं करोतीति । प्रिय + कृ +

“क्षेमप्रियमद्रेऽण् च ।” ३ । २ । ४४ । इति
चकारात् खच् । मुम् ।) प्रियकारकः । यथा,
“महाकुलीन ऐक्ष्वाके वंशे दाशरथिर्मम ।
पितुः प्रियङ्करो भर्त्ता क्षेमकारस्तपस्विनाम् ॥”
इति भट्टिः । ५ । ७७ ॥
(दानवविशेषः । यथा, कथासरित्सागरे ।
४७ । २४ ।
“महाबुद्ध्यचलाख्यौ च प्रियङ्करशुभङ्करौ ।
एते महारथा यज्ञरुचिधर्म्मरुची तथा ॥”)

प्रियङ्करी, स्त्री, (प्रियङ्कर + गौरादित्वात् ङीष् ।)

बृहज्जीवन्ती । श्वेतकण्टकारी । अश्वगन्धा ।
इति राजनिर्घण्टः ॥

प्रियङ्गुः, स्त्री, (प्रियं गच्छतीति । प्रिय + गम् +

मृगय्वादित्वात् कुप्रत्ययेन साधुः ।) स्वनाम-
ख्यातसुगन्धिवृक्षविशेषः । (यथा, महागणपति-
स्तोत्रे । १० ।
“वामे चक्रगदाधरः स भगवान् क्रोडो प्रियङ्गो-
स्तले
हस्तोद्यच्छुकशालिमञ्जरिकया देव्या धरण्या
सह ॥”)
तत्पर्य्यायः । श्यामा २ महिलाह्वया ३ लता ४
गोवन्दनी ५ गुन्द्रा ६ फलिनी ७ फली ८ विष्व-
क्सेना ९ गन्धफली १० कारम्भा ११ प्रियकः १२ ।
इत्यमरः । २ । ४ । ५५ ॥ प्रियवल्ली १३ फलप्रिया १४
गौरी १५ वृत्ता १६ कङ्गुः १७ कङ्गुनी १८
भङ्गुरा १९ गौरवल्ली २० शुभगा २१ पर्णभेदिनी
२२ शुभा २३ पीता २४ मङ्गल्या २५ श्रेयसी
२६ । अस्या गुणाः । शीतलत्वम् । तिक्तत्वम् ।
दाहपित्तास्रदोषभ्रमवान्तिज्वरवक्त्रजाड्यनाशि-
त्वम् । इति राजनिर्घण्टः ॥ तुवरत्वम् । अनि-
लनाशित्वम् । रक्तातियोगदौर्गन्ध्यस्वेदगुल्मतृड्-
विषमोहनाशित्वञ्च । इति भावप्रकाशः ॥ * ॥
राजिका । पिप्पली । कङ्गुः । इति मेदिनी ॥
कटुकी । इति धरणिः ॥

प्रियजनः, पुं, (प्रियो जनः ।) हृद्यलोकः ।

(यथा, आर्य्यासप्तशत्याम् । ६१६ ।
“सखि । दुरवगाहगहनो विदधानो विप्रियं
प्रियजनेऽपि ।
खल इव दुर्लक्ष्यस्तव विनतमुखस्योपरि स्थितः
कोपः ॥”)
प्रौढभावज्ञः । यथा, उज्ज्वलनीलमणिः ।
“प्रौढभावानुविज्ञो यस्तस्य प्रियजनोऽत्र सः ॥”

प्रियजीवः, पुं, (प्रियो जीवो यस्य यस्मिन् वा ।)

श्योनाकवृक्षः । इति राजनिर्घण्टः ॥
पृष्ठ ३/३६८

प्रियतमः, पुं, मयूरशिखावृक्षः । इति शब्द-

चन्द्रिका ॥ (अयमेषामतिशयेन प्रियः । प्रिय +
तमप् ।) अतिशयप्रिये, त्रि ॥

प्रियतरः, त्रि, (अयमनयोरतिशयेन प्रियः । प्रिय

+ तरप् ।) अनयोरतिशयेन प्रियः । इति
व्याकरणम् ॥ (यथा, गो ० रामायणे । २ ।
३९ । ७ ।
“प्राणेभ्योऽपि प्रियतरो ज्येष्ठो भ्राता गुरुश्च ते ।
तस्मादस्य प्रयत्नैस्त्वं शरीरं प्रतिपालय ॥”)

प्रियता, स्त्री, (प्रिय + तल् ।) प्रियस्य भावः ।

हार्द्दम् । इत्यमरः । १ । ७ । २७ ॥ (यथा, मनुः ।
५ । ५० ।
“न भक्षयति यो मांसं विधिं हित्वा पिशाचवत् ।
स लोके प्रियतां याति व्याधिभिश्च न पीड्यते ॥”)

प्रियतोषणः, पुं, (प्रियस्य तोषणं यस्मात् । यद्वा,

प्रियं तोषयतीति । तुष् + णिच् + ल्युः ।)
षोडशबन्धातिरिक्तरतिबन्धविशेषः । तस्य
लक्षणं यथा, --
“नारी पादौ स्वहस्तेन धारयेज्जघनोपरि ।
स्तनापीडकरः कामी कामयेत् प्रियतोषणः ॥”
इति रतिमञ्जरी ॥
प्रियस्य तुष्टिकारिणि, त्रि ॥

प्रियत्वं, क्ली, (प्रियस्य भावः । प्रिय + त्व ।)

प्रियता । तत्पर्य्यायः । प्रेम २ प्रेमा ३ स्नेहः ४
प्रणयः ५ हार्द्दम् ६ प्रियता ७ स्निग्धता ८ ।
इति शब्दरत्नावली ॥

प्रियदर्शनः, त्रि, (प्रियं दर्शनं यस्य ।) सुदृश्यः ।

तत्पर्य्यायः । चक्षुष्यः २ । इति जटाधरः ॥
(यथा, रघुः । १ । ४७ ।
“तत्तद्भूमिपतिः पत्न्यै दर्शयन् प्रियदर्शनः ।
अपि लङ्घितमध्वानं बुबुधे न बुधोपमः ॥”)

प्रियदर्शनः, पुं, (प्रियं दर्शनं यस्य ।) शुकपक्षी ।

क्षीरिकावृक्षः । इति जटाधरः ॥ (गन्धर्व्व-
विशेषः । यथा, रघुः । ५ । ५३ ।
“अवेहि गन्धर्व्वपतेस्तनूजं
प्रियंवदं मां प्रियदर्शनस्य ॥”)

प्रियप्रायं, क्ली, (प्रियस्य प्रायो यत्र ।) प्रिय-

वाक्यम् । तत्पर्य्यायः । चटु २ चाटु ३ । इति
हेमचन्द्रः । २ । १७८ ॥

प्रियप्रेपसुः, त्रि, (प्रियं प्रेप्सतीति । प्र + आप् +

सन् + उः ।) इष्टार्थोद्युक्तम् । उत्सुखः ।
इति जटाधरः ॥

प्रियमधुः, पुं, (प्रियं मधु मद्यं यस्य ।) बलरामः ।

इति हेमचन्द्रः । २ । १३८ ॥

प्रियवर्णी, स्त्री, (प्रियो वर्णो यस्याः । गौरादि-

त्वात् ङीष् ।) प्रियङ्गुः । इति जटाधरः ॥

प्रियवल्ली, स्त्री, (प्रिया मनोज्ञा वल्ली लता ।)

प्रियङ्गुः । इति राजनिर्घण्टः ॥

प्रियवादी, [न्] त्रि, (प्रियं मनोज्ञं वदतीति ।

वद् + णिनिः ।) मनोज्ञवक्ता । यथा, चाणक्ये ।
“कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशः सविद्यानां कः परः प्रियवादिनाम् ॥”
(यथा च पञ्चतन्त्रे । २ । १७४ ।
“सुलभाः पुरुषा राजन् ! सततं प्रियवादिनः ।
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥”)

प्रियव्रतः, पुं, (प्रियं व्रतं यस्य ।) स्वायम्भुवमनु-

पुत्त्रः । यथा, --
“प्रियव्रतोत्तानपादौ मनोः स्वायम्भुवस्य तु ।
द्वौ पुत्त्रौ सुमहावीर्य्यौ धर्म्मज्ञौ कथितौ तव ॥”
इत्यग्निपुराणम् ॥
(प्रियाणि व्रतानि यस्येति विग्रहे व्रतप्रिये,
त्रि । यथा, ऋग्वेदे । १० । १५० । ३ ।
“अग्ने देवानावह नः प्रियव्रतान्
मृळीकाय प्रियव्रतान् ॥”)

प्रियसखः, पुं, (प्रियः सखा च हितकारित्वात् ।

“राजाहःसखिभ्यष्टच् ।” ५ । ४ । ९१ । इति टच् ।)
खदिरः । इति शब्दचन्द्रिका ॥ प्रियश्चासौ
सखा चेति । (प्रियबन्धुः । यथा, मेघदूते । १२ ।
“आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्ग्य शैलम् ॥”)
प्रियस्य सखा इति च । इति व्याकरणम् ॥

प्रियसत्यं, क्ली, (प्रियं सत्यमिति कर्म्मधारयः ।)

सुनृतवाक्यम् । इति हेमचन्द्रः । २ । १७८ ॥
(प्रियं सत्यं यस्येति विग्रहे सत्यप्रिये, त्रि ॥)

प्रियसन्देशः, पुं, (प्रियं सन्दिशतीति । प्रिय + सम्

+ दिश + अण् ।) चम्पकवृक्षः । इति शब्द-
चन्द्रिका ॥ (प्रियः सन्देश इति कर्म्मधारयः ।)
प्रियसंवादश्च ॥

प्रियसालकः, पुं, (प्रियः सालः । ततः स्वार्थे कन् ।)

असनवृक्षः । इति राजनिर्घण्टः ॥ पेयासाल
इति ख्यातः ॥

प्रिया, स्त्री, (प्रिय + टाप् ।) नारी । इति शब्द-

रत्नावली ॥ भार्य्या । इति हेमचन्द्रः ॥ (यथा,
कुमारे । ३ । ३८ ।
“पुष्पासवाघूर्णितनेत्रशोभि
प्रियामुखं किम्पुरुषश्चुचुम्बे ॥”)
एला । इति शब्दचन्द्रिका । मल्लिका । मदिरा ।
इति राजनिर्घण्टः ॥ वार्त्ता । इति धरणिः ॥
(पञ्चाक्षरच्छन्दोविशेषः । इति छन्दोमञ्जरी ॥)

प्रियाम्बुः, पुं, (प्रियमम्बु यस्य ।) आम्रवृक्षः ।

इति राजनिर्घण्टः ॥ तत्फले हृद्यजले च क्ली ॥
(जलप्रिये, त्रि ॥)

प्रियालः, पुं, (प्रियाय हिताय अलति पर्य्याप्नो-

तीति । अल + अच् ।) वृक्षभेदः । पियाल
इति भाषा । अस्य बीजं चिरञ्जीति प्रसिद्धम् ।
तत्पर्य्यायः । चारः २ अखट्टः ३ खरस्कन्धः ४
ललनः ५ चारकः ६ बहुवल्कः ७ सन्नद्रुः ८
तापसप्रियः ९ स्नेहबीजः १० उपवटः ११ मक्ष-
बीर्य्यः १२ । इति राजनिर्घण्टः ॥ पियालः १३ ।
इत्यमरः । २ । ४ । ३५ ॥ बहुलवल्कलः १४ राजदनम्
१५ तापसेष्टः १६ सन्नकद्रुः १७ धनुःपटः १८ ।
अस्य गुणः । पित्तकफास्रनाशित्वम् ॥ तत्फल-
गुणाः । मधुरत्वम् । गुरुत्वम् । स्निग्धत्वम् । सर-
त्वम् । मरुत्पित्तदाहज्वरतृषापहत्वञ्च । तन्मज्ज-
गुणाः । मधुरत्वम् । वृष्यत्वम् । पित्तानिलाप-
हत्वम् । हृद्यत्वम् । दुर्ज्जरत्वम् । स्निग्धत्वम् ।
विष्टम्भित्वम् । आमवर्द्धनत्वञ्च । इति भाव-
प्रकाशः ॥ अपि च ।
“चारस्य च फलं पक्वं वृष्यं गौल्याम्लकं गुरु ।
तद्बीजं मधुरं वृष्यं पित्तदाहार्त्तिनाशनम् ॥”
इति राजनिर्घण्टः ॥

प्रियाला, स्त्री, (प्रियाय अलतीति । अल +

अच् + टाप् ।) द्राक्षा । इति राजनिर्घण्टः ॥

प्रियोदितं, त्रि, (प्रियाय प्रियेण वा यदुदितम् ।

प्रियमुदितमिति वा ।) चाटुवाक्यम् । इति
शब्दरत्नावली ॥ प्रियवाक्यविषयः ॥ (प्रिय-
कथितवाक्यञ्च ॥)

प्री, क तर्पणे । इति कविकल्पद्रुमः ॥ (चुरा०

पर०-सक०-अनिट् ।) क, यं प्राययन्ति कवि-
सूक्तिरसायनानि । इति हलायुधः ॥ प्रीणयत्य-
पीति केचित् । इति दुर्गादासः ॥

प्री, ङ य प्रीतौ । कान्तौ । इति कविकल्पद्रुमः ॥

(दिवा०-आत्म०-अक०-अनिट् ।) प्रीतिरिह
प्रीतीभावः । ङ य, यः प्रीयते प्रणयिषु । इति
हलायुधः । इति दुर्गादासः ॥

प्री, ञ तर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-

उभ०-सक०-अनिट् ।) ञ, प्रयति प्रयते । इति
दुर्गादासः ॥

प्री, ञ ग कान्तौ । तर्पणे । इति कविकल्पद्रुमः ॥

(क्र्या०-उभ०-अक०-सक० च-अनिट् ।) तर्पण-
मिह प्रीतीभावः प्रीतीकरणञ्च । ञ ग, प्रभुः
प्रीणातु विश्वभुक् । प्रीणाति बान्धवजनानिति
हलायुधः । प्रीणीते । इति दुर्गादासः ॥

प्रीः, स्त्री, (प्री + क्विप् ।) प्रीतिः । इति कन-

धातुटीकायां दुर्गादासः ॥ प्रथमा विभक्तिः ।
यथा, “त्रिशः प्रीद्बीत्रीचीपीषीप्त्यः । स्यादीनि
त्रीणि त्रीणि क्रमात् प्रीद्वीत्रीचीपीषीप्ती-
संज्ञानि स्युः ।” इति मुग्धबोधव्याकरणम् ॥

प्रीणः, त्रि, (प्र + “नश्च पुराणे प्रात् ।” ५ । ४ । २५ ।

इत्यस्य वार्त्तिकोक्त्या खः ।) पुरातनः । इति
त्रिकाण्डशेषः ॥ प्रीतः । इति व्याकरणम् ॥

प्रीणनं, क्ली, (प्री + स्वार्थे णिच् + ल्युट् । धूञ

प्रीञोरिति नुक् ।) तृप्तिकरणम् । तत्पर्य्यायः ।
तर्पणम् २ अवनम् ३ । इत्यमरः । ३ । २ । १ ॥
(यथा, महानिर्व्वाणतन्त्रे । २ । ४७ ।
“तस्मिंस्तुष्टे जगत्तुष्टं प्रीणिते प्रीणितं जगत् ।
तदाराधनतो देवि ! सर्व्वेषां प्रीणनं भवेत् ॥”)

प्रीणसः, पुं, गण्डकः । इति राजनिर्घण्टः ॥

प्रीतः, त्रि, (प्रीञ् प्रीणने + क्तः ।) प्रीतियुक्तः ।

तत्पर्य्यायः । हृष्टः २ मत्तः ३ तृप्तः ४ प्रह्लन्नः ५
प्रमुदितः ६ । इत्यमरः । ३ । १ । १०३ ॥ हृषितः ७ ।
(यथा, महाभारते । ४ । ४० । २ ।
“प्रीतोऽस्मि पुरुषव्याघ्र ! न भयं विद्यते तव ।
सर्व्वांस्तुदामि ते शत्रून् रणे रणविशारद ! ॥”)
क्ली, नर्म्म । इति मेदिनी । ते, ३३ ॥

प्रीतिः, स्त्री, (प्रीञ् तर्पणे + भावे क्तिन् ।) तृप्तिः ।

(यथा, रामायणे । १ । ६८ । १२ ।
पृष्ठ ३/३६९
“प्रतिज्ञां मम राजेन्द्र ! निर्वर्त्तयितुमर्हसि ।
पुत्त्रयोरुभयोरेव प्रीतिं त्वसुपलप्स्यसे ॥”)
तत्पर्य्यायः । मुत् २ प्रमदः ३ हर्षः ४ प्रमोदः ५
आमोदः ६ सम्मदः ७ आनन्दथुः ८ आनन्दः ९
शर्म्म १० सातम् ११ सुखम् १२ । इत्यमरः ।
१ । ४ । २४ ॥ केचिचु । मुदादिसप्तकं प्रीतौ ।
आनन्दथ्वादिपञ्चकं सुखे इत्याहुः इति भरतः ॥
इष्टदर्शनजन्यं सुखम् । इति मोक्षधर्म्मे नील-
कण्ठः ॥ कामपत्नी । इति मेदिनी । ते, ३४ ॥ सा
पुरा अनङ्गवती वेश्या आसीत् विभूतिद्बादशी-
व्रतं कृत्वा रत्याः सपत्नी जाता । यथा, --
“वेश्यानङ्गवती नाम विभूतिद्वादशीव्रतम् ।
समाप्य माघमासस्य द्वादश्यां लवणाचलम् ॥
निवेदयन्ती गुरवे शय्याञ्चोपस्करान्विताम् ।
अलंकृत्य हृषीकेशं सौवर्णामरपादपम् ॥
सा चानङ्गवती वेश्या कामदेवस्य साम्प्रतम् ।
पत्नी सपत्नी संजाता रत्याः प्रीतिरिति श्रुता ॥”
इति मात्स्ये ८२ अध्यायः ॥
विष्कम्भादिसप्तविंशतियोगान्तर्गत द्बितीययोगः ।
तत्र जातफलम् ।
“प्रसूतिकाले यदि प्रीतियोगो
नरो ह्यरोगः सुखवान् विनोदी ।
रक्तानुरक्तो विदुषां प्रपन्नः
संप्रार्थितो यच्छति वित्तमेव ॥”
इति कोष्ठीप्रदीपः ॥
प्रेम । इति मेदिनी । ते, ३४ ॥

प्रीतिजुषा, स्त्री, (प्रीतिं जुषते सेवते इति । जुष्

सेवने + कः । टाप्) अनिरुद्धपत्नी । उषा ।
इति शब्दरत्नावली ॥ (प्रीतिभाजि, त्रि ॥)

प्रीतिदः, पुं, (प्रीतिं ददातीति । दा + “आतो-

ऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।) भण्डः ।
भाँड इति भाषा । तत्पर्य्यायः । वासन्तिकः २
केलिकिलः ३ वैहासिकः ४ विदूषकः ५
प्रहासी ६ । इति हेमचन्द्रः ॥ हर्षसुखप्रेम-
दातरि, त्रि ॥

प्रीतिदत्तं, क्ली, (प्रीत्या दत्तमिति ।) प्रीत्या दत्त-

वस्तु । यथा, मिताक्षरायाम् ।
“प्रीत्या दत्तन्तु यत् किञ्चित् श्वश्र्वा वा श्वशुरेण वा ।
पादवन्दनिकञ्चैव प्रीतिदत्तं तदुच्यते ॥”
भावे क्तप्रत्यये प्रीतिदानञ्च ॥

प्रीतिभोज्यं, त्रि, (प्रीत्या भोज्यम् ।) प्रीत्या

भक्षणीयमन्नादि । यथा, --
“अन्नानि प्रीतिभोज्यानि आपद्भोज्यानि वा
पुनः ।
न च संप्रीयसे राजन्न चैवापद्गता वयम् ॥”
इति महाभारते । ५ । ९१ । २५ ॥

प्रु, ङ सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-

सक०-अनिट् ।) रेफयुक्तः । ङ, प्रवते । इति
दुर्गादासः ॥

प्रुष, उ दहि । इति कविकल्पद्रुमः । (भ्वा०-पर०-

सक०-सेट् । उदित्त्वात् क्त्वावेट् ।) उ, प्रोषित्वा
प्रुष्ट्वा । दहि भस्मीकरणे । इति दुर्गादासः ॥

प्रुष, ग सेके । पूर्त्तौ । स्नेहे । इति कविकल्प-

द्रुमः ॥ (क्र्या०-पर०-सेके पूर्त्तौ च सक०-स्नेहे
अक०-सेट् ।) ग, प्रुष्णाति पुप्रोष । सेकस्थाने
मोचनमिति धातुप्रदीपभट्टमल्लौ । इति दुर्गा-
दासः ॥

प्रुष्टः, त्रि, (प्रुष् दहि + क्तः ।) दग्धः । इत्यमरः ।

३ । १ । ९९ ॥ (यथा, राजतरङ्गिण्याम् । ६ । १४४ ।
“सा यागज्वलने राजललना पीतसर्पिषि ।
पूर्णाहुत्या समं साध्वी जुहाव सहसा तनुम् ।
उपर्य्यस्या निरस्तासोः प्रुष्टाः कुसुमवृष्टयः ॥”)

प्रुष्वः, पुं, (प्रुष्णाति स्निह्यति पिपर्त्ति वेति ।

प्रुष् + “अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन् ।”
उणा० १ । १५१ । इति क्वन् टाप् ।) ऋतुः ।
(प्रोषति दहतीति ।) दिवाकरः । इति
सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

प्रुष्वा, स्त्री, (प्रुष्णाति सिञ्चतीति । प्रुष् + “अशू-

प्रुषिलटिकणिखटिविशिभ्यः क्वन् ।” उणा० १ ।
१५१ । इति क्वन् । टाप् ।) जलबिन्दुः । इति
सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (यथा, शतपथ-
ब्राह्मणे । ५ । ३ । ४ । १६ । “अथ प्रुष्वा गृह्णाति ॥”)

प्रेक्षणं, क्ली, (प्रेक्षते पश्यत्यनेनेति । प्र + ईक्ष +

करणे ल्युट् ।) चक्षुः । इति शब्दरत्नावली ॥
(भावे ल्युट् ।) दर्शनम् । यथा, रसमञ्जरी ।
“सञ्चारो रतिमन्दिरावधि पदन्यासावधि
प्रेक्षणम् ॥”

प्रेक्षणकूटः, पुं, (प्रेक्षणस्य कूटः ।) चक्षुर्गोलकः ।

यथा, पाण्डुरोगपूर्ब्बरूपे माधवकरः ।
“त्वक्पोटनष्ठीवनगात्रसाद-
मृद्भक्षणप्रेक्षणकूटशोथाः ॥”

प्रेक्षा, स्त्री (प्रकर्षेण ईक्षते ययेति । प्र + ईक्ष +

“गुरोश्च हलः ।” ३ । ३ । १०३ । इति अः ।
टाप् ।) प्रज्ञा । (यथा, महाभारते । ३ । १३६ । ७ ।
“सा तस्मै सर्व्वमाचष्ट यवक्रीभाषितं शुभा ।
प्रत्युक्तञ्च यवक्रीतं प्रेक्षापूर्ब्बं तथात्मना ॥”)
नृत्येक्षणम् । इत्यमरः । ३ । ३ । २२३ ॥ (यथा,
मनौ । ९ । ८४ ।
“प्रतिषिद्धापि चेद्या तु मद्यमभ्युदयेष्वपि ।
प्रेक्षासमाजं गच्छेद्वा सा दण्ड्या कृष्णलानि
षट् ॥”
प्र + ईक्ष् + भावे अः । टाप् ।) ईक्षणम् ।
इति भरतः ॥ (यथा, भागवते । ३ । १६ । ७ ।
“यत्सेवया चरणपद्मपवित्ररेणुं
सद्यःक्षताखिलमलं प्रतिलब्धशीलम् ।
न श्रीर्विरक्तमपि मां विजहाति यस्याः
प्रेक्षालवार्थमितरे नियमान् वहन्ति ॥”)
शाखा । इति शब्दरत्नावली ॥ (शोभा । यथा,
भागवते । ३ । ८ । २५ ।
“प्रेक्षां क्षिपन्तं हरितोपलाद्रेः
सन्ध्याब्भ्रनीवेरुरुरुक्ममूर्द्ध्नः ।
रत्नोदधारौषधिसौमनस्य-
वनस्रजो वेणुभुजाङ्घ्रिपाङ्घ्रेः ॥”
“हरितोपलाद्रेर्मरकतशिलामयपर्व्वतस्य प्रेक्षां
शोभां क्षिपन्तं स्वलावण्यातिशयेन तिरस्कुर्व्व-
न्तम् ॥” इति तट्टीकायां स्वामी ॥)

प्रेङ्खन् [त्] त्रि, (प्र + इखि गतौ + शतृ ।) चलन-

विशिष्टः । संसक्तिविशिष्टः । यथा, --
“ज्याकृष्टिबद्धखटकामुखपाणिपृष्ठ-
प्रेङ्खन्नखांशुचयसंवलितोऽम्बिकायाः ॥”
इत्याद्यमरुशतके । १ ॥

प्रेङ्खा, स्त्री, (प्रेङ्ख्यते गम्यतेऽनयेति । प्र + इखि

गतौ + करणे घञ् । टाप् ।) दोला । इत्य-
मरः । २ । ८ । ५३ ॥ (यथा, सुश्रुते चिकित्-
सितस्थाने २४ अध्याये । “नाग्निगोगुरुब्राह्मण-
प्रेङ्खादम्पत्यन्तरेणाभियायात् ॥” * ॥) पर्य्यटनम् ।
अश्वगतिः । संवेशनान्तरम् । इति मेदिनी ।
खे, ३ ॥ नृत्यम् । इति धरणिः ॥

प्रेङ्खितं, त्रि, (प्र + इखि गतौ + क्तः ।) कम्पितम् ।

इत्यमरः । ३ । १ । ८७ ॥

प्रेङ्खोल, त् क चापले । इति कविकल्पद्रुमः ॥

(अदन्त चुरा०-पर०-अक०-सेट् ।) अन्तःस्थ-
तृतीयोपधः । अपिप्रङ्खोलत् । चापलं चञ्चली-
भावः । इति दुर्गादासः ॥

प्रेङ्खोलनं, क्ली, (प्रेङ्खोल्यते चल्यतेऽनेनेति ।

प्रेङ्खोल + करणे ल्युट् ।) दोला । इति हेम-
चन्द्रः ॥ (भावे ल्युट् । कम्पनम् । यथा, सुश्रुते
निदानस्थाने ८ अध्याये । “विरेचनप्रेङ्खोलनाजीर्ण-
गर्भशातनप्रभृतिभिर्विशेषैर्बन्धनान्मुच्यते गर्भः
फलमिव वृन्तबब्धनादभिधातविशेषैः ॥”)

प्रेङ्खोलितं, त्रि, (प्रेङ्खोल + क्तः ।) दोलितम् । तत्-

पर्य्यायः । तरलितम् २ लुलितम् ६ प्रेङ्खितम् ४
धुतम् ५ चलितम् ६ कम्पितम् ७ धूतम् ८ वेल्लि-
तम् ९ आन्दोलितम् १० । इति हेमचन्द्रः ॥

प्रेतः, पुं, (प्र + इ गतौ + क्तः ।) नरकस्थप्राणी ।

इत्यमरः । ३ । ३ । ५९ ॥ भूतभेदः । मृते, त्रि ।
इति मेदिनी । ते, ३७ ॥ (यथा, मनुः । २ । २४७ ।
“आचार्य्ये तु खलु प्रेते गुरुपुत्त्रे गुणान्विते ।
गुरुदारे सपिण्डे वा गुरुवत् वृत्तिमाचरेत् ॥”)
वैदिकविधानेन और्द्धदेहिकाभावात् विष्णुद्बेषाच्च
बहुनरकभोगान्ते प्रेतशरीरं भवति । यथा, --
लोमश उवाच ।
“ततो बहुतिथे काले स राजा पञ्चतां गतः ।
वैदिकेन विधानेन न लेभे सौर्द्धदेहिकम् ॥
विष्णुप्रद्वेषमात्रेण युगानां सप्तविंशतिम् ।
भुक्त्वा च यातनां यामीं निस्तीर्णनरको नृपः ॥
समया गिरिराजन्तु पिशाचोऽभूत्तदा
महान् ॥”
तस्य रूपं यथा, --
“देवद्युतिरधीयानः शुश्राव करुणामयः ।
समागत्य ततस्तत्र तं पिशाचं ददर्श सः ॥
विकरालमुखं दीनं पिशङ्गनयनं भृशम् ।
ऊर्द्ध्वमूर्द्धजकृष्णाङ्गं यमदूतमिवापरम् ॥
चलज्जिह्वञ्च लम्बोष्ठं दीर्घजङ्घशिराकुलम् ।
दीर्घाङ्घ्रिं शुष्कतुण्डञ्च गर्त्ताक्षं शुष्कपञ्जरम् ॥”
इति पाद्मोत्तरखण्डे १६ अध्यायः ॥ * ॥
पृष्ठ ३/३७०
प्रेतत्यादि जनककर्म्माणि यथा, --
“हविर्ज्जुह्वति नाग्नौ ये गोविन्दं नार्च्चयन्ति ये ।
लभन्ते नात्मविद्याञ्च सुतीर्थविमुखाश्च ये ॥
सुवर्णं वस्त्रताम्बूलं रत्नमन्नं फलं जलम् ।
आर्त्तेभ्यो न प्रयच्छन्ति सर्व्वे सुकृतदारकाः ॥
ब्रह्मस्वञ्च स्त्रीधनानि लोभादेव हरन्ति ये ।
बलेन छद्मना वापि धूर्त्ताश्च परवञ्चकाः ॥
नास्तिकाः कुहकाश्चौरा ये चान्ये वकवृत्तयः ।
बालवृद्धातुरस्त्रीषु निर्द्दयाः सत्यवर्ज्जिताः ॥
अग्निदा गरदा ये च ये चान्ये कूटसाक्षिणः ।
अगम्यागानिनः सर्व्वे ये चान्ये ग्रामयाजिनः ॥
व्याधाचरणसम्पन्ना वर्णादिधर्म्मवर्ज्जिताः ।
देवोपदेवदनुजरक्षोयक्षादिसेविनः ॥
सर्व्वदा मादकद्रव्यपानमत्ता हरिद्बिषः ।
देवतोच्छिष्टपतितनृपश्राद्धान्नभोजिनः ॥
असत्कर्म्मरता नित्यं सर्व्वपातकपापिनः ।
पाषण्डधर्म्मचरणाः पुरोधोवृत्तिजीविनः ॥
पितृमातृस्नुषापत्यस्वदारत्यागिनश्च ये ।
ये कदर्य्याश्च लुब्धाश्च नास्तिका धर्म्मदूषकाः ॥
त्यजन्ति स्वामिनं युद्धे त्यजन्ति शरणागतम् ।
गवां भूमेश्च हर्त्तारो ये चान्ये रत्नदूषकाः ॥
महाक्षेत्रेषु सर्व्वेषु प्रतिग्रहरताश्च ये ।
परद्रोहरता ये च तथा ये प्राणिहिंसकाः ॥
परापवादिनः पापा देवतागुरुनिन्दकाः ।
कुप्रतिग्राहिणः सर्व्वे सम्भवन्ति पुनः पुनः ॥
प्रेतराक्षसपैशाच्यतिर्य्यग्वृक्षकुयोनिषु ।
न तेषां सुखलेशोऽस्ति इह लोके परत्र च ॥”
इति पाद्मोत्तरखण्डे १८ अध्यायः ॥ * ॥
पञ्चप्रेतोपाख्यानं यथा, --
ब्राह्मण उवाच ।
“प्रेतानां नाम जातीनां युष्माकं सम्भवः कथम् ।
किन्तत् कारणमुद्दिश्य यूयमीदृशनामकाः ॥
प्रेता ऊचुः ।
अहं स्वादु सदा भुक्त्वा दद्यां पर्य्युषितं सदा ।
एतत्कारणमुद्दिश्य नाम पर्य्युषितं मम ॥ १ ॥
सूचिता बहवोऽनेन विप्राद्या ह्यन्नकाङ्क्षिणः ।
एतत् कारणमुद्दिश्य सूचीमुखमिमं विदुः ॥ २ ॥
शीघ्रं गच्छति विप्रेण याचितः क्षुधितेन वै ।
पश्चाद्भुङ्क्ते द्विजः शिष्टमेष शीघ्रक उच्यते ॥ ३ ॥
गृहोपरि सदा भुङ्क्ते स्वादु द्विजभयेन हि ।
द्विजाय कुत्सितं दत्त्वा एष रोहक उच्यते ॥ ४ ॥
मौनेनापि स्थिरो नित्यं याचितो विलिखेन्महीम् ।
अस्माकमवि पापिष्ठो लेखको नाम एष वै ॥ ५ ॥
मेढ्रेण लेखको याति रोहकः पार्श्वतःशिराः ।
शीघ्रकः पङ्गुतां प्राप्तः सूची सूचीमुखोऽभवत् ॥”
प्रेतानामाहारो यथा, --
द्विज उवाच ।
“ये जीवा भुवि तिष्ठन्ति सर्व्वे आहारमूलकाः ।
युष्माकमपि आहारं ओतुमिच्छामि तत्त्वतः ॥
प्रेता ऊचुः ।
शृणु आहारमस्माकं सर्व्वसत्त्वविगर्हितम् ।
श्लेष्ममूत्रपुरीषेण योवितान्तु मलेन च ॥
गृहाणि त्यक्तशौचानि प्रेता भुञ्जन्ति तत्र वै ॥
स्त्रीभिर्जग्धानि जीर्णानि संकीर्णापहतानि च ।
मलेनातिजुगुप्सानि प्रेता भुञ्जन्ति तत्र वै ॥
भयलज्जाविहीनानि पतितैः सेवितानि च ।
अन्योन्यदस्युयुक्तानि प्रेता भुञ्जन्ति तत्र वै ॥
कलहान्वितशोकानि त्यक्तशोभानि मण्डनैः ।
सवर्च्चस्कानि भाण्डानि प्रेता भुञ्जन्ति तत्र वै ॥
वलिमन्त्रविहीनानि द्विजादृष्टानि यानि तु ।
नियमव्रतहीनानि प्रेता भुञ्जन्ति तत्र वै ॥
गुरवो नैव पूज्यन्ते स्त्रीजितानि मलानि च ।
सक्रोधान्यपवित्राणि प्रेता भुञ्जन्ति तत्र वै ॥
भुञ्जन्ति भिन्नभाण्डेषु मर्य्यादारहितेषु च ।
अन्योन्योच्छिष्टयुक्तेषु तत्र प्रेतास्तु भुञ्जते ॥
सकेशमाक्षिकोच्छिष्टं पूतिपर्य्युषितं तथा ।
सक्रोधञ्च सशोकञ्च तच्च प्रेतेषु भोजनम् ॥
सनग्नं भोजनं यच्च नोत्तरीयं पदासनम् ।
सोष्णीषं सासुरीकक्षं तच्च प्रेतेषु भोजनम् ॥
अर्द्धग्रासं महाग्रासं सोत्क्षिप्तं पतितं तथा ।
दुर्भुक्तं गोष्ठिकञ्चैव तच्च प्रेतेषु भोजनम् ॥
सौतिकं मृतकञ्चैव रजसं कलुषीकृतम् ।
निर्द्दीपं कृमिवच्चाग्रे यद्भुक्तं प्रैतिकन्तु तत् ॥
एतत्ते कथितं सर्व्वं यत् प्रेतेष्वेव भोजनम् ।
निर्व्विण्णाः प्रेतजात्या वै पृच्छामस्त्वां द्विजो-
त्तम ! ॥” * ॥
प्रेतत्वाभावकारणं यथा, --
“न प्रेतो जायते येन येन चैवेह जायते ।
एतत् सर्व्वं समासेन प्रब्रूहि वदतां वर ! ॥
ब्राह्मण उवाच ।
एकरात्रं त्रिरात्रं वा कृच्छं चान्द्रायणादिकम् ।
व्रतेष्वप्युषियो यस्तु न प्रेतो जायते नरः ॥
मिष्टान्नपानदाताथ सततं श्रद्धयान्वितः ।
देवपूजाकरो नित्यं न प्रेतो जायते नरः ॥
त्रिरग्निरेकपञ्चाग्निर्निरग्निर्वाप्युपासकः ।
सर्व्वभूतदयापन्नो न प्रेतो जायते नरः ॥
तुल्यमानापमानश्च तुल्यः काञ्चनलोष्टयोः ।
तुल्यः शत्री च मित्रे च न प्रेतो जायते नरः ॥
देवतातिथिपूजासु गुरुजातिषु नित्यशः ।
वेदशास्त्ररतो नित्यं न प्रेतो जायते नरः ॥
जितक्रोधो मदैश्वर्य्यतृष्णासङ्गविवर्जितः ।
क्षमाक्रोधसुशीलश्च न प्रेतो जायते नरः ॥
देवतातिथिपूजास्तु पर्व्वतांश्च नदीस्तथा ।
पश्येद्देवालयांश्चैव न प्रेतो जायते नरः ॥” * ॥
प्रेतत्वकारणं यथा, --
“शूद्रान्नं यो द्बिजो भुड्क्ते यः क्रामति द्बिजो-
त्तमम् ।
वृत्तिहा द्विजदेवेषु स प्रेतो जायते नरः ॥
मातरं पितरं वृद्धं ज्ञातिं साधुजनं तथा ।
लोभात् त्यजति यः स्नेहं स प्रेतो जायते नरः ॥
अयाज्ययाजकश्चैव याज्यञ्च परिवर्जयेत् ।
शूद्रानुग्रहकर्त्ता च स प्रेतो जायते नरः ॥
कुज्योतिषि कुविद्यस्तु कुजनेषु कुदेशकः ।
शूद्रसेवाकरो राज्ञा स प्रेतो जायते नरः ॥
सेवकायापद्रुतो यः सेवकस्त्वपरिग्रहः ।
ताबुभावपि जायेते प्रेतौ कालान्नकिंप्रदः ॥
द्विजानुमन्त्रितो भुङ्क्ते शूद्रान्नं वा द्बिजस्य तु ।
शूद्रेणैव द्बिजः प्रेतो निरयानुपगच्छति ॥
गीतवाद्यरतो नित्यं मद्यपस्त्रीनिषेवणात् ।
द्यूतमांसप्रियो यस्तु स प्रेतो जायते नरः ॥
वृथारेतो वृथामांसो वृथावादी वृथामतिः ।
निन्दको द्बिजदेवानां स प्रेतो जायते नरः ॥
वृद्धं बालं गुरुं विप्रं योऽवमन्य भुनक्ति वै ।
कन्यां ददाति शुल्केन स प्रेतो जायते नरः ।
न्यासापहर्त्ता मित्रध्रुक् परपाकरतस्तथा ।
विश्रम्भघाती कूटश्च स प्रेतो जायते नरः ॥
निर्द्दोपान् सुहृदो नारीस्त्यजेत् कालान्न
पाति यः ।
धनमीहेत यस्तेषां स प्रेतो जायते नरः ॥
हस्त्यश्वरथयानानि मृतशय्यासनादि यः ।
कृष्णाजिनञ्च गृह्णाति अनापत्सु गतो द्विजः ॥
तथोभयमुखीं कालं सशैलां मेदिनीं द्बिजः ।
कुरुक्षेत्रस्य यद्दानं चाण्डालात् पतितात्तथा ।
मासिकेऽपि नवश्राद्धे भुञ्जन् प्रेतान्न मुच्यते ॥
ब्रह्महा गोवधी स्तेयी सुरापो गुरुतल्पगः ।
भूमिकन्यापहर्त्ता यः स प्रेतो जायते नरः ॥
लालासङ्करकृन्नित्यं वर्णसङ्करकृत्तथा ।
योनिसङ्करकृच्चापि स प्रेतो जायते नरः ॥
विक्रीणाति विषं शङ्खं तिलानां लवणस्य तु ।
गवां केशरिणां मोहात् विक्रयात् प्रेततां
व्रजेत् ॥
कूटमाप्ये च तौल्येन क्रयं क्रीणाति विक्रयात् ।
मद्यतक्रपयोदध्नां स प्रेतो जायते नरः ॥
स्त्रीरक्तो मद्यमाने तु मृगयामनुधावति ।
नित्यनैमित्तिकेऽदाता स प्रेतो जायते नरः ॥”
इत्यग्निपुराणम् ॥ * ॥
मनुष्याणां आतिवाहिकदेहानन्तरं प्रेतदेहो
भवति । यथा, विष्णुधर्म्मोत्तरे ।
“तत्क्षणादेव गृह्णाति शरीरमातिवाहिकम् ।
आतिवाहिकर्संज्ञोऽसौ देहो भवति भार्गव ! ॥
केवलं तन्मनुष्याणां नान्येषां प्राणिनां क्वचित् ।
प्रेतपिण्डैस्ततो दत्तैर्देहमाप्नोति भार्गव ! ॥
भोगदेहमिति प्रोक्तं क्रमादेव न संशयः ।
प्रेतपिण्डा न दीयन्ते यस्य तस्य विमोक्षणम् ॥
श्माशानिकेभ्यो देवेभ्य आकल्पं नैव विद्यते ।
तत्रास्य यातना घोराः शीतवातातपोद्भवाः ॥
ततः सपिण्डीकरणे बान्धवैः स कृते नरः ।
पूर्णे संवत्सरे देहमतोऽन्यं प्रतिपद्यते ॥
ततः स नरके याति स्वर्गे वा स्वेन कर्म्मणा ॥”
इति शुद्धितत्त्वम् ॥

प्रेतकार्य्यं, क्ली, (प्रेताय प्रेतस्य वा कार्य्यम् ।)

नृतस्य दाहादिसपिण्डीकरणान्तं कर्म्म । यथा,
“अकृत्वा प्रेतकार्य्याणि प्रेतस्य धनहारकः ।
वर्णानां यद्वधे प्रोक्तं तद्व्रतं नियतश्चरेत् ॥”
इति दायतत्त्वम् ॥
(यथाच महाभारते । १ । १०२ । ६५ ।
“धर्म्मात्मा स तु गाङ्गेयश्चिन्ताशोकपरायणः ।
प्रेतकार्य्याणि सर्व्वाणि तस्य सम्यगकारयत् ॥”)


पृष्ठ ३/३७१

प्रेतगृहं, क्ली, (प्रेतस्य गृहम् ।) श्मशानम् । इति

हेमचन्द्रः । ४ । ५५ ॥

प्रेततर्पणं, क्ली, (प्रेतस्य तर्पणम् ।) मरणावधि-

सपिण्डीकरणपर्य्यन्तं प्रेतशब्दोल्लेखेन जलदानम् ।
यथा । “अत्र प्रेततर्पणे तिलांस्त्विति विशेषो-
पादानात् सूर्य्यादिवारेणापि तिलैरेव तर्पणं
प्रतीयते ॥ तदनुष्ठानं यथा । अपः सर्व्वे शव-
स्पर्शिनो गत्वा पितृपदस्थाने प्रेतपदोहेन द्बिती-
यान्तं तर्पयेयुः पितृशब्दोच्चारणेऽपि पितृहा
भवति । एतेन अमुकगोत्रं प्रेतं अमुकदेव-
शर्म्माणं तर्पयामि । इति सामगानां प्रयोगः ।
यजुर्व्वेदिनान्तु अमुकगोत्र प्रेत अमुकदेवशर्म्मन्
तृप्यस्व । इति सम्बोधनान्तवाक्यम् ।” इति
शुद्धितत्त्वम् ॥

प्रेतदेहः, पुं क्ली, (प्रेतस्य देहः ।) प्रेतशरीरम् ।

यथा, --
“कृते सपिण्डीकरणे नरः संवत्सरात् परम् ।
प्रेतदेहं परित्यज्य भोगदेहं प्रपद्यते ॥”
इति तिथ्यादितत्त्वधृतविष्णुधर्म्मोत्तरीयवचनम् ॥
पूरकपिण्डदानेन तदुत्पत्तिर्यथा, --
“शिरस्त्वाद्येन पिण्डेन प्रेतस्य क्रियते सदा ।
द्बितीयेन तु कर्णाक्षिनासिकास्तु समासतः ॥
गलांसभुजवक्षांसि तृतीयेन यथाक्रमात् ।
चतुर्थेन तु पिण्डेन नाभिलिङ्गगुदानि च ॥
जानुजङ्घे तथा पादौ पञ्चमेन तु सर्व्वदा ।
सर्व्वमर्म्माणि षष्ठेन सप्तमेन तु नाडयः ॥
दन्तलोमाद्यष्टमेन वीर्य्यश्च नवमेन तु ।
दशमेन च पूर्णत्वं तृप्तता क्षुद्विपर्य्ययः ॥”
इति शुद्धितत्त्वधृतकूर्म्मपुराणवचनम् ॥

प्रेतनदी, स्त्री, (प्रेततरणीया नदी ।) वैतरणी ।

इति शब्दरत्नावली ॥

प्रेतपक्षः, पुं, (प्रेतप्रियः पक्षः ।) गौणचान्द्रा-

श्विनकृष्णपक्षः । तत्र मृतस्य पार्व्वणविधिना
र्सावत्सरिकं श्राद्ध्वं कर्त्तव्यम् । यथा, --
“आषाढ्याः पञ्चमे पक्षे कन्यासंस्थे दिवाकरे ।
यो वै श्राद्धं नरः कुर्य्यादेकस्मिन्नपि वासरे ॥
तस्य संवत्सरं यावत्तृप्ताः स्युः पितरो ध्रुवम् ॥
नभा वाथ नभस्यो वा मलमासो यदा भवेत् ।
सप्तमः पितृपक्षः स्यादन्यत्रैव तु पञ्चमः ॥” इति ।
तत्र मृतस्य ।
“सपिण्डीकरणादूर्द्ध्वं यत्र यत्र प्रदीयते ।
तत्र तत्र त्रयं कुर्य्याद्बर्ज्जयित्वा मृताहनि ॥
अमावास्यां क्षयो यस्य प्रेतपक्षेऽथवा पुनः ।
सपिण्डीकरणादूर्द्ध्वं तस्योक्तः पार्व्वणो विधिः ॥”
इति शङ्खोक्तेन प्रत्याब्दिकं पार्व्वणविधिना कर्त्त-
व्यम् । इति मलमासतत्त्वम् ॥ * ॥ तत्र निषिद्ध-
दिनेऽपि तिलतर्पणं कर्त्तव्यम् । यथा, स्मृतिः ।
“तीर्थे तिथिविशेषे च गङ्गायां प्रेतपक्षके ।
निषिद्धेऽपि दिने कुर्य्यात् तर्पणं तिलमिश्रितम् ॥”
इति च मलमासतत्त्वम् ॥

प्रेतपटहः, पुं, (प्रेतस्य पटहः ।) मरणकाले

वादनीयवाद्यविशेषः । तत्पर्य्यायः । भवरुत् २
मृत्युभङ्गुरकः ३ । इति त्रिकाण्डशेषः ॥

प्रेतपतिः, पुं, (प्रेतानां पतिः ।) यमः । इति

हलायुधः ॥ (यथा, मार्कण्डेये । १०८ । ४ ।
“दण्डः प्रेतपतेः शक्तिर्देवसेनापतेस्तथा ।
अन्येषाञ्चैव देवानामायुधानि स विश्वकृत् ।
चकार तेजसा भानोर्भासुराण्यरिशान्तये ॥”)

प्रेतपिण्डः, पुं, (प्रेताय देयः पिण्डः ।) मरणावधि-

सपिण्डीकरणपर्य्यन्तं प्रेतसम्प्रदानकपिण्डाकारा-
न्नम् । यथा, --
“न स्वधाञ्च प्रयुञ्जीत प्रेतपिण्डे दशाहिके ।
भाषेतैतच्च वै पिण्डं यज्ञदत्तस्य पूरकम् ॥” * ॥
तत्तत्पिण्डस्य प्रेताङ्गकरणत्वं यथा, ब्रह्मपुराणे ।
“शिरस्त्वाद्येन पिण्डेन प्रेतस्य क्रियते सदा ।
द्वितीयेन तु कर्णाक्षिनासिकास्तु समासतः ॥
गलांसभुजवक्षांसि तृतीयेन तथा क्रमात् ।
चतुर्थेन तु पिण्डेन नाभिलिङ्गगुदानि च ॥
जानुजङ्घे तथा पादौ पञ्चमेन तु सर्व्वदा ।
सर्व्वमर्म्माणि षष्ठेन सप्तमेन तु नाडयः ॥
दन्तलोमाद्यष्टमेन वीर्य्यञ्च नवमेन तु ।
दशमेन तु पूर्णत्वं तृप्तता क्षुद्विपर्य्ययः ॥” * ॥
तदकरणे दोषो यथा, --
“प्रेतपिण्डा न दीयन्ते यस्य तस्य विमोक्षणम् ।
श्माशानिकेभ्यो देवेभ्य आकल्पं नैव विद्यते ॥” * ॥
पूरकपिण्डदानदेरितिकर्त्तव्यता यथा । पार-
स्करः । प्रेताय पिण्डं दत्त्वा अवनेजनदान-
प्रत्यवनेजनेषु नामग्राहं मृण्मये तां रात्रिं
विहायसि क्षीरोदके निदध्युः प्रेतात्र स्नाहि
पिब चेदं क्षीरमित्युच्चार्य्येति । अत्र दानशब्देन
पिण्डदानमुक्तं बहुवचनात् । तेनावनेजनपिण्ड-
दानप्रत्यवनेजनेषु नामग्राहं नाम गृहीत्वा
प्रेतपिण्डानुष्ठानं समाप्यम् । विहायसि रात्रौ
क्षीरोदके प्रेतात्र स्नाहि पिब चेदं क्षीरमित्यु-
च्चार्य्य निदध्युः ।
“प्रथमेऽहनि यो दद्यात् प्रेतायान्नं समाहितः ।
यत्नान्नवसु चान्येषु स एव प्रददाव्यपि ॥” * ॥
प्रथमपिण्डकर्त्तृनियमवत् प्रथमपिण्डद्रव्यनियम-
माह शुनः पुच्छः ।
“प्रथमेऽहनि यद्द्रव्यं तदेव स्याद्दशाहिकम् ।
सद्यःशौचेऽपि दातव्याः सर्व्वेऽपि युगपत्तथा ॥
त्र्यहाशौचे प्रदातव्याः प्रथमे त्वेक एव हि ।
द्वितीयेऽहनि चत्वारस्तृतीये पञ्च चैव हि ॥
एकस्तोयाञ्जलिस्त्वेवं पात्रमेकञ्च दीयते ।
द्वितीये द्वौ तृतीये त्रीन् चतुर्थे चतुरस्तथा ॥
पञ्चमे पञ्च षष्ठे षट् सप्तमे सप्त एव च ।
अष्टमेऽष्टौ च नवमे नवैव दशमे दश ॥
येन स्युः पञ्चपञ्चाशत् तोनस्याञ्जलयः क्रमात् ।
तोयपात्राणि तावन्ति संयुक्तानि तिलादिभिः ॥”
इति शुद्धितत्त्वम् ॥

प्रेतपुरं, क्ली, (प्रेतानां पुरम् ।) यमालयः । यथा,

“यावश्च कन्यातुलयोः क्रमादास्ते दिवाकरः ।
तावत् श्राद्धस्य कालः स्यात् शून्यं प्रेतपुरं तदा ॥”
इति श्राद्धतत्त्वम् ॥

प्रेतराक्षसी, स्त्री, (प्रेतानां पिशाचभेदानां राक्ष-

सीवापसर्पणकारित्वात् ।) तुलसी । इति रत्न-
माला ॥

प्रेतवनं, क्ली, (प्रेतानां वनमिव ।) श्मशानम् ।

इति हेमचन्द्रः । ४ । ५५ ॥

प्रेतवाहितः, त्रि, (प्रेतेन वाहितः ।) भूताविष्टः ।

इति त्रिकाण्डशेषः ॥

प्रेतशिला, स्त्री, (प्रेतानां प्रेतेभ्यो वा या शिला ।)

पिण्डदानार्थगयास्थितप्रस्तरविशेषः । यथा, --
ब्रह्मोवाच ।
“येयं प्रेतशिला ख्याता गयायां सा त्रिधा स्थिता ।
प्रभासे प्रेतकुण्डे च गयासुरशिरस्यपि ॥
धर्म्मेण धारिता भूत्यै सर्व्वदेवमयी शिला ॥
प्रेतत्वं ये गता नॄणां पित्राद्या बान्धवादयः ।
तेषामुद्धरणार्थाय यतः प्रेतशिला ततः ॥
अतोऽत्र मुनयो भूपा राजपत्न्यादयः सदा ।
तस्यां शिलायां श्राद्धादिकर्त्तारो ब्रह्मलोकगाः ॥
गयासुरस्य यन्मुण्डं तस्य पृष्ठे शिला यतः ।
मुण्डपृष्ठो गिरिस्तस्मात् सर्व्वदेवमयो ह्ययम् ॥
मुण्डपृष्ठस्य पादेषु यतो ब्रह्मसरोमुखाः ।
अरविन्दवनन्तेषु तेन चैवोपलक्षितः ॥
अरविन्दो गिरिर्नाम क्रौञ्चपादाङ्कितो यतः ।
तस्माद्गिरिः क्रौञ्चपदः पितॄणां ब्रह्मलोकदः ॥
गदाधरादयो देवा आद्या आदौ व्यवस्थिताः ।
शिलारूपेण च व्यक्तास्तस्माद्देवमयी शिला ।
गयाशिरश्छादयित्वा गुरुत्वादास्थिता शिला ॥ * ॥
स्नात्वा प्रेतशिलादौ तु चरणाम्बुसृतेन च ।
पिण्डं दद्यादिमैर्म्मन्त्रैरावाह्य च पितॄन् परान् ॥
अस्मत्कुले मृता ये च गतिर्येषां न विद्यते ।
तेषामावाहयिष्यामि दर्भपृष्ठे तिलोदकैः ॥
पितृवंशे मृता ये च मातृवंशे च ये मृताः ।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥
मातामहकुले ये च गतिर्येषां न जायते ।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥
अजातदन्ता ये केचित् ये च गर्भेषु पीडिताः ।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥
बन्धुवर्गाश्च ये केचिन्नामगोत्रविवर्ज्जिताः ।
स्वगोत्रे परगोत्रे या गतिर्येषां न विद्यते ।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥
उद्बन्धनमृता ये च विषशस्त्रहताश्च ये ।
आत्मोपघातिनो ये च तेभ्यः पिण्डं ददाम्यहम् ॥
अग्निदाहे मृता ये च सिंहव्याघ्रहताश्च ये ।
दंष्ट्रिभिः शृङ्गिभिर्व्वापि तेषां पिण्डं ददाम्यहम् ॥
अग्निदग्धाश्च ये केचिन्नाग्निदग्धास्तथापरे ।
विद्युच्चौरहता ये च तेषां पिण्डं ददाम्यहम् ॥
रौरवे चान्धतामिस्रे कालसूत्रे च ये गताः ।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥
असिपत्रवने घोरे कुम्भीपाके च ये गताः ।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥
अन्येषां यातनास्थानां प्रेतलोकनिवासिनाम् ।
पृष्ठ ३/३७२
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥
पशुयोनिगता ये च पक्षिकीटसरीसृपाः ।
अथवा वृक्षयोनिस्थास्तेभ्यः पिण्डं ददाम्यहम् ॥
असंख्ययातनासंस्था ये नीता यमशासने ।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥
जात्यन्तरसहस्राणि भ्रमन्तः स्वेन कर्म्मणा ।
मानुष्यं दुर्लभं येषां तेभ्यः पिण्डं ददाम्यहम् ॥
ये बान्धबाबान्धवा वा येऽन्यजन्मनि बान्धवाः ।
ते सर्व्वे तृप्तिमायान्तु पिण्डदानेन सर्व्वदा ॥
ये केचित् प्रेतरूपेण वर्त्तन्ते पितरो मम ।
ते सर्व्वे तृप्तिमायान्तु पिण्डदानेन सर्व्वदा ॥
ये मे पितृकुले जाताः कुले मातुस्तथैव च ।
गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृताः ॥
ये मे कुले लुप्तपिण्डाः पुत्त्रदारविवर्जिताः ।
क्रियालोपगता ये च जात्यन्धाः पङ्गवस्तथा ॥
विरूपास्त्वामगर्भा ये ज्ञाताज्ञाताः कुले मम ।
तेषां पिण्डं मया दत्तमक्षय्यमुपतिष्ठताम् ॥
साक्षिणः सन्तु मे देवा ब्रह्मेशानादयस्तथा ।
मया गयां समासाद्य पितणां निष्कृतिः कृता ॥
आगतोऽहं गयां देव ! पितृकार्य्ये गदाधर ! ।
तन्मे साक्षी भवस्वाद्य अनृणोऽहमृणत्रयात् ॥”
इति गारुडे गयामाहात्म्ये । ८५-८६ । अध्यायौ ॥

प्रेतशौचं, क्ली, (प्रेते सति प्रेतस्य वा शौचम् ।)

मृतसंस्कारादि । यथा, --
याज्ञवल्क्य उवाच ।
“प्रेतशौचं प्रवक्ष्यामि तच्छृणुध्वं यतव्रताः ।
ऊनद्बिवर्षं निखनेन्न कुर्य्यादुदकन्ततः ॥
आश्मशानादनुव्रज्य इतरो ज्ञातिभिर्मृतः ।
यमसूक्तं तथा जप्यं जपद्भिर्लौकिकाग्निना ॥
स दग्धव्य उपेतश्चेदाहिताग्न्यावृतार्थवत् ।
सप्तमाद्दशमाद्वापि ज्ञातयो ह्युपयन्त्यपः ॥
अप नः शोशुचदघमनेन पितृदिङ्मुखाः ।
एवं मातामहाचार्य्यप्रेतानाञ्चोदकक्रियाः ॥
कामोदकाः सखिपुत्त्रस्वस्रीयश्वशुरर्त्विजः ।
नामगोत्रेण ह्युदकं सकृत् सिञ्चन्ति वाग्यताः ॥
पाषण्डपतितस्तेना न कुर्य्युरुदकक्रियाम् ।
न ब्रह्मचारिणो व्रात्या योषितः कामगास्तथा ॥
सुरापास्त्वात्मघातिन्यो नाशौचोदकभाजनाः ।
अतो न रोदितव्यं हि त्वनित्या जीवसंसृतिः ॥
क्रिया कार्य्या यथाशक्ति ततो गच्छेद्गृहान्
प्रति ।
विदश्य निम्बपत्राणि नियता द्वारि वेश्मनः ॥
आचम्याथाग्निमुदकं गोमयं गौरसर्षपान् ।
प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः ॥
प्रवेशनादिकं कर्म्म प्रेतसंस्पर्शिनामपि ।
ईक्षतां तत्क्षणाच्छुद्धिः परेषां स्नानसंयमात् ॥
क्रीतलब्धाशना भूमौ स्वपेयुस्ते पृथक् पृथक् ।
पिण्डयज्ञावृता देयं प्रेतायान्नं दिनत्रयम् ॥
जलमेकाहमाकाशे स्थाप्यं क्षीरञ्च मृण्मये ।
वैतालोपासनाः कार्य्याः क्रियाश्च श्रुतिचोदिताः ॥
आदन्तजन्मनः सद्य आचूडान्नैशिकी स्मृता ।
त्रिरात्रमाव्रतादेशाद्दशरात्रमतः परम् ॥
त्रिरात्रं दशरात्रं वा शावमाशौचमुच्यते ।
ऊनद्विवर्ष उभयोः सूतकं मातुरेव हि ।
अन्तरा जन्ममरणे शेषाहोभिर्विशुद्ध्यति ॥
दश द्वादश वर्णानां तथा पञ्चदशैव च ।
त्रिंशद्दिनानि च तथा भवति प्रेतसूतकम् ॥
अहस्त्वदत्तकन्यासु बालेषु च विशोधनम् ।
गुर्व्वन्ते वास्यानूचानमातुलश्रोत्रियेषु च ॥
अनौरसेषु पुत्त्रेषु भार्य्यास्वन्यगतासु च ।
निवासराजनि तथा तदहः शुद्धिकारणम् ॥
हतानां नृपगोविप्रैरन्वक्षं चात्मघातिनाम् ।
विषाद्यैश्च हतानाञ्च नाशौचं पृथिवीपते ॥
सत्रिव्रतिब्रह्मचारिदातृब्रह्मविदां तथा ।
दाने विवाहे यज्ञे च संग्रामे देशविप्लवे ।
आपद्यपि हि कष्टायां सद्यःशौचं विधीयते ॥
कालोऽग्निः कर्म्ममृद्बायुर्म्मनो ज्ञानं तपो जलम् ।
पश्चात्तपो निराहारः सर्व्वेषां शुद्धिहेतवः ॥”
इति गारुडे १०६ अध्यायः ॥

प्रेतश्राद्धं, क्ली, (प्रेताय प्रेतोद्देश्यकं वा श्राद्धम् ।)

प्रेतोद्देश्यकश्राद्धम् । तदनुष्ठानं यथा । तत्र
गोभिलः । अथैकोद्दिष्टमेकं पवित्रमेकोऽर्घ एकः
पिण्डो नावाहनं नाग्नौकरणं नात्र विश्वेदेवाः
स्वदितमिति तृप्तिप्रश्नः । उपतिष्ठतामित्यक्षय्य-
स्थाने अभिरम्यतामिति विसर्गोऽभिरतो-
ऽस्मीति प्रतिवचनमेतत् प्रेतश्राद्धमिति । इति
श्राद्धतत्त्वम् ॥ * ॥ तच्च नवश्राद्धं तत्तु साग्निक-
कर्त्तव्यं चतुर्थपञ्चमनवमैकादशाहेषु प्रेतश्राद्धम् ।
यथा यमः ।
“चतुर्थे पञ्चमे चैव नवमैकादशे तथा ।
तदत्र दीयते जन्तोस्तन्नवश्राद्धमुच्यते ॥”
इति श्राद्धविवेकः ॥ * ॥
साग्निनिरग्न्युभयकर्त्तव्यं आद्यश्राद्धादिसपिण्डी-
करणान्तं श्राद्धम् । यथा, --
“द्वादश प्रतिमास्यानि आद्यं षाण्मासिके तथा ।
सपिण्डीकरणञ्चैव इत्येतत् श्राद्धषोडशम् ॥”
इति श्राद्धतत्त्वम् ॥ * ॥
अम्बुघटश्राद्धम् । तत्तु संवत्सरं यावत् प्रत्यहं
प्रेतोद्देश्यकान्नजलदानरूपम् । यथा । पार-
स्करः । अहरहरन्नमस्मै ब्राह्मणायोदकुम्भञ्च
दद्यात् पिण्डमप्येके निगृणन्ति । ददतीत्यर्थः । इति
श्राद्धविवेकः ॥ * ॥ गयादितीर्थद्रव्यादिप्राप्ति-
निमित्तमेकोद्दिष्टश्राद्धम् । यथा, --
“पितृयज्ञन्तु निर्व्वर्त्त्य मासिके श्राद्ध एव तु ।
श्राद्धं प्रतिरुचौ चैव मातापित्रोर्मृताहनि ॥
असपिण्डीकृतं प्रेतमेकोद्दिष्टेन तर्पयेत् ॥
तेनाम्बुघटश्राद्धे मृताहविहितमासिके तथा
विशिष्टतीर्थद्रव्यादिप्राप्तौ प्रेतश्राद्धकरणेच्छायां
मातापित्रोर्म्मृताहनि च असपिण्डीकृतं प्रेत-
मेकोद्दिष्टेन तर्पयेत् ।” इति श्राद्धतत्त्वम् ॥

प्रेता, स्त्री, (प्रेत + स्त्रियां टाप् ।) प्रेतभावा-

पन्ना । यथा । विष्णुरोम् तत् सदित्यादि अमुक-
गोत्रायाः प्रेताया अमुकीदेव्या अशौचान्ता-
द्द्वितीयेऽह्नि अमुकगोत्रायाः प्रेतायाः प्रेतत्व-
विमुक्तिपूर्ब्बकस्वर्गलोकगमनकामः सोपकरण-
चन्दनाङ्कितधेनुदानमहं करिष्यामि । इति
मौर्खहा ॥ * ॥ मृता । यथा, --
“प्रेतायाः पुत्त्रिकाया न भर्त्ता धनमर्हत्य-
पुत्त्रायाः ।” इति दायभागे शङ्खलिखितौ ॥

प्रेत्य, व्य, (प्र + इ + ल्यप् ।) लोकान्तरम् । तत्-

पर्य्यायः । अमुत्र २ । इत्यमरः । ३ । ४ । ८ ॥
(यथा, मनुः । २ । ९ ।
“श्रुतिस्मृत्युदितं धर्म्ममनुतिष्ठन् हि मानवः ।
इह कीर्त्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् ॥”)

प्रेम, [न्] क्ली, पुं, (प्रियस्य भावः । प्रिय +

“पृथ्वादिभ्य इमनिज्वा ।” ५ । १ । १२२ ।
इति इमनिच् । “प्रियस्थिरेति ।” ६ । ४ । १५७ ।
इति प्रादेशः । प्री तर्पणे + मनिन् वा ।)
सौहार्द्यम् । तत्पर्य्यायः । प्रेमा २ प्रियता ३
हार्द्दम् ४ स्नेहः ५ । इत्यमरः । १ । ७ । २७ ॥
(यथा, देवीभागवते । १ । १४ । २४ ।
“दृष्ट्वा व्यासः शुकं प्राप्तं प्रेम्णोत्थाय ससम्भ्रमः ।
आलिलिङ्ग मुहुर्घ्राणं मूर्द्ध्नि तस्य चकार ह ॥”)
नर्म्म । इति मेदिनी । ने, ९४ ॥

प्रेमपातनं, क्ली, (प्रेम्णः स्नेहस्य पातनं यस्मात् ।

प्रेम्णा पातनं यस्येति वा ।) रोदनम् । नेत्र-
जलम् । इति शब्दचन्द्रिका ॥

प्रेमभक्तिः, स्त्री, (प्रेम्णा भक्तिः ।) स्नेहयुक्त-

श्रीकृष्णसेवा । विष्ण्वैकान्तिकममता । तल्लक्षणं
यथा, नारदपञ्चरात्रे ।
“अनन्यममता विष्णौ ममता प्रेमसंप्लुता ।
भक्तिरित्युच्यते भीष्म ! प्रह्लादोद्धवनारदैरिति ॥
प्रेमभक्तेश्च माहात्म्यं भक्तेर्म्माहात्म्यतः परम् ।
सिद्धमेव यतो भक्तेः फलं प्रेमैव निश्चितम् ॥” * ॥
अथ प्रेमसम्पत्तिचिह्नानि यथा, भागवते ७ स्कन्धे
७ अध्याये श्रीप्रह्लादस्य बालानुशासने ।
“निशम्य कर्म्माणि गुणानतुल्यान्
वीर्य्याणि लीलातनुभिः कृतानि ।
यदातिहर्षोत्पुलकाश्रुगद्गदं
प्रोत्कण्ठ उद्गायति रौति नृत्यति ॥
यदा ग्रहग्रस्त इव क्वचिद्धस-
त्याक्रन्दते ध्यायति वन्दते जनम् ।
मुहुः श्वसन् वक्ति हरे जगत्पते
नारायणेत्यात्ममतिर्गतत्रपः ॥
तदा पुमान् मुक्तसमस्तबन्धन-
स्तद्भावभावानुकृताशयाकृतिः ।
निर्द्दग्धबीजानुशयो महीयसा
भक्तिप्रयोगेण समेत्यधोक्षजम् ॥”
इति श्रीहरिभक्तिविलासे ११ विलासः ॥

प्रेमा, [न्] पुं, (प्रिय + इमनिच् । प्री तर्पणे + मनिन्

वा ।) स्नेहः । इत्यमरः । १ । ७ । २७ ॥ अस्य
लक्षणं यथा, --
“सर्व्वथा ध्वंसरहितं सत्यपि ध्वंसकारणे ।
यद्भावबन्धनं यूनोः स प्रेमा परिकीर्त्तितः ॥”
इत्युज्ज्वलनीलमणिः ॥
वासवः । वायुः । इति मेदिनी । ने, ९४ ॥
पृष्ठ ३/३७३

प्रेमालिङ्गनं, क्ली, (प्रेम्णा यदालिङ्गनम् ।) स्नेहेन

परिस्वङ्गः । नायकनायिकयोरालिङ्गनविशेषः ।
तल्लक्षणं यथा । नायककटिं नायिकयैकपादेन
वेष्टयित्वा द्वितीयं पादं तस्य जङ्घोपरि स्थाप-
यित्वा यदालिङ्गनं तत् । इति कामशास्त्रम् ॥

प्रेमी, [न्] त्रि, (प्रेम अस्यास्तीति । इनिः ।)

प्रेमयुक्तः । स्नेहविशिष्टः । प्रेमशब्दादस्त्यर्थे
इन्प्रत्ययेन निष्पन्नः । इति व्याकरणम् ॥

प्रेयसी, स्त्री, (इयमनयोरतिशयेन प्रिया । प्रिय +

ईयसुन् । “प्रियस्थिरेति ।” ६ । ४ । १५७ ।
इपि प्रादेशः । स्त्रियां ङीप् ।) प्रियतमा
नारी । तत्पर्य्यायः । दयिता २ कान्ता ३
प्राणेशा ४ वल्लभा ५ प्रिया ६ हृदयेशा ७
प्राणसमा ८ प्रेष्ठा ९ प्रणयिनी १० । इति
हेमचन्द्रः ॥

प्रेयान् [स्] पुं, (अयमनयोरतिशयेन प्रियः ।

प्रिय + ईयसुन् । प्रादेशः ।) पतिः । तत्-
पर्य्यायः । दयितः २ कान्तः ३ प्राणेशः ४
वल्लभः ५ प्रियः ६ हृदयेशः ७ प्राणसमः ८
प्रेष्ठः ९ प्रणयी १० । इति हेमचन्द्रः ॥ अति-
प्रिये, त्रि । इति जटाधरः ॥

प्रेरणं, क्ली, (प्र + ईर् + णिच् + ल्युट् ।) प्रेषणम् ।

पाठान इति भाषा । यथा, नैषधे । ३ । ५५ ।
“धिक् चापले वत्सिमवत्सलत्वं
यत्प्रेरणादुत्तरलीभवन्त्या ॥”

प्रेरणा, स्त्री, (प्र + ईर् + णिच् + “ण्यासश्रन्थो

युच् ।” ३ । ३ । १०७ । इति युच् ।) चोदना ।
(यथा, मेघदूते । ७० ।
“ह्रीमूढानां भवति विफला प्रेरणा चूर्णमुष्टिः ॥”)
फलभावना । विधिरिति यावत् । इति धर्म्म-
दीपिका ॥

प्रेरितः, त्रि, (प्र + ईर् + क्तः ।) प्रेषितः । यथा, --

“नपुंसकमिति ज्ञात्वा प्रियायै प्रेरितं मनः ।
मनस्तत्रैव रमते हताः पाणिनिना वयम् ॥”
इति प्राचीनाः ॥

प्रेर्त्वा [न्] पुं, (प्रकर्षेण ईर्त्ते इति । प्र + ईर् गतौ

+ “प्र ईरशदोस्तुट् च ।” उणा० ४ । ११६ । इति
क्वनिप् तुडागमश्च ।) समुद्रः । इति सिद्धान्त-
कौमुद्यामुणादिवृत्तिः ॥

प्रेर्त्वरी, स्त्री, (प्रकर्षेण ईर्त्ते इति । प्र + ईर्

गतौ + “प्र ईरशदोस्तुट् च ।” उणा० ४ । ११६ ।
इति क्वनिप् तुट् च । “वनोरच ।” ४ । १ । ७ ।
इति ङीप् रश्चान्तादेशः ।) नदी । इति सिद्धान्त-
कौमुद्यामुणादिवृत्तिः ॥

प्रेष, ऋ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ॥)

प्रेषः, पुं, (प्र + ईष् + घञ् ।) प्रेषणम् । पीडा ।

इति जटाधरः ॥

प्रेषणं, क्ली, (प्रेष् + भावे ल्युट् ।) प्रेरणम् । यथा,

“जानीयात् प्रेषणे भृत्यान् बान्धवान् व्यसनागमे ।
मित्रञ्चापदि काले च भार्य्याञ्च विभवक्षये ॥”
इति चाणक्यसंग्रहः ॥

प्रेषितं, त्रि, (प्रेष् + झः ।) प्रेरितम् । तत्पर्य्यायः ।

प्रस्थापितम् २ प्रातिशिष्टम् ३ प्रतिहतम् ४ ।
इति हेमचन्द्रः ॥ (यथा, देवीभागवते । १ । ११ । ४६ ।
“प्रेषितोऽहं महाभाग ! शक्रेण त्वं विवक्षया ।
कथितं प्रभुणा यच्च तद् ब्रवीमि महामते ! ॥”)

प्रेष्ठः, त्रि, (अयमेषामतिशयेन प्रिय इति । प्रिय

+ इष्ठन् । प्रादेशः ।) अतिशयप्रियः । इत्य-
मरः । ३ । १ । १११ ॥

प्रेष्ठा, स्त्री, (प्रेष्ठ + टाप् ।) प्रेयसी । इति

हेमचन्द्रः ॥ जङ्घा । इति शब्दचन्द्रिका ॥

प्रेष्यः, त्रि, (प्र + ईष् + कर्म्मणि ण्यत् ।) दासः ।

इत्यमरः । २ । १० । १७ ॥ (यथा, मनौ । ३ । १५३ ।
“प्रेष्यो ग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः ॥”)
प्रेरणीयश्च ॥

प्रैषः, पुं, (प्र + इष् + घञ् । “प्रादूहोढोढ्येषै-

ष्येषु ।” ६ । १ । ८९ । इत्यस्य वार्त्तिकोक्त्या वृद्धिः ।)
क्लेशः । मर्द्दनम् । उन्मादः । प्रेषणम् । इति
मेदिनी । षे, ९ ॥

प्रैष्यः, पुं, (प्र + इष् + कर्म्मणि ण्यत् । “प्रादू-

होढोढ्येषैष्येषु ।” ६ । १ । ८९ । इत्यस्य वार्त्ति-
कोक्त्या वृद्धिः ।) प्रेष्यः । इत्यमरटीकायां
भरतः ॥ (यथा, कुमारे । ६ । ५८ ।
“जङ्गमं प्रैष्यभावे वः स्थावरं चरणाङ्कितम् ।
विभक्तानुग्रहं मन्ये द्विरूपमपि मे वपुः ॥”
क्ली, प्रेष्यस्य भावः । दासकर्म्म । यथा, कथा-
सरित्सागरे । ३० । ९५ ।
“गवादिरक्षकान् पुत्त्रान् भार्य्यां कर्म्मकरीं
निजाम् ।
तस्य कृत्वा गृहाभ्यर्णे प्रैष्यं कुर्व्वन्नुवास सः ॥”)

प्रोक्तं, त्रि, (प्रकर्षेण उच्यते स्मेति । प्र + वच् +

क्तः ।) कथितम् । प्रकर्षेणोक्तम् । यथा, --
“अम्बरीशशुकप्रोक्तं नित्यं भागवतं शृणु ॥”
इति श्रीभागवतम् ॥

प्रोक्षणं, क्ली, (प्र + उक्ष सेचने + ल्युट् ।) यज्ञार्थ-

पशुहननम् । इत्यमरः । २ । ७ । २६ ॥ (यथा,
महाभारते । ५ । १७ । ९ ।
“य इमे ब्राह्मणाः प्रोक्ता मन्त्रा वै प्रोक्षणे
गवाम् ।
एते प्रमाणं भवतः उताहा नेति वासव ! ॥”
श्राद्धाद्युचितसंस्कारः । यथा, भागवते । ९ ।
६ । ८ ।
“चोदितः प्रोक्षणायाह दुष्टमेतदकर्म्मकम् ॥”)
वधः । सेचनम् । इति मेदिनी । णे, ६४ ॥
(यथा, मनुः । ५ । ११८ ।
“अद्भिस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् ।
प्रक्षालनेन त्वल्पानामद्भिः शौचं विधीयते ॥”)

प्रोक्षितं, त्रि, (प्र + उक्ष + क्त ।) निहतम् ।

सिक्तम् । इति मेदिनी । ते, १३६ ॥ यज्ञार्थं
मन्त्रैः संस्कृतमांसादि । यथा, --
“भक्षयेत् प्रोक्षितं मांसं सकृद्ब्राह्मणकाम्यया ।
दैवे नियुक्तः श्राद्धे वा नियमे तु विवर्ज्जयेत् ॥”
आरण्यानामिदानीन्तनप्रोक्षणापेक्षा नास्ति ।
यथा, महाभारते ।
“आरण्याः सर्व्वदैवत्याः प्रोक्षिताः सर्व्वशो
मृगाः ।
अगस्त्येन पुरा राजन् ! मृगया येन पूज्यते ॥”
इति तिथ्यादितत्त्वम् ॥

प्रोज्जासनं, क्ली, (प्र + उद् + जस् हिंसायाम् +

णिच् + ल्युट् ।) मारणम् । इति हेमचन्द्रः ।
३ । ३४ ॥

प्रोज्झितं, त्रि, (प्र + उज्झ + कर्म्मणि क्तः ।)

त्यक्तम् । यथा, श्रीभागवते । १ । १ । २ ।
“धर्म्मः प्रोज्झितकैतवोऽत्र परमो निर्म्मत्-
सराणां सताम् ॥”

प्रोञ्छनं, क्ली, (प्र + उञ्छ + ल्युट् ।) प्रवर्जनम् ।

लोपनम् । मोछा इति भाषा ॥ यथा, --
“प्रोञ्छनैर्वामपादेन दरिद्रो भवति ध्रुवम् ।
वैरिनाशकरं प्रोक्तं कवचं वश्यकारकम् ॥”
इति रुद्रयामले वैरिहरकालीकवचम् ॥

प्रोण्ठः, पुं, (प्रकर्षेण अण्ठते निष्ठीवनादिकं

प्राप्नोतीति । प्र + अठि गतौ + अच् । पृषो-
दरादित्वात् अस्य उत्वम् ।) पतद्ग्रहः ।
पीग्दान इति भाषा । यथा, --
“स्यादाचमनकः प्रोण्ठः कटकोलः पतद्ग्रहः ॥”
इति हारावली । ४७ ॥

प्रोतं, क्ली, (प्र + वेञ् स्यूतौ + क्तः । यजादि-

त्वात् सम्प्रसारणम् ।) वस्त्रम् । इति जटाधरः ॥

प्रोतं, त्रि, (प्र + वेञ् + क्तः । यजादित्वात् सम्प्र-

सारणम् ।) खचितम् । इति मेदिनी । ते, ३७ ॥
स्यूतम् । (यथा, श्रीकण्ठचरिते । १५ । २५ ।
“नीरन्ध्रमात्तपरिरम्भविजृम्भणस्य
रम्भोरुभिः सह विलासिजनस्य कामः ।
प्रोतं विधातुमिव चेतसि रागसूत्रं
रोमाञ्चसूचिनिचयं प्रचुरीचकार ॥”)
गुम्फितम् । इति हेमचन्द्रः ॥

प्रोतोत्सादनं, क्ली, (प्रोते स्यूते सति प्रोतानां

वस्त्राणां वा उत्सादनं उत्तोलनं उच्चालनं वा
यत्र ।) वस्त्रकुट्टिमम् । छत्रम् । इति त्रिकाण्ड-
शेषः ॥

प्रोत्फलः, पुं, (प्रकर्षेण उत्फलतीति । प्र +

उत् + फल् + अच् ।) वृक्षविशेषः । तत्-
पर्य्यायः । सिंहलाङ्गूलः २ छडी ३ छटा
पिञ्जा ५ । इति शब्दमाला ॥

प्रोत्फुल्लं, त्रि, (प्रकर्षेण उत्फुल्लम् । प्र + उत् +

फुल्ल विकासे + कर्त्तरि अच् वा ।) विकसितम् ।
यथा, --
“ये वर्द्धिताः करिकपोलमदेन भृङ्गाः
प्रोत्फुल्लपङ्कजरजःसुरभीकृताङ्गाः ।
ते साम्प्रतं विधिवशाद्गमयन्ति कालं
निम्बेषु चार्ककुसुमेषु करीलकेषु ॥”
इति भामिनीविलासः ॥

प्रोत्साहः, पुं, (प्र + उत् + सह + घञ् ।) प्रकृ-

ष्टोत्साहः । “कर्म्मसु सुकरप्रत्यय उत्साह इति
मधुः ॥ कर्म्मसु दृढयत्नकारको भावः उत्साह
पृष्ठ ३/३७४
इति रमानाथः ॥ कर्म्मसु प्रत्यय उत्साह इति
नयनानन्दः । अशक्ये बलोद्यम उत्साह । इति
केचित् ।” इत्यमरटीकायां भरतः ॥ (यथा,
कथासरित्सागरे । १६ । ९७ ।
“सोऽस्याः प्रोत्साहविश्लेषदुःखं यावद्व्यपो-
हति ।
तावत् पद्मावतीपार्श्वं प्रययुस्ते महत्तराः ॥”)

प्रोथ, ऋ ञ पर्य्यापणे । इति कविकल्पद्रुमः ॥ (भ्वा०-

उभ०-अक०-सेट् ।) रेफयुक्तः । ऋ, अपुप्रोथत् ।
ञ, प्रोथति प्रोथते । पर्य्यापणं सामर्थ्यम् । पुप्रो-
थास्मै न कश्चन । पर्य्यापणं परिपूर्णता । इति
गोविन्दभट्टः । इति दुर्गादासः ॥

प्रोथः, पुं, क्ली, (प्रवते इति । प्रुङ् गतौ + “तिथ-

पृष्ठगूथयूथप्रोथाः ।” उणा० २ । १२ । इति
थक् निपातनात् गुणः । यद्वा, प्रोथते इति ।
प्रोथ पर्य्याप्तौ + “पुंसि संज्ञायां घः प्रायेण ।”
३ । ३ । ११८ । इति घः ।) अश्वनासिका । इत्य-
मरः । २ । ८ । ४९ ॥ (यथा, माघे ११ । ११ ।
“रिरसयिषति भूयः शष्पमग्रे विकीर्णं
पटुतरचपलौष्ठः प्रस्फुरत्प्रोथमश्वः ॥”
शूकरनासिकापि । यथा, देवीभागवते । ५ ।
२८ । २५ ।
“वाराही शूकराकारा गूढप्रोथा सटाभृता ॥”)

प्रोथः, पुं, (प्रोथते इति । प्रोथ पर्य्याप्तौ + “पुंसि

संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । इति घः ।
यद्वा, प्रुङ् गतौ + “तिथपृष्ठमूथयूथप्रोथाः ।”
उणा० २ । १२ । इति थक् । निपानात् गुणः ।)
कटी । इति मेदिनी । थे, १० ॥ शाटकः । इति
त्रिकाण्डशेषः ॥ स्त्रीगर्भः । इति विश्वः ॥ गर्त्तः ।
भीषणम् । स्फिक् । अश्वमुखम् । इति संक्षिप्त-
सारोणादिवृत्तिः ॥

प्रोथः, त्रि, (प्रवते इति । प्रुङ् गतौ + “तिथपृष्ठ-

गूथयूथप्रोथाः ।” उणा ० २ । १२ । इति थक् ।
निपातनात् गुणः ।) अध्वगः । इति मेदिनी ।
थे, १० ॥ प्रथितः । इति त्रिकाण्डशेषः ॥
स्थापितः । इति सिद्धान्तकौमुद्यामुणादि-
वृत्तिः ॥

प्रोषः, पुं, (प्रुष दाहे + भावे घञ् ।) सन्तापः ।

इति राजनिर्घण्टः ॥

प्रोषितः, त्रि, (वस् + क्त । इट् । सम्प्रसारणम् ।

प्रकृष्टदूरं उषितः ।) प्रवासगतः । यथा, --
“आर्त्तार्त्ते मुदिता हष्टे प्रोषिते मलिना कृशा ।
मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया परिव्रता ॥”
इति शुद्धितत्त्वम् ॥
(दूरीभूतः । यथा, कलाविलासे । १ । १४ ।
“पिहितबृहस्पतिधिषणो
रुचिरः प्रज्ञामरीचिनिचयस्ते ।
तीक्ष्णांशोरिव सहजः
प्रोषिततिमिराः करोत्याशाः ॥”)

प्रोषितभर्त्तृका, स्त्री, (प्रोषितो विदेशगतो भर्त्ता

यस्याः । समसान्तकप्प्रत्ययः ।) विदेशस्य-
पतिका । इति जटाधरः ॥ स्वीयादिनायिका-
भेदः । तस्या लक्षणं यथा । देशान्तरे गते
भर्त्तरि सन्तापाकुला प्रोषितभर्त्तृका । अस्या-
श्चेष्टा दशावस्था । यथा । पत्यभिलाषः १
चिन्ता २ स्मृतिः ३ गुणोत्कीर्त्तनम् ४ उद्वेगः
५ विलापः ६ उन्मादः ७ व्याधिः ८ जडता ९
निधनम् १० । मुग्धा प्रोषितभर्त्तृका यथा, --
“दुःखं दीर्घतरं वहन्त्यपि सखीवर्गाय नो भाषते
शैवालैः शयनं सृजन्त्यपि पुनः शेते न वा
लज्जया ।
कण्ठे गद्गदवाचमञ्चति दृशा धत्ते न वास्पोदकं
सन्तापं सहते यदम्बुजमुखी तद्बेद चेतोभवः ॥”
मध्या प्रोषितभर्त्तृका यथा, --
“वासस्तदेव वपुषो वलयन्तदेव
हस्तस्य सैव जघनस्य च रत्नकाञ्ची ।
वाचालभृङ्गसुभगे सुरतौ समस्त-
मद्याधिकं भवति तत् सखि किन्निदानम् ॥”
प्रगल्भा प्रोषितभर्त्तृका यथा, --
“माला बालाम्बुजदलमयी मौक्तिकी हार-
यष्टिः
काञ्ची स्थानात् प्रसरति हरौसुभ्रुवः प्रस्थितैव ।
अन्यद्ब्रूमः किमपि धमनी विद्यते वा नवेति
ज्ञातुं बाह्वोरहह वलयं पाणिमूलं प्रयाति ॥”
परकीया प्रोषितभर्त्तृका यथा, --
“श्वश्रूः पद्मदलं ददाति तदपि भ्रूसंज्ञया गृह्यते
सद्यो मर्म्मरशङ्कया न च तया संस्पृश्यते
पाणिना ।
यातुर्व्वाचि सुहृज्जनस्य वचसा प्रत्युत्तरं दीयते
श्वासः किन्तु न मुच्यते हुतवहक्रूरः कुरङ्गी-
दृशा ॥”
सामान्यवनिता प्रोषितभर्त्तृका यथा, --
“विरहविदितमन्तःप्रेम विज्ञाय कान्तः
पुनरपि वसु तस्मादेत्य मे दास्यतीति ।
भरिचनिचयमक्ष्णोर्न्यस्य वास्पोदबिन्दून्
सृजति च पुरयोषिद्द्वारदेशोपविष्टा ॥”
इति रसमञ्जरी ॥
(अस्याः अकर्त्तव्यं यदुक्तं चिन्तामणौ तद्यथा,
“हास्यं परगृहे यानं समाजोत्सवदर्शनम् ।
क्रीडां शरीरसंस्कारं त्यजेत् प्रोषितभर्त्तृका ॥”)

प्रोष्ठः, पुं, (प्रकृष्ट ओष्ठोऽस्येति । “ओत्वोष्ठयोः

समासे वा ।” १ । १ । ६४ । इत्यस्य वार्त्ति-
कोक्त्या साधुः ।) प्रोष्ठीमत्स्यः । इत्यमरटीकायां
रायमुकुटः ॥ (जनपदविशेषः । यथा, महा-
भारते । ६ । ९ । ६१ ।
“व्यूढकाः कोरकाः प्रोष्ठाः समवेगवशास्तथा ॥”
गौः । इति सिद्धान्तकौमुदी । ५ । ४ । १२० ॥)

प्रोष्ठपदः, पुं, (प्रोष्ठो गौस्तस्येव पादौ यस्य सः ।

“सुप्रातसुश्वसुदिवेति ।” ५ । ४ । १२० । इति अच्
प्रत्ययेन साधुः । प्रोष्ठपदो नक्षत्रविशेषस्तद्युक्ता
पौर्णमासी यत्र मासे । अण् । पक्षे न वृद्धिः ।)
भाद्रमासः । इत्यमरः ॥ (नक्षत्रविशेषः । यथा,
महाभारते । ६ । ३ । १४ ।
“शूक्रः प्रोष्ठपदे पूर्ब्बे समारुह्य विरोचते ॥”
यथा च मार्कण्डेये । ३३ । १५ ।
“अजाविकं प्रोष्ठपदे विन्देद्धावांस्तथोत्तरे ॥”
गोतुल्यपदयुक्ते, त्रि । इति व्याकरणम् ॥)

प्रोष्ठपदाः, स्त्री, (प्रोष्ठो गौस्तस्येव पादा यासाम् ।

“सुप्रातसुश्वेति ।” ५ । ४ । १२० । इति बहु-
व्रीहावच् पद्भावश्च निपातितः ।) पूर्ब्बभाद्रपद-
नक्षत्रम् २५ । उत्तरभाद्रपदनक्षत्रम् २६ ।
तत्पर्य्यायः । भाद्रपदाः २ । इत्यमरः । १ । ३ ।
२२ ॥ द्बे पूर्ब्बभाद्रपदोत्तरभाद्रपदासु प्रोष्ठो गौः
भद्रश्च गौः तस्येव पाद आसां तास्तथा । पूर्ब्बे
प्रोष्ठपदे द्वे उत्तरे तु भाद्रपदे द्बे समुदायश्चासां
चतुःसंख्य इति बहुवचनम् । कदा पूर्ब्बे प्रोष्ठ-
पदे कदा उत्तरे प्रोष्ठप्रदे इति तारकयोर्द्वित्वा-
द्द्विवचनम् । इति भरतः ॥ भाद्रपदशब्देन
तारकाविशेषाणां समुदाय उच्यते तिरोहिता-
वयवभेदपक्षे एकवचनम् । प्रोष्ठपदाशब्दस्तू-
द्रिक्तावयवभेदपक्षे बहुवचनमिति मैत्रेयः ।
इति रायमुकुटः ॥

प्रोष्ठपदी, स्त्री, (प्रोष्टपदाभिर्युक्ता पौर्णमासी ।

अण् । स्त्रियां ङीप् ।) भाद्री पूर्णिमा । यथा, --
“प्रोष्ठपद्यामतीतायां तथा कृष्णा त्रयोदशी ।
एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजापतिः ॥”
इति तिथ्यादितत्त्वम् ॥
अपि च ।
“लिखित्वा तच्च यो दद्याद्धेमसिंहसमन्वितम् ।
प्रोष्ठपद्यां पौर्णमास्यां स याति परमां गतिम् ॥”
इति श्रीभागवतटीकायां श्रीधरस्वामी ॥

प्रोष्ठपादः, त्रि, (प्रोष्ठपद + “सन्धिवेलेति ।” ४ ।

३ । १६ । इत्यण् । “जे प्रोष्ठपदानाम् ।” ७ । ३ ।
१८ । इति उत्तरपदस्याचामादेरचो वृद्धिः ।)
प्रोष्ठपदासु जातः । इति सिद्धान्तकौमुदी ॥

प्रोष्ठी, स्त्री, पुं, (प्रकृष्ट ओष्ठो यस्याः । “ओष्ठो-

त्वयोः समासे वा ।” नासिकोदरोष्ठेति जाते-
रिति वा ङीष् ।) मत्स्यभेदः । पुँटी माछ इति
भाषा । तत्पर्य्यायः । शफरी २ शफरः ३ ।
इत्यमरः ॥ श्वेतकोलः ४ । इति शब्दरत्नावली ॥
तस्या गुणाः । तिक्तत्वम् । कटुत्वम् । स्वादु-
त्वम् । शुक्रकारित्वम् । कफवातनाशित्वञ्च ।
इति राजवल्लभः ॥ स्निग्धत्वम् । आस्यकण्ठ-
रोगनाशित्वम् । श्रेष्ठत्वञ्च । इति राजनिर्घण्टः ॥

प्रोहः, पुं, (प्रोह्यते वितर्क्यते विस्मयाकुलितैरिति ।

प्र + ऊह् + घञ् ।) हस्तिचरणः । पर्व्व । इति
विश्वमेदिन्यौ । हे, ५ । गजचरणपर्व्व । इति
त्रिकाण्डशेषशब्दरत्नावल्यौ ॥

प्रोहः, त्रि, (प्रकर्षेण ऊहते वितर्कयतीति । प्र +

ऊह + कः ।) निपुणः । (प्र + ऊह + भावे
घञ् ।) तर्कः । इति मेदिनी । हे, ६ ॥

प्रौढं, त्रि, (प्रोह्यते स्मेति । प्र + वह् + क्तः । सम्प्र-

सारणम् । “प्रादूहोढोढ्येषैष्येषु ।” इति वृद्धिः ।)
वर्द्धितम् । तत्पर्य्यायः । प्रवृद्धम् २ एधितम् ३ ।
इत्यमरः । ३ । १ । ७६ ॥ (यथा, मेघदूते । २७ ।
“त्वत्सम्पर्कात् पुलकितमिव प्रौढपुष्पैः कदम्बैः ॥”)
पृष्ठ ३/३७५
प्रगल्भः । इति हेमचन्द्रः । ६ । १३१ ॥ (यथा,
रघुः । ९ । ५८ ।
“त्रासातिमात्रचटुलैः स्मरतः सुनेत्रैः
प्रौढप्रिया नयनविभ्रमचेष्टितानि ॥”)
निपुणः । इति राजनिर्घण्टः ॥ (यथा, भाग-
वते । ३ । २ । ९ ।
“ईङ्गितज्ञाः पुरुप्रौढा एकारामाश्च सात्त्वताः ॥”)
प्रकर्षेण ऊढश्च ॥

प्रौढपादः, पुं, (प्रौढः पादो यस्य ।) आसनारो-

पितपादतलः । आसनोपरिपादतलद्बयसंयोग-
पूर्ब्बकोपवेष्टा । वस्त्रादिना कृतपृष्ठजानुजङ्घा-
बन्धः । वस्त्रादिद्वारा पृष्ठजानुजङ्घाद्बयदृढ-
बन्धनपूर्ब्बकोपवेष्टा । यथा, --
“आसनारूढपादस्तु जानुनोर्जङ्घयोस्तथा ।
कृतावसक्थिको यस्तु प्रौढपादः स उच्यते ॥
स्नानमाचमनं होमं भोजनं देवतार्च्चनम् ।
प्रौढपादो न कुर्व्वीत स्वाध्यायं पितृतर्पणम् ॥”
इति कात्यायनः ॥ * ॥
अनेकोद्बाह्ये दारुशिले भूमिसमे इष्टकाश्च
संकीर्णीभूता इति बौधायनवचनात्तथाविधे
आरूढपादोऽपि कुर्य्यात् । इत्याह्निकतत्त्वम् ॥

प्रौढा, स्त्री, (प्रौढ + टाप् ।) नायिकाभेदः । तत्-

पर्य्यायः । चिरिण्टी २ सुवयाः ३ श्यामा ४
दृष्टरजाः ५ । इति राजनिर्घण्टः ॥ यथा, --
“बाला तु तरुणी प्रौढा वृद्धा भवति नायिका ।
गुणयोगेन रन्तव्या नारी वश्या भवेत्तदा ॥”
त्रिंशद्बर्षादूर्द्घं पञ्चपञ्चाशद्वर्षपर्य्यन्तं प्रौढा-
वस्था । यथा, --
“आषोडशी भवेद्बाला तरुणी त्रिंशता मता ।
पञ्चपञ्चाशती प्रौढा भवेद्वृद्धा ततः परम् ॥”
अस्या वश्यत्वकारणं यथा, --
“अलङ्कारादिभिर्ब्बाला तरुणी रतियोगतः ।
प्रेमदानादिभिः प्रौढा वृद्धा च दृढताडनात् ॥”
तस्या रमणे दोषो यथा, --
“बाला तु प्राणदा प्रोक्ता तरुणी प्राणहारिणी ।
प्रौढा करोति वृद्धत्वं वृद्धा मरणदा भवेत् ॥”
इति रतिमञ्जरी ॥
मुग्धादित्रिविधान्तर्गतप्रगल्भा नायिका । तत्र
प्रोढा खण्डिता यथा, --
“मामुद्बीक्ष्य विपक्षपक्ष्मलदृशः पादाम्बुजालक्तकै-
रालिप्ताननमानतीकृतमुखी चित्रार्पितेवाभवत् ।
रूक्षं नोक्तवती न वा कृतवती निश्वासकोष्णादृशः
प्रातर्मङ्गलमङ्गला करतलादादर्शमादर्शयत् ॥”
प्रौढा कलहान्तरिता यथा, --
“अकरोः किभु नेत्रशोणिमानं
किमकार्षीः करपल्लवे निरोधम् ।
कलहं किमधाः क्रुधा रसज्ञे
हितमर्थं न विदन्ति दैवदुष्टाः ॥”
प्रौढा उत्कण्ठिता यथा, --
“भ्रातर्निकुञ्जसखियूथिरश्चालबन्धो
मातस्तमस्विनि पितस्तिमिर प्रसीद ।
पृच्छामि किञ्च नवनीरधराभिरामो
दामोदरः कथय किं न समाजगाम ॥”
प्रौढा वासकसज्जा यथा, --
“कृतं वपुषि भूषणं चिकुरधोरणी धूपिता
कृता शयनसन्निधौ क्रमुकवीटिकासम्भृतिः ।
अकारि हरिणीदृशा भवनमेत्य देहत्विषा
स्फुरत्कनककेतकीकुसुमकान्तिभिर्दुर्द्दिनम् ॥”
प्रौढाभिसारिका यथा, --
“स्फुरदुरसिजभारभङ्गुराङ्गी
किसलयकोमलकान्तिना पदेन ।
अथ कथय कथं सहेत गन्तुं
यदि न निशासु मनोरथो रथः स्यात् ॥”
प्रौढा प्रवत्स्यत्पतिका यथा, --
“नायं मुञ्चति सुभ्रुवामपि तनुत्यागे वियोगज्वर-
स्तेनाहं विहिताञ्जलिर्यदुपते ! पृच्छामि सत्यं
वद ।
ताम्बूलं कुसुमं पटीरमुदकं यद्बन्धुभिर्दीयते
तत् स्यादत्र परत्र वा किमु विषज्वालावली-
दुःसहम् ॥”
इति रसमञ्जरी ॥
अन्यत् प्रगल्भाशब्दे द्रष्टव्यम् ॥

प्रौढिः, स्त्री, (प्र + वह + क्तिन् । प्रादूहेति

वृद्धिः ।) सामर्थ्यम् । इति मुग्धबोधव्याकरणम् ॥
तत्पर्य्यायः । उत्साहः २ प्रगल्भता ३ अभि-
योगः ४ उद्यमः ५ उद्योगः ६ कियदेतिका ७
अध्यवसायः ८ ऊर्ज्जः ९ । इति हेमचन्द्रः । २ ।
२१४ ॥ (यथा, कथासरित्सागरे । १४ । ६३ ।
“यथा यथा च दम्पत्योः प्रौढिं परिचयो ययौ ।
तयोस्तथा तथा प्रेम नवीभावमिवाययौ ॥”)

प्रौणः, त्रि, (प्र + ओण् अपनयने + अच् ।)

निपुणः । इति केचित् ॥

प्रौष्ठपदः, पुं, (प्रोष्ठो गौस्तस्येव पादा यासामिति

प्रोष्ठपदा नक्षत्रविशेषाः । तद्युक्ता पौर्णमासी ।
प्रोष्ठपद + “नक्षत्रेण युक्तः कालः ।” ४ । २ । ३ ।
इति अण् । ङीप् । प्रौष्ठपदी पौर्णमास्यस्मिन् ।
प्रौष्ठपदी + “सास्मिन् पौर्णमासीति ।” ४ । २ । २१ ।
इति अण् ।) भाद्रमासः । इत्यमरः । १ । ३ । २२ ॥
(यथा, महाभारते । १३ । १०६ । २८ ।
“प्रौष्ठपदन्तु यो मासमेकाहारो भवेन्नरः ।
धनाढ्यं स्फीतमचलमैश्वर्य्यं प्रतिपद्यते ॥”
प्रोष्ठपदासु भवे, त्रि । इति सिद्धान्तकौमुदी ।
७ । ३ । १८ ॥)

प्रौहः, पुं, (प्र + ऊह + कः । प्रादूहेति वृद्धिः ।)

प्रकर्षेणोहः । इति मुग्धबोधव्याकरणम् ।

प्लक्ष, ञ भक्षणे । इति कविकल्पद्रुमः ॥ (भ्वा०-

उभ०-सक०-सेट् ।) अन्तःस्थतृतीययुक्तः । ञ,
प्लक्षति प्लक्षते । इति दुर्गादासः ॥

प्लक्षः, पुं, (प्लक्ष्यते भक्ष्यते विहगादिभिरिति । प्लक्ष

+ कर्म्मणि घञ् ।) वृक्षविशेषः । पाकुड इति
भाषा । तत्पर्य्यायः । जटी २ पर्कटी ३ । इत्य-
मरः ॥ पर्कटिः ४ प्लक्ष ५ प्लीक्षा ६ जटिः ७ ।
इति शब्दरत्नावली ॥ कपीतनः ८ क्षीरी ९
सुपार्श्वः १० कमण्डलुः ११ शृङ्गी १२ अव-
रोहशाखी १३ गर्द्दभाण्डः १४ कपीतकः १५
दृढप्ररोहः १६ प्लवकः १७ प्लवङ्गः १८ महा-
बलः १९ ॥ ह्रस्वप्लक्षपर्य्यायः । सूक्ष्मः २०
सुशीतः २१ शीतवर्य्यकः २२ पुण्ड्रः २३ महा-
वरोहः २४ ह्रस्वपर्णः २५ पिम्बरिः २६ भिदुरः
२७ मङ्गलच्छायः २८ । अस्य गुणाः । कटु-
त्वम् । कषायत्वम् । शिशिरत्वम् । रक्तदोष-
मूर्च्छाभ्रमप्रलापनाशित्वञ्च । इति राजनि-
र्घण्टः ॥ व्रणयोनिगददाहपित्तकफशोथरक्त
पित्तनाशित्वम् । पर्कटी च स्त्रियामपि । इति
भावप्रकाशः ॥ कन्दरालवृक्षः । द्बीपभेदः ।
अश्वत्थवृक्षः । इति मेदिनी । षे, १७ ॥ पक्षकः ।
इति हेमचन्द्रः ॥

प्लक्षद्वीपः, पुं, (प्लक्षतरूपलक्षितो द्वीपः ।) सप्त-

द्वीपान्तर्गतद्बीपविशेषः । तस्य विवरणं यथा,
सूत उवाच ।
“जम्बुद्वीपस्य विस्ताराद्द्विगुणेन समन्ततः ।
संवेष्टयित्वा क्षीरोदं प्लक्षद्बीपो व्यवस्थितः ॥
प्लक्षद्बीपे च विप्रेन्द्राः सप्तासन् कुलपर्व्वताः ।
ऋज्वायताः सुपर्व्वाणः सिद्धसंघनिषेविताः ॥
गोमेरुः प्रथमस्तेषां द्बितीयश्चन्द्र उच्यते ।
नारदो दुन्दुभिश्चैव सोमश्च ऋषभस्तथा ॥
विभ्राजः सप्तमः प्रोक्तो ब्रह्मणोऽत्यन्तवल्लभः ।
तत्र देवर्षिगन्धर्व्वैः सिद्धैश्च भगवानजः ॥
उपास्यते स विश्वात्मा साक्षी सर्व्वस्य विश्वसृक ।
तेषु पुण्या जनपदा नाधयो व्याधयोऽपि च ॥
न तत्र पापकर्त्तारः पुरुषा वा कदाचन ।
तेषां नद्यः सप्त चैव वर्षाणान्तु समुद्रगाः ॥
तासु ब्रह्मर्षयो नित्यं पितामहमुपासते ।
अनुतप्ता शिखी चैव विपाशा त्रिदिवा कृता ॥
अनृता सुकृता चैव नामतः परिकीर्त्तिताः ।
क्षुद्रनद्यस्त्वसंख्याताः सरांसि सुबहून्यपि ॥
न वै तेषु युगावस्थाः पुरुषा वै चिरायुषः ।
आर्य्यकाः कुरवाश्चैव विदशा भाविनस्तथा ॥
ब्रह्मक्षत्त्रियविट्शूद्रास्तस्मिन् द्बीपे प्रकीर्त्तिताः ।
इज्यते भगवान् सोमो वर्णैस्तत्र निवासिभिः ॥
तेषाञ्च सोमसायुज्यं सारूप्यं मुनिपुङ्गवाः ।
सर्व्वे धर्म्मपरा नित्यं नित्यं मुदितमानसाः ॥
पञ्चवर्षसहस्राणि जीवन्ति च निरामयाः ॥”
इति कौर्म्मे भुवनकोषे ४६ अध्यायः ॥ * ॥
अपि च “ऋषिरुवाच । अतःपरं प्लक्षादीनां
प्रमाणलक्षणसंस्थानतो वर्षविभाग उपवर्ण्यते ।
जम्बुद्वीपो यावत्प्रमाणविस्तारस्तावता क्षारो-
दधिना परिवेष्टितो यथा मेरुर्जम्ब्वाख्येन । लवणो-
दधिरपि ततो द्विगुणविशालेन प्लक्षाख्येन परि-
क्षिप्तो यथा परिखा बाह्योपवनेन । प्लक्षो
जम्बुप्रमाणो द्वीपाख्यातिकरो हिरण्मय उत्थितो
यत्राग्निरुपास्ते सप्तजिह्वः । तस्याधिपतिः प्रिय-
व्रतात्मज इध्मजिह्वस्तं द्बीपं सप्तवर्षाणि विभज्य
सप्तवर्षनामभ्य आत्मजेभ्य आकलय्य स्वयमात्म-
योगेनोपरराम । शिवं वयसं सुभद्रं शान्तं क्षेम-
पृष्ठ ३/३७६
ममृतमभयमिति वर्षाणि । तेषु गिरयो नद्यश्च
सप्तैवाभिज्ञाताः । मणिकूटो वज्रकूट इन्द्रसेनो
ज्योतिष्मान् सुवर्णो हिरण्यष्ठीवो मेघमाल इति
सेतुशैलाः । अरुणा नृमणा आङ्गिरसी सावित्री
सुप्रभाता ऋतम्भरा सत्यम्भरेति महानद्यः ।
यासां जलोपस्पर्शनविधतरजस्तमसो हंसपतङ्गो-
र्द्धायनसत्याङ्गसंज्ञाश्चत्वारो वर्णाः सहस्रायुषो
विबुधोपमसन्दर्शनप्रजननाः स्वर्गद्वारं त्रय्या
विद्यया भगवन्तं त्रयीमयं सूर्य्यमात्मानं यजन्ते ।
प्रत्नस्य विष्णो रूपं यत् सत्यर्त्तस्य ब्रह्मणः । अमृ-
तस्य च मृत्योश्च सूर्य्यमात्मानमीमहीति ॥ प्लक्षा-
दिषु पञ्चसु पुरुषाणामायुरिन्द्रियमोजः सहो
बलं बुद्धिर्विक्रम इति च सर्व्वेषामौत्पत्तिकी
सिद्धिरविशेषेण वर्त्तते । प्लक्षश्च समानेनेक्षु
रसोदेनावृतः ।” इति श्रीभागवते ५ स्कन्धे
२० अध्यायः ॥

प्लव, ङ गत्याम् । (भ्वा०-आत्म०-सक०-सेट् ।)

अन्तःस्थतृतीययुक्तः । ङ, प्लवते । प्लु ङ इत्यने-
नैवेष्टसिद्धे अस्य पाठः प्लविष्यते प्लव्यते इत्यादि
सिद्ध्यर्थः । इति दुर्गादासः ॥

प्लवं, क्ली, (प्लवते इति । प्लु + अच् ।) कैवर्त्ती-

मुस्तकम् । (अस्याः पर्य्यायो यथा, --
“कुटन्नटं दासपुरं वालेयं परिपेलवम् ।
प्लवगोपुरगोनर्द्दकैवर्त्तीमुस्तकानि च ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
गन्धतृणम् । इति मेदिनी । वे, १८ ॥ प्लुतगे, त्रि ॥

प्लवः, पुं, (प्लु + “ऋदोरप् ।” ३ । ३ । ५७ । इत्यप् ।)

प्लवनम् । (यथा, हरिवंशे । १२२ । १०१ ।
“सागरानूपविपुलां प्रागुदक्प्लवशीतलाम् ।
सर्व्वतोदधिमध्यस्थामभेद्यां त्रिदशैरपि ॥”
प्लूयतेऽनेनेति करणे अप् ।) भेलः । (यथा,
मुण्डकोपनिषदि । १ । २ । ७ ।
“प्लवा ह्येते अदृढा यज्ञरूपा
अष्टादशोक्तमवरं येषु कर्म्म ।
एतच्छ्रेयो येऽभिनन्दन्ति मूढा
जरामृत्युं ते पुनरेवापि यन्ति ॥”
प्लवते सन्तरतीति । प्लु + अच् ।) भेकः ।
अविः । श्वपचः । कपिः । जलकाकः । (यथा,
सुश्रुते । १ । ४६ ।
“प्लवानामिक्षुरसासवः ॥”)
कुलकः । प्रवणः । पर्कटीद्रुमः । कारण्डवविहगः ।
शब्दः । प्रतिगतिः । इति मेदिनी । वे, १६ ॥
प्रेरणम् । शत्रुः । इति शब्दरत्नावली ॥ जलान्त-
रम् । इति हेमचन्द्रः । ३ । ५४३ ॥ पलवः । इति
त्रिकाण्डशेषः ॥ पोलो इति भाषा ॥ जलकुक्कुटः ।
इति मिताक्षरा ॥ (यथा, मनौ । ५ । १२ ।
“कलविङ्कं प्लवं हंसं चक्राङ्गं ग्रामकुक्कुटम् ।
सारसं रज्जुवालञ्च दात्यूहं शुकसारिके ॥”
वकविशेषः । यथा, रामायणे । २ । १०३ । ४३ ।
“रथाङ्गहंसा नत्यूहाः प्लवाः कारण्डवाः परे ।
तथा पुंस्कीकिलाः क्रौञ्चा विसंज्ञा भेजिरे
दिशः ॥”
“प्लवा वकविशेषाः ।” इति तट्टीकायां रामा-
नुजः ॥) जलचरपक्षिमात्रम् । यथा, --
“हंससारसकाचाक्षवकक्रौञ्चसरारिकाः ।
नन्दीमुखी सकादम्बा वलाकाद्याः प्लवाः स्मृताः ॥
प्लवन्ते सलिले यस्मादेते तस्मात् प्लवाः
स्मृताः ॥”
एतेषां मांसगुणाः ।
“प्लवाः पित्तहराः स्निग्धा मधुरा गुरवो
हिमाः ।
वातश्लेष्मप्रदाश्चापि बलशुक्रकराः सराः ॥”
इति भावप्रकाशः ॥

प्लवकः, पुं, (प्लवते इवेति । प्लु + अच् । ततः स्वार्थे

संज्ञायां वा कन् ।) खड्गधारादिनर्त्तकः ।
तत्पर्य्यायः । केलकः २ । इति त्रिकाण्डशेषः ॥
केकलः ३ नर्त्तुः ४ केलिकोषः ५ कलायनः ६ ।
इति शब्दरत्नावली ॥ चण्डालः । इति हला-
युधः ॥ (सन्तरणोपजीवी । यथा, महाभारते ।
१३ । २३ । १५ ।
“गायना नर्त्तकाश्चैव प्लवका वादकास्तथा ।
कथका योधकाश्चैव राजन्नार्हन्ति केतनम् ॥”)
भेकः । प्लक्षः । इति राजनिर्घण्टः ॥

प्लवगः, पुं, (प्लवेन प्लुतगत्या गच्छतीति । गम् +

“अन्येष्वपि दृश्यते ।” ३ । २ । १०१ । इति
डः ।) वानरः । (यथा, रघुवंशे । १२ । ७० ।
“स सेतुं बन्धयामास प्लवगैर्लवणाम्भसि ।
रसातलादिवोन्मग्नं शेषं स्वप्नाय शार्ङ्गिनः ॥”)
भेकः । सूर्य्यसारथिः । इति मेदिनी । गे, ४२ ॥
प्लवपक्षी । इति शब्दरत्नावली ॥ शिरीषवृक्षः ।
इति राजनिर्घण्टः ॥

प्लवगतिः, पुं, (प्लवेन गतिर्यस्य ।) भेकः । इति

शब्दचन्द्रिका ॥ (प्लवस्य भेकादेर्गतौ प्लुतगतौ
च, स्त्री ॥)

प्लवङ्गः, पुं, (प्लवेन प्लुतगत्या गच्छतीति । गम +

“गमश्च ।” ३ । २ । ४७ । इति खच् । “खच्च
डिद्वा वाच्यः ।” इति डित् । डित्वात् टेर्लोपः ।
मुमागमः ।) वानरः । इत्यमरः । २ । ५ । ३ ॥
(यथा, रामायणे । २ । २५ । १८ ।
“प्लवङ्गा वृश्चिका दंशा मशकाश्चैव कानने ।
सरीसृपाश्च कीटाश्च माभूवन् गहने तव ॥”
“प्लवङ्गा वानराः ।” इति तट्टीकायां रामा-
नुजः ॥) मृगः । इति शब्दचन्द्रिका ॥ प्लक्षवृक्षः ।
इति राजनिर्घण्टः ॥

प्लवङ्गमः, पुं, (प्लवेन गच्छतीति । गम् + “गमश्च ।”

३ । २ । ४७ । इति खच् । मुमागमः ।) भेकः ।
वानरः । इत्यमरः । ३ । ३ । १३७ ॥ (यथा,
रामायणे । ४ । ६२ । ११ ।
“एष्यन्ति प्रेषितास्तत्र रामदूताः प्लवङ्गमाः ।
आख्येया राममहिषी त्वया तेभ्यो विह-
ङ्गम ! ॥”)
प्लुतगतियुक्ते, त्रि ॥

प्लवनः, त्रि, (प्लवते इति । प्लु + ल्यु ।) प्रवलः ।

क्रमनिम्नभूम्यादिः । यथा, --
“प्रागुदक्प्लवनां भूमिं कारयेत् यत्नतो नरः ॥”
इति तिथ्यादितत्त्वे मत्स्यपुराणम् ॥
(क्ली, प्लु + ल्युट् । प्लवः । यथा, --
“शयनञ्चासनं वापि नेच्छेद्बापि द्रवोत्तरम् ।
नाग्न्यातपौ न प्लवनं न यानं नापि वाहनम् ॥”
इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥)

प्लाक्षं, क्ली, (प्लक्षस्य फलम् । “प्लक्षादिभ्योऽण् ।”

४ । ३ । १६४ । इत्यण् । विधानसामर्थ्यात् तस्य
फले न लुक् ।) प्लक्षवृक्षस्य फलम् । इत्यमरः ।
२ । ४ । १८ ॥ प्लक्षस्य विकारः । प्लक्षस्य समूहः ।
प्लक्षस्य भावः । प्लक्षस्येदम् । प्लक्षस्य हितम् ।
इत्यादि व्याकरणम् ॥ (प्लक्षसम्बन्धिनि, त्रि ।
यथा, --
“नैयग्रोध औदुम्बर आश्वत्थ प्लाक्ष इतीध्मो
भवन्त्येते वै गान्धर्व्वाप्सरसां गृहाः स्म एव ॥”
इति तैत्तिरीयसंहितायाम् । ३ । ४ । ८ । ४ ॥)

प्लावनं, क्ली, (प्लु + णिच् + ल्युट् ।) द्रवद्रव्यस्योर्द्ध्व-

प्रापणम् । उथ्लन इति भाषा । यथा, --
“तापनं घृततैलानां प्लावनं गोरसस्य च ।
तन्मात्रमुद्धृतं शुद्धेत् कठिनन्तु पयो दधि ॥”
इति शुद्धितत्त्वम् ॥ * ॥
मज्जनम् । बहुतरजलसंयोगः । यथा, --
“एतत् श्रुत्वा वचो राजा प्रातिष्ठत भगीरथः ।
यत्र तानि शरीराणि सागराणां महात्मनाम् ॥
प्लावनार्थं नरश्रेष्ठ ! पुण्येन सलिलेन ह ॥”
इति महाभारते । ३ । ११० अध्यायः ॥

प्लावितं, त्रि, (प्लु + णिच् + क्तः ।) जलादिमग्न-

स्थानादि । यथा, --
“सुप्रसन्नां सुवदनां करुणार्द्रनिजान्तराम् ।
सुधाप्लावितभूपृष्ठामार्द्रगन्धानुलेपनाम् ॥”
इति गङ्गावाक्यावली ॥
(यथा च देवीभागवते । २ । ८ । १० ।
“पुरी सा वासुदेवस्य प्लावितोदधिना ततः ॥”)

प्लिह, ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) अन्तःस्थतृतीययुक्तः । ङ,
प्लेहते । इति दुर्गादासः ॥

प्लिहा, [न्] पुं, (प्लेहते वृद्धिं गच्छतीति । प्लिह

+ कनिन् ।) प्लीहरोगः । यथा, यकृत्प्लिहा-
न्त्राणि मुखादिव क्षिपन्निति वैद्यकम् । इत्यमर-
टीकायां भरतः ॥ (यथा, याज्ञवल्क्ये । ३ । ९४ ।
“वपावसावहननं नाभिः क्लोम यकृत् प्लिहा ॥”)

प्लीहघ्नः, पुं, (प्लीहानं हन्तीति । हन + टक् ।)

वृक्षविशेषः । रोहडा इति ख्यातः । तत्पर्य्यायः ।
रोही २ रोहितकः ३ प्लीहशत्रुः ४ दाडिम-
पुष्पकः ५ मांसदलनः ६ यकृद्वैरी ७ चलच्छदः
८ । इति शब्दचन्द्रिका ॥ रौहितेयः ९ रोहितः
१० रोहीतकः ११ रौही १२ । इति शब्दरत्ना-
वली ॥ (अस्य गुणाः रोहितकशब्दे द्रष्टव्याः ॥)

प्लीहशत्रुः, पुं, (प्लीह्रः शत्रुर्नाशकत्वात् ।) प्लीहघ्न-

वृक्षः । इत्यमरः । २ । ४ । ४९ ॥ (यथा,
वैद्यकरत्नमालायाम् ।
“रोही रोहितकः प्लीहशत्रुर्दाडिमपुष्पकः ॥”)
पृष्ठ ३/३७७

प्लीहा, स्त्री, (प्लिह + कः । पृषोदरादित्वात् दीर्घः ।

स्त्रियां टाप् ।) प्लिहरोगः । यथा, यकृत्प्लीहे
च सम्बन्धे । इति बालकास्यः । इत्यमरटीकायां
भरतः ॥

प्लीहा, [न्] पुं, (प्लिह + “श्वनुक्षन्पूषन्प्लीह-

न्निति ।” उणा० १ । १५८ । इति कनिन्
प्रत्ययेन साधुः ।) कुक्षिवामपार्श्वस्थमांसखण्डम् ।
पिला इति ख्यातम् । तत्पर्य्यायः । गुल्मः २
प्लिहा ३ । इत्यमरभरतौ ॥ अस्य निदानम् ।
“विदाह्यभिष्यन्दिरतस्य जन्तोः
प्रदुष्टमत्यर्थमसृक् कफश्च ।
प्लीहाभिवृद्धिं कुरुतः प्रवृद्धौ
प्लीहोत्थमेतज्जठरं वदन्ति ॥
तद्बामपार्श्बे परिवृद्धिमेति
विशेषतः सीदति चातुरोऽत्र ।
मन्दज्वराग्निः कफपित्तलिङ्गै-
रुपद्रुतः क्षीणबलोऽतिपाण्डुः ॥”
इति माधवकरः ॥ * ॥
रक्तजस्य तस्य लक्षणम् ।
“क्लमो भ्रमो विदाहश्च वैवर्ण्यं गात्रगौरवम् ।
मोहो रक्तोदरत्वञ्च ज्ञेयं रक्तजलक्षणम् ॥” * ॥
पैत्तिकस्य तस्य लक्षणम् ।
“सज्वरः सपिपासश्च सदाहो मोहसंयुतः ।
पीतगात्रो विशेषेण प्लीहा पैत्तिक उच्यते ॥”
श्लैष्मिकस्य तस्य लक्षणम् ।
“प्लीहा मन्दव्यथः स्थूलः कठिनो गौरवान्वितः ।
अरोचकयुतः शीतः प्लीहा कफज उच्यते ॥”
वातिकस्य तस्य लक्षणम् ।
“नित्यमानद्धकोष्ठः स्यान्नित्योदावर्त्तपीडितः ।
वेदनाभिः परीतश्च प्लीहा वातिक उच्यते ॥
दोषत्रितयरूपाणि प्लीह्न्यसाध्ये भवन्ति हि ॥”
अथ तस्य चिकित्सा ।
“पातव्यो युक्तितः क्षारः क्षीरेणीदधिशुक्तिजः ।
तथा दुग्धेन पातव्याः पिप्पल्यः प्लीहशान्तये ॥ १ ॥
अर्कपत्रं सलवणं पुटदग्धं सुचूर्णितम् ।
निहन्ति मस्तुना पीतं प्लीहानमपि दारुणम् ॥ २ ॥
हिङ्गु त्रिकटुकं कुष्ठं यवक्षारञ्च सैन्धवम् ।
मातुलुङ्गरसोपेतं प्लीहशूलहरं रजः ॥ ३ ॥
पालाशक्षारतोयेन पिप्पली परिभाविता ।
प्लीहगुल्मार्त्तिशमनी वह्रिमान्द्यहरी मता ॥ ४ ॥
रसेन जम्बीरफलस्य शङ्ख-
बाभीरजः पीतमवश्यमेव ।
शाणप्रम्मणं शमयेदशेषं
प्लीहामयं कूर्म्मसमानमाशु ॥ ५ ॥
शरपुङ्खमूलकल्कस्तक्रेणालोडितः पीतः ।
प्लीहानं यदि न हरते शैलोऽपि तदा जले
प्लवते ॥ ६ ॥
सुपक्वसहकारस्य रसः क्षीद्रसमन्वितः ।
पीतः प्रशमयत्येव प्लीहानं नेह संशयः ॥ ७ ॥
सुस्विन्नं शाल्मलीपुष्पं निशापर्य्युषितं नरः ॥
राजिकाचूर्णसंयुक्तं खादेत् प्लीहोपशान्तये ॥” ८ ॥
इति भावप्रकाशः ॥ * ॥
“पिप्पलीमधुपानाच्च यथा मधुरभोजनात् ।
प्लीहा विनश्यते रूद्र इति ॥ ९ ॥
केतकीपत्रजं क्षारं घृतेन सह भक्षयेत् ।
तक्रेण शरपुङ्खाभ्यां पीत्वा प्लीहां विना-
शयेत् ॥” १० ॥
इति गारुडे १८७ । १८८ अध्यायौ ॥
(“शोणितकफप्रसादजं हृदयं तदाश्रया हि
ध्वमन्यः प्राणवहाः । तस्याधो वामतः प्लीहा
फुप्फुसश्च ॥” इति सुश्रुते शारीरस्थाने चतुर्थे-
ऽध्याये ॥ अस्य सहेतुकलक्षणादीनि यथा, --
“अशितस्यातिसंक्षोभाद् यानयानाभिचेष्टितैः ।
अतिव्यवायभाराध्ववमनव्याधिकर्षणैः ॥
वामपार्श्वाश्रितः प्लीहा च्युतः स्थानात् प्रवर्द्धते ।
शोणितं वा रसादिभ्यो विवृद्धन्तं विवर्द्धयेत् ॥
इति तस्य प्लीहा कठिनोऽष्ठीलेवादौ वर्द्धमानः
कच्छपसंस्थान उपलभ्यते स चोपेक्षितः क्रमेण
कुक्षिं जठरमग्न्यधिष्ठानञ्च परिक्षिपन्नुदरमभि-
निर्व्वर्त्तयति ॥
तस्य रूपाणि । दौर्ब्बल्यारोचकाविपाकवर्च्चो-
मूत्रग्रहतमःपिपासाङ्गमर्द्दच्छर्द्दिमूर्च्छाङ्गसाद-
कासश्वासमृदुज्वरानाहाग्निनाशकार्श्यास्यवैर-
स्यपर्व्वभेदकोष्ठवातशूलान्यपि चोदरमरुणवर्णं
विवर्णं वा नीलहरितहारिद्रराजिमद्भवति ।”
चिकित्सास्य यथा, --
“पिप्पलीं तिल्वकं हिङ्गु नागरं हस्तिपिप्प-
लीम् ।
भल्लातकं शिग्रुफलं त्रिफलां कटुरोहिणीम् ॥
देवदारुहरिद्रे द्वे सरलातिविषे वचाम् ।
कुष्ठं मुस्तं तथा पञ्च लवणानि प्रकल्प्य च ।
दधिसर्पिर्वसातैलमज्जयुक्तानि दाहयेत् ॥
अन्तर्धूममतः क्षारात् विडालपदकं पिबेत् ।
मदिरा दधिमण्डोष्णजलारिष्टसुरासवैः ॥
हृद्रोगं श्वयथुं गुल्मं प्लीहार्शो जठराणि च ।
विसूचिकामुदावर्त्तं वाताष्ठीलाञ्च नाशयेत् ॥”
इति चरके चिकित्सास्थानेऽष्टादशेऽध्याये ॥)

प्लीहारिः, पुं, (प्लीहाया अरिः शत्रुस्तन्नाशक-

त्वात् ।) अश्वत्थवृक्षः । इति शब्दचन्दिका ॥
(प्लीहनाशकवटिकौषधविशेषः । यथा, --
“द्विकर्षं लौहभस्मापि कर्षं ताम्रं प्रदापयेत् ।
शुद्धसूतं तथा गन्धं कर्षमानं भिषग्वरः ॥
मृगाजिनं पलं भस्म लिम्पाकाङ्घ्रित्वचः पलम् ।
एवं भागक्रमेणैव कुर्य्यात् प्लीहारिसंज्ञकम् ॥
नवगुञ्जामितं खादेदथ नित्यं हि पूतवान् ।
प्लीहानं यकृतं गुल्मं हन्त्यवश्यं न संशयः ॥”
इति प्लीहारिरसः ॥ * ॥
इति वैद्यकरसेन्द्रसंग्रहे प्लीहाधिकारे ॥)

प्लीहाशत्रुः, पुं, (प्लीहायाः शत्रुः ।) प्लीहशत्रुः ।

प्लीहघ्नवृक्षः । इति केचित् ॥

प्लुक्षिः, पुं, (प्लुष्यति दहतीति । प्लुष दाहे + “प्लुषि-

कुषिशुषिभ्यः क्सि ।” उणा० ३ । १५५ । इति
क्सिः ।) अग्निः । इत्युणादिकोषः । स्नेहः ।
गृहदाहः । इति संक्षिप्तसारोणादिवृत्तिः ॥

प्लु, ङ सपणे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-

अक०-अनिट् ।) अन्तःस्थतृतीययुक्तः । ङ,
प्लवते । इति दुर्गादासः ॥

प्लुतं, क्ली, (प्लु + क्तः ।) अश्वगतिविशेषः । स च

त्वरया झम्पेन गतिः । इत्यमरभरतौ ॥ (यथा,
अश्ववैद्यके । ३ । १३२ ।
“अथ यः पुच्छतोऽश्वस्य शनैरविशदो ध्वनिः ।
अन्तरुत्पद्यते कश्चित्तदश्वप्लुत उच्यते ॥”)
तिर्य्यग्गतिः । इति कलिङ्गः ॥ (यथा, कथा-
सरित्सागरे । २७ । १५६ ।
“तिर्य्यञ्चस्तिर्य्यगेवास्य पेतुर्वक्रप्लुता मृगाः ॥”)

प्लुतः, पुं, (प्लुतं प्लुतवद्गतिरस्यास्तीति । प्लुत +

अच् ।) त्रिमात्रवर्णः । इति मेदिनी । ते, ३५ ॥
यथा, --
“एकमात्रो भवेद्ध्रस्वो द्विमात्रो दीर्घ उच्यते ।
त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनञ्चार्द्धमात्रकम् ॥”
इति दुर्गादासादिधृतप्राचीनकारिका ॥
(तथाच ।
“दूराह्वाने च गाने च रोदने च प्लुतो मतः ॥”
इति च दुर्गादासधृतवचनम् ॥
प्लु + क्तः ।) झम्पगतियुक्ते, त्रि ॥ (यथा,
हरिवंशे । ९८ । ८४ ।
“रामादनन्तरं कृष्णः प्लुतो वै वीर्य्यवांस्ततः ।
ताभ्यामेव प्लुताभ्याञ्च चरणैस्ताडितो गिरिः ॥”
अन्तर्णिजर्थत्वात् प्लावितः । यथा, बृहत्संहिता-
याम् । ५ । ४४ ।
“सव्यगते तमसि जगज्जलप्लुतं भवति मुदित-
मभयञ्च ॥”
सिक्तः । यथा, याज्ञवल्क्ये । १ । २३५ ।
“अग्नौ करिष्यन्नादाय पृच्छत्यन्नं घृतप्लुतम् ॥”
व्याप्तः । यथा, भागवते । ३ । २ । १४ ।
“यस्यानुरागप्लु तहासरास-
लीलावलोकप्रतिलब्धमानाः ।
व्रजस्त्रियो दृग्भिरनुप्रवृत्त-
धियोऽवतस्थुः किल कृत्यशेषाः ॥”)

प्लुष, उ दहि । भस्मीकरणे । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-सक०-सेट् । क्त्वावेट् ।) उ, प्लोषित्वा
प्लुष्ट्वा । इति दुर्गादासः ॥

प्लुष, ग सेके । पूर्त्तौ । स्नेहे । इति कविकल्प-

द्रुमः ॥ (क्र्या०-पर०-सक०-स्नेहे अक०-सेट् ।)
ग, प्लुष्णाति । इति दुर्गादासः ॥

प्लुष, य ऌ दहि । इति कविकल्पद्रुमः ॥ (दिवा०-

पर०-सक०-सेट् ।) अन्तःस्थतृतीययुक्तः । य,
प्लुष्यति । ऌ, अप्लुषत । पुप्लोष । इति दुर्गा-
दासः ॥

प्लुषः, पुं, दहनम् । इति प्लषधातोर्भावे अल्-

प्रत्ययः ॥

प्लुष्टः, त्रि, (प्लुष् + क्तः । “यस्य विभाषा ।” ७ ।

२ । १५ । इति इट् न ।) दग्धः । इत्यमरः ।
३ । १ । ९९ ॥ (यथा, ऋतुसंहारे । १ । २२ ।
“पटुतरवनदाहात् प्लुष्टशष्पप्ररोहाः
परुषपवनवेगात् क्षिप्तसंशुष्कपर्णाः ॥”
पृष्ठ ३/३७८
अस्य लक्षणं यथा, --
“तत्र यद्बिवर्णं प्लुष्यतेऽतिमात्रं तत् प्लुष्टम् ॥
चिकित्सास्य यथा, --
“दग्धस्योपशमार्थाय चिकित्सां संप्रचक्षते ।
प्लुष्टस्याग्निप्रतपनं कार्य्यमुष्णन्तथौषधम् ॥
शरीरे स्विन्नभूयिष्ठे स्विन्नं भवति शोणितम् ॥
प्रकृत्या ह्युदकं शीतं स्कन्दयत्यतिशोणितम् ॥
तस्मात् सुखयति ह्यष्णं नतु शीतं कथञ्चन ॥”
इति सुश्रुते सूत्रस्थाने द्बादशेऽध्याये ॥)

प्लुस, इर् य दाहे । विभागे । इति कविकल्पद्रुमः ॥

(दिवा०-पर०-सक०-सेट् ।) अन्तःस्थतृतीय-
युक्तः । इर्, अप्लुसत् आप्लोसीत् । य, प्लुस्यति ।
इति दुर्गादासः ॥

प्लेव, ऋ ङ सेवने । इति कविकल्पद्रुमः । (भ्वा०-

आत्म०-सक०-सेट् ।) अन्तःस्थतृतीययुक्तः ।
ऋ, अपिप्लेवत् । ङ, प्लेवते । इति दुर्गादासः ॥

प्लोषः, पुं, (प्लुष दाहे + भावे घज् ।) दाहः ।

इत्यमरः । ३ । २ । ९ ॥ (यथा, श्रीकण्ठचरिते ।
४ । १७ ।
“दरीषु किन्नरीलोकं धत्ते यः प्लोषविप्लवे ।
न्यासीकृतमनङ्गेन भाण्डागारमिव स्वकम् ॥”
पित्तविकारविशेषः । तद्यथा । “पित्तविकारा-
श्चत्वारिंशदत ऊर्द्ध्वं व्याख्यास्यन्ते । तद्यथा
ओषश्च प्लोषश्च दाहश्च दवथुश्च धूमकश्चाम्लकश्च
इत्यादिषु ॥” इति चरके सूत्रस्थाने विंशेऽध्याये ॥)

प्सा, ल भक्षणे । इति कविकल्पद्रुमः ॥ (अदा०-

पर०-सक०-अनिट् ।) ल, प्साति । इति
दुर्गादासः ॥

प्सा, स्त्री, (प्सा + भावे क्विप् ।) भक्षणम् । इति

त्रिकाण्डशेषः ॥

प्सातं, त्रि, (प्सा + क्तः ।) भक्षितम् । इत्यमरः ।

३ । १ । ११० ॥

प्सानं, क्ली, (प्सा + भावे ल्युट् ।) भोजनम् । इति

हेमचन्द्रः । ३ । ८८ ॥