शब्दकल्पद्रुमः/प्राथमकल्पिकः
प्राथमकल्पिकः, पुं, (प्रथमकल्प आद्यारम्भः
प्राथमिकः, त्रि, (प्रथमे भवः । प्रथम + ठञ् ।)
प्राथम्यं, त्रि, (प्रथम + ष्यञ् ।) प्रथमस्य भावः ।
प्रादुः, [स्] व्य, (प्रात्तीति । प्र + अद् + “बाहु-
प्रादुर्भावः, पुं, (प्रादुस् + भू + भावे घञ् ।)
प्रादेशः, पुं, (प्रदिश्यते इति । प्र + दिश् + हल-
प्रादेशनं, क्ली, (प्र + आ + दिश् + ल्युट् ।) दानम् ।
प्रादोषः, त्रि, (प्रदोषस्यायमिति । प्रदोष + अण् ।)
|
प्रादोषिकः, त्रि, (प्रदोषस्यायमिति । प्रदोष +
प्राधान्यं, क्ली, प्रधानस्य भावः । (प्रधान + भावे
प्राध्वं, व्य, (प्राध्वनतीति । प्र + आ + ध्वन +
प्राध्वः, त्रि, (प्रगतोऽध्वानमिति । “उपसर्गाद-
प्रान्तः, पुं, (प्रकृष्टोऽन्तः ।) अन्तभागः । शेष-
प्रान्ततः, [स्] व्य, (प्रान्त + तसिल् ।) प्रान्त-
प्रान्तरं, क्ली, (प्रकृष्टमन्तरमवकाशो व्यवधानं वा
प्रान्तशून्यं, क्ली, (प्रान्ते शून्यमस्य ।) दूरशून्य-
प्रापणं, क्ली, (प्र + आप् + ल्युट् ।) नयनम् ।
प्रापणिकः, पुं, (प्रापणाय्यते इति । प्र + आ + पण
|
प्रापणीयं, त्रि, प्राप्यते यत् । (प्र + आप् + अनी-
प्रापेयः, पुं, गन्धर्व्वगणविशेषः । यथा, अग्निपुराणे ।
प्राप्तः, त्रि, (प्र + आप् + क्त ।) प्रस्थापितः ।
प्राप्तपञ्चत्वं, त्रि, (प्राप्तं पञ्चत्वम् मरणं येन ।)
प्राप्तभावः, पुं, (प्राप्तो भावो येन ।) जातोक्षः ।
प्राप्तरूपः, त्रि, (प्राप्तं रूपं येन ।) पण्डितः ।
प्राप्तव्यं, त्रि, प्राप्यते यत् । प्रपूर्ब्बापधातोः कर्म्मणि
प्राप्तिः, स्त्री, (प्र + आप् + क्तिन् ।) उदयः ।
प्राप्यं, त्रि, (प्र + आप् + ण्यत् ।) प्राप्तव्यम् ।
प्राबोधिकः, पुं, (प्रबोधाय हितः । प्रबोध + ठक् ।)
प्राभवं, क्ली, (प्रभोर्भावः । प्रभु + अण् ।) श्रेष्ठ-
प्राभाकरः पुं, (प्रभाकरस्यायं तन्मतं वेत्तीति ।
|
प्राभृतं, क्ली, (प्राभ्रियते स्मेति । प्र + आ + भृ +
प्राभृतकं, क्ली, (प्राभृत + स्वार्थे कन् ।) पाभृतम् ।
प्रामाद्यः, पुं, (प्रमाद्यत्यनेनेति । प्र + मद् + ण्यत् ।)
प्रामाणिकः, त्रि, (प्रमाणादागतः । प्रमाण +
प्रामाण्यं, क्ली, (प्रमाणस्य भावः । प्रमाण +
प्रामाण्यवादः, पुं, (प्रामाण्यस्य वादः कथनम् ।)
प्रामीत्यं, क्ली, (प्रमयनमिति । प्र + मी वधे +
प्रायः, पुं, (प्रकृष्टमयनमिति । प्र + अय + घञ् ।
|
प्रायः, [स्] व्य, (प्र + अय गतौ + असुन् ।)
प्रायश्चित्तं, क्ली, (प्रायस्य पापस्य चित्तं विशोधनं
|
|
|
|
|
- अथ प्रायश्चित्तविवेकोक्तनवविधपापानां प्रायश्चित्तानि लिख्यन्ते ।
अथातिपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
---|---|---|---|---|
ब्राह्मणस्य मातृगमनं दुहितृगमनं स्नुषागमनञ्च । | अज्ञानतो द्बिगुणद्बादशवार्षिकव्रतम् । तत्तु महापातके द्रष्टव्यम् । ज्ञानत एतद्द्विगुणम् । | ३६० धेनवः । | १०८० कार्षापणाः । तल्लभ्यस्वर्णादि वा । | २०० गावः । अशक्तौ २०० कार्षापणाः । |
क्षत्त्रियवैश्यशूद्राणां मातृदुहितृस्नुषागमनम् । | हुताशनप्रवेशेन मरणम् । चतुर्व्विंशतिवार्षिकव्रतं वा । एतत्तु अकामतः कामतस्तद्द्वैगुण्यम् । मातृदुहितृस्नुषाणामपि एतद्व्रतादिकं करणीयम् । | ३६० धेनवः । | १०८० कार्षापणाः । तल्लभ्यस्वर्णादि वा । | २०० गावः । अशक्तौ २०० कार्षापणाः । |
अथ महापातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
अकामतो ब्राह्मणकर्त्तृकब्रह्मवधः । | द्बादशवार्षिकव्रतम् । यथा मनुः । “ब्रह्महा द्बादशाब्दानि कुटों कृत्वा वने वसेत् । भैक्ष्याण्यात्मविशुद्ध्यर्थं कृत्वा शवशिरोध्वजम् । भिक्षाशी विचरेद्ग्रामं वन्यैर्यदि न जीवति ॥” | १८० धेनवः । | ५४० कार्षापणाः । तल्लभ्यहिरण्यादिकं वा । | १०० गावः । तदशक्तौ १०० कार्षापणाः । |
कामतो ब्राह्मणकर्त्तृकब्रह्मवधः । | याज्ञवल्क्योक्तप्रकारेण मरणम् । तथा । लोमभ्यः स्नाहीति ऋचा लोमप्रभृति वै तनुम् । मज्जान्तां जुहुयाद्बापि मन्त्रैरेभिर्यथाक्रमम् । एतत्तु कलौ ब्राह्मणेतरपरम् । तदशक्तौ द्बिगुणद्बादशवार्षिकव्रतम् । | ३६० धेनवः । | १०८० कार्षापणाः । तल्लभ्यस्वर्णादि वा । | २०० गावः । अशक्तौ २०० कार्षापणाः । |
ज्ञानतो ब्राह्मणकर्त्तृकब्राह्मणीगर्भवधः । | ब्रह्मवधप्रायश्चित्तम् । अज्ञानत एतदर्द्धम् । अनुपनीतबालकवधेऽप्येवम् । | ३६० धेनवः । | १०८० कार्षापणाः । तल्लम्यस्वर्णादि वा । | २०० गावः । अशक्तौ २०० कार्षापणाः । |
अकामतः सवनस्थब्राह्मणवधः । | द्बिगुणद्वादशवार्षिकव्रतम् । | ३६० धेनवः । | १०८० कार्षापणाः । तल्लभ्यस्वर्णादि वा । | २०० गावः । अशक्तौ २०० कार्षापणाः । |
कामतः सवनस्थब्राह्मणवधः । | तद्द्वैगुण्यम् । ४८ अष्टचत्वारिंशद्वार्षिकव्रतम् । | ७२० धेनवः । | २१६० कार्षापणाः । तल्लभ्यस्वर्णादि वा । | ४०० गावः । अशक्तौ ४०० कार्षापणाः । |
ब्राह्मणकर्त्तृकमातृसोदरभ्रातृगुरुश्रोत्रियाहिताग्नीनां वधः । | ४८ अष्टचत्वारिंशद्बार्षिकव्रतम् । एतच्च कामतः । अकामत एतदर्द्धम् । | ७२० धेनवः । | २१६० कार्षापणाः । तल्लभ्यस्वर्णादि वा । | ४०० गावः । अशक्तौ ४०० कार्षापणाः । |
ज्ञानतो ब्राह्मणकर्त्तृकवेदपारगाततायिब्राह्मणवधः । | १२ वार्षिकव्रतम् । | १८० धेनवः । | ५४० कार्षापणाः । तल्लभ्यस्वर्णादि वा । | १०० गावः । अशक्तौ १०० कार्षापणाः । |
अज्ञानतस्तस्य वधः । | तदर्द्धम् । ६ वार्षिकव्रतम् । | ९० धेनवः । | २७० कार्षापणाः । | ५० गावः । तदशक्तौ ५० कार्षापणाः । |
ज्ञानतोऽज्ञानतो वा ब्राह्मणकर्त्तृकपतितब्राह्मणवधः । | तथा । | तथा । | तथा । | तथा । |
अकामत आग्रहारिकादिब्राह्मणवधः । | एकवार्षिकव्रतम् । | १५ धेनवः । | ४५ कार्षापणाः । | ९ गावः । तदशक्तौ ८ । ६ ॥। कार्षापणाः । |
कामतस्तस्य वधः । | तद्द्विगुणम् । | तद्द्विगुणम् । | तद्द्विगुणम् । | तद्द्विगुणम् । |
अकामतः क्षत्त्रियकर्त्तृकब्रह्मवधः । | ब्राह्मणकर्त्तृकवधप्रायश्चित्तद्बिगुणम् । तच्च २४ वार्षिकव्रतम् । | ३६० धेनवः । | १०८० कार्षापणाः । तल्लभ्यस्वर्णादि वा । | २०० गावः । अशक्तौ २०० कार्षापणा । |
अथ महापातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
कामतस्तद्वधः । | तद्द्विगुणम् । | तद्द्विगुणम् । | तद्द्विगुणम् । | तद्द्विगुणम् । |
अकामतो वैश्यकर्त्तृकब्रह्मवधः । ब्राह्मणकर्त्तृकवधप्रायश्चित्तत्रिगुणम् । तच्च ३६ वार्षिकव्रतम् । | ५४० धेनवः । | १६२० कार्षापणाः । | ३०० गावः । अशक्तौ ३०० कार्षापणाः । | |
कामतो वैश्यकर्त्तृकब्रह्मवधः । | ७२ वार्षिकव्रतम् । | १०८० धेनवः । | ३२४० कार्षापणाः । | ६०० गावः । अशक्तौ ६०० कार्षापणाः । |
अकामतः शूद्रकर्त्तृकब्रह्मवधः । | ब्राह्मणकर्त्तृकवधप्रायश्चित्तचतुर्गुणम् । तच्च ४८ वार्षिकव्रतम् । | ७२० धेनवः । | २१६० कार्षापणाः । | ४०० गावः । अशक्तौ ४०० कार्षापणाः । |
कामतस्तद्वधः । | तद्द्विगुणम् । | तद्द्विगुणम् । | तद्द्विगुणम् । | तद्द्विगुणम् । |
अकामतो ब्राह्मणकर्त्तृकब्राह्मणीवधः । | ब्रह्मवधप्रायश्चित्तार्द्धम् । तच्च ६ वार्षिकव्रतम् । | ९० धेनवः । | २७० कार्षापणाः । | ५० गावः । अशक्तौ ५० कार्षापणाः । |
कामतस्तद्वधः । | तद्द्विगुणम् । क्षत्त्रियस्य ब्राह्मणीवधे ब्राह्मणकंर्त्तृकवधप्रायश्चित्तद्बिगुणम् । वैश्यस्य त्रिगुणम् । शूद्रस्य चतुर्गुणम् । अनेकब्राह्मणवधे प्रायश्चित्तस्यैकत्वम् । यदेव साक्षाद्वधकर्त्तुः प्रायश्चित्तं तदेव स्वल्पप्रहर्त्तुरनग्राहकस्य अप्रवृत्तप्रवर्त्तकरूपप्रयोजकस्य च पादहीनम् । बध्यप्रतिरोधकस्य अनुग्राहकस्य प्रवृत्तप्रवर्त्तकरूपप्रयोजकस्य च अर्द्धम् । अनुमन्तुर्निमित्तिनश्च पादः । अशक्तौ स्त्रीबालवृद्धानां सर्व्वत्रार्द्धम् । | तद्द्विगुणम् । | तद्द्विगुणम् । | तद्द्विगुणम् । |
ज्ञानतो ब्राह्मणस्य पैष्टीसुरापानम् । द्विरभ्यस्तगौडीमाध्बीपानञ्च । | अग्निसमस्पर्शानां सुरागोमूत्रजलदुग्धघृतगोमयरसानामन्यतमस्यामरणात् पानम् । चतुर्विंशतिवार्षिकव्रतं वा । | ३६० धेनवः । | १०८० कार्षापणाः । तल्लभ्यस्वर्णादि वा । | २०० गावः । अशक्तौ २०० कार्षापणाः । |
अज्ञानतो ब्राह्मणस्य तासां पानम् । | एतदर्द्धम् । तत्तु द्वादशवार्षिकव्रतम् । | १८० धेनवः । | ५४० कार्षापणाः । तल्लभ्यस्वर्णादि वा । | १०० गावः । अशक्तौ १०० कार्षापणाः । |
अज्ञानतः क्षत्त्रियस्य पैष्टीसुरापानम् । | नववार्षिकव्रतम् । ज्ञानत एतद्द्विगुणम् । | १३५ धेनवः । | ४०५ कार्षापणाः । तल्लभ्यस्वर्णादि वा । | ७५ गावः । अशक्तौ ७५ कार्षापणाः । |
अज्ञानतो वैश्यस्य पैष्टीसुरापानम् । | षाड्वार्षिकव्रतम् । ज्ञानत एतद्द्विगुणम् । स्त्रीबालवृद्धानामर्द्धादिकम् । | ९० धेनवः । | २७० कार्षापणाः । तल्लभ्यस्वर्णादि वा । | ५० गावः । अशक्तौ ५० कार्षापणाः । |
अज्ञानतो ब्राह्मणकर्त्तृकब्राह्मणस्वामिकाशीतिरक्तिकापरिमितसुवर्णस्तेयम् । | अपहृतद्रव्यं तस्यानुरूपं मूल्यं वा स्वामिने दत्त्वा द्बादशवार्षिकव्रतं करणीयम् । | १८० धेनवः । | ५४० कार्षापणाः । तल्लभ्यस्वर्णादि वा । | १०० गावः । अशक्तौ १०० कार्षापणाः । |
ज्ञानतस्तत्कर्त्तृकतत्स्तेयम् । | एतद्द्विगुणं २४ वार्षिकव्रतम् । गुणवद्ब्राह्मणकर्त्तुके तु सर्व्वत्रार्द्धम् । | ३६० धेनवः । | १०८० कार्षापणाः । | २०० गावः । अशक्तौ २०० कार्षापणाः । |
ज्ञानतः क्षत्त्रियवैश्यशूद्रकर्त्तृकब्राह्मणस्वामिकाशीतिरक्तिकापरिमितसुवर्णस्तेयम् । | राजकर्त्तृकमुषलाघातेन मरणम् । चतुर्विंशतिवार्षिकव्रतं वा । | ३६० धेनवः । | १०८० कार्षापणाः । तल्लभ्यस्वर्णादि वा । | २०० गावः । अशक्तौ २०० कार्षापणाः । |
अथ महापातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
अज्ञानतस्तत्कर्त्तृकतत्स्वामिकतत्सुवर्णस्तेयम् । | द्वादशवार्षिकव्रतं स्त्रीबालवृद्धानामर्द्धम् । एकस्योभयधर्म्मवत्त्वे पादः । | १८० धेनवः । | ५४० कार्षापणाः । तल्लभ्यस्वर्णादि वा । | १०० गावः । अशक्तौ १०० कार्षापणाः । |
ज्ञानतो गुर्व्वङ्गनागमनम् । अर्थात् विमातृगमनम् । शूद्रस्य ब्राह्मणीगमनञ्च । | गुरुतल्पगः पापमभिभाष्य तप्ते लौहमये सुप्यात् । ज्वलन्तीं लौहप्रतिमां मृण्मयीं प्रतिमां वा आलिङ्ग्य म्रियेत । स्वयं वा शिश्नवृषणावुत्कृत्य अञ्जलौ निधाय आमरणात् नैरृतीन्दिशमातिष्ठेत् । चतुर्विंशतिवार्षिकव्रतं वा कुर्य्यात् । गुर्व्वङ्गनयापि एतत् करणीयम् । | ३६० धेनवः । | १०८० कार्षापणाः । तल्लभ्यस्वर्णादि वा । | २०० गावः । अशक्तौ २०० कार्षापणाः । |
अज्ञानतो गुर्व्वङ्गनागमः । | द्वादशवार्षिकव्रतम् । बालवृद्धयोरर्द्धम् । एतच्चातुर्वर्ण्यविषयम् । | १८० धेनवः । | ५४० कार्षापणाः । तल्लभ्यस्वर्णादि वा । | १०० गावः । अशक्तौ १०० कार्षापणाः । |
चतुर्णां महापातकिनां संसर्गः । | ज्ञानतः सकृत् प्रथमसंसर्गिणोऽष्टादशवार्षिकव्रतम् । | २७० धेनवः । | ८१० कार्षापणाः । तल्लभ्यस्वर्णादि वा । | १५० गावः । अशक्तौ १५० कार्षापणाः । |
तत्र गुरुसंसर्गो यथा । पतिताचार्य्यात् वेदाध्ययनम् । १ । पतितशिष्याय वेदाध्यापनम् । २ । पतितेन ऋत्विजा ज्योतिष्टोमादियजनम् । ३ । पतितस्य ज्योतिष्टोमादिनिष्पादनरूपयाजनम् । ४ । पतितेन पतितया वा परिणयनम् । ५ । स्तेयादिपतितान्यब्राह्मणीगमनम् । ६ । पतितान्नस्य पतितेन सहैकपात्रे भोजनम् । ७ । | अज्ञानतः सकृत्प्रथमसंसर्गिणो नववार्षिकव्रतम् । | १३५ धेनवः । | ४०५ कार्षापणाः । | ७५ गावः । अशक्तौ ७५ कार्षापणाः । |
ज्ञानतो द्वितीयसंसर्गिणः नववार्षिकव्रतम् । | १३५ धेनवः । | ४०५ कार्षापणाः । | ७५ गावः । अशक्तौ ७५ कार्षापणाः । | |
अज्ञानतो द्बितीयसंसर्गिणः सार्द्धचतुर्वार्षिकव्रतम् । | ६८ धेनवः । | २०२ ॥ ० कार्षापणाः । | ३८ गावः । अशक्तौ ३७ ॥ ० कार्षापणाः । | |
ज्ञानतस्तृतीयसंसर्गिणः षाड्वार्षिकव्रतम् । | ९० धेनवः । | २७० कार्षापणाः । | ५० गावः । अशक्तौ ५० कार्षापणाः । | |
अज्ञानतस्तृतीयसंगर्गिणस्त्रैवार्षिकव्रतम् । | ४५ धेनवः । | १३५ कार्षापणाः । | २५ गावः । अशक्तौ २५ कार्षापणाः । | |
ज्ञानाज्ञानतश्चतुर्थसंसर्गिणः प्रायश्चित्ताभावः । ब्रह्मघातिनां क्षत्त्रियवैश्यशूद्राणां ज्ञानाज्ञानतः संसर्गे तु क्रमेण एतस्य द्बिगुणं त्रिगुणंचतुर्गुणं ज्ञेयम् । | ||||
तत्र लघुसंसर्गो यथा । उपनयनं बिना पतिताय वेदाध्यापनम् । १ । पतितांत्तादृशाध्ययनम् । २ । पतितयजमानस्य अष्टकादियज्ञयाजनम् । ३ । पतितेन ऋत्विजाष्टकादियज्ञयजनम् । ४ । पतितस्वब्राह्मणीगमनम् । ५ । पतितशूद्रागमनम् । ६ । अपतितान्नस्य पतितेन सहैकपात्रे भोजनम् । ७ । पतितोच्छिष्टभोजनम् । ८ । | ज्ञानतः षण्माससंसर्गे प्रथमसंसर्गिणोऽष्टादशवार्षिकव्रतम् । | २७० धेनवः । | ८१० कार्षापणाः । | १५० गावः । अशक्तौ १५० कार्षापणाः । |
अज्ञानतः षण्माससंसर्गे प्रथमसंसर्गिणो नववार्षिकव्रतम् । | १३५ धेनवः । | ४०५ कार्षापणाः । | ७५ गावः । अशक्तौ ७५ कार्षापणाः । | |
ज्ञानतः षण्माससंसर्गे द्वितीयसंसर्गिणो नववार्षिकव्रतम् । | १३५ धेनवः । | ४०५ कार्षापणाः । | ७५ गावः । अशक्तौ ७५ कार्षापणाः । | |
अज्ञाततः षण्माससंसर्गे द्वितीयसंसर्गिणः सार्द्धचतुर्वार्षिकव्रतम् । | ६८ धेनवः । | २०२ ॥ ० कार्षापणाः । | ३८ गावः । अशक्तौ ३७ ॥ ० कार्षापणाः । | |
ज्ञानतः षण्माससंसर्गे तृतीयसंसर्गिणः षाड्वार्षिकव्रतम् । | ९० धेनवः । | २७० कार्षापणाः । | ५० गावः । अशक्तौ ५० कार्षापणाः । | |
अज्ञानतः षण्माससंसर्गे तृतीयसंसर्गिणस्त्रैवार्षिकव्रतम् । | ४५ धेनवः । | १३५ कार्षापणाः । | २५ गावः । अशक्तौ २५ कार्षापणाः । | |
चतुर्थसंसर्गिणो ज्ञानाज्ञानतः प्रायश्चित्ताभावः । | ||||
अथ महापातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
महापातकिनां लघुतरसंसर्गो यथा । एकशय्याशनयानादिः । ततो लघुतर आलापस्पर्शनिःश्वासादिः । | एभिश्च त्रिभिर्लघुतरसंसर्गैरेको लघुसंसर्गः । | |||
ज्ञानतस्त्रिभिर्लघुसंसर्गैर्वत्सरेण साम्यम् । तेनाष्टादशवार्षिकव्रतम् । | २७० धेनवः । | ८१० कार्षापणाः । तल्लभ्यस्वर्णादि वा । | १५० गावः । अशक्तौ १५० कार्षापणाः । | |
अज्ञानतो वत्सरद्वयेन । | तथा । | तथा । | तथा । | |
ज्ञानत एकैकशो वत्सरत्रंयेण । | तथा । | तथा । | तथा । | |
अज्ञानाद्वत्सरषट्केन । | तथा । | तथा । | तथा । | |
संलापादीनां त्रयाणां एकैकयानादिसमानत्वात् ज्ञानतो वत्सरत्रयेण पातः । | तथा । | तथा । | तथा । | |
संलापादीनां त्रयाणां एकैकयानादिसमानत्वादज्ञानाद्बर्षषट्केन पातः । तेनाष्टादशवार्षिकव्रतम् । | २७० धेनवः । | ८१० कार्षापणाः । तल्लम्यस्वर्णादि वा । | १५० गावः । अशक्तौ १५० कार्षापणाः । | |
ज्ञानादेकैकशो वत्सरनवकेन । | तथा । | तथा । | तथा । | |
अज्ञानादेकैकशोऽष्टादशवत्सरैः पातः ॥ * ॥ नवविधपापान्वितानां मध्यात् येन पापीयसा यः संसृष्टः स तस्य व्रतं पादहीनं कुर्य्यात् ॥ एतच्च प्रथमसंसर्गिणाम् । द्वितीयसंसर्गिणां द्बिपादहीनम् । तृतीयसंसर्गिणां त्रिपादहीनं सर्व्वत्र ज्ञेयम् ॥ * ॥ संसर्गाणामुक्तकालन्यूनाधिक्ये भागहारेण प्रायश्चित्तन्यूनाधिक्यं ज्ञेयम् ॥ * ॥ रघुनन्दनभट्टाचार्य्यमते कलौ लघुसंसर्गेषु प्रतिग्रहादिषु पातित्याभावात् तत्प्रायश्चित्ताभावः ॥ | तथा । | तथा । | तथा । | |
पतितोत्पन्नत्वमपि महापातकिसंसर्गविशेषः । | यस्य पतितस्य यत् प्रायश्चित्तं तस्य पातित्यदशायां जातस्य पुत्त्रस्य तत् तृतीयभागप्रायश्चित्तम् । तदानीं तज्जातायाः कन्यायाः पतितोत्पन्नपुत्त्रप्रायश्चित्ततृतीयभागप्रायश्चित्तम् । | |||
अथानुपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
समुत्कर्षे अनृतम् । तत्तु समुत्कर्षिनिमित्तं वाचा क्रियया वा अन्यथा प्रतिपादनं यथा शूद्रस्य ब्राह्मणोऽहमिति वचनं यज्ञोपवीतधारणञ्च । अथवा परस्य सम्यग्जातिविद्योत्कर्षे सति नायं ब्राह्मणो न च किञ्चिदयं जानीते इत्यनृतवचनम् । १ । राजगामिपैशुनम् । तत्तु राजनि निर्द्दोषस्य दोषख्यापनम् । २ । गुरोरलीकनिर्ब्बन्धः । स तु गुरोर्जन्मदातुर्मृषादोषाभियोगः । ३ । | द्वादशवार्षिकव्रतम् । एतच्च ज्ञानात्यन्ताभ्यासतः ॥ * ॥ एतन्मध्याद्यदुपपातके दृश्यते तदज्ञानादिना लघुविषयञ्चेत्यादिव्यवस्थेयम् ॥ * ॥ यच्च वशिष्ठवचनं ब्रह्मोज्झः कृच्छ्रं द्बादशरात्रं चरित्वा पुनरुपयुञ्जीत वेदमाचार्य्यात् । विष्णुः । समुत्कर्षानृते गुरोश्चालीकनिर्बन्धे तदाक्षारणे च मासं पयसा वर्त्तेत । आक्षारणं परदारगमनाभिशापः । वशिष्ठः । गुरोश्चालीकनिर्बन्धे सचेलस्नातो गुरुं प्रसादयेत् प्रसादात् पूतो भवति । एतानि प्रमादादिकृते बोध्यानि । | १८० धेनवः । | ५४० कार्षापणाः । | १०० गावः । अशक्तौ १०० कार्षापणाः । |
अथानुपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
एतानि त्रीणि ज्ञानतः अत्यन्ताभ्यासे अज्ञानकृतब्रह्महत्यासमानि । यागस्थयोः क्षत्त्रियवैश्ययोर्व्वधः । ४ । गर्भिणीवधः । ५ । रजस्वलावधः । ६ । अत्रिगोत्रावधः । ७ । ब्राह्मणव्यतिरिक्ताविज्ञातगर्भवधः । ८ । शरणागतवधः । ९ । एतानि च अज्ञानकृतब्रह्महत्यासमानानि । | ||||
ब्रह्मोज्झता । सा च असच्छास्त्राभियोगेन अधीतवेदविस्मरणम् । १ । वेदनिन्दा । अर्थतो ग्रन्थतश्च । २ । कौटसाक्ष्यम् । ३ । सुहृद्वधः । स च ब्राह्मणव्यतिरिक्तमित्रवधः । ४ । गर्हितान्नजग्धिः । सा च ज्ञानतोऽत्यन्ताभ्यासेन अन्त्यजान्नभोजनम् । ५ । गर्हिताद्यजग्धिः । ज्ञानतोऽत्यन्ताभ्यासेन छत्राकलशुनादिभोजनम् । ६ । एतानि षट् अज्ञानकृतसुरापानसमानि । | द्वादशवार्षिकव्रतम् । | १८० धेनवः । | ५४० कार्षापणाः । तल्लभ्यस्वर्णादि वा । | १०० गावः । अशक्तौ १०० कार्षापणाः । |
ब्राह्मणसम्बन्धिनिःक्षेपहरणम् । १ । नरा २ श्व ३ रजत ४ भूमि ५ वज्र ६ मणीना ७ ञ्चाभ्यासेन हरणम् । एतानि सप्त ब्राह्मणस्वामिकाशीतिरक्तिकापरिमितसुवर्णस्तेयसमानि । | ज्ञानतो द्बादशवार्षिकव्रतम् । अज्ञानतस्तदर्द्ध्वम् । | १८० धेनवः । | ५४० कार्षापणाः । तल्लभ्यस्वर्णादि वा । | १०० गावः । अशक्तौ १०० कार्षापणाः । |
सपिण्डस्त्रीगमनम् । १ । ब्राह्मणकुमारीगमनम् । २ । चाण्डालादिस्त्रीगमनम् । ३ । सवर्णमित्रस्त्रीगमनम् । ४ । पुत्त्रस्यासवर्णस्त्रीगमनम् । ५ । औरसेतरपुत्त्रभार्य्यागमनम् । ६ । पितृष्वसृगमनम् । ७ । मातृष्वसृगमनम् । ८ । गन्तारमपेक्ष्य हीनवर्णपितृपत्नीगमनम् । ९ । पितृव्यपत्नीगमनम् । १० । मातामहपत्नीगमनम् । ११ । मातुलपत्नीगमनम् । १२ । श्वश्रूगमनम् । १३ । स्वसृगमनम् । १४ । ज्येष्ठभ्रातृपत्नीगमनम् । १५ । राजपत्नीगमनम् । १६ । श्रोत्रिय- | ज्ञानतो महापातकोक्तप्रकारेण मरणं तद्वैकल्पिकं चतुर्विंशतिवार्षिकव्रतम् । | ३६० धेनवः । | १०८० कार्षापणाः । तल्लभ्यस्वर्णादि वा । | २०० गावः । अशक्तौ २०० कार्षापणाः । |
अज्ञानतो द्वादशवार्षिकव्रतम् । | १८० धेनवः । | ५४० कार्षापणाः । तल्लभ्यस्वर्णादि वा । | १०० गावः । अशक्तौ १०० कार्षापणाः । | |
पञ्चपुरुषाधिकगामिनीनामासां गमने चान्द्रायणम् । | ८ धेनवः । | २२ ॥ ० कार्षापणाः । सार्द्धसप्तधेनुसंकलनात् । | यथाशक्ति । | |
अभ्यासव्यभिचारिण्याः सकृद्गमने अर्थात् सप्तमपुरुषगामिन्या गमने पराकः । | ५ धेनवः । | १५ कार्षापणाः । | यथाशक्ति । | |
अष्टमादिपुरुषगामिन्या गमने तप्तकृच्छ्रम् । | ४ धेनवः । | ११ । ० कार्षापणाः । पादोनधेनुचतुष्टयस्य ग्राह्यत्वात् । | यथाशक्ति । | |
अथानुपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
पत्नीगमनम् । १७ । ऋत्विक्पत्नीगमनम् । १८ । उपाध्यायपत्नीगमनम् । १९ । शिष्यपत्नीगमनम् । २० । स्वसृसखीगमनम् । २१ । असवर्णाजातदुहितृगमनम् । २२ । आचार्य्यपत्नीगमनम् । २३ । शरणागतागमनम् । २४ । प्रव्रजितागमनम् । २५ । धात्रीगगनम् । २६ । साध्वीगमनम् । २७ । निःक्षप्तस्त्रीगमनम् । २८ । वर्णोत्तमागमनम् । २९ । एतानिगुरुतल्पगमनसमानि । * । इति चतुःप्रकाराण्यनुपातकानि मिलित्वा एकपञ्चाशत्संख्येयानि ॥ | अज्ञानादारोहणमात्रे सम्बन्धविप्रकर्षे वा पराकस्तप्तकृच्छ्रो वा । | |||
ज्ञानतो महापातकोक्तप्रकारेण मरणम् । तद्बैकल्पिकं चतुर्विंशतिवार्षिकव्रतम् । | ३६० धेनवः । | १०८० कार्षापणाः । तल्लभ्यस्वर्णादि वा । | २०० गावः । अशक्तौ २०० कार्षापणाः । | |
अज्ञानतो द्बादशवार्षिकव्रतम् । | १८० धेनवः । | ५४० कार्षापणाः । तल्लभ्यस्वर्णादि वा । | १०० गावः । अशक्तौ १०० कार्षापणाः । | |
पञ्चपुरुषाधिकगामिनीनामासां गमने चान्द्रायणम् । | ८ धेनवः । | २२ ॥ ० कार्षापणाः । सार्द्धसप्तधेनुसंकलनात् । | यथाशक्ति । | |
अभ्यासव्यभिचारिण्याः सकृद्गमने अर्थात् सप्तमपुरुषगामिन्या गमने पराकः । | ५ धेनवः । | १५ कार्षापणाः । | यथाशक्ति । | |
अष्टमादिपुरुषगामिन्या गमने तप्तकृच्छ्रम् । | ४ धेनवः । | ११ । ० कार्षापणाः । पादोनधेनु-चतुष्टयस्य ग्राह्यत्वात् । | यथाशक्ति । | |
अथोपपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतब्राह्मणस्वामिकगवीवधः । | त्रैमासिकव्रतम् । तद्यथा । कृतसशिखवपनो व्यापादिताया गोश्चर्म्मणा कृतपरिधानोत्तरावगुण्ठनो मासमेकं गोमूत्रेण यवागूकृतान् यवान् पिबन् गोष्ठे वसेत् । अपरमासद्बये उपोष्यापरदिने सायं स्वल्पं भुञ्जीत । जितेन्द्रियो गोमूत्रेण स्नानं चरेत् । दिवा गवानुगमनं ऊर्द्ध्वं तिष्ठन् गोरजःपानञ्च चरेत् । गोः शुश्रूषां नमस्कारञ्च कुर्य्यात् । रात्रौ वीरासनं वसेत् । तिष्ठन्तीषु गोष्वनुतिष्ठेत् । व्रजन्तीषु तास्वनुव्रजेत् । आसीनासु तास्वासीनः । वीतमत्सरः । आतुरामभिशस्तां पतितां पङ्कलग्नां भयनिमित्तैश्चौरव्याघ्रादिभिराक्रान्ताञ्च गां सर्व्वशक्तिभिर्विमोचयेत् । ग्रीष्मवर्षाशीतेषु मारुते भृशं वाति वा गोस्त्राणमकृत्वा आत्मत्राणं न कुर्य्यात् । आत्मनः अन्येषां वा गृहक्षेत्रखलेषु भक्षयन्तीं पिवन्तं वत्सञ्च निवारणाभिप्रायेण न कथयेत् । एतद्विधानेन यो गामनुगच्छति स गोहत्याकृतपापात् प्रमुच्यते । एकं वृषं दश गाश्च दक्षिणां दद्यात् । एतदशक्तौ वेदविद्भ्यः सर्व्वस्वं दद्यात् । एतच्चतुर्हायण्यादिविषयम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । | १२ धेनवो भवदेवभट्टसम्मताः । | ३६ कार्षापणाः । तल्लभ्यस्वर्णादि वा । | १ वृषः १० गावः । अशक्तौ १५ कार्षपणाः । |
१७ धेनवो बहुसम्मताः । | ५१ कार्षापणाः । | तथा । | ||
अथोपपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकब्राह्मणस्वामिकाज्ञानकृतगवीवधः । | सार्द्धमासिकव्रतम् । तद्यथा । गोष्ठे गोसमीपे गोघ्नः स्थितिं कुर्य्यात् । तत्रैव क्षितौ शयनञ्च । शक्तुयावकपयोदधिसरगोमयानां भक्षणं क्रमशः कुर्य्यात् । नखरोमविवर्जितस्त्रिसवनस्नानञ्चरेत् । जितेन्द्रियो वीतमत्सरश्च भवेत् । यथाशक्ति गायत्त्रीञ्च जपेत् । सार्द्धमासे पूर्णे सति विप्रान् भोजयेत् । गां तन्मूल्यं वा दक्षिणां दद्यात् । अनेन विधानेन गोघ्नः पापान्मुच्येत । एतद्व्रतं गोस्वामिने तत्प्रतिरूपं गवान्तरं यथोक्तमूल्यं वा दत्त्वा कर्त्तव्यम् । स्त्रीशूद्रबालवृद्धानामर्द्धं प्रायश्चित्तम् । | ६ धेनवो भवदेवभट्टसम्मताः । ९ धेनवो बहुसम्मताः । | १८ कार्षापणाः । तल्लभ्यस्वर्णादि वा । २५ ॥ ० कार्षापणाः । बहुसम्मताः । सार्द्धाष्टधेनुसंकलनात् । | १ गौः । अशक्तौ १ कार्षापणः । स्मार्त्तमते ७ ॥ ० कार्षापणाः । |
ज्ञानकृतशूद्रकर्त्तृक-ब्राह्मणस्वामिकगवीवधः । | त्रैमासिकव्रतार्द्धम् । अज्ञानतस्तदर्द्धम् । | ६ धेनवो भवदेवभट्टसम्मताः । ९ धेनवो बहुसम्मताः । | १८ कार्षापणाः । २५ ॥ ० कार्षापणाः । बहुसम्मताः । तल्लभ्यस्वर्णादि वा । | १ गौः । अशक्तौ १ कार्षापणः |
ज्ञानकृतब्राह्मणक्षत्रियवैश्यकर्त्तृकक्षत्त्रियस्वामिकगवीवधः । | षाण्मासिकव्रतम् । तद्यथा । षण्मासान् तच्चर्म्मणा परिवृतो गोग्रासाहर्त्ता गोव्रतो यवाशी गोभिरेव सञ्चरन् तत्पापात् विमुच्येत । | १२ धेनवः । | ३६ कार्षापणाः । तल्लभ्यस्वर्णादि वा । | यथाशक्ति । |
ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकाज्ञानकृतक्षत्त्रियस्वामिकगवीवधः । | षाण्मासिकव्रतार्द्धम् । | ६ धेनवः । | १८ कार्षापणाः । तल्लभ्यस्वर्णादि वा । | यथाशक्ति । |
शूद्रकर्त्तृकज्ञानकृतक्षत्त्रियस्वामिकगवीवधः । | षाण्मासिकव्रतार्द्धम् । | ६ धेनवः । | १८ कार्षापणाः । तल्लभ्यस्वर्णादि वा । | यथाशक्ति । |
तत्कर्त्तृकाज्ञानकृततत्स्वामिकगवीवधः । | एतद्व्रतार्द्धम् । स्त्रीशूद्रबालवृद्धानां सर्व्वत्रार्द्धम् । | ३ धेनवः । | ९ कार्षापणाः । तल्लभ्यस्वर्णादि वा । | यथाशक्ति । |
ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवैश्यस्वामिकगवीवधः । | द्बिगुणं मासब्रतम् । मासव्रतं यथा । मासैकं पञ्चगव्यपानं गोष्ठे वासः गवानुगमनं गोमतीजपः । | १० धेनवः । | ३० कार्षापणाः । तल्लभ्यस्वर्णादि वा । | यथाशक्ति । |
तत्कर्त्तृकाज्ञानकृततत्स्वामिकगवीवधः । | एतदर्द्धम् । | ५ धेनवः । | १५ कार्षापणाः । तल्लभ्यस्वर्णादि वा । | यथाशक्ति । |
ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतशूद्रस्वामिकगवीवधः । | ४ प्राजापत्यानि । | ४ धेनवः । | १२ कार्षापणाः । तल्लभ्यस्वर्णादि वा । | यथाशक्ति । |
ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकाज्ञानकृतशूद्रस्वामिकगवीवधः । | २ प्राजापत्ये । स्त्रीशूद्रबालवृद्धानां सर्व्वत्राद्धम् । एकस्य स्त्रीत्वशूद्रत्वाद्युमयधर्म्मवत्त्वे प्रायश्चित्तपादः । | २ धेनू । | ६ कार्षापणाः । तल्लभ्यस्वर्णादि वा । | यथाशक्ति । |
ब्राह्मणस्वामिकगर्भिणीकपिलादोग्ध्रीहोमधेनुसुव्रतानां गवां ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवधः । | द्बिगुणं त्रैमासिकव्रतम् । अज्ञानतस्तदर्द्धम् । | २४ धेनवो भवदेवभट्टसम्मताः । ३४ धेनवो बहुसम्मताः । | ७२ कार्षापणाः । १०२ कार्षापणा बहुसम्मताः । | २ वृषौ २० गावः । अशक्तौ ३० कार्षापणाः । |
ब्राह्मणस्वामिकगर्भिणीकपिलादोग्ध्रीहोमधेनुसुव्रतानां गवां शूद्रकर्त्तृकज्ञानकृतवधः । | त्रैमासिकव्रतम् । अज्ञानतस्तदर्द्धम् । | १२ धेनवः । १७ धेनवो बहुसम्मताः । | ३६ कार्षापणाः । ५१ कार्षापणा बहुसम्मताः । | १० वृषः १० गावः । अशक्तौ १५ कार्षापणाः । |
अथोपपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
क्षत्त्रियस्वामिकगर्भिणीकपिलादोग्ध्रीहोमधेनुसुव्रतानां गवां ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतबधः । | द्विगुणं षाण्मासिकव्रतम् । अज्ञानतस्तदर्द्धम् । | २४ धेनवः । | ७२ कार्षापणाः । | यथाशक्ति । |
क्षत्त्रियस्वामिकगर्भिणीकपिलादोग्ध्रीहोमधेनुसुव्रतानां गवां शूद्रकर्त्तृकज्ञानकृतवधः । | षाण्मासिकव्रतम् । अज्ञानतस्तदर्द्धम् । | १२ धेनवः । | ३६ कार्षापणाः । | यथाशक्ति । |
वैश्यस्वामिकगर्भिणीकपिलादोग्ध्रीहोमधेनुसुव्रतानां गवां ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवधः । | चतुर्गुणं मासिकव्रतम् । अज्ञानतस्तदर्द्धम् । | २० धेनवः । | ६० कार्षापणाः । | यथाशक्ति । |
वैश्यस्वामिकगर्भिणीकपिलादोग्ध्रीहोमधेनुसुव्रतानां गवां शूद्रकर्त्तृकज्ञानकृतवधः । | द्विगुणं मासिकव्रतम् । अज्ञानतस्तदर्द्धम् । | १० धेनवः । | ३० कार्षापणाः । | यथाशक्ति । |
शूद्रस्वामिकगर्भिणीकपिलादोग्ध्रीहोमधेनुसुव्रतानां गवां ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवधः । | ८ प्राजापत्यानि । अज्ञानतस्तदर्द्धम् । | ८ धेनवः । | २४ कार्षापणाः । | यथाशक्ति । |
शूद्रस्वामिकगर्भिणीकपिलादोग्ध्रीहोमधेनुसुव्रतानां गवां शूद्रकर्त्तृकज्ञानकृतवधः । | ४ प्राजापत्यानि । अज्ञानतस्तदर्द्धम् । | ४ धेनवः । | १२ कार्षापणाः । | यथाशक्ति । |
ज्ञानकृतब्राह्मणक्षत्त्रियवैश्यकर्त्तृकाधमशूद्रस्वामिकगवीवधः । | २ प्राजापत्ये । अज्ञानतस्तदर्द्धम् । | २ धेनू । | ६ कार्षापणाः । | यथाशक्ति । |
ज्ञानकृतशूद्रकर्त्तृकाधमशूद्रस्वामिकगवीवधः । | १ प्राजापत्यम् । अज्ञानतस्तदर्द्धम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । |
अधमशूद्रस्वामिकगर्भिणीकपिलादोग्ध्रीहोमधेनुसुव्रतानां गवां ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवधः । | ४ प्राजापत्यानि । अज्ञानतस्तदर्द्धम् । | ४ धेनवः । | १२ कार्षापणाः । | यथाशक्ति । |
अधमशूद्रस्वामिकगर्भिणीकपिलादोग्ध्रीहोमधेनुसुव्रतानां गवां शूद्रकर्त्तृकज्ञानकृतवधः । | २ प्राजापत्ये । अज्ञानतस्तदर्द्धम् । | २ धेनू । | ६ कार्षापणाः । | यथाशक्ति । |
ब्राह्मणस्वामिकाया गोरुत्पन्नमात्रगर्भस्य ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवधः । | त्रैमासिकव्रतपादः । अज्ञानतस्तदर्द्धम् । | ५ धेनवः । | १२ ॥। ० कार्षापणाः । सपादधेनुचतुष्टयसङ्कलनात् । | ३ ॥। ० कार्षापणाः । |
ब्राह्मणस्वामिकाया गोर्गात्रसम्मितगर्भस्य ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवधः । | त्रैमासिकव्रतपादद्बयम् । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् | ९ धेनवः । | २५ ॥ ० कार्षापणाः । सार्द्धाष्टधेनुसङ्कलनात् । | ७ ॥ ० कार्षापणाः । |
ब्राह्मणस्वामिकाया गोर्निष्पन्नसकलगात्रचैतन्यरहितगर्भस्य ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवधः । | त्रैमासिकव्रतपादत्रयम् । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । चैतन्ययुक्तगर्भवधे कृत्स्नमेव प्रायश्चित्तम् । | १३ धेनवः । | ३८ । ० कार्षापणाः । पादोनत्रयोदशधेनुसङ्कलनात् । | ११ । ० कार्षापणाः । |
क्षत्त्रियस्वामिकाया गोरुत्पन्नमात्रगर्भस्य ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवधः । | षाण्मासिकव्रतपादः । अज्ञानतस्तदर्द्धम् । | ३ धेनवः । | ९ कार्षापणाः । | यथाशक्ति । |
अथोपपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
क्षत्त्रियस्वामिकाया गोर्गात्रसम्मितगर्भस्य ब्राह्मणक्षत्त्रियवैश्यकर्त्तृ कज्ञानकृतवधः । | षाण्मासिकव्रतपादद्बयम् । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । | ६ धेनवः । | १८ कार्षापणाः । | यथाशक्ति । |
क्षत्त्रियस्वामिकाया गोर्निष्पन्नसकलगात्रचैतन्यरहितगर्भस्य ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवधः । | षाण्मासिकव्रतपादत्रयम् । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । चैतन्ययुक्तगर्भवधे कृत्स्नमेव प्रायश्चित्तम् । | ९ धेनवः । | २७ कार्षापणाः । | यथाशक्ति । |
वैश्यस्वामिकाया गोरुत्पन्नमात्रगर्भस्य ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवधः । | द्बिगुणमासव्रतस्य पादः । अज्ञानतस्तदर्द्धम् । | ३ धेनवः । | ७ ॥ ० कार्षापणाः । सार्द्धद्वयधेनुसङ्कलनात् । | यथाशक्ति । |
वैश्यस्वामिकाया गोर्गात्रसम्मितगर्भस्य ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकवधः । | द्बिगुणमासव्रतस्य पादद्बयम् । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । | ५ धेनवः । | १५ कार्षापणाः । | यथाशक्ति । |
वैश्यस्वामिकाया गोर्निष्पन्नसकलगात्रचैतन्यरहितगर्भस्य ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवधः । | द्विगुणमासव्रतस्य पादत्रयम् । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । | ८ धेनवः । | २२ ॥ ० कार्षापणाः । सार्द्धसप्तधेनुसङ्कलनात् । | यथाशक्ति । |
शूद्रस्वामिकाया गोरुत्पन्नगर्भस्य अर्थात् गर्भग्रहणदिनात् सावनमासद्बयानतिक्रान्तगर्भस्य ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवधः । | १ प्राजापत्यम् । अज्ञानतस्तदर्द्धम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । |
शूद्रस्वामिकाया गोर्गात्रसम्मितगर्भस्य अर्थात् मासद्वयोपरिसावनमासद्वयानतिक्रान्तगात्राद्यवयवोत्पन्नगर्भस्य ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवधः । | २ प्राजापत्ये । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । | २ धेनू । | ६ कार्षापणाः । | यथाशक्ति । |
शूब्रस्वामिकाया गोर्निष्पन्नसकलगात्रचैतन्यरहितगर्भस्य अर्थात् चतुर्थमासोपरि सावनमासद्बयानतिक्रान्तगर्भस्य ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवधः । | ३ प्राजापत्यानि । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । चैतन्ययुक्तगर्भवधे कृत्स्नमेव प्रायश्चित्तम् । | ३ धेनवः । | ९ कार्षापणाः । | यथाशक्ति । |
ब्राह्मणस्वामिकानामतिवृद्धाति कृशातिबालातिरोगिणीनां गवां ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवधः । | त्रैमासिकव्रतार्द्धम् । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । | ९ धेनवः । | २५ ॥ ० कार्षापणाः । सार्द्धाष्टधेनुसङ्कलनात् । | ७ ॥ ० कार्षापणाः । |
क्षत्त्रियस्वामिकानामतिवृद्धातिकृशातिबालातिरोगिणीनां गवां ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवधः । | षाण्मासिकव्रतार्द्धम् । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । | ६ धेनवः । | १८ कार्षापणाः । | यथाशक्ति । |
वैश्यस्वामिकानामतिवृद्धातिकृशातिबालातिरोगिणीनां गवां ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवधः । | १ मासव्रतम् । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । | ५ धेनवः । | १५ कार्षापणाः । | यथाशक्ति । |
शूद्रस्वामिकानामतिवृद्धातिकृशातिबालातिरोगिणीनां | २ प्राजापत्ये । अज्ञानतस्तदर्द्धम् । | २ धेनू । | ६ कार्षापणाः । | यथाशक्ति । |
अथोपपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
गवां ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवधः । | स्त्रीशूद्रबालवृद्धानामर्द्धम् । | |||
ब्राह्मणस्वामिकानां बहूनां गवां ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकैकप्रयत्ननिष्पन्नज्ञानकृतवधः । | द्बिगुणत्रैमासिकव्रतम् । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । | ३४ धेनवः । | १०२ कार्षापणाः । | २ वृषौ २० गावः । अशक्तौ ३० कार्षापणाः । |
क्षत्त्रियस्वामिकानां बहूनां गवां ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकैकप्रयत्ननिष्पन्नज्ञानकृतवधः । | द्बिगुणषाण्मासिकव्रतम् । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । | २४ धेनवः । | ७२ कार्षापणाः । | यथाशक्ति । |
वैश्यस्वामिकानां बहूनां गवां ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकैकप्रयत्ननिष्पन्नज्ञानकृतवधः । | चतुर्गु णमासव्रतम् । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । | २० धेनवः । | ६० कार्षापणाः । | यथाशक्ति । |
शूद्रस्वामिकानां बहूनां गवां ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकैकप्रयत्ननिष्पन्नज्ञानकृतवधः । | ८ प्राजापत्यानि । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । स्त्रीत्वाद्युभयधर्म्मवत्त्वे पादः । प्रयत्नभेदे प्रायश्चित्तावृत्तिः । | ८ धेनवः । | २४ कार्षापणाः । | यथाशक्ति । |
ज्ञानकृतबहुकर्त्तृकब्राह्मणस्वामिकैकगवीवधः । | प्रत्येकं त्रैमासिकव्रतपादः । अज्ञानतस्तदर्द्धम् । | ५ धेनवः । | १२ ॥। ० कार्षापणाः । सपादधेनुचतुष्टयसङ्कलनात् । | ३ ॥। ० कार्षापणाः । |
ज्ञानकृतबहुकर्त्तृकक्षत्त्रियस्वामिकैकगवीवधः । | प्रत्येकं षाण्मासिकव्रतपादः । अज्ञानतस्तदर्द्धम् । | ३ धेनवः । | ९ कार्षापणाः । | यथाशक्ति । |
ज्ञानकृतबहुकर्त्तृकवैश्यस्वामिकैकगवीवधः । | प्रत्येकं द्विगुणमासव्रतपादः । अज्ञानतस्तदर्द्धम् । | ३ धेनवः । | ७ ॥ ० कार्षापणाः । सार्द्धद्बयधेनुसङ्कलनात् । | यथाशक्ति । |
ज्ञानकृतबहुकर्त्तृकशूद्रस्वामिकैकगवीवधः । | प्रत्येकं प्राजापत्यम् । अज्ञानतस्तदर्द्धम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । |
द्बाभ्यामेकगवीवधः । | यद्यत्स्वामिकाया गोर्वधे यद्यत्प्रायश्चित्तमुक्तं प्रत्येकं संपूर्णं तत्तत् प्रायश्चित्तम् । | |||
द्वाभ्यामेकप्रयत्ननिष्पन्नबहुगवीवधः । | यद्यत्स्वामिकाया गोर्वधे यद्यत्प्रायश्चित्तं प्रत्येकं तद्द्वैगुण्यम् । | |||
एकप्रयत्ननिष्पन्नबहुकर्त्तृकबहुगवीवधः । | प्रत्येकं तत्तद्वधोक्तव्रतपादद्बयम् । | |||
एकप्रयत्ननिष्पन्नाभ्यासकृतबहुकर्त्तृकबहुगवीवधः । | प्रत्येकं तत्तद्बधोक्तव्रतद्विपादप्रायश्चित्तावृत्तिः । | |||
ज्ञानकृतब्राह्मणक्षत्त्रियवैश्यकर्त्तृकब्राह्मणस्वामिकैकहायबगवीवधः । | त्रैमासिकव्रतपादः । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । | ५ धेनवः । | १२ ॥। ० कार्षापणाः । सपादधेनुचतुष्टयसङ्कलनात् । | ३ ॥। ० कार्षापणाः । |
ज्ञानकृतब्राह्मणक्षत्त्रियवैश्यकर्त्तृकब्राह्मणस्वामिकद्विहायनगवीवधः । | त्रैमासिकव्रतार्द्धम् । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । | ९ धेनवः । | २५ ॥ ० कार्षापणाः । सार्द्धाष्टधेनुसङ्कलनात् । | ७ ॥ ० कार्षापणाः । |
ज्ञानकृतब्राह्मणक्षत्त्रियवैश्यकर्त्तृकब्राह्मणस्वामिकत्रिहायणगवीवधः । | पादन्यूनत्रैमासिकव्रतम् । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । | १३ धेनवः । | ३८ । ० कार्षापणाः । पादोनत्रयोदशधेनुसङ्कलनात् । | ११ । ० कार्षापणाः । |
ज्ञानकृतब्राह्मणक्षत्त्रियवैश्यकर्त्तृकक्षत्त्रियस्वामिकैकहायनगवीवधः । | षाण्मासिकव्रतपादः । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । | ३ धेनवः । | ९ कार्षापणाः । | यथाशक्ति । |
अथोपपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
ज्ञानकृतब्राह्मणक्षत्त्रियवैश्यकर्त्तृकक्षत्त्रियस्वामिकद्विहायनगवीवधः । | षाण्मासिकव्रतपादद्बयम् । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । | ६ धेनवः । | १८ कार्षापणाः । | यथाशक्ति । |
ज्ञानकृतब्राह्मणक्षत्त्रियवैश्यकर्त्तृकक्षत्त्रियस्वामिकत्रिहायणगवीवधः । | पादन्यूनषाण्मासिकव्रतम् । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । | ९ धेनवः । | २७ कार्षापणाः । | यथाशक्ति । |
ज्ञानकृतब्राह्मणक्षत्त्रियवैश्यकर्त्तृकवैश्यस्वामिकैकहायनगवीवधः । | मासैकव्रतार्द्धम् । अज्ञानतस्तदर्द्धम् । | ३ धेनवः । | ७ ॥ ० कार्षापणाः । सार्द्धद्बयधेनुसङ्कलनात् । | यथाशक्ति । |
ज्ञानकृतब्राह्मणक्षत्त्रियवैश्यकर्त्तृकवैश्यस्वामिकद्बिहायनगवीवधः । | मासव्रतम् । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । | ५ धेनवः । | १५ कार्षापणाः । | यथाशक्ति । |
ज्ञानकृतब्राह्मणक्षत्त्रियवैश्यकर्त्तृकवैश्यस्वामिकत्रिहायणगवीवधः । | पादोनं द्विगुणमासव्रतम् । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । | ८ धेनवः । | २२ ॥ ० कार्षापणाः । सार्द्धसप्तधेनुसङ्कलनात् । | यथाशक्ति । |
ज्ञानकृतब्राह्मणक्षत्त्रियवैश्यकर्त्तृकशूद्रस्वामिकैकहायनगवीवधः । | १ प्राजापत्यम् । अज्ञानतस्तदर्द्धम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । |
ज्ञानकृतब्राह्मणक्षत्त्रियवैश्यकर्त्तृकशूद्रस्वामिकद्बिहायनगवीवधः । | २ प्राजापत्ये । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । | २ धेनू । | ६ कार्षापणाः । | यथाशक्ति । |
ज्ञानकृतब्राह्मणक्षत्त्रियवैश्यकर्त्तृकशूद्रस्वामिकत्रिहायणगवीवधः । | ३ प्राजापत्यानि । अज्ञानतस्तदर्द्धम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । | ३ धेनवः । | ९ कार्षापणाः । | यथाशक्ति । |
क्षीणाया गोरक्षीणत्वभ्रमेणाहारप्रचारनिर्गमरोधनिमित्तवधः । | प्राजापत्यपादः । | १ धेनुः । | ॥। ० पणाः । धेनुपादसङ्कलनात् । | यथाशक्ति । |
क्षैण्यज्ञाने प्रायिकमरणं ज्ञात्वा प्रवृत्तस्य चान्द्रायणपदः । इदन्तु सर्व्वस्वामिकायाः सर्व्ववयस्काया गोः सर्व्वकर्त्तृकवधे बोद्धव्यम् । | २ धेनू । | ५ ॥ ० कार्षापणाः । पादार्द्धोनधेनुद्बयसङ्कलनात् । | यथाशक्ति । | |
क्षीणाया गोरक्षीणत्वभ्रमेण अकालबन्धनायथाबन्धननिमित्तवधः । | प्राजापत्यपादद्वयम् । | १ धेनुः । | १ ॥ ० कार्षापणाः । धेन्वर्द्ध सङ्कलनात् । | यथाशक्ति । |
क्षैण्यज्ञाने तु प्रायिकमरणं ज्ञात्वा प्रवृत्तस्य चान्द्रायणपादद्बयम् । एतदपि सर्व्वस्वामिकायाः सर्व्ववयस्काया गोः सर्व्वकर्त्तृकवधे बोद्धव्यम् । | ४ धेनवः । | ११ । ० कार्षापणाः । पादोनधेनुचतुष्टयसङ्कलनात् । | यथाशक्ति । | |
क्षीणाया गोरक्षीणत्वभ्रमेण हलशकटादियोजननिमित्त वधः । | प्राजापत्यपादत्रयम् । | १ धेनुः । | २ । ० कार्षापणाः । पादोनधेनुसङ्कलनात् । | यथाशक्ति । |
क्षैण्यज्ञाने तु चान्द्रायणपादत्रयम् । | ६ धेनवः । | १६ ॥। ० कार्षापणाः । पादोनसार्द्धसप्तधेनुसङ्कलनात् । | यथाशक्ति । | |
क्षीणाया गोरक्षीणत्वभ्रमेण कूपावटादिषु भयादिना निपातनेन शास्त्रीयदण्डनिपातनेन च वधः । | प्राजापत्यम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । |
क्षैण्यज्ञाने प्रायिकमरणं ज्ञात्वा प्रवृत्तस्य चान्द्रायणम् । एतदपि सर्व्वस्वामिकादिविषयम् । यद्यत्स्वामिकयद्यत्- | ||||
अथोपपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
कर्त्तृकयद्यद्गववधे यद्यत्प्रायश्चित्तमुक्तं अप्रवृत्तप्रवर्त्तकरूपप्रयोजकस्य तत्तत् प्रायश्चित्तस्य पादत्रयम् । प्रवृत्तप्रवर्त्तकरूपप्रयोजकस्य पादद्बयम् । स्वल्पप्रहर्त्तृरूपानुग्राहकस्य पादत्रयम् । वध्यप्रतिरोधकरूपानुग्राहकस्य पादद्वयम् । | ८ धेनवः । | २२ ॥ ० कार्षापणाः । सार्द्धसप्तधेनुसङ्कलनात् । | यथाशक्ति । | |
ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकशूद्रेतरस्वामिकगवापालननिमित्तवधः । | सेतिकर्त्तव्यताकप्राजापत्यम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । इति कर्त्तव्यता यथा । सशिखं वपनं कार्य्यं त्रिसन्ध्यमवगाहनम् । शृङ्गैर्वापि खुरैर्युक्तं लाङ्गूलश्रवणादिभिः ॥ आर्द्रमेव हि तच्चर्म्म परिधाय स गां व्रजेत् । तासां मध्ये वसेद्रात्रौ दिवा ताभिः समं व्रजेत् ॥ ब्राह्मणस्य विशेषेण तथा राजन्यवैश्ययोः । प्रायश्चित्ते ततश्चीर्णे कुर्य्याद्ब्राह्मणभोजनम् ॥ अनडुत्सहितां गाञ्च दद्याद्बिप्राय दक्षिणाम् ॥ इति पराशरोक्ता । | २ धेनू । | ६ कार्षापणाः । | १ वृषः १ गौः । अशक्तौ ६ कार्षापणाः । |
ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकशूद्रस्वामिकगवापालननिमित्तवधः । | प्राजापत्यद्वयम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । | २ धेनू । | ६ कार्षापणाः । | यथाशक्ति । |
ब्राह्मणक्षत्त्रियवैश्यशूद्रकर्त्तृकशूद्रेतरस्वामिकाप्राप्तदम्यावस्थगोवत्सापालननिमित्तवधः । अप्राप्तदम्यावस्था तु त्रिहायणपर्य्यन्तम् । | सेतिकर्त्तव्यताकप्राजापत्यपादः । | धेनोरर्द्धस्यासम्भवात् १ एका धेनुः । | १ ॥ ० कार्षापणाः । | १ ॥ ० कार्षापणाः । |
ब्राह्मणक्षत्त्रियवैश्यशूद्रकर्त्तृकशूद्रस्वामिकाप्राप्तदम्यावस्थगोवत्सापालननिमित्तवधः । | प्राजापत्यव्रतद्बयपादः । | धेनोरर्द्धस्यासम्भवात् १ एका धेनुः । | १ ॥ ० कार्षापणाः । | यथाशक्ति । |
उत्सृष्टवृषवत्सतर्य्योर्वधः । | भूतपूर्ब्बस्वामिकगववधप्रायश्चित्तद्विगुणम् । पूर्ब्बस्वाम्यज्ञाने ब्राह्मणस्वामिकगववधद्विगुणप्रायश्चित्तम् । | |||
गवां शृङ्गभङ्गास्थिभङ्गचर्म्मनिर्म्मोचनलाङ्गूलच्छेदनम् । | दशरात्रं वज्रव्रतम् । मासार्द्धयवपानम् । प्राजापत्यं वा । वज्रव्रतं यथा । गोमूत्रेण समायुक्तं यावकञ्चोपयोजयेत् । एकाहे नैव कृच्छ्रोऽयमुक्तश्चाङ्गिरसा स्वयम् । सर्व्वपापहरो दिव्यो नाम्ना वज्र इति स्थितः ॥ * ॥ शृङ्गभङ्गादिना षण्मासाभ्यन्तरे गोर्मरणे अन्यूनं वधप्रायश्चित्तं करणीयम् । गुरुणा समेन वा तेन प्रायश्चित्तेन शृङ्गभङ्गादिप्रायश्चित्तसिद्धिः । षण्मासोत्तरमरणे शृङ्गभङ्गादिप्रायश्चित्तमात्रं कर्त्तव्यम् ॥ | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । |
गवां मुष्कमोषः । | यत्कर्त्तृकयत्स्वामिकगववधे यत्प्रायश्चित्तमुक्तं तत्कर्त्तृकतत्स्वामिकगवमुष्कमोषे तत्प्रायश्चित्तम् । मृत्युलिङ्गच्छेदयोस्तुल्यत्वाभिधानात् । अत्र प्रयोजकभेदस्यार्द्धं पादोनञ्च । | |||
अथोपपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
वृषस्य स्वयं ब्राह्मणकर्त्तृकहलशकटादियोजनम् । | प्राजापत्यद्बयम् । | २ धेनू । | ६ कार्षापणाः । | यथाशक्ति । |
योषिद्गवां ब्राह्मणकर्त्तृकहलशकटादियोजनम् । | ४ प्राजापत्यानि । ब्राह्मणेतरेषां प्राजापत्यद्वयम् । | ४ धेनवः । | १२ कार्षापणाः । | यथाशक्ति । |
उत्सृष्टवृषस्य कपिलायाश्च ब्राह्मणकर्त्तृ कहलशकटादियोजनम् । | यतिचान्द्रायणद्बयम् । ब्राह्मणेतरेषां यतिचान्द्रायणैकम् । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । |
गोमांसखादके गोविक्रयविनिमयादिः । | विक्रयादिमात्रे अज्ञानकृततत्तत्कर्त्तृकतत्तत्स्वामिकगववधप्रायश्चित्तार्द्धम् । गोमांसखादककर्त्तृकतद्गववधे तु अज्ञानकृततत्तत्कर्त्तृकतत्तत्स्वामिकगववधोक्तसंपूर्णप्रायश्चित्तम् । |
- अथ गोवधापवादः । तत्र पराशरः ।
“धूर्य्येषु वहमानेषु दण्डेनाभिहतेषु च । काष्ठेन लेष्टुना वापि पाषाणेन तु ताडितः ॥ मूर्च्छितः पतितश्चैव मृतो वा सद्य एव च । एवंगतानां धूर्य्याणां प्रवक्ष्यामि यथाविधि ॥ उत्थितन्तु पदं गच्छेत् पञ्च सप्त दशापि वा । ग्रासं वा यदि गृह्णाति तोयं वा पिबति स्वयम् । पूर्ब्बव्याधिविनष्टानां प्रायश्चित्तं न विद्यते ॥” सम्बर्त्तः ।
“यन्त्रणे गोचिकित्सायां मूढगर्भविमोचने । यत्ने कृते विपत्तिः स्यात् प्रायश्चिचं न विद्यते ॥ औषधं स्नेहमाहारं ददद्गोब्राह्मणेषु च । प्राणिनां प्राणवृत्त्यर्थं प्रायश्चित्तं न विद्यते ॥ दाहच्छेदसिराभेदप्रयत्नैरुपकुर्व्वताम् । द्बिजानां गोहितार्थं वा प्रायश्चित्तं न विद्यते ॥” याज्ञवल्क्यः ।
“क्रियमाणोपकारे तु मृते विप्रे न पातकम् । विपाके गोवृषाणाञ्च भेषजाग्निक्रियासु च ॥” मिताक्षराधृतपराशरवचनम् ।
“कूपे खाते च धर्म्मार्थे गृहदाहे च ये मृताः । ग्रामदाहे तथा घोरे प्रायश्चित्तं न विद्यते ॥” भवदेवभट्टधृतवचनम् ।
“शृङ्गभङ्गेऽस्थिभङ्गेच कटिभङ्गे तथैव । यदि जीवति षण्मासान् प्रायश्चित्तं न विद्यते ॥” सम्बर्त्तः ।
“देवद्रोण्यां विहारे च कूपेष्वायतनेषु च । एषु गोषु प्रपन्नासु प्रायश्चित्तं न विद्यते ॥” देवद्रोणी स्वयम्भूलिङ्गाद्यवस्थानगह्वरम् । विहारो गवां मैथुनम् । आयतनं सीमानिबन्धनस्थानम् । अत्र कूपायतनकर्त्तुर्दोषाभावो न तु गोस्वामिनः । इति
प्रायश्चित्तविवेकप्रायश्चित्ततत्त्वस्मृतिसारमौर्खहसम्मतं गोवधप्रायश्चित्तं समाप्तम् ॥ * ॥
अथोपपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
---|---|---|---|---|
ब्राह्मणक्षत्त्रियकर्त्तृकज्ञानकृतक्षत्त्रियवधः । | अज्ञानकृतब्रह्महत्याप्रायश्चित्तपादः । स तु त्रैवार्षिकव्रतरूपः । | ४५ धेनवः । | १३५ कार्षापणाः । | २५ गावः । अशक्तौ २५ कार्षापणाः । |
ब्राह्मणक्षत्त्रियकर्त्तृकाज्ञानकृतक्षत्त्रियवधः । | सार्द्धवार्षिकव्रतम् । | सार्द्धद्बाविंशतिधेन्वसम्भवात् २३ धेनवः । | ६७ ॥ ० कार्षापणाः । | १३ गावः । अशक्तौ १२ ॥ ० कार्षापणाः । |
वैश्यकर्त्तृकज्ञानकृतक्षत्त्रियवधः । | षाड्वार्षिकव्रतम् । | ९० धेनवः । | २७० कार्षापणाः । | ५० गावः । अशक्तौ ५० कार्षापणाः । |
वैश्यकर्त्तृकाज्ञानकृतक्षत्त्रियवधः । | त्रैवार्षिकव्रतम् । | ४५ धेनवः । | १३५ कार्षापणाः । | २५ गावः । अशक्तौ २५ कार्षापणाः । |
शूद्रकर्त्तृकज्ञानकृतक्षत्त्रियवधः । | नववार्षिकव्रतम् । | १३५ धेनवः । | ४०५ कार्षापणाः । | ७५ गावः । अशक्तौ ७५ कार्षापणाः । |
शूद्रकर्त्तृकाज्ञानकृतक्षत्त्रियवधः । | सार्द्धचतुर्वार्षिकव्रतम् । | सार्द्धसप्तषष्टिधेन्वसम्भवात् ६८ धेनवः । | २०२ ॥ ० कार्षापणाः । | ३८ गावः । अशक्तौ ३७ ॥ ० कार्षापणाः । |
ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवैश्यवधः । | ब्रह्महत्याव्रताष्टमभागः । स च सार्द्धवार्षिकव्रतरूपः । | सार्द्धद्वाविंशतिधेन्वसम्भवात् २३ धेनवः । | ६७ ॥ ० कार्षापणाः । | १३ गावः । अशक्तौ १२ ॥ ० कार्षापणाः । |
ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकाज्ञानकृतवैश्यवधः । | ब्रह्महत्याव्रतषोडषभागः । स च नवमासिकव्रतरूपः । | सपादैकादशधेन्वसम्भवात् १२ धेनवः । | ३३ ॥। ० कार्षापणाः । | ७ गावः । अशक्तौ ६ । ० कार्षापणाः । |
अथानुपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
शूद्रकर्त्तृकज्ञानकृतवैश्यवधः । | ब्रह्महत्याव्रतचतुर्थभागः । स च त्रैवार्षिकव्रतरूपः । | ४५ धेनवः । | १३५ कार्षापणाः । | २५ गावः । अशक्तौ २५ कार्षापणाः । |
शूद्रकर्त्तृकाज्ञानकृतवैश्यवधः । | ब्रह्महत्याव्रताष्टमभागः । स च सार्द्धवार्षिकव्रतरूपः । | सार्द्धद्बाविशतिधेन्वसम्भवात् २३ धेनवः । | ६७ ॥ ० कार्षापणाः । | १३ गावः । अशक्तौ १२ ॥ ० कार्षापणाः । |
ब्राह्मणक्षत्त्रियवैश्यशूद्रकर्त्तृकज्ञानकृतशूद्रवधः । | ब्रह्महत्याव्रतषोडशभागः । स च नवमासिकव्रतरूपः । | सपादैकादशधेन्वसम्भवात् १२ धेनवः । | ३३ ॥। ० कार्षापणाः । | ७ गावः । अशक्तौ ६ । ० कार्षापणाः । |
ब्राह्मणक्षत्त्रियवैश्यशूद्रकर्त्तृकाज्ञानकृतशूद्रवधः । | ब्रह्महत्याव्रतद्बात्रिंशत्तमभागः । स च सार्द्धचतुर्म्मासिकव्रतरूपः । सर्व्वत्र बालवृद्धस्त्रीणामर्द्धम् । एकस्य बालत्वादिधर्म्मद्बयवत्त्वे पादः । | पादार्द्धाधिकसार्द्धपञ्चधेन्वसम्भवात् ६ धेनवः । | १६ ॥। ० कार्षापणाः । | ४ गावः । अशक्तौ ३ ० कार्षापणाः । |
ब्राह्मणक्षत्त्रियवैश्यशूद्रकर्त्तृकज्ञानकृतवृत्तिस्थशूद्रवधः । | ब्रह्महत्याव्रतद्वादशभागः । स च वार्षिकव्रतरूपः । अज्ञानतस्त्वेतदर्द्धम् । | १५ धेनवः । | १५ कार्षापणाः । | ९ गावः । अशक्तौ ८ । ६ ॥ = कार्षापणाः । |
सर्व्ववर्णकर्त्तृकज्ञानकृतप्रतिलोमजातवधः अर्थात् अपकृष्टशूद्रवधः । | चान्द्रायणव्रतम् । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । |
सर्व्ववर्णकर्त्तृ काज्ञानकृतापकृष्टशूद्रवधः । | पराकव्रतम् । सर्व्वत्र बालवृद्धस्त्रीणामर्द्धम् । एकस्य बालत्वादिधर्म्मद्वयवत्त्वे पादः । | ५ धेनवः । | १५ कार्षापणाः । | यथाशक्ति । |
ब्राह्मणकर्त्तृकज्ञानकृतब्राह्मणीवधः । | षाड्वार्षिकं महाव्रतम् । अज्ञानतस्त्वेतदर्द्धम् । | ९० धेनवः । | २७० कार्षापणाः । | ५० गावः । ५० कार्षापणा वा । |
क्षत्त्रियकर्त्तृकज्ञानकृतब्राह्मणीवधः । | द्बादशवार्षिकव्रतम् । अज्ञानतस्त्वेतदर्द्धम् । | १८० धेनवः । | ५४० कार्षापणाः । | १०० गावः । १०० कार्षापणा वा । |
वैश्यकर्त्तृकज्ञानकृतब्राह्मणीवधः । | अष्टादशवार्षिकव्रतम् । अज्ञानतस्त्वेतदर्द्धम् । | २७० धेनवः । | ८१० कार्षापणाः । | १५० गावः । १५० कार्षापणा वा । |
शूद्रकर्त्तृकज्ञानकृतब्राह्मणीवधः । | चतुर्व्विंशतिवार्षिकव्रतम् । अज्ञानतस्त्वेतदर्द्धम् । सर्व्वत्र बालवृद्धस्त्रीणामर्द्धम् । एकस्य बालत्वाद्युभयधर्म्मवत्त्वे पादः । | ३६० धेनवः । | १०८० कार्षापणाः । | २०० गावः । अशक्तौ २०० कार्षापणाः । |
ब्राह्मणक्षत्त्रियकर्त्तृकज्ञानकृतक्षत्त्रियावधः । | त्रैवार्षिकव्रतम् । अज्ञानतस्त्वेतदर्द्धम् । | ४५ धेनवः । | १३५ कार्षापणाः । | २५ गावः । २५ कार्षापणा वा । |
वैश्यकर्त्तृकज्ञानकृतक्षत्त्रियावधः । | षाड्वार्षिकव्रतम् । अज्ञानतस्त्वेतदर्द्धम् । | ९० धेनवः । | २७० कार्षापणाः । | ५० गावः । ५० कार्षापणा वा । |
शूद्रकर्त्तृकज्ञानकृतक्षत्त्रियावधः । | नववार्षिकव्रतम् । अज्ञानतस्त्वेतदर्द्धम् । सर्व्वत्र बालवृद्धस्त्रीणामर्द्धम् । एकस्य बालत्वाद्युभयधर्म्मवत्त्वे षादः । | १३५ धेनवः । | ४०५ कार्षापणाः । | ७५ गावः । अशक्तौ ७५ कार्षापणाः । |
ब्राह्मणक्षत्त्रियवैश्यकर्त्तृकज्ञानकृतवैश्यावधः । | वार्षिकव्रतम् । अज्ञानतस्त्वेतदर्द्धम् । | १५ धेनवः । | ४५ कार्षापणाः । | ९ गावः । ८ । ६ ॥। कार्षापणा वा । |
शूद्रकर्त्तृकज्ञानकृतवैश्यावधः । | द्बिवार्षिकव्रतम् । अज्ञानतस्त्वेतदर्द्धम् । स्त्रीबालवृद्धानामर्द्धम् । एकस्य स्त्रीत्वाद्युभयधर्म्मवत्त्वे पादः । | ३० धेनवः । | ९० कार्षापणाः । | १७ गावः । अशक्तौ १६ ॥ = १३ ॥ कार्षापणाः । |
ब्राह्मणक्षत्त्रियवैश्यशूद्रकर्त्तृकशूद्रावधः । | वार्षिकव्रतम् । अज्ञानतस्तु एतदर्द्धम् । स्त्रीबालवृद्धानामर्द्धम् । एकस्य स्त्रीत्वाद्युभयधर्म्मवत्त्वे पादः । | १५ धेनवः । | ४५ कार्षापणाः । | ९ गावः । अशक्तौ ८ । ६ ॥। कार्षापणाः । |
आत्रेयीवधः । | यत्कर्त्तृकयद्वर्णस्त्रीवधे यत्प्रायश्चित्तं तद्द्वैगुण्यम् । | |||
आत्रेयी त्रिविधा । अत्रिगोत्रा ऋतुस्नाता गर्भिणी च | ||||
अथोपपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
ब्राह्मणकर्त्तृकज्ञानकृतसकृत्सवर्णव्यभिचरितब्राह्मणीवधः । | वार्षिकव्रतम् । अज्ञानतस्त्वेतदर्द्धम् । | १५ धेनवः | ४५ कार्षापणाः । | ९ गावः । अशक्तौ ८ । ६ ॥। कार्षापणाः । |
क्षत्त्रियकर्त्तृकज्ञानकृतसकृत्सवर्णव्यभिचरितब्राह्मणीवधः । | द्बिवार्षिकव्रतम् । अज्ञानतस्त्वेतदर्द्धम् । | ३० धेनवः । | ९० कार्षापणाः । | १७ गावः । अशक्तौ १६ ॥ १३ ॥ कार्षापणाः । |
वैश्यकर्त्तृकज्ञानकृतसकृत्सवर्णव्यभिचरितब्राह्मणीवधः । | त्रैवार्षिकव्रतम् । अज्ञानतस्त्वेतदर्द्धम् । | ४५ धेनवः । | १३५ कार्षापणाः । | २५ गावः । अशक्तौ २५ कार्षापणाः । |
शूद्रकर्त्तृकज्ञानकृतसकृत्सवर्णव्यभिचरितब्राह्मणीवधः । | चतुर्वार्षिकव्रतम् । अज्ञानतस्त्वेतदर्द्धम् । बालवृद्धस्त्रीणामर्द्धम् । एकस्य उभयधर्म्मवत्त्वे पादः । | ६० धेनवः । | १८० कार्षापणाः । | ३४ गावः । अशक्तौ ३३ । ६ ॥। कार्षापणाः । |
ब्राह्मणकर्त्तृकाज्ञानकृतो भूयो व्यभिचरिताया अधमवर्णव्यभिचरितायाश्च ब्राह्मण्या वधः । | दृतिदानम् । ज्ञानकृते तु द्बैगुण्यम् । क्षत्त्रियस्य एतद्द्विगुणम् । वैश्यस्य त्रिगुणम् । शूद्रस्य चतुर्गुणम् । | ० | ० | यथाशक्ति । |
ब्राह्मणक्षत्त्रियकर्त्तृ काज्ञानकृतो भूयो व्यभिचरिताया अधमवर्णव्यभिचरितायाश्च क्षत्त्रियाया वधः । | धनुर्दानम् । कामतो द्वैगुण्यम् । वैश्यस्य एतद्द्विगुणम् । शूद्रस्य त्रिगुणम् । | ० | ० | यथाशक्ति । |
ब्राह्मणक्षत्त्रियवैश्यकर्त्तृ काज्ञानकृतो भूयो व्यभिचरिताया अधमवर्णव्यभिचरितायाश्च वैश्याया वधः । | छागदानम् । कामतस्त्वेतद्द्विगुणम् । शूद्रस्य एतद्द्विगुणम् । | ० | ० | यथाशक्ति । |
ब्राह्मणक्षत्त्रियवैश्यशूद्रकर्त्तृ काज्ञानकृतो मूयो व्यभिचरिताया अधमवर्णव्यभिचरितायाश्च शूद्राया वधः । | मेषदानम् । ज्ञानतो द्वैगुण्यम् । सर्व्वत्र स्त्रीबालवृद्धानामर्द्धम् । एकस्य उभयधर्म्मवत्त्वे पादः । प्रयोजकादीनां पादपादहानिः । | ० | ० | यथाशक्ति । |
ब्राह्मणकर्त्तृ कज्ञानकृतब्राह्मणीगर्भवधः । | द्वादशवार्षिकव्रतम् । अज्ञानतोऽर्द्धम् । | १८० धेनवः । | ५४० कार्षापणाः । | १०० गावः । अशक्तौ १०० कार्षापणाः । |
ब्राह्मणकर्त्तृ कज्ञानकृतक्षत्त्रियागर्भवधः । | त्रैवार्षिकव्रतम् । अज्ञानतोऽर्द्धम् । | ४५ धेनवः । | १३५ कार्षापणाः । | २५ गावः । अशक्तौ २५ कार्षापणाः । |
ब्राह्मणकर्त्तृ कज्ञानकृतवैश्यागर्भवधः । | सार्द्धवार्षिकव्रतम् । अज्ञानतोऽर्द्धम् । | सार्द्धद्वाविंशतिधेन्वसम्भवात् २३ धेनवः । | ६७ ॥ ० कार्षापणाः । | १३ गावः । अशक्तौ १२ ॥ ० कार्षापणाः । |
ब्राह्मणकर्त्तृ कज्ञानकृतशूद्रागर्भवधः । | नवमासिकव्रतम् । अज्ञानतोऽर्द्धम् । | सपादैकादशधेन्वसम्भवात् १२ धेनवः । | ३३ ॥। ० कार्षापणाः । | ७ गावः । अशक्तौ ६ । ० कार्षापणाः । |
क्षत्त्रियकर्त्तृ कज्ञानकृतब्राह्मणीगर्भवधः । | चतुर्विंशतिवार्षिकव्रतम् । अज्ञानतोऽर्द्धम् । | ३६० धेनवः । | १०८० कार्षापणाः । | २०० गावः । अशक्तौ २०० कार्षापणाः । |
क्षत्त्रियकर्त्तृ कज्ञानकृतक्षत्त्रियागर्भवधः । | त्रैवार्षिकव्रतम् । अज्ञानतोऽर्द्धम् । | ४५ धेनवः । | १३५ कार्षापणाः । | २५ गावः । अशक्तौ २५ कार्षापणाः । |
क्षत्त्रियकर्त्तृ कज्ञानकृतवैश्यागर्भवधः । | सार्द्धवार्षिकव्रतम् । अज्ञानतोऽर्द्धम् । | सार्द्धद्वाविंशतिधेन्वसम्भवात् २३ धेनवः । | ६७ ॥ ० कार्षापणाः । | १३ गावः । अशक्तौ १२ ॥ ० कार्षापणाः । |
क्षत्त्रियकर्त्तृ कज्ञानकृतशूद्रागर्भवधः । | नवमासिकव्रतम् । अज्ञानतोऽर्द्धम् । | सपादैकादशधेन्वसम्भवात् १२ धेनवः । | ३३ ॥। ० कार्षापणाः । | ७ गावः । अशक्तौ ६ । ० कार्षापणाः । |
वैश्यकर्त्तृ कज्ञानकृतब्राह्मणीगर्भवधः । | षट्त्रिंशद्बार्षिकव्रतम् । अज्ञानतोऽर्द्धम् । | ५४० धेनवः । | १६२० कार्षापणाः । | ३०० गावः । अशक्तौ ३०० कार्षापणाः । |
अथोपपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
वैश्यकर्त्तृ कज्ञानकृतक्षत्त्रियागर्भवधः । | षाड्वार्षिकव्रतम् । अज्ञानतोऽर्द्धम् । | ९० धेनवः । | २७० कार्षापणाः । | ५० गावः । अशक्तौ ५० कार्षापणाः । |
वैश्यकर्त्तृ कज्ञानकृतवैश्यागर्भवधः । | सार्द्ध वार्षिकव्रतम् । अज्ञानतोऽर्द्धम् । | सार्द्धद्वाविंशतिधेन्वसम्मवात् २३ धेनवः । | ६७ ॥ ० कार्षापणाः । | १३ गावः । अशक्तौ १२ ॥ ० कार्षापणाः । |
वैश्यकर्त्तृ कज्ञानकृतशूद्रागर्भवधः । | नवमासिकव्रतम् । अज्ञानतोऽर्द्धम् । | सपादैकादशधेन्वसम्भवात् १२ धेनवः । | ३३ ॥। ० कार्षापणाः । | ७ गावः । अशक्तौ ६ । ० कार्षापणाः । |
शूद्रकर्त्तृ कज्ञानकृतब्राह्मणीगर्भवधः । | अष्टचत्वारिंशद्बार्षिकव्रतम् । अज्ञानतोऽर्द्धम् । | ७२० धेनवः । | २१६० कार्षापणाः । | ४०० गावः । अशक्तौ ४०० कार्षापणाः । |
शूद्रकर्त्तृ कज्ञानकृतक्षत्त्रियागर्भवधः । | नववार्षिकव्रतम् । अज्ञानतोऽर्द्धम् । | १३५ धेनवः । | ४०५ कार्षापणाः । | ७५ गावः । अशक्तौ ७५ कार्षापणाः । |
शूद्रकर्त्तृ कज्ञानकृतवैश्यागर्भवधः । | त्रैवार्षिकव्रतम् । अज्ञानतोऽर्द्धम् । | ४५ धेनवः । | १३५ कार्षापणाः । | २५ गावः । अशक्तौ २५ कार्षापणाः । |
शूद्रकर्त्तृ कज्ञानकृतशूद्रागर्भवधः । | नवमासिकव्रतम् । अज्ञानतोऽर्द्धम् । ब्राह्मण्यादिगर्भे पुंस्त्वेन ज्ञाते विशेषेणाज्ञाते चोक्तं प्रायश्चित्तम् । स्त्रीत्वेन ज्ञाते सर्व्वत्रार्द्धं प्रायश्चित्तं ज्ञेयम् । सर्व्वत्र स्त्रीबालवृद्धानामर्द्धम् । प्रयोजकादीनां पादपादहानिः । | सपादैकादशधेन्वसम्भवात् १२ धेनवः । | ३३ ॥। ० कार्षापणाः । | ७ गावः । अशक्तौ ६ । ० कार्षापणाः । |
यद्यपि गजाश्वादिवधः सङ्करीकरणपापमिदं तथापि हिंसासाजात्यादुपपातकप्रकरणे तत्प्रायश्चित्तं निरूप्यते । | ||||
वृथासामान्यपशुघातः । वृथेतिग्रहणात् यागाद्यर्थे प्रायश्चित्ताद्यभावः । | प्राजापत्यम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । |
राजसम्बन्ध्युत्तमगजवधः । | पञ्चनीलवृषदानम् । | ० | २५ कार्षापणाः । | यथाशक्ति । |
अत्यन्तोत्तमवाजिरासभवधः । | चान्द्रायणम् । | ८ धेनवः । सार्द्धसप्तधेन्वसम्भवात् । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । |
अश्ववधः । | वासोयुगदानम् । एतच्च ज्ञानतः । अज्ञानतस्तदर्द्धम् । | ० | ० | यथाशक्ति । |
मृगमहिषवराहकुञ्जरगण्डतरक्षुऋक्षवानरसिंहव्याघ्रपृषतचमररुरुकादीनां वधः । | अहोरात्रोपवासान्ते घृतघटदानम् । एतच्चाज्ञानतः सकृद्वधविषयम् । ज्ञानतो द्वैगुण्यम् । | ० | उपवासासामर्थे । अष्ट पणाः । | यथाशक्ति । |
अजाव्यादिवधः । | त्रिरात्रोपवासः । एतदज्ञानतोऽत्यन्तधार्म्मिकब्राह्मणकर्त्तृकसकृद्बधे वेदितव्यम् । | ० | १ ॥ ० कार्षापणः । | हिरण्यं वस्त्रं वा । |
शक्तस्य एकहायनवृषदानम् । | ० | वृषमूल्यम् ५ कार्षापणाः । | यथाशक्ति । | |
अशक्तस्य धेनुदानम् । तदशक्तौ प्राजापत्यव्रतम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । | |
अभ्यासे मासं यावकपानम् । | २ धेनू । | ६ कार्षापणाः । | यथाशक्ति । | |
अत्यन्ताभ्यासे कृच्छ्रातिकृच्छ्रम् । | ४ धेनवः । | १२ कार्षापणाः । | यथाशक्ति । | |
मार्जारगोधानकुलमण्डूकश्वपतत्रिमूषिकसर्पवधः । पतत्री गृहपक्षी । | त्र्यहं क्षीरपानम् । पादिककृच्छ्रं वा । एतत्सकृदज्ञानविषयम् । | ० | १ कार्षापणाः । | यथाशक्ति । |
ज्ञानतोऽभ्यासे द्वादशरात्रं कृच्छ्रम् । स्त्रीशूद्रबालवृद्धानामर्द्धम् । | यत्किञ्चिदधिकसपादधेन्वसम्भवात् २ धेन । | ४ कार्षापणाः । | यथाशक्ति । | |
अथोपपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
कृष्णसर्पवधे तीक्ष्णाग्रलौहकीलिकादानमादौ कर्त्तव्यम् । सर्पजातीयषण्डवधे पलालभारः सीसकमाषश्च दातव्यः । एतज्ज्ञानतः । एतदशक्तौ व्रतादिकं कर्त्तव्यम् । | ||||
अथ सामान्यपक्षिवधः । | नक्तव्रतम् । द्बिरक्तिपरिमितरौप्यदानं वा । | ० | १३ ।- पणौ । नक्तव्रतस्योपवासतृतीयभागत्वात् । | यथाशक्ति । |
कामतोऽत्यन्ताभ्यासे शूद्रहत्याव्रतम् । गुरुगोवधव्रतं वा । स्त्रीशूद्रबालवृद्धानामर्द्धम् । एकस्य स्त्रीत्वाद्युभयधर्म्मवत्त्वे पादः । | १२ धेनवः । | ३६ कार्षापणाः । | ७ गावः । अशक्तौ ६ । ० कार्षापणाः । | |
अथ विशेषपक्षिवधः । वकवलाका-हंससारसकारण्डवचक्रवाककुररगृध्रश्येनखञ्जरीटटिट्टिभोलूक-शुकशारिकातित्तिरिमयूरकाककलविङ्ककालञ्जकमद्गुकपोतपारावतादीनां वधः । | अहोरात्रोपवासः सर्व्वबीजदानञ्च । एतदज्ञानविषयम् । | ० | उपवासानुकल्पः ॥ ० पणाः । सर्व्वबीजमूल्यम् । ० पणाः । | यथाशक्ति । |
ज्ञानकृते त्र्यहोपवासः । शक्तस्य गोदानम् । तत्रायं विशेषः । शुकवधे द्बिहायनगवदानम् । क्रौञ्चवधे त्रिहायणगवदानम् । क्रौञ्चशुकभासमयूरश्येनगृध्रवधे वत्सतरीदानम् । अत्र वृषदानवत्सतरीदानयोर्व्यवस्था शक्ताशक्तविषयिका । एतद्दानाशक्तानां व्रतादिकम् । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । | |
कोकिलशुककपोतकपिञ्जलकुक्कुटटिट्टिभखर्ज्जूरखञ्जरीटानां पुरुषभारपरिमितानां वधः । | उत्कृष्टशूद्रहत्याव्रतम् । | १५ धेनवः । | ४५ कार्षापणाः । | ९ गावः । अशक्तौ ८ । ६ ॥। कार्षापणाः । |
मत्समण्डूकमकरशिशुमारादिजलचरवधः । | सप्तरात्रब्रह्महत्याव्रतम् । एतदज्ञानतः सकृद्वधे । | ० | १ कार्षापणः । | ११ ॥।- पणौ । |
अहोरात्रोपवासः यथाशक्तिलवणदानञ्च । एतत् कामतः सकृत् । अभ्यासात्यन्ताभ्यासयोस्तु मलावहप्रायश्चित्ते दर्शयिष्यते । | ० | ॥ ० पणाः उपवासानुकल्पः । १ ॥ ० कार्षापणः । लवणमूल्यम् । २ । | । ३ ॥ = पणाः । | |
अथ सास्थ्यनस्थिप्राणिवधः । | ||||
सहस्रसंख्यकानां अस्थिमतां कृकलासादीनां ज्ञानकृतवधः । | आब्दिकं शूद्रहत्याव्रतम् । अज्ञाने षाण्मासिकम् । | १५ धेनवः । | ४५ कार्षापणाः । | ९ गावः । अशक्तौ ८ । ६ ॥। कार्षापणाः । |
अनस्थ्नां क्रमिकीटपतङ्गभ्रमरदंशमशकमक्षिकादीनां शकटपूरितमितानां ज्ञानकृतवधः । | आब्दिकं शूद्रहत्याव्रतम् । अज्ञाने षाण्मासिकम् । | १५ धेनवः । | ४५ कार्षापणाः । | ९ गावः । अशक्तौ ८ । ६ ॥। कार्षापणाः । |
अस्थिमतां प्रत्येकं वधः । | पणदानम् । | ० | ० | यत्किञ्चित् । |
अनस्थ्नां प्रत्येकं वधः । | प्राणायामः । पणदानं वा । | ० | ० | तथा । |
अन्नशक्त्रादिगुडादिसर्व्वरसफलपुष्पजातप्राणिवधः । | दिनमेकं घृतमात्रभोजनम् । एतदज्ञाने । ज्ञाने तद्द्वैगुण्यम् । | ० | ॥ ० पणाः । | यथाशक्ति । |
अभ्यासे तप्तकृच्छ्रम् । | ४ धेनवः । | ११ । ० कार्षापणाः । | यथाशक्ति । | |
अत्यन्ताभ्यासे कृच्छ्रातिकृच्छ्रम् । | ६ धेनवः । | १८ कार्षापणाः । | यथाशक्ति । | |
फलवद्वृक्षलतागुल्मच्छेदनम् । | प्राजापत्यम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । |
अथोपपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
अफलवतामेतेषां छेदनम् । | अष्टाहसाध्यवृद्धकृच्छ्रम् । | २ कार्षापणौ । | यथाशक्ति । | |
अत्यन्तोत्कृष्टफलवद्वृक्षच्छेदनम् । | चान्द्रायणम् । | ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । |
अभ्यासादत्यन्तोत्कृष्टफलवद्वृक्षच्छेदनम् । | आब्दिकव्रतम् । | १५ धेनवः । | ४५ कार्षापणाः । | ९ गावः । अशक्तौ ८ । ६ ॥। कार्षापणाः । |
चैत्यवृक्षश्मशानसीमपुण्यस्थानसुरालयजातवृक्षच्छेदनम् । विंशतिसंख्यकोपजीव्यवृक्षच्छेदनम् । ख्यातवृक्षच्छेदनञ्च । | पूर्ब्बोक्तवृक्षच्छेदनप्रायश्चित्तद्बैगुण्यादि । सर्व्वत्र स्त्रीशूद्रबालवृद्धानामर्द्धम् । | |||
वापीकूपारामसेतुसभातडागवप्रदेवतायतनभेदनम् । | ब्राह्मणेभ्यो निवेद्य चतस्र आहुतीर्ज्जुहुयात् । इदं विष्णुरिति प्रथमां मानस्तोके इति द्वितीयां विष्णोः कर्म्माणीति तृतीयां पादोऽस्यान्त्यामिति चतुर्थीं यां देवतामुत्सादयति तस्यै देवतायै । ब्राह्मणान् भोजयेत् । एतत् सकृदल्पोपघातविषयम् । अभ्यासे महोपघाते च प्राजापत्यम् । दण्डश्च । यथा । सकृदल्पोपघाते प्रथमसाहसः २५० पणाः । अभ्यासे महोपघाते उत्तमसाहसः । १००० पणाः । | |||
देवताया उत्कृष्टप्रतिमाभेदनच्छेदनदहनहरणानि । | चान्द्रायणम् । वाप्यादिभेदनोक्ताश्चतस्र आहुतयः । उत्तमसाहसो दण्डश्च । १००० पणाः । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । |
देवताया अपकृष्टप्रतिमाभेदनच्छेदनदहनहरणानि । | प्राजापत्यम् । पूर्ब्बोक्तचतुराहुत्यादिदानम् । प्रथमसाहसो दण्डश्च । २५० पणाः । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । |
अथाभिचारः । स तु परहिंसार्थं जपहोमादिकर्म्म । | अतिकृच्छ्रम् । एतत् सकृदाचरणे । अभ्यासे प्रायश्चित्तावृत्तिः । इति हिंसाप्रायश्चित्तम् ॥ * ॥ | ३ धेनवः । | ९ कार्षापणाः । | यथाशक्ति । |
व्रात्ययाजनम् । | प्राजापत्यम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । |
मूल्येन मृतस्य दहनवहनादिकम् । | सान्तपनम् । | २ धेनू । | ६ कार्षापणाः । | यथाशक्ति । |
अथाभक्ष्यभक्षणम् । अभक्ष्यं षड्विधम् । जातिदुष्टम् १ क्रियादष्टम् २ कालाश्रयविदूषितम् ३ संसर्गाश्रयदुष्टम् ४ सहृल्लेखम् ५ स्वभावतो दुष्टम् ६ । जातिदुष्टं लशुनगृञ्जनपलाण्डुच्छत्राकश्वेतवार्त्ताकीलालिकावर्त्तुलाकारालावूरूपम् १ क्रियादुष्टं पतितसंस्पृ ष्टम् २ कालदुष्टं ह्यस्तनं चिरसंस्थितञ्च ३ संसर्गदुष्टं सुरालशुनपेयूषादियुक्तम् ४ सहृल्लेख विचिकित्सितान्नम् ५ स्वभावदुष्टं पुरीषादि ६ । | चान्द्रायणम् । एतद्गुरुतरविषयम् । विशेषानिर्द्देशे ज्ञेयम् । | सार्द्धसप्तधेन्वसम्भकात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । |
अथोपपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
अपरञ्च । संघातान्नम् । शूद्रोपनीतान्नम् । पतितोपनीतान्नम् । शूद्रवेश्मस्थान्नञ्च । | ||||
शूद्रस्य पक्वान्नभक्षणम् । | ब्राह्मणस्य त्र्यहोपवासः । एतदज्ञानतः । | १ धेनुः । अर्द्धधेन्वसम्भवात् । | १ ॥ ० कार्षापणः । | यथाशक्ति । |
ज्ञानतः प्राजापत्यम् । आपदि भक्षणे मनस्तापः द्रुपदां शतजपो वा । क्षत्त्रियादीनां पादपादहानिः । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । | |
अभ्यासात् शूद्रस्य पक्वान्नभक्षणम् । | ब्राह्मणस्य मासयाधकपानम् । क्षत्त्रियादीनां पादपादहानिः । | २ धेनू । | ६ कार्षापणाः । | यथाशक्ति । |
शूद्रस्यामान्नभक्षणम् । | उक्तप्रायश्चित्ततुरीयभागः । आपदि भक्षणे प्रायश्चित्ताभावः । | |||
अथ रजकशैलूषवेणुचर्म्मोपजीविकैवर्त्ताद्यन्त्यजान्नभक्षणम् । | चान्द्रायणम् । एतत् ज्ञानाभ्यासविषयम् । अज्ञाने त्वर्द्धम् । | ८ धेनवः । सार्द्धसप्तधेन्वसम्भवात् । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । |
ज्ञानतोऽष्टधाभ्यासे कृच्छ्राब्दव्रतम् । | ३० धेनवः । | ९० कार्षापणाः । | १७ गावः । अशक्तौ १६ ॥ १६ ॥। कार्षापणाः । | |
अज्ञानतोऽष्टधाभ्यासे एतदर्द्धम् । एतत्तु ब्राह्मणविषयम् । क्षत्त्रियादीनां पादपादहानिः । | १५ धेनवः । | ४५ कार्षापणाः । | ९ गावः अशक्तौ ८ । ८ ॥ कार्षापणाः । | |
सकृदज्ञानकृतान्त्यजोत्सृष्टाशनम् । | ब्राह्मणस्य चान्द्रायणम् । | ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । |
क्षत्त्रियस्य तप्तकृच्छ्रम् । | ४ धेनवः । | १२ कार्षापणाः । | यथाशक्ति । | |
वैश्यस्य तप्तकृच्छ्रार्द्धम् । | २ धेनू । | ६ कार्षापणाः । | यथाशक्ति । | |
शूद्रस्य तप्तकृच्छ्रपादः । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । | |
ज्ञानत एतद्द्वैगुण्यम् । | ||||
कापालिकान्नभक्षणम् । | ज्ञानात् कृच्छ्राब्दम् । | ३० धेनवः । | ९० कार्षापणाः । | १७ गावः । अशक्तौ १६ ॥ १६ ॥। कार्षापणाः । |
अज्ञानात् चान्द्रायणद्वयम् । एतदष्टधाभ्यस्तविषयम् । एतत् सर्व्वं ब्राह्मणस्य । क्षत्त्रियादौ पादपादहानिः । | १५ धेनवः । | ४५ कार्षापणाः । | यथाशक्ति । | |
चाण्डालश्वपचक्षत्तृसूतवैदेहकमागधायोगवानामन्त्यावसायिनामन्नभक्षणम् । | ब्राह्मणस्य कामतः सकृद्भोजने चान्द्रायणम् । | ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । |
अज्ञानतस्तप्तकृच्छ्रम् । | ४ धेनवः । | १२ कार्षापणाः । | यथाशक्ति । | |
बलाद्भोजने पराकः । | ५ धेनवः । | १५ कार्षापणाः । | यथाशक्ति । | |
अज्ञानतोऽष्टचत्वारिंशद्वारभोजने द्वादशवार्षिकव्रतम् । ज्ञानतश्चतुर्विंशतिवारभोजने एतदेव । | १८० धेनवः । | ५४० कार्षापणाः । | १०० गावः । अशक्तौ १०० कार्षापणाः । | |
ज्ञानतोऽष्टचत्वारिंशद्वारभोजने चतुर्व्विंशतिवार्षिकव्रतं अव्यवहार्य्यता च । | ३६० धेनवः । | १०८० कार्षापणाः । | २०० गावः । अशक्तौ २०० कार्षापणाः । | |
सकृद्ज्ञानत आमान्नभोजने त्रिरात्रोपवासः । सर्व्वत्र क्षत्त्रियादीनां पादपादहानिः । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । | |
आपदि पक्वान्नभोजने क्षत्त्रियस्य सान्तपनम् । | २ धेनू । | ६ कार्षापणाः । | यथाशक्ति । | |
वैश्यस्य षड्रात्रम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । | |
शूद्रस्य त्रिरात्रम् । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । | |
चाण्डालपतितादीनामुत्सृष्टान्नभक्षणम् । | द्विजस्य पराकः । | ५ धेनवः । | १५ कार्षापणाः । | यथाशक्ति । |
शूद्रस्य कृच्छ्रम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । | |
एतत् सकृदज्ञानविषयं ज्ञानतो द्वैगुण्यादिकम् । | ||||
अथोपपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
अथ सामान्याभोज्यान्नभोजनम् । | त्र्यहोपवासः । एतत् सकृदज्ञानविषयम् । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । |
ज्ञाने प्राजापत्यम् । क्षत्त्रियादीनां पादपादहानिः । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । | |
अभोज्यान्नानि यथा । अनधीतवेदारब्धयज्ञान्नम् । ग्रामयाजिहोतृकयज्ञान्नम् । स्त्रीक्लीवहुतयज्ञान्नम् । मत्तक्रुद्धातुराणामन्नम् । केशेन कीटेन वा सह पक्वमन्नम् । कामतः पादस्पृ ष्टमन्नम् । भ्रूणघ्नादिपतितावेक्षितान्नम् । रजस्वलास्पृ ष्टान्नम् । पतत्रिणावलीढमन्नम् । शुना स्पृष्टमन्नम् । गवाघ्रातमन्नम् । घुष्टान्नम् । घोषणया दत्तमन्नमित्यर्थः । गणान्नम् । मठब्राह्मणसंघान्नमित्यर्थः । गणिकान्नम् । विद्बज्जुगुप्सितान्नम् । स्तेनान्नम् । गायनान्नम् । तक्षान्नम् । वार्द्धुषिकान्नम् । दीक्षितान्नम् । दीक्षणीययागानन्तरं यज्ञसमाप्तिपर्य्यन्तं तद्यागकर्त्तुरन्नमित्यर्थः । कदर्य्यस्यान्नम् । रज्ज्वादिनाबद्धस्यान्नम । अयोनिगडयुक्तस्यान्नम् । अभिशस्तस्यान्नम् । क्लीवान्नम् । पुंश्चल्यन्नम् । दाम्भिकान्नम् । छद्मना धर्म्मचारिणोऽन्नमित्यर्थः । शुक्तान्नम् । पर्य्युषितान्नम् । शूद्रोच्छिष्टान्नम । चिकित्सकान्नम् । व्याधान्नम् । क्रूरान्नम् । उच्छिष्टभोजिनामन्नम् । उग्रस्यान्नम् । दारुणकर्म्मणो जातिविशेषस्य वा अन्नमित्यर्थः । सूतिकोद्देशेन पक्वमन्नम् । पर्य्याचान्तम् । आचमनव्यवहितान्नमित्यर्थः । एकपंक्तिस्थानन्यानवमन्य यत्रान्ने भुज्यमाने केनचिदाचमनं क्रियते तत् पर्य्याचान्तमिति कुल्लूकभट्टः । अनर्च्चितान्नम् । अर्च्चार्हस्यावज्ञया दत्तमन्नमित्यर्थः । वृथामांसम् । अवीरान्नम् । द्विषदन्नम् । नगराधिपान्नम् । | एतेषामभोज्यानामन्यतमानां भक्षणे पूर्ब्बोक्तस्त्र्यहोपवासः । एष सकृदज्ञानविषयः । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । |
ज्ञाने प्राजापत्यम् । क्षत्त्रियादीनां पादपादहानिः । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । | |
अथोपपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
पतितान्नम् । अवक्षुतान्नम् । क्षवथुसहितान्नमित्यर्थः । पिशुनान्नम् । अनृतिनामन्नम् । कूटसाक्ष्याद्यन्नमित्यर्थः । यज्ञफलविक्रायकान्नम् । शैलूषान्नम् । तुन्नवायान्नम् । कृतघ्नान्नम् । कर्म्मारान्नम् । निसादान्नम् । रङ्गावतारकान्नम् । स्वर्णकारान्नम् । वेणुजीविनामन्नम् । लौहविक्रायकान्नम् । श्ववतामन्नम् । आखेटकाद्यर्थं शुनः पोषकाणामन्नमित्यर्थः । शौण्डिकवृत्तिद्बिजान्नम् । चेलनिर्णेजकस्यान्नम् । वस्त्रधावकस्यान्नमित्यर्थः । रञ्जकान्नम् । कुसुम्भादिना वस्त्ररागकारकस्यान्नमित्यर्थः । नृशंसान्नम् । गृहस्थितोपपतिकान्नम् । उपपतिमर्षकान्नम् । गेहे ज्ञातं भार्य्याजारं ये सहन्ते तेषामन्नमित्यर्थः । स्त्रीजितान्नम् । अनिर्द्दशं प्रेतान्नम् । अनिर्गताशौचञ्च सूतिकान्नमित्यर्थः । अतुष्टिकरान्नञ्च ॥ ७० ॥ | एतेषामभोज्यानामन्यतमानां भक्षणे पूर्ब्बोक्तस्त्र्यहोपवासः । एष सकृदज्ञानविषयः । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । |
ज्ञाने प्राजापत्यम् । क्षत्त्रियादीनां पादपादहानिः । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । | |
चाण्डालादिपतितस्पृष्टान्नभक्षणम् । अत्र पतितपदं सर्व्वधर्म्मबहिष्कृतवाचि यवनादिम्लेच्छपरं उच्छिष्टान्नभोजनप्रकरणे तथा लिखनात् अतएव चाण्डालस्पृ ष्टान्नभक्षणप्रतिज्ञायां पतितपदं पृथक् न लिखितम् । | प्राजापत्यम् । एतत्सकृदज्ञाने ब्राह्मणविषयम् । ज्ञाने द्वैगुण्यम् । अभ्यासे तु प्रायश्चित्तावृत्तिः । क्षत्त्रियादीनां पाद-पादहानिः । एतत्कुण्यादिष्वभ्यासे ज्ञेयम् । रजकादिस्पृ ष्टान्नभक्षणे तु एतदर्द्धम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । |
पतितस्पर्शे अकृतस्नातस्य भोजनम् । | याज्ञवल्क्योक्त चतुरहःसाध्यं तप्तकृच्छ्रम् । | सपादधेन्वसम्भवात् २ धेनू । | ३ ॥। ० कार्षापणाः । | यथाशक्ति । |
अज्ञानत एतदर्द्धम् । अभ्यासे प्रायश्चित्तावृत्तिः । | ||||
अत्यन्ताभ्यासे चान्द्रायणम् । क्षत्त्रियादीनां पादपादहानिः । चाण्डालादिस्पर्शे एतद्बोधितव्यम् । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । | |
शूद्रादिस्पृ ष्टान्नस्य केशकीटोपहतान्नस्य च भक्षणम् । | एकोपवासः । | ० | ॥ ० पणाः । | यथाशक्ति । |
वृथापाकान्नभक्षणम् । तत्तु देवतापित्रतिथिभक्षणवर्जितान्नम् । | प्राणायामत्रयम् घृतमात्रभोजनञ्च । एतदज्ञानतः । ज्ञानतो द्वैगुण्यम् । | ० | ॥ ० पणाः । | यथाशक्ति । |
अथोपपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
वृथामांसभक्षणम् । तत्तु पितृदेवार्च्चनरहितं मांसम् । | प्राजापत्यव्रतम् । एतद्ब्राह्मणस्य । क्षत्त्रियादीनां पादपादहानिः । अभ्यासे प्राजापत्यावृत्तिः । एतत् रोगिदैवपितृकर्म्मनिमन्त्रितेतरविषयम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । |
सामान्याभक्ष्यमांसभक्षणम् । | सप्तरात्रयवागूपानम् । एतत् सकृदज्ञाने । ज्ञानतो द्वैगुण्यम् । क्षत्त्रियादीनां पादपादहानिः । एतदभ्यासे प्रायश्चित्तावृत्तिः । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । |
अश्वगोकुञ्जरोष्ट्रशशकादिपञ्चनखातिरिक्तपञ्चनखक्रव्यादग्राम्यकुक्कुटानां मांसभक्षणम् । विड्वराहनरमांसभक्षणञ्च । | ब्राह्मणानां सकृदज्ञानतः प्राजापत्यम् । पुनरुपनयनञ्च । ज्ञाने तु द्वैगुण्यम् । अभ्यासे उपनयनसहितप्रायश्चित्तावृत्तिः । उपनयनाशक्तौ चान्द्रायणं तदशक्तौ धेन्वष्टकम् । क्षत्त्रियादीनां पादपादहानिः । | १ धेनुः । | ३ कार्षापणाः । | अनडुत्सहितगौः । अशक्तौ ६ कार्षापणाः । |
हंसमद्गुकाकोलकाकखञ्जरीटमत्स्यादवलाकाशुकसारिकाचक्रवाकप्लवकोककलविङ्करज्जुवालसारसदात्यूहभासकोकिलमण्डूकभुजगानामन्यतमस्य मांसभक्षणम् । | विप्रस्याज्ञानतः सकृद्भोजने त्रिरात्रोपवासः । ज्ञानतो द्वैगुण्यम् । ज्ञानाभ्यासे प्रायश्चित्तावृत्तिः । क्षत्त्रियादीनां पादपादहानिः । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । |
मत्स्यभक्षणम् । | विप्रस्य कामतस्त्र्यहोपवासः । अकामत एतदर्द्धम् । क्षत्त्रियादीनां पादपादहानिः । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । |
पृष्ठमांस-गर्भशय्याभूम्यन्तर्गतपक्वमांसर्जीषपक्वमांससूनामांसशुष्कमांसानामन्यतमस्य भक्षणम् । सूना घातनस्थली तद्भवं मांसम् । | कामतः सकृद्भक्षणे त्र्यहोपवासः । अकामत एतदर्द्धम् । अभ्यासे प्रायश्चित्तावृत्तिः । एतत् ब्राह्मणस्य । क्षत्त्रियादीनां पादपादहानिः । | ० | ॥। ० पणाः । | यथाशक्ति । |
वृथापायसपूपशस्कुलीकृशरसंयावशिग्रुलोहितवृक्षनिर्यासागेध्यप्रभवानां भक्षणम् । | कामतस्त्र्यहोपवासः । अज्ञानतस्तदर्द्धम् । एतद्ब्राह्मणस्य । क्षत्त्रियादीनां पादपादहानिः । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । |
एकाकिमिष्टान्नभक्षणम् । | एकाहोपवासः । अभ्यासे द्वैगुण्यम् । | ० | ॥ ० पणाः । | यथाशक्ति । |
अस्नेहाक्तपर्य्युषितान्नदधिवर्जशुक्तक्षारलवणभक्षणम् । | अज्ञानत एकाहोपवासः । | ० | ॥ ० पणाः । | यथाशक्ति । |
ज्ञानतस्त्र्यहोपवासः । अभ्यासे द्वैगुण्यम् । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । | |
वाग्दुष्टभावदुष्टभावदुष्टभाजनपक्वद्रव्यभक्षणम् । | अभ्यासे त्रिरात्रयावकपानम् । | ० | ॥। ० पणाः । | यथाशक्ति । |
शूद्रभाजने भिन्नकांस्ये च भो जनम् । | अहोरात्रोपवासः पञ्चगव्यपानञ्च । | ० | ॥ ० पणाः । | यथाशक्ति । |
कुम्भीभक्षणम् । | द्बादशरात्रं पयःपानम् । | सपादधेन्वसम्भवात् २ धेनू । | ३ ॥। ० कार्षापणाः । | यथाशक्ति । |
अथोपपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
लशुणपलाण्डुगृञ्जनभक्षणम् । रुपरसादिभिर्लशुनादितुल्यद्रव्यभक्षणञ्च । | ज्ञानतश्चान्द्रायणम् । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । |
अज्ञानात्तप्तकृच्छ्रम् । | पादोनधेनुचतुष्टयासम्भवात् ४ धेनवः । | ११ । ० कार्षापणाः । | यथाशक्ति । | |
चिरतराभ्यासे संवत्सरयावकपानम् । एतदुभयत्र पुनरुपनयनमपि शूद्राणामुपनयनतुल्यचान्द्रायणेन सह प्रकृतव्रतस्य पादः । | १५ धेनवः । | ४५ कार्षापणाः । | यथाशक्ति । | |
सजातीयमृतसूतकिनां पक्वान्नभक्षणम् । | ज्ञानतः प्राजापत्यम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । |
अज्ञानात् त्र्यहोपवासः । अभ्यासे द्वैगुण्यादिकम् । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । | |
मृतसूतकिनां ब्राह्मणक्षत्त्रियवैश्यशूद्राणामामान्नस्य ब्राह्मणकर्त्तृकभक्षणम् । | विप्रस्यामान्ने प्राणायामः । क्षत्त्रियस्यामान्ने शतगायत्त्रीजपः । वैश्यस्यामान्ने पञ्चशतगायत्त्रीजपः । शूद्रस्यामान्ने अष्टसहस्रगायत्त्रीजपः । अभ्यासे द्वैगुण्यम् । | |||
मृतकिसूतकिजलपानम् । | ब्राह्मणस्य पञ्चगव्यं पीत्वा उपवासः । एतत् सकृदज्ञाने ज्ञाने तु द्बैगुण्यम् । अभ्यासे त्वावृत्तिः । तज्जलस्पर्शे स्नानमात्रम् । क्षत्त्रियादीनां पादपादहानिः । | ० | ॥ ० पणाः । | यथाशक्ति । |
नवश्राद्धान्नभोजनम् । नवश्राद्धन्तु साग्नीनां चतुर्थपञ्चमनवमैकादशाहक्रियमाणं निरग्नीनान्तु आद्यश्राद्धमात्रम् । | चान्द्रायणम् । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । |
प्रथममासिकश्राद्धान्नभोजनम् । | पराकः । | ५ धेनवः । | १५ कार्षापणाः । | यथाशक्ति । |
त्रिपक्षे प्रेतश्राद्धान्नभोजनम् । | अतिकृच्छ्रम् । | ३ धेनवः । | ९ कार्षापणाः । | यथाशक्ति । |
द्बिमासादिषण्मासपर्य्यन्तं प्रेतश्राद्धान्नभोजनम् । | प्राजापत्यम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । |
षण्मासादूर्द्ध्वमब्दपर्य्यन्तं प्रेतश्राद्धान्नभोजनम् । | पादकृच्छ्रम् । | ० | १ कार्षापणः । | यथाशक्ति । |
पुनराब्दिकश्राद्धान्नभोजनं अर्थात् सपिण्डीकरणान्नभोजनम् । एतत् स्मार्त्तमतं शूलपाणिमते तु द्बितीयसांवत्सरिकान्नभोजनम् । | एकाहोपवासः । | ० | ॥ ० पणाः । | यथाशक्ति । |
पत्राद्यनन्तरितहस्तदत्तानां एकहस्तदत्तानां शूद्रादत्तानाञ्चघृततैललवणव्यञ्जनपानीयपायसमाक्षिकफाणितगोरसशाकानां भक्षणम् । | द्व्यहसाध्यसान्तपनम् । एतत् ज्ञानतः । अज्ञानादर्द्धम् । लौहपात्रेण परिवेशनेऽप्येतदेव प्रायश्चित्तं ज्ञेयम् । एतद् ब्राह्मणस्य । क्षत्त्रियादीनां पादपादहानिः । | ० | १ कार्षापणः । | यथाशक्ति । |
अकृतापोशानस्य अकृतमौनस्य च भोजनम् । | अष्टोत्तरशतगायत्त्रीजपः एतद्द्विजानामनापद्बिषयम् । | ० | ० | ० |
अकृताचमनस्य पानभोजनम् । | अष्टोत्तरसहस्रगायत्त्रीजपः उपवासो वा । अभ्यासे द्विगुणादि । एतत् कटुकषायताम्बूलेक्षुव्यतिरिक्तभोजनविषयम् । | ॥ ० पणाः । | यथाशक्ति । | |
अथोपपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
यज्ञोपवीतरहितकर्त्तृकान्नभोजनम् । | स्नानं शतगायत्त्रीजपः उपवासश्च । | ० | ॥ ० पणाः । | यथाशक्ति । |
रेतोमूत्रपुरीषाणामन्यतमस्य भक्षणम् । | ज्ञानतश्चान्द्रायणम् । | ८ धेनवः । सार्द्धसप्तधेन्वसम्भवात् । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । |
अज्ञानतस्तप्तकृच्छ्रम् । | पादोनधेनुचतुष्टयासम्भवात् ४ धेनवः । | ११ । ० कार्षापणाः । | यथाशक्ति । | |
बलात्कारे प्राजापत्यम् । सर्व्वत्र द्विजातीनां पुनः संस्कारश्च । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । | |
विण्मूत्रादिदूषितफलादिभक्षणम् । | संसर्गमात्रे कृच्छ्रपादः । | ० | ॥। ० पणाः । | यथाशक्ति । |
सन्निकृष्टे अर्थात् महत्संसर्गे कृच्छ्रार्द्धम् । एतत् रसास्वादनानुपलम्भनपक्षे अज्ञानतः सकृद्विषयम् । ज्ञानतो द्वैगुण्यम् । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । | |
रसाद्युपलम्भे तु गोतमोक्ततप्तकृच्छ्रं द्वादशाहसाध्यम् । अज्ञानत उपलम्भे अर्द्धम् । क्षत्त्रियादीनां पादपादहानिः । | पादोनधेनुचतुष्टयासम्भवात् ४ धेनवः । | ११ । ० कार्षापणाः । | यथाशक्ति । | |
मृल्लोष्टभोजनम् । | अहोरात्रोपवासः । | ॥ ० पणाः । | यथाशक्ति । | |
अभ्यासे याज्ञवल्क्योक्तचतुरहसाध्यतप्तकृच्छ्रम् । | सपादधेन्वसम्भवात् २ धेनू । | ३ ॥। ० कार्षापणाः । | यथाशक्ति । | |
ब्रह्मचारिणां मधुमांसभोजनम् । | ज्ञानतः प्राजापत्यम् । अज्ञानात् अर्द्धम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । |
ब्रह्मचारिणामामिषभाण्डपक्वान्नभोजनम् । | त्र्यहं कुशमूलविपक्वक्षीरपानमात्रम् । एतदज्ञानतः । | ० | १ कार्षापणः । | यथाशक्ति । |
ज्ञानतो द्वैगुण्यम् । | ० | २ कार्षापणौ । | यथाशक्ति । | |
देवतातिथिभृत्यादिवर्जनभोजनम् । | अभ्यासे प्राजापत्यम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । |
अस्थ्यादिदूषितान्नभोजनम् । अस्थिशब्दोऽत्राभक्ष्यास्थिमात्रवचनम् । | स्नात्वार्कमर्च्चयित्वा घृतमात्राशनम् । | ० | ॥ ० पणाः । | यथाशक्ति । |
मत्स्यकण्टकशम्बूकशङ्खशुक्तिकपर्द्दकभक्षणम् । | पञ्चगव्यमात्रभक्षणम् । | ० | ॥ ० पणाः । | यथाशक्ति । |
पुंसवनसीमन्तोन्नयनकर्म्मणि भोजनम् । | ज्ञानाभ्यासे चान्द्रायणम् । | ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । |
अज्ञानाभ्यासे तदर्द्धम् । | ४ धेनवः । | ११ । ० कार्षापणाः । | यथाशक्ति । | |
सकृदज्ञाने विष्णूक्तकृच्छ्रपादः । | ० | ॥। ० पणाः । | यथाशक्ति । | |
सकृज्ज्ञाने द्वैगुण्यं कृच्छ्रार्द्धम् । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । | |
जातकर्म्मादिसंस्कारान्नभोजनम् । | अज्ञानतोऽसपिण्डानां द्ब्यहसाध्यं सान्तपनम् । | ० | १ कार्षापणः । | यथाशक्ति । |
ज्ञानतो द्वैगुण्यम् । | ० | २ कार्षापणौ । | यथाशक्ति । | |
भोजनकाले गुदस्मवः । | अहोरात्रमुषित्वा पञ्चगव्यपानम् । एतत् सकृन्निगीर्णग्रासे । | ० | ॥ ० पणाः । | यथाशक्ति । |
अत्यन्तग्रासाशने त्रिरात्रोपवासः । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । | |
भोजनकाले मृतसूतकाद्यशौचे तदन्नभक्षणम् । | ग्रासभोजने एकोपवासः । | ० | ॥ ० पणाः । | यथाशक्ति । |
सकलान्नभोजने त्रिरात्रोपवासः । अभोजने स्नानमात्रम् । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । | |
तैलाभ्यङ्गादिस्नानार्हस्याकृतस्नानस्य भोजनम् । | स्नात्वा अष्टोत्तरसहस्रगायत्त्रीजपः । अभ्यासे प्रायश्चित्तावृत्तिः । | ० | ० | ० |
अथोपपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
परिहितनीलीवस्त्रस्य भोजनम् । | अज्ञानतस्त्रिरात्रोपवासः । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । |
ज्ञानात् द्बैगुण्यम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । | |
स्वकीयोच्छिष्टभोजनम् । | कृच्छ्रपादः । एतत् सकृदज्ञानतः । अभ्यासे द्वैगुण्यादिकम् । त्यक्तभाजने भोजनेऽप्येवम् । | ० | ॥। ० पणाः । | यथाशक्ति । |
ब्राह्मणकर्त्तृकब्राह्मणोच्छिष्टभोजनम् । | महाव्याहृतिभिरामन्त्र्य जलं पीत्वा उपवसेत् । एतत् सकृदज्ञानतः । | ० | ॥ ० पणाः । | यथाशक्ति । |
ज्ञानात् द्वैगुण्यम् । | ० | १ कार्षापणः । | यथाशक्ति । | |
ब्राह्मणकर्त्तृकक्षत्त्रियोच्छिष्टभोजनम् । | सकृदज्ञाने त्र्यहं ब्राह्मीरसविपक्वक्षीरपानमात्रम् । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । |
ज्ञाने द्वैगुण्यम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । | |
ब्राह्मणकर्त्तृकवैश्योच्छिष्टभोजनम् । | सकृदज्ञाने त्र्यहोपवासः ब्रह्मसुवर्च्चलापानञ्च । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । |
ज्ञानात् द्वैगुण्यम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । | |
ब्राह्मणकर्त्तृकशूद्रोच्छिष्टभक्षणम् । | सकृदज्ञाने षड्रात्रोपवासः । ज्ञानात् द्बैगुण्यम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । |
ज्ञानाभ्यासे चान्द्रायणम् । क्षत्त्रियादीनां पादपादहानिः । एतन्मातृपितृज्येष्ठभ्रातॄणामुच्छिष्टव्यतिरिक्तविषयं तेषामुच्छिष्टस्य भोज्यत्वात् । | ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । | |
विडालकाकमूषिकनकुलश्वगवां उच्छिष्टभोजनम् । | त्र्यहोपवासः । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । |
एनत् सकृज्ज्ञानतः । अज्ञाने ब्रह्मसुवर्च्चलां पीत्वोपवासः । ब्रह्मसुवर्च्चला तु पीतकुसुमसूर्य्यावर्त्तः । | ० | ॥ ० पणाः । | यथाशक्ति । | |
अत्यन्ताभ्यासे अतिकृच्छ्रम् । | ३ धेनवः । | ९ कार्षापणाः । | यथाशक्ति । | |
ब्राह्मणस्य कुत्सितपङ्क्तौ भोजनम् । पङ्क्तेः कुत्सितत्वन्तु निब्दितब्राह्मणाद्युपवेशनेन जलादिना पङ्क्तिभेदमन्तरेण च भवति । | अहोरात्रोपवासः स्नानं पञ्चगव्यपानञ्च । एतत् ज्ञानतः । | ० | ॥ ० पणाः । | यथाशक्ति । |
क्षत्त्रियपङ्क्तौ भोजने नक्तव्रतम् । | ० | । ० पणाः । | यथाशक्ति । | |
वैश्यपङ्क्तौ एकरात्रोपवासः । | ० | ॥ ० पणाः । | यथाशक्ति । | |
शूद्रपङ्क्तौ त्रिरात्रोपवासः । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । | |
पङ्क्तिषु एकस्योत्थाने भोजनम् । | द्व्यहसाध्यसान्तपनम् । एतद्ब्राह्मणस्य । क्षत्त्रियादीनां पादपादहानिः । एतज्ज्ञानतः सकृत् । अज्ञानतोऽर्द्धम् । | ० | १ कार्षापणः । | यथाशक्ति । |
सुराभाजनस्थजलपानम् । | पक्षं यावकपानम् । एतज्ज्ञानतः । अज्ञानतोऽर्द्धम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । |
मद्यभाण्डस्थजलपानम् । | सप्तरात्रं यावकपानम् । एतज्ज्ञानतः । अज्ञानतोऽर्द्धम् । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । |
सुरासंस्पृ ष्टरेतोमूत्रादिदूषितजलादिपाने तु चतुरहसाध्यं तप्तकृच्छ्रम् । एतदपि स्वाद्बनुपलब्धावभ्यासे । | सपादधेन्वसम्भवात् २ धेनू । | ३ ॥। ० कार्षापणाः । | यथाशक्ति । | |
चण्डालकूपभाण्डोदकपानम् । | ब्राह्मणस्य सान्तपनम् । | २ धेनू । | ६ कार्षापणाः । | यथाशक्ति । |
क्षत्त्रियस्य प्राजापत्यम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । | |
वैश्यस्य प्राजापत्यार्द्धम् । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । | |
शूद्रस्य प्राजापत्यपादः । | ० | ॥। ० पणाः । | यथाशक्ति । | |
एतत् सर्व्वं ज्ञानतः । | ||||
अज्ञानादेतस्यार्द्धम् । | ||||
आपत्काले तु पूर्ब्बेद्युरुपोष्य पञ्चगव्यपानम् । | ० | ॥ ० पणाः । | यथाशक्ति । | |
अथोपपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
चण्डालस्पृ ष्टक्षीरजलादिपानम् । | त्रिरात्रमुपोष्य पञ्चगव्यपानम् । एतत् ज्ञानतः । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । |
अज्ञानात् द्व्यहसाध्यसान्तपनम् । | ० | १ कार्षापणः । | यथाशक्ति । | |
अन्त्यजखानितकूपादिजलपानम् । | उपवासपूर्ब्बकपञ्चगव्यपानम् । एतदज्ञानतः । | ० | ॥ ० पणाः । | यथाशक्ति । |
ज्ञातात् द्बैगुण्यम् । | ० | १ कार्षापणः । | यथाशक्ति । | |
अन्त्यजभाण्डस्थजलादिपानम् । | ब्राह्मणस्य द्व्यहसाध्यं ब्रह्मकूर्च्चव्रतम् । एतत् अज्ञानतः । ज्ञानतो द्बैगुण्यम् । | ० | १ कार्षापणः । | यथाशक्ति । |
शूद्रस्य नोपवासः पञ्चगव्यपानमात्रम् । ब्रह्मकूर्च्चं यथा । “अहोरात्रोषितो भूत्वा पौर्णमास्यां विशेषतः । पञ्चगव्यं पिबेत् प्रातर्ब्रह्मकूर्च्चविधिः स्मृतः ॥” पञ्चगव्यं यथा । “गोशकृत् द्विगुणं मूत्रं सर्पिर्विद्याच्चतुर्गुणम् । क्षीरमष्टगुणञ्चैव पञ्चगव्ये तथा दधि ॥” अथवा । “गोमूत्रमाषकास्त्वष्टौ गोमयस्य तु षोडश । क्षीरस्य द्बादश प्रोक्ता दध्नस्तु दश कीर्त्तिताः ॥ गोमूत्रवद्घृतस्योक्तास्तदर्द्धेन कुशोदकम् ॥” | ० | ॥ ० पणाः । | यथाशक्ति । | |
शूद्रोदकपानम् । | उपोष्य विल्वपद्मपलाशकुशानामुदकमात्रपानम् । एतद्द्व्यहसाध्यं ज्ञानतः सकृत्पाने । अज्ञानादर्द्धम् । नवभाण्डोदकपाने प्रायश्चित्ताभावः । | ० | १ कार्षापणः । | यथाशक्ति । |
पीतशेषपानीयपानम् । केवलवामहस्तेन जलपानञ्च । | त्रिरात्रोपवासः । एतच्च ज्ञानतः । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । |
अज्ञानतोऽर्द्धम् । एतत् प्रायश्चित्तं ग्रासशेषाशनादिष्वपि ज्ञेयम् । | ० | ॥। ० पणाः । | यथाशक्ति । | |
शूद्रपीतशेषजलपाने तु ब्राह्मणस्य चान्द्रावणम् । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । | |
प्रपादिजलपानम् । आदिना कूपजलाहरणार्थघटस्यजलं द्रोणीजलं खड्गादिकोषस्थजलञ्च । | सचेलस्नानम । उपवासश्च । एतत् सकृज्ज्ञानतः । आपदि दोषाभावः । | ० | ॥ ० पणाः । | यथाशक्ति । |
विण्मूत्रसंस्पृ ष्टकूपजलपानम् । | त्रिरात्रोपवासः । एतदज्ञानतः । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । |
ज्ञानतः सान्तपनम् । | २ धेनू । | ६ कार्षापणाः । | तथा । | |
विण्मूत्रसंस्पृ ष्टकुम्भस्थजलपानम् । | अज्ञानतः सान्तपनम् । ज्ञानतो द्वैगुण्यम् । | २ धेनू । | ६ कार्षापणाः । | यथाशक्ति । |
शवदूषितजलपानम् । एतत्मानुषेतराभक्ष्यपञ्चनखशवदूषितकूपजलपानपरम् । | ब्राह्मणस्य त्रिरात्रोपवासः । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । |
क्षत्त्रियस्य द्व्यहोपवासः । | ० | १ कार्षापणः । | यथाशक्ति । | |
वैश्यस्यैकाहोपवासः । | ० | ॥ ० पणाः । | यथाशक्ति । | |
शूद्रस्य नक्तम् । सर्व्वेषां व्रतान्ते पञ्चगव्यपानम् । एतत् ज्ञानतः । अज्ञानतोऽर्द्धम् । एतदक्लिन्नशवे । | ० | । ० पणाः । | यथाशक्ति । | |
ज्ञानतः क्लिन्ने षड्रात्रोपवासः । एतत् सर्व्वं मानुषशवेतरपरम् । मानुषशये द्विगुणम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । | |
कामाभ्यासे पराकः । | ५ धेनवः । | १५ कार्षापणाः । | यथाशक्ति । | |
अत्यन्ताभ्यासे चान्द्रायणम् । | ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । | |
अथोपपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
अपेयक्षीरपानम् । तत्क्षीरविकारपानञ्च । अपेयक्षीरं यथा । अनिर्द्दशानां गोमहिषीच्छागीनां क्षीरम् । औष्ट्रं ऐकशफं आविकञ्च । सन्धिनीक्षीरम् । सन्धिनी वृषाक्रान्ता । विवत्साक्षीरम् । अरण्यमृगीक्षीरम् । स्त्रीक्षीरम् । स्रवद्दुग्धाक्षीरम् । यमसूक्षीरम् । विवत्साया अन्यवत्सायाश्च क्षीरम् । मथितक्षीरम् । छागवर्ज्जं द्बिस्तनीक्षीरम् । अमेध्यभुजः क्षीरम् । व्रणादिदूषितस्तनीक्षीरञ्च । | ज्ञानतोऽभ्यासे पक्षं यावकपानम् । अज्ञानतोऽर्द्धम् । क्षत्त्रियादौ पादपादहानिः । अत्र उष्ट्रीक्षीरमानुषीक्षीरपाने पुनरुपनयनञ्च । इति अभक्ष्यभक्षणप्रायश्चित्तम् ॥ * ॥ | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । |
अथ स्तेयम् । मणिमुक्ताप्रवालाश्ममयलौहकांस्योपलानां हरणम् । | द्वादशाहं कणभक्षणम् । तत् षडुपवासात्मकम् । अपहृतद्रव्यं स्वामिने दत्त्वैतत् करणीयम् । अत्र च सकृदभ्यासकालदेशद्रव्यस्वाम्यपहर्त्तृगुणदैन्याद्यपेक्षया उत्कृष्टापकृष्टद्रव्ययोर्वैषम्यदोषः समर्थनीयः । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । |
रजताश्वगोभूमिकन्यानां सकृत् हरणम् । एतत् ब्राह्मणासम्बन्धिविषयम् । अत्र कन्यापदं अधमकन्यापरम् । | चान्द्रायणम् । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । |
उक्तेतरक्षुद्रपशुहरणम् । | प्राजापत्यम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । |
अभ्यासे चान्द्रायणम् । | ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । | |
धान्यान्नधनानां हरणम् । अन्नं कृतान्नम् । धनं गवादि । | अब्दकृच्छ्रम् । एतत् ब्राह्मणकर्त्तृकब्राह्मणस्वामिकदशकुम्भाधिकधान्यस्तेये ज्ञेयम् । कुम्भपरिमाणं यथा । दशद्रोणं भवेत् खारी कुम्भोऽपि द्रोणविंशतिः । | १५ धेनवः । | ४५ कार्षापणाः । | यथाशक्ति । |
द्विकालभोजनोचितभक्ष्यभोज्यान्नहरणे त्रिरात्रं पञ्चगव्यपानमात्रम् । भक्ष्यं मोदकादि । भोज्यं शक्त्वादि । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । | |
एककालभोजनोचितान्नहरणे एकरात्रं पञ्चगव्यमात्रपानम् । धनमपि एतत्परिमाणधान्यमूल्यमवसेयम् । | ० | ॥ ० पणाः । | यथाशक्ति । | |
मनुष्यादिस्तेयम् । तत्तु दासदासीक्षेत्रगृहकूपवापीजलानां हरणम् । | चान्द्रायणम् । क्षेत्रादीनान्तु उपयोगातिशयाद्यभ्यासाद्यपेक्षयास्त्येव प्रायश्चित्तं गुरुलाघवमिति । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । |
गुडादिस्तेयम् । आदिना कार्पाससर्पिर्लवणधान्यपक्वान्नौषधतैलशय्यावस्त्रोपानत्कांस्यलोहताम्रसीसकादयः । | कृच्छ्रपादः । एतत् सकृद्धरणविषयम् । अभ्यासे द्वैगुण्यम् । अत्र किञ्चिदधिकद्रोणत्रयस्य धान्यस्य तावद्धान्यमूल्यानाञ्चान्येषाञ्च हरणे एतद्वेदितव्यम् । | ० | ॥। ० पणाः । | यथाशक्ति । |
अथोपपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
तृणादिस्तेयम् । आदिना काष्ठद्रुमचेलचर्म्मामिषेक्षुतक्रमूलपुष्पवैदलसूत्रगन्धानां ग्रहणम् । वैदलं वेणुघटितभाण्डम् । गन्धः कस्तूर्य्यादिः । अत्रापवादः । अस्तेयमग्नये काष्ठमस्तेयञ्च तृणं गवे । | त्रिरात्रोपवासः । तृणादीनां हरणे मासैकव्रतम् । मासार्द्धव्रतञ्च । शङ्खमुनिना यदुक्तं तत् कालदेशापहर्त्तृस्वामिगुणदौर्गत्याभ्यासानभ्यासकामाकामापेक्षया उत्कृष्टापकृष्टद्रव्यापहारे च वेदितव्यम् । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । |
जीविकाहरणम् । | यस्य यस्य वर्णस्य वृत्तिच्छेदः तत्तद्वर्णवधोक्तं प्रायश्चित्तं कर्त्तव्यम् । | |||
अल्पवृत्त्यपहारे चान्द्रायणम् । अत्र चोत्तमाधमत्वे प्रयोजकादिकं सकृदभ्यासौ ज्ञानाज्ञाने च संवीक्ष्य वधोक्तपादार्द्धादिव्यवस्थोहनीया । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । | |
देवद्बिजद्रव्यापहरणम् । | संवत्सरमप्सु मज्जनं अघमर्षणावर्त्तनञ्च । यच्चात्र गुरुप्रायश्चित्तं मुन्यन्तरोक्तं तदत्यन्ताभ्यास उत्तमसम्बन्धादपेक्षया समूह्यम् । इति स्तेयप्रायश्चित्तम् ॥ * ॥ | |||
अथ अगम्यागमनम् । तत्र सवर्णासु अस्वजनस्त्रीगमनम् । तत्र ब्राह्मणस्य श्रोत्रियभार्य्यागमनम् । | सकृद्गमने त्रैवार्षिकव्रतम् । द्बितीये पाड्वार्षिकं तृतीये नववार्षिकं चतुर्थे संपूर्णं द्बादशवार्षिकम् । | ४५ धेनवः । | १३५ कार्षापणाः । | २५ गावः । अशक्तौ २५ कार्षापणाः । |
अश्रोत्रियनिर्गुणभार्य्यागमने द्वैवार्षिकव्रतम् । एतज्ज्ञानतः । अज्ञानादर्द्धम् । | ३० धेनवः । | ९० कार्षापणाः । | १७ गावः । अशक्तौ १६ ॥ १३ कार्षापणाः । | |
क्षत्त्रियस्य क्षत्त्रियभार्य्यागमनम् । | द्वैवार्षिकव्रतम् । एतज्ज्ञानतः । अज्ञानादर्द्धम् । अभ्यासे द्वैगुण्यादिकम् । | ३० धेनवः । | ९० कार्षापणाः । | १७ गावः । अशक्तौ १६ ॥ १३ कार्षापणाः । |
वैश्यस्य वैश्यभार्य्यागमनम् । | वार्षिकव्रतम् । एतज्ज्ञानतः । अज्ञानादर्द्धम् । | १५ धेनवः । | ४५ कार्षापणाः । | ९ गावः । अशक्तौ ८ । ७ कार्षापणाः । |
शूद्रस्य पञ्चयज्ञानुष्ठायिन्यायवृत्तशूद्रभार्य्यागमनम् । | वार्षिघ्रव्रतम् । एतज्ज्ञानतः । अज्ञानादर्द्धम् । | १५ धेनवः । | ४५ कार्षापणाः । | ९ गावः । अशक्तौ ८ । ७ कार्षापणाः । |
शूद्रस्यान्यशूद्रागमनम् । | षाण्मासिकव्रतम् । एतज्ज्ञानतः । अज्ञानादर्द्धम् । | ८ धेनवः । | २२ ॥ ० कार्षापणाः । | ५ गावः । अशक्तौ ४ १३ ॥ कार्षापणाः । |
ब्राह्मणस्य क्षत्त्रियागमनम् । | सार्द्धवार्षिकव्रतम् । एतत् सकृज्ज्ञानतः । अज्ञानादर्द्धम् । | २३ धेनवः । | ६७ ॥ ० कार्षापणाः । | १३ गावः । अशक्तौ १२ ॥ ० कार्षापणाः । |
ब्राह्मणस्य वैश्यागमनं विशिष्टशूद्रागमनञ्च । | षाण्मासिकव्रतम् । एतत् सकृज्ज्ञानतः । अज्ञानादर्द्धम् । | ८ धेनवः । | २२ ॥ ० कार्षापणाः । | ५ गावः । अशक्तौ ४ १३ ॥ कार्षापणाः । |
ब्राह्मणस्याधमशूद्रागमनम् । | सार्द्धमासिकव्रतम् । एतत् सकृज्ज्ञानतः । अज्ञानादर्द्धम् । | २ धेनू । | ५ ॥ ० कार्षापणाः । | १ गौः । अशक्तौ १ कार्षापणः । |
क्षत्त्रियश्य वैश्यभार्य्यागमनं सच्छूद्रागमनञ्च । | नवमासिकव्रतम् । एतत् सकृज्ज्ञानतः । अज्ञानादर्द्धम् । | १२ धेनवः । | ३३ ॥। ० कार्षापणाः । | ७ गावः । अशक्तौ ६ । ० कार्षापणाः । |
क्षत्त्रियस्याधमशूद्रागमनम् । | त्रैमासिकव्रतम् । एतत् सकृज्ज्ञानतः । अज्ञानादर्द्धम् । | ४ धेनवः । | ११ । ० कार्षापणाः । | २ गावौ । अशक्तौ २ कार्षापणौ । |
वैश्यस्य सच्छूद्रागमनम् । | वार्षिकव्रतम् । एतजज्ञानतः । अज्ञानादर्द्धम् । | १५ धेनवः । | ४५ कार्षापणाः । | ९ गावः । अशक्तौ ८ । ७ कार्षापणाः । |
वेश्यस्याधमशूद्रागमनम् । | सार्द्धचातुर्मामिकव्रतम् । एतज्ज्ञानतः । अज्ञानादर्द्धम् । | ६ धेनवः । | १६ ॥। ० कार्षापणाः । | ३ गावः । अशक्तौ ३ १ कार्षापणाः । |
अथ प्रतिलोमस्त्रीगमनम् । तत्र शहस्याज्ञानतो ब्राह्मणीगमनम् । | द्बादशवार्विकव्रतम् । ज्ञानात् गुर्व्वङ्गनागमनोक्तप्रकारेण मरणम् । | १८० धेनवः । | ५४० कार्षापणाः । | १०० गावः । अशक्तौ १०० कार्षापणाः । |
अथोपपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
वैकल्पिकं चतुर्विंशतिवार्षिकव्रतम् । एतद्ब्राह्मण्यापि करणियम् । | ३६० धेनवः । | १०८० कार्षापणाः । | २०० गावः । अशक्तौ २०० कार्षापणाः । | |
वैश्यस्याज्ञानतो ब्राह्मणीगमनम् । | नववार्षिकव्रतम् । ज्ञानाद्द्वैगुण्यम् । ब्राह्मण्यापि एतत् कार्य्यम् । | १३५ धेनवः । | ४०५ कार्षापणाः । | ७५ गावः । अशक्तौ ७५ कार्षापणाः । |
क्षत्त्रियस्याज्ञानतो ब्राह्मणीगमनम् । | षाड्वार्षिकव्रतम् । ज्ञानाद्द्वैगुण्यम् । ब्राह्मण्यापि एतत् कार्य्यम् । | ९० धेनवः । | २७० कार्षापणाः । | ५० गावः । अशक्तौ ५० कार्षापणाः । |
यद्यपि शूद्रस्य ब्राह्मणीगमनं महापातकत्वेन तथा क्षत्त्रियवैश्ययोर्ब्राह्मणीगमनमनुपातकत्वेन चोक्तं तथाप्यनुलोमगमनं तावदुपपातकमेव तत्प्रसङ्गादसवर्णत्वेन प्रतिलोमस्त्रीगमनप्रायश्चित्तमप्युक्तमतो न वैषम्यमिति । | ||||
शूद्रस्याज्ञानतः क्षत्त्रियागमनम् । | नववार्षिकव्रतम् । ज्ञानाद्द्वैगुण्यम् । क्षत्त्रियाया अप्येतत् । | १३५ धेनवः । | ४०५ कार्षापणाः । | ७५ गावः । अशक्तौ ७५ कार्षापणाः । |
वैश्यस्याज्ञानतः क्षत्त्रियागमनं शूद्रस्याज्ञानतो वैश्यागमनञ्च । | नवमासाधिकषाड्वार्षिकव्रतम् । ज्ञानाद्द्वैगुण्यम् । क्षत्त्रियाया वैश्यायाश्चाप्येतत् । | १०२ धेनवः । | ३०३ ॥। ० कार्षापणाः । | ५७ गावः । अशक्तौ ५६ । ० कार्षापणाः । |
अथ समोत्तमवर्णद्वित्रिपुरुषव्यभिचरितसवर्णासवर्णस्त्रीगमनम् । | ||||
तत्र ब्राह्मणस्य समोत्तमवर्णद्बित्रिपुरुषव्यभिचरितशूद्रागमनम् । | सकृद्गमने मासार्द्धं गोमूत्रसिद्धयावकपानम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । |
अभ्यासे मासं गोमूत्रसिद्धयावकपानम् । | २ धेनू । | ६ कार्षापणाः । | यथाशक्ति । | |
ब्राह्मणस्य समोत्तमवर्णद्बित्रिपुरुषव्यभिचरितक्षत्त्रियागमनम् । तथाविधवैश्यागमनञ्च । | सकृद्गमने सान्तपनम् । अभ्यासे प्रायश्चित्तावृत्तिः । | २ धेनू । | ६ कार्षापणाः । | यथाशक्ति । |
अथ चातुवर्ण्यस्वैरिणीगमनम् । स्वैरिणीचतुःपुरुषगामिनी । सा द्विविधा । केनचिदनवरुद्धा अवरुद्धा च । | ब्राह्मणस्य स्वैरिण्या ब्राह्मण्या गमने त्रिरात्रोपवासः ब्राह्मणाय मृगाजिनदानञ्च । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । |
तथाविधक्षत्त्रियाया गमने त्रिरात्रोपवासः धनुर्दानञ्च । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । | |
तथाविधवैश्याया गमने त्रिरात्रोपवासः अथःशिलादानञ्च । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । | |
तथाविधशूद्राया गमने त्रिरात्रोपवासः उदकुम्भदानन्तथा संमार्जनीदानञ्च । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । | |
ब्राह्मणस्य शूद्रान्त्यजादिगामिस्वैरिणीगमनम् । | द्बादशवार्षिकव्रतम् । क्षत्त्रियादौ पादपादहानिः । विमातृस्वैरिणीचाण्डालस्वैरिणीगमनेऽप्येवम् । सर्व्वत्राभ्यासे द्वैगुण्यम् । | १८० धेनवः । | ५४० कार्षापणाः । | १०० गावः । अशक्तौ १०० कार्षापणाः । |
ब्राह्मणबन्धकीगमनम् । बन्धकी चात्र स्वभर्त्तृव्यतिरिक्तपञ्चपुरुषगामिनी । | कमण्डलुदानम् । | ० | ० | यथाशक्ति । |
क्षत्त्रियबन्धकीगमनम् । | आयुधदानम् । | ० | ० | यथाशक्ति । |
अथोपपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
वैश्यबन्धकीगमनम् । | प्रतोददानम् । | ० | ० | यथाशक्ति । |
शूद्रबन्धकीगमनम् । | स्नानपुरःसरप्राणायामः । एतानि बन्धकीगमनप्रायश्चित्तानि सवर्णानुलोमप्रतिलोमविषयाणि ॥ * ॥ | ० | ० | ० |
अथ व्युत्क्रमविवाहः । तत्र ब्राह्मणस्य प्रथमतः क्षत्त्रियादिविवाहः । | दारव्यतिक्रमी खराजिनं वहिर्लोम परिधाय दारव्यतिक्रमिणे भिक्षां देहीति सप्तागाराणि चरेत् । सा वृत्तिः षण्मासान् । दारव्यतिक्रमी ब्राह्मणक्षत्त्रियवैश्यकन्याविवाहमकृत्वा यो ब्राह्मणः शूद्राविवाहं करोति स उच्यते । एतदनापदि सकृदज्ञानविषयम् । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । |
आपदि त्वाह शातातपः । ब्राह्मणो राजन्यापूर्ब्बी द्बादशरात्रं चरित्वा निर्व्विशेत् ताञ्चैवोपगच्छेत् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । | |
वैश्यापूर्ब्बी तप्तकृच्छ्रम् । | सपादधेन्वसम्भवात् २ धेनू । | ३ ॥। ० कार्षापणाः । | यथाशक्ति । | |
शूद्रापूर्ब्बी कृच्छ्रातिकृच्छ्रम् । | ५ धेनवः । | १५ कार्षापणाः । | यथाशक्ति । | |
अनापदि ज्ञानाभ्यासे मनूक्तत्रैवार्षिकव्रतम् । | ४५ धेनवः । | १३५ कार्षापणाः । | २५ गावः । अशक्तौ २५ कार्षापणाः । | |
वेश्यागमनम् । | प्राजापत्यम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । |
पञ्चाधिकपुरुषगामिनी वेश्या । | अभ्यासे चान्द्रायणम् । | ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । |
रजस्वलागमनम् । | त्रिरात्रोपवासः । घृतप्राशनञ्च । एतत् कामतः सकृद्गमने । अभ्यासे तु द्वैगुण्यादिकम् । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । |
ऋतौ भार्य्यानभिगमनम् । | त्रिरात्रोपवासः । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । |
ज्ञानाभ्यासे प्राजापत्यम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । | |
पर्व्वसु स्त्रीगमनम् । | एकोपवासः । | ० | ॥ ० पणाः । | यथाशक्ति । |
श्राद्धदिने मैथुनम् । | एकोपवासः । | ० | ॥ ० पणाः । | यथाशक्ति । |
दिवामैथुनम् । | एकाहं यावकपानम् । नग्नस्य स्नाने नग्नपरस्त्रीदर्शनेऽप्येवं प्रायश्चित्तम् । अभ्यासे प्रायश्चित्तावृत्तिः ॥ * ॥ | ० | ० | ० |
अथ स्त्रीव्यभिचारः । | समोत्तमवर्णेसु सकृदुपगमे प्राजापत्यम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । |
द्विरभ्यासे पराकः । | ५ धेनवः । | १५ कार्षापणाः । | यथाशक्ति । | |
त्रिरभ्यासे चान्द्रायणम् । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । | |
अन्त्यजागमनम् । अर्थात् रजकचर्म्मकारनटवरुडकैवर्त्तमेदभिल्लवेणुजीविशैलूषाणां स्त्रीषु गमनम् । | अज्ञानतश्चान्द्रायणम् । ज्ञानाद्द्वैगुण्यम् । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । |
चतुर्व्विंशतिवारगमने द्बादशवार्षिकव्रतम् । एतदज्ञानतः । ज्ञानतो द्बैगुण्यम् । अव्यवहार्य्यता च । | १८० धेनवः । | ५४० कार्षापणाः । | १०० गावः । अशक्तौ १०० कार्षापणाः । | |
कापालिकस्त्रीगमनम् । | ज्ञानादब्दकृच्छ्रम् । | ३० धेनवः । | ९० कार्षापणाः । | यथाशक्ति । |
अज्ञानाच्चान्द्रायणद्वयम् । | १५ धेनवः । | ४५ कार्षापणाः । | यथाशक्ति । | |
अथ तिर्य्यग्योनिगमनम् । तत्र गोवर्ज्जपशुगमनम् । | सचेलस्नानपूर्ब्बकं गोभ्यो यवसभारदानम् । इदं सकृद्गमने । | |||
गोगमनम् । | गोवधोक्तमासिकव्रतम् । एतत् सकृद्गमने । | ४ धेनवः । | १२ कार्षापणाः । | यथाशक्ति । |
अभ्यासे संवत्सरं प्राजापत्यम् । | ३० धेनवः । | ९० कार्षापणाः । | १७ गावः । अशक्तौ १६ ॥ १६ । कार्षापणाः । | |
अथोपपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
अत्यन्ताभ्यासे द्वादशवार्षिकव्रतम् । इत्युपपातके अगम्यागमनप्रायश्चित्तं समाप्तम् ॥ * ॥ | १८० धेनवः । | ५४० कार्षापणाः । | १०० गावः । अशक्तौ १०० कार्षापणाः । | |
अथ परिवेदनादि । | ज्येष्ठेऽनिर्व्विष्टे कनीयान्निर्व्विशन् परिवेत्ता । परिविण्णो ज्येष्ठः । परिवेदनीया कन्या । परिदायी दाता । परिकर्त्ता याजकः । ते सर्व्वे पतिताः । एतेषां प्रायश्चित्तम् । | |||
संवत्सरं प्राजापत्यम् । एतत् कामतः । अकामतोऽर्द्धम् । अत्रापवादः । “देशान्तरस्थक्लीवैकवृषणानसहोदरान् । वेश्याभिसक्तपतितशूद्रतुल्यातिरोगिणः ॥ जडमूकान्धवधिरकुब्जवामनकुण्ठकान् । अतिवृद्धानभार्य्यांश्च कृषिसक्तान्नृपस्य च । धनवृद्धिप्रसक्तांश्च कामतः कारिणस्तथा । कुलटोन्मत्तचौरांश्च परिविन्दन्न दुष्यति ॥” | ३० धेनवः । | ९० कार्षापणाः । | १७ गावः । अशक्तौ १६ ॥ १६ । कार्षापणाः । | |
व्रात्यत्वम् । अर्थात् सावित्रीपतितत्वम् । पञ्चदशाब्दपर्य्यन्तमुपनयनाभावे ब्राह्मणस्य व्रात्यत्वम् । एकविंशतिवर्षपर्य्यन्तमुपनयनाभावे क्षत्त्रियस्य व्रात्यत्वम् । त्रयोविंशतिवर्षपर्य्यन्तमुपनयनाभावे वैश्यस्य व्रात्यत्वम् । | पितृमातृरहितनिःस्वजनस्य सावित्रीपाते प्राजापत्यत्रयम् । यथाविध्युपनयनञ्च । आलस्यानवधानादिना सावित्रीपाते तु व्रात्यस्तोमयागः । | ३ धेनवः । | ९ कार्षापणाः । | यथाशक्ति । |
तद्वैकल्पिकं दिनत्रयाधिकमासचतुष्टयसमाप्यमुद्दालकव्रतम् । तद्व्रतं यथा । द्वौ मासौ यावकेन वर्त्तयेत् मासं पयसा अर्द्धमासमामिक्षया अष्टरात्रं घृतेन षड्रात्रमयाचितं त्रिरात्रमब्भक्ष्यः अहोरात्रमुपवसेत् । | सपादनवधेन्वसम्भवात् १० धेनवः । | २७ ॥। ० कार्षापणाः । | यथाशक्ति । | |
देशोपप्लवादिनासावित्रीपतने एकविंशतिरात्रं प्रसृतिमितयावकपानम् । तत उपनयनम् । | ४ धेनवः । | ९ ॥। ० कार्षापणाः । | यथाशक्ति । | |
अथावकीर्णम् । अर्थाद्ब्रह्मचारिणो योषिद्गमनम् । | षण्मासं ब्रह्महत्याव्रतम् । खरचर्म्मपरिधानञ्च । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | ५ गावः । अशक्तौ ४ १४ कार्षापणाः । |
अभ्यासे संवत्सरं ब्रह्महत्याव्रतम् । | १५ धेनवः । | ४५ कार्षापणाः । | ९ गावः । अशक्तौ ८ । ६ ॥। कार्षापणाः । | |
पितृष्वसृसुतादिपरिणयनम् । आदिना मातृष्वसृसुतामातुलसुतामातामहसपिण्डासगोत्रासमानप्रवरादीनां ग्रहणम् । | चान्द्रायणम् । त्यागानन्तरं मातृवद्भरणम् । एतत्ज्ञानतः । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । |
अज्ञाने कृच्छ्राब्दपादः । | ४ धेनवः । | ११ । ० कार्षापणाः । | यथाशक्ति । | |
अग्न्युत्सादनम् । अर्थात् अग्निहोत्रिणामग्नित्यागः । | कामतः संवत्सरोत्सन्ने चान्द्रायणम् । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । |
द्विवर्षोत्सन्ने सोमायनचान्द्रायणे । एतदनुसारेणोनाधिककालयोरुह्यम् । | सार्द्धाष्टधेन्वसम्भवात् ९ धेनवः । | २५ ॥ ० कार्षापणाः । | यथाशक्ति । | |
गृहस्थस्य चिरतरकालानग्नित्वम् । | गोवधोक्तत्रैमासिकव्रतम् । अल्पकाले अनाधाने च चान्द्रायणम् । | १२ धेनवः । | ३६ कार्षापणाः । | १० गावः । १ वृषः । अशक्तौ १५ कार्षापणाः । |
अथोपपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
ब्राह्मणस्य वेदानध्ययनं यज्ञाकरणं पुत्त्रानुत्पादनञ्च । | त्रैमासिकं गोव्रतम् । | १२ धेनवः । | ३६ कार्षापणाः । | १ वृषः । १० गावः । अशक्तौ १५ कार्षापणाः । |
अनाश्रमित्वम् । | संवत्सरे प्राजापत्यम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । |
वर्षद्बये अतिकृच्छ्रम् । | ३ धेनवः । | ९ कार्षापणाः । | यथाशक्ति । | |
वर्षत्रये कृच्छ्रातिकृच्छ्रम् । | ६ धेनवः । | १८ कार्षापणाः । | यथाशक्ति । | |
अत ऊर्द्ध्वं चान्द्रायणम् । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । | |
सूर्य्योदयास्तकालयोः शयनम् । | सकृदाचरणे स्नानम् । अभ्यासे प्राजापत्यम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । |
ब्रह्मचारिणः सन्ध्यादीनामतिक्रमः । आदिना अग्नीन्धनाकरणं भैक्ष्यचर्य्याकरणञ्च । | अरोगिणो निरन्तरं सप्तरात्रमकरणे अवकीर्णिव्रतम् । तत्तु खरचर्म्मपरिधानपूर्ब्बकषाण्मासिकं ब्रह्महत्याव्रतम् । एतदूने ऊनं अधिके अधिकम् । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | ५ गावः । अशक्तौ ४ १४ कार्षापणाः । |
अनातुरगृहस्थस्य सन्ध्यास्नानाह्निकनित्यक्रियापातः । | दिनैकनित्यक्रियातिपाते एकाहोपवासः । | ० | ६ रक्तिकरजतम् । | यथाशक्ति । |
दिनत्रयक्रियातिपाते कृच्छ्रार्द्धम् । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । | |
वर्षैकनित्यक्रियातिपाते एकदिनक्रियातिपातप्रायश्चित्तानुसरणेन प्रायश्चित्तम् । | ० | २ पल ६ तोलक४ माषकमितरजतम् । | यथाशक्ति । | |
शूद्रव्यतिरिक्तायाज्ययाजनम् । अयाज्याश्च निन्दितप्रतिग्रहादिना निन्दितब्राह्मणादयः । | शतगायत्त्रीजपः । | ० | ० | ० |
अभ्यासे सहस्राधिकं चान्द्रावणं वा । दक्षिणात्यागाच्च पूतो भवति । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । | |
शूद्रयाजनम् । | लोभादिना याजने अर्जितभुक्तावशिष्टधनस्यागाधजले प्रक्षेपपूर्ब्बकं ब्रह्मचारिणे दानपूर्ब्बकं वा चान्द्रायणं पुनरुपनयनञ्च । अक्षारलवणब्रह्मसुवर्च्चलापानञ्च । एतदशक्तौ तद्धनं परित्यज्य त्रिंशत्पुराणाः प्रदातव्याः । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । |
स्नेहादनुप्रसङ्गादिना याजने द्रव्यत्यागपूर्ब्बकं प्राजापत्यम् । अज्ञानतः प्राणायामसहस्रम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । | |
शूद्रप्रतिग्रहः । | सकृत्प्रतिग्रहे त्रिसहस्रगायत्त्रीजपः । | |||
अभ्यासे चान्द्रायणम् । एतच्च द्रव्यत्यागपूर्ब्बकं कार्य्यम् । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । | |
उच्छास्त्रवर्त्तिक्षत्त्रियनृपतिप्रतिग्रहः । | षष्ठे काले क्षीराशनं मासैकं जलवासः प्रचुरतरद्बिजतर्पणञ्च । मासोपवासेनैवास्य सङ्कलनम् । | १५ धेनवः । | ४५ कार्षापणाः । | यथाशक्ति । |
अथान्त्यजप्रतिग्रहः । स च अयाचितपुष्पफलशाकतृणकाष्ठधान्यपयोमांसदधिशय्यगिहकुशगन्धमणिमत्स्यादीतरविषयः । | ज्ञानादष्टचत्वारिंशद्बाराभ्यासात् द्बादशवार्षिकव्रतम् । | १८० धेनवः । | ५४० कार्षापणाः । | १०० गावः । अशक्तौ १०० कार्षापणाः । |
अज्ञानात् द्बिरभ्यासे तप्तकृच्छ्रम् । | ४ धेनवः । | १२ कार्षापणाः । | यथाशक्ति । | |
ज्ञानात् द्विरभ्यासे चान्द्रायणम् । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । | |
चाण्डालप्रतिग्रहः । | अज्ञानात् अष्टचत्वारिंशद्वाराभ्यासात् द्बादशवार्षिकव्रतम् । | १८० धेनवः । | ५४० कार्षापणाः । | १०० गावः । अशक्तौ १०० कार्षापणाः । |
अज्ञानात् सकृत्कृते तप्तकृच्छ्रम् । | ४ धेनवः । | १२ कार्षापणाः । | यथाशक्ति । | |
ज्ञानात् सकृत्कृते चान्द्रायणम् । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । | |
पतितप्रतिग्रहः । | ज्ञानात् सकृत्कृते चान्द्रायणम् । अज्ञानात्तदर्द्धम् । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । |
अथोपपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
प्रायश्चित्तद्रव्यग्रहणम् । | त्रिसहस्रगायत्त्रीजपः मासैकं गोष्ठे पयःपानं वा । एतत् लघुतरपापप्रायश्चित्तद्रव्यग्रहणे । | ० | ० | ० |
स्वभावाग्राह्यकृष्णाजिनोभयतोमुखीमण्यादिप्रतिग्रहः । | उत्तममण्यादिप्रतिग्रहे दशसहस्रगायत्त्रीजपः । मध्यमे पञ्चसहस्रगायत्त्रीजपः । अधमे अष्टोत्तरसहस्रसावित्रीजपः । द्बादशरात्रं पयोव्रतञ्च । अत्यन्तनिषिद्धकृष्णाजिनोभयतोमुखीप्रतिग्रहे लक्षगायत्त्रीजपः । | |||
अथ ब्राह्मणस्य क्षत्त्रियवैश्यवृत्त्या धनार्जनम् । | संवत्सरे चान्द्रायणम् । संवत्सराभ्यन्तरे मासैकद्विकदौ चान्द्रायणभागहारः कल्प्यः । संवत्सरादूर्द्ध्वं द्बैगुण्यत्रैगुण्यादिकं कल्प्यम् । आपत्काले दोषाभावः । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । |
ब्राह्मणस्य सेवावृत्तिधनार्ज्जनम् । | प्राजापत्यत्रयं पुनरुपनयनञ्च । द्रव्यत्यागपूर्ब्बकं करणीयम् । | ३ धेनवः । | ९ कार्षापणाः । | यथाशक्ति । |
ब्राह्मणस्य गीतादिना धनार्जनम् । | चान्द्रायणम् । कृतप्रायश्चित्तस्याप्यव्यवहार्य्यत्वम् । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । |
ब्राह्मणस्य शूद्रसेवनम् । | चान्द्रायणम् । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । |
चिरतरकालाभ्यासे त्रैवार्षिकव्रतम् | ४५ धेनवः । | १३५ कार्षापणाः । | २५ गावः । अशक्तौ २५ कार्षापणाः । | |
अविक्रेयविक्रयः । ब्राह्मणस्याविक्रेयद्रव्यानि यथा । लवण पक्वान्न मधु क्षीर दधि घृतोदक सर्व्वगन्धोपल लाक्षा रक्तवासः गुडतैल ग्राम्यपशु एकशफ केशि सर्व्वारण्यपशु विद्या याग खात गो शङ्ख ऊर्णा रस विष तिल शस्त्र नीली कौषेयवासः चर्म्म तक्राममांस सुरा सोम केश गोधूम कन्या हिङ्गु गुग्गुलु सर्जरस हरिताल मनःशिलाञ्जन गैरिक क्षार मणि मौक्तिक प्रवाल दन्त नख आर्द्रौषधि शुक्ति वेणु वैणव मृण्मयपात्र पुष्प मूल तुष कार्पास भस्मास्थि पिण्याक त्रपु सीसक कृष्णलोहोडुम्बर खड्गपात्राणि इत्यषिक्रेयाणि । | सकृत्कृते त्रिरात्रोपवासः । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । |
द्विरभ्यासे प्राजापत्यम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । | |
अत्यन्ताभ्यासे चान्द्रायणम् । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । | |
निखिलविक्रये बहुतरकालाभ्यासे वा त्रिसवनस्नानाधःशयनचतुर्थकालभोजनरूपसंवत्सरव्रतम् । शूद्रस्यात्यन्तापदि दोषाभावः । | १५ धेनवः । | ४५ कार्षापणाः । | ९ गावः । अशक्तौ ८ । ७ कार्षापणाः । | |
अथोपपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
निन्दितदेशगमनम् । तत्तु तीर्थयात्राव्यतिरेकेण । निन्दितदेशा यथा । कारस्करकलिङ्गोड्रान्ध्रशवरयुगन्धरभूमिलयसिन्धुसौराष्ट्रसौवीरप्रत्यन्तदेशाङ्गवङ्गकलिङ्गादयः । | एतान् गत्वा तत्रैव चिरमुसित्वा गङ्गादिगमनम् । तदशक्तौ पुनरुपनयनम् । | |||
अतिचिरवासे पुनरुपनयनं चान्द्रायणञ्च । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । | |
असत्याभिधानम् । | सकृदसत्यभाषणे कृष्णानुस्मरणम् । | |||
अत्यन्ताभ्यासे तप्तकृच्छ्रम् । | ४ धेनवः । | १२ कार्षापणाः । | यथाशक्ति । | |
अतिबहुतरकालाभ्यासे माससाध्यचान्द्रायणम् । साक्षिणोऽसत्यभाषणे ज्ञानाज्ञानतो द्वादशवार्षिकव्रतमित्युक्तमनुपातके । विवाहभयमैथुनबालप्रतारणपरीहासगोब्राह्मणहितस्त्रीराजस्वप्राणात्ययसर्व्वधनापहारविषयेषु मिथ्याकथने दोषाभावः । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । | |
उच्छिष्टस्य चाण्डालादिदर्शनम् । | दर्शने एकरात्रोपवासः । | ० | ॥ ० पणाः । | यथाशक्ति । |
सम्भाषणे द्विरात्रोपवासः । | ० | १ कार्षापणः । | यथाशक्ति । | |
संस्पर्शे त्रिरात्रोपवासः । सहगमने सचेलस्नानम् । अनुच्छिष्टस्य दर्शने सूर्य्यादिदर्शनम् । सम्भाषणे ब्राह्मणसम्भाषणम् । इदं ज्ञाने । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । | |
उच्छिष्टस्य सूर्य्यादिदर्शनम् । आदिना नक्षत्रचन्द्रौ । कामत इदम् । | एकोपवासः । | ० | ६ रक्तिकरजतम् । | यथाशक्ति । |
तैलाभ्यक्तादिमूत्रोच्चारसमुत्सर्गः । आदिना अनाचान्तश्मश्रुकर्म्मिमैथुनिनः । | एकोपवासः । | ० | ॥ ० पणाः । | यथाशक्ति । |
विप्राग्न्यादिमध्यगमनम् । आदिना दम्पतीगवोर्ग्रहणम् । | कामतोऽत्यन्ताभ्यासे चान्द्रायणम् । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । |
सकृदभ्यासादिषु तु स्नातकव्रतलोपप्रायश्चित्तम् । एकदिनाभोजनम् । तदावृत्तिश्चोहनीया । | ० | ॥ ० पणाः । | यथाशक्ति । | |
अग्नौ पादप्रतापनम् । कुशेन पादसम्मार्जनञ्च । | एकोपवासः । इदं सकृत्करणे । अभ्यासे द्वैगुण्यादिकम् । | ० | ॥ ० पणाः । | यथाशक्ति । |
गुरोर्ब्राह्मणस्य च तिरस्कारः । | दर्पेण हुङ्कारे त्वहङ्कारे वादेन जये वाससा बन्धने तृणेन ताडने च क्षिप्रं प्रसाद्य दिनमेकमुपवासः । एतदीषत्संरम्भतः सकृज्ज्ञेयम् । | ० | ॥ ० पणाः । | यथाशक्ति । |
शास्त्रीयविवादे दर्पात् पुनः पुनर्जये स्नात्वा प्रणिपत्य त्रिरात्रोपवासः । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । | |
प्रमादतः पादेन स्पर्शे एकरात्रोपवासः अभिवादनं प्रसादनञ्च । | ० | ॥ ० पणाः । | यथाशक्ति । | |
क्रोधादिना अनुबन्धापेक्षया त्र्यहप्राजापत्यादिकं कल्प्यम् । | ||||
महापातकेन ब्राह्मणस्य विरुद्धाभिधाने कृच्छ्रातिकृच्छ्रम् । | ५ धेनवः । | १५ कार्षापणाः । | यथाशक्ति । | |
अथोपपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
उपपातकेन ब्राह्मणस्य विरुद्धाभिधाने प्राजापत्यम् । जातिभ्रंशकरपातकोपपातकादन्यत्राक्रोशस्य लघुगुरुभावं प्रतिसन्धाय एकरात्रत्रिरात्रषड्रात्रोपवासाः । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । | |
प्रतिश्रुत्यादानादौ अल्पत्वबहुत्वाभ्याम् एकरात्रत्रिरात्रषड्रात्रोपवासाः । | ||||
देवर्षिगोब्राह्मणाचार्य्यमातृपितृनरेन्द्राणां प्रति ष्ठीवनाक्रोशे उल्मुकेन जिह्वा दाहो हिरण्यदानञ्च । गुरुब्राह्मणभिन्ने प्रत्याक्रोशने प्रतिताडने च दोषाभावः । | ||||
मिथ्याब्राह्मणशपथः । यावज्जीवसुकृतशपथश्च । | विप्रस्य वधसंयुक्तमिथ्याशपथे चान्द्रायणम् । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । |
यावज्जीवसुकृतशपथे प्राजापत्यम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । | |
अभिशापकरणम् । | मासमब्भक्षणम् । गायत्त्र्या वशिष्ठोक्तशुद्धवतीनां वा शतजपश्च । एतत् सकृन्महापातकाद्यभिशापे । उपपातके त्वभ्यासतो ज्ञेयम् । मृषामहापातकाभिशापाभ्यासे त्वावृत्तितारतम्यात् प्रायश्चित्ततारतम्यं कल्प्यम् । महापातकादन्यत्र एकविंशतिरात्रं सुवर्च्चलापानम् । हीनवर्णेन उत्तमवर्णाभिशापे प्रतिलोमोक्तदण्डव्यवस्थया प्रायश्चित्तं कल्प्यम् । | १३ धेनवः । | ३९ कार्षापणाः । | यथाशक्ति । |
अनृताभिशस्तता । | मासं कृच्छ्रम् । | सार्द्धधेनुद्वयासम्भवात् ३ धेनवः । | ७ ॥ ० कार्षापणाः । | यथाशक्ति । |
महापातकाभिशापे द्बिमासं कृच्छ्रम् । एतदभिशापकालातिक्रमे ज्ञेयम् । | ५ धेनवः । | १५ कार्षापणाः । | यथाशक्ति । | |
अभिशापकालनिर्णयप्रवृत्तस्य उपपातकादिना अभिशस्तस्य कृच्छ्रम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । | |
आरूढपतितत्वम् । व्याधिक्रोधादिना सन्न्यासवाक्यमुच्चार्य्य यो गृहस्थाश्रममाश्रयितुमिच्छति स आरूढपतितः तस्य भावः । | षण्मासान् प्राजापत्यम् । एतत् सन्न्यासग्रहणान्तरनिवृत्तानाम् । चिरतरकालसन्न्यासनिवृत्तस्य ब्राह्मणस्य श्वपदाङ्कनपूर्ब्बकनिर्व्वासनम् । क्षत्त्रियविशोर्दास्यकरणम् । | १५ धेनवः । | ४५ कार्षापणाः । | यथाशक्ति । |
यावज्जीवव्रतानुष्ठानप्रवृत्तयोः ब्रह्मचारिवाणप्रस्थयोः स्वधर्म्मनिवृत्तयोश्चान्द्रायणम् । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । | |
जलाग्न्यादिभ्रष्टता । आदिना उद्बन्धनप्रव्रज्यानशनविषप्रपतनप्रायोपवेशशस्त्रघातेभ्यो भ्रंशनम् । | चान्द्रायणं तप्तकृच्छ्रद्वयं वा । अभ्यासे त्रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि च । जातकर्म्मादिसंस्काराश्च । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । |
चिताभ्रष्टायाः प्राजापत्यम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । | |
व्रणकृम्यत्पपत्तिः | त्रिसन्ध्यं गोमयगोमूत्राभ्यां स्नानम् । त्र्यहं पञ्चगव्यकुशोदकमात्रपानञ्च । इदञ्च नाभ्यधोदेशदंशविषयम् । | |||
नाभेरूर्द्ध्वं क्रम्युत्पत्तौ षड्रात्रमुपवासः । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । | |
अथोपपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
शिरसि क्रिमिदंशने वृषदक्षिणायुक्तसान्तपनं तप्तकृच्छ्रं वा । | पादोनधेनुचतुष्टयासम्भवात् ४ धेनवः । | ११ । ० कार्षापणाः । | यथाशक्ति । | |
श्वादिदंशः । आदिना शृगालखरग्राम्यक्रव्यान्नराश्वोष्ट्रवराहपुंश्चलीवानरवायसानां दंशनम् । | पादयोररुधिरदर्शने जले प्राणायामः घृतप्राशनञ्च । पादयोरतिगाढदंशने नद्यां १६ प्राणायामाः । नाभेरधोगाढदंशने ब्रह्मचारिणस्त्र्यहं सायं पयःपानम् । | |||
गृहस्थस्य त्रिरात्रमुपवासः । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । | |
एकाहमग्निहोत्रिणः । नाभ्यूर्द्ध्वं दंशने एतद्द्वैगुण्यम् । बाह्वोश्चतुर्गुणम् । मूर्ध्नि षोडशगुणम् । इदं सरुधिरदंशने । नाभेरूर्द्ध्वमतिगाढदंशने सागरगनदीस्नानपूर्ब्बकोपवासः शतं प्राणायामावर्त्तनञ्च । | ० | ॥ ० पणाः । | यथाशक्ति । | |
व्रतस्थस्य श्वादिदंशने त्रिरात्रोपवासः सघृतयावकपानञ्च । बालस्याज्ञत्वे अशक्तत्वेवा तदीयपापक्षयं संकल्प्य पित्रादिः प्रायश्चित्तं कुर्य्यात् । दष्टस्थानस्य गायत्त्र्यष्टसहस्राभिमन्त्रणपूर्ब्बकमुल्मुके न दहनम् । चतुर्भिः कलसैर्नदीसङ्गमे वा स्नानम् । स्त्रियास्तु विशेषः । उदितसोमनक्षत्रदर्शनं समुद्रदर्शनं वा । कृष्णपक्षे चन्द्रगमनदिग्दर्शनम् । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । | |
विप्रादिहते चात्मघातमृते वा अश्रुपातजलादिदानम् । | दहनवहनकटक्रियातर्पणश्राद्धादौ तप्तकृकृच्छ्रम् । | ४ धेनवः । | १२ कार्षापणाः । | यथाशक्ति । |
तच्छवस्य केवलस्पर्शे अश्रुपाते वा एकाहोपवासः । | ० | ६ रक्तिकरजतम् । | यथाशक्ति । | |
अभ्यासे अनडुत्सहितगोदक्षिणायुक्ततप्तकृच्छ्रम् । | ४ धेनवः । | १२ कार्षापणाः । | १ वृषः । १ गौः । अशक्तौ ६ कार्षापणाः । | |
आत्मघातिनः स्नेहात् दाहादिकरणे तप्तकृच्छ्रसहितचान्द्रायणम् । बलात्कारेण उद्बन्धनमृतस्य पाशच्छेदनदहनवहनेषु मासं भैक्ष्यभक्षणं त्रिसवनस्नानञ्च । वेतनेन दहनवहनादिकरणे असम्बन्धिनां कृच्छ्रपादः । | १२ धेनवः । | ३४ ॥ ० कार्षापणाः । | यथाशक्ति । | |
दहनवहनव्यतिरेकेण कामतः सर्व्वाङ्गीनानभ्यासस्पर्शे प्राजापत्यम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । | |
तथैवाभ्यासे तप्तकृच्छ्रम् । द्विजस्य शूद्रशवानुगमने त्रिरात्राशौचं तदन्ते समुद्रगां नदीं गत्वा प्राणायामशतं कृत्वा घृतप्राशनम् । श्रवन्तीमासाद्य १००८ गायत्त्रीजपो वा । द्विजस्य द्विजशवानुगमने १०८ गायत्त्रीजपः । शूद्रस्य सर्व्वशवानुगमने स्नानम् । | ४ धेनवः । | १२ कार्षापणाः । | यथाशक्ति । | |
वलातुकारितम्लेच्छदास्याशुभकर्म्म । | म्लेच्छैश्चाण्डालाद्यैर्दस्युभिः उच्छिष्टमार्ज्जनोच्छिष्टभक्षणखरोष्ट्रविड्वराहमांसभक्षणम्लेच्छस्त्रीसङ्गतदीयस्त्रीसहभोजना- | |||
अथोपपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
दिकुत्सितकर्म्म बलान्मासैकं कारितस्य निरग्निद्बिजातेः प्राजापत्यम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । | |
साग्नेश्चान्द्रायणम् । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । | |
क्षत्त्रियवैश्ययोः पराकः । | ५ धेनवः । | १५ कार्षापणाः । | यथाशक्ति । | |
शूद्रस्य मासार्द्धं यावकपानम् । वत्सरादूर्द्ध्वं वर्षचतुष्टयं यावत् भागहारेण प्रायश्चित्तमूहनीयम् । तदूर्द्ध्वं तत्समत्वात् पतितत्वेन प्रायश्चित्तान्तराभावान्मरणम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । | |
अनुदकमूत्रपुरीषकरणम् । | सचेलस्नानं गोस्पर्शश्च । अभ्यासे एकोपवासः सचेलस्नानञ्च । | ० | ॥ ० पणाः । | यथाशक्ति । |
जलाग्न्योरशुचिद्रव्यप्रक्षेपः । | मासं यावकपानम् । एतदभ्यासे । | २ धेनू । | ६ कार्षापणाः । | यथाशक्ति । |
ज्ञानत ईषदार्त्तस्य त्रिरात्रोपवासः । इदमापः प्रहरत इति जपश्च । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । | |
अनार्त्तस्य कौतूहलादिना तप्तकृच्छ्रम् । | ४ धेनवः । | १२ कार्षापणाः । | यथाशक्ति । | |
अन्योन्यानुक्तद्बेषोत्पादनम् । अर्थान्मैत्र्यच्छेदकरणम् । | अहोरात्रमनश्नन् भूत्वा पयःपानम् । | ० | ५ रजतमाषकाः । | धनुर्दण्डश्च । |
शक्रधनुःपलाशाग्निदर्शकत्वम् । | इदं शक्रधनुरिति व्यपदिश्य कामतो दर्शयित्वाहोरात्रोपवासः । | ० | ३ रूप्यमाषकाः । | यथाशक्ति । |
श्राद्धनिमन्त्रितब्राह्मणानाह्वानम् । | यतिचान्द्रायणम् । | ४ धेनवः । | ११ । ० कार्षापणाः । | यथाशक्ति । |
देवागारकृतेष्टकाकाष्ठशिलादिना गृहकरणम् । | प्राजापत्यम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । |
निष्ठीवनादि । आदिना वातकर्म्मदन्तश्लिष्टानृतक्षुत्पतितसम्भाषणवासःपरिधानानि । | आचमनम् । गोपृष्ठस्पर्शः । अर्कदर्शनम् । दक्षिणश्रवणस्पर्शो वा । अत्र पूर्ब्बाभावे ततः परम् । इन्द्रियप्रसृष्टामेध्यस्य मुखस्पर्शे स्नानम् । | |||
यतीनां व्रतोपव्रतभङ्गः । व्रतानि यथा । अहिंसासत्यास्तेयमैथुनवर्ज्जनानि । उपव्रतानि यथा । अक्रोधगुरुशुश्रूषाप्रमादशौचाहारशुद्धीनि । | अहोरात्रोपवासपूर्ब्बकचान्द्रायणम् । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । |
रमणेच्छया स्त्रीसमीपगमने प्राणायामशतपूर्ब्बकसान्तपनम् । | २ धेनू । | ६ कार्षापणाः । | यथाशक्ति । | |
असद्बादे उपवासः प्राणायामशतञ्च । | ० | ॥ ० पणाः । | यथाशक्ति । | |
अकामतः पशुक्रिमिहिंसायां कृच्छ्रातिकृच्छ्रम् । | ६ धेनवः । | १८ कार्षापणाः । | यथाशक्ति । | |
चान्द्रायणं वा । इन्द्रियदौर्बल्यात् स्त्रीदर्शनात् स्कन्दने षोडशप्राणायामाः । स्त्रियं विना कामतो दिवास्कन्दने त्रिरात्रोपवासः प्राणायामशताचरणञ्च । रात्रौ स्कन्दने स्नानपूर्ब्बकद्बादशप्राणायामाः । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । | |
एकान्नमधुमांसामश्राद्धप्रत्यक्षलवणानामभोन्यानामेकैकस्य भोजने प्राजापत्यम् । योगिनां प्रमादे योगेन शुद्धिः । ज्ञानिनां ज्ञानमेव शुद्धिकारणम् । ब्रह्मचारिणोऽकामतः स्वप्ने रेतस्खलने स्नानम् । अर्कार्च्चनम् । त्रिः पुनर्मामित्यृचो जपश्च । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । | |
अथोपपातकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
व्रतभङ्गः । | लोभान्मोहात् प्रमादाद्वा व्रतभङ्गे उपवासत्रयं केशमुण्डनञ्च । | १ ॥ ० कार्षापणः । | यथाशक्ति । | |
उष्ट्ररासभयानम् । | कामतः सकृदारोहणे नग्नस्नाने च प्राणायामः । | |||
अभ्यासे त्रिरात्रोपवासः । अव्यवधानेनारोहणे नग्नस्य ईषदभ्यस्तस्नानभोजने च प्राणायामशतम् । अत्र उपपातकगणपठितेषु यत्र प्रायश्चित्तं नोक्तं तत्रोपपातकसामान्यप्रायश्चित्तमेव ग्राह्यम् । तत्तु मनूक्तं त्रैमासिकं गोव्रतं चान्द्रायणं वा । याज्ञवल्क्योक्तं मासं पयःपानं पराको वा । एतान्येव प्रायश्चित्तानि पापस्य गुरुलाघवमवगम्य व्यवस्थेयानि ॥ * ॥ | १ ॥ ० कार्षापणः । | यथाशक्ति । | ||
अथ जातिभ्रंशकरपापानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
ब्राह्मणपीडाकरणम् । | कामतः सान्तपनम् । | २ धेनू । | ६ कार्षापणाः । | यथाशक्ति । |
लशुनादिमद्ययोर्घ्राणम् । मित्रे कौटिल्यम् । पुंसि मैथुनञ्च । | अकामतः प्राजापत्यम् । एतच्चाभ्यासे । अत्रायं विशेषः । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । |
ब्राह्मणावगोरणे प्राजापत्यम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । | |
ब्राह्मणे दण्डादिनिपातने अतिकृच्छ्रम् । | ३ धेनवः । | ९ कार्षापणाः । | यथाशक्ति । | |
ब्राह्मणस्य शोणितोत्पादने कृच्छ्रातिकृच्छ्रम् । | ५ धेनवः । | १५ कार्षापणाः । | यथाशक्ति । | |
ब्राह्मणाङ्गच्छेदने कृच्छ्रातिकृच्छ्रम् । | ५ धेनवः । | १५ कार्षापणाः । | यथाशक्ति । | |
चान्द्रायणम् । दशगोदानञ्च । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । | |
अथ सङ्करीकरणपापानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
खराश्वोष्ट्रमृगहस्तिच्छागमेषमीनाहिमहिषाणां वधरूपाणि । | सकृत्करणे मासं यावकपानम् । | २ धेनू । | ६ कार्षापणाः । | यथाशक्ति । |
अभ्यासे कृच्छ्रातिकृच्छ्रम् । | ५ धेनवः । | १५ कार्षापणाः । | यथाशक्ति । | |
अत्यन्ताभ्यासे चान्द्रायणम् । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । | |
अथापात्रीकरणपापानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
निन्दितेभ्यो धनादानम् । बाणिज्यम् । शूद्रसेवनम् । असत्यभाषणञ्च । | सकृत्करणे चतुरहसाध्यं तप्तकृच्छ्रं शीतकृच्छ्रं वा । | सपादधेन्वसम्भवात् २ धेनू । | ३ ॥। ० कार्षापणाः । | यथाशक्ति । |
अभ्यासे महासान्तपनम् । | ६ धेनवः । | १८ कार्षापणाः । | यथाशक्ति । | |
अत्यन्ताभ्यासे चान्द्रायणम् । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । | |
अथ मलावहपापानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
कृमिकीटपक्षिणां हननम् । मद्या नुगतद्रव्यभोजनम् । फलकाष्ठपुष्पाणां स्तेयम् । अधैर्य्यम् । तच्च गीतश्रवणादि । अल्पेऽपचये अत्यन्तवैकृत्यञ्च । | सकृदाचरणे त्र्यहयावकपानम् । | ० | ॥ १२ | यथाशक्ति । |
अभ्यासे तप्तकृच्छ्रम् । | ४ धेनवः । | १२ कार्षापणाः । | यथाशक्ति । | |
अत्यन्ताभ्यासे कृच्छ्रातिकृच्छ्रम् । एषु चतुर्षु यत्र यत्र प्रायश्चित्तविशेषो नोक्तस्तत्रैव बोध्यम् । | ५ धेनवः । | १५ कार्षापणाः । | यथाशक्ति । | |
अथ प्रकीर्णकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
यदनुक्तं तत्प्रकीर्णकम् । इतिवचनात् अतिपातकाद्यष्टान्यतमत्वेन विशेषतोऽनुक्तानि पापानि । | चान्द्रायणम् । पराकः । तुलापुरुषः । गवानुगमनम् । प्राजापत्यम् । एतानि सर्व्वपापप्रणाशकानि । पापस्य गुरुलाघवं वीक्ष्य प्रायश्चित्तान्येतानि शिष्टैर्व्यवस्थेयानि । | |||
अथास्पृ श्यस्पर्शनम् । तच्च चाण्डालरजस्वलापतितसूतिकाशवशवस्पृ ष्टिव्यङ्गोन्मत्तासूयिकग्राम्याश्वकुक्कुटवराहादीनां स्पर्शनम् । | अनुच्छिष्टस्य चाण्डालादिस्पर्शे अकामतः सचेलं सशिरस्कं स्नानम् । कामतः सचेलस्नानम् । महाव्याहृतिभिर्होमः । घृतप्राशनञ्च । चिताधूमस्पर्शे ऋतुकालीनमैथुने दुःस्वप्ने वमने विरेके श्मश्रुकर्म्मणि यूपभक्ष्यपञ्चनखशवसस्नेहतदस्थ्नां स्पर्शे स्नानपूर्ब्बकं प्रक्षालितवस्त्रपरिधानम् । अनृतौ मैथुने मूत्रपुरीषत्यागवच्छुद्धिः । | |||
सर्व्वाङ्गस्पर्शे त्रिरात्रोपवासः । रात्रौ शववर्जास्पृ श्यस्पर्शने सुवर्णं प्रक्षिप्य अग्निं सन्निधाप्य दिवाहृतजलैः स्नानम् । सर्व्वत्र प्रागन्नप्राशनात् शिशोरभ्युक्षणम् । प्राक् चूडाकरणात् बालस्याचमनम् । प्रागुपनयनात् कुमारस्य स्नानम् । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । | |
अथोच्छिष्टस्य चाण्डालादिस्पर्शः । आदिना पतितरजस्वलान्त्यजश्वशूकरमद्यभाण्डानां ग्रहणम् । | सद्यः स्नात्वा परदिने प्रायश्चित्तं करणीयम् । | |||
ऊर्द्ध्वोच्छिष्टस्य प्राजापत्यम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । | |
कामाभ्यासे सान्तपनम् । | ४ धेनवः । | १२ कार्षापणाः । | यथाशक्ति । | |
अज्ञाने त्रिरात्रोपवासः । पञ्चगव्यपानञ्च । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । | |
अर्द्धोच्छिष्टस्य अर्थादनिगीर्णग्रासस्य आमाशनोच्छिष्टस्य च प्राजापत्यपादः । | ० | ॥। ० पणाः । | यथाशक्ति । | |
आपदि ज्ञानात् विशेषो यथा । | ||||
मूत्रत्यागाशौचिनः शवादिस्पर्शे एकोपवासः । | ० | ॥ ० पणाः । | यथाशक्ति । | |
पुरीषत्यागाशौचिनः शवादिस्पर्शे दिनद्वयमुपवासः । | ० | १ कार्षापणः । | यथाशक्ति । | |
मैथुनाशौचिनः शवादिस्तर्शे दिनत्रयमुपवासः । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । | |
पानाशुचीनां शवादिस्पर्शे दिनचतुष्टयमुपवासः । | ० | २ कार्षापणौ । | यथाशक्ति । | |
अथ तलाभ्यक्तस्य चाण्डालादिस्पर्शः । | उपवासः । पञ्चगव्यपानञ्च । चाण्डालोदकसंस्पृ ष्टस्य स्नानम् । | ० | ॥ ० पणाः । | यथाशक्ति । |
उच्छिष्टस्य चाण्डालोदकस्पर्शे त्रिरात्रोपवासः । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । | |
अथ प्रकीर्णकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
अथरजकादिस्पर्शः । आदिना चर्म्मारवेणधीवरनटानां ग्रहणम् । | अनुच्छिष्टस्य द्बिजस्य रजकादिभिरकामतः स्पर्शे आचमनम् । कामतः शिरोव्यतिरिक्ताङ्गस्पर्शे तदङ्गप्रक्षालनपूर्ब्बकमाचमनम् । शिरःस्पर्शे स्नानम् । उच्छिष्टस्य तु ब्राह्मणस्यानुच्छिष्टचर्म्मकारादिस्पर्शे एकरात्रं पयःपानम् । | |||
उच्छिष्टचर्म्मकारादिकर्त्तृकस्पर्शे त्रिरात्रोपवासान्ते घृतप्राशनम् । ज्ञानत ऊर्द्ध्वोच्छिष्टविषयञ्चेदम् । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । | |
अज्ञानतस्तदर्द्धम् । | ० | ॥। ० पणाः । | यथाशक्ति । | |
अथोच्छिष्टस्य ब्राह्मणस्योच्छिष्टसच्छूद्रस्पर्शः । | एकोपवासानन्तरं पञ्चगव्यपानम् । कामत इदम् । | ० | ॥ ० पणाः । | यथाशक्ति । |
अकामेऽधोच्छिष्टे च नक्तम् । शुनः स्पर्शेऽप्येवम् । | ० | २ रजतरक्तिके । | यथाशक्ति । | |
अथोच्छिष्टोच्छिष्टसवर्णस्पर्शः । | द्बयोरेवोच्छिष्टयोर्ब्राह्मणयोरन्योन्यस्पर्शे तदन्नत्यागपूर्ब्बकं स्नानम् । अत उच्छिष्टस्य विप्रस्यानुच्छिष्टविप्रस्पर्शे दोषाभाव एव । एतदकामतः । | |||
कामतो नक्तपूर्ब्बं घृताशनम् । | ० | २ रजतरक्तिके । | यथाशक्ति । | |
उच्छिष्टब्राह्मणस्योच्छिष्टक्षत्त्रस्पर्शे नक्तम् । | ० | २ रजतरक्तिके । | यथाशक्ति । | |
तादृशवैश्यस्पर्शे उपवासः । भुञ्जानयोः सवर्णयोः परस्परस्पर्शे तदन्नत्यागपूर्ब्बकं स्नानं प्राणायामश्च । अज्ञानात्तदन्नभोजने परदिने नक्तं पञ्चगव्यपानम् । तदन्ते भोजने न दोषः । | ० | ॥ ० पणाः । | यथाशक्ति । | |
ज्ञानात् उपवासानन्तरं ब्रह्मकूर्च्चपानं हविष्यभोजनञ्च । | ० | ॥ ० पणाः । | यथाशक्ति । | |
शूद्रस्यापि विशेषाश्रवणादुच्छिष्टोच्छिष्टसंस्पर्शे एतदेव । नक्ताशक्तौ रजतरक्तिकाद्वयं देयम् । | ||||
अथ नीलीवस्त्रपरिधानम् । | अहोरात्रोपवासानन्तरं पञ्चगव्यपानम् । इदमज्ञाने । ज्ञाने द्वैगुण्यम् । | ० | ॥ ० पणाः । | यथाशक्ति । |
पालनाद्बिक्रयात्तद्वृत्तैरुपजीवनात् त्रीणि कृच्छ्राणि । नीलीवस्त्रधारिणां स्नानदानतपोहोमस्वाध्यायपितृतर्पणमहायज्ञानां वृथात्वम् । स्त्रीणां क्रीडार्थसंयोगे शयनीये न दोषः । | ३ धेनवः । | ९ कार्षापणाः । | यथाशक्ति । | |
अथ पलाण्डुलशुनादिस्पर्शः । आदिना सुरामद्यशूद्रोच्छिष्टानां ग्रहणम् । | ऊर्द्ध्वोच्छिष्टस्य द्बिजस्य कामतः स्पर्शे त्र्यहं कुशजलपानं सावित्रीशतजपश्च । | ० | १ ॥ ० कार्षापणलभ्यकाञ्चनम् । | यथाशक्ति । |
मूत्रोच्छिष्टस्य स्पर्शे नक्तम् । | ० | २ रजतरक्तिके । | यथाशक्ति । | |
कृतपुरीषोत्सर्गस्य पलाण्डुलशुनादिस्पर्शे एकोपवासः । | ० | ॥ ० पणाः । | यथाशक्ति । | |
ऊर्द्ध्वोच्छिष्टस्य द्ब्यहोपवासः । | ० | १ कार्षापणः । | यथाशक्ति । | |
एतत्त्रयमकामतः । | ||||
अनुच्छिष्टस्य स्पर्शे केवलं स्नानम् । | ||||
अथ प्रकीर्णकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
अधोच्छिष्टस्य कामतः सुरेतरमद्यस्पर्शे अकामतः शूद्रोच्छिष्टस्य लशुलादीनाञ्च स्पर्शे अहोरात्रोपवासः । पञ्चगव्यपानञ्च । | ० | ॥ ० पणाः । | यथाशक्ति । | |
कामतः सुराया दर्शने स्नानं प्राणायामत्रयं घृतप्राशनञ्च । | ||||
अकामतः सुरायाः स्पर्शने घ्राणे चाप्येवम् । | ||||
कामतस्तस्याः स्पर्शे घ्राणे च जातिभ्रंशकरपापस्य प्रायश्चित्तं ज्ञेयम् । असोमपायिनां सुरापसम्बन्धिसुराघ्राणे उदकमज्जनं त्रिरघमर्षणं घृतप्राशनञ्च । | ||||
अथोच्छिष्टस्य नरादिपुरीषस्पर्शः । आदिना श्वकाककङ्कगृध्रादिग्रहणम् । | अधोच्छिष्टस्य सचेलस्नानम् । | |||
ऊर्द्ध्वोच्छिष्टस्योपवासः । पञ्चगव्यपानञ्च । | ० | ॥ ० पणाः । | यथाशक्ति । | |
अथानुच्छिष्टस्य मलस्पर्शः । मला यथा । “वसाशुक्रमसृङ्मज्जामूत्रविट्कर्णविण्णखाः । श्लेष्माश्रुदूषिका स्वेदो द्वादशैते नृणां मलाः ॥” | पूर्ब्बेषां षण्णां नाभेरधः करद्वये च स्पर्शे मृज्जलाभ्यां क्षालनम् । उत्तरेषां षण्णां नाभेरधः करद्वये च स्पर्शे केवलजलेन क्षालनम् । नाभेरूर्द्ध्वं विण्मूत्रप्रभृतिस्पर्शे स्नानम् । चक्षुषि ओष्ठे बाहुकरयोश्च स्पर्शे मृत्तोयगोमयैस्तदङ्गक्षालनं स्नानं उपवासः पञ्चगव्यपानञ्च । | ० | ॥ ० पणाः । | यथाशक्ति । |
भासवानरमार्जारखरोष्ट्रशूकराणाममेध्यस्पर्शे सचेलं स्नानम् । | ||||
एतदपि अनुच्छिष्टस्य नाभ्यूर्द्ध्वलेपोपहतविषयम् । अध उच्छिष्टविषयञ्च । | ||||
काकवलाहकाभ्यां विष्ठितस्य श्रोत्रमुखाप्रविष्टामेध्यलिप्तशरीरस्य च तदङ्गक्षालनं स्नानञ्च । अमेध्यानि यथा । “मानुषास्थि शवं विष्ठा रेतो मूत्रार्त्तवं वसा । स्वेदाश्रुदूषिका श्लेष्मा मद्यञ्चामेध्यमुच्यते ॥” एषां देहात् प्रच्युतानामेवामेध्यत्वम् । मद्यविण्मूत्रविप्रुषां मुखमण्डलस्पर्शे मृत्तिकागोमयैर्लेपनं स्नानं उपवासः । तदन्ते पञ्चगव्यपानञ्च । अत्र विशेषो यथा । परस्य मानुषस्यास्थिवसाविष्ठार्त्तवमूत्ररेतोमज्जशोणितानां स्पर्शे लेपमार्जनं स्नानं आचमनञ्च । आत्मसम्बन्धिनामेतेषां स्पर्शे परिमार्ज्जनमाचमनञ्च । | ० | ॥ ० पणाः । | यथाशक्ति । | |
अथ मानुषास्थिस्पर्शः । | सस्नेहमानुषास्थिस्पर्शे स्नानम् । | |||
कामतः स्पर्शे स्नानं गायत्त्र्यष्टशतजपः । घृतप्राशनं त्रिराचमनञ्च । | ||||
कामतोऽत्यन्ताभ्यासे त्रिरात्राशौचान्ते कृच्छ्रपादः । | ० | ॥। ० पणाः । | यथाशक्ति । | |
निःस्नेहस्य स्पर्शे आचमनं गोस्पर्शः अर्कदर्शनं वा । कामतोऽत्यन्ताभ्यासे अहोरात्राशौचान्ते एतानि कार्य्याणि । | ||||
अथ रुद्रनिर्म्माल्यस्पर्शः । | सचेलस्नानम् । | ० | ० | ० |
अथ रजस्वलायाः सवर्णासवर्णरजस्वलास्पर्शः । | रजस्वलाया ब्राह्मण्याः सवर्णरजस्वलास्पर्शे एकरात्रोपवासः । पञ्चगव्यपानञ्च । एतत् कामतः । | ० | ॥ ० पणाः । | यथाशक्ति । |
अथ प्रकीर्णकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
अकामतस्तदर्द्धं अर्थान्नक्तव्रतम् । | ० | । ० पणाः । | यथाशक्ति । | |
रजस्वलाया ब्राह्मण्याः शेषवर्णरजस्वलायाः अर्थात् क्षत्त्रियादिरजस्वलायाः स्पर्शे षड्रात्रोपवासः । एतच्च कामतः । अकामतस्तदर्द्धम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । | |
रजस्वलायाः शूद्रायाः सवर्णरजस्वलास्पर्शे एकरात्रोपवासः पञ्चगव्यपानञ्च । | ० | ॥ ० पणाः । | यथाशक्ति । | |
सवर्णयो रजस्वलयोरन्योन्यस्पर्शे एकोपवासः पञ्चगव्यपानञ्च । | ० | ॥ ० पणाः । | यथाशक्ति । | |
अत्यन्ताधमरजक्यादिरजस्वलास्पर्शे द्व्यहसाध्यं ब्रह्मकूर्च्चव्रतम् । | ० | १ कार्षापणलभ्यकाञ्चनम् । | यथाशक्ति । | |
एतच्च कामतः । | ||||
अकामतस्तदर्द्धम् । | ||||
एतत् सर्व्वं शुद्धिकालानन्तरं अर्थात् पञ्चमे ऽहनि कार्य्यम् । | ||||
अथ रजस्वलायाः पतितचाण्डालादिस्पर्शः । आदिना अन्त्यजवायसयोर्ग्रहणम् । | प्रथमेऽह्नि स्पर्शे त्रिरात्रोपवासः । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । |
द्बितीयेऽह्नि द्व्यहोपवासः । | ० | १ कार्षापणः । | यथाशक्ति । | |
तृतीयेऽह्नि अहोरात्रोपवासः । | ० | ॥ ० पणाः । | यथाशक्ति । | |
चतुर्थेऽह्नि विशुद्धिस्नानात् पूर्ब्बं स्पर्शे नक्तम् । | ० | १ रौप्यमाषकम् । | यथाशक्ति । | |
एतच्चाकामतः । | ||||
कामतः स्पर्शे सर्व्वत्र त्रिरात्रोपवासः । तदन्ते अजाघ्राता कारयितव्या च । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । | |
अथ रजस्वलाया उच्छिष्टशूद्राश्वशूकरादिस्पर्शः । आदिना जम्बूकखरग्राम्यकुक्कुटानां ग्रहणम् । | प्रथमद्वितीयदिनयोरुच्छिष्टशूद्रास्पर्शे द्ब्यहोपवासः । | ० | १ कार्षापणः । | यथाशक्ति । |
तृतीयदिने स्पर्शे एकोपवासः । | ० | ॥ ० पणाः । | यथाशक्ति । | |
चतुर्थदिने स्पर्शे नक्तम् । | ० | २ रजतमाषकौ । | यथाशक्ति । | |
कुक्कुटादिस्पर्शे सर्व्वत्र नक्तमेव । | ० | २ रजतमाषकौ । | यथाशक्ति । | |
एतच्च प्रायश्चित्तं विशुद्धिस्नानानन्तरं कर्त्तव्यम् । | ||||
एकवृक्षादौ रजस्वलायाश्चाण्डालस्पर्शे अहोरात्रोपवासः । पञ्चगव्यपानञ्च । | ० | ॥ ० पणाः । | यथाशक्ति । | |
रजस्वलाया उच्छिष्टचाण्डालादिस्पर्शे द्विजस्त्रीणां प्राजापत्यम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । | |
शूद्राया धेनुदानम् । | ||||
एषु प्रायश्चित्तेषु रजस्वलात्वमेव निमित्ततो न ब्राह्मण्यादिभ्यो विशेषः । अत्रापवादः । “तीर्थे विवाहे यात्रायां संग्रामे देशविप्लवे । नगरग्रामदाहे च स्पृष्टास्पृष्टि न दूष्यति ॥” | ||||
अथ चाण्डालादिसङ्करः । आदिना श्वपाकपुक्कसयोर्ग्रहणम् । | संवत्सरैकचाण्डालसङ्करे मासैकं गोमूत्रयावकाहारः । एतत् प्रायश्चित्तं यौनादिवर्जितसंसर्गविषयम् । | १२ धेनवः । | ३६ कार्षापणाः । | १०० गावः । अशक्तौ १०० कार्षापणाः । अभावे सर्व्वस्वम् । |
बालवृद्धस्त्रीशूद्राणामर्द्धम् । आषोडशाद्बालाः । सप्तत्यूर्द्ध्वं स्थविराः । | ६ धेनवः । | १८ कार्षापणाः । | ५० गावः । अशक्तौ ५० कार्षापणाः । अभावे सर्व्वस्वार्द्धम् । | |
चीर्णे प्रायश्चित्ते ब्राह्मणभोजनम् । | ||||
एतत् प्रायश्चित्तं ब्राह्मणक्षत्त्रियविशां तुल्यमेव । | ||||
अथ प्रकीर्णकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
पूर्ब्बोक्तकालादल्पकालसङ्करे चान्द्रायणम् । | सार्द्धसप्तधेन्वसम्भवात् ८ धेनवः । | २२ ॥ ० कार्षापणाः । | यथाशक्ति । | |
स्वल्पतरे पराकः । | ५ धेनवः । | १५ कार्षापणाः । | यथाशक्ति । | |
अत्यन्तस्वल्पकाले कृच्छ्रद्वयम् । | २ धेनू । | ६ कार्षापणाः । | यथाशक्ति । | |
शूद्रस्यात्र प्राजापत्यम् । | १ धेनुः । | ३ कार्षापणाः । | यथाशक्ति । | |
चाण्डालादिसङ्करे गृहादिशुद्धिर्यथा । भवनदहनं अर्थात् हुताशनज्वालासंस्पृष्टम् । पवनं अर्थात् पूर्ब्बमृत्तिकाकर्षणेन मृत्तिकान्तरदानम् । सर्व्वमृण्मयभाण्डमेदनम् । दारवाणां तक्षणम् । शङ्खशुक्तिरजतसुवर्णचेलानामद्भिः प्रक्षालनम् । कांस्यताम्राणामाकरे अर्थादग्नौ शुद्धिः । सौवीरपयोदधितक्राणां परित्यागः । लाक्षादिरसधान्यादिद्रव्याणां रक्षणम् । घृतादीनां तापनञ्च । | ||||
एकस्मिन्नेव कूपे द्विजानां चाण्डालानाञ्च सह जलपानं कुर्व्वतां संसर्गदुष्टानां उपवासः । पञ्चगव्यपानञ्च । | ० | ॥ ० पणाः । | यथाशक्ति । | |
बालापत्यारोगिगर्भिणीवृद्धानां नक्तम् । | ० | २ रजतरक्तिके । | यथाशक्ति । | |
बालानां प्रहरद्बयमभोजनम् । | ० | १ रजतरक्तिका । | यथाशक्ति । | |
चर्म्मकारादीनामविज्ञातसङ्करे तु चाण्डालसङ्करप्रायश्चित्तस्य षष्ठो भागः कर्त्तव्यः । संहतानां एकस्मिन्नुपहते तस्यैव शोधनम् । न तु तत्स्पृष्टिनां सर्व्वेषां शोधनम् । एकशाखापाषाणादौ चाण्डालादिभिः सहारोहणे ब्राह्मणस्य स्नानमात्रम् । | ||||
तत्र फलभोजने ब्राह्मणानुज्ञापनं सचेलस्नानं अहोरात्रोपवासः पञ्चगव्यपानञ्च । एतद्व्यवधाने । | ० | ॥ ० पणाः । | यथाशक्ति । | |
सन्निधाने त्रिरात्रोपवासः । पञ्चगव्यपानञ्च । | ० | १ ॥ ० कार्षापणः । | यथाशक्ति । | |
एतदुभयं ज्ञानविषयम् । अज्ञाने एकवृक्षादौ चाण्डालादिभिः सह फलभोजने अघमर्षणम् । एकावयविद्वारा परम्परास्पर्शेऽपि स्नानादिकम् । अत्रापवादः । “रथ्याकर्द्दमतोयानि नाबः पन्थास्तृणानि च । स्पर्शनान्न प्रदूष्यन्ति पक्वेष्टरचितानि च ॥” तृणानि तृणसमूहः । पक्वेष्टरचितानि मठादीनि । द्बितीयसंसर्गितृतीयसंसर्गिणोर्हस्तपादप्रक्षालनपूर्ब्बकमाचमनम् । चतुर्थसंसर्गे दोषाभावः । इत्यस्पृ श्यस्पर्शप्रायश्चित्तम् ॥ * ॥ | ||||
अथ रहस्यपापानि । | रहस्यकृते पापे रहस्यप्रायश्चित्तं करणीयम् । अन्येनावेदितमित्यर्थः । तत्र यदि कर्त्ता स्वयं प्रायश्चित्तानभिज्ञस्तदा कस्यचिद्रहस्यपापस्य किं रहस्यप्रायश्चित्तमिति सामान्येन प्रायश्चित्ताभिज्ञं स्पृष्ट्वा रहस्यं प्रायश्चित्तं कुर्य्यात् । तत्र यदि | |||
अथ प्रकीर्णकानि । | प्रायश्चित्तानि । | तदशक्तौ धेनुदानम् । | तदशक्तौ चूर्णीदानम् । | दक्षिणा । |
मरणान्तिकं प्रायश्चित्तं तत्र रहस्यकृतेऽपि मरणमेव कर्त्तव्यम् । यत्र तु व्रतादिकं तत्र जातिशक्तिगुणसकृद्बुद्ध्याद्यपेक्षया प्रकाशकृतपापोक्तप्रायश्चित्तस्य विंशतिभागत्रिंशद्भागषष्टिभागाः कल्प्याः । | ||||
अथवा महापातकेष्वकामतो मनूक्तमाब्दिकं व्रतं करणीयम् । | १५ धेनवः । | ४५ कार्षापणाः । | ९ गावः । अशक्तौ ८ । ६ ॥। कार्षापणाः । | |
कामतो द्वैगुण्यम् । | ३० धेनवः । | ९० कार्षापणाः । | १७ गावः । अशक्तौ १६ ॥ १३ ॥ कार्षापणाः । |
अन्येषु पापेषु गुरुलाघवापेक्षया प्राणायामशतमेव एकाहद्व्यहत्र्यहक्रमेण मासं षण्मासं संवत्सरं वाभ्यसनीयम् । व्रतकरणाशक्तेनापि जपहोमध्यानतीर्थसेवादानवेदाभ्यासादयः कार्य्याः । इति रहस्यप्रायश्चित्तम् ॥ इति शूलपाणिकृतप्रायश्चित्तविवेकोक्तनवविधपापानां प्रायश्चित्तानि समाप्तानि ॥ * ॥
प्रायिकं, त्रि, (प्रायेण प्राये वा भवमिति । प्राय +
प्रायुद्धेषी, [न्] पुं, (प्रायुधि प्रकृष्टयुद्धादिस्थाने
प्रायोज्यं, त्रि, (प्र + आ + युज् + णिच् + यत् ।)
प्रायोपविष्टः, त्रि, (प्रायेण मरणार्थमनशनेन उप-
प्रायोपवेशः, पुं, (प्रायेण मृत्युनिमित्तकानशनेन
प्रारब्धं, क्ली, (प्रकृष्टमारब्धं स्वकार्य्यजननायेति ।)
|
प्रारब्धिः, स्त्री, (प्र + आ + रभ् + क्तिन् ।) गज-
प्रारम्भः, पुं, (प्र + आ + रभ् + भावे घञ् ।
प्रार्थनं, क्ली, (प्र + अर्थ + ल्युट् ।) प्रकर्षेण
प्रार्थना, स्त्री, (प्र + अर्थ + णिच् + युच् ।) प्रक-
|
प्रार्थनीयं, क्ली, (प्रार्थ्यते इति । प्र + अर्थ +
प्रार्थितः, त्रि, (प्रार्थ्यते स्मेति । प्र + अर्थ + क्तः ।)
प्रालम्बं, क्ली, (प्रालम्बते इति । लवि अवस्रंसने +
प्रालम्बिका, स्त्री, (प्रालम्बते इति । अच् । संज्ञायां
प्रालेयं, क्ली, (प्रकर्षेण लीयन्ते लीना भवन्ति
|
प्रालेयांशुः, पुं, (प्रालेयाणि हिमानि तद्वत् शीता
प्रावटः, पुं, (प्र + अव + अट् + अच् । शकन्ध्वा-
प्रावरः, पुं, (प्रावृणोत्यनेनेति । प्र + आ + वृ +
प्रावरणं, क्ली, (प्रावृणोत्यनेन गात्रमिति । प्र +
प्रावारः, पुं, (प्राव्रियते गात्रमनेनेति । प्र + आ +
प्रावारकीटः, पुं, (प्रावारस्य कीटः ।) कीट-
प्रावृट्, [ष्] स्त्री, (प्रकर्षेण आ सम्यक्प्रकारेण
प्रावृडत्ययः, पुं, (प्रावृषः अत्ययो नाशो यत्र ।)
प्रावृतं, त्रि, (प्राव्रियते स्मेति । प्र + आ + वृ +
प्रावृतिः, स्त्री, (प्रावृणोति प्रकर्षेण आच्छादयति
|
प्रावृषा, स्त्री, (प्रावृष् + हलन्तात् टाप् वा ।)
प्रावृषायणी, स्त्री, (प्रावृषायां अयनमुद्भवो
प्रावृषिकः, पुं, (प्रावृषि वर्षाकाले कायति शब्दायते
प्रावृषेण्यः, पुं, (प्रावृषि भवः प्रावृट् देवतास्य वेति ।
प्रावृषेण्यः, त्रि, (प्रावृषि भव इति । प्रावृष् +
प्रावृषेण्या, स्त्री, (प्रावृषेण्य + टाप् ।) कपि-
प्रावृष्यं, क्ली, (प्रावृषि भवमिति । यत् ।) वैदूर्य्यम् ।
प्रावृष्यः, पुं, (प्रावृषि भव इति । प्रावृष् + यत् ।)
प्राशितं, क्ली, (प्रकर्षेण अशितं यत्र ।) पितृ-
प्राश्निकः, पुं, (प्रश्नाय तदुत्तरप्रदानाय साधु-
प्रासः, पुं, (प्रास्यते क्षिप्यते इति । प्र + अस् +
प्रासकः, पुं, (प्रास + संज्ञायां स्वार्थे वा कन् ।)
प्रासङ्गः, पुं, (प्रसज्यते इति । प्र + सन्ज + घञ् ।
|
प्रासङ्ग्यः, पुं, (प्रासङ्गं वहतीति । प्रासङ्ग + “तद्व-
प्रासादः, पुं, (प्रसीदन्त्यस्मिन्निति । प्र + सद् +
|
|
|
|
प्रासादकुक्कुटः, पुं, (प्रासादस्य देवभूभुजां गृहस्य
प्रासिकः, पुं, (प्रासः प्रहरणमस्येति । प्रास +
प्रास्थिकः, त्रि, (प्रस्थ + “सम्भवत्यवहरति पचति ।”
प्राहः, पुं, नृत्योपदेशः । इति शब्दमाला ॥ निर्व्वि-
प्राह्णः, पुं, (प्रथमञ्च तदहश्चेति । “राजाहःसखि-
प्राह्णे, व्य, पूर्ब्बाह्णे । इति सिद्धान्तकौमुदी ॥ प्राह्णेतनः, त्रि, (प्राह्णे भवः । “सायंचिरंप्राह्णे
|
प्राह्णेतरां, व्य, (द्वयोरतिशयेन प्राह्णे । प्राह्णे +
प्रियः, पुं, (प्रीणातीति । प्री + “इगुपधज्ञाप्री-
प्रियंवदः, पुं, (प्रियं वदतीति । वद् + “प्रियवशे
प्रियकः, पुं, (प्रिय + स्वार्थे संज्ञायां वा कन् ।)
|
प्रियङ्करः, त्रि, (प्रियं करोतीति । प्रिय + कृ +
प्रियङ्करी, स्त्री, (प्रियङ्कर + गौरादित्वात् ङीष् ।)
प्रियङ्गुः, स्त्री, (प्रियं गच्छतीति । प्रिय + गम् +
प्रियजनः, पुं, (प्रियो जनः ।) हृद्यलोकः ।
प्रियजीवः, पुं, (प्रियो जीवो यस्य यस्मिन् वा ।)
|
प्रियतमः, पुं, मयूरशिखावृक्षः । इति शब्द-
प्रियतरः, त्रि, (अयमनयोरतिशयेन प्रियः । प्रिय
प्रियता, स्त्री, (प्रिय + तल् ।) प्रियस्य भावः ।
प्रियतोषणः, पुं, (प्रियस्य तोषणं यस्मात् । यद्वा,
प्रियत्वं, क्ली, (प्रियस्य भावः । प्रिय + त्व ।)
प्रियदर्शनः, त्रि, (प्रियं दर्शनं यस्य ।) सुदृश्यः ।
प्रियदर्शनः, पुं, (प्रियं दर्शनं यस्य ।) शुकपक्षी ।
प्रियप्रायं, क्ली, (प्रियस्य प्रायो यत्र ।) प्रिय-
प्रियप्रेपसुः, त्रि, (प्रियं प्रेप्सतीति । प्र + आप् +
प्रियमधुः, पुं, (प्रियं मधु मद्यं यस्य ।) बलरामः ।
प्रियवर्णी, स्त्री, (प्रियो वर्णो यस्याः । गौरादि-
प्रियवल्ली, स्त्री, (प्रिया मनोज्ञा वल्ली लता ।)
प्रियवादी, [न्] त्रि, (प्रियं मनोज्ञं वदतीति ।
|
प्रियव्रतः, पुं, (प्रियं व्रतं यस्य ।) स्वायम्भुवमनु-
प्रियसखः, पुं, (प्रियः सखा च हितकारित्वात् ।
प्रियसत्यं, क्ली, (प्रियं सत्यमिति कर्म्मधारयः ।)
प्रियसन्देशः, पुं, (प्रियं सन्दिशतीति । प्रिय + सम्
प्रियसालकः, पुं, (प्रियः सालः । ततः स्वार्थे कन् ।)
प्रिया, स्त्री, (प्रिय + टाप् ।) नारी । इति शब्द-
प्रियाम्बुः, पुं, (प्रियमम्बु यस्य ।) आम्रवृक्षः ।
प्रियालः, पुं, (प्रियाय हिताय अलति पर्य्याप्नो-
|
प्रियाला, स्त्री, (प्रियाय अलतीति । अल +
प्रियोदितं, त्रि, (प्रियाय प्रियेण वा यदुदितम् ।
प्री, क तर्पणे । इति कविकल्पद्रुमः ॥ (चुरा०
प्री, ङ य प्रीतौ । कान्तौ । इति कविकल्पद्रुमः ॥
प्री, ञ तर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-
प्री, ञ ग कान्तौ । तर्पणे । इति कविकल्पद्रुमः ॥
प्रीः, स्त्री, (प्री + क्विप् ।) प्रीतिः । इति कन-
प्रीणः, त्रि, (प्र + “नश्च पुराणे प्रात् ।” ५ । ४ । २५ ।
प्रीणनं, क्ली, (प्री + स्वार्थे णिच् + ल्युट् । धूञ
प्रीणसः, पुं, गण्डकः । इति राजनिर्घण्टः ॥ प्रीतः, त्रि, (प्रीञ् प्रीणने + क्तः ।) प्रीतियुक्तः ।
प्रीतिः, स्त्री, (प्रीञ् तर्पणे + भावे क्तिन् ।) तृप्तिः ।
|
प्रीतिजुषा, स्त्री, (प्रीतिं जुषते सेवते इति । जुष्
प्रीतिदः, पुं, (प्रीतिं ददातीति । दा + “आतो-
प्रीतिदत्तं, क्ली, (प्रीत्या दत्तमिति ।) प्रीत्या दत्त-
प्रीतिभोज्यं, त्रि, (प्रीत्या भोज्यम् ।) प्रीत्या
प्रु, ङ सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-
प्रुष, उ दहि । इति कविकल्पद्रुमः । (भ्वा०-पर०-
|
प्रुष, ग सेके । पूर्त्तौ । स्नेहे । इति कविकल्प-
प्रुष्टः, त्रि, (प्रुष् दहि + क्तः ।) दग्धः । इत्यमरः ।
प्रुष्वः, पुं, (प्रुष्णाति स्निह्यति पिपर्त्ति वेति ।
प्रुष्वा, स्त्री, (प्रुष्णाति सिञ्चतीति । प्रुष् + “अशू-
प्रेक्षणं, क्ली, (प्रेक्षते पश्यत्यनेनेति । प्र + ईक्ष +
प्रेक्षणकूटः, पुं, (प्रेक्षणस्य कूटः ।) चक्षुर्गोलकः ।
प्रेक्षा, स्त्री (प्रकर्षेण ईक्षते ययेति । प्र + ईक्ष +
|
प्रेङ्खन् [त्] त्रि, (प्र + इखि गतौ + शतृ ।) चलन-
प्रेङ्खा, स्त्री, (प्रेङ्ख्यते गम्यतेऽनयेति । प्र + इखि
प्रेङ्खितं, त्रि, (प्र + इखि गतौ + क्तः ।) कम्पितम् ।
प्रेङ्खोल, त् क चापले । इति कविकल्पद्रुमः ॥
प्रेङ्खोलनं, क्ली, (प्रेङ्खोल्यते चल्यतेऽनेनेति ।
प्रेङ्खोलितं, त्रि, (प्रेङ्खोल + क्तः ।) दोलितम् । तत्-
प्रेतः, पुं, (प्र + इ गतौ + क्तः ।) नरकस्थप्राणी ।
|
|
|
प्रेतकार्य्यं, क्ली, (प्रेताय प्रेतस्य वा कार्य्यम् ।)
|
प्रेतगृहं, क्ली, (प्रेतस्य गृहम् ।) श्मशानम् । इति
प्रेततर्पणं, क्ली, (प्रेतस्य तर्पणम् ।) मरणावधि-
प्रेतदेहः, पुं क्ली, (प्रेतस्य देहः ।) प्रेतशरीरम् ।
प्रेतनदी, स्त्री, (प्रेततरणीया नदी ।) वैतरणी ।
प्रेतपक्षः, पुं, (प्रेतप्रियः पक्षः ।) गौणचान्द्रा-
|
प्रेतपटहः, पुं, (प्रेतस्य पटहः ।) मरणकाले
प्रेतपतिः, पुं, (प्रेतानां पतिः ।) यमः । इति
प्रेतपिण्डः, पुं, (प्रेताय देयः पिण्डः ।) मरणावधि-
प्रेतपुरं, क्ली, (प्रेतानां पुरम् ।) यमालयः । यथा,
|
प्रेतराक्षसी, स्त्री, (प्रेतानां पिशाचभेदानां राक्ष-
प्रेतवनं, क्ली, (प्रेतानां वनमिव ।) श्मशानम् ।
प्रेतवाहितः, त्रि, (प्रेतेन वाहितः ।) भूताविष्टः ।
प्रेतशिला, स्त्री, (प्रेतानां प्रेतेभ्यो वा या शिला ।)
|
प्रेतशौचं, क्ली, (प्रेते सति प्रेतस्य वा शौचम् ।)
|
प्रेतश्राद्धं, क्ली, (प्रेताय प्रेतोद्देश्यकं वा श्राद्धम् ।)
प्रेता, स्त्री, (प्रेत + स्त्रियां टाप् ।) प्रेतभावा-
|
प्रेत्य, व्य, (प्र + इ + ल्यप् ।) लोकान्तरम् । तत्-
प्रेम, [न्] क्ली, पुं, (प्रियस्य भावः । प्रिय +
प्रेमपातनं, क्ली, (प्रेम्णः स्नेहस्य पातनं यस्मात् ।
प्रेमभक्तिः, स्त्री, (प्रेम्णा भक्तिः ।) स्नेहयुक्त-
प्रेमा, [न्] पुं, (प्रिय + इमनिच् । प्री तर्पणे + मनिन्
|
प्रेमालिङ्गनं, क्ली, (प्रेम्णा यदालिङ्गनम् ।) स्नेहेन
प्रेमी, [न्] त्रि, (प्रेम अस्यास्तीति । इनिः ।)
प्रेयसी, स्त्री, (इयमनयोरतिशयेन प्रिया । प्रिय +
प्रेयान् [स्] पुं, (अयमनयोरतिशयेन प्रियः ।
प्रेरणं, क्ली, (प्र + ईर् + णिच् + ल्युट् ।) प्रेषणम् ।
प्रेरणा, स्त्री, (प्र + ईर् + णिच् + “ण्यासश्रन्थो
प्रेरितः, त्रि, (प्र + ईर् + क्तः ।) प्रेषितः । यथा, --
प्रेर्त्वा [न्] पुं, (प्रकर्षेण ईर्त्ते इति । प्र + ईर् गतौ
प्रेर्त्वरी, स्त्री, (प्रकर्षेण ईर्त्ते इति । प्र + ईर्
प्रेष, ऋ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-
प्रेषः, पुं, (प्र + ईष् + घञ् ।) प्रेषणम् । पीडा ।
प्रेषणं, क्ली, (प्रेष् + भावे ल्युट् ।) प्रेरणम् । यथा,
|
प्रेषितं, त्रि, (प्रेष् + झः ।) प्रेरितम् । तत्पर्य्यायः ।
प्रेष्ठः, त्रि, (अयमेषामतिशयेन प्रिय इति । प्रिय
प्रेष्ठा, स्त्री, (प्रेष्ठ + टाप् ।) प्रेयसी । इति
प्रेष्यः, त्रि, (प्र + ईष् + कर्म्मणि ण्यत् ।) दासः ।
प्रैषः, पुं, (प्र + इष् + घञ् । “प्रादूहोढोढ्येषै-
प्रैष्यः, पुं, (प्र + इष् + कर्म्मणि ण्यत् । “प्रादू-
प्रोक्तं, त्रि, (प्रकर्षेण उच्यते स्मेति । प्र + वच् +
प्रोक्षणं, क्ली, (प्र + उक्ष सेचने + ल्युट् ।) यज्ञार्थ-
प्रोक्षितं, त्रि, (प्र + उक्ष + क्त ।) निहतम् ।
|
प्रोज्जासनं, क्ली, (प्र + उद् + जस् हिंसायाम् +
प्रोज्झितं, त्रि, (प्र + उज्झ + कर्म्मणि क्तः ।)
प्रोञ्छनं, क्ली, (प्र + उञ्छ + ल्युट् ।) प्रवर्जनम् ।
प्रोण्ठः, पुं, (प्रकर्षेण अण्ठते निष्ठीवनादिकं
प्रोतं, क्ली, (प्र + वेञ् स्यूतौ + क्तः । यजादि-
प्रोतं, त्रि, (प्र + वेञ् + क्तः । यजादित्वात् सम्प्र-
प्रोतोत्सादनं, क्ली, (प्रोते स्यूते सति प्रोतानां
प्रोत्फलः, पुं, (प्रकर्षेण उत्फलतीति । प्र +
प्रोत्फुल्लं, त्रि, (प्रकर्षेण उत्फुल्लम् । प्र + उत् +
प्रोत्साहः, पुं, (प्र + उत् + सह + घञ् ।) प्रकृ-
|
प्रोथ, ऋ ञ पर्य्यापणे । इति कविकल्पद्रुमः ॥ (भ्वा०-
प्रोथः, पुं, क्ली, (प्रवते इति । प्रुङ् गतौ + “तिथ-
प्रोथः, पुं, (प्रोथते इति । प्रोथ पर्य्याप्तौ + “पुंसि
प्रोथः, त्रि, (प्रवते इति । प्रुङ् गतौ + “तिथपृष्ठ-
प्रोषः, पुं, (प्रुष दाहे + भावे घञ् ।) सन्तापः ।
प्रोषितः, त्रि, (वस् + क्त । इट् । सम्प्रसारणम् ।
प्रोषितभर्त्तृका, स्त्री, (प्रोषितो विदेशगतो भर्त्ता
|
प्रोष्ठः, पुं, (प्रकृष्ट ओष्ठोऽस्येति । “ओत्वोष्ठयोः
प्रोष्ठपदः, पुं, (प्रोष्ठो गौस्तस्येव पादौ यस्य सः ।
|
प्रोष्ठपदाः, स्त्री, (प्रोष्ठो गौस्तस्येव पादा यासाम् ।
प्रोष्ठपदी, स्त्री, (प्रोष्टपदाभिर्युक्ता पौर्णमासी ।
प्रोष्ठपादः, त्रि, (प्रोष्ठपद + “सन्धिवेलेति ।” ४ ।
प्रोष्ठी, स्त्री, पुं, (प्रकृष्ट ओष्ठो यस्याः । “ओष्ठो-
प्रोहः, पुं, (प्रोह्यते वितर्क्यते विस्मयाकुलितैरिति ।
प्रोहः, त्रि, (प्रकर्षेण ऊहते वितर्कयतीति । प्र +
प्रौढं, त्रि, (प्रोह्यते स्मेति । प्र + वह् + क्तः । सम्प्र-
|
प्रौढपादः, पुं, (प्रौढः पादो यस्य ।) आसनारो-
प्रौढा, स्त्री, (प्रौढ + टाप् ।) नायिकाभेदः । तत्-
|
प्रौढिः, स्त्री, (प्र + वह + क्तिन् । प्रादूहेति
प्रौणः, त्रि, (प्र + ओण् अपनयने + अच् ।)
प्रौष्ठपदः, पुं, (प्रोष्ठो गौस्तस्येव पादा यासामिति
प्रौहः, पुं, (प्र + ऊह + कः । प्रादूहेति वृद्धिः ।)
प्लक्ष, ञ भक्षणे । इति कविकल्पद्रुमः ॥ (भ्वा०-
प्लक्षः, पुं, (प्लक्ष्यते भक्ष्यते विहगादिभिरिति । प्लक्ष
|
प्लक्षद्वीपः, पुं, (प्लक्षतरूपलक्षितो द्वीपः ।) सप्त-
|
प्लव, ङ गत्याम् । (भ्वा०-आत्म०-सक०-सेट् ।)
प्लवं, क्ली, (प्लवते इति । प्लु + अच् ।) कैवर्त्ती-
प्लवः, पुं, (प्लु + “ऋदोरप् ।” ३ । ३ । ५७ । इत्यप् ।)
|
प्लवकः, पुं, (प्लवते इवेति । प्लु + अच् । ततः स्वार्थे
प्लवगः, पुं, (प्लवेन प्लुतगत्या गच्छतीति । गम् +
प्लवगतिः, पुं, (प्लवेन गतिर्यस्य ।) भेकः । इति
प्लवङ्गः, पुं, (प्लवेन प्लुतगत्या गच्छतीति । गम +
प्लवङ्गमः, पुं, (प्लवेन गच्छतीति । गम् + “गमश्च ।”
प्लवनः, त्रि, (प्लवते इति । प्लु + ल्यु ।) प्रवलः ।
|
प्लाक्षं, क्ली, (प्लक्षस्य फलम् । “प्लक्षादिभ्योऽण् ।”
प्लावनं, क्ली, (प्लु + णिच् + ल्युट् ।) द्रवद्रव्यस्योर्द्ध्व-
प्लावितं, त्रि, (प्लु + णिच् + क्तः ।) जलादिमग्न-
प्लिह, ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-
प्लिहा, [न्] पुं, (प्लेहते वृद्धिं गच्छतीति । प्लिह
प्लीहघ्नः, पुं, (प्लीहानं हन्तीति । हन + टक् ।)
प्लीहशत्रुः, पुं, (प्लीह्रः शत्रुर्नाशकत्वात् ।) प्लीहघ्न-
|
प्लीहा, स्त्री, (प्लिह + कः । पृषोदरादित्वात् दीर्घः ।
प्लीहा, [न्] पुं, (प्लिह + “श्वनुक्षन्पूषन्प्लीह-
|
प्लीहारिः, पुं, (प्लीहाया अरिः शत्रुस्तन्नाशक-
प्लीहाशत्रुः, पुं, (प्लीहायाः शत्रुः ।) प्लीहशत्रुः ।
प्लुक्षिः, पुं, (प्लुष्यति दहतीति । प्लुष दाहे + “प्लुषि-
|
प्लु, ङ सपणे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-
प्लुतं, क्ली, (प्लु + क्तः ।) अश्वगतिविशेषः । स च
प्लुतः, पुं, (प्लुतं प्लुतवद्गतिरस्यास्तीति । प्लुत +
प्लुष, उ दहि । भस्मीकरणे । इति कविकल्पद्रुमः ॥
प्लुष, ग सेके । पूर्त्तौ । स्नेहे । इति कविकल्प-
प्लुष, य ऌ दहि । इति कविकल्पद्रुमः ॥ (दिवा०-
प्लुषः, पुं, दहनम् । इति प्लषधातोर्भावे अल्-
प्लुष्टः, त्रि, (प्लुष् + क्तः । “यस्य विभाषा ।” ७ ।
|
प्लुस, इर् य दाहे । विभागे । इति कविकल्पद्रुमः ॥
प्लेव, ऋ ङ सेवने । इति कविकल्पद्रुमः । (भ्वा०-
प्लोषः, पुं, (प्लुष दाहे + भावे घज् ।) दाहः ।
प्सा, ल भक्षणे । इति कविकल्पद्रुमः ॥ (अदा०-
प्सा, स्त्री, (प्सा + भावे क्विप् ।) भक्षणम् । इति
प्सातं, त्रि, (प्सा + क्तः ।) भक्षितम् । इत्यमरः ।
प्सानं, क्ली, (प्सा + भावे ल्युट् ।) भोजनम् । इति
|