शब्दकल्पद्रुमः/प्रतापनः

विकिस्रोतः तः
पृष्ठ ३/२५३

प्रतापनः, पुं, (प्रतापयतीति । प्र + तप् + णिच् +

ल्युः ।) नरकविशेषः । इति शब्दरत्नावली ॥
स च कुम्भीपाकः । इति श्रीभागवतम् ॥ (क्लेश-
दायके, त्रि । यथा, सुश्रुते उत्तरतन्त्रे ३९ अध्याये ।
“रुद्रकोपाग्निसम्भूतः सर्व्वभूतप्रतापनः ॥”)

प्रतापसः, पुं, (प्रतापं चक्षुस्तेजः स्यति नाशय-

तीति । सो + कः ।) शुक्लार्कवृक्षः । इत्यमरः ।
२ । ४ । ८१ ॥ (यथा, भावप्रकाशे ।
“श्वेतार्को गणरूपः स्यान्मन्दारो वसुकोऽपि च ।
श्वेतपुष्पो सदापुष्पः सबालार्कः प्रतापसः ॥”
प्रकृष्टस्तापसश्च ॥)

प्रतारकः, त्रि, (प्रतारयतोति । प्र + तॄ + णिच् +

ण्वुल् ।) वञ्चकः । धूर्त्तः । यथा । यो यस्य
प्रतारकः स तस्याध्यापकः ॥ (यथा च ब्रह्मवैवर्त्ते
प्रकृतिखण्डे २७ अध्याये ।
“शश्वन्नास्तीति वादी यो मिथ्यावादी प्रतारकः ।
देवद्वेषी गुरुद्वेषी स गोहत्यां लभेद्ध्रुवम् ॥”)

प्रतारणं, क्ली, (प्र + तॄ + णिच् + भावे ल्युट् ।)

प्रतारणा । तत्पर्य्यायः । वञ्चनम् २ व्यलीकम् ३
अभिसन्धानम् ४ । इति हेमचन्द्रः । ३ । ४३ ॥
(यथा, राजतरङ्गिण्याम् । १ । १५७ ।
“सूदे दामोदरीये यत्तस्यासीत् स्वकृतं पुरम् ।
सेतुना तेन तत्रैच्छत् कर्त्तुं सोऽम्भःप्रता-
रणम् ॥”)

प्रतारणा, स्त्री, (प्र + तॄ + णिच् + युच् । टाप् ।)

बञ्चना । यथा, --
“यदीच्छसि वशीकर्त्तुं जगदेकेन कर्म्मणा ।
उपास्यतां कलौ कल्पलता देवी प्रतारणा ॥”
इत्युद्भटः ॥

प्रतारितः, त्रि, (प्र + तॄ + णिच् + क्त ।) कृत-

प्रतारणः । तत्पर्य्यायः । व्यंसितः २ । इति
त्रिकाण्डशेषः ॥

प्रति, व्य, (प्रथते इति । प्रथ विख्यातौ + बाहु-

लकात् इति ।) विंशत्युपसर्गान्तर्गतपञ्चदशो-
पसर्गः । वोपदेवेनास्य गिसंज्ञा कृता । अस्यार्थाः ।
प्रतिनिधिः । मुख्यसदृशः । यथा प्रद्युम्नः केश-
वात् प्रति ॥ वीप्सा । प्याप्तुमिच्छा । यथा वृक्षं
वृक्षं प्रति सिञ्चति ॥ लक्षणम् । चिह्नम् । यथा
वृक्षं प्रति विद्योतते विद्युत् ॥ इत्थम्भूताख्यानम् ।
कथञ्चित् प्रकारमापन्नं इत्थम्भूतं तस्याख्यानम् ।
यथा साधुर्विप्रो मातरं प्रति ॥ भागः । स्वीक्रिय-
माणोऽशः । यथा हरं प्रति हलाहलम् ॥
प्रतिदानम् । गृहीतस्य प्रतिदानम् । यथा भक्तेः
प्रत्यमृतं शम्भोः । तिलेभ्यः प्रति माषान् यच्छति ।
तिलान् गृहीत्वा माषान् ददातीत्यर्थः ॥ स्तोकम् ।
अल्पम् । यथा । शाकप्रति सूपप्रति । क्षेपः ।
निश्चयः । इत्यमरभरतमेदिनीकाराः ॥ व्यावृत्तिः ।
प्रशस्तिः । विरोधः । समाधिः । इति मुग्धबोध-
टीकायां दुर्गादासः ॥ अभिमुख्यम् । स्वभावः ।
इति शब्दरत्नावली ॥

प्रतिकः, त्रि, कार्षापणेन क्रीतः । “कार्षापणाट्टि-

ठन् वक्तव्यः प्रतिरादेशश्च वा ।” ५ । १ । २५ ।
इत्यस्य वार्त्तिकोक्त्या टिठन् । कार्षापणिकः ।
इति सिद्धान्तकौमुदी ॥

प्रतिकर्म्म, [न्] क्ली, (प्रत्यङ्गं प्रतिख्यातं वा

कर्म्म । शाकपार्थिवादिवत् समासः ।) प्रसा-
धनम् । वेशः । इत्यमरः । २ । ६ । ९९ ॥ (यथा,
माघे । ५ । २७ ।
“आस्तीर्णतल्परचितावसथः क्षणेन
वेश्याजनः कृतनवप्रतिकर्म्मकाम्यः ॥”
प्रतीकारः । यथा, महाभारते । ४ । ५६ । १८ ।
“उषिताः स्मो वने वासं प्रतिकर्म्मचिकीर्षवः ।
कोपं नार्हसि नः कर्त्तुं सदा समरदुर्ज्जय ! ॥”
अङ्गसंस्कारः । इति क्वचिदमरे । २ । ६ । १२१ ॥)

प्रतिकायः, पुं, (प्रतिगतः कायो यत्र ।) शर-

ब्यम् । प्रतिरूपकम् । इति जटाधरः ॥

प्रतिकारः, पुं, (प्रति + कृ + घञ् ।) प्रतीकारः ।

इति शब्दरत्नावली ॥ (यथा, रघुः । ८ । ४० ।
“प्रतिकारविधानमायुषः
सति शेषे हि फलाय कल्पते ॥”)

प्रतिकाशः, त्रि, (प्रति + काश + घञ् ।) प्रती-

काशः । इत्यमरटीकायां भानुदीक्षितः ॥

प्रतिकासः, त्रि, (प्रति + कास + घञ् ।) प्रती-

काशः । इत्यमरटीकायां रमानाथः ॥

प्रतिकूपः, पुं, (प्रतिरूपः कूपः ।) परिखा । इति

हारावली । १७४ ॥

प्रतिकूलं, त्रि, (प्रतीपं कूलादिति ।) अननुकूलम् ।

विपक्षः । तत्पर्य्यायः । प्रसव्यम् २ अपसव्यम् ३
अपष्ठु ४ । प्रतीपम् । इत्यमरः । ३ । १ । ८४ ॥
(यथा, मनुः । ९ । २७५ ।
“राज्ञः कोषापहर्त्तॄंश्च प्रतिकूलेषु च स्थितान् ।
घातयेद्विविधैर्द्दण्डैररीणाञ्चोपजापकान् ॥”)

प्रतिकृतिः, स्त्री, (प्रकृष्टा कृतिः ।) प्रतिमा । इत्य-

मरः । २ । १० । ३६ ॥ प्रतिनिधिः । (यथा, रघुः । ८ । ९२ ।
“तेनाष्टौ परिगमिताः समाः कथञ्चित्
बालत्वादवितथसूनृतेन सूनोः ।
सादृश्यप्रतिकृतिदर्शनैः प्रियायाः
स्वप्नेषु क्षणिकसमागमोत्सवैश्च ॥”
प्रति + कृ + भावे क्तिन् ।) प्रतिकारः । इति
मेदिनी । ते, २१० ॥ (यथा, हरिवंशे । २५७ । २३ ।
“शृणुध्वं देवताः सर्व्वाः शत्रुप्रतिकृतिं पराम् ।
अवध्या दानवाः सर्व्वे ऋते शङ्करमव्ययम् ॥”)

प्रतिकृष्टं, त्रि, (प्रति कृष्यते स्मेति । प्रति + कृष् +

क्तः ।) गर्ह्यम् । द्विरावृत्त्याकर्षितम् । इति
मेदिनी । टे, ६४ ॥

प्रतिक्षणं, व्य, (क्षणं क्षणं प्रति ।) पौनःपुन्यम् ।

इति शब्दरत्नावली ॥ (यथा, कुमारे । ५ । १० ।
“प्रतिक्षणं सा कृतरोमविक्रियां
व्रताय मौञ्जीं त्रिगुणां बभार याम् ।
अकारि तत्पूर्ब्बनिबद्धया तया
सरागमस्या रशनागुणास्पदम् ॥”)

प्रतिक्षयः, पुं, (प्रतिक्षिणोति हिनस्ति विपक्षा-

दीनिति । प्रति + क्षि + अच् ।) रक्षकः । इति
शब्दरत्नावली ॥

प्रतिक्षिप्तः, त्रि, (प्रतिक्षिप्यते स्मेति । प्रति +

क्षिप + क्तः ।) वारितः । प्रेषितः । इति
मेदिनी । ते, २०५ ॥ अधिक्षिप्तः । इत्यमरः ।
३ । १ । ४२ ॥ “द्बे कृताधिक्षेपे । स्पर्द्धया पर-
गुणं प्रति दुर्व्वचनमधिक्षेपः अधिक्षिप्यते स्म
अधिक्षिप्तः क्तः एवं प्रतिक्षिप्तः । कस्यचित्
शौर्य्यादिकं प्रति स्पर्द्धमानेन दुर्व्वचनमधिक्षेपः
स यस्य कृतः सोऽधिक्षिप्तः । इति मुकुटोऽपि ।
केचित्तु । द्वे प्रेषिते । आहूय प्रेषितो यस्तु
प्रतिक्षिप्तः स उच्यते । इति कृष्णदासः ।
इत्याहुः ।” इति भरतः ॥

प्रतिगतं, क्ली, (प्रतिमुखं गतं गमनम् ।) पक्षि-

गतिविशेषः । यथा, --
“गतागतप्रतिगतसम्पताद्याश्च पक्षिणाम् ।
गतिभेदाः पक्षिगृहं कुलायो नीडमस्त्रियाम् ॥”
इति जटाघरः ॥
(प्रति + गम + कर्त्तरि क्तः । प्रतियाते, त्रि ॥)

प्रतिग्रहः, पुं, (प्रतिग्रहणमिति । प्रति + ग्रह +

“ग्रहवृदृनिश्चिगमश्च ।” ३ । ३ । ५८ । इति
भावे अप् ।) स्वीकरणम् । सैन्यपृष्ठम् । (प्रति-
गृह्णाति निष्ठीवनादिकमिति । प्रति + ग्रह +
“विभाषा ग्रहः ।” ३ । १ । १४३ । इति पक्षे
अच् ।) पतद्ग्रहः । (प्रतिगृह्यते इति । प्रति
+ ग्रह + अप् ।) द्विजेभ्यो विधिवद्देयम् । तद्-
ग्रहः । ग्रहभेदः । इति मेदिनी । हे, ३१ ॥ * ॥
ब्राह्मणस्यार्थः प्रतिग्रहार्ज्जितः । यथा, --
“प्रतिग्रहार्जिता विप्रे क्षत्त्रिये शस्त्रनिर्जिताः ।
वैश्ये न्यायार्जिताश्चार्थाः शूद्रे शुश्रूषयार्जिताः ॥”
अयाचितप्रतिग्रहे दोषाभावो यथा, --
“अयाचितोपपन्ने तु नास्ति दोषः प्रतिग्रहे ।
अमृतं तं विदुर्द्देवास्तस्मात्तन्नैव निर्णुदेत् ॥ * ॥
गुरुभृत्यांश्चोज्जिहीर्षुरर्च्चिष्यन् देवतातिथीन् ।
सर्व्वतः प्रतिगृह्णीयात् न तु तृप्येत् स्वयं ततः ॥
साधुतः प्रतिगृह्णीयादथवासाधुतो द्विजः ।
गुणवानल्पदोषश्च निर्गुणो हि निमज्जति ॥
एवं तस्करवृत्त्या वा कृत्वा भरणमात्मनः ।
कुर्य्याद्विशुद्धिं परतः प्रायश्चित्तं द्विजोत्तमः ॥”
इति गारुडे २१५ अध्यायः ॥ * ॥
तीर्थे प्रतिग्रहनिषेधो यथा, --
“सुवर्णमथ युक्तात्मा तथैवान्यप्रतिग्रहम् ।
स्वकार्य्ये पितृकार्य्ये वा देवताभ्यर्च्चनेऽपि वा ॥
निष्फलं तस्य तत्तीर्थं यावत्तद्धनमश्नुते ।
अतस्तीर्थे न गृह्णीयात् पुण्येष्वायतनेषु च ॥”
इति कौर्म्मे ३३ अध्यायः ॥ * ॥
राजादितः प्रतिग्रहनिषेधो यथा, --
“न राज्ञः प्रतिगृह्णीयान्न शूद्रपतितादपि ।
न चान्यस्मादशक्तश्च निन्दितान् वर्जयेद-
बुधः ॥”
इति कौर्म्मे उपविभागे १५ अध्यायः ॥ * ॥
विद्यारहितस्य प्रतिग्रहनिषेधो यथा, --
“हेम भूमिं तिलान् गाश्च अविद्वानाददाति यः ।
भस्मीभवति सोऽह्नाय दातुः स्यान्निष्फलञ्च तत् ॥
पृष्ठ ३/२५४
तस्मादविद्वान्नादद्यादल्पशोऽपि प्रतिग्रहम् ।
विषमन्त्रापरिज्ञानी विषेणाल्पेन नश्यति ॥” * ॥
गर्हितप्रतिग्रहादिर्यथा, --
“हस्तिकृष्णाजिनाद्यास्तु गर्हिता ये प्रतिग्रहाः ।
सद्विप्रास्तान्न गृह्णीयुर्गृह्णन्तस्तु पतन्ति ते ॥
कृष्णाजिनप्रतिग्राही हयानां शुक्रविक्रयी ।
नवश्राद्धस्य भोक्ता च न भूयः पुरुषो भवेत् ॥” * ॥
आपदि गर्हितप्रतिग्रहकर्त्तव्यता यथा, --
“प्रोक्तप्रतिग्रहाभावे प्रोक्तायां बृहदापदि ।
विप्रोऽश्नन् प्रतिगृह्णन् वा यतस्ततोऽपि नाघभाक् ॥
गुर्व्वादिपोष्यवर्गार्थं देवाद्यर्थञ्च सर्व्वशः ।
प्रत्यादद्याद्द्विजो यस्तु भृत्यर्थमात्मनोपि च ॥
दधिक्षीराज्यमांसानि गन्धपुष्पाम्बुमत्स्यकान् ।
शय्याशनासनं शाकं प्रत्याख्येयं न कर्हिचित् ॥
अपि दुष्कृतकर्म्मभ्यः समादद्यादयाचितम् ।
पतितेभ्यस्तथान्येभ्यः प्रतिग्राह्यमसंशयम् ॥” * ॥
प्रतिग्रहीतुं शक्तस्य लभ्यमानपरित्यागेन स्वर्गो
भवति । यथा, --
“शक्तः प्रतिग्रहीतुं यो वेदवृत्तः सुसंयतः ।
लभ्यमानं न गृह्णाति स्वर्गस्तस्य सुनिश्चितम् ॥ * ॥
प्रतिग्रहमृणं वापि याचितं यो न यच्छति ।
तत्कोटिगुणितग्रस्तो मृतो दासत्वमृच्छति ॥ * ॥
दाता च न स्मरेद्दानं प्रतिग्राही न याचते ।
तावुभौ नरकं यातौ दाता चैव प्रतिग्रही ॥ * ॥
वदन्ति कवयः केचिद्दानप्रतिग्रहौ प्रति ।
प्रत्यक्षं लिङ्गमेवेह दातृयाचकयोर्ब्बलम् ॥
दातृहस्तो भवेदूर्द्ध्वमधस्तिष्ठेत् प्रतिग्रही ।
यद्दानं प्रतिगृह्णीयात् प्रतिग्राही ब्रजत्यधः ॥” * ॥
प्रतिग्रहप्रकारो यथा, --
“भूमेः प्रतिग्रहं कुर्य्याद्भूमिं कृत्वा प्रदक्षिणम् ।
करे गृह्य तथा कन्यां दासदास्यौ तथा द्विजाः ॥
करं हि हृदि विन्यस्य धर्म्म्यो ज्ञेयः प्रतिग्रहः ।
आरुह्य च गजस्योक्तः कर्णे चाश्वस्य कीर्त्तितः ॥
तथा चैकशफानाञ्च सर्व्वेषामविशेषतः ।
प्रतिगृह्णीत गां शृङ्गे पुच्छे कृष्णाजिनं तथा ॥
आरण्याः पशवः सर्व्वे ग्राह्याः पुच्छे विचक्षणैः ।
प्रतिग्रहमथोष्ट्रस्य आरुह्यैव तु पादुके ॥
ईशायान्तु रथो ग्राह्यश्च्छत्रे दण्डन्तु धारयेत् ।
द्रुमाणामथ सर्व्वेषां मूले न्यस्तकरो भवेत् ॥
आयुधानि समादाय तथा भूष्य विभूषणम् ।
धर्म्मध्वजौ तथा स्पृष्ट्वा प्रविश्य च तथा गृहम् ॥
अवतीर्य्य तु सर्व्वाणि जलस्थानानि चैव हि ।
उपविश्य च शय्यायां स्पर्शयित्वा करेण वा ॥
द्रव्याण्यन्यान्यथादाय स्पृष्ट्वा वा ब्राह्मणं पठेत् ।
कन्यादाने न तु पठेद्द्रव्याणि च पृथक् पृथक् ॥
प्रतिग्रहा द्विजश्रेष्ठ तत्रैवान्तर्भवन्ति ते ।
द्रव्याणामथ सर्व्वेषां द्रव्यसंश्रयणान्नरः ॥
वाचयेज्जलमादाय करेण च प्रतिग्रहम् ।
प्रतिग्रहस्य यो धर्म्मं न जानाति द्विजो विधिम् ॥
स द्रव्यस्तैन्यसंयुक्तो नरकं प्रतिपद्यते ।
अथापि हि प्रवक्ष्यामि विधिं सर्व्वं विशेष-
णात् ॥ * ॥
वाजिप्रदानेन प्रतिग्रहे वा
दातृग्रहीत्रोरपि येन पुण्यम् ।
स्वर्गं प्रजायेत शृणुध्वमेतत्
गृहीतयोर्वै विधिवद्द्विजेन्द्र ॥
कुर्य्यादसौ पञ्चदिनानि पूर्ब्बं
पञ्चोपचारैर्युतविष्णुपूजाम् ।
कुष्माण्डमन्त्रैर्घृतदुग्धहोमं
यद्ग्राम इत्यादि मरुत्त्वतीयम् ॥
सोङ्कारपूर्ब्बादिभिरन्वितं तं
प्रत्येकमष्टौ जुहुयाद्द्विजेन्द्रः ।
सूर्य्येण मन्त्रेण च तद्वदष्टौ
षष्ट्या प्रयुक्तं त्रिशतं जुहोति ॥
कुर्य्याच्च गायत्त्रिजपं सहस्रं
पश्चात् प्रगृह्यं तुरगं द्विजाग्र्यः ।
तद्वत्तथात्मानमयं नयेद्धि
दातापि चैतद्व्रतमाविदध्यात् ॥
द्बिजाग्र्यवत् प्राक्तनपापशुद्ध्यै
द्बावप्यमू सूर्य्यजनं लभेताम् ॥”
इति बृहत्पाराशरे । ४ । ८ । अध्यायः ॥ * ॥
अपि च । विष्णुधर्म्मोत्तरे ।
“बीजानां मुष्टिमादाय रत्नान्यादाय सर्व्वतः ।
वस्त्रं दशान्तमादद्यात् परिधाय तथा पुनः ॥
आरुह्योपानहौ चैव यानमारुह्य पादुके ।
प्रतिग्रहीता सावित्रीं सर्व्वत्रैव प्रकीर्त्तयेत् ॥
ततस्तु सार्द्धं द्रव्येण तस्य द्रव्यस्य दैवतम् ।
समापयेत्ततः पश्चात् कामस्तुत्या प्रतिग्रहम् ॥
विधिं धर्म्म्यमथो ज्ञात्वा यस्तु कुर्य्यात् प्रतिग्रहम् ।
दात्रा सह तरत्येव नानादुर्गाण्यसौ द्विजः ॥”
ब्रह्मपुराणे ।
“ब्राह्मणः प्रतिगृह्णीयात् वृत्त्यर्थं साधुतस्तथा ।
अव्यश्वमपि मातङ्गतिललौहांश्च वर्ज्जयेत् ॥
कृष्णाजिनतिलग्राही न भूयः पुरुषो भवेत् ॥
शय्यालङ्कारवस्त्रादि प्रतिगृह्य मृतस्य च ।
नरकान्न निवर्त्तन्ते धेनुं तिलमयीं तथा ॥”
तथा ।
“ब्रह्महत्या सुरापानमपि स्तेयं तरिष्यति ।
आतुराद्यद्गृहीतन्तु तत् कथं वै तरिष्यति ॥”
एतदादिद्रव्यदानं प्रतिग्रहीतुर्दोषजनकम् ॥ * ॥
एतदनिच्छवे विद्यादिरहितत्वेनासमर्थाय च
दातुरपि दोषजनकमाह दक्षः ।
“न केवलं हि तद्याति शेषमस्य च नश्यति ।”
तद्दत्तद्रव्यम् । अतएव याज्ञवल्क्यः ।
“विद्यातपोभ्यां हीनेन न तु ग्राह्यः प्रतिग्रहः ।
ग्रह्णन् प्रदातारमधो नयत्यात्मानमेव च ॥”
अधो नरकम् ॥ * ॥ एतद्दानप्रतिग्रहोत्तरमुक्त-
तपोजपादिभिरात्मतरणक्षमाय स्वेच्छया प्रति-
गृह्णते दानं न दोषाय इत्याह विष्णुः ।
“एतानि प्रतिगृह्णाति स्वेच्छयाभ्यर्थितो न तु ।
तस्मै दाने न दोषोऽस्ति यस्त्वात्मानन्तु तारयेत् ॥”
तारणप्रकारमाह हारीतः ।
“मणिवासोगवादीनां प्रतिग्रहे सावित्र्यष्टसहस्रं
जपेत् ॥” * ॥ देवलः ।
“प्रतिग्रहं समर्थो हि कृत्वा विप्रो यथाविधि ।
निस्तारयति दातारमात्मानञ्च स्वतेजसा ॥”
स्कान्दे ।
“वेदाङ्गपारगो विप्रो यदि कुर्य्यात् प्रतिग्रहम् ।
न स पापेन लिप्येत पद्मपत्रमिवाम्भसा ॥”
महाभारते ।
“तीर्थे न प्रतिगृह्णीयात् पुण्येष्वायतनेषु च ।
निमित्तेषु च सर्व्वेषु न प्रमत्तो भवेन्नरः ॥”
प्रतिग्रहसमर्थस्य तदकरणे फलाधिक्यं यथा ।
याज्ञवल्क्यः ।
“प्रतिग्रहसमर्थो हि नादत्ते यः प्रतिग्रहम् ।
ये लोका दानशीलानां स तानाप्नोति पुष्क-
लान् ॥”
अपवादमाह स एव ।
“कुशाः शाकं पयो मत्स्या गन्धाः पुष्पं दधि
क्षितिः ।
मांसं शय्यासनं धानाः प्रत्याख्येयं न वारि च ॥”
अन्यच्च ।
“शय्यां गृहान् कुशान् गन्धानपः पुष्पं मणीन्
दधि ।
मत्स्यान् धानाः पयो मांसं शाकञ्चैव न निर्णुदेत् ॥”
मणीन् विषादिनिवारकान् ।
“एधोदकं फलं मूलमन्नमभ्युद्धृतञ्च यत् ॥”
अभ्युद्धृतमभ्यर्थ्य दत्तम् ।
“सर्व्वतः प्रतिगृह्णीयात् मध्वथोभयदक्षिणाम् ॥”
किमिति न प्रत्याख्येयमित्याह मनुः ।
“अयाचिताहृतं ग्राह्यमपि दुष्कृतकर्म्मणः ।
अन्यत्र कुलटाषण्डपतितेभ्यस्तथा द्विषः ॥”
प्रतिग्रहमात्रे प्रयोगसारे ।
“प्रतिग्रहं न गृह्णीयादात्मभोगविधित्सया ।
देवतातिथिपूजार्थं यत्नाद्धनमुपार्ज्जयेत् ॥”
अङ्गिराः ।
“कुटुम्बार्थे द्बिजः शूद्रात् प्रतिगृह्णीत याचितम् ।
क्रत्वर्थमात्मने चैव न हि याचेत कर्हिचित् ॥”
यज्ञार्थं याचने निन्दामाह याज्ञवल्क्यः ।
“चाण्डालो जायते यज्ञकरणाच्छूद्रभिक्षितात् ॥”
इति शुद्धितत्त्वम् ॥

प्रतिग्राहः, पुं, (प्रतिगृह्णाति निष्ठीवनादिकमिति

प्रति + ग्रह् + “विभाषा ग्रहः ।” ३ । १ । १४३ ।
इति णः ।) पतद्ग्रहः । इत्यमरः । २ । ६ । १३९ ॥
(प्रति + ग्रह् + भावे घञ् ।) प्रतिग्रहणञ्च ॥

प्रतिघः, पुं, (पतिहन्त्यनेनेति । प्रति + हन् + डः ।

न्यङ्क्वादित्वात् कुत्वम् ।) क्रोधः । इत्यमरः ।
१ । ७ । २६ ॥ (यथा, माघे । १५ । ५३ ।
“प्रतिघः कुतोऽपि समुपेत्य
नरपतिगणं समाश्रयत् ॥”
प्रतिहननमिति ।) प्रतिघातः । इति मेदिनी ।
घे, १० ॥ मूर्च्छा । इति शब्दरत्नावली ॥

प्रतिघातनं, क्ली, (प्रति + हन् + णिच् + भावे

ल्पुट् ।) मारणम् । इत्यमरः । २ । ८ । ११४ ॥

प्रतिघ्नं, क्ली, (प्रतिहन्त्यस्मिन्निति । प्रति + हन् +

घञर्थे कः ।) अङ्गम् । इति शब्दचन्द्रिका ॥
पृष्ठ ३/२५५

प्रतिच्छन्दः, [स्] क्ली, (छन्दोऽभिप्रायः । प्रति-

गतं छन्दः इति प्रादिसमासः ।) प्रतिरूपम् ।
इति त्रिकाण्डशेषः ॥ (अकारान्तोऽपि दृश्यते ।
यया, राजतरङ्गिण्याम् । ३ । ७७ ।
“रक्षःशिरःप्रतिच्छन्दैः स्थिरप्रणतिसूचकः ।
सनाथशिखरान् प्रादात् तस्मै रक्षःपति-
र्ध्वजान् ॥”)

प्रतिच्छाया, स्त्री, (प्रतिगता छायामिति ।) प्रतिकृतिः ।

मूर्त्तिसदृशमृच्छिलादिनिर्म्मितप्रतिरूपम् । इत्य-
मरभरतौ ॥ (यथा, हरिवंशे । १५१ । ३० ।
“माययास्य प्रतिच्छाया दृश्यते हि नटालये ।
देहार्द्धेन तु कौरव्य ! सिषेवे च प्रभावतीम् ॥”)

प्रतिजङ्घा, स्त्री, (प्रतिगता जङ्घाम् ।) अग्रजङ्घा ।

इति हेमचन्द्रः । ३ । ६१५ ॥

प्रतिजल्पः, पुं, (प्रतिगतो जल्पम् ।) वाक्यविशेषः ।

यथा, --
“दुस्त्यजद्वन्द्वभावेऽस्मिन् प्राप्तिर्नार्हत्यनुद्धतम् ।
दूतसम्माननेनोक्तं यत्र स प्रतिजल्पकः ॥”
इत्युज्ज्वलनीलमणिः ॥

प्रतिजागरः, पुं, (प्रतिजागरणमिति । प्रति +

जागृ + घञ् । “जाग्रोऽवीति ।” ७ । ३ । ८५ ।
इति गुणः ।) प्रत्यवेक्षणम् । तत्पर्य्यायः ।
अवेक्षा २ । इत्यमरः । ३ । २ । २८ ॥ जागर-
प्रतिनिधिः प्रतिजागरः । द्वे गृहमवेक्षस्व
इत्यादिनियोगस्य इति रायमुकुटः ॥

प्रतिजिह्वा, स्त्री, (प्रतिरूपा जिह्वा ।) तालु-

मूलस्थक्षुद्रजिह्वा । आल्जिव इति भाषा ।
तत्पर्य्यायः । प्रतिजिह्विका २ माध्वी ३ रसन-
काकुः ४ अलिजिह्विका ५ । इति शब्दरत्नावली ॥

प्रतिजिह्विका, स्त्री, (प्रतिजिह्वा + स्वार्थे कन् । टापि

अत इत्वम् ।) प्रतिजिह्वा । इति त्रिकाण्डशेषः ॥

प्रतिज्ञा, स्त्री, (प्रतिज्ञायते इति । प्रति + ज्ञा +

“आतश्चोपसर्गे ।” ३ । ३ । १०६ । इति अङ् ।
टाप् ।) कर्त्तव्यत्वप्रकारकज्ञानानुकूलव्यापारः ।
इत्यनुमितिगादाधरी ॥ साध्यनिर्द्देशः । इति
गोतमसूत्रम् ॥ साध्याभिधायिका वाक् । इति
व्यवहारतत्त्वम् ॥ तत्पर्य्यायः । आम् २ प्रति-
ज्ञानम् ३ अङ्गीकारः ४ पतिश्रवः ५ ॐ ६
समाधिः ७ संवित् ८ आगूः ९ आश्रवः १०
संश्रवः ११ नियमः १२ अभ्युपगमः १३ वाढम्
१४ आत्मा १५ । इति शब्दरत्नावली ॥ सन्धा
१६ सङ्गरः १७ संश्रावः १८ उररीकारः १९
श्रवः २० । इति जटाधरः ॥ * ॥ (यथा, गो०
रामायणे । २ । ११० । ४ ।
“पूर्ब्बन्तु रामस्तमिहानुयुज्य
श्रुत्वा च वाक्यं भरतस्य तस्य ।
चिकीर्षमाणो रघुनन्दनस्तां
पितुः प्रतिज्ञां स बभूव तूष्णीम् ॥”)
प्रतिज्ञारोधो न कर्त्तव्यः । यथा, --
“त्वयास्य दैत्याधिपते वाच्यं साम यतो फलम् ।
प्रतिज्ञा नावरोद्धव्या स्वल्पकेऽपि च वस्तुनि ॥”
इत्यग्निपुराणम् ॥

प्रतिज्ञातं, त्रि, (प्रतिज्ञायते स्मेति । प्रति + ज्ञा +

क्तः ।) अङ्गीकृतम् । इत्यमरः । ३ । २ । १०८ ॥
(यथा, मनुः । ८ । १३९ ।
“ऋणे देये प्रतिज्ञाते पञ्चकं शतमर्हति ।
अपह्रवे तद्द्विगुणं तन्मनोरनुशासनम् ॥”)

प्रतिज्ञानं, क्ली, (प्रति + ज्ञा + ल्युट् ।) प्रतिज्ञा ।

इत्यमरः । १ । ५ । ५ ॥

प्रतिज्ञेयः, पुं, (प्रतिजानात्यनेनेति । प्रति + ज्ञा +

यव ।) स्तुतिपाठकः । इति भूरिप्रयोगः ॥ (प्रति-
ज्ञातुं शक्यः ।) प्रतिज्ञातव्ये, त्रि ॥

प्रतितालः, पुं, (प्रतिगतस्तालम् ।) तालविशेषः ।

यथा, सङ्गीतदामोदरे ।
“कान्तारः समराख्यश्च वैकुण्ठो वाञ्छितस्तथा ।
कथिताः शङ्करेणैव चत्वारः प्रतितालकाः ॥
कान्तारो यथा, --
कान्तारः प्रतितालस्तु चन्द्रक्रीडे द्रुतद्वयम् ।
दशाक्षरपदेनायं शृङ्गारे वर्त्तते रसे ॥ १ ॥
समराख्यो यथा, --
लघुद्रुतौ लघुश्चान्ते नृपताल उदाहृतः ।
रुद्रसंख्याक्षरपदः समरे वीरके रसे ॥ २ ॥
वैकुण्ठो यथा, --
रुद्रत्रयस्तु वैकुण्ठे प्रतिताले समीरितः ।
अर्कसंख्याक्षरैः पादो हास्ये त्रिपुटतालके ॥ ३ ॥
वाञ्छितो यथा, --
वाञ्छितस्तृतीये ताले लघुरेको द्रुतस्तथा ।
त्रयोदशाक्षरैर्युक्तो रसेऽद्भुते प्रकीर्त्तितः ॥” ४ ॥

प्रतिताली, स्त्री, (प्रतिगता तालमिति । गौरादि-

त्वात् ङीष् ।) तालकोद्घाटनयन्त्रम् । इति
हेमचन्द्रः ॥ चावि इति भाषा ॥

प्रतिदानं, क्ली, (प्रतिकृत्य दानं पतिरूपं दानं

वा ।) विनिमयः । न्यस्तार्पणम् । इत्यमरः ।
२ । ९ । ८१ ॥

प्रतिदारणं, क्ली, (प्रतिदार्य्यतेऽस्मिन्निति । प्रति + दॄ

+ णिच् + आधारे ल्युट् ।) युद्धम् । इति
शब्दमाला ॥

प्रतिदिनं, क्ली, दिनं दिनं प्रति । प्रत्यहम् । यथा,

“ततः प्रतिदिनं वेला वर्द्धते त्रिपलात्मिका ॥”
इति सत्कृत्यमुक्तावली ॥

प्रतिदिवा, [न्] पुं, (प्रतिदीव्यतीति । प्रति +

दिव + “कनिन् युवृषितक्षिराजिधन्विद्युप्रति-
दिवः ।” उणा० १ । १५६ । इति कनिन् ।)
सूर्य्यः । इति त्रिकाण्डशेषः ॥ प्रतिदिनञ्च ॥

प्रतिदीवा, [न्] पुं, (प्रतिदिवन् । पृषोदरादित्वात्

साधुः ।) सूर्य्यः । इति शब्दरत्नावली ॥

प्रतिदेयं, त्रि, (प्रति + दा + यत् ।) क्रीतद्रव्यस्य

दुष्क्रीतबुद्ध्या परावृत्य दानम् । यथा, --
“क्रीत्वा मूल्येन यः पण्यं दुष्क्रीतं मन्यते क्रयी ।
विक्रेतुः प्रतिदेयन्तत्तस्मिन्नेवाह्न्यविक्षतम् ॥”
इति मिताक्षरा ॥

प्रतिध्वनिः, पुं, (प्रतिरूपो ध्वनिरिति ।) प्रति-

नादः । गुस्रन् इति भाषा ॥ तत्पर्य्यायः । प्रति-
शब्दः २ प्रतिश्रुत् ३ प्रतिध्वानम् ४ । इति
शब्दरत्नावली ॥ (यथा, नैषधे । १९ । १० ।
“वदनकुहरेष्वध्येतॄणामयं तदुदञ्चति
श्रुतिपदमयस्तेषामेव प्रतिध्वनिरध्वनि ॥”)

प्रतिध्वानं, क्ली, (प्रतिध्वननमिति । प्रति + ध्वन

+ घञ् ।) प्रतिध्वनिः । इत्यमरः । १ । ६ । २५ ॥

प्रतिनप्ता, [ऋ] पुं, (प्रतिरूपो नप्ता नप्तुः सदृश

इत्यर्थः ।) प्रपौत्त्रः । इति हेमचन्द्रः ॥

प्रतिनवं, त्रि, (प्रतिगतं नवं नवतामिति ।) नूतनम् ।

इति जटाधरः ॥ (यथा, मेघदूते । ३८ ।
“पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीनः
सान्ध्यं तेजः प्रतिनवजवापुष्परक्तं दधानः ॥”)

प्रतिनिधिः, पुं, (प्रतिनिधीयते सदृशीक्रयते इति ।

प्रति + नि + धा + “उपसर्गे धोः किः ।” ३ । ३ ।
९२ । इति किः ।) प्रतिमा । इत्यमरः । २ । १० । ३६ ॥
सदृशः । (यथा, रघौ । १ । ८१ ।
“सुतां तदीयां सुरभेः कृत्वा प्रतिनिधिं शुचिः ।
आराधय सपत्नीकः प्रीता कामदुघा हि सा ॥”)
तस्य विवेचनं यथा । “अत्यन्तासामर्थेषु स्कन्द-
पुराणम् ।
‘पुत्त्रं वा विनयोपेतं भगिनीं भ्रातरं तथा ।
एषामभाव एवान्यं ब्राह्मणं विनियोजयेत् ॥’
गरुडपुराणे ।
‘भार्य्या भर्त्तृव्रतं कुर्य्यात् भार्य्यायाश्च पतिस्तथा ।
असामर्थ्ये तयोस्ताभ्यां व्रतभङ्गो न जायते ॥’
वराहपुराणे ।
‘पितृमातृपतिभ्रातृश्वश्रूगुर्व्वादिभूभुजाम् ।
अदृष्टार्थमुपोषित्वा स्वयञ्च फलभागभवेत् ॥’
अत्रैव विषये कात्यायनः ।
‘दक्षिणा नात्र कर्त्तव्या शुश्रूषा विहिता च या ।’
ननु प्रतिनिधौ ममेह शर्म्माद्यङ्गमन्त्रस्थफलं
कुत्रान्वेति चेत् प्रधान एव । तथा च शारी-
रिकभाष्ये श्रुतिः । ‘यां वै काञ्चनयज्ञऋत्विज
आशिषमाशासते यजमानायैव तामाशासते
इति होवाच इति ।’ ब्राह्मणसर्व्वस्वे तु यज-
मानायेत्यादौ यजमानस्यैव सेतिं पाठे विशेषः ।
तथा च सरलायां सूत्रम् । ‘यां वै काञ्चनयज्ञ-
ऋत्विगाशिषमाशास्ते सा यजमानस्यैवेति ।’
ऋत्विग्यजमानपदे प्रतिनिधिप्रधानपरे आका-
ङ्क्षितत्वादिति । अतएव प्रतिनिधिपुत्त्रादिनाप्या-
यान्तु नः पितर इत्यादिवदनूह एव पठ्यते
वाक्यस्य काल्पनिकत्वात्तत्र न तथेति ॥ * ॥
अत्र प्रतिनिधिप्रसङ्गेन स्मृत्यनुसारात् किञ्चि-
ल्लिख्यते । कालमाधवीये ।
‘काम्ये प्रतिनिधिर्नास्ति नित्यनैमित्तिके हि सः ।
काम्येषूपक्रमादूर्द्ध्वमन्ये प्रतिनिधिं विदुः ॥’
अस्यार्थस्तु माधवाचार्य्येणाभिहितः । यथा
नित्यनैमित्तिकं प्रतिनिधिनाप्युपक्रम्य कारयेत् ।
काम्यन्तु स्वसामर्थ्यं परीक्ष्य स्वयमेव उपक्रम्य
कुर्य्यात् । असामर्थ्ये तु उपक्रमादूर्द्ध्वं प्रतिनिधि-
नापि तत्कारयेत् । एतच्च काम्यं श्रौतपरम् ।
काम्यस्मार्त्तन्तु अन्यद्बाराप्युपक्रम्य कुर्य्यात् । तथा
च पराशरभाष्ये शातातपः ।
पृष्ठ ३/२५६
‘श्रौतं कर्म्म स्वयं कुर्य्यादन्योऽपि स्मार्त्तमाचरेत् ।
अशक्तौ श्रौतमप्यन्यः कुर्य्यादाचारमन्ततः ॥’
अन्ततः उपक्रमात् परतः । अन्यथा नित्य-
नैमित्तिकमात्रपरत्वे श्रौतस्मार्त्तभेदेनोपादानं
व्यर्थं स्यात्तयोरविशेषादेव प्रतिनिधिलाभात् ।
अतएव भारतपाठादौ तथा समाचारः ॥ * ॥
स्मृत्यर्थसारे ।
‘नाभावस्य प्रतिनिधिरभावान्तरमिष्यते ।’
सजातीयमप्यभावान्तरमभावस्य प्रतिनिधि-
र्नेष्यते । भावस्तु कदाचित् । यथोपवासादौ-
ब्राह्मणभोजनादि ।
‘नापि प्रतिनिधातव्यं निषिद्धं वस्तु कुत्रचित् ।
श्रोत्रियाणामभोज्यञ्च यद्द्रव्यं तदशेषतः ।
ग्राह्यं प्रतिनिधित्वेन होमकार्य्ये न कुत्रचित् ॥
द्रव्यं वैकल्पिकं किञ्चिद्यत्र सङ्कल्पितं भवेत् ।
तदलाभे सदृग्ग्राह्यं न तु वैकल्पिकान्तरम् ॥
उपात्ते तु प्रतिनिधौ मुख्यार्थो लभ्यते यदि ।
तत्र मुख्यमनादृत्य गौणेनैव समापयेत् ॥
संस्काराणामयोग्योऽपि मुख्य एव हि गृह्यते ।
न तु संस्कारयोग्योऽन्यो गृह्यते प्रतिरूपकः ॥
मुख्ये कार्य्यासमर्थे तु लब्धेऽप्येतस्य नादरः ।
प्रतिरूपमुपादाय शक्तमेवोपयुज्यते ॥
काष्ठै रूपैस्तथा पर्णैः क्षीरैः पुष्पैः फलैस्तथा ।
गन्धै रसैः सदृग्ग्राह्यं सर्व्वालाभे परं परम् ॥
ग्राम्याणान्तु भवेद्ग्राम्यमारण्यानामरण्यजम् ।
यवाभावे तु गोधूमास्तथा वेणुयवादयः ॥
हविष्ये गोघृतं ग्राह्यं तदलाभे तु माहिषम् ।
आजं वा तदलाभे तु साक्षात्तैलं प्रयुज्यते ॥
तैलाभावे ग्रहीतव्यं तैलजं तिलसम्भवम् ॥’
तैलजं तिलसम्भवं तैलभृष्टतिलपिष्टम् ।
‘तदभावे तु सस्नेहं कौसुम्भं सर्षपोद्भवम् ॥
वृक्षस्नेहोऽथ वा ग्राह्यः पूर्ब्बाभावे परः परः ।
तदभावे गवादीनां क्रमात् क्षीरं विधीयते ॥
तदलाभे दधि ग्राह्यमलाभे तिल इष्यते ।
यत्र मुख्यं दधि क्षीरं तत्रापि तदलाभतः ॥
अजादेः क्षीरदध्यादि तदलाभे तु गोघृतम् ।
मुख्यासन्नोऽथवा ग्राह्यः कार्य्यकारणसन्ततौ ॥
अतएव घृताभावे पूर्ब्बं दधि ततः पयः ॥’
तथा ।
‘सर्व्वत्र गौणकालेषु कर्म्मचोदितमाचरेत् ।
प्रायश्चित्तं वाहृतिभिर्हुत्वा कर्म्म समाचरेत् ॥’
मात्स्ये ।
‘घृतं न लभ्यते यत्र शुष्कक्षीरेण होमयेत् ।
क्षीरस्य च दधि ज्ञेयं मधुनश्च गुडो भवेत् ॥’
आयुर्व्वेदेऽपि ।
‘मधु यत्र न विद्येत तत्र जीर्णगुडो भवेत् ॥’
पैठीनसिः । ‘काण्डमूलपर्णपुष्पफलप्ररोहरस-
गन्धादीनां सादृश्येन प्रतिनिधिं कुर्य्यात् । सर्व्वा
लाभे यवः प्रतिनिधिर्भवति ।’ काण्डं नालं
प्ररोहोऽङ्कुरः । ‘सर्व्वालाभे यव’ इति कल्पतरुः ॥
अवयव इति नारायणोपाध्यायाः ॥ शान्ति-
दीपिकायां नारदीयपञ्चरात्रम् ।
‘अभावे चैव धातूनां हरितालं प्रशस्यते ।
बीजानामप्यलाभे तु यव एको विधीयते ॥
ओषधीनामलाभे तु सहदेवा प्रशस्यते ।
रत्नानामप्यलाभे तु मुक्ताफलमनुत्तमम् ॥
लौहानामप्यलाभे तु हेमपात्रं प्रकल्पयेत् ।’
लौहानां तैजसमात्राणाम् । न्यायप्राप्तप्रति-
निधिमधिकृत्य जैमिनिः ।
‘न देवताग्निशब्दक्रियाणामिति ।’ अस्यार्थः ।
देवताया अग्नेश्च आहवनीयादेः शब्दस्य
मन्त्रस्य क्रियायाः प्रजाद्यदृष्टार्थकर्म्मणश्चादृष्ट-
मात्रार्थकत्वेन आरादुपकारकत्वान्न प्रति-
निधिः । व्रीह्यादीनान्तु सन्निपत्योपकारकाणां
पुरोडाशसाधनं दृष्टमेव प्रयोजनमिति तत्र
प्रतिनिधिरुचित इत्युक्तम् ।” इत्येकादशी-
तत्त्वम् ॥ * ॥ “आरब्धकार्त्तिकादिस्नाने तु
व्याध्यादिनासामर्थ्ये पुत्त्रादिभिः प्रतिनिधिना
कारयितव्यं नानुकल्पविधिना नित्यस्नान एव
तद्विधानादिति ।” इति मलमासतत्त्वम् ॥ * ॥
स्वयंकरणासामर्थ्ये अन्यद्बारा । यथा, -- “दक्षः ।
‘स्वयं होमे फलं यच्च तदन्येन न जायते ।
ऋत्विक् पुत्त्रो गुरुर्भ्राता भागिनेयोऽथ विट्-
पतिः ।
एभिरेव हुतं यत्तु तद्धुतं स्वयमेव हि ॥’
विट्पतिर्ज्जामाता । एवञ्च ऋत्विगादीतरत्र
फलन्यूनता ॥ * ॥ अत्राशौचाशङ्कया बोधन-
दिनात् पूर्ब्बं शुचितत्कालजीवित्वरूपाधिकारा-
भावेऽपि यद्वरणादिकं क्रियते तत् कर्म्मकाले
तस्य नारदोक्तस्वयं प्रवर्त्तनवत् प्रवर्त्तनाय न तु
तदार्नीं प्रतिनिधीयते । अथवा ।
‘निःक्षिप्याग्निं स्वदारेषु परिकल्प्यर्त्विजन्तथा ।
प्रवसेत् कार्य्यवान् विप्रो वृथैव न चिरं वसेत् ॥’
इति छन्दोगपरिशिष्टवदन्यत्रापि प्रतिनिधी-
यते । एवं वरणं विनापि क्वचिद्यदि ऋत्विक्
प्रवर्त्तते तथापि तत्कर्म्मसिद्धिः । दक्षिणा च
तस्मै शुचिकाले दातव्येति । तथा च नारदः ।
‘ऋत्विक् च त्रिविधो दृष्टः पूर्ब्बैर्जुष्टः स्वयंकृतः ।
यदृच्छया वा यः कुर्य्यादार्त्विज्यं प्रीतिपूर्ब्बकम् ॥’
यदृच्छया स्वेच्छया ।” इति तिथ्यादितत्त्वम् ॥

प्रतिपः, पुं, (प्रतिपाति पालयतीति । प्रति +

पा + कः ।) शान्तनुराजपिता । इति शब्द-
रत्नावली ॥

प्रतिपक्षः, पुं, (प्रतिकूलः पक्ष इति प्रादि-

समासः ।) शत्रुः । इति हेमचन्द्रः । ३ । ३९२ ।
(यथा, मृच्छकटिके १० अङ्के ।
“अन्योन्यं प्रतिपक्षसंहतिमिमां लोकस्थितिं
बोधय-
न्नेष क्रीडति कूपयन्त्रघटिकान्यायप्रसक्तो
विधिः ॥”)
सादृश्यम् । यथा, --
“प्रतिबन्धिप्रतिनिधिप्रतिपक्षविडम्बकाः ।”
इति काव्यचन्द्रिका ॥
प्रतिवादी च ॥

प्रतिपत्, [द्] स्त्री, (प्रतिपद्यते उपक्रम्यते-

ऽनयेति । प्रति + पद् + करणे क्विप् ।) द्रगड-
वाद्यम् । इति त्रिकाण्डशेषः ॥ बुद्धिः । तिथि-
विशेषः । तत्पर्य्यायः । पक्षतिः २ । इत्यमरः ।
१ । ४ । १ ॥ सा च चन्द्रस्य प्रथमकलाक्रियारूपा ।
वृद्धिरूपा चेत् शुक्ला १ एकाङ्कबोधिता । ह्रास-
रूपा चेत् कृष्णा १७ सप्तदशाङ्कबोधिता ॥ * ॥
तस्या व्यवस्था यथा । “सा च कृष्णा द्वितीया-
युक्ता ग्राह्या प्रतिपत् सद्वितीया स्यादित्याप-
स्तम्बीयात् । शुक्ला अमावास्यायुता ग्राह्या ।
प्रतिपदाप्यमावास्येति वचनात् । त्रिसन्ध्यव्यापि-
नीत्वे तु सर्व्वत्र न युग्मादरः । तथा च परा-
शरः ।
‘त्रिसन्ध्यव्यापिनी या तु सैव पूज्या सदा तिथिः ।
न तत्र युग्मादरणमन्यत्र हरिवासरात् ॥’ * ॥
कृष्णापि उपवासे द्वितीयायुता न ग्राह्या ।
तथा च वृद्धवशिष्ठः ।
‘द्वितीया पञ्चमी वेधाद्दशमी च त्रयोदशी ।
चतुर्द्दशी चोपवासे हन्युः पूर्ब्बोत्तरे तिथी ॥’
द्वितीया वेधात् योगात् प्रतिपत्तृतीये हन्तीत्यर्थः ।
एवमन्यत्र । अत्रोपवासपरेण विशेषविधानात्
आपस्तम्बीयसामान्यवचनस्य सङ्कोचः ॥ * ॥
कार्त्तिकशुक्लप्रतिपदमधिकृत्य बलिं प्रति भग-
वद्वाक्यम् ।
‘वीर ! प्रतिपदा नाम तव भावी महोत्सवः ।
अत्र त्वां नरशाद्र्दूल ! हृष्टाः पुष्टाः स्वलङ्कृताः ।
पुष्पदीपप्रदानेन पूजयिष्यन्ति मानवाः ॥’
तत्र मन्त्रः ।
‘बलिराज ! नमस्तुभ्यं विराचनसुत प्रभो ।
भविष्येन्द्र सुराराते पूजेयं प्रतिगृह्यताम् ॥’
प्रतिपदा प्रतिपत्तिथ्या । अत्र प्रतिपदि । ब्रह्म
पुराणे तु बलिराजेतिमन्त्रस्य पूर्ब्बम् ।
‘मन्त्रेणानेन राजेन्द्र ! समन्त्री सपुरोहितः ।’
इत्यर्द्धम् ॥
पश्चादपि ।
‘एवं पूजां नृपः कृत्वा रात्रौ जागरणं ततः ।’
इत्यक्तमिति ॥
पुनर्ब्रह्मपुराणे ।
‘शङ्करश्च पुरा द्यूतं ससर्ज सुमनोहरम् ।
कार्त्तिके शुक्लपक्षे च प्रथमेऽहनि भूपते ! ॥
जितश्च शङ्करस्तत्र जयं लेभे च पार्व्वती ।
अतोऽर्थाच्छङ्करोदुःखी नित्यं गौरी सुखोषिता ॥
तस्मात् द्यूतं प्रकर्त्तव्यं प्रभाते तत्र मानवैः ।
तस्मिन् द्यूते जयो यस्य तस्य संवत्सरः शुभः ॥
पराजयो विरुद्धश्च लब्धनाशकरो भवेत् ॥’
द्यूतञ्चाप्राणिभिः क्रीडनम् । यथा मनुः ।
‘अप्राणिभियत् क्रियते तल्लोके द्यूतमुच्यते ॥’ * ॥
तत्तिथिमधिकृत्य भविष्योत्तरे ।
‘यो यो यादृशभावेन तिष्ठत्यस्यां युधिष्ठिर ! ।
हर्षदैन्यादिना तेन तस्य वर्षं प्रयाति हि ॥’
तथा ।
‘महापुण्या तिथिरियं बलिराज्यप्रवर्द्धिनी ।
पृष्ठ ३/२५७
स्नानं दानं शतगुणं कार्त्तिकेऽस्यां तिथौ भवेत् ॥’
प्रतिपद्रोहिणीयोगो यथा । भविष्ये ।
‘रोहिण्या प्रतिपद्युक्ता मार्गे मासि सितेतरा ।
गङ्गायां यदि लभ्येत सूर्य्यग्रहशतैः समा ॥’ * ॥
तस्याः संज्ञा नन्दा । तत्राभ्यङ्गनिषेधो यथा, --
‘नन्दासु नाभ्यङ्गमुपाचरेच्च
क्षौरञ्च रिक्तासु जयासु मांसम् ।
पूर्णासु योषित् परिवर्ज्जनीया
भद्रासु सर्व्वाणि समाचरेच्च ॥’ * ॥
नन्दादिक्रममाह ज्योतिषे ।
‘नन्दा भद्रा जया रिक्ता पूर्णा प्रतिपदः क्रमात् ॥’
प्रतिपदादिपञ्चदशतिथिषु पञ्चदशद्रव्यभक्षण-
निषेधमाह स्मृतिः ।
‘कुष्माण्डे चार्थहानिः स्यात् बृहत्यां न स्मरे-
द्धरिम् ।
बहुशत्रुः पटोले स्याद्धनहानिश्च मूलके ॥
कलङ्की चायते विल्वे तिर्य्यग्योनिश्च निम्बके ।
ताले शरीरनाशः स्यान्नारिकेले च मूर्खता ॥
तुम्बी गोमांसतुल्या स्यात् कलम्बी गोवधात्मिका ।
शिम्बी पापकरी प्रोक्ता पूतिका ब्रह्मघातिका ॥
वार्त्ताकौ सुतहानिः स्याच्चिररोगी च माषके ।
महापापकरं मांसं प्रतिपदादिषु वर्ज्जयेत् ॥’ * ॥
तत्र क्षौरनिषेधो यथा । क्षौरं विशाखाप्रति-
पत्सु वर्ज्यम् ।” इति तिथ्यादितत्त्वम् ॥ * ॥
तत्र जातफलम् ।
“मणिकनकविभूषासंयुतश्चारुकान्ति-
र्निजकुलकमलोद्धाटमार्त्तण्डविम्बः ।
प्रतिपदि शशिपूर्णो लब्धजन्मा प्रतापी
भवति विमलवेशश्चारुकेशः प्रजेशः ॥”
इति कोष्ठीप्रदीपः ॥ * ॥
सा अग्नेर्ज्जन्मतिथिः । यथा, --
महातपा उवाच ।
“विष्णोर्विभूतिमाहात्म्यं कथितं ते प्रसङ्गतः ।
तिथीनां शृणु महात्म्यं कथ्यमानं मया नृप ! ॥
इत्थम्भूतो महानग्निर्ब्रह्मक्रोधोद्भवो महान् ।
उवाच देवं ब्रह्माणं तिथिर्मे दीयतां प्रभो ! ।
यस्यामहं समस्तस्य जगतः ख्यातिमाप्नुयाम् ॥
ब्रह्मोवाच ।
देवानामथ यक्षाणां गन्धर्व्वाणाञ्च सत्तम् ! ।
आदौ प्रतिपदा येन त्वमुत्पन्नोऽसि पावक ! ॥
त्वत्पदात् प्रातिपदिकं संभविष्यन्ति देवताः ।
अतस्ते प्रतिपन्नाम तिथिरेषा भविष्यति ॥
तस्यां तिथौ हविष्येण प्राजापत्येन मूर्त्तिना ।
होष्यन्ति तेषां प्रीताः स्युः पितरः सर्व्वदेवताः ॥
चतुर्विधानि भूतानि मनुष्याः पशवोऽसुराः ।
देवाः सर्व्वे सगन्धर्व्वाः प्रीताः स्युस्तर्पिते त्वयि ॥
यश्चोपवासं कुर्व्वीत त्वद्भक्तः प्रतिपद्दिने ।
क्षाराशनो वा वर्त्तेत शृणु तस्य फलं महत् ॥
चतुर्युगानि षट्त्रिंशत्त्वल्लोकेशो महीयते ।
तेजस्वी रूपसम्पन्नो द्रव्यवान् जायते नरः ॥
इह जन्मन्यसौ राजा स्वर्गलोके महीयते ।
तूष्णीम्बभूव सोऽप्यग्निर्ब्रह्मदत्ताश्रयं ययौ ॥
य इदं शृणुयान्नित्यं प्रातरुत्थाय मानवः ।
अग्नेर्जन्म स पापेभ्यो मुच्यते नात्र संशयः ॥”
इति वराहपुराणे महातपोपाख्याने अग्न्युत्-
पत्तिनामाध्यायः ॥ * ॥ प्रतिपदि चन्द्रदर्शन-
कारणम् । यथा, ज्योतिषे ।
“अमावस्याघटीशोध्या षष्ट्याहर्मानसंयुता ।
सूर्य्यराहुघटीभ्यश्चेदधिका दृश्यते शशी ॥”

प्रतिपत्तिः, स्त्री, (प्रतिपदनमिति । प्रति + पद् +

क्तिन् ।) प्रवृत्तिः । (यथा, कुमारे । ५ । ४२ ।
“मनस्विनीनां प्रतिपत्तिरीदृशी ॥”)
प्रागल्भ्यम् । गौरवम् । (यथा, युक्तिकल्पतरौ
चारलक्षणे ।
“सुभक्तो राजसु तथा कार्य्याणां प्रतिपत्तिमान् ॥”)
संप्राप्तिः । (यथा, रघुः । १ । १ ।
“वागार्थाविव संपृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्व्वतीपरमेश्वरौ ॥”)
प्रबोधः । (यथा, भागवते । ३ । ६ । १४ ।
“चक्षुषांशेन रूपाणां प्रतिपत्तिर्यतो भवेत् ॥”)
पदप्राप्तिः । इति मेदिनी । ते, २०९ ॥ मीमां-
सकमते फलशून्यकर्म्माङ्गम् । यथा । देव-
तोद्देशेन यागादौ त्यक्तहविरादेरग्नौ निःक्षेपः ।
पूजितप्रतिमादेर्जले विसर्जनमित्यादि । श्राद्धादौ
सर्व्वशेषाङ्गकर्म्म यथा । प्रतिपत्तिरूपकर्म्माङ्ग
एव प्रतिपाद्याभावे तन्निवृत्तिः । इति तिथ्यादि-
तत्त्वम् ॥ * ॥ निर्व्वाहिताङ्गकद्रव्यकरणकाङ्गत्वं
प्रतिपत्तिरूपकर्म्माङ्गत्वम् । प्रतिपत्तिकर्म्म
उत्तरा क्रिया । यत्र एकेन द्रव्येण कर्म्म-
द्वयं निर्व्वाह्यते तत्र उत्तरं कर्म्म प्रतिपत्तिकर्म्म ।
तन्निर्व्वाहकञ्च प्रतिपाद्यम् । इति तट्टीकायां
काशीरामवाचस्पतिः ॥ * ॥ अथ प्रतिपत्त्यधि-
करणम् । शकृन्निरस्यति लोहितं निर-
स्यति गुदेनोपयजति सर्व्वं जुहोति । इत्य-
ग्नीसोमीयपशौ श्रूयते । शकृन्निरस्यतीति दृष्टा-
न्तार्थम् । यथा पशोरुदरवर्त्तिशकृत् त्यजति
तथा लोहितमपि त्यजति । अन्यत्र पशोः
शीर्षमांसोपक्रमेण होमः । अत्र तु गुदमांसोप-
क्रमेणेति । तत्र च यज्ञशेषमृत्विग्भ्यो ददातीति
परिभाषया मांसस्योत्तरा प्रतिपत्तिः प्राप्ता ।
अत्र सर्व्वहवनेन प्रतिपत्त्यभावात् कर्म्मवैगुण्यं
स्यादिति । अत्र सिद्धान्तः । यदिकारादुपपत्ति-
रिति । यदि प्रतिपाद्यं स्यात् तदा प्रतिपत्ति-
रङ्गमित्यर्थः । इति रामकृष्णीयाघिकरण-
कौमुदी ॥ * ॥ अपि च ।
“उपांशुयाजद्रव्येण शेषकार्य्यं भवेन्न वा ।
भवेद्धविर्भ्यः सर्व्वेभ्य इत्युक्त्या प्रापितत्वतः ॥
उक्ताज्यद्रव्यशेषस्तु भाव्युपस्तरणादिकृत् ।
अतो न प्रतिपत्त्यर्हः शेषकार्य्यं ततः कथम् ॥”
इति माधवीयाधिकरणमालायाम् ५ पादे प्रथ-
माधिकरणम् ॥

प्रतिपत्तिपटहः, पुं, (प्रतिपत्तये पटहः ।) वाद्य-

विशेषः । नागरा इति भाषा । तत्पर्य्यार्यः ।
लम्पापटहः २ । इति हारावली ॥

प्रतिपत्तूर्य्यं, क्ली, (प्रतिपदे संविदे तूर्य्यम् ।)

द्रगडवाद्यम् । इति त्रिकाण्डशेषः ॥

प्रतिपत्रफला, स्त्री, (प्रतिपत्रं फलमस्याः ।) क्षुद्र-

कारवेल्ली । इति राजनिर्घण्टः ॥

प्रतिपन्नं, त्रि, (प्रतिपद्यते स्मेति । प्रति + पद् +

क्तः ।) अवगतम् । इत्यमरः । ३ । २ । १०८ ॥
(यथा, कुमारे । ४ । ३३ ।
“प्रमदाः पतिवर्त्मगा इति
प्रतिपन्नं हि विचेतनैरपि ॥”)
अङ्गीकृतम् । इति मेदिनी । ने, १९४ ॥
विक्रान्तः । इति हेमचन्द्रः ॥

प्रतिपर्णशिफा, स्त्री, (प्रतिपर्णं शिफा जटा

अस्याः ।) द्रवन्ती । इति राजनिर्घण्टः ॥

प्रतिपादकः, त्रि, (प्रतिपादयतीति । प्रति + पद् +

णिच् + ण्वुल् ।) प्रतिपत्तिजनकः । बोधकः ।
(यथा, सर्व्वदर्शनसंग्रहे पूर्णप्रज्ञदर्शने । “ननु
सजातीयविजातीयस्वगतनानात्वशून्यं ब्रह्मतत्त्व-
मिति प्रतिपादकेषु वेदान्तेषु जागरूकेषु कथ-
मशेषगुणत्वमिति ॥”) यथा च । प्रतिपाद्यप्रति-
पादकभावश्च सम्बन्धः । इति दिनकरी ॥

प्रतिपादनं, क्ली, (प्रति + पद् + णिच् + भावे

ल्युट् ।) दानम् । प्रतिपत्तिः । बोधनम् । इति
मेदिनी । ने, २३९ ॥ (निष्पादनम् । यथा,
महाभारते । १२ । १४१ । १४ ।
“त्रेता विमोक्षसमये द्वापरप्रतिपादने ॥”)

प्रतिपालकः, त्रि, (प्रति + पा + णिच् + ण्वुल् ।)

पालनकर्त्ता । प्रतिपालयतीति प्रतिपूर्ब्ब-
ञ्यन्तपाधातोर्णकप्रत्ययनिष्पन्नः ॥

प्रतिपालनं, क्ली, (प्रति + पा + णिच् + भावे ल्युट् ।)

रक्षणम् । पोषणम् । यथा । “कुन्त्या प्रसूतस्य
कर्णस्य राधाप्रतिपालनात् राधेयत्वं सङ्गच्छते ।”
इति दुर्गादासः ॥

प्रतिपाल्यं, त्रि, (प्रति + पा + णिच् + कर्म्मणि

यत् ।) प्रतिपालनीयम् । प्रतिपालितव्यम् ।
प्रतिपूर्व्वञ्यन्तपालरक्षण इत्यस्मात् कर्म्मणि
यप्रत्ययेन निष्पन्नम् ॥ (यथा, महाभारते ।
१३ । ४५ । २ ।
“या पुत्त्रकस्य ऋद्धस्य प्रतिपाल्या तदा भवेत् ।
अथचेन्नाहरेत् शुल्कं क्रीता शुक्लप्रदस्य सा ॥”)

प्रतिप्रसवः, पुं, (प्रति प्रतिषिद्धं प्रसूते इति ।

प्रति + प्र + सू + अप् ।) निषिद्धस्य पुनर्विधा-
नम् । यथा, प्रायश्चित्ततत्त्वे ।
“रविशुक्रदिने चैव द्वादश्यां श्राद्धवासरे ।
इत्यादिना निषिद्धस्य तिलतर्पणस्य तीर्थेतरत्र
प्रतिप्रसवमाह स्मृतिः ।
अयने विषुवे चैव संक्रान्त्यां ग्रहणेषु च ॥”

प्रतिप्रसूतः, त्रि, (प्रतिप्रसूते स्मेति । प्रति + प्र +

सू + क्तः ।) प्रतिप्रसवविशिष्टः । इति मल-
मासतत्त्वम् ॥ पुनःसम्भावितः । यथा, --
“उक्तानि प्रतिसिद्धानि पुनःसम्भावितानि च ।
सापेक्षनिरपेक्षाणि मीमांस्यानीह कोविदैः ॥”
इति सत्कृत्यमुक्तावली ॥
पृष्ठ ३/२५८

प्रतिफलं, क्ली, (प्रतिफलतीति । प्रति + फल् +

अच् ।) प्रतिविम्बम् । यथा, --
“प्रतिफलमवलोक्य स्वीयमिन्दोः कलायां
हरशिरसि परस्या वासमाशङ्कमाना ॥”
इति रसमञ्जरी ॥
तुल्यफलम् । फलं फलञ्च ॥

प्रतिफलनं, क्ली, (प्रति + फल् + ल्युट् ।) प्रति-

विम्बम् । यथा, --
“न विम्बं त्वद्विम्बप्रतिफलनलाभादरुणितं
तुलामध्यारोढुं कथमपि न लज्जेत कलया ॥”
इत्यानन्दलहरी । ६२ ॥

प्रतिफलितं, त्रि, (प्रति + फल् + क्त ।) प्रति-

विम्बितम् । यथा, --
“मोहातीतो विशुद्धो मुनिमिरभिहितो मोह-
संक्रान्तमूर्त्तिः
साक्षी स्वान्ते तदुत्थे प्रतिफलितवपुः -- ॥”
इत्यादि मुक्तिवादगादाधरी ॥

प्रतिफुल्लकः, त्रि, (प्रतिफुल्लति विकसतीति ।

प्रति + फुल्ल + ण्वुल् ।) प्रफुल्लः । इति शब्द-
चन्द्रिका ॥

प्रतिबद्धः, त्रि, प्रतिबन्धविशिष्टः । प्रतिपूर्ब्बबन्ध-

धातोः कर्म्मणि क्तप्रत्ययेन निष्पन्नः ॥

प्रतिबध्यः, त्रि, (प्रति + बन्ध + यत् ।) पतिबन्ध-

नीयः । प्रतिबन्धार्हः । यथा । वस्तुतो हेतु-
मन्निष्ठाभावप्रतियोगितावच्छेदकत्वप्रकारिता-
शून्यज्ञानवृत्तिप्रकारितानवच्छेद्यत्वेनैव प्रति-
बध्यत्वं निवेश्यमिति व्याप्त्यनुगमजागदीशी ॥

प्रतिबन्धः, पुं, (प्रति + बन्ध + घञ् ।) कार्य्यप्रति

धातः । तत्पर्य्यायः । प्रतिष्टम्भः २ । इत्यमरः ।
३ । २ । २७ ॥ (यथा, रघौ । ८ । ८० ।
“स तपःप्रतिबन्धमन्युना
प्रमुखाविष्कृतचारुविभ्रमाम् ।
अशपद्भव मानुषीति तां
शमवेलाप्रलयोर्म्मिणा भुवि ॥”)

प्रतिबन्धकः, पुं, (प्रतिबध्नातीति । प्रति + बन्ध +

ण्वुल् ।) विटपः । इति शब्दचन्द्रिका ॥ प्रति-
रोधके, त्रि ॥ (यथा, राजतरङ्गिण्याम् । ३ । १९९ ।
“त्यागिनो निष्कलङ्कस्य को दोषोऽस्य महीपतेः ।
ममापुण्यन्तु तन्निन्द्यं यच्छेयःप्रतिबन्धकम् ॥”)

प्रतिबन्धिः, पुं, (प्रतिबध्नात्यनेनेति । प्रति +

बन्ध + इन् ।) अनिष्टान्तरप्रसञ्जकं वाक्यम् ।
प्रतिबन्धः । यथा । प्रतिबन्धेरनुत्तरत्वादाहेति
विशेषव्याप्तिजागदीशी ॥

प्रतिबलः, त्रि, (प्रतिगतं बलमस्य ।) समर्थः ।

शक्तः । इति त्रिकाण्डशेषः ॥ (प्रतिरूपं
बलमस्य ।) तुल्यबलः ॥ (यथा, महाभारते ।
१ । १५४ । ८ ।
“नायं प्रतिबलो भीरु ! राक्षसापसदो मम ।
सोढुं युधि परिस्पन्दमथवा सर्व्वराक्षसाः ॥”)

प्रतिभयं, त्रि, (प्रतिगतं भयं यत्र ।) भयङ्करम् ।

इत्यमरः । १ । ७ । २० ॥ (यथा, रामायणे ।
६ । ९० । ३५ ।
“दिशश्च प्रदिशश्चैव बभूवुः शरसङ्कुलाः ।
तमसा पिहितं सर्व्वमासीत् प्रतिभयं महत् ॥”)
भये, क्ली । इति मेदिनी । ये, १२२ ॥

प्रतिभा, स्त्री, (प्रतिभाति शोभते इति । प्रति +

भा + कः । टाप् ।) बुद्धिः । इति हेमचन्द्रः ॥
प्रत्युत्पन्नमतित्वम् । इति प्रतिभान्वितशब्द-
टीकायां भरतः ॥ नवनवोन्मेषशालिनी प्रज्ञा ।
यथाह, रुद्रः ।
“प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा मता ॥”
(यथा च, महाभारते । १२ । २५९ । १ ।
“सूक्ष्मं साधु समुद्दिष्टं नियतं ब्रह्मलक्षणम् ।
प्रतिभा त्वस्ति मे काचित् तां ब्रूयामनुमानतः ॥”
प्रतिभायते इति । प्रति + भा + “आतश्चोप-
सर्गे ।” ३ । ३ । १०६ । इति अङ् ।) दीप्तिश्च ॥

प्रतिभान्वितः, त्रि, (प्रतिभया अन्वितः ।) प्रगल्भः ।

प्रत्युत्पन्नमतियुक्तः । इत्यमरः । ३ । १ । २५ ॥

प्रतिभामुखः, त्रि, (प्रतिभान्वितं मुखमस्य ।)

प्रगल्भः । इति हेमचन्द्रः । ३ । ७ ॥

प्रतिभावान्, [त्] त्रि, (प्रतिभा विद्यतेऽस्य ।

प्रतिभा + मतुप् । मस्य वः ।) प्रतिभान्वितः ।
प्रागल्भ्ययुक्तः । प्रतिभाशब्दादस्त्यर्थे वतुप्रत्य-
येन निष्पन्नः ॥ (यथा, कथासरित्सागरे । ४ । ३२ ।
“आगच्छन्तीञ्च सायन्तां कुमारसचिवो हठात् ।
अग्रहीदथ साप्येनमवोचत् प्रतिभावती ॥”)

प्रतिभाहानिः, स्त्री, (प्रतिभाया हानिः ।) बुद्धि-

नाशः । इति शब्दमाला ॥

प्रतिभूः, पुं, (प्रतिरूपः प्रतिनिधिर्वा भवतीति ।

प्रति + भू + “भुवः संज्ञान्तरयोः ।” ३ । २ ।
१७९ । इति क्विप् । “धनिकाधमर्णयोरन्तरे यस्ति-
ष्ठति विश्वासार्थं स प्रतिभूः ।” इति सिद्धान्त-
कौमुदी ॥) लग्नकः । इत्यमरः । २ । १० । ४४ ॥
जामिन् इति पारस्यभाषा ॥ (यथा, प्रद्युम्न-
विजये । १ अङ्के ।
“यश्चैकः प्रतिभूः फलेषु कृतिनां यज्ञेषु यज्ञेश्वरो
विघ्नस्तोमतमःसमूहतपनः सोऽयं स्वयं
श्रीहरिः ॥”)
तस्य कर्त्तव्यत्वं यथा, --
“सभापतेः कर्त्तव्यमाह कात्यायनः ।
‘अथ चेत् प्रतिभूर्नास्ति वादयोग्यस्तु वादिनोः ।
स रक्षितो दिनस्यान्ते दद्याद्भृत्याय वेतनम् ॥’
प्रतिभवति तत्कार्य्ये तद्वद्भवतीति प्रतिभूर्लग्नकः ।
वादयोग्यः विवादफलस्य साधितधनादिदानस्य
दण्डदानस्य च क्षमः । वादिनोः भाषावादिनः
उत्तरवादिनश्च । तथा च याज्ञवल्क्यः ।
‘उभयोः प्रतिभूर्ग्राह्यः समर्थः कार्य्यनिर्णये ।
प्रतिभुवस्त्वभावे च राज्ञा संज्ञपनं तयोः ॥’
राज्ञा संज्ञपनं दण्डतुल्याधिकरणम् । निर्णयस्य
कार्य्ये धनादिदाने राजदन्तादित्वात् कार्य्य-
शब्दस्य पूर्ब्बनिपातः । भृत्यस्तद्रक्षको राज-
नियुक्तः ।” इति व्यवहारतत्त्वम् ॥

प्रतिमः, त्रि, (प्रतिमातीति । प्रति + मा + “आत-

श्चोपसर्गे ।” ३ । १ । १३६ । इति कः ।)
उत्तरपदस्थे सदृशवाचकः । यथा, --
“स्युरुत्तरपदे प्रख्यः प्रकारः प्रतिमो निभः ॥”
इति हेमचन्द्रः ॥
(यथा, रामायणे । २ । ४० । १३ ।
“आयसं हृदयं नूनं राममातुरसंशयम् ।
यद्देवगर्भप्रतिमे वनं याति न भिद्यते ॥”)

प्रतिमा, स्त्री, (प्रतिमीयते इति । प्रति + मा +

अङ् । टाप् ।) अनुकृतिः । गजदन्तस्य वन्धः ।
इति मेदिनी । मे, ४८ ॥ (प्रतिविम्बम् । यथा,
रघुः । ७ । ६४ ।
“निमीलितानामिव पङ्कजानां
मध्ये स्फुरन्तं प्रतिमाशशाङ्कम् ॥”
तथा च कुमारे । ७ । ३६ ।
“आत्मानमासक्तगणोपनीते
खड्गे निषक्तप्रतिमं ददर्श ॥”
प्रतिमीयते अनयेति करणे अङ् ।) मूर्त्ति-
सदृशमृच्छिलादिनिर्म्मितप्रतिरूपकम् । तत्-
पर्य्यायः । प्रतिमानम् २ प्रतिविम्बम् ३ प्रति-
यातना ४ प्रतिच्छाया ५ प्रतिकृतिः ६ अर्च्चा ७ प्रति-
निधिः ८ । इत्यमरः । २ । १० । ३६ ॥ प्रतिच्छन्दः ९
प्रतिकायः १० प्रतिरूपम् ११ । इति हेम-
चन्द्रः ॥ * ॥ (यथा, महाभारते । १ । १७२ । २७ ।
“गिरिपृष्ठे तु सा तस्मिन् स्थिता स्वसितलोचना ।
विभ्राजमाना शुशुभे प्रतिमेव हिरण्मयी ॥”)
देवप्रतिमाघटनप्रमाणादि यथा, --
“विष्णोस्तावत् प्रवक्ष्यामि यादृग्रूपं प्रशस्यते ।
शङ्खचक्रधरं शान्तं पद्महस्तं गदाधरम् ॥
छत्राकारं शिरस्तस्य कम्बुग्रीवं शुभेक्षणम् ।
तुङ्गनासं शुक्तिकर्णं प्रशान्तोरुभुजक्रमम् ॥
क्वचिदष्टभुजं विद्याच्चतुर्भुजमथापि वा ।
द्विभुजं वापि कर्त्तव्यं भवनेषु पुरोधसा ॥” * ॥
देयमष्टभुजस्यास्य यथास्थानं निबोध मे ।
खड्गो गदा शरः पद्मं देयं दक्षिणतो हरेः ।
धनुश्च खेटकञ्चैव शङ्खचक्रे च वामतः ॥ * ॥
चतुर्भुजस्य वक्ष्यामि यथैवायुधसंस्थितिः ।
दक्षिणेन गदां पद्मं वासुदेवस्य कारयेत् ॥
वामतः शङ्खचक्रे च कर्त्तव्ये भूतिमिच्छता ।
कृष्णावतारे तु गदा वामहस्ते प्रशस्यते ॥
यथेच्छया शङ्खचक्रमुपरिष्टात् प्रकल्पयेत् ।
अधस्तात् पृथिवी तस्य कर्त्तव्या पादमध्यतः ।
दक्षिणे प्रणतं तद्वत् गरुत्मन्तं निवेशयेत् ।
वामतस्तु भवेल्लक्ष्मीः पद्महस्ता सुशोभना ।
गरुत्मानग्रतो वापि संस्थाप्यो भूतिमिच्छता ॥
श्रीश्च पुष्टिश्च कर्त्तव्ये पार्श्वयोः पद्मसंयुते ।
तोरणञ्चोपरिष्टाच्च विद्याधरसमन्वितम् ॥
देवदुन्दुभिसंयुक्तं गन्धर्व्वमिथुनान्वितम् ।
पत्रवल्लीसमोपेतं सिंहव्यालसमन्वितम् ।
तथा कल्पलतोपेतं स्तुवद्भिरमरेश्वरैः ।
एवंविधो भवेद्बिष्णुस्त्रिभागेनास्य पीठिका ॥
नवतालप्रमाणास्तु देवदानवकिन्नराः ।
अतःपरं प्रवक्ष्यामि मानोन्मानं विशेषतः ॥ * ॥
जालान्तरप्रविष्टानां भानूनां यद्रजः स्फुटम् ।
पृष्ठ ३/२५९
त्र्यसरेणुः स विज्ञेयो वालाग्रन्तैरथाष्टभिः ॥
तदष्टकेन लिख्या तु यूका लिख्याष्टकैर्मता ।
यवो यूकाष्टकं तद्वदष्टभिस्तैस्तदङ्गुलम् ॥
स्वकीयाङ्गुलमानेन मुखं स्याद्द्वादशाङ्गुलम् ।
मुखमानेन कर्त्तव्या सर्व्वावयवकल्पना ॥ * ॥
सौवर्णी राजती वापि ताम्री रत्नमयी शुभा ।
शैलदारुमयी वापि लौहसीसमयी तथा ॥
रीतिका धातुयुक्ता वा ताम्रकांस्यमयी तथा ।
शुभदारुमयी वापि देवतार्च्चा प्रशस्यते ॥ * ॥
अङ्गुष्ठपर्व्वादारभ्य वितस्तिर्यावदेव तु ।
गृहेषु प्रतिमा कार्य्या नाधिका शस्यते बुधैः ॥
आषोडशात्तु प्रासादे कर्त्तव्या नाधिका ततः ।
मध्यमेन कनिष्ठा तु कार्य्या वित्तानुसारतः ॥
द्वारोच्छ्रायस्य यन्मानमष्टधा तन्तु कारयेत् ।
भागद्वयेन प्रतिमा त्रिभागीकृत्य तत् पुनः ॥
पीठिका भागतः कार्य्या नातिनीचा न
चोच्छ्रिता ।
प्रतिमामुखमानेन नव भागान् प्रकल्पयेत् ॥
चतुरङ्गुला भवेद्ग्रीवा भागेन हृदयं पुनः ।
नाभिस्तस्मादधः कार्य्या भागेनैकेन शोभिता ॥
निम्नत्वे विस्तरत्वे च अङ्गुलं परिकीर्त्तितम् ॥
नाभेरधस्तथा मेढ्रं भागेनैकेन कल्पयेत् ।
त्रिभागमायतावूरू जानुनी चतुरङ्गुले ॥
जङ्घे द्विभागे विख्याते पादौ तु चतुरङ्गुलौ ।
चतुर्द्दशाङ्गुलस्तद्वन्मौलिरस्य प्रकीर्त्तितः ॥
ऊर्द्धमानमिदं प्रोक्तं पृथुत्वञ्च निबोधत ।
सर्व्वावयवमानेषु विस्तरं शृणुत द्विजाः ॥ * ॥
चतुरङ्गुलं ललाटं स्यादूर्द्ध्वं नासा तथैव च ।
द्विरङ्गुलं हनु ज्ञेयमोष्ठश्चाङ्गुलसम्मितः ॥
अष्टाङ्गुलं ललाटन्तु तावन्मात्रे भ्रुवौ मते ।
अर्द्धाङ्गुला भ्रुवोर्लेखा मध्ये धनुरिवानता ॥
उन्नताग्रा भवेत् पार्श्वे श्लक्ष्णा तीक्ष्णा प्रशस्यते ।
अक्षिणी द्व्यङ्गुलायमि तदर्द्धञ्चैव विस्तरे ॥
उन्नतोदरमध्ये तु रक्तान्ते शुभलक्षणे ।
तारका च त्रिभागेन दृष्टिः स्यात् पञ्चभागिकी ॥
द्बिरङ्गुलं भ्रुवोर्मध्यं नासामूलमथाङ्गुलम् ।
नासाग्रविस्तरं तद्वत् पुटद्वयमथानतम् ॥
नासापुटविलं तद्वदर्द्धाङ्गुलमुदाहृतम् ।
कपोले द्व्यङ्गुले तद्वत् कर्णमूलाद्विनिर्गते ॥
हन्वग्रमण्डलं तद्वद्विस्तारो द्ब्यङ्गुलो भवेत् ।
अर्द्धाङ्गुला भ्रुवो राजी मृणालसदृशी समा ॥
अर्द्धाङ्गुलः समस्तद्वदुत्तरोष्ठस्तु विस्तरे ।
निष्पावसदृशं तद्वन्नासापुटदलम्भवेत् ॥
सृक्कणी ज्योतिस्तुल्ये च कर्णमूलात् षडङ्गुले ।
कर्णौ तु भ्रूसमौ ज्ञेयावूर्द्ध्वन्तु चतुरङ्गुलौ ॥
द्व्यङ्गुलौ कर्णपाशौ तु मात्रामेकान्तु विस्तृतौ ।
कर्णयोरुपरिष्टाच्च मस्तकं द्वादशाङ्गुलम् ।
ललाटं पृष्ठतोऽर्द्धेन प्रोक्तमष्टादशाङ्गुलम् ।
षट्त्रिंशदङ्गुलश्चास्य परिणाहः शिरोगतः ॥
सकेशनिचयश्चास्य द्विचत्वारिंशदङ्गुलः ।
केशान्ताद्धनुके तद्वदङ्गुलानि तु षोडश ॥
ग्रीवामध्यपरीणाहश्चतुर्विंशतिरङ्गुलः ।
अष्टाङ्गुला भवेद्ग्रीवा पृथुत्वेन विशिष्यते ॥
स्तनग्रीवान्तरं प्रोक्तमेकतालं स्वयम्भुवा ।
स्तनयोरन्तरं तद्बद्द्वादशाङ्गुलमिष्यते ॥
स्तनयोर्मण्डलं तद्वद्द्व्यङ्गुलं परिकीर्त्तितम् ।
चूचुके मण्डलस्यान्तर्यवमात्रे उभे स्मृते ॥
द्वितालञ्चापि विस्ताराद्वक्षःस्थलमुदाहृतम् ।
कक्षे षडङ्गुले प्रोक्ते बाहुमूलस्तनान्तरे ॥
चतुर्द्दशाङ्गुलौ पादावङ्गुष्ठस्तु त्रिरङ्गुलः ।
पञ्चाङ्गुलपरीणाहमङ्गुष्ठाग्रं तथोन्नतम् ॥
अङ्गुष्ठकसमा तद्वदायामे स्यात् प्रदेशिनी ।
तस्याः षोडशभागेन हीयते मध्यमाङ्गुली ॥
अनामिकाष्टभागेन कनिष्ठा चापि हीयते ।
पर्व्वत्रयेण चाङ्गुल्यो गुल्फौ द्व्यङ्गुष्ठकौ मतौ ॥
पार्ष्णिर्द्व्यङ्गुलमात्रा तु कलयोच्चा प्रकीर्त्तिता ।
द्विपर्व्वाङ्गुष्ठकः प्रोक्तः परीणाहश्च द्व्यङ्गुलः ॥
प्रदेशिनीपरीणाहस्त्र्यङ्गुलः समुदाहृतः ।
अन्यासामष्टभागेन हीयते क्रमशो द्विजाः ॥
अङ्गुलेनोच्छ्रयः कार्य्यः अङ्गुष्ठस्य विशेषतः ।
तदर्द्धेन तु शेषाणामङ्गुलीनान्तथोच्छ्रयः ॥
जङ्घाग्रे परिणाहस्तु अङ्गुलानि चतुर्द्दश ।
जङ्घामध्ये परीणाहस्तथैवाष्टादशाङ्गुलः ॥
जानुमध्ये परीणाह एकविंशतिरङ्गुलः ।
जानूच्छ्रायोऽङ्गुलः प्रोक्तो मण्डलं त्र्यङ्गुलं पुनः ॥
ऊरुमध्ये परीणाहश्चाष्टाविंशतिकाङ्गुलः ।
एकत्रिंशोपरिष्टाच्च वृषणौ त्र्यङ्गुलौ पुनः ॥
त्र्यङ्गुलञ्च तथा मेढ्रं परीणाहे षडङ्गुलम् ।
मणिबन्धोदयां विद्यात् केशरेखां तथैव च ॥
मणिकोषपरीणाहश्चतुरङ्गुल इष्यते ।
विस्तारेण भवेत्तद्वत् कटिरष्टादशाङ्गुला ।
द्वाविंशतिस्तथा स्त्रीणां स्तनौ च द्वादशाङ्गुलौ ॥
नाभिमध्ये परीणाहो द्विचत्वारिंशदङ्गुलः ।
पुरतः पञ्चपञ्चाशत् कट्याश्चैव तु वेष्टनम् ॥
कक्षयोरुपरिष्टात्तु स्कन्धौ प्रोक्तौ षडङ्गुलौ ।
अष्टाङ्गुलाञ्च विस्तारे ग्रीवाञ्चैव तु निर्द्दिशेत् ॥
परीणाहे तथा ग्रीवां कला द्वादश निर्द्दिशेत् ।
आयामो भुजयोस्तद्वद्द्विचत्वारिंशदङ्गुलः ॥
कार्य्यन्तु बाहुशिखरं प्रमाणे षोडशाङ्गुलम् ।
ऊर्द्ध्वं यद्बाहुपर्व्वान्तं विद्यादष्टादशाङ्गुलम् ॥
तथैकाङ्गुलहीनन्तु द्वितीयं पर्व्वमुच्यते ।
बाहुमध्ये परीणाहो भवेदष्टादशाङ्गुलः ॥
षोडशोक्तः प्रबाहुस्तु षट्कलोग्रकरो मतः ।
सप्ताङ्गुलं करतलं पञ्चमध्याङ्गुली मता ॥
अनामिका मध्यमायाः सप्तभागेन हीयते ।
तस्यास्तु पञ्चभागेन कनिष्ठा परिहीयते ॥
मध्यमायास्तु हीना वै पञ्चभागेन तर्ज्जनी ।
अङ्गुष्ठतर्ज्जनीमूलादधः प्रोक्तस्तु तत्समः ॥
अङ्गुष्ठपरिणाहस्तु विज्ञेयश्चतुरङ्गुलः ।
शेषाणामङ्गुलीनान्तु भागो भागेन हीयते ॥
मध्यमामध्यपर्व्वन्तु अङ्गुलद्वयमायतम् ।
यवो यवस्तु सर्व्वासां तस्यां तस्यां प्रहीयते ॥
अङ्गुष्ठपर्व्वमध्यन्तु तर्ज्जन्या सदृशं भवेत् ।
यवद्वयाधिकं तद्वदग्रपर्व्वमुदाहृतम् ॥
पर्व्वार्द्धेन नखान् विद्यादङ्गलीषु समन्ततः ।
स्निग्धं श्लक्ष्णं प्रकुर्व्वीत ईषद्रक्तं तथाग्रजम् ॥
निम्नपृष्टं भवेन्मध्ये पार्श्वतः कलयोच्छ्रितम् ।
तथैव केशपर्य्यन्तः स्कन्धोपरि दशाङ्गुलः ॥
स्त्रियः कार्य्यास्तु तद्विज्ञैस्तनोरुजघनाधिकाः ।
चतुर्द्दशाङ्गलायाममुदरं तासु निर्द्दिशेत् ॥
नानाभरणसम्पन्नाः किञ्चित्श्लक्ष्णभुजास्ततः ।
किञ्चिद्दीर्घं भवेद्बक्त्रमलकावलिरुत्तमा ॥
नासा ग्रीवा ललाटञ्च निर्द्दिष्टाश्चतुरङ्गुलाः ।
अर्द्धार्द्धाङ्गुलिविस्तारः शस्यतेऽधरपल्लवः ॥
अधिकं नेत्रयुग्मन्तु चतुर्भागेन निर्द्दिशेत् ।
ग्रीवाबलिश्च कर्त्तव्या किञ्चिदर्द्धाङ्गुलोच्छ्रया ॥
एवं नारीषु सर्व्वासु देवानां प्रतिमासु च ।
नवतालमिदं प्रोक्तं लक्षणं पापनाशनम् ॥ * ॥
अतः परं प्रवक्ष्यामि देवाकारान् विशेषतः ।
दशतालः स्मृतो रामो बलिर्वैरोचनिस्तथा ॥
वराहो नरसिंहश्च सप्ततालश्च वामनः ।
मत्स्यकूर्म्मौ तु निर्द्दिष्टौ यथाशोभं स्वयम्भुवा ॥
अतः परं प्रवक्ष्यामि रुद्राद्याकारमुत्तमम् ।
आपीनोरुभुजस्कन्धस्तप्तकाञ्चनसप्रभः ॥
शुक्लार्करश्मिसंघातचन्द्राङ्कितजटो विभुः ।
जटासुकुटधारी च द्विरष्टवत्सराकृतिः ॥
बाहुवारणहस्ताभो वृत्तजङ्घोरुमण्डलः ।
ऊर्द्धकेशस्तु कर्त्तव्यो दीर्घायतविलोचनः ॥
व्याघ्रचर्म्मपरीधानः कटिसूत्रत्रयान्वितः ।
हारकेयूरसम्पन्नो भुजङ्गाभरणस्तथा ॥
बाहवश्चापि कर्त्तव्या नानाभरणभूषिताः ।
पीनोरुगण्डफलकः कुण्डलाभ्यामलङ्कृतः ॥
आजानुलम्बबाहुश्च सौम्यमूर्त्तिः सुशोभनः ।
खेटकं वामहस्ते तु खड्गञ्चैष तु दक्षिणे ॥
शक्तिं दण्डं त्रिशूलञ्च दक्षिणे तु निवेशयेत् ।
कपालं वामपार्श्वे तु नागं खट्टाङ्गमेव च ॥
एकश्च वरदो हस्तस्तथाक्षवलयोऽपरः ।
वैशाखन्तानकं कृत्वा नृत्याभिनयसंस्थितः ॥
नृत्ये दशभुजः कार्य्यो गजासुरवधे तथा ।
तथा त्रिपुरदाहे च बाहवः षोडशैव तु ॥
शङ्खञ्चक्रं गदा शार्ङ्गं घण्टा तत्राधिका भवेत् ।
तथा धनुः पिनाकञ्च शरो विष्णुमयस्तथा ॥
चतुर्भुजोऽष्टबाहुर्व्वा ज्ञानयोगेश्वरो मतः ।
तीक्ष्णनासाग्रदशनः करालवदनो महान् ॥
भैरवः शस्यते लोके प्रत्यायतनसंस्थितः ।
न मूलायतने कार्य्यो भैरवस्तु भयङ्करः ॥
नारसिंहो वराहो वा तथान्येऽपि भयङ्कराः ।
न हीना नाधिकाङ्गा च कर्त्तव्या देवता क्वचित् ॥
स्वामिनं घातयेन्न्यूना करालवदना तथा ।
अधिका शिल्पिनं हन्यात् कृशा चैवार्थनाशिनी ॥
कृशोदरी तु दुर्भिक्षं निर्म्मांसा धननाशिनी ।
वक्रनासा तु दुःखाय संक्षिप्ताङ्गी भयङ्करी ॥
चिपिटा दुःखशोकाय अनेत्रा नेत्रनाशिनी ।
दुःखदा हीनवक्त्रा तु पाणिपादकृशा तथा ॥
हीनाङ्गा हीनजङ्घा च भ्रमोन्मादकरी नृणाम् ।
वक्रवक्त्रा च राजानं कटिहीना च या भवेत् ॥
पृष्ठ ३/२६०
पाणिपादविहीनायां जायते मरको महान् ।
जङ्घाजानुविहीना च शत्रुकल्याणकारिणी ॥
पुत्त्रमित्रविनाशाय हीना वक्षःस्थलैस्तु या ।
सम्पूर्णावयवा या तु आयुर्लक्ष्मीप्रदा सदा ।
एवं लक्षणमासाद्य कर्त्तव्यः परमेश्वरः ॥ * ॥
स्तूयमानः सुरैः सर्व्वैः समन्ताद्दर्शयेद्भवम् ।
शक्रेण नन्दिना चैव महाकालेन शङ्करम् ॥
प्रणता लोकपालाश्च पार्श्वे तु गणनायकाः ।
नृत्यद्भृङ्गिरिटिश्चैव भूतवेतालसंवृतः ।
सर्व्वे हृष्टाश्च कर्त्तव्याः स्तुवन्तः परमेश्वरम् ॥
गन्धर्व्वविद्याधरकिन्नराणा-
मथाप्सरोगुह्यकनायकानाम् ।
गणैरनेकैः शतशो महेन्द्र-
मुनिप्रवीरैरभिनन्द्यमानम् ॥
धृताक्षसूत्रैः शतशः प्रबाल-
पुष्पोपहारप्रचयं ददद्भिः ।
संस्तूयमानं भगवन्तमीड्यं
नेत्रत्रयेणामरमर्त्यपूज्यम् ॥ * ॥
सूत उवाच ।
अधुना संप्रवक्ष्यामि अर्द्धनारीश्वरं परम् ।
अर्द्धेन देवदेवस्य नारीरूपं सुशोभनम् ॥
ईशार्द्धे तु जटाभारो बालेन्दुकलया युतः ।
उमार्द्धे तु प्रदातव्यौ सीमन्ततिलकावुभौ ॥
वासुकिं दक्षिणे कर्णे वामे कुण्डलमादिशेत् ।
बालिका चोपरिष्टात्तु कपालं दक्षिणे करे ॥
त्रिशूलं वापि कर्त्तव्यं देवदेवस्य शूलिनः ।
वामतो दर्पणं दद्यादुत्पलं वा विशेषतः ॥
वामबाहुश्च कर्त्तव्यः केयूरबलयान्वितः ।
उपवीतञ्च कर्त्तव्यं मणिमुक्तामयन्तथा ॥
स्तनभारमथार्द्धे तु वामे पीनं प्रकल्पयेत् ।
हारार्द्धमुज्ज्वलं कुर्य्यात् श्रोण्यर्द्धन्तु तथैव च ॥
लिङ्गार्द्धमूर्द्ध्वं कर्त्तव्यं व्याघ्राजिनकृताम्बरम् ।
वामे लम्बपरीधानं कटिसूत्रत्रयान्वितम् ॥
नानारत्नसमोपेतं दक्षिणं भुजगान्वितम् ।
देवस्य दक्षिणं पादं पद्मोपरिसमास्थितम् ॥
किञ्चिदूर्द्ध्वन्तथा वामं भूषितं नूपुरेण च ।
रत्नैर्विभूषितान् कुर्य्यादङ्गुलीष्वङ्गुलीयकान् ॥
सालक्तकं तथा पादं पार्व्वत्या दर्शयेत् सदा ।
अर्द्धनारीश्वरस्येदं रूपमस्मिन्नुदाहृतम् ॥ * ॥
उमामहेश्वरस्यापि लक्षणं शृणुत द्विजाः ।
संस्थानन्तु तयोर्वक्ष्ये लीलाललितविभ्रमम् ॥
चतुर्भुजं द्विबाहुं वा जटाभारेन्दुभूषितम् ।
लोचनत्रयसंयुक्तमुमैकस्कन्धपाणिनम् ॥
दक्षिणेनोल्वणं शूलं वामं कुचभरं करम् ।
द्वीपिचर्म्मपरीधानं नानारत्नोपशोभितम् ॥
सुप्रतिष्ठं सुवेशञ्च तथार्द्धेन्दुहुताशनम् ।
वामे तु संस्थिता देवी तस्योरौ बाहुगूहिता ॥
शिरोभूषणसंयुक्तैरलकैर्ललितानना ।
सबालिका कर्णवती ललाटतिलकोज्ज्वला ॥
मणिकुण्डलसंयुक्ता कर्णिकाभरणा क्वचित् ।
हारकेयूरबहुला हरवक्त्रावलोकिनी ॥
वामांशं देवदेवस्य स्पृशन्ती लीलया क्वचित् ।
दक्षिणन्तु बहिः कृत्वा बाहुं दक्षिणतोऽथवा ॥
स्कन्धे वा दक्षिणे कुक्षौ स्पृशत्यङ्गुलिजैः क्वचित् ।
वामे च दर्पणं दद्यादुत्पलं वा सुशोभनम् ॥
कटिसूत्रत्रयञ्चैव नितम्बे स्यात् प्रलम्बकम् ।
जया च विजया चैव कार्त्तिकेयविनायकौ ॥
पार्श्वयोर्द्दर्शयेत्तत्र सतोरणमगुह्यकम् ।
मालाविद्याधरांस्तत्र बीणावानप्सरोगणः ।
एतद्रूपमुमेशस्य कर्त्तव्यं भूतिमिच्छता ॥ * ॥
शिवनारायणं वक्ष्ये सर्व्वपापप्रणाशनम् ।
वामार्द्धे माधवं कुर्य्याद्दक्षिणे शूलपाणिनम् ॥
बाहुद्वयञ्च कृष्णस्य मणिकेयूरभूषितम् ।
शङ्खचक्रधरं शान्तमारक्ताङ्गुलिविभ्रमम् ॥
चक्रस्थाने गदाञ्चापि पाणौ दद्यादधस्तले ।
शङ्खञ्चैवेतरे दद्याद्भूत्यर्थं भूषणोज्ज्वलम् ॥
पीतवस्त्रपरीधानं चरणं मणिभूषितम् ।
दक्षिणार्द्धे जटाभारमर्द्धेन्दुकृतलक्षणम् ॥
भुजङ्गहारवलयं वरदं दक्षिणं करम् ।
द्वितीयञ्चापि कुर्व्वीत त्रिशूलवरघारिणम् ॥
व्यालोपवीतसंयुक्तं कट्यर्द्धं कृत्तिवाससम् ।
मणिरत्नैश्च संयुक्तपादं नागविभूषितम् ।
शिवनारायस्यैवं कल्पयेद्रूपमुत्तमम् ॥ * ॥
महावराहं वक्ष्यामि पद्महस्तं गदाधरम् ।
तीक्ष्णदंष्ट्राग्रघोरास्यं मेदिनीवामकुर्परम् ॥
दंष्ट्राग्रेणोद्धृतां दान्तां धरणीमुत्पलान्विताम्
विस्मयोत्फुल्लनयनामुपरिष्टात् प्रकल्पयेत् ॥
दक्षिणं कटिसंस्थन्तु करन्तस्य प्रकल्पयेत् ।
कूर्म्मोपरि तथा पादमेकं नागेन्द्रमूर्द्धनि ।
संस्तूयमानं लोकेशैः समन्तात् परिकल्पयेत् ॥ * ॥
नारसिंहञ्च कर्त्तव्यं भुजाष्टकसमन्वितम् ।
रौद्रसिंहासनं तद्वद्विदारितमुखेक्षणम् ॥
स्तब्धपीनशटाकीर्णं दारयन्तं दितेः सुतम् ।
विनिर्गतान्त्रजालञ्च दानवं परिकल्पयेत् ॥
वमन्तं रुधिरोद्गारं भ्रुकुटीकुटिलेक्षणम् ।
युध्यमानञ्च कर्त्तव्यं क्वचित् करणबन्धनैः ॥
परिश्रान्तेन दैत्येन तर्ज्यमानं मुहुर्मुहुः ।
दैत्यं प्रदर्शयेत्तत्र खड्गखेटकधारिणम् ।
स्तूयमानं तथा विष्णुं दर्शयेदमराधिपैः ॥ * ॥
तथा त्रिविक्रमं वक्ष्ये ब्रह्माण्डाक्रमणोल्वणम् ।
वामपार्श्वे तथा राहुमुपरिष्टात् प्रकल्पयेत् ॥
अघस्ताद्वामनं तावत् कल्पयेत् सकमण्डलुम् ।
दक्षिणे छत्रिकां विद्यान्मुखं दीनं प्रदर्शयेत् ।
भृङ्गारधारिणं तद्वद्बलिन्तस्यैव पार्श्वतः ॥
बन्धनञ्चापि कुर्व्वन्तं गरुडन्तस्य दर्शयेत् ॥ * ॥
मत्स्यरूपं तथा मात्स्यं कौर्म्मं कूर्म्माकृतिं न्यसेत् ।
एवं रूपस्तु भगवान् कार्य्यो नारायणो हरिः ॥ * ॥
ब्रह्मा कमण्डलुधरः कर्त्तव्यः स चतुर्मुखः ॥
हंसारूढः क्वचित् कार्य्यः क्वचिच्च कमलासनः ।
वर्णेन पद्मगर्भाभश्चतुर्ब्बाहुः शुभेक्षणः ॥
कमण्डलुं वामकरे स्रुचं हस्ते च दक्षिणे ।
वामे दण्डधरं तद्वत् स्रुचञ्चापि प्रदर्शयेत् ॥
मुनिभिर्द्देवगन्धर्व्वैः स्तूयमानं समन्ततः ।
कुर्व्वाणमिव लोकांस्त्रीन् शुक्लाम्बरधरं विभुम् ॥
मृगचर्म्मधरञ्चापि दिव्ययज्ञोपवीतिनम् ।
आज्यस्थालीं न्यसेत् पार्श्वे वेदांश्च चतुरः पुनः ॥
वामपार्श्वे तु सावित्री दक्षिणे च सरस्वती ।
अग्रे च ऋषयस्तद्वत् कार्य्याः पैतामहे पदे ॥ * ॥
कार्त्तिकेयं प्रवक्ष्यामि तरुणादित्यसन्निभम् ।
कमलोदरवर्णाभं सुकुमारं कुमारकम् ॥
गेण्डुकैश्चीरकैर्युक्तं मयूरवरवाहनम् ।
स्थानीयखेटनगरे भुजान् द्वादश कल्पयेत् ॥
चतुर्भुजः कर्व्वटे स्याद्वने ग्रामे द्विबाहुकः ॥
शक्तिः पाशस्तथा खड्गः शरः शूलन्तथैव च ।
वरदश्चैव हस्तः स्यादथवाभयदो भवेत् ॥
एते दक्षिणतो ज्ञेयाः केयूरकटकोज्ज्वलाः ।
धनुः पताका मुष्टिश्च तर्ज्जनी च प्रसारिता ॥
खेटकं ताम्रचूडश्च वामहस्ते प्रशस्यते ।
द्विभुजस्य करे शक्तिर्वामे स्यात् कुक्कुटोऽपरे ॥
चतुर्भुजे शक्तिपाशौ वामतो दक्षिणे त्वसिः ।
वरदोऽभयदो वापि दक्षिणः स्यात् तुरीयकः ॥ * ॥
विनायकं प्रवक्ष्यामि गजवक्त्रं त्रिलोचनम् ।
लम्बोदरं चतुर्ब्बाहुं व्यालयज्ञोपवीतिनम् ॥
स्वस्तिकर्णं बृहच्छुण्डमेकदंष्ट्रं पृथूदरम् ।
स्वं दन्तं दक्षिणकरे उत्पलञ्च तथापरे ॥
लड्डूकं परशुञ्चैव वामतः परिकल्पयेत् ।
बृहत्संक्षिप्तगमनं पीनस्कन्धाङ्घ्रिपाणिनम् ।
युक्तं बुद्धिकुबुद्धिभ्यामधस्तान्मूषिकान्वितम् ॥ * ॥
कात्यायन्याः प्रवक्ष्यामि रूपं दशभुजन्तथा ।
त्रयाणामपि देवानामनुकारानुकारिणीम् ॥
जटाजूटसमायुक्तामर्द्धेन्दुकृतशेखराम् ।
लोचनत्रयसंयुक्तां पूर्णेन्दुसदृशाननाम् ॥
अतसीपुष्पवर्णाभां सुप्रतिष्ठां सुलोचनाम् ।
नवयौवनसम्पन्नां सर्व्वाभरणभूषिताम् ॥
सुचारुदशनां तद्वत् पीनोन्नतपयोधराम् ।
त्रिभङ्गस्थानसंस्थानां महिषासुरमर्द्दिनीम् ॥
त्रिशूलं दक्षिणे दद्यात् खड्गञ्चक्रन्तथैव च ।
तीक्ष्णबाणं तथा शक्तिं दक्षिणे सन्निवेशयेत् ॥
खेटकं पूर्णचापञ्च पाशमङ्कुशमेव च ।
घण्टां वा परशुं वापि वामतः सन्निवेशयेत् ॥
अधस्तान्महिषं तद्वद्विशिरंस्कं प्रदर्शयेत् ।
शिरश्छेदोद्भवं तद्वद्दानवं खड्गपाणिनम् ॥
हृदि शूलेन् निर्भिन्नं निर्य्यदन्त्रविभूषितम् ।
रक्तरक्तीकृताङ्गञ्च रक्तविष्फुरितेक्षणम् ॥
वेष्टितं नागपाशेन भ्रुकुटीभीषणाननम् ।
सपाशवामहस्तेन धृतकेशञ्च दुर्गया ॥
वमद्रुधिरवक्त्रञ्च देव्याः सिंहं प्रदर्शयेत् ।
देव्यास्तु दक्षिणं पादं समं सिंहोपरिस्थितम् ॥
किञ्चिदूर्द्ध्वं तथा वाममङ्गुष्ठं महिषोपरि ।
स्तूयसानञ्च तद्रूपममरैः सन्निवेशयेत् ॥ * ॥
इदानीं सुरराजस्य रूपं वक्ष्ये विशेषतः ।
सहस्रनयनं देवं मत्तवारणसंस्थितम् ॥
पृथूरुवक्षोवदनं सिंहस्कन्धं महाभुजम् ।
किरीटकुण्डलधरं पीवरोरुभुजेक्षणम् ॥
वज्रोपलधरं तद्वन्नानाभरणभूषितम् ।
पूजितं देवगन्धर्व्वैरप्सरोगणसंस्तुतम् ॥
पृष्ठ ३/२६१
छत्रचामरघारिण्यौ स्त्रियौ पार्श्वेतु कारयेत् ।
सिंहासनगतं वापि गन्धर्व्वगणसंयुतम् ॥
इन्द्राणीं वामतस्तस्य कुर्य्यादुत्पलधारिणीम् ॥
सूत उवाच ।
प्रभाकरस्य प्रतिमामिदानीं शृणुत द्विजाः ।
रथस्थं कारयेद्देवं पद्महस्तं सुलोचनम् ॥
सप्ताश्वञ्चैकचक्रञ्च रथन्तस्य प्रकल्पयेत् ।
मुकुटेन विचित्रेण पद्मगर्भसमप्रभम् ॥
नानाभरणभूषाढ्यं भुजाभ्यां धृतपुस्करम् ।
स्कन्धस्थे पुष्करे ते तु लीलयैव धृते सदा ॥
चोलकच्छन्नवपुषं क्वचिच्चित्रेषु दर्शयेत् ।
वस्त्रयुग्मसमोपेतं चरणौ तेजसावृतौ ॥
प्रतीहारौ च कर्त्तव्यौ पार्श्वयोर्दण्डपिङ्गलौ ।
कर्त्तव्यौ खड्गहस्तौ च पार्श्वयोः पुरुषावुभौ ॥
लेखनीकृतहस्तञ्च पार्श्वे धातारमव्ययम् ।
नानादेवगणैर्युक्तमेवं कुर्य्याद्दिवाकरम् ॥
अरुणः सारथिस्तस्य पद्मिनीपत्रसन्निभः ।
अश्वौ च बलिसुग्रीवावन्तस्थौ तस्य पार्श्वयोः ॥
भुजङ्गरश्मिभिर्बद्धाः सप्ताश्वा रश्मिसंयुताः ।
पद्मस्थं वा हयस्थं वा पद्महस्तं प्रकल्पयेत् ॥ * ॥
अग्नेस्तु लक्षणं वक्ष्ये सर्व्वकामफलप्रदम् ।
दीप्तं सुवर्णवपुषमर्द्धचन्द्रासनस्थितम् ॥
बालार्कसदृशन्तस्य वसनञ्चापि दर्शयेत् ।
यज्ञोपवीतिनं देवं लम्बकूर्च्चधरन्तथा ॥
कमण्डलुं वामकरे दक्षिणे त्वक्षसूत्रकम् ।
ज्वालावितानसं युक्तमजवाहनमुज्ज्वलम् ।
कुण्डस्थञ्चापि कुर्व्वीत मूर्द्ध्नि सप्तशिखान्वितम् ॥ *
तथा यमं प्रवक्ष्यामि दण्डपाशधरं विभुम् ।
महामहिषमारूढं कृष्णाञ्जनचयोपमम् ॥
सिंहासनगतञ्चापि दीप्ताग्निसमलोचनम् ।
महिषं चित्रगुप्तञ्च करालान् किङ्करांस्तथा ॥
समन्ताद्दर्शयेत्तस्य सौम्यासौम्यांस्तथा सुरान् ॥
राक्षसेन्द्रं तथा वक्ष्ये लोकपालञ्च नैरृ तम् ।
नरारूढं महाकायं रक्षोभिर्ब्बहुभिर्वृतम् ॥
खड्गहस्तं महानीलं कज्जलाचलसन्निभम् ।
नरयुक्तविमानस्थं पीताम्बरविभूषितम् ॥ * ॥
वरुणञ्च प्रवक्ष्यामि पाशहस्तं महाबलम् ।
शङ्खस्फटिकवर्णाभं हारकेयूरसंवृतम् ॥
मृगाधिरूढं वरदं पताकाध्वजसंयुतम् ।
भूषणावगतं शान्तं किरीटवरधारिणम् ॥ * ॥
वायुरूपं प्रवक्ष्यामि धूम्रञ्च मृगवाहनम् ।
चित्राम्बरधरं शान्तं युवानं कुञ्चितभ्रुवम् ।
मृगाधिरूढं वरदं पताकाध्वजसंयुतम् ॥ * ॥
कुवेरञ्च प्रवक्ष्यामि कुण्डलाभ्यामलङ्कृतम् ।
हारकेयूररचितं सिताम्बरधरं सदा ॥
गदाधरञ्च कर्त्तव्यं वरदं मुकुटान्वितम् ।
नरयुक्तविमानस्थं मेषस्थं वापि कारयेत् ॥
वर्खेन पीतवर्णेन गुह्यकैः परिवारितम् ।
महोदरं महाकायं ऋद्ध्यष्टकसमन्वितम् ॥
गुह्यकैर्बहुभिर्युक्तं धनव्यग्रकरैस्तथा ॥ * ॥
तथैवेशं प्रवक्ष्यामि धवलं धवलेक्षणम् ।
त्रिशूलपाणिनं देवं त्र्यक्षं वृषगतं विभुम् ॥ * ॥
मातॄणां लक्षणं वक्ष्ये यथावदनुपूर्ब्बशः ।
ब्रह्माणी ब्रह्मसदृशी चतुर्वक्त्रा चतुर्भुजा ।
हंसाधिरूढा कर्त्तव्या साक्षसूत्रकमण्डलुः ॥ * ॥
महेश्वरस्य रूपेण तथा माहेश्वरी मता ।
जटामुकुटसंयुक्ता वृषस्था चन्द्रशेखरा ।
कपालशूलखट्वाङ्गवरदाथ चतुर्भुजा ॥ * ॥
कुमाररूपा कौमारी मयूरवरवाहना ।
रक्तवस्त्रधरा तद्वच्छूलशक्तिधरा तथा ॥
हारकेयूरसम्पन्ना कृकवाकुधरा तथा ॥ * ॥
वैष्णवी विष्णुसदृशी गरुत्मति समास्थिता ।
चतुर्बाहुश्च वरदा शङ्खचक्रगदाधरा ।
सिंहासनगता वापि बालकेन समन्विता ॥ * ॥
वाराहीञ्च प्रवक्ष्यामि महिषोपरिसंस्थिताम् ।
वराहसदृशीं देवीं घण्टाचामरधारिणीम् ।
गदाचक्रधरान्तद्वद्दानवेन्द्रविनाशिनीम् ॥ * ॥
इन्द्राणीमिन्द्रसदृशीं वज्रशूलगदाघराम् ।
गजासनगतान्देवीं लोचनैर्बहुभिर्वृताम् ।
तप्तकाञ्चनबर्णाभां सर्व्वाभरणभूषिताम् ॥ * ॥
तीक्ष्णखड्गधरान्तद्वद्वक्ष्ये योगीश्वरीमिमाम् ।
दीर्घजिह्वामूर्द्ध्वकेशीमस्थिखण्डैश्च मण्डिताम् ।
दंष्ट्राकरालवदनां कुर्य्याच्चैव कृशोदरीम् ॥ * ॥
कपालमालिनीं देवीं मुण्डमालाविभूषिताम् ।
कपालं वामहस्ते तु मांसशोणितपूरितम् ॥
सकेशन्तु शिरो न्यस्य शस्त्रिका दक्षिणे तथा ।
गृध्रस्था वायसस्था वा निर्म्मांसा विगतोदरी ।
करालवदना तद्वत् कर्त्तव्या सा त्रिलोचना ॥ * ॥
चामुण्डा बद्धघण्टा च द्बीपिचर्म्मधरा शिवा ।
दिग्वासा कालिका तद्वद्रासभस्था कपालिनी ॥
सुरक्तपुष्पाभरणा वर्द्धनी ध्वजसंयुता ।
विनायकञ्च कुर्व्वीत मातॄणामन्तिके सदा ॥
वीरेश्वरश्च भगवान् वृषारूढो जटाधरः ।
वीणाहस्तस्त्रिशूली च मातॄणामग्रतो भवेत् ॥ * ॥
श्रियन्देवीं प्रवक्ष्यामि नवे वयसि संस्थिताम् ।
सुयौवनां पीनगण्डां रक्तोष्ठीं कुञ्चितभ्रुवम् ॥
पीनोन्नतस्तनतटां मणिकुण्डलधारिणीम् ।
सुमण्डलं मुखं तस्याः शिरः सीमन्तभूषितम् ॥
पद्मस्वस्तिकशङ्खैर्वा भूषितां कुन्तलालकैः ।
कञ्चुकाबद्धगात्रौ च हारभूषौ पयोधरौ ॥
नागहस्तोपमौ बाहू केयूरकटकोज्ज्वलौ ।
पद्मं हस्ते च दातव्यं श्रीफलं दक्षिणे करे ॥
मेखलाभरणान्तद्बत्तप्तकाञ्चनसुप्रभाम् ।
नानाभरणसम्पन्नां शोभनाम्बरधारिणीम् ।
पार्श्वे तस्याः स्त्रियः कार्य्याश्चामरव्यग्रपाणयः
पद्मासनोपविष्टान्तु पद्मसिंहासनस्थिताम् ॥
करिभ्यां स्नाप्यमाना सा भृङ्गाराभ्यामनेकशः ।
प्रतिपालयन्तौ करिणौ भृङ्गाराभ्यां तथापरौ ॥
स्तूयमाना च लोकेशैस्तथा गन्धर्व्वगुह्यकैः ॥ * ॥
तथैव यक्षिणी कार्य्या सिद्धासुरनिषेविता ।
पार्श्वयोः कलसौ तस्यास्तोरणे देवदानवाः ॥
नागाश्चैव तु कर्त्तव्याः खड्गखेटकधारिणः ।
अधस्तात्प्रकृतिस्तेषां नाभेरूर्द्धञ्च पौरुषी ॥
फणाश्च मूर्द्धि कर्त्तव्या द्बिजिह्वा बहवः समाः ।
पिशाचा राक्षसाश्चैव भूतवेतालजातयः ॥
निर्मांसाश्चैव ते सर्व्वे रौद्रा विकृतरूपिणः ।
क्षेत्रपालश्च फर्त्तव्यो जटिलो विकृताननः ॥
दिग्वासा जटिलस्तद्बत् श्वगोमायुनिषेवितः ।
कपालं वामहस्ते तु शिरः केशसमावृतम् ।
दक्षिणे शस्त्रिकां दद्यादसुरक्षयकारिणीम् ॥ * ॥
अथातः संप्रवक्ष्यामि द्विभुजं कुसुमायुधम् ।
पार्श्वे चाश्वमुखं तस्य मकरध्वजसंयुतम् ॥
दक्षिणे पुष्पबाणञ्च वामे पुष्पमयं धनुः ।
प्रीतिः स्याद्दक्षिणे तस्य भोजनोपस्करान्विता ॥
रतिस्तु वामपार्श्वे च शयनोपस्करान्विता ।
पटश्च पटहश्चैव खरः कामातुरस्तथा ॥
पार्श्वतो जलवापी च वनं नन्दनमेव च ।
सुशोभनश्च कर्त्तव्यो भगवान् कुसुमायुधः ॥
संस्थानमीषद्रक्तं स्याद्विस्मयं विश्वनेत्रकम् ।
एतदुद्देशतः प्रोक्तं प्रतिंमालक्षणं मया ॥
विस्तरेण न शक्नोति बृहस्पतिरपि द्विजाः ॥”
इति मत्स्यपुराणे देवार्च्चानुकीर्त्तने प्रतिमा-
लक्षणं नाम २३२ । २३३ । २३४ । २३५
अध्यायाः ॥ * ॥ सा द्बिविधा । स्थापनरूपा
स्वयं व्यक्तरूपा च । यथा, --
श्रीसदाशिव उवाच ।
“शृणु देवि ! प्रवक्ष्यामि तदंशावसथं हरेः ।
स्थापनञ्च स्वयं व्यक्तं द्विविधं तत् प्रकीर्त्तितम् ॥
शिलामृद्दारुलौहाद्यैः कृत्वा प्रतिकृतिं हरेः ।
श्रौतस्मार्त्तागमैः प्रोक्ता क्रियासंस्थापना हि
तत ॥
तत्स्थापनमिति प्रोक्तं स्वयं व्यक्तं हि मे शृणु ।
यस्मिंस्तु निहितो विष्णुः स्वयमेव नृणां भुवि ॥
पाषाणदार्व्वोरात्मेशः स्वयं व्यक्तं हि तत् स्मृतम् ।
स्वयं व्यक्ते स्थापने वा पूजयेन्मधुसूदनम् ॥
देवतानां महर्षीणामर्च्चनार्थं सनातनः ।
स्वयमेव जगन्नाथः सान्निध्यं याति केशवः ॥
यस्य यद्विग्रहे भाग्यं तदेवाविरभूद्भुवि ।
तदेव पूजयेन्नित्यन्तस्मिन्नेव रमेत् सदा ॥
श्रियोऽङ्कशायी देवेशो विधेरर्च्च्यः शुभानने ! ।
स एवेक्ष्वाकुनाथानां तपसाविरभूद्भुवि ॥
मयापि काश्यां संपूज्यो माधवः कलुषापहः ।
दक्षिणोदधितीरे तु नीलाद्रौ पुरुषोत्तमे ॥
दारुरूपी जगन्नाथो ब्रह्मणा स्थापितः स्वयम् ।
स एव पूज्यः सर्व्वेषां लोकानां स्वलु पार्व्वति ! ॥
नरनारायणः साक्षात् पूज्यो वदरिकाश्रमे ।
गदाधरो गयायान्तु प्रयागे माधवस्तथा ॥
माधवो विधिवत् पूज्यो गङ्गासागरसङ्गमे ।
कपालमोचने तीर्थे कलिङ्गेऽर्च्च्यो हरिस्तथा ॥
विष्णुश्च बहिरङ्गे तु भीममूर्त्तिः शिवे यतः ।
द्वारकायां वासुदेवः कुरुक्षेत्रे रणेश्वरः ॥
नारायणो व्यङ्कटाद्रौ पूज्यो नित्यं सनातनः ।
स्वयं श्रीभगवान् कृष्णो धाम्नि वृन्दावने शुभे ॥
गोविन्दः केशवो नन्दयशोदानन्दनो विभुः ।
पूज्यो मदनगोपालगोवर्द्धनधरादिकः ॥
चतुरशीतिके क्रोशे ब्रह्माण्डातीतके शिवे ! ।
पृष्ठ ३/२६२
कलिन्दनन्दिनीतीरे महाप्रलयवर्ज्जिते ॥
सदैव कार्ष्णैरभ्यर्च्यः श्रीगोपीजनवल्लभः ।
यत्र यत्र हरेरर्च्चा स्वयं व्यक्ता शुभानने ! ॥
स्थानं तीर्थं तथा क्षेत्रं यज्ञदानमहोत्सवम् ।
संकीर्त्तनं सर्व्वभक्तिस्तथा कार्ष्णादिकं जनम् ॥
कायेन मनसा वाचा भक्त्या देवि ! पुनः पुनः ।
तत्र तत्र समागम्य रमेऽहं संव्यवस्थितः ॥
नाष्टाङ्गयोगजं ज्ञानमर्च्चायां विन्दते नृणाम् ।
चक्षुषोर्विषयं प्राप्य ददाति फलमीप्सितम् ॥
सर्व्वावस्थासु सौरभ्यमर्च्चायां लभते नरः ।
अङ्गानामपि सान्निध्यं सर्व्वदा पृथिवीतले ॥
जम्बुद्वीपे महापुण्ये वर्षे वै भारते शुभे ।
अर्च्चायां सन्निधिर्विष्णोर्नेतरेषु कदाचन ॥
तस्माद्वै भारतं वर्षं मुनिभिस्त्रिदशैरपि ।
सेवितं सततं सुम्रु ! तपोयज्ञक्रियादिभिः ॥
भारतेऽस्मिन् महावर्षे नित्यं सन्निहितो हरिः ।
इन्द्रद्युम्ने तथा कौर्म्मे सिंहाद्रौ वदरीवने ॥
काश्यां प्रयागे सोमे च शालग्रामाचले तथा ।
नारायणाचले सोमे वराहे वामनाश्रमे ।
एवमाद्याः स्वयं व्यक्ताः सर्व्वकामफलप्रदाः ॥
स्वयमेव हि सान्निध्यं यस्मिन् याति जनार्द्दनः ।
तस्मिन्नेव स्वयं व्यक्तं वसन्ति मुनयः शुभाः ॥
महाभागवतश्रेष्ठो विधिना स्थाप्य केशवम् ।
मन्त्रेण कुर्य्यात् सान्निध्यं स्थापनं तद्विशिष्यते ॥
न तु शाक्तादिभिः कार्य्यं मुकुन्दस्थापनादिकम् ।
श्रीहरेरर्च्चनं कर्म्म यात्रोत्सवमथाध्वरम् ॥
यत्किञ्चिद्वैष्णवैः कार्य्यमपरं मन्दिरादिकम् ।
ध्रुवं विष्णुर्न गृह्णाति कृतमेतद्बहिर्मुखैः ॥”
इति पाद्मोत्तरखण्डे ७३ अध्यायः ॥ * ॥
भगवत्याः प्रतिमाराधनविधिर्यथा, --
ब्रह्मोवाच ।
“शृणु तस्याः सुराध्यक्ष ! आराधनविधिं परम् ।
यथा सा तोषिता पूर्ब्बं शङ्कराद्यैः फलेप्सुभिः ॥
कर्म्मयज्ञेन देवेश ! तथा त्वमपि पूजय ॥
शम्भुः पूजयते देवीं मन्त्रशक्तिमयीं शुभाम् ।
अक्षमालाकरो नित्यं तेनासौ विभुरीश्वरः ॥
अहं शैलमयीं देवीं यजामि सुरसत्तम ! ।
तेन ब्रह्मत्वमेवेदं मया प्राप्तं सुदुर्लभम् ॥
इन्द्रनीलमयीं देवीं विष्णुरर्च्चयते सदा ।
विष्णुत्वं प्राप्तवांस्तेन अद्भुतैकं सनातनम् ॥
देवीं हेममयीं कान्तां धनदोऽर्च्चयते सदा ।
तेनासौ धनदो देवो धनेशत्वमवाप्तवान् ॥
विश्वेदेवा महात्मानो रौप्यां देवीं मनोहराम् ।
यजन्ति विधिवद्भक्त्या तेन विश्वत्वमाप्नुयुः ॥
वायुः पूजयते भक्त्या देवीं पित्तलसम्भवाम् ।
वायुत्वं तेन तत् प्राप्तमनौपम्यं गुणावहम् ॥
वसवः कांसिकां देवीं पूजयन्ते विधानतः ।
प्राप्नवन्तो महात्मानो वसुत्वं सुमहोदयम् ॥
अश्विनौ पार्थिवीं देवीं पूजयन्तौ विधानतः ।
तेन तावश्विनौ देवौ दिव्यदेहं गतावुभौ ॥
स्फाटिकां शोभनां देवीं वरुणोऽर्च्चयते सदा ।
वरुणत्वं हि संप्राप्तं तेन ऋद्ध्या समन्वितम् ॥
देवीमन्नमयीं पुण्यामग्निर्यजति भावितः ।
अग्नित्वं प्राप्तवांस्तेन तेजोरूपसमन्वितम् ।
ताम्रां देवीं सदाकालं भक्त्या देवो दिवाकरः ।
अर्च्चते तत्र सम्प्राप्तं तेन सूर्य्यत्वमुत्तमम् ॥
मुक्ताशैलमयीं देवीं सोमः पूजयते सदा ।
तेन सोमोऽपि संप्राप्तः सोमत्वं सततोज्ज्घलम् ॥
प्रवालकमयीं देवीं यजन्ते पन्नगोत्तमाः ।
तेन नागास्तु भोगाढ्याः प्रयान्त्येते परं पदम् ॥
कृष्णायसमयीं देवीं पूजयन्त्यसुरोत्तमाः ।
राक्षसाश्च महात्मानस्तेन तेऽमितविक्रमाः ॥
त्रपुसीसमयीं देवीं पिशाचाः पूजयन्ति ताम् ।
तेन ऋद्धिबलोपेताः प्रयान्ति परमं पदम् ॥
त्रैलोहिकां सदा देवीं यजन्ते गुह्यकादयः ।
तेन भोगबलोपेताः प्रयान्तीश्वरमन्दिरम् ॥
वज्रलौहमयीं देवीं यजन्ते मातरः सदा ।
मातृत्वं प्राप्य ताः सर्व्वाः प्रयान्ति परमं पदम् ॥
एवं देवाः सगन्धर्व्वाः पिशाचोरगराक्षसाः ।
पूजयन्ते सदाकालं चर्च्चिकां सुरनायिकाम् ॥
तथा त्वमपि देवेन्द्र ! यदीच्छसि परां गतिम् ।
शिवां मणिमयीं पूज्य लभसे मनसेप्सितान् ॥
कामान् सुरवराध्यक्ष ! कामिकैः पूजिता सदा ।
ददाति सर्व्वलोकानां चिन्तामणिर्यथा शिवा ॥”
अपि च ।
“हेमताम्ना च मृद्बार्क्षी शैलाचित्रायसापि वा ।
शक्तिशूले स्थिता देवी सर्व्वकामफलप्रदा ॥
यो यस्य आयुधः प्रोक्तस्तस्मिंस्तां प्रतिपूजयेत् ।
देवी शक्त्यर्च्चिता पुंसां कामायुःसुतसौख्यदा ॥
शूले संपूजिता वत्स ! सर्व्वं भवति पूजितम् ।
वार्क्षीं वा शैलजां वापि रत्नधातुमयीमपि ॥
विधिना शास्त्रदृष्टेन दशवाहुत्रिलोचनाम् ।
कारयेद्भक्तिमान् यस्तु देवीं शास्त्रविशारदः ॥”
स्थापनविधिर्यथा, --
“सर्व्वशैलेष्टकाष्ठोत्थं गृहं वास्तुविभाजितम् ।
वलभीमण्डपं वत्स ! तासान्तु स्थापने शुभम् ॥
गन्धनैवेद्यधूपेन बलिमाल्यविभूषणैः ।
अधिवासनपूर्ब्बास्तु स्थापनीयास्तु तद्विदैः ॥
वेदध्वनिमहाघोषैः स्त्रीसङ्गीतोपशोभितम् ।
कर्त्तव्यं स्थापनं तासां बहुवादित्रनादितम् ॥
रात्रौ जागरणं तत्र देव्याः पूजार्थवृद्धये ।
सर्व्वलक्षणसम्पूर्णं सर्व्वोपकरणान्वितम् ॥
वापीकूपतडागादिवाटिकावनशोभितम् ।
वेश्यातूर्य्योपसम्पन्नं ध्वजच्छत्रविभूषितम् ॥
घण्टादर्पणदीपादि देयं द्रव्यं निरूपितम् ।
घण्टिका तत्र षष्ट्यादि दिनसंख्यार्थसिद्धये ॥
कर्त्तव्या एकमेकं वा यथाकालपरिच्छिदे ।
अनेन विधिना यस्तु मातरः स्थापयेन्नरः ।
इहात्र पूजनीयस्तु मृतो याति परां गतिम् ॥”
इति देवीपुराणे मातृप्रतिष्ठामहाभाग्यम् ॥ * ॥
अल्पबुद्धीनां प्रतिमासु देवत्वं यथा, --
“अग्नौ क्रियावतां देवो हृदि देवो मनीषि-
णाम् ।
प्रतिमा स्वल्पबुद्धीनां ज्ञानिनां सर्व्वतो हरिः ॥”
अपि च ।
“अग्नौ क्रियावतामस्मि हृदि चाहं मनीषिणाम् ।
प्रतिमा स्वल्पबुद्धीनां ज्ञानिनामस्मि सर्व्वतः ॥ * ॥
प्रतिमां लक्षणवतीं यः कुर्य्याच्चैव मानवः ।
केशवस्य परं लोकमक्षयं प्रतिपद्यते ॥
षष्टिवर्षसहस्राणां सहस्राणि महामुने ! ॥
क्रीडते देववत्तत्र अप्सरोभिः सकिन्नरैः ॥
यः स्थापयेद्धरेरर्च्चां सुप्रशस्ते निवेशने ।
पुरुषः कृतकृत्यत्वान्नैनञ्च मरणं नयेत् ॥ * ॥
संस्थाप्य प्रतिमां विष्णोर्हेमरूप्यसुशैलजाम् ।
रत्नजां रैतिकीं वापि बहिस्तीर्थे गृहेऽपि वा ॥
महास्नानेन गोविन्दं सम्यक् संस्नाप्य मानवः ।
यं यं कामयते कामं तं तं प्राप्नोत्यसंशयम् ॥”
इत्यग्निपुराणम् ॥

प्रतिमानं, क्ली, (प्रतिमीयतेऽनेनेति । प्रति + मि मा

वा + ल्युट् ।) प्रतिविम्वम् । वाहित्थस्याधोभागः ।
इत्यमरः । २ । १० । ३६, २ । ८ । ३९ । “अस्य
वाहित्थस्याधोभागो दन्तयोर्मध्यं प्रतिमान-
मुच्यते प्रतिमीयते अनेन प्रतिमानं डु मिञ
न क्षेपे अनट्मिम्योरिति ङा । प्रतिमानं प्रति-
च्छाया गजदन्तान्तरालयोरिति रुद्रः ।” इति
भरतः ॥ (यथा, महाभारते । ८ । २८ । २९ ।
“प्रतिमानेषु कुम्भषु दन्तवेष्टेषु चापरे ।
निगृहीता भृशं नागाः प्रासतोमर-
शक्तिभिः ॥”
हस्तिललाटदेशः । इति महाभारतटीकायां
नीलकण्ठः । ६ । ४५ । २७ ॥ * ॥ सादृश्यम् ।
यथा, ऋग्वेदे । १ । ३२ । ७ ।
“वृष्णो वध्रिः प्रतिमानं बुभूषन् ।
पुरुत्रा वृत्रो अशयद्व्यस्तः ॥”
“प्रतिमानं सादृश्यम् ।” इति तद्भाष्ये सायनः ॥
प्रतिनिधिः । यथा, ऋग्वेदे । ६ । १८ । १२ ।
“नास्य शत्रुर्न प्रतिमानमस्ति ।”
“प्रतिमानं प्रतिनिधिर्नास्ति ।” इति तद्भाष्ये
सायनः ॥ * ॥ दृष्टान्तम् । यथा, भागवते ।
७ । ४ । ३५ ।
“यं साधुगाथासदसि रिपवोऽपि सुरा नृप ! ।
प्रतिमानं प्रकुर्व्वन्ति किमुतान्ये भवादृशाः ॥”
तथा च महाभारते । ९ । २ । ३६ ।
“उग्रायुधश्च विक्रान्तः प्रतिमानं धनुष्मताम् ॥”
धान्यादिपरिमाणनिर्द्धारार्थप्रस्थद्रोणादिकम् ।
यथा, याज्ञवल्क्ये । २ । १०० ।
“तुलाधारणविद्वद्भिरभियुक्तस्तुलाश्रितः ।
प्रतिमानसमीभूतो रेखां कृत्वावतारितः ॥”
मनुसंहितायान्तु । ८ । ४०३ । श्लोके प्रतीमानं
इत्येव दृश्यते ॥)

प्रतिमार्गकः, पुं, (प्रतिदिशं मार्गो गमनपन्था

यस्य । कप् ।) पुरविशेषः । यथा, --
“व्योमचारिपुरं शौभमुद्रङ्कः प्रतिमार्गकः ॥”
इति जटाधरः ॥
“हरिश्चन्द्रपुरं शौभमुद्रङ्कः प्रतिमार्गकः ॥”
इति त्रिकाण्डशेषश्च ॥
पृष्ठ ३/२६३

प्रतिमुक्तः, त्रि, (प्रतिमुच्यते स्मेति । प्रति +

मुच् + क्तः ।) परिहितवस्त्रादिः । इत्यमरः ।
२ । ८ । ६५ ॥ (परित्यक्तः । यथा, रघुः । ४ । ४३ ।
“गृहीतप्रतिमुक्तस्य स धर्म्मविजयी नृपः ।
श्रियं महेन्द्रनाथस्य जहार न तु मेदिनीम् ॥”
बद्धः । यथा, भागवते । ३ । १८ । १० ।
“न मृत्युपाशैः प्रतिमुक्तस्य वीरा
विकत्थनं तव गृह्णन्त्यभद्र ॥”
प्रतिनिवृत्तः । विच्युतः । यथा, मार्कण्डेये । १५ । १ ।
“नरकात् प्रतिमुक्तस्तु कृमिः पतितयाजकः ॥”
प्रत्यर्पितः । यथा, रघुः । १६ । ५९ ।
“तद्बध्नतीभिर्मदरागशोभां
विलोचनेषु प्रतिमुक्तमासाम् ॥”)

प्रतियत्नः, पुं, (प्रतियत्यते इति । प्रति + यत्

प्रयत्ने + “यजयाचयतरिच्छप्रच्छरक्षो नङ् ।” ३ ।
३ । ९० । इति नङ् ।) लिप्सा । वाञ्छा । उप-
ग्रहः । वन्दी । इत्यमरः । ३ । ३ । १०६ ॥
निग्रहादिः । सतो गुणान्तराधानम् । इति भरतः ॥
संस्कारः । इति स्वामी ॥ (यथा, माघे । ३ । ५४ ।
“सुगन्धितामप्रतियत्नपूर्ब्बां
विभ्रन्ति यत्र प्रमदाय पुंसाम् ॥”
“यत्र पुरि न प्रतियत्नः संस्कारः पूर्ब्बो यस्या-
स्ताम् ।” इति तट्टीकायां मल्लिनाथः ॥) ग्रह-
णादिः । इति रामाश्रमः ॥ प्रतिग्रहः । इति
मुकुटः ॥
“प्रतियत्नस्तु संस्कारलिप्सोपग्रहणेषु च ॥”
इति मेदिनी । ने, १९६ ॥
रचना । इति जटाधरः ॥ प्रयत्नवति, त्रि । इति
त्रिकाण्डशेषः ॥

प्रतियातना, स्त्री, (प्रतियात्यते अनया इति ।

प्रति + यत् + णिच् + “ण्यासश्रन्थो युच् ।”
३ । ३ । १०७ । इति युच् ।) प्रतिमा । इत्य-
मरः । २ । १० । ३६ ॥ (यथा, माघे । ३ । ३४ ।
“अनिर्व्विदा या विदधे विधात्रा
पृथ्वी पृथिव्या प्रतियातनेव ॥”)
तुल्ययातना च ॥

प्रतियोगः, पुं, प्रतियुज्यत इति । प्रति + युज् +

भावे घञ् ।) विरोधः । (पुनरुद्योगः । यथा,
भागवते । ४ । १० । २२ ।
“इति ब्रुवंश्चित्ररथः स्वसारथिं
यत्तः परेषां प्रतियोगशङ्कितः ।
शुश्राव शब्दं जलधेरिवेरितं
नभस्वतो दिक्षु रजोऽन्वदृश्यत ॥”
“प्रतियोगः पुनरुद्योगः ।” इति तट्टीकायां
श्रीधरस्वामी ॥)

प्रतियोगी, [न्] त्रि, (प्रतिरूपं युज्यते इति ।

प्रति + युज् + घिनुण् ।) विरोधी । यथा, --
“साध्यवत्प्रतियोगिकान्योन्याभावासामानाधि-
करण्यम् । इति चिन्तामणिः ॥ सत्प्रतिपक्षः ।
यथा, --
“प्रतियोगिनं दृष्ट्वा प्रतियोगी निवर्त्तते ।” इति
प्राचीनकारिका ॥

प्रतिरम्भः, पुं, (प्रति + लम्भ + भावे घञ् । लस्य

रः ।) प्रतिलम्भः । इति द्विरूपकोषः ॥

प्रतिरूपं, क्ली, (प्रतिगतं प्रतिकृतं वा रूपमिति

प्रादिसमासः ।) प्रतिमा । इति त्रिकाण्डशेषः ॥
(यथा, भागवते । ७ । १० । २१ ।
“भवान् मे खल् भक्तानां सर्व्वेषां प्रतिरूप-
धृक् ॥”
त्रि, प्रतिगतं रूपमस्य । अनुरूपः । यथा,
महाभारते । १ । १०२ । ६१ ।
“आत्मनः प्रतिरूपोऽसौ लब्धः पतिरिति स्थिते ।
बिचित्रवीर्य्यं कल्याण्यौ पूजयामासतुः शुभे ॥”
दानवविशेषे, पुं । यथा, महाभारते । १२ ।
२२७ । ५१ ।
“विश्वजित् प्रतिरूपश्च वृषाण्डो विष्करो मधुः ॥”)

प्रतिरूपकं, क्ली, (प्रतिरूप + स्वार्थे कन् ।) प्रति-

विम्बम् । इति जटाधरः ॥ (यथा, महाभारते ।
१२ । ५९ । ४९ ।
“अग्निदैर्गरदैश्चैव प्रतिरूपककारकैः ।
श्रेणीमुख्योपजापेन वीरुधश्छेदनेन च ॥”)

प्रतिरोधः, पुं, (प्रतिरुध्यते अनेनेति । प्रति +

रुध् + करणे घञ् ।) तिरस्कारः । इति व्युत्-
थानशब्दटीकायां भरतः ॥ (प्रति + रुध् +
कर्त्तरि अच् ।) सत्प्रतिपक्षः । यथा । पक्ष-
साध्यसाधनाप्रसिद्धिस्वरूपा सिद्धिवाधप्रतिरो-
धानां निरासः । इति सव्यभिचारशिरोमणिः ॥

प्रतिरोधकः, पुं, (प्रतिरुणद्धि प्रतिरुध्य चौर्य्यं करो-

तीति । प्रति + रुध् + ण्वुल् ।) चोरः । इति
हेमचन्द्रः । ३ । ४५ ॥

प्रतिरोधी, [न्] पुं, (प्रतिरुणद्धीति । प्रति +

रुध् + णिनिः । प्रतिरोधस्तिरस्कारोऽस्त्यस्येति
वा । प्रतिरोध + इनिः ।) चौरः । इत्यमरः ।
२ । १० । २५ ॥

प्रतिलम्भः, पुं, (प्रति + लम्भ + भावे घञ् ।)

लाभः । तत्पर्य्यायः । लम्भनम् २ । इति हेम-
चन्द्रः ॥ यथा, श्रीहर्षः ।
“नैव नः प्रियतमोभयथासौ
यद्यमुं न वृणुते वृणुते वा ।
एकतो हि धिगमूमगुणज्ञा-
मन्यतः कथमदःप्रतिलम्भः ॥”

प्रतिलोमः, त्रि, (प्रतिगतं लोम आनुकूल्यं यस्मा-

दिति । “अच् प्रत्यन्ववपूर्ब्बात्सामलोम्नः ।” ५ ।
४ । ७५ । इति समासान्तोऽच्प्रत्ययः ।) वामः ।
इति हेमचन्द्रः ॥ (यथा, हरिवंशे । १२७ । १४ ।
“बहूनि प्रतिलोमानि पुरा स कृतवान् मयि ।
कृष्णो नारद ! सोढानि भ्रातेतिस्म मयानध ! ॥”)
विलोमः । यथा, --
“तावुभावप्यसंस्कार्य्याविति धर्म्मो व्यवस्थितः ।
वैगुण्याज्जन्मनः पूर्ब्ब उत्तरः प्रतिलोमतः ॥”
इति मानवे । ९ । ६८ ॥

प्रतिलोमजः, त्रि, (प्रतिलोमात् जायते इति । प्रति-

लोम + जन् + डः ।) प्रतिलोमजातः । उत्तम-
वर्णायां अधमवर्णाज्जातः । यथा, --
“संकीर्णयोनयो ये तु प्रतिलोमानुलोमजाः ।
अन्योन्यव्यतिषक्ताश्च तान् प्रवक्ष्याम्यशेषतः ॥”
इति मानवे १० अध्याये ॥

प्रतिवचः, [स्] क्ली, (प्रतिरूपं वचः ।) प्रत्युत्त-

रम् । इति हेमचन्द्रः ॥ (यथा, देवीभागवते ।
१ । ११ । ५४ ।
“सोमः शक्रवचः श्रुत्वा किञ्चित् क्रोधसमाकुलः ।
भङ्ग्या प्रतिवचः प्राह शक्रदूतं तदा शशी ॥”)

प्रतिवचनं, क्ली, (प्रतिरूपं वचनम् ।) प्रतिवाक्यम् ।

उत्तरम् । इति त्रिकाण्डशेषः ॥ (यथा, कला-
विलासे । २ । ९ ।
“न ददाति प्रतिवचनं विक्रयकाले शठो बणिग्
मौनी ।
निक्षेपपाणिपुरुषं दृष्ट्वा सम्भाषणं कुरुते ॥”
प्रतिनिर्द्देशः । इति निरुक्तम् । ६ । ३ । ६ ॥)

प्रतिवसथः, पुं, (प्रतिवसत्यस्मिन्निति । प्रति +

वस् + बाहुलकात् अथ ।) ग्रामः । इति हेम-
चन्द्रः । ४ । २७ ॥

प्रतिवाक्, [च्] स्त्री, (प्रतिरूपा वाक् ।) उत्त-

रम् । इति शब्दरत्नावली ॥ (यथा, महा-
भारते । ५ । ७२ । ७१ ।
“लाङ्गुलचालनं क्ष्वेडा प्रतिवाचो विवर्त्तनम् ।
दन्तदर्शनमारावस्ततो युद्धं प्रवर्त्तत ॥”)

प्रतिवाक्यं, क्ली, (प्रतिरूपं वाक्यम् ।) उत्तरम् ।

इत्यमरः । १ । ६ । १० ॥

प्रतिवाणिः, स्त्री, (प्रतिरूपा वाणिः ।) प्रत्युक्तिः ।

प्रत्युत्तरम् । इति भूरिप्रयोगः ॥

प्रतिवादी, [न्] त्रि, (प्रतिवादोऽस्यास्तीति

इनिः । यद्वा, प्रतिकूलं वदतीति । प्रति + वद् +
णिनिः ।) प्रतिपक्षः । यथा, --
“यदा त्वेवंविधः पक्षः कल्पितः पूर्ब्बवादिना ।
दद्यात्तत्पक्षसम्बन्धं प्रतिवादी तदोत्तरम् ॥”
इति व्यवहारतत्त्वे बृहस्पतिवचनम् ॥

प्रतिवासरः, पुं, (प्रतिगतो वासरम् ।) प्रति-

दिनम् । तद्दिनम् । इति हारावली । १६९ ॥
(क्ली, वासरं वासरं प्रतीति समासे । प्रति-
दिनम् । यथा, राजतरङ्गिण्याम् । २ । १२७ ।
“भूतेशबर्द्धमानेशविजयेशानपश्यतः ।
नियमो राजकार्य्येषु तस्याभूत् प्रतिवासरम् ॥”)

प्रतिवासी, [न्] त्रि, (प्रत्यासन्नं वसतीति ।

प्रति + वस् + णिनिः ।) आसन्नगृही । निकट-
स्थायी । पडसि इति भाषा । प्रतिवसतीति
ग्रहादित्वाण्णिन्प्रत्ययनिष्पन्नः ॥

प्रतिविम्बं, क्ली, (प्रतिरूपं विम्बमिति । “कुगति-

प्रादयः ।” २ । २ । १८ । इति समासः ।)
प्रतिमा । प्रतिच्छाया । इत्यमरः । २ । १० । ३६ ॥
(यथा, पञ्चदश्याम् । १ । १५ ।
“चिदानन्दमयब्रह्मप्रतिबिम्बसमन्विता ।
तमोरजःसत्त्वगुणा प्रकृतिर्द्विविधा च सा ॥”)

प्रतिविषा, स्त्री, (प्रतीपं विषं यस्याः ।) अति-

विषा । इत्यमरः । २ । ४ । ९९ ॥ आतैस इति
भाषा ॥ (यथा, सुश्रुते उत्तरतन्त्रे । ४० अः ।
पृष्ठ ३/२६४
“महौषधं प्रतिविषा मुस्तं चेत्यामपाचनाः ॥”
अस्याः पर्य्यायो यथा, --
“विषा त्वतिविषा विश्वा शृङ्गी प्रतिविषारुणा ।
शुक्लकन्दा चोपविषा भङ्गरा धुणवल्लभा ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

प्रतिविष्णु, क्ली, विष्णुं विष्णुं प्रति । इति मुग्धबोध-

व्याकरणम् ॥

प्रतिविष्णुकः, पुं, (प्रतिगतो विष्णुर्यस्मिन्निति । प्रति-

विष्णुर्मुचुकुन्दो नृपतिः । तन्नाम्ना कायति प्रका-
शते इति । कै + कः ।) मुचुकुन्दवृक्षः । इति
राजनिर्घण्टः ॥ (पर्य्यायोऽस्य यथा, --
“मुचुकुन्दः क्षत्त्रवृक्षश्चित्रकः प्रतिविष्णुकः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

प्रतिवेशः, पुं, (प्रत्यासनो वेशो निवेशः । प्रति-

विशत्यत्रेति आधारे घञ् वा ।) प्रतिवासिगृहम् ।
आसन्नगृहिणां गृहम् । इति शब्दरत्नावली ॥
(त्रि, आसन्नवर्त्ती । यथा, ऋग्वेदे । १० । ६६ । १३ ।
“क्षेत्रस्य पतिं प्रतिवेशमीमहे ।”
“प्रतिवेशं समीपे वर्त्तमानम् ।” इति तद्भाष्ये
सायनः ॥)

प्रतिवेशवासी, [न्] त्रि, (प्रतिवेशे वसतीति ।

वस् + णिनिः ।) प्रतिवासी । यथा, --
“नो जाने प्रतिवेशवासिनि गुरोः किं भावि
सम्भावितम् ।”
इत्यलङ्कारकौस्तुभम् ॥

प्रतिवेशी, [न्] त्रि, (प्रतिवेश आसन्नवर्त्तिगृह-

मस्यास्तीति । इनिः ।) प्रतिवासी । इति शब्द-
रत्नावली ॥ (यथा, मृच्छकटिके ३ अङ्के ।
“दृष्ट्वा प्रभातसमये प्रतिवेशिवर्गो
दोषांश्च मे वदति कर्म्मणि कौशलञ्च ॥”)

प्रतिशासनं, क्ली, (प्रति + शास् + भावे ल्युट् ।)

आहूय भृत्यादीनां कार्य्ये प्रेरणम् । इत्यमरः ॥

प्रतिशिष्टं, त्रि, (प्रतिगतं शिष्टमवशिष्टम् ।)

प्रत्याख्यातम् । (प्रति + शास् + क्तः ।) प्रेषि-
तम् । इति त्रिकाण्डशेषः ॥

प्रतिश्या, स्त्री, (प्रतिश्यायते इति । प्रति + श्यैङ

गतौ + “आतश्चोपसर्गे ।” ३ । १ । १३६ । इति
कः । टाप् ।) प्रतिश्यायः । इति शब्दरत्नावली ॥

प्रतिश्यायः, पुं, (प्रतिक्षणं श्यायते इति । प्रति +

श्यै + “श्याद्वधास्रुसंम्व्रतीणेति ।” ३ । १ । १४१ ।
इति णः ।) पीनसरोगः । इत्यमरः । २ । ६ । ५१ ॥
(यथा, सुश्रुते सूत्रस्थाने ४५ अध्याये ।
“पार्श्वशूले प्रतिश्याये वातरोगे गलग्रहे ॥”
अस्य सकारणलक्षणं सम्प्राप्तिश्च यथा, --
“सन्धारणाजीर्णरजोऽतिभाष्य-
क्रोधर्त्तुवैषम्यशिरोऽभितापैः ।
प्रजागरातिस्वपनाम्बुशीतै-
रवश्यया मैथुनवाष्पधूमैः ॥
संस्त्यानदोषे शिरसि प्रवृद्धो
वायुः प्रतिश्यायमुदीरयेत्तु ।
घ्राणार्त्तितोदैः श्वयथुर्जलाभः
स्रावोऽनिलात् सस्वनमूर्द्ध्वरोगः ॥
नासाग्रपाकज्वरवक्त्रशोष-
तृष्णोष्णपीतस्रवणानि पित्तात् ।
कासारुचिस्रावनयनप्रसेकाः
कफाद्गुरुः स्रोतसि चापि कण्डूः ॥
सर्व्वाणि रूपाणि तु सन्निपातात्
स्युः पीनसे तीव्ररुजेऽतिदुःखे ।
सर्व्वोऽतिवृद्धोऽहितभोजनात्तु
दुष्टप्रतिश्याय उपेक्षितः स्यात् ॥”
इति चरके चिकित्सास्थाने षड्विंशेऽध्याये ॥)

प्रतिश्रयः, पुं, (प्रतिश्रीयते अस्मिन्निति । प्रति +

श्रि + आधारे अच् ।) यज्ञशाला । इति जटा-
धरः ॥ सभा । आश्रयः । इति मेदिनी ।
ये, १२२ ॥ ओकः । इति हेमचन्द्रः ॥ (यथा,
महाभारते । १ । १६६ । ४ ।
“स सम्यक् पूजयित्वा तं विप्रं विप्रषभस्तदा ।
ददौ प्रतिश्रयन्तस्मै सदा सर्व्वातिथिव्रतः ॥”
निवासः । यथा, मनौ । १० । ५१ ।
“चण्डालश्वपचानान्तु बहिर्ग्रामात् प्रतिश्रयः ॥”
“प्रतिश्रयो निवासः ।” इति मेधातिथिः ॥)

प्रतिश्रवः, पुं, (प्रति + श्रु + “ऋदोरप् ।” ३ । ३ ।

५७ । इति अप् ।) अङ्गीकारः । इत्यमरः ॥
(यथा, राजतरङ्गिण्याम् । ३ । ४२४ ।
“इति सोऽभीष्टसंप्राप्तौ कारयित्वा प्रतिश्रवम् ।
दूरमुत्क्रान्तमर्य्यादः सङ्गमं तमयाचत ॥”)

प्रतिश्रुत्, स्त्री, (प्रतिरूपं श्रूयते इति । प्रति +

श्रु + सम्पदादित्वात् क्विप् ।) प्रतिध्वनिः । इत्य-
मरः । १ । ६ । २५ ॥ (यथा, रघौ । १३ । ४० ।
“यस्यायमन्तर्हितसौधभाजः
प्रसक्तसङ्गीतमृदङ्गधोषः ।
वियद्गतः पुष्पकचन्द्रशालाः
क्षणं प्रतिश्रुन्मुखराः करोति ॥”)

प्रतिश्रुतः, त्रि, (प्रतिश्रूयते स्मेति । प्रति + श्रु +

क्तः ।) अङ्गीकृतः । इत्यमरः । ३ । २ । १०९ ॥

प्रतिषिद्धः, त्रि, (प्रति + सिध् + क्तः ।) प्रतिषेध-

विषयः । निषिद्धः । यथा । अप्रतिषिद्धमनुमतं
भवतीति दत्तकचन्द्रिका ॥ (यथा च, --
“सर्व्वर्त्तुषु दिवास्वापः प्रतिषिद्धोऽन्यत्र ग्रीष्मात् ॥”
इति सुश्रुते शारीरस्थाने चतुर्थेऽध्याये ॥)

प्रतिषेद्धा, [ऋ] त्रि, (प्रति + सिध् + तृच् ।)

प्रतिषेधकर्त्ता । तत्पर्य्यायः । माशब्दिकः २ ।
इति त्रिकाण्डशेषः ॥ (यथा, महाभारते ।
१ । १८१ । १० ।
“यदा तु प्रतिषेद्धारं पापो न लभते क्वचित् ।
तिष्ठन्ति बहवो लोकास्तदा पापेषु कर्म्मसु ॥”)

प्रतिषेधः, पुं, (प्रति + सिध् + भावे + घञ् ।)

निषेधः । यथा, मलमासतत्त्वे ।
“प्राधान्यन्तु विधेर्यत्र प्रतिषेधेऽप्रधानता ।
पर्य्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् ॥”

प्रतिषेधकः, त्रि, (प्रतिषेधतीति प्रति + सिध् +

ण्वुल् ।) प्रतिषेधकर्त्ता । यथा अग्निपुराणे ।
“षष्टिवर्षसहस्राणां सहस्राणि वसेद्दिवि ।
योऽनुमन्तापि भवति निरये प्रतिषेधकः ॥”

प्रतिष्कः, पुं, (प्रतिष्कन्दति प्रतिगच्छतीति । प्रति

+ स्कन्द + बाहुलकात् डः ।) दूतः । इति
शब्दरत्नावली ॥

प्रतिष्कशः, पुं, (प्रतिकशतीति । प्रति + कश् +

अच् । बाहुलकात् सुट् ।) सहायः । वार्त्ता-
हरः । पुरोगः । इति मेदिनी । शे, ३६ ॥

प्रतिष्कषः, पुं, (प्रतिकष्यतेऽनेनेति । प्रति + कष्

हिसांयाम् + अच् । बाहुलकात् सुट् ।) चर्म्म-
रज्जुः । इति जटाधरः ॥

प्रतिष्कसः, पुं, (प्रतिकसति प्रतिगच्छतीति ।

प्रति + कस् + अच् । सुट् ।) चरः । इत्रि
शब्दरत्नावली ॥

प्रतिष्टम्भः, पुं, (प्रतिष्टम्भनमिति । प्रति + स्तन्भ +

भावे घञ् । षत्वम् ।) प्रतिबन्धः । इत्यमरः ।
३ । २ । २७ ॥ (यथा, रघौ । २ । ३२ ।
“बाहुप्रतिष्टम्भविवृद्धमन्यु-
रभ्यर्णमागस्कृतमस्पृशद्भिः ॥”)

प्रतिष्ठः, पुं, (प्रतिष्ठा अस्यास्तीति । अच् ।)

सुपार्श्वनामकवृत्तार्हत्पिता । इति हेमचन्द्रः ।
१ । ३६ ॥ प्रतिष्ठायुक्ते, त्रि ॥ (यथा, महा-
भारते । ५ । ४६ । ३० ।
“आत्मैव स्थानं मम जन्म चात्मा
ओतप्रोतोऽहमजरः प्रतिष्ठः ॥)

प्रतिष्ठा, स्त्री, (प्रतितिष्ठतीति । प्रति + स्था +

“आतश्चोपसर्गे ।” ३ । ३ । १०६ । इति भावादौ
अङ् । टाप् ।) गौरवः । (यथा, कथासरित्-
सागरे । २ । ६९ ।
“किञ्च व्याकरणं लोके प्रतिष्ठां प्रापयिष्यति ॥”)
क्षितिः । स्थानम् । (यथा, रघुः । १६ । ३५ ।
“वेदिप्रतिष्ठान् वितताध्वराणां
यूपानपश्यच्छतशो रघूणाम् ॥”
आश्रयः । यथा, मार्कण्डेये । ८४ । १० ।
“गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा ॥”)
यागनिष्पत्तिः । चतुरक्षरपद्यम् । इति मेदिनी ।
ते, १३ ॥ * ॥ (स्थितिः । यथा, हरिवंशे ।
२८ । ३७ ।
“य इदं च्यावनं स्थानात्प्रतिष्ठाञ्च शतक्रतोः ।
शृणुयाद्धारयेद्वापि न स दौरात्म्यमाप्नुयात् ॥”
शरीरम् । यथा, ऋग्वेदे । १० । ७३ । ६ ।
“साकं प्रतिष्ठा हृद्या जघंथ ॥”)
संस्कारविशेषः । (यथा, आर्य्यासप्तशत्याम् । ३८६ ।
“पूजा विना प्रतिष्ठां नास्ति न मन्त्रं विना
प्रतिष्ठा च ।
तदुभयविप्रतिपन्नः पश्यतु गीर्व्वाणपाषाणम् ॥”)
तद्दिनादि यथा, --
मत्स्यपुराणे ।
“चैत्रे वा फाल्गुने वापि ज्यैष्ठे वा माधवे तथा ।
समयः सर्व्वदेवानां प्रतिष्ठा शुभदा भवेत् ॥
प्राप्य पक्षं शुभं शुक्लमतीते चोत्तरायणे ।
पञ्चमी च द्वितीया च तृतीया सप्तमी तथा ॥
दशमी पौर्णमासी च तथा श्रेष्ठा त्रयोदशी ।
आसु प्रतिष्ठा विधिवत् कृता बहुफला भवेत् ॥ *
पृष्ठ ३/२६५
प्रतिष्ठा सर्व्वदेवानां केशवस्य विशेषतः ।
उतरायणमापन्ने शुक्लपक्षे शुभे दिने ॥
कृष्णपक्षे च पञ्चम्यामष्टम्याञ्चैव शस्यते ॥’ * ॥
भुजबलभीमे ।
‘युगादावयने पुण्ये कर्त्तव्यं विषुवद्वये ।
चन्द्रसूर्य्यग्रहे वापि दिने पुण्येऽथ पर्व्वसु ॥
या तिथिर्यस्य देवस्य तस्यां वा तस्य कीर्त्तिता ।
गृह्यागमविशेषेण प्रतिष्ठा मुक्तिदायिनी ॥’ * ॥
पद्मपुराणे ।
‘प्रतिपद्धनदस्योक्ता पवित्रारोपणे तिथिः ।
श्रिया देव्या द्वितीया तु तिथीनामुत्तमा स्मृता ॥
तृतीया तु भवान्याश्च चतुर्थी तत्सुतस्य च ।
पञ्चमी सोमराजस्य षष्ठी प्रोक्ता गुहस्य च ॥
सप्तमी भास्करस्योक्ता दुर्गायाश्चाष्टमी तथा ।
मातॄणां नवमी प्रोक्ता दशमी वासुकेस्तथा ॥
एकादशी ऋषीणाञ्च द्वादशी चक्रपाणिनः ।
त्रयोदशी त्वनङ्गस्य शिवस्योक्ता चतुर्द्दशी ।
मम चैव मुनिश्रेष्ठ ! पौर्णमासी तिथिः स्मृता ॥’
कल्पतरौ देवीपुराणम् ।
‘महिषासुरहन्त्र्याश्च प्रतिष्ठा दक्षिणायने ।
यस्य देवस्य यः कालः प्रतिष्ठाध्वजरोपणे ॥
गर्त्तापूरशिलान्यासे शुभदस्तस्य पूजितः ॥’
यस्य देवस्य प्रतिष्ठाध्वजरोपणे यः कालः शुभद-
स्तस्य गर्त्तापूरशिलान्यासे गृहारम्भे स कालः
पूजित इत्यर्थः ॥ * ॥ प्रतिष्ठासमुच्चये ।
‘माघे वा फालगुने वापि चैत्रवैशाखयोरपि ।
ज्यैष्ठाषाढकयोर्वापि प्रतिष्ठा शुभदा भवेत् ॥’ * ॥
भविष्ये ।
‘सोमो वृहस्पतिश्चैव शुक्रश्चैव बुधस्तथा ।
एते सौम्यग्रहाः प्रोक्ताः प्रतिष्ठा यज्ञकर्म्मणि ॥
मत्स्यपुराणम् ।
‘आषाढे द्वे तथा मूलमुत्तरात्रयमेव च ।
ज्येष्ठाश्रवणरोहिण्यः पूर्ब्बभाद्रपदस्तथा ॥
हस्ताश्विनी रेवती च पुष्या मृगशिरस्तथा ।
अनुराधा तथा स्वाती प्रतिष्ठादौ प्रशस्यते ॥’
दीपिकायाम् ।
‘प्राजेशवासवकरादितिभाश्विनीषु
पौष्णामरेज्यशशिभेषु तथोत्तरेषु ।
कर्त्तुः शुभे शशिनि केन्द्रगते च जीवे
कार्य्या हरेः शुभतिथौ विधिवत् प्रतिष्ठा ॥
प्राजेशादयः । रोहिणीज्येष्ठाहस्तापुनर्व्वस्वश्वि-
नीरेवतीपुष्यामृगशिरौत्तरफल्गुन्युत्तराषाढो-
त्तरभाद्रपन्नक्षत्राणि ॥ * ॥ सर्व्वमङ्गलादृष्टान्ते
देवीपुराणम् ।
‘यथा द्वादशमे जीवे अष्टमे वाथ भास्करे ।
प्रतिष्ठा कारिता विष्णोर्महाभयकरी मता ॥’
कल्पतरौ देवीपुराणम् ।
‘चतुर्व्वर्णैस्तथा विष्णुः प्रतिष्ठाप्यः सुखार्थिभिः ।’
प्रतिष्ठा ब्राह्मणद्वारैव कर्त्तव्या ।
‘कर्त्तुमिच्छति यः पुण्यं मम मूर्त्तिप्रतिष्ठया ॥
अन्वेषणीयस्त्वाचार्य्यस्तेन लक्षणसंयुतः ॥
ब्राह्मणः सर्व्ववर्णानां पञ्चरात्रविशारदः ।
ब्राह्मणानामलाभे तु क्षत्त्रियो वैश्यशूद्रयोः ॥
क्षत्त्रियाणामलाभे तु वैश्यः शूद्रस्य कल्पितः ।
कदाचिदपि शूद्रस्तु न च कार्य्यार्थमर्हति ॥’ * ॥
बृहन्नारदीये ।
‘प्रणमेच्छूद्रसंस्पृष्टं लिङ्गं वा हरिमेव वा ।
स सर्व्वयातनाभोगी यावदाहूतसंप्लवम् ॥’
यावदाहूतसंप्लवं प्रलयपर्य्यन्तम् ॥ तथा ।
‘स्त्रीणामनुपनीतानां शूद्राणाञ्च जनेश्वर ! ।
स्पर्शने नाधिकारोऽस्ति विष्णौ वा शङ्करेऽपि
वा ॥’ * ॥
प्रतिष्ठाप्रकारस्तु मत्स्यपुराणादावुक्तः । तद-
सम्भवे विद्याकरवाजपेयिप्रभृतिसम्मतो भवि-
ष्याद्युक्तः । यथा भविष्यपुराणम् ।
‘स्नपनादि यथाशक्ति कृत्वा तन्मूलमन्त्रकम् ।
विन्यसेद्धृदयाम्भोजे प्रतिमासु कृता भवेत् ॥’
आदिपदात् पूजोत्सवहोमादि महाकपिल-
पञ्चरात्रोक्तकर्म्म च कर्त्तव्यम् । तद्यथा, --
‘सपुष्पं सकुशं पाणिं न्यसेद्देवस्य मस्तके ।
पञ्चवारं जपेन्मूलमष्टोत्तरशतोत्तरम् ॥
ततो मूलेन मूर्द्धादिपीठान्तं संस्पृशेदिति ।
तत्त्वन्यासं लिपिन्यासं मन्त्रन्यासञ्च विन्यसेत् ॥
पूजाञ्च महतीं कुर्य्यात् स्वमन्त्रोक्तां यथाविधि ।
प्राणप्रतिष्ठामन्त्रेण प्राणस्थापनमाचरेत् ॥’
लिपिन्यासस्तु मातृकान्यासः । उक्तञ्च ।
‘जपादौ सर्व्वमन्त्राणां विन्यसेन्न लिपिं विना ।
कृतं तन्निष्फलं विद्यात्तस्मात् पूर्ब्बं लिपिं न्यसेत् ॥
कादिमतेऽपि ।
‘मातृकायाः षडङ्गञ्च मातृकान्यासमेव च ।
सर्व्वासां प्रथमं कृत्वा पश्चात्तन्त्रोदितं न्यसेत् ॥
एतद्वचनाच्च मातृकान्यासः पूर्ब्बं पश्चात्तत्त्व-
न्यासः ॥’
क्रमदीपिकायामप्येवं क्रमः । मन्त्रन्यासश्च तत्त-
न्मन्त्रविशेषोक्तपदवर्णन्यासः । तदभावे मूल-
मन्त्रेण शिरसि हस्तन्यासः । तत्त्वन्यासस्तु
विष्णुविषयक एव । न्यासप्रमाणानि सारदाक्रम-
दीपिकोक्तान्यनुसन्धेयानि ॥ * ॥ प्राणप्रतिष्ठा-
मन्त्रस्तु सारदात्रयोविंशतिपटलोक्तः । यथा, --
‘पाशाङ्कुशपुटाशक्तिर्वाणीबिन्दुविभूषितः ।
याद्याः सप्त सकारान्ता व्योमसत्येन्दुसंयुतम् ॥
समन्ते हंसमन्त्रः स्यात्ततोमुष्यपदं भवेत् ।
प्राणा इति वदेत् पश्चात् इह प्राणास्ततः परम् ॥
अमुष्य जीव च इह स्थितोऽमुष्यपदं भवेत् ।
सर्व्वेन्द्रियाण्यमुष्यान्ते वाङ्मनश्चक्षुरन्ततः ॥
श्रोत्रघ्राणपदे प्राणा इहागत्य सुखं चिरम् ।
तिष्ठन्त्वग्निवधूरन्ते प्राणमन्त्रोऽयमीरितः ॥
प्रत्यमुष्यपदात् पूर्ब्बं पाशाद्यानि प्रयोजयेत् ।
प्रयोगेषु समाख्यातः प्राणमन्त्रो मनीषिभिः ॥’
पाशाङ्कुशपुटाशक्तिरित्यनेन प्रथमं पाशवीजं
आं ततः शक्तिबीजं ह्रीं ततोऽङ्कुशबीजं क्रों
वाणी यकारः बिन्दुविभूषितो यं । याद्याः
सप्त सकारान्ताः उद्धृतयकारानुवादेन सप्त
तद्भिन्नं बीजं पूर्ब्बं पृथगुद्धारस्तु सप्तानामपि
सबिन्दुताख्यापनाय । अङ्कुशवाय्वनलावनि-
वरुणबीजानीत्युक्तम् । अत्र वायुवीजस्यैकत्वं
बीजत्वेन सर्व्वेषां सबिन्दुत्वं व्यक्तम् । राघयभट्टो-
ऽप्येवम् । अन्यस्तु वाणीविन्दुविभूषिता इति
पठित्वा नादविन्दुविभूषिता इति व्याख्यातं
याद्या इत्यस्य विशेषणं वदति । व्योम हकारः
सत्य ओकारः इन्दुर्विन्दुः तेन हों । अतएव
पाशाङ्कुशान्तरितशक्तिमनोः परस्तादुच्चार्य्य
यादिवसुवर्णगुणं सहंसमिति प्रपञ्चसारप्रति-
पाद्यगुणमित्यनेन होमिति पद्मपादाचार्य्यैर्व्या-
ख्यातम् । अग्निवधूः स्वाहा । तेनायं मन्त्रः ।
आं ह्रीं क्रों यं रं लं वं शं षं सं हों हं सः
अमुष्य प्राणा इह प्राणाः आमित्यादि अमुष्य
जीव इह स्थितः आमित्यादि अमुष्य सर्व्वेन्द्रि-
याणि आमित्यादि अमुष्य वाङ्मनश्चक्षुश्रोत्र-
घ्राणप्राणा इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा ।
अमुष्य इति षष्ठ्यन्तदेवतानामोपलक्षणम् ।
‘अदःपदं हि यद्रूपं यत्र मन्त्रे हि दृश्यते ।
अमुष्याभिधानं तद्रूपं तत्र स्थाने नियोजयेत् ॥’
इति नारदीयात् ॥
वशिष्ठसंहितायाम् ।
‘हृदि हस्तं सन्निधाय प्राणस्थापनमाचरेत् ॥’ * ॥
प्रागुक्तभविष्यपुराणवचनेन तन्मूलमन्त्रकं तत्तद्-
देवतामन्त्रकं स च वैदिकस्तान्त्रिकश्च ।
‘ओङ्कारादिसमायुक्तं नमस्कारान्तकीर्त्तितम् ।
स्वनाम सर्व्वसत्त्वानां मन्त्र इत्यभिधीयते ॥’
ब्रह्मपुराणे ।
‘ओङ्कारादिनमोऽन्तेन चतुर्थ्यन्ततत्तद्देवतानाम-
रूपो वा ।”
कालिकापुराणे ।
‘प्रतिमायाः कपोलौ द्वौ स्पृष्ट्वा दक्षिणपाणिना ।
तथैव हृदयेऽङ्गुष्ठं दत्त्वा शश्वच्च मन्त्रवित् ॥
एभिर्मन्त्रैः प्रतिष्ठान्तु हृदयेऽपि समाचरेत् ।
अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च ।
अस्यै देवत्वसंख्यायै स्वाहेति यजुरीरयन् ॥
अङ्गमन्त्रैरङ्गिमन्त्रैर्वैदिकैरित्यनेन च ।
प्राणप्रतिष्ठां सर्व्वत्र प्रतिमासु समाचरेत् ॥’
अङ्गमन्त्रैः अङ्गन्यासमन्त्रैः । अङ्गिमन्त्रैः मूल-
मन्त्रैः वैदिकैर्मनोज्योतिरित्यादिभिः ॥ * ॥
स्नपनात् पूर्ब्बं बल्मीकमृत्तिकादिभिस्तिसृभिः
क्षालनमाह हयशीर्षपञ्चरात्रम् ।
‘वल्मीकमृत्तिकाभिस्तु गोमयेन स्वभस्मना ।
क्षालयेच्छिल्पिसंस्पर्शदोषाणामुपशान्तये ॥
स्नापयेद्गन्धतोयेन शुद्धवत्या तु देशिकः ॥
नमस्तेऽस्तु सुरेशानि प्रणीते विश्वकर्म्मणा ।
प्रभाविताशेषजगद्धात्रि ! तुभ्यं नमो नमः ॥
त्वयि संपूजयामीशे नारायणमनामयम् ।
रहिता शिल्पिदोषैस्त्वमृद्धियुक्ता सदा भव ॥’ * ॥
तेन यथाशक्ति स्नपनादिपूर्ब्बकप्रतिमाहृदये
तन्मूलमन्त्रविन्यासेन देवताया विशेषसन्निधिः
प्रतिष्ठेति । राघवभट्टधृतमहाकपिलपञ्चरात्रे-
ऽपि ।
पृष्ठ ३/२६६
‘प्रतिष्ठाशब्दसंसिद्धिः प्रतिपूर्ब्बाच्च तिष्ठतेः ।
बह्वर्थत्वान्निपातानां संस्कारादौ प्रतेः स्थितिः ॥
अर्थस्तदयमेतस्य गीयते शाब्दिकैर्जनैः ।
विशेषसन्निधिर्या तु क्रियते व्यापकस्य तु ॥
सन्मूर्त्तौ भावनामन्त्रैः प्रतिष्ठा साभिधीयते ॥’ * ॥
स्वभस्मना गोमयभस्मना ।
‘अष्टोत्तरं पलशतं स्नाने देयञ्च सर्व्वदा ॥’
पलमाह मनुः ।
‘पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोडश ।’
पलं सुवर्णाश्चत्वारः । तेनाष्टरक्तिकाधिक-
लौकिकमाषद्बयाधिकतोलकत्रयेण पलं भवति
एवंविधाष्टोत्तरपलशतेन लौकिकषष्ट्यांधकशत-
त्रयतोलका इति । एवं वल्मीकमृदादिक्षालने
गायत्त्र्या वल्मीकमृदा स्नापयेत् । तत्रापि
अष्टोत्तरशतपलं शूलपाणिलिखितन्यायात् ।
गायत्त्र्या मूलमन्त्रेण वा गन्धोदकस्नाने शुद्धवत्या
एतोन्विन्द्रमित्यादि ऋक्त्रयात्मिकया देशिको
गुरुर्यजमानो वा विज्ञः नमोऽस्तु इत्यादिमन्त्रौ
देवतान्तरे च तत्तद्देवतानामोहः । शिवलिङ्ग-
स्याप्यर्च्चात्वात् स्त्रीलिङ्गमविरुद्धम् ॥ * ॥ यमः ।
‘कृत्वा देवकुलं सर्व्वं प्रतिष्ठाप्य च देवताम् ।
विधाय विविधं चित्रं तल्लोकं विन्दते ध्रुवम् ॥’
नारसिंहे ।
‘प्रतिमां लक्षणोपेतां नरसिंहस्य कारयेत् ।
सर्व्वपापानि सन्त्यज्य स तु विष्णुपुरं व्रजेत् ॥
प्रतिष्ठा नरसिंहस्य यः करोति यथाविधि ।
निष्कामो नरशार्द्दूल ! देहबन्धात् प्रमुच्यते ।
सकामो नरसिंहस्य पुरं प्राप्य प्रमोदते ॥
विधिवत् स्थापयेद्यस्तु कारयित्वा जनार्द्दनम् ।
न जातु निर्गमस्तस्य विष्णुलोकात् कथञ्चन ॥’
माधवमानसोल्लासे ।
‘देवस्य प्रमितायान्तु यावन्तः परमाणवः ।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥’
राजमार्त्तण्डे ।
‘पुत्त्रोत्पत्तौ सदा श्राद्धमन्नप्राशनिके तथा ।
चूडाकार्य्ये व्रते चैव नाम्नि पुंसवनेऽपि च ॥
पाणिग्रहे प्रतिष्ठायां प्रवेशे नववेश्मनः ।
एतद्वृद्धिकरं नाम गृहस्थस्य विधीयते ॥’
सूत उवाच ।
‘कलौ चैकाहसाध्येन प्रतिष्ठां मन्त्रवित्तवान् ।
मध्यमेनाधमेनापि प्रकुर्य्यात्तान्त्रिकैर्मतैः ॥’
तथा ।
‘नित्यं निर्व्वर्त्य मतिमान् कुर्य्यादभ्युदयं ततः ।
विप्रान् संपूजयित्वाथ ततो यागपुरं व्रजेत् ॥
गणेशग्रहदिक्पालान् प्रतिकुम्भेषु पूजयेत् ।
स्थण्डिल विधिवद्विर्ष्णु परिवारगणं यजेत् ॥
स्नापयेत् प्रथमं देवं तोयैः पञ्चविधैरपि ।
पञ्चामृतैः पञ्चगव्यैः पञ्चमृत्पिण्डकैरपि ॥
तिलतैलैश्च स्नेहैश्च कषायैरपि सत्तमाः ।
पञ्चपुष्पोदकैर्वाथ त्रिपत्रैरपि सत्तमाः ॥
तुलसीकुन्दमालूरपत्राण्याहुस्त्रिपत्रकम् ।
चम्पकाम्रशमीपद्मकरवीरञ्च पञ्चमम् ॥
मृत्तिका करिदन्तस्य पर्व्वताश्वखुरस्य च ।
कुशवल्मीकसम्भूतं मृदां पञ्चकमीरितम् ॥ * ॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
कुर्य्यात् प्राणप्रतिष्ठाञ्च होमं कुर्य्याद्यथाविधि ।
दक्षिणां विधिवद्दद्यात् पूर्णार्थं तदनन्तरम् ॥’
इति भविष्यपुराणे तृतीयभागे ९ अध्यायः ॥ * ॥
‘चतुरङ्गुलविस्तारा दीर्घा हस्तद्वयावधि ।
पताका लोकपालानां दशानां परिकीर्त्तिताः ।
पञ्चहस्ताश्च वै दण्डाः पताकानां प्रकीर्त्तिताः ॥’
ज्योतिषे ।
‘दुग्धं सशर्करञ्चैव धृतं दधि तथा मधु ।
पञ्चामृतमिदं प्रोक्तं विधेयं सर्व्वकर्म्मसु ॥’ * ॥
प्रतिष्ठानन्तरं मात्स्ये ।
‘ततः सहस्रं विप्राणामष्टोत्तरशतन्तथा ।
भोजयेच्च यथाशक्त्या पञ्चाशद्वाथ विंशतिम् ॥’
षोडशोपचाराः आसनमित्यादि । दशोप-
चाराः पाद्यादि । पञ्चोपचारा गन्धादि ।
‘सर्व्वोपचारवस्तूनामलाभे भावनैव हि ।
निर्म्मलेनोदकेनानुपूर्णतेत्याह नारदः ॥’ * ॥
नारसिंहे ।
‘स्नाने वस्त्रे च नैवेद्ये दद्यादाचमनीयकम् ॥’
कालिकापुराणम् ।
‘यद्दीयते च देवेभ्यो गन्धपुष्पादिकं तथा ।
अर्घ्यपात्रस्थितैस्तोयैरभिषिच्य तमुत्सृजेत् ॥’
देवीपुराणम् ।
‘होमो ग्रहादिपूजायां शतमष्टोत्तरं भवेत् ।
अष्टाविंशतिरष्टौ वा यथाशक्ति विधीयते ॥’
कात्यायनः ।
‘आज्यं द्रव्यमनादेशे जुहोतिषु विधीयते ॥’
अत्र नीराजनमाह पूजारत्नाकरे देवीपुराणम् ।
‘शङ्खभेर्य्यादिनिनदैर्जयशब्दैश्च पुष्कलैः ।
यावतो दिवसान् वीर ! देव्या नीराजनं कृतम् ।
तावत्कल्पसहस्राणि स्वर्गलोके महीयते ॥
भक्त्या पिष्टप्रदीपाद्यैश्चूताश्वत्थादिपल्लवैः ।
ओषधीभिश्च मेध्याभिः सर्व्वबीजैर्यवादिभिः ॥
नवम्यां पर्व्वकालेषु यात्राकाले विशेषतः ।
यः कुर्य्याच्छ्रद्धया वीर ! देव्या नीराजनं नरः ।
यस्तु कुर्य्यात् प्रदीपेन सूर्य्यलोकं स गच्छति ॥’
पर्व्वकाल उत्सवकालः । देव्या इति स्त्रीत्वम-
विवक्षितं वहुशो निबन्धकारैर्व्याख्यातत्वात्
आचाराच्च ॥ * ॥ अथ प्रतिष्ठितमूर्त्तौ कदा-
चित् पूजाभावेन महाकपिलपञ्चरात्रम् ।
‘एकाहपूजाविहतौ कुर्य्याद्द्विगुणमर्च्चनम् ।
त्रिरात्रे च महापूजा संप्रोक्षणमतः परम् ॥
मासादूर्द्धमनेकाहपूजा यदि विहन्यते ।
प्रतिष्ठैवेष्यते कैश्चित् कैश्चित् संप्रोक्षणक्रमः ॥’
संप्रोक्षणं ॐ देवस्य त्वेत्यादिना ।
‘गवां रसैश्च संस्नाप्य दर्भतोयैर्विशोध्य च ।
प्रोक्षयेत् प्रोक्षणीतोयैर्मूलेनाष्टोत्तरं शतम् ॥
सपुष्पं सकुशं पाणिं न्यसेद्देवस्य मस्तके ।
पञ्चवारं जपेन्मूलमष्टोत्तरशतोत्तरम् ॥
ततो मूलेन मूर्द्धादिपीठान्तं संस्पृशेदिति ।
तत्त्वन्यासं लिपिन्यासं मन्त्रन्यासञ्च विन्यसेत् ॥
प्राणप्रतिष्ठामन्त्रेण प्राणस्थापनमाचरेत् ।
पूजाञ्च महतीं कुर्य्यात् स्वत्रन्त्रोक्तां यथाविधि ।
यागहोमादिषु प्रायः संक्षेपोऽयं विधिः स्मृतः ॥’
अस्पृश्यस्पर्शने तु बौधायनः । तासां द्रव्यवत्
कृतशौचानां देवार्च्चानां भूयः प्रतिष्ठापयेत् ।
तासामस्पृश्यस्पर्शानाम् । प्रकृतिद्रव्यस्य ताम्रादे-
र्यथेष्टशौचं कृत्त्वा पुनः प्रतिष्ठां कारयेदिति
रत्नाकरः । तदा पूज्यत्वमित्याहू रत्नाकरा-
दयः ॥ * ॥ आदित्यपुराणे ।
‘खण्डिते स्फुटिते दग्धे भ्राजमानविवर्जिते ।
योगहीने पशुस्पृष्टे पतिते दुष्टभूमिषु ॥
अन्यमन्त्रार्च्चिते चैव पतितस्पर्शदूषिते ।
दशस्वेतेषु नो चक्रुः सन्निधानं दिवौकसः ॥
इति सर्व्वगतो विष्णुः परिभाषाञ्चकार ह ॥’
उपचारद्रव्याणि सारदातिलके ।
‘पाद्यं श्यामाकदूर्व्वाब्जविष्णुक्रान्ताभिरिष्यते ।’
तद्युक्तजलमिति शेषः ।
‘गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपैः ।
सदूर्व्वैः सर्व्वदेवानामर्ध्यमेतदुदीरितम् ॥
जातीलवङ्गकक्कोलैर्जलमाचमनीयकम् ।
आज्यं दधिमधून्मिश्रं मधुपर्कं निवेदयेत् ॥
कात्यायनः ।
‘मधुपर्कं दधिमधुघृतसर्षपसहितं कांस्ये
कांस्येन ।’
गन्धश्चन्दनकर्पूरकालागुरुभिरीरितः । पुष्पाणि
देवदेयानि ।
‘गुग्गुल्वगुरूशीरशर्करामधुचन्दनैः ।
धूपयेदाज्यसंमिश्रैर्नीचैर्देवस्य देशिकः ।
तत्र तत्र जलं दद्यादुपचारान्तरान्तरे ॥’
अत्र वृद्धिहोमौ त्वनावश्यकौ यथाशक्ति इत्य-
भिधानात् ॥ * ॥ तथा चाल्पधनानां यज्ञ-
मण्डपेन विनापि पूजामाह विष्णुधर्म्मोत्तर-
प्रथमकाण्डम् ।
‘पूजा कार्य्या बहिर्वेद्यां श्रद्धया भृगुमन्दन ! ।
न त्वल्पदक्षिणैर्यज्ञैर्यजेदिह कदाचन ॥
विष्णुं देवनिकायस्थं यथाश्रद्धमरिन्दम ! ।
तपसा पूजयेन्नित्यं तस्मादल्पधनो नरः ॥” * ॥
यद्येकाहे देवप्रतिष्ठावास्तुयागगृहोत्सर्गास्तदा
तन्त्रेण वृद्धिश्राद्धं कुर्य्यात् । गणशः क्रियमाणे
त्वितिवचनात् ॥ * ॥ तथा एकस्मिन्नपि अग्नौ
होमद्वयं विघेयम् । एकाग्नावनेकहोमकरण-
पक्षे तन्त्रेण परिसमूहनादिकमाह गोभिलः ।
गणेष्वेकं परिसमूहनमिध्मो वर्हिःपर्य्युक्षण-
माज्यभागाविति ॥ * ॥ पूजादिकन्तु प्रत्येकमेव ।
ब्रह्मपुराणे ।
देवानां प्रतिमा यत्र घृताभ्यङ्गक्षमा भवत् ।
पलानि तस्यै देयानि श्रद्धया पञ्चविंशतिः ॥
अष्टोत्तरशतपलं स्नाने देयञ्च सर्व्वदा ॥’
नारसिंहे ।
यवगोधूमजैश्चूर्णैरुद्बर्त्योष्णेन वारिणा ।
प्रक्षाल्य देवदेवेशं वारुणं लोकमाप्नुयात् ॥
पृष्ठ ३/२६७
पादपीठन्तु यो दद्यात् विल्वपत्रनिघर्षणम् ।
उष्णाम्बुना च प्रक्षाल्य सर्व्वपापैः प्रमुच्यते ॥”
इति प्रतिष्ठातत्त्वम् ॥ * ॥
प्रकारान्तरं गारुडे ४८ अध्याये मत्स्यपुराणे
च द्रष्टव्यम् ॥

प्रतिष्ठानं, क्ली, (प्रतितिष्ठत्यत्रेति । प्रति + स्था +

अधिकरणे ल्युट् ।) नगरविशेषः । विठोर
इति ख्यातः । तत्र पुरूरवा राजचक्रवर्त्ती
आसीत् । इति महाभारतम् ॥ (यथा, देवी-
भागवते । १ । १३ । १-२ ।
“सुद्युम्ने तु दिवं याते राज्यं चक्रे पुरूरवाः ।
सगुणश्च सुरूपश्च प्रजारञ्जनतत्परः ॥
प्रतिष्ठाने पुरेंरम्ये राज्यं सर्व्वनमस्कृतम् ।
चकार सर्व्वधर्म्मज्ञः प्रजारक्षणतत्परः ॥”
इदं हि गङ्गातीरस्थम् । यथा, हरिवंशे । २६ ।
४७ -- ४८ ।
“एवं प्रभावो राजासीदैलस्तु पुरुषोत्तमः ।
देशे पुण्यतमे चैव महर्षिभिरभिष्टुते ।
राज्यं स कारयामास प्रयागे पृथिवीपतिः ।
उत्तरे जाह्नवीतीरे प्रतिष्ठाने महायशाः ॥”)

प्रतिष्ठितः, त्रि, (प्रतिष्ठा जातास्येति । तारका-

दित्वात् इतच् ।) प्रतिष्ठायुक्तः । (यथा, देवी-
भागवते । ३ । ६ । ७३ ।
“सदुद्भूतस्त्वहङ्कारस्तेनाहं कारणं शिवा ।
अहङ्कारश्च मे कार्य्यं त्रिगुणोऽसौ प्रतिष्ठितः ॥”)
गौरवान्वितः । यथा, --
“प्रतिष्ठितानाञ्चाकीर्त्तिर्मरणादतिरिच्यते ॥”
इति ब्रह्मवैवर्त्ते गणेशखण्डे ३४ अध्यायः ॥
निष्पन्नयागः । संस्कृतः । इति प्रतिष्ठाशब्दार्थ-

प्रतिसरः, पु, (प्रतिसरतीति । प्रति + सृ + अच् ।)

मन्त्रभेदः । माल्यम् । कङ्कणम् । ब्रणशुद्धिः ।
चमूपृष्ठम् । इति मेदिनी । रे, २७६ ॥ प्रातः-
कालः । इति शब्दमाला ॥

प्रतिसरः, पुं क्ली, (प्रतिसरतीति । प्रति + सृ +

अच् ।) मण्डलम् । आरक्षम् । करसूत्रम् ।
नियोज्ये, त्रि । इति मेदिनी । रे, २७६ ॥

प्रतिसर्गः, पुं, (प्रतिरूपः सर्गः ।) ब्रह्मणः सृष्ट्य-

नन्तरं दक्षादीनां सृष्टिः । स च पुराणपञ्च-
लक्षणान्तर्गतलक्षणविशेषः । यथा, --
ऋषय ऊचुः ।
“आदिसर्गस्त्वया सूत ! कथितो विस्तरेण च ।
प्रतिसर्गश्च ये येषामधिपास्तान् वदस्व नः ॥
सूत उवाच ।
यदाभिषिक्तः सकलाधिराज्ये
पृथुर्धरित्र्यामधिपो बभूव ।
तदौषधीनामधिपञ्चकार
यज्ञव्रतानां तपसाञ्च सोमम् ॥
नक्षत्रताराद्विजवृक्षगुल्म-
लतावितानस्य च रुक्मगर्भः ।
अपामधीशं वरुणं धनानां
राज्ञां प्रभुं वैश्रवणञ्च तद्वत् ॥
विष्णुं रवीणामधिपं वसूना-
मग्निञ्च लोकाधिपतिञ्चकार ।
प्रजापतीनामधिपञ्च दक्षं
चकारं शक्रं मरुतामधीशम् ॥
दैत्याधिपानामथ दानवानां
प्रह्लादमीशञ्च यमं पितॄणाम् ।
पिशाचरक्षःपशुभूतयक्ष-
वेतालराजन्त्वथ शूलपाणिम् ॥
प्रालेयशैलञ्च पतिं गिरीणा-
मीशं समुद्रं ससरिन्नदानाम् ।
गन्धर्व्वविद्याधरकिन्नराणा-
मीशं पुनश्चित्ररथञ्चकार ॥
नागाधिपं वासुकिमुग्रवीर्य्यं
सर्पाधिपं तक्षकमादिदेश ।
दिग्वारणानामधिपञ्चकार
गजेन्द्रमैरावतनामधेयम् ॥
सुपर्णमीशं पततामथाश्व-
राजानमुच्चैःश्रवसञ्चकार ।
सिंहं मृगाणां वृषभं गवाञ्च
प्लक्षं पुनः सर्व्ववनस्पतीनाम् ॥
पितामहः पूर्ब्बमथाभ्यषिञ्च-
देतान् पुनः पूर्ब्बदिगाधिनाथान् ।
पूर्ब्बेण दिक्पालमथाभ्यषिञ्च-
न्नाम्ना सुधर्म्माणमरातिकेतुम् ॥
ततोऽधिपन्दक्षिणतश्चकार
सर्व्वेश्वरं शङ्खपदाभिधानम् ।
सकेतुमन्तं दिगधीशमीश-
ञ्चकार पश्चाद्भुवनाण्डगर्भः ॥
हिरण्यरीमाणमुदग्दिगीशं
प्रजापतिं मेरुसुतञ्चकार ।
अद्यापि कुर्व्वन्ति दिशामधीशाः
शब्दं वहन्तस्तु भुबोऽभिरक्षाम् ॥
चतुर्भिरेभिः पृथुनामधेयो
नृपोऽभिषिक्तः प्रथमं पृथिव्याम् ।
मन्वन्तरे चापि गते त एव
वैवस्वतञ्चक्रुरिमं पृथिव्याम् ॥
गतेऽन्तरे चाक्षुषनामधेये
वैवस्वताख्ये च पुनः प्रवृत्ते ।
प्रजापतिः सोऽस्य चराचरस्य
बभूव सूर्य्यान्वयवंशचिह्नः ॥”
इति मात्स्ये आधिपत्यसेचनं मन्वन्तराधिपत्यं
नाम ८ अध्यायः ॥ * ॥ अपि च ।
मार्कण्डेय उवाच ।
“वाराहोऽयं श्रुतः सर्गो वराहाधिष्ठितो यतः ।
प्रतिसर्गः स्मृतः सोवै दक्षाद्यैर्यः कृतः पृथक् ॥
रुद्रो विराड् मनुर्दक्षो मरीच्याद्यास्तु मानसाः ।
यं यं सर्गं पृथक् चक्रुः प्रतिसर्गः स स स्मृतः ॥
विराट्सुतोऽसृजद्वंश्यान् मनून् यैर्विततं जगत् ।
मनुः सप्त मनून् सृष्ट्वा चकार बहुशः प्रजाः ॥
प्रजाः सिसृक्षुः स मनुर्योऽसौ स्वायम्भुवाह्वयः ।
असृजत् प्रथमं षड्वै मनून् षडपरान् सुतान् ॥
स्वारोचिषश्चोत्तमिश्च तामसो रैवतस्तथा ।
चाक्षुषश्च महातेजा विवस्वान् परतस्तथा ॥
यक्षरक्षःपिशाचांश्च नागगन्धर्व्वकिन्नरान् ।
विद्याधरानप्सरसः सिद्धान् भूतगणान् बहून् ॥
मेघान् सविद्युतो वृक्षान् लतागुल्मतृणादिकान् ।
मत्स्यान् पशूं श्च कीटांश्च जलजान् स्थलजां-
स्तथा ॥
एतादृशानि सर्व्वा मनुः स्वायम्भुवः सुतैः ।
सहितः ससृजे सोऽस्य प्रतिसर्गः प्रकीर्त्तितः ॥
अन्ये षण्मनवो ये वै तेऽपि स्वे स्वेऽन्तरेऽन्तरे ।
प्रतिसर्गं स्वयं कृत्वा प्राप्नुवन्ति चराचरम् ॥
यज्ञस्य संभृतं यज्ञान् यूपं प्राग्वंशमेव च ।
धर्म्माधर्म्मौ गुणान् सर्व्वान् वराहः सृष्टवान्
पुरा ॥
सुतान् बहून् समुत्पाद्य दक्षो देवर्षिसत्तमान् ।
महर्षीन् सोमपार्दींश्च बहून् पितृगणांस्तथा ॥
सृष्टिं प्रवर्त्तयामास प्रतिसर्गोऽस्य स स्मृतः ।
अजायन्त मुखाद्विप्राःक्षत्त्रिया बाहुयुग्मतः ॥
ऊर्व्वोर्व्वैश्याः पदः शूद्राश्चतुर्वेदाश्चतुर्मुखात् ।
ब्रह्मणः प्रतिसर्गोऽयं ब्राह्मः सर्गस्ततः स्मृतः ॥
मरीचेः कश्यपो जातः कश्यपात् सकलं जगत् ।
देवा दैत्या दानवाश्च तस्य सर्गः प्रकीर्त्तितः ॥
अत्रेर्नेत्रादभूच्चन्द्रश्चन्द्रवंशस्ततोऽभवत् ।
तेन सर्व्वं जगद्व्याप्तं सोमसर्गः प्रकीर्त्तितः ॥
अथर्व्वाङ्गिरसी कृत्वा पुत्त्राश्च बहुशोऽपरे ।
मन्त्रयन्त्रादयो ये वै ते सर्व्वेऽङ्गिरसः स्मृताः ॥
आज्यपाख्याः पुलस्त्यस्य पुत्त्राश्चान्ये च
राक्षसाः ।
प्रतिसर्गाः पुलस्त्यस्य बलवीर्य्यसमन्विताः ॥
काद्रवेया गजा अश्वाः प्रजा बहुतरास्तथा ।
ससृजे पुलहेनैष सर्गस्तस्य प्रकीर्त्तितः ॥
क्रतोः पुत्त्रा वालिखिल्लाः सर्व्वज्ञा भूरितेजसः ।
अष्टाशीतिसहस्राणि ज्वलद्भास्करसन्निभाः ॥
प्रचेतसः सुताः सर्व्वे ये वै प्राचेतसाः स्मृताः ।
षडशीतिसहस्राणि पावकोपमतेजसः ॥
सुकालिनो वशिष्ठस्य पुत्त्राश्चान्येऽथ योगिनः ।
आरुन्धतेयाः पञ्चाशद्वाशिष्ठः सर्ग उच्यते
भृगोश्च भार्गवा जाता ये वै दैत्यपुरोधसः ।
कवयस्ते महाप्राज्ञास्तैर्व्याप्तमखिलं जगत् ॥
नारदात्तारका जाता विमानानि तथैव च ।
प्रश्नोत्तरास्तथैवान्ये नृत्यं गीतञ्च कौतुकम् ॥
एते दक्षमरीच्याद्याः कृतदारान् बहून् सुतान्
उत्पाद्योत्पाद्य पृथिवीं दिवञ्च समपूरयन् ॥
तेषां सुतेभ्यश्च सुतास्तत्सुतेभ्यः परे सुताः ।
समुत्पन्नाः प्रवर्त्तन्ते येऽद्यापि भुवनेषु वै ॥
विष्णोस्तु चक्षुषः सूर्य्यो मनसश्चन्द्रमाः स्मृतः ।
श्रोत्राद्वायुः समुद्भूतो मुखादग्निरजायत ॥
प्रतिसर्गो ह्ययं विष्णोस्तथा चापि दिशो दश ।
सृष्ट्यर्थञ्चन्द्रमाः पश्चादत्रिनेत्रादवातरत् ॥
भास्करः कश्यपाज्जातो भार्य्ययास्य समर्च्चितः ।
रुद्राश्च बहवो जाता भूतग्रामाश्चतुर्व्विधाः ॥
श्ववराहोष्ट्ररूपाश्च प्लवगोमायुगोमुखाः ।
ऋक्षमार्जारवदनाः सिंहव्याध्रमुखाः परे ॥
पृष्ठ ३/२६८
नानाशस्त्रधराः सर्व्वे नानारूपा महाबलाः ।
एष वः प्रतिसर्गोऽपि कथितो द्बिजसत्तमाः ॥”
इति कालिकापुराणे २६ अध्यायः ॥

प्रतिसव्यं, त्रि, (गतिगतं सव्यं वाममिति ।) प्रति-

कूलम् । इति जटाधरः ॥

प्रतिसान्धानिकः, पुं, (प्रतिसन्धानं प्रयोजनमस्येति ।

प्रतिसन्धान + ठक् ।) मागधः । स्तुतिपाठकः ।
इति शम्दरत्नावली ॥

प्रतिसीरा, स्त्री, (प्रतिसिनोति प्रतिबध्नातीति ।

प्रति + सि + “शुसिचिमिञां दीर्घश्च ।” उणा०
२ । २५ । इति क्रन् दीर्घश्च । ततष्टाप् ।)
यवनिका । व्यवधायकपटः । इत्यमरः । २ । ६ । १२० ॥

प्रतिसूर्य्यः, पुं, (प्रतिरूपः सूर्य्य इति प्रादि-

समासः ।) कृकलासः । इति त्रिकाण्डशेषः ॥
(यथा, सुश्रुते । कल्पस्थानेऽष्टमाध्याये ।
“प्रतिसूर्य्यः पिङ्गभासो बहुवर्णो महाशिराः ॥”
उपसूर्य्यकमण्डलम् । यथा, बृहत्संहितायाम् ।
३७ । २ ।
“प्रतिसूर्य्यानां माला
दस्युभयातङ्कनृपहन्त्री ॥”)

प्रतिसूर्य्यकः, पुं, (प्रतिसूर्य्य + स्वार्थे कन् ।) कृक-

लासः । (यथा, उत्तररामचरिते द्वितीयेऽङ्के ।
“सीमानः प्रदरोदरेषु विलसत्स्वल्पाम्भसो
या स्वयं
तृष्यद्भिः प्रतिसूर्य्यकैरजगरस्वेदद्रवः पीयते ॥”
तद्दष्टस्य चिकित्सा सुश्रुते कल्पस्थाने ८
अध्याये उक्ता । यथा, --
“प्रतिसूर्य्यकदष्टानां सर्पदष्टवदाचरेत् ॥”)
उपसूर्य्यकमण्डलम् । इति विश्वः ॥ (अस्य शुभा-
शुभलक्षणम् । यथा, बृहत्संहितायाम् । ३७ । १-३ ।
“प्रतिसूर्य्यकः प्रशस्तो
दिवसकृदृतुवर्णसप्रभः स्निग्धः ।
वैदूर्य्यनिभः स्वच्छः
शुक्लश्च क्षेमसौभिक्षः ॥
पीतो व्याधिं जनय-
त्यशोकरूपश्च शस्त्रकोपाय ।
प्रतिसूर्य्याणां माला
दस्युभयातङ्कनृपहन्त्री ॥
दिवसकृतः प्रतिसूर्य्यो
जलकृदुदग्दक्षिणे स्थितोऽनिलकृत् ।
उभयस्थः सलिलभयं
नृपमुपरि निहन्त्यधो जनहा ॥”)

प्रतिसृष्टः, त्रि, (प्रति + सृज् + कर्म्मणि क्तः ।)

प्रेषितः । प्रत्याख्यातः । इति मेदिनी । टे, ६५ ॥
दत्तः । इति धरणिः ॥

प्रतिसोमा, स्त्री, (प्रतिरूपः सोमः सोमवल्ली

यस्याः ।) महिषवल्ली । इति राजनिर्घण्टः ॥

प्रतिस्पर्द्धा, स्त्री, (प्रति + स्पर्द्ध + भावे अङ् ।)

प्रतिकक्षा । स्पर्द्धा । इति शब्दरत्नावली ॥

प्रतिहतः, त्रि, (प्रतिहन्यते स्मेति । प्रति + हन् +

क्तः ।) द्विष्टः । प्रतिस्खलितः । रुद्धः । इति ।
मेदिनी । ते, २०५ ॥ निराशः । यथा, --
“मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सः ॥”
इति मुद्राङ्कितामरकोषे पाठः । ३ । १ । ४१ ॥

प्रतिहस्तकः, पुं, (प्रतिरूपः हस्तोऽवलम्बनरूपो

यस्य । कप् ।) प्रतिनिधिः । यथा, --
“आश्रितानां भृतौ स्वामिसेवायां धर्म्मसेवने ।
पुत्त्रस्योत्पादने चैव न सन्ति प्रतिहस्तकाः ॥”
इति हितोपदेशे नीतिशास्त्रे सुहृद्भेदो नाम
द्वितीयकथासंग्रहः परिच्छेदः ॥

प्रतिहारः, पुं, (प्रतिविषयं प्रत्येकं वा हरति

स्वामिसमीपमानयतीति । प्रति + हृ + अण् ।)
द्वारपालः (यथा, देवीभागवते । १ । १७ । ३० ।
“ज्ञातो हि प्रतिहारेण ज्ञानी कश्चिद् द्विजो-
त्तमः ॥”
प्रति + हृ + आधारे घञ् ।) द्वारः । इति
शब्दरत्नावली ॥ (यथा, रघौ । ६ । २० ।
“ततो नृपाणां श्रुतवृत्तवंशा
पुंवत्प्रगल्भा प्रतिहाररक्षी ।
प्राक्सन्निकर्षं मगधेश्वरस्य
नीत्वा कुमारीमवदत् सुनन्दा ॥”
प्रतिरूपं हरतीति । हृ + अण् ।) माया-
कारः । इत्यमरटीकायां भरतः । २ । १० । ११ ॥
(परमेष्ठिनः पुत्त्रः । यथा, विष्णु पुराणे । २ । १ । ३७ ।
“परमेष्ठी ततस्तस्मात् प्रतिहारस्तदन्वथः ॥”)

प्रतिहारकः, पुं, (प्रतिरूपं हरतीति । हृ +

एवुल् ।) मायाकारः । इत्यमरटीकायां भरतः ।
२ । १० । ११ ॥

प्रतिहासः, पुं, (प्रतिरूपो हासो यस्य ।) कर-

वीरः । इत्यमरः । २ । ४ । ७६ ॥ हासकम्प्रति
हास्यञ्च ॥

प्रतीकः, पुं, (प्रतीयते प्रत्येति वा इति । प्रति +

इ + अलीकादयश्चेति ईकन्प्रत्ययेन साधुः ।)
एकदेशः । अङ्गम् । (यथा, ऋग्वेदे । ७ ।
३६ । १ ।
“वि सानुना पृथिवी सस्र उर्व्वी पृथु प्रतीक
मध्येधे अग्निः ॥”
“तथाग्निः पृथु विस्तीर्णं प्रतीकं पृथिव्या अव-
यवम् ॥” इति तद्भाष्ये सायनः ॥) स्वाङ्गवाद्य-
निषेधो यथा, कौर्म्मे १५ अध्याये ।
“न स्वाङ्गनखवाद्यं वै कुर्य्यान्नाञ्जलिना पिबेत् ॥”
अपि च, लक्ष्मीचरित्रे ।
“स्वाङ्गे पीठे च वाद्यं हरति धनपतेः केशव-
स्यापि लक्ष्मीम् ॥”
प्रतिकूले, त्रि । इत्यमरः । १ । ६ । ७० ॥ विलोमः ।
इति मेदिनी । के, ११२ ॥

प्रतीकारः, पुं, (प्रतिकरणमिति । प्रति + कृ +

घञ् । उपसर्गस्येति पक्षे दीर्घः ।) कृतापकारस्य
प्रत्यपकारः । तत्पर्य्यायः । वैरशुद्धिः २ वैर-
निर्यातनम् ३ । इत्यमरः । २ । ८ । ११० ॥
(यथा, देवीभागवते । ३ । २५ । ३ ।
“दुर्गया तौ हतौ संख्ये नापराधो ममात्र बै ।
अवश्यम्भाविभावेषु प्रतीकारो न विद्यते ॥”)
चिकित्सा । इति शब्दमाला ॥

प्रतीकाशः, पुं, (प्रतिकाशते इति । प्रति + काश्

+ घञ् । उपसर्गस्य दीर्घः ।) उपमा ।
इत्यमरः । २ । १० । ३८ ॥ (यथा, महाभारते ।
१ । १५४ । ३२ ।
“अद्य त्वां भगिनी रक्षः कृष्यमाणं मयासकृत् ।
द्रक्ष्यत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम् ॥”)

प्रतीक्षा, स्त्री, (प्रति + ईक्ष + अङ् ।) प्रती-

क्षणम् । अपेक्षा । प्रतिपूर्ब्बेक्षधातोर्भावे अप्र-
त्ययेन निष्पन्नः ॥ (यथा, महाभारते । ८ । ४० । ५२ ।
“मित्रप्रतीक्षया शल्य धार्त्तराष्ट्रस्य चोभयोः ।
अपवादतितिक्षाभिस्त्रिभिरेतैर्हि जीवसि ॥”)

प्रतीक्ष्यः, त्रि, (प्रतीक्ष्यते इति । प्रति + ईक्ष +

एयत् ।) पूज्यः । इत्यमरः । ३ । १ । ५ ॥ (यथा,
रघौ । ५ । १४ ।
“भक्तिः प्रतीक्ष्येषु फुलोचिता ते
पूर्ब्बान् महाभाग ! तयातिशेषे ।
व्यतीतकालस्त्वहमभ्युपेतः
त्वामर्थिभावादिति मे विषादः ॥”)
प्रतीक्षणीयः ॥ (यथा, माघे । २ । १०८ ।
“प्रतीक्ष्यं तत्प्रतीक्षायै प्रतिष्वस्रे प्रतिश्रुतम् ॥”)

प्रतीची, स्त्री, (प्रतिदिनान्तं प्रतिदिनान्ते इत्यर्थः

अञ्चति सूर्य्यमिति । अञ्चु गतिपूजनयोः +
“ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चाञ्च ।”
३ । २ । ५९ । इति क्विन् अन्लोपो दीर्घश्च ।
“उगितश्च ।” ४ । १ । ६ । इति ङीप् ।) पश्चिम-
दिक् । इत्यमरः । १ । ३ । १ ॥ (यथा, महा-
भारते । ४ । ४१ । १८ ।
“येनासौ व्यजयत् कृत्स्नां प्रतीचीं दिशमाहवे ।
कलापो ह्येष तस्यासीन्माद्रीपुत्त्रस्य धीमतः ॥”
त्रि, पश्चिमाभिमुखी । यथा, ऋग्बेदे । १ । ९२ । ९
“विश्वानि देवी भुवनाभिचक्ष्या
प्रतीची चक्षुरुर्विया वि भाति ।
विश्वं जीवं चरसे बोधयन्ती
विश्वस्य वाचमविदन् मनायोः ॥”
“भुवना भुवनानि भूतजातान्यभिचक्ष्याभि-
प्रकाश्य प्रकाशवन्ति कृत्वानन्तरं प्रतीची प्रत्यङ्-
मुखी सती ।” इति तद्भाष्ये सायनः ॥ प्रति-
निवृत्तमुखी । यथा, ऋग्वेदे । १ । १२४ । ७ ।
“अभ्रातेव पुंस एति प्रतीची गर्त्तारुगिव सनये
धनानाम् ॥”
“अभ्रातेव भ्रातृरहितेव पुंसः पित्रादीन् प्रतीची
स्वकीयस्थानात् प्रतिनिवृत्तमुखी ।” इति तद्-
भाष्ये सायनः ॥)

प्रतीचीनं, त्रि, (प्रतीचि भवम् । प्रत्यच् +

“विभाषाञ्चेरदिक् स्त्रियाम् ।” ५ । ४ । ८ । इति
खः । अल्लोपो दीर्घश्च ।) प्रत्यक् । प्रतीच्यां
भवः । इति हेमचन्द्रः । २ । ८२ ॥ (पराङ
मुखम् । यथा, ऋग्वेदे । ३ । ५५ । ८ ।
“शूरस्येव युध्यतो अन्तमस्य प्रतीचीनं ददृशे
विश्वमायत् ॥”
“विश्वं भूतजातं प्रतीचीनं पराङ् मुखं ददृशे ।”
इति तद्भाष्ये सायनः ॥)
पृष्ठ ३/२६९

प्रतीच्यः, त्रि, प्रतीच्यां भवः । प्रतीचीशब्दाद्भवार्थ-

ष्ण्यप्रत्ययनिष्पन्नः ॥ पश्चिमदिग्जातः । (यथा,
महाभारते । २ । ३२ । १२ ।
“रामठान् हारहूणांश्च प्रतीच्याश्चैव ये नृपाः ।
तान् सर्व्वान् स्ववशे चक्रे शासनादेव पाण्डवः ॥”)

प्रतीतः, त्रि, (प्रतीयते स्म प्रत्येकमगाद्वेति । प्रति

+ इण् + कर्म्मणि कर्त्तरि वा क्तः ।) ख्यातः ।
इत्यमरः । ३ । १ । ९ ॥ (यथा, रामायणे ।
२ । ८ । १० ।
“प्राप्तां वसुमतीं प्रीतिं प्रतीतां हतविद्विषम् ।
उपस्थास्यसि कौशल्यां दासीवत्त्वं कृता-
ञ्जलिः ॥”)
सादरः । ज्ञातः । हृष्टः । इति मेदिनी । ते,
१२५ ॥ (पुं, विश्वेदेवानामन्यतमः । यथा, महा-
भारते । १३ । ९१ । ३२ ।
“अनुकर्म्मा प्रतीतश्च प्रदाताथांशुमांस्तथा ॥”)

प्रतीतिः, स्त्री, (प्रति + इण् + भावे क्तिन् ।)

ज्ञानम् । इति जटाधरः ॥ (यथा, भाषापरि-
च्छेदे । ११४ ।
“अन्योन्याभावतो नास्य चरितार्थत्वमुच्यते ।
अस्मात् पृथगिदं नेति प्रतीतिहि विलक्षणा ॥”)
ख्यातिः । आदरः । हर्षः । इति प्रतीतशब्दार्थ-
दर्शनात् ॥

प्रतीपं, त्रि, (प्रतिकूला आपो यस्मिन् । “ऋक्-

पूरब्धूःपथामानक्षे ।” ५ । ४ । ७४ । इति
अप्रत्ययः । “द्व्यन्तरुपसर्गेभ्योऽप ईत् ।” ६ । ३ ।
९३ । इति ईत् ।) प्रतिकूलम् । इति हेम-
चन्द्रः । ६ । १०१ ॥ (यथा, भागवते । ३ । १ । १४ ।
“क एनमत्रोपजुहाव जिह्मं
दास्याः सुतं यद्बलिनैव पुष्टः ।
तस्मिन् प्रतीपः परकृत्य आस्ते
निर्व्वास्यतामाशु पुराच्छ्वसानः ॥”
क्ली, अर्थालङ्कारभेदः । तस्य लक्षणादिवं
साहित्यदर्पणे १० परिच्छेदे उक्तम् । यथा, --
“प्रसिद्धस्योपमानस्योपमेयत्वप्रकल्पनम् ।
निष्फलत्वाभिधानं वा प्रतीपमिति कथ्यते ॥
क्रमेण उदाहरणं यथा, --
यत्त्वन्नेत्रसमानकान्तिसलिले मग्नं तदिन्दीवरं
मेघैरन्तरितं प्रिये ! तव मुखच्छायानुकारी
शशी ।
येऽपि त्वद्गमनानुकूलगतयस्ते राजहंसा गता-
स्तत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षन्यते ॥
तद्वक्त्रं यदि मुद्रिता शशिकथा हा हेम सा
चेद्द्युति-
स्तच्चक्षुर्यदि हारितं कुवलयैस्तच्चेत् स्मितं का
सुधा ।
धिक्कन्दर्पधनुर्भ्रुवौ यदि च ते किंवा बहु ब्रूमहे
यत्सत्यं पुनरुक्तवस्तुविमुखः सर्गक्रमो वेधसः ॥
अत्र वक्त्रादिभिरेव चन्द्रादीनां शोभातिवह-
नात् तेषां निष्फलत्वम् ।
उक्त्वा चात्यन्तमुत्कर्षमत्युत्कृष्टस्य वस्तुनः ।
कल्पितेऽप्युपमानत्वे प्रतीपं केचिदूचिरे ॥
यथा, --
अहमेव गुरुः सुदारुणाना-
मिति हालाहल ! तात ! मास्म दृप्यः ।
ननु सन्ति भवादृशानि भूयो
भुवनेऽस्मिन् वचनानि दुर्ज्जनानाम् ॥
अत्र प्रथमपादे उत्कर्षातिशय उक्तः । तदनुक्तौ
तु नायमलङ्कारः ॥”)

प्रतीपः, पुं, चन्द्रवंशीय ऋक्षराजपुत्त्रः । शान्तनु-

राजपिता च । इति पुराणं शब्दरत्नावली च ॥
(यथा, महाभारते । १ । ९७ । २० ।
“प्रतीपः शान्तनुं पुत्त्रं यौवनस्थं ततोऽन्वशात् ॥”
एतस्य विवरणं तत्रैवाध्याये विस्तरशो द्रष्टव्यम् ॥)

प्रतीपदर्शिनी, स्त्री, (प्रतीपं प्रतिकूलं वामं वा

पश्यतीति । दृश् + णिनिः । ङीप् ।) स्त्रीमा-
त्रम् । इत्यमरः । २ । ६ । २ ॥

प्रतीरं, क्ली, (प्रतीरयति जलगतिकर्म्मसमाप्तिं

नयतीति । प्र + तीर कर्म्मसमाप्तौ + कः ।)
तटम् । इत्यमरः । १ । १० । ७ ॥

प्रतीवापः, पुं, (प्रत्युप्यते प्रक्षिप्यते अथवा निषि-

च्यतेऽस्मिन्निति । प्रति + वप निषेकादौ + घञ् ।)
गलितस्य स्वर्णादेर्द्रव्यान्तरेणावचूर्णनम् । इति
स्वामी ॥ न्यसनम् । निःक्षेपणमिति यावत् ।
इति सुभूतिः ॥ उपद्रवः । इति मुकुटः ॥
“आवापस्तु प्रतीवापो मारीरीतिरुपद्रवः ॥”
इति राजनिर्घण्टः ॥
इत्यातञ्चनशब्दटीकायां भरतः ॥ पानीयौषध-
विशेषः । यथा, --
“उषकादि प्रतीवापं पिबेत् संशमनाय वै ॥”
इति विद्रधिचिकित्सायां चक्रपाणिदत्तः ॥
(यथा च सुश्रुते सूत्रस्थाने । ४३ अध्याये ।
“मदनफलमज्जक्वाथं वा पिप्पल्यादि प्रतीवापं
तच्चूर्णं वा निम्बरूपिका कषाययोरन्यतरेण सन्त-
र्पणं कफजव्याधिहरम् ॥”)

प्रतीवेशः, पुं, (प्रतिविश्यते इति । प्रति + विश् +

घञ् । उपसर्गस्य दीर्घः ।) प्रतिवेशः । इति
शब्दरत्नावली ॥

प्रतीवेशी, [न्] स्त्री, (प्रतीवेशोऽस्यास्तीति ।

प्रतिवेश + “अत इनिठनौ ।” ५ । २ । ११५ ।
इति इनिः ।) प्रतिवेशी । इति शब्दरत्नावली ॥

प्रतीहारः, पुं, (प्रतिह्रियते अत्रेति । प्रति + हृ +

घञ । उपसर्गस्य दीर्घः ।) द्वारः । (प्रतिहर-
त्यनेनेति । करणे घञ् ।) द्वारपालः । इत्य-
मरः । २ । ८ । ६ ॥ तस्य लक्षणम् । यथा, --
“इङ्गिताकारतत्त्वज्ञो बलवान् प्रियदर्शनः ।
अप्रमादी सदा दक्षः प्रतीहारः स उच्यते ॥”
इति चाणक्यसंग्रहः ॥
अपि च । मात्स्ये १८९ अध्यायः ।
“प्रांशुः सुरूपो दक्षश्च प्रियवादी न चोद्धतः ।
चित्तग्राहश्च सर्व्वेषां प्रतीहारो विधीयते ॥”
सन्धिविशेषः । यथा, हारावली ।
“मयास्योपकृतं पूर्ब्बमयञ्चोपकरिष्यति ।
इति यः क्रियते सन्धिः प्रतीहारः स उच्यते ॥”

प्रतीहारी, [न्] त्रि, (प्रतिहरति स्वामिसमीपे

सर्व्वविषयमिति । प्रति + हृ + णिनिः । उप-
सर्गस्य दीर्घः । यद्बा, प्रतीहारो रक्षणीयत्वेना-
स्यास्तीति । इनिः ।) द्वारी । द्वारार्थकप्रती-
हारशब्दादस्त्यर्थे इन्प्रत्ययेन निष्पन्नः ॥

प्रतीहारी, स्त्री, (प्रतीहारोऽस्या अस्तीति ।

अच् । गौरादित्वात् ङीष् ।) द्वाःस्थिता । इति
मेदिनी । रे, २८० ॥

प्रतीहासः, पुं, (प्रतिरूपो हासोऽस्य । उपसर्गस्य

दीर्घः ।) करवीरः । इत्यमरः । २ । ४ । ७६ ॥

प्रतुदः, पुं, (प्रतुदतीति । प्र + तुद् + कः ।)

गृध्रादिः । आदिना श्येनः । कङ्कः । काकः ।
द्रोणकाकः । उलूकः । मयूरः । इति राज-
निर्घण्टः ॥ अस्यमांसगुणाः ।
“लावाद्या विष्किरो वर्गः प्रतुदा जाङ्गला मृगाः ।
लघवः शीतमधुराः कषायाश्च हिता नृणाम् ॥”
इति राजवल्लभः ॥
(यथा च चरके सूत्रस्थाने सप्तविंशाध्याये ।
“शतपत्रो भृङ्गराजः कोयष्टी जीवजीवकः ।
कैरातः कोकिलोऽत्यूहो गोपापत्रः प्रियात्मजः ॥
लट्वा लट्वाषको वभ्रुर्वटहा डिण्डिमानकः ।
जटी दुन्दुभिवाक्कावलोहपृष्ठकुलिङ्गकाः ॥
कपोतशुक्लशारङ्गश्चिरिटीककुयष्टिकाः ।
शारिकाकलविङ्कश्च चटकोऽङ्गारचूडकः ॥
पारावतः पाण्डविक इत्युक्ताः प्रतुदा द्विजाः ॥”
यथा च सुश्रुते सूत्रस्थाने ४६ अध्याये ।
“कपोतपारावतभृङ्गराजपरभृतकोयष्टिककुलिङ्ग-
गृहकुलिङ्गगोक्षोडकडिण्डिमानकशतपत्रकमा-
तृनिन्दकभेदाशिशुकसारिकावल्गुलीगिरिशाल-
ह्वालदूषकसुगृहीखञ्जरीटकहारीतदात्यूहप्रभृ-
तयः प्रतुदाः ॥”)

प्रतोदः, पुं, (प्रतुद्यतेऽनेनेति । प्र + तुद् +

करणे घञ् ।) अश्वादिताडनदण्डः । चावुक्
इति भाषा । तत्पर्य्यायः । प्राजनम् २ प्रवयणम् ३
तोत्रम् ४ तोदनम् ५ । इति जटाधरः ॥ (यथा,
महाभारते । २ । ५४ । ८ ।
“प्रकालयेद्दिशः सर्व्वाः प्रतोदेनेव सारथिः ।
प्रत्यमित्रश्रियं दीप्तां जिघृक्षुर्भरतर्षभ ! ॥”)

प्रतोली, स्त्री, (प्रतुल्यते परिमीयते इति । प्र +

तुल् परिमाणे + घञ् । गौरादित्वात् ङीष् ।)
रथ्या । इत्यमरः । २ । २ । ३ ॥ (यथा, रामा-
यणे । २ । ८० । १८ ।
“बहुपांशुचयाश्चापि परिखापरिवारिताः ।
तत्रेन्द्रनीलप्रतिमाः प्रतोलीवरशोभिताः ॥”)
अभ्यन्तरमार्गः । नाछ इति ख्याते । कुली इति
च ख्याते । हट्टादिमध्यनिर्म्मिते पथीति साञ्जः ।
दुर्गनगरद्वारे इति केचित् । इति तट्टीकायां
भरतः ॥

प्रत्तं, त्रि, (प्रदीयते स्मेति । प्र + दा + क्तः ।

“अच उपसर्गात् तः ।” ७ । ४ । ४७ । इति
तादेशः ।) दत्तम् । इति मुग्धबोधव्याक-
रणम् ॥
पृष्ठ ३/२७०

प्रत्नः, त्रि, (प्र + “नश्च पुराणे प्रात् ।” इति

चकारात् त्नप् ।) पुरातनः । इत्यमरः । ३ । १ ।
७७ ॥ (यथा, भागवते । ५ । २० । ५ ।
“प्रत्नस्य विष्णो रूपं यत् सत्यस्यर्त्तस्य ब्रह्मणः ।
अमृतस्य च मृत्योश्च सूर्य्यमात्मानमीमहि ॥”)

प्रत्यक् [च्] त्रि, (प्रत्यञ्चतीति । प्रति + अनच्

+ क्विन् ।) पश्चिमदिक् । पश्चिमदेशः । (यथा,
मनुः । २ । २१ ।
“हिमवद्विन्ध्ययोर्मध्यं यत् प्राग्विनशनादपि ।
प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्त्तितः ॥”)
पश्चिमकालः । इति मेदिनी । चे, १६ ॥ (व्य,
प्रतीच्यां दिशि प्रतीच्या दिशः प्रतीची दिग्वा
एवं देशे काले च । “दिक्शब्देभ्यः सप्तमी-
पश्चमीप्रथमाभ्यो दिक्देशकालेष्वस्तातिः ।”
५ । ३ । २७ । इति अस्तातिः । “अञ्चेर्लुक् ।”
५ । ३ । ३० । इति अस्तातेर्लुक् । “लुक्
तद्धितलुकि ।” १ । २ । ४९ । इति लुक् । दिक्-
देशकाले । इति मेदिनी । चे, १६ ॥ प्रति-
लोमम् । यथा, भागवते । ४ । २२ । ३७ ।
“यः क्षेत्रवित्तपतया हृदि विष्वगाविः
प्रत्यक् चकास्ति भगवांस्तमवेहि सोऽस्मि ॥”
प्रतिकूलम् । यथा, महाभारते । ५ । ८४ । ६ ।
“प्रत्यगूहुर्महानद्यः प्राङ्मुखाः सिन्धुसत्तमाः ।
विपरीता दिशः सर्व्वा न प्राज्ञायत किञ्चन ॥”)

प्रत्यक्पर्णी, स्त्री, (प्रत्यञ्चि पर्णानि अस्याः ।

पाककर्णेति ङीष् ।) अपामार्गः । इत्यमरः ।
२ । ४ । ८९ ॥ (अस्याः पर्य्यायो यथा, भाव-
प्रकाशस्य पूर्ब्बखण्डे १ भागे ।
“रक्तोऽन्यो वशिरो वृत्तफलो धामार्गवोऽपि च ।
प्रत्यक्पर्णी केशपर्णी कथिता कपिपिप्पली ॥”)
द्रवन्ती । इति राजनिर्घण्टः ॥ (अस्याः पर्य्यायो
यथा, भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।
“द्रवन्ती सावरी चित्रा प्रत्यक्पर्ण्यर्कपर्ण्यपि ।
चित्रोपचित्रान्यग्रोधी प्रत्यक्श्रेर्ण्याखुकर्ण्यपि ॥”

प्रत्यक्पुष्पी, स्त्री, (प्रत्यञ्चि पुष्पाण्यस्याः । पाक-

कर्णेति ङीष् ।) अपामार्गः । इत्यमरः । २ ।
८४ । ८ ॥ (यथा, सुश्रुते । १ । ४३ ।
“प्रत्यक्पुष्पीसदापुष्पीनिम्बकषायाणामन्यतमेना-
लोड्य मधुसैन्धवयुक्तां मात्रां पाययित्वा
वामयेत् ॥” पर्य्यायान्तरमस्याः । यथा, --
“स्थलमञ्जर्य्यपामार्गः प्रत्यक्पुप्पी मयूरकः ।
क्षारमध्यस्त्वधोघण्टा शिखरी खरमञ्जरी ॥”
इति वैद्यकरत्नमालायाम् ॥)

प्रत्यक्श्रेणी, स्त्री, (प्रतीची श्रेणी यस्याः । समा-

सान्तविधेरनित्यत्वात् न कप् ।) दन्तीवृक्षः ।
मूषिकपर्णी । इत्यमरः । २ । ४ । ८८ ॥ (अस्याः
पर्य्यायो यथा, --
“प्रत्यक्श्रेणी द्रवन्ती च पुत्त्रश्रेण्याखुपर्णिका ।
वृषपर्ण्याखुपर्णी च मूषिका काञ्जिपत्रिका ॥”
इति वैद्यकरत्नमालायाम् ॥)

प्रत्यक्षं, त्रि, (प्रतिगतमक्षि इन्द्रियं यत्र । समासे

अच् । यद्वा, प्रत्यक्षमस्त्यस्येति । अर्श आदि-
त्वात् अच् ।) इन्द्रियग्राह्यम् । तत्पर्य्यायः ।
ऐन्द्रियकम् २ । इत्यमरः । ३ । १ । ७९ ॥ (यथा,
ब्रह्मवैवर्त्ते । २ । १ । ५२ ।
“यत्पादपद्मनखरदृष्टये चात्मशुद्धये ।
न च दृष्टञ्च स्वप्नेऽपि प्रत्यक्षस्यापि का कथा ॥”)
अनुभवविशेषः । तत् षड्विधम् । घ्राणजम् १
रासनम् २ श्रावणम् ३ चाक्षुषम् ४ स्पार्श-
नम् ५ मानसम् ६ । निर्व्विकल्पकसविकल्पक-
भेदेन प्रत्येकं द्विविधम् । निर्व्विकल्पकन्तु अती-
न्द्रियम् । सविकल्पकं मनोग्राह्यम् । षड्विध-
प्रत्यक्षे आश्रयस्य महत्त्वं कारणम् । इन्द्रियं
करणम् । विषयेण सह इन्द्रियसन्निकर्षः । अस्य
व्यापारः । यथा, भाषापरिच्छेदे ।
“घ्राणजादिप्रभेदेन प्रत्यक्षं षड्विधं मतम् ।
घ्राणस्य गोचरो गन्धो गन्धत्वादिरपि स्मृतः ।
तथा रसो रसज्ञायास्तथा शब्दोऽपि च श्रुतेः ॥
उद्भूतरूपं नयनस्य गोचरो
द्रव्याणि तद्वन्ति पृथक्त्वसंख्ये ।
विभागसंयोगपरापरत्व-
स्नेहद्रवत्वं परिमाणयुक्तम् ॥
क्रियां जातिं योग्यवृत्तिं समवायञ्च तादृशम् ।
गृह्णाति चक्षुःसम्बन्धादालोकोद्भूतरूपयोः ॥
उद्भूतस्पर्शवद्द्रव्यं गोचरः सोऽपि च त्वचः ।
रूपान्यच्चक्षुषो योग्यं रूपमत्रापि कारणम् ॥
द्रव्याध्यक्षे त्वचो योगो मनसा ज्ञानकारणम् ।
मनोग्राह्यं सुखं दुःखमिच्छा द्बेषोमतिः कृतिः ॥
ज्ञानं यन्निर्व्विकल्पाख्यं तदतीन्द्रियमिष्यते ।
महत्त्वं षड्विधे हेतुरिन्द्रियं करणं मतम् ॥
विषयेन्द्रियसम्बन्धो व्यापारः सोऽपि षड्विधः ॥”
(यथा, विद्वन्मोदतरङ्गिण्याम् ।
“देवानर्च्चय सञ्चय प्रतिदिनं पुण्यानि जन्मा-
न्तरे
भोगाय प्रयतो महाक्रतुविधौ स्वर्गाय हिंसां
कुरु ।
इत्थं वञ्चकवञ्चनोत्पथगता बुद्धिस्तदेया-
चिरा-
दप्रत्यक्षपदार्थसार्थरहितं पन्थानमारोहतु ॥”
व्य, अक्षि अक्षि प्रतीति वीप्सायां यथार्थत्वेन
समासः । अक्ष्णोराभिमुख्यमित्यर्थे । “लक्षणे-
नाभिप्रती आभिमुख्ये ।” २ । १ । १४ । इत्य-
व्ययीभावः । “अव्ययीभावे शरत्प्रभृतिभ्यः ।”
५ । ४ । १०७ । इत्यत्र “प्रतिपरसमनुभ्यो-
ऽक्ष्णः ।” इति टच् । इन्द्रियलक्षणम् । अप-
रोक्षम् । यथा, मनुः । ९ । ५२ ।
“फलन्त्वनभिसन्धाय क्षेत्रिणां बीजिनान्तथा ।
प्रत्यक्षं क्षेत्रिणामर्थो बीजाद्योनिर्गरीयसी ॥”)

प्रत्यक्षदर्शनं, त्रि, (प्रत्यक्षं पश्यतीति । प्रत्यक्ष +

दृश् + ल्युः । प्रत्यक्षं दर्शनं यस्येति वा ।)
साक्षी । इति शब्दमाला ॥ (क्ली, प्रत्यक्षं दर्श-
नम् । यथा, महाभारते । ३ । ५७ । ३६ ।
“प्रत्यक्षदर्शनं यज्ञे गतिञ्चानुत्तमां शुभाम् ।
नैषधाय ददौ शक्रः प्रीयमाणः शचीपतिः ॥”)

प्रत्यक्षवादी, [न्] पुं, (प्रत्यक्षमेव प्रमाणत्वेन

वदतीति । वद् + णिनिः ।) बौद्धः । नाप्रत्यक्षं
प्रमाणमिति तन्मतम् ॥ (प्रत्यक्षं वदति यस्तत्र,
त्रि ॥)

प्रत्यक्षी, [न्] त्रि, (प्रत्यक्षमस्त्यस्येति । प्रत्यक्ष

+ इनिः ।) व्यक्तदृष्टार्थः । इति त्रिकाण्डशेषः ॥

प्रत्यगाशापतिः, पुं, (प्रत्यगाशायाः पश्चिमस्या

दिशः अधिपतिः ।) वरुणः । इति हलायुधः ॥

प्रत्यग्रः, त्रि, (प्रतिगतमग्रं श्रेष्ठं प्रथमदर्शनं

वास्येति ।) नूतनः । इत्यमरः । ३ । १ । ७७ ॥
(यथा, महाभारते । ८ । ३८ । १८ ।
“दासीनां निष्ककण्ठीनां मागधीनां शतं तथा ।
प्रत्यग्रवयसां दद्यां यो मे ब्रूयाद्धनञ्जयम् ॥”)
शोधितः । इति जटाधरः ॥ (पुं, उपरिचरस्य
वसोः पुत्त्राणामन्यतमः । यथा, भागवते । ९ ।
२२ । ६ ।
“वसुस्तस्योपरिचरो बृहद्रथमुखास्ततः ।
कुशाम्बमत्स्यप्रत्यग्राश्चेदिपाद्याश्च चेदिपाः ॥”)

प्रत्यग्रथः, पुं, (प्रतीचां रथ इव ।) अहिच्छत्र-

देशः । इति हेमचन्द्रः । ४ । २६ ॥

प्रत्यङ्, [ञ्च्] त्रि, (प्रत्यञ्चतीति । प्रति + अनच्

+ क्विन् ।) पश्चिमदिक् । पश्चिमदेशः । पश्चिम-
कालः । प्रतिषूर्ब्बाञ्चधातोः कर्त्तरि विचप्रत्ययेन
निष्पन्नः । इति व्याकरणम् ॥ (यथा, शतपथ-
ब्राह्मणे । १२ । ८ । २ । ३५ ।
“ऋतवः सर्व्वे पराञ्चः सर्व्वे प्रत्यञ्चः ॥”
प्रतिगतः । अभिमुखः । यथा, ऋग्वेदे । १ । ५० । ५ ।
“प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषान् ।
प्रत्यङ् विश्वं स्वर्दृशे ॥”
“हे सूर्य्य त्वं देवानां विशो मरुन्नामकान्
देवान् । मरुतो वै देवानां विश इति श्रुत्य-
न्तरात् । तान् मरुत्संज्ञकान् देवान् प्रत्यङ्ङु-
देषि । तान् प्रतिगच्छन्नुदयं प्राप्नोषि । तेषा-
मभिमुखं यथा भवति तथेत्यर्थः । तथा मानु-
षान् मनुष्यान् प्रत्यङ्ङुदेषि । तेऽपि यथास्म-
दभिमुखमेव सूर्य्य उदतीति मन्यन्ते । तथा
विश्वं व्याप्तं स्वः स्वर्लोकं दृशे द्रष्टुं प्रत्यङ्ङु-
देषि । यथा स्वर्लोकवासिनो जनाः सर्व्वेऽपि
स्वस्वाभिमुख्येन सूर्य्यं पश्यन्तीति ।” इति
तद्भाष्ये सायनः ॥ अन्तर्यामी । इति श्रीधर-
स्वामी ॥ यथा, भागवते । ६ । ९ । २० ।
“प्रत्यञ्चमादिपुरुषमुपतस्थुः समाहिताः ॥”)

प्रत्यङ्गं, क्ली, (प्रतिगतमङ्गमिति ।) अवयव-

विशेषः । यथा, शब्दचन्द्रिकायाम् ।
“प्रत्यङ्गं कर्णनासाक्षिलिङ्गाङ्गानिकरादिकम् ॥”
(यथा, रामायणे । २ । ७४ । १४ ।
“अङ्गप्रत्यङ्गजः पुत्त्रो हृदयाच्चापि जायते ।
तस्मात् प्रियतरो मातुः प्रिया एव तुबान्धवाः ॥”
“अतः परं प्रत्यङ्गानि वक्ष्यन्ते । मस्तकोदर-
पृष्ठनाभिललाटनासाचिवुकवस्तिग्रीवा इत्येता
एकैकाः । कर्णनेत्रनासाभ्रूशङ्खांसगण्डकक्षस्तन-
वृषपार्श्वस्फिग्जानुबाहूरुप्रभृतयो द्वे द्बे विंशति-
पृष्ठ ३/२७१
रङ्गुलयः । स्रोतांसि च वक्ष्यमाणानि । एष-
प्रत्यङ्गविभाग उक्तः ॥” इति सुश्रुते शारीर-
स्थाने पञ्चमेऽध्याये ॥ अप्रधानम् । यथा,
निरुक्ते । ७ । १ । ५ ।
“एक आत्मा बहुधा स्तूयते एकस्यात्मनोऽन्ये
देवाः प्रत्यङ्गानि भवन्त्यपि ॥” अङ्गं अङ्गं प्रति ।
यथा, गीतगोविन्दे । ११ । ११ ।
“ध्वान्तं नीलनिचोलचारुसुदृशां प्रत्यङ्गमालि-
ङ्गति ॥”
तथा च मनुः । ८ । २०८ ।
“यस्मिन् कर्म्मणि यास्तु स्युरुक्ताः प्रत्यङ्ग-
दक्षिणाः ।
स एव ता आददीत भजेरन् सर्व्व एव वा ॥”
नृपविशेषे, पुं, । यथा, महाभारते । १ । १ । २३५ ।
“महापुराणसम्भाव्यः प्रत्यङ्गः परहा श्रुतिः ।
एते चान्ये च राजानः शतशोऽथ सहस्रशः ।
श्रूयन्तेऽयुतशश्चान्ये संख्याताश्चैव पद्मशः ॥”)

प्रत्यङ्गिरा, स्त्री, देवीविशेषः । तस्या ध्यानम् ।

यथा, --
“शवोपरिसमासीनां रक्ताम्बरतनुच्छदाम् ।
सर्व्वाभरणसंयुक्तां गुञ्जाहारविभूषिताम् ॥
षोडशाब्दाञ्च युवतीं पीनोन्नतपयोधराम् ।
कपालकर्त्तृकाहस्तां परमानन्दरूपिणीम् ।
वामदक्षिणयोगेन ध्यायेन्मन्त्रविदुत्तमाम् ॥”
इति प्रत्यङ्गिरास्तोत्रान्तर्गतम् ॥

प्रत्यनीकः, पुं, (प्रतिगतः अनीकं युद्धमिति ।)

शत्रुः । इति हेमचन्द्रः । ३ । ३९२ ॥ (प्रति-
पक्षः । विरोधी । यथा, महाभारते । ७ ।
१० । ३६ ।
“यस्य यन्ता हृषीकेशो योद्धा यस्य धनञ्जयः ।
रथस्य तस्य कः संख्ये प्रत्यनीको भवेद्रथः ॥”
यथा च सुश्रुते सूत्रस्थाने ४६ अध्याये ।
“अतीवायतयामास्तु क्षपा येष्वृतुषु स्मृताः ।
तेषु तत्प्रत्यनीकाढ्यं भुञ्जीतप्रातरेव तु ॥”
क्ली, प्रतिपक्षसैन्यम् । यथा, भगवद्गीतायाम् ।
११ । ३२ ।
“ऋतेऽपि त्वां न भविष्यन्ति सर्व्वे
येऽवस्थिताः प्रत्यनीकेषु योधाः ॥”
अलङ्कारविशेषः । यदुक्तं काव्यप्रकाशे ।
“प्रतिपक्षमशक्तेन प्रतिकर्त्तुं तिरष्क्रिया ।
या तदीयस्य तत्स्तुत्यै प्रत्यनीकं तदुच्यते ॥”
उदाहरणं यथा, --
“त्वं विनिर्ज्जितमनोभवरूपः
सा च सुन्दर ! भवत्यनुरक्ता ।
पञ्चभिर्युगपदेव शरैस्तां
तापयत्यनुशयादिव कामः ॥”)

प्रत्यन्तः, पुं, (प्रतिगतोऽन्तमिति । अत्यादयः

क्रान्ताद्यर्थे । इति समासः ।) म्लेच्छदेशः । इत्य-
मरः । २ । १ । ७ ॥ (प्रान्तदुर्गम् । यथा, रघुः ।
४ । २६ ।
“स गुप्तमूलप्रत्यन्तः शुद्धपार्ष्णिरयान्वितः ।
षड्विधं बलमादाय प्रतस्थे दिग्जिगीषया ॥”
“गुप्तौ मूलं स्वनिवासस्थानं प्रत्यन्तः प्राप्तदुर्गञ्च
येन सः ।” इति तट्टीकायां मल्लिनाथः ॥
तद्देशजाते, त्रि ॥ यथा, वराहसंहितायाम् ।
४ । २१ ।
“प्रत्यन्तान् कुनृपांश्च हन्त्युडुपतिः शृङ्गे कुजेना-
हते ॥”)
सन्निकृष्टे च त्रि ॥

प्रत्यन्तपर्व्वतः, पुं, (प्रत्यन्तः सन्निकृष्टः पर्व्वतः ।)

महापर्व्वतसमीपवर्त्तिक्षुद्रपर्व्वतः । इत्यमरः ।
२ । ३ । ७ ॥

प्रत्यभियोगः, पुं, (प्रतिरूपोऽभियोगः ।) प्रत्यप-

राधः । यथा, --
“अभियोगमनिस्तीर्य्य नैनं प्रत्यभियोजयेत् ।
अभियुक्तञ्च नान्येन नोक्तं विप्रकृतिं नयेत् ॥”
“अभियुज्यत इति अभियोगोऽपराधस्तमभियोग-
मनिस्तीर्य्यापहृत्यैनमभियोक्तारं न प्रत्यभियोज-
येदपराधेन न संयोजयेत् । यद्यपि प्रत्यभि-
स्कन्दनं प्रत्यभियोगरूपन्तथापि स्वापराधपरि-
हारात्मकत्वान्नास्य प्रतिषेधस्य विषयः । अतः
स्वाभियोगानुपमर्द्दनरूपस्य प्रत्यभियोगस्यायं
निषेधः ।” इति मिताक्षरा ॥

प्रत्यभिवादः, पुं, (प्रति + अभि + वद् + णिच् +

भावे घञ् ।) अभिवाद्यस्य गुरोराशीर्व्वच-
नम् । इति गोयीचन्द्रः ॥

प्रत्यभिवादनं, पुं, (प्रति + अभि + वद् + णिच् +

भावे ल्युट् ।) अभिवाद्यस्य गुरोराशीर्वचनम् ।
इति गोयीचन्द्रः ॥

प्रत्ययः, पुं, (प्रति + इण् + भावकरणादौ यथा-

यथं अच् ।) अधीनः । शपथः । ज्ञानम् ।
(यथा, गारुडे २३६ अध्याये ।
“जाग्रत्संस्कारसम्भूतः प्रत्ययो विषयान्वितः ॥”)
विश्वासः । (यथा, कुमारे । ४ । ४५ ।
“इत्थं रतेः किमपि भूतमदृश्यरूपं
मन्दीचकार मरणव्यवसायबुद्धिम् ।
तत्प्रत्ययाच्च कुसुमायुधबन्धुरेना-
माश्वासयत् सुचरितार्थपदैर्वचोभिः ॥”)
हेतुः । (यथा, रघुः । १० । ३ ।
“अतिष्ठत् प्रत्ययापेक्षसन्ततिः स चिरं नृपः ॥”)
रन्ध्रम् । शब्दः । इत्यमरः । ३ । ३ । १४७ ॥
प्रथितत्वम् । आचारः । इति मेदिनी । ये, ८९ ॥
निश्चयः । (यथा, मनुः । ८ । २५३ ।
“यदि संशय एव स्यात् लिङ्गानामपि दर्शने ।
साक्षिप्रत्यय एव स्यात् सीमावादविनिर्नयः ॥”)
स्वादुः । इति हेमचन्द्रः ॥ प्रकृत्युत्तरजायमानः ।
वोपदेवेनास्य त्यसंज्ञा कृता । प्रत्याययन्तीति
सुप्तिङ्कृत्तद्धिताः प्रत्ययाः । इति संक्षिप्तसार-
व्याकरणम् ॥ (यथा, रघुः । ११ । ५६ ।
“ता नराधिपसुता नृपात्मजै-
स्ते च ताभिरगमन् कृतार्थताम् ।
सोऽभवद्वरबधूसमागमः
प्रत्ययप्रकृतियोगसन्निभः ॥”)
सहकारी । इति त्रिकाण्डशेषः ॥

प्रत्ययकारिणी, स्त्री, (प्रत्ययस्य विश्वासस्य

कारिणी ।) मुद्रा । इति त्रिकाण्डशेषः ॥
मोहर इति पारस्यभाषा ॥

प्रत्ययितः, त्रि, (प्रत्ययो विश्वासः सञ्जातोऽस्येति ।

प्रत्यय + “तदस्य सञ्जातं तारकादिभ्य इतच् ।”
५ । २ । ३६ । इति इतच् ।) आप्तः । विश्वस्तः ।
इत्यमरः । २ । ८ । १३ ॥ (यथा, कथासरित्-
सागरे । १५ । ६८ ।
“तत् श्रुत्वा व्यसृजद्राजा सोऽथ प्रत्ययितान्
द्विजान् ॥”)

प्रत्यर्थी, [न्] त्रि, (प्रतिशोधं प्रतिकूलं वा अर्थ-

यते इति । प्रति + अर्थ + णिनिः ।) शत्रुः ।
इत्यमरः । २ । ८ । ११ ॥ (यथा, साहित्य-
दर्पणे । ३ परिच्छेदे ।
“नेत्रे खञ्जनगञ्जने सरसिजप्रत्यर्थि पाणिद्वयं
वक्षोजौ करिकुम्भविभ्रमकरीमत्युन्नतिं
गच्छतः ॥”)
पुं, प्रतिवादी । इति शब्दरत्नावली ॥ (यथा,
मनुः । ८ । ७९ ।
“सभान्तः साक्षिणः प्राप्तानर्थिप्रत्यर्थिसन्निधौ ।
प्राड्विवाकोऽनुयुञ्जीत विधिनानेन सान्त्व-
यन् ॥”)
अर्थिप्रतिपक्षः । यथा, --
“प्रत्यर्थिनोऽग्रगतो लेख्यं यथावेदितमर्थिना ।
समामासतदर्द्धाहर्नामजात्यादिचिह्नितम् ॥”
“अर्थ्यत इत्यर्थः साध्यः । सोऽस्यास्तीत्यर्थी ।
तत्प्रतिपक्षः प्रत्यर्थी ।” इति मिताक्षरा ॥

प्रत्यर्पितं, त्रि, (प्रति + ऋ + णिच् + क्तः ।) प्रति-

दत्तम् । यथा । “अर्थव्यवहारोऽपि एकस्मिन्
वत्सरे यत्संख्याकं यद्द्रव्यं यतो येन गृहीतं
प्रत्यर्पितञ्चेति । पुनरन्यस्मिन् वत्सरे तद्द्रव्यं
तत्संख्याकं ततस्तेन गृहीतं याच्यमानोऽपि
यदि ब्रूयात् सत्यं गृहीतं प्रत्यर्पितञ्चेति वत्स-
रान्तरे गृहीतं प्रत्यर्पितञ्च नास्मिन् वत्सर
इत्युपयुज्यते ।” इति मिताक्षरा ॥

प्रत्यवसानं, क्ली, (प्रति + अव + सो + ल्युट् ।)

भोजनम् । इति हेमचन्द्रः । ३ । ८७ ॥
(पर्य्यायान्तरमस्य यथा, --
“जग्धिः प्रत्यवसानञ्च भक्षणं भोजनाशने ॥”
इति वैद्यकरत्नमालायाम् ॥)

प्रत्यवसितं, त्रि, (प्रति + अव + सो + क्तः ।) भक्षि-

तम् । इत्यमरः । ३ । २ । ११० ॥

प्रत्यवस्कन्दः, पुं, (प्रति + अव + स्कन्द + घञ् ।)

चतुर्व्विधोत्तरान्तर्गतोत्तरविशेषः ॥

प्रत्यवस्कन्दनं, क्ली, (प्रति + अव + स्कन्द + ल्युट् ।)

चतुर्व्विधोत्तरान्तर्गतोत्तरविशेषः । यथा, --
“प्रत्यवस्कन्दनं नाम सत्यं गृहीतं प्रतिदत्तं
प्रतिग्रहलब्धमिति वा । यथाह नारदः ।
अर्थिना लेखितो योऽर्थः प्रत्यर्थी यदि
तन्तथा ।
प्रपद्य कारणं ब्रूयात् प्रत्यवस्कन्दनं स्मृतम् ॥”
इति मिताक्षरा ॥
पृष्ठ ३/२७२
अपि च ।
“अर्थिनाभिहितो योऽर्थः प्रत्यर्थी यदि तन्तथा ।
प्रपद्य कारणं ब्रूयात् प्रत्यवस्कन्दनं हि तत् ॥”
इति व्यवहारतत्त्वे बृहस्पतिवचनम् ॥

प्रत्यवस्थाता, [ऋ] त्रि, (प्रतिपक्षतया अव-

तिष्ठते इति । प्रति + अव + स्था + तृच् ।)
शत्रुः । इति हेमचन्द्रः । ३ । ३९२ ॥

प्रत्यवायः, पुं, (प्रत्यवाय्यते इति । प्रति + अव +

अय गतौ + घञ् ।) पापम् । दुरदृष्टम् । यथा,
“क्षयं केचिदुपात्तस्य दुरितस्य प्रचक्षते ।
अनुत्पत्तिं तथा चान्ये प्रत्यवायस्य मन्वते ॥”
इत्येकादशीतत्त्वे जावालवचनम् ॥

प्रत्यश्मा, [न्] पुं, (प्रतिरूपः अश्मा ।) गैरि-

कम् । इति त्रिकाण्डशेषः ॥

प्रत्यहं, व्य, (अहः अहः प्रति । “नपुंसकादन्य-

तरस्याम् ।” ५ । ४ । १०९ । इति टच् ।)
प्रतिदिनम् । यथा, कुमारसम्भवे ।
“गिरिशमुपचचार प्रत्यहं सा सुकेशी ॥”

प्रत्याकारः, पुं, (प्रतिरूपः खड्गेन सदृश आकारो

यस्य ।) खड्गकोपः । इति हेमचन्द्रः । ३ ।
४४७ ॥ खाप् इति भाषा ॥

प्रत्याख्यातः, त्रि, (प्रति + आ + ख्या + क्तः ।)

दूरीकृतः । तत्पर्य्यायः । प्रत्यादिष्टः २ निरस्तः ३
निराकृतः ४ निकृतः ५ विप्रकृतः ६ । इत्य-
मरः । ३ । १ । ४० ॥ क्वचित् पुस्तके प्रत्यादिष्टेत्यादि-
श्लोकमेकमधिकं दृश्यते तत्राद्यचतुष्कं प्रत्या-
दिष्टे । परचतुष्कं तिरस्कृते । इति तट्टीकासार-
सुन्दरी ॥ (यथा, महाभारते । १ । १५६ । ८ ।
“वीरेणाहं तथानेन त्वया वापि यशस्विनि ! ।
प्रत्याख्याता न जीवामि सत्यमेतद्ब्रवीमि ते ॥”)

प्रत्याख्यानं, क्ली, (प्रति + आ + ख्या + भावे

ल्युट् ।) निराकरणम् । तत्पर्य्यायः । निर-
सनम् २ प्रत्यादेशः ३ निराकृतिः ४ । इत्य-
मरः । ३ । २ । ३१ ॥ (यथा, मार्कण्डेये । ६१ । ७२ ।
“प्रत्याख्यानादहं मृत्युं त्वञ्च पापमवाप्स्यसि ॥”)

प्रत्यागमः, पुं, (प्रत्यागमनमिति । प्रति + आ +

गम् + अप् ।) प्रत्यागमनम् । फिरे आसा इति
भाषा ॥ यथा, --
“तीर्थयात्रासमारम्भे तीर्थप्रत्यागमेषु च ॥”
इति प्रायश्चित्ततत्त्वम् ॥
(यथा, हरिवंशे भविष्यपर्व्वणि । ३९ । २४ ।
“किमर्थं ब्रूहि विप्रेन्द्र ! अस्मिन् प्रत्यागमो हि
वः ॥”)

प्रत्यादिष्टः, त्रि, (प्रत्यादिश्यते स्मेति । प्रति +

आ + दिश् + क्तः ।) प्रत्यादेशविशिष्टः । तत्-
पर्य्यायः । निरस्तः २ प्रत्याख्यातः ३ निराकृतः ४
निकृतः ५ विप्रकृतः ६ । इत्यमरः । ३ । १ । ४० ॥

प्रत्यादेशः, पुं, (प्रत्यादेशनमिति । प्रति + आ +

दिश् + घञ् ।) निराकरणम् । प्रत्याख्यानम् ।
इत्यमरः । ३ । २ । ३१ ॥ (यथा, मेघदूते । ९६ ।
“प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविला-
सम् ॥”
प्रसङ्गनिवारणम् । इति कुल्लूकभट्टः ॥ यथा,
मनुः । ८ । ३३४ ।
“येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते ।
तत्तदेव हरेत्तस्य प्रत्यादेशाय पार्थिवः ॥”)
भक्तं प्रति देवानामादेशश्च ॥

प्रत्याध्मानः, पुं, (प्रतिगतमाध्मानमीषत्-शब्दो

यत्र ।) वातव्याधिविशेषः । तस्य लक्षणमाह ।
“विमुक्तपार्श्वहृदयं तदेवामाशयोत्थितम् ।
प्रत्याध्मानं विजानीयात् कफव्याकुलितानिलम् ॥”
विमुक्तपार्श्वहृदयं पार्श्वे हृदये विहाय जातं
तदेवाध्मानम् । कफव्याकुलितानिलं कफेनाव-
रुद्धवातम् ॥ * ॥ अथ तस्य चिकित्सा ।
“प्रत्याध्माने समुत्पन्ने कुर्य्यात् वमनलङ्घने ।
दीपनादि नियुञ्जीत पूर्ब्बवद्वस्तिकर्म्म च ॥”
इति भावप्रकाशः ॥

प्रत्यालीढं, क्ली, (प्रति + आ + लिह + क्तः ।)

धन्विनां पादसंस्थानविशेषः । तत्रोर्द्धस्य वाम-
पादप्रसारे दक्षिणपादसङ्कोचः । इत्यमर-
टीकायां भरतः ॥ धन्विनामवस्थानविशेषः ।
यथा, --
“स्यात् प्रत्यालीढमालीढं समं पादं तथापरम् ।
वैशाखं मण्डलञ्चेति धन्विनां स्थानपञ्चकम् ॥
स्याद्दक्षपादसङ्कोचात् वामपादप्रसारणात् ।
प्रत्यालीढमिति प्रोक्तमालीढं तद्विपर्य्यर्यात् ॥
तुल्यं पादयुगं यत्र समपादमुदाहृतम् ।
वितस्त्यन्तरितं पादयुगं वैशाखमुच्यते ।
मण्डलाकारपादाभ्यां मण्डलं स्थानमीरितम् ॥”
इति शब्दरत्नावली ॥
(यथा च यादवः ।
“स्थानानि धन्विनां पञ्च तत्र वैशाखमस्त्रियाम् ।
वितस्त्यन्तरगौ पादौ मण्डलं तोरणाकृती ॥
समानौ स्यात् समपदमालीढं पदमग्रतः ।
दक्षिणं वाममाकुञ्च्य प्रत्यालीढं विपर्य्ययः ॥”)
अशिते, त्रि । इति मेदिनी । ढे, १२ ॥

प्रत्याशा, स्त्री, (प्रति किञ्चित् वस्तु लक्षीकृत्य

आ समन्तात् अश्नुते व्याप्नोतीति । प्रति + आ
+ अश् + अच् । ततष्टाप् ।) आकाङ्क्षा । यथा,
शान्तिशतके ।
“मूढोऽन्यत्र मरीचिकासु पशुवत् प्रत्याशया
घावति ॥”

प्रत्यासन्नः, त्रि, (प्रति + आ + सद् + क्तः ।)

निकटवर्त्ती । इति जटाधरः ॥ (यथा, प्रबोध-
चन्द्रोदये २ अङ्के ।
“आर्य्य ! प्रत्यासन्नो महाराजः । तत्प्रत्त्युद्गम-
नेन संभाव्यतामार्य्येण ॥”)

प्रत्यासरः, पुं, (प्रत्यास्रियते इति । प्रति + आ +

सृ + “ऋदोरप् ।” ३ । ३ । ५७ । इत्यप् ।)
सैन्यपृष्ठः । इति शब्दरत्नावली ॥

प्रत्यासारः, पुं, (प्रत्यास्रियते इति । प्रति + आ +

सृ + घञ् ।) व्यूहस्य पश्चाद्भागः । व्यूहस्य
पश्चाद्ब्यूहान्तरम् । तत्पर्य्यायः । व्यूहपार्ष्णिः २ ।
इत्यमरभरतौ ॥

प्रत्याहरणं, क्ली, (प्रति + आ + हृ + भावे ल्युट् ।)

प्रत्याहारः । इति शब्दरत्नावली ॥

प्रत्याहारः, पुं, (प्रति + आ + हृ + भावे घञ् ।)

स्वस्वविषयेभ्य इन्द्रियाकर्षणम् । तत्पर्य्यायः ।
उपादानम् २ । इत्यमरः ॥ प्रत्याहरणम् ३ । इति
शब्दरत्नावली ॥ स च योगाङ्गविशेषः । यथा,
“प्रत्याहारश्च तर्कश्च प्राणायामस्तृतीयकः ।
समाधिर्धारणं ध्यानं षडङ्गो योगसंग्रहः ॥”
इति तट्टीकायां भरतः ॥
प्रत्याहारमाह ।
“शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित् ।
कुर्य्याच्चित्तान्तकारीणि प्रत्याहारपरायणः ॥”
इति विष्णुपुराणे ६ अंशे ७ अध्यायः ॥
अपि च ।
“इन्द्रियाणीन्द्रियार्थेभ्यः समाहृत्य स्थितो हि सः ।
मनसा सह बुद्ध्या च प्रत्याहारेषु संस्थितः ॥”
इति गारुडे २४० अध्यायः ॥
(यथा च पातञ्जले साधनपादे ।
“यमनियमासनप्राणायामप्रत्याहारधारणा-
ध्यानसमाधयोऽष्टावङ्गानि ॥” २९ ॥
“स्वस्वविषयसंप्रयोगाभावे चित्तस्वरूपानुकार
इन्द्रियाणां प्रत्याहारः ॥” ५४ ॥)
अल्पेन बहूनां ग्रहणम् । यथा, अच् इति
द्व्यक्षरेण सर्व्वस्वराणां ग्रहणम् । इति भरतः ॥

प्रत्युक्तिः, स्त्री, (प्रतिवचनमिति । प्रति + वच् +

भावे क्तिन् । प्रतिरूपा उक्तिरिति वा ।) प्रत्यु-
त्तरम् । इति शब्दरत्नावली ॥

प्रत्युत, व्य, (प्रति च उत च इति द्वन्द्रः ।) वैप-

रीत्यम् । यथा । बुधादिवाक्यं तु न नियामकं
प्रमाणाभावात् प्रत्युत फलश्रुतेर्गुणफलबोधक-
मिति । इति तिथ्यादितत्त्वे जन्माष्टमीप्रकरणम् ॥
(यथा, मार्कण्डेये । ९५ । २० ।
“विहिताकरणात् पुंभिरसद्भिः क्रियते तु यः ।
संयमो मुक्तये सोऽन्ते प्रत्युताधोगतिप्रदः ॥”)

प्रत्युत्क्रमः, पुं, (प्रत्युत्क्रमणमिति । प्रति + उत् +

क्रम् + घञ् ।) प्रघानप्रयोजनानुकूलप्रयो-
जनानुष्ठानम् । तत्पर्य्यायः । प्रयोगार्थः २ ।
इत्यमरः ॥ प्रकृष्टयोगः । इति केचित् । प्रकृष्ट-
यद्धार्थमुपक्रमः प्रयोगः तद्वाच्यः । इति केचित् ।
प्रयोगो युद्धं तदभिधेय इति केचित् । प्रत्युत्-
क्रमो युद्धार्थ इति भागुरिः । युद्धार्थं प्रथमा-
क्रान्तिः । इत्यपरे । कर्म्मारम्भे प्रथमयुक्तिः
प्रयोगः । इत्यपरे ॥ इति भरतः ॥

प्रत्युत्क्रान्तिः, स्त्री, (प्रति + उत् + क्रम् + क्तिन् ।)

प्रत्युत्क्रमः । इत्यमरटीकायां क्षीरस्वामी ॥

प्रत्युत्तरं, क्ली, (प्रतिरूपमुत्तरम् ।) उत्तरं प्रति

उत्तरम् । यथा । ममेयं भूमिः क्रमागतत्वात्
इति वाद्युक्ते ममेयं भूमिर्दशवर्षोपभुज्यमान-
त्वात् इति प्रत्युत्तरम् । इति व्यवहारतत्त्वम् ॥

प्रत्युत्थानं, क्ली, (प्रत्युत्थीयते इति । प्रति + उत् +

स्था + ल्युट् ।) अभ्युत्थानम् । गात्रोत्थानम् ।
यथा, --
पृष्ठ ३/२७३
“दीव्यन्तमक्षैस्तत्रापि प्रियया चोद्धवेन च ।
पूजितः परया भक्त्या प्रत्युत्थानासनादिभिः ॥”
इति श्रीभागवते । १० । ६९ । २० ॥

प्रत्युत्पन्नः, त्रि, (प्रति + उत् + पद् + क्तः ।)

उत्पत्तिविशिष्टः । प्रत्युत्पूर्ब्बपद्धातोः कर्त्तरि
क्तप्रत्ययेन निष्पन्नः ॥

प्रत्युत्पन्नमतिः, त्रि, (प्रत्युपन्ना मतिर्यस्य ।) सूक्ष्म-

बुद्धियुक्तः । तत्पर्य्यायः । कुशाग्रीयमतिः २
सूक्ष्मदर्शी ३ तत्कालधीः ४ । इति हेमचन्द्रः ॥
प्रतिभान्वितः । इति जटाधरः ॥ (यथा, --
“प्रत्युत्पन्नमतिर्धीमान् व्यवसायी विशारदः ।
सत्यधर्म्मपरो यश्च स भिषक्पाद उच्यते ॥”
इति सुश्रुते सूत्रस्थाने ३४ अध्यायः ॥)

प्रत्युद्गमनीयं, क्ली, (प्रति + उत् + गम् + अनी-

यर् ।) घौतांशुकद्वयम् । इति मेदिनी । ये, १३४ ॥
(यथा, कुमारे । ७ । ११ ।
“सा मङ्गलस्नानविशुद्धगात्री
गृहीतप्रत्युद्गमनीयवस्त्रा ॥”
क्वचित् पत्युद्गमनीयवस्त्रा इत्यपि पाटः ॥)
समुपस्थानयोग्ये पूजनीये च, त्रि । इति शब्द-
रत्नावली ॥

प्रत्युद्गमः, पुं, (प्रति + उत् + गम् + अप् ।) प्रत्यु-

त्थानम् । यथा, स्राहित्यदर्पणे तृतीयपार-
च्छेदे । ७३ ।
“एकत्रासनसंस्थितिः परिहृता प्रत्युद्गमाद्-
दूरतः ॥”

प्रत्युद्गमनं, क्ली, (प्रति + उत् + गम् + ल्युट् ।)

प्रत्युत्थानम् । (यथा, प्रबोधचन्द्रोदये २ अङ्के ।
“आर्य्य ! प्रत्यासन्नो महाराजः । तत्प्रत्युद्गम-
नेन संभाव्यतामार्य्येण ॥”)

प्रत्युषः, पुं, (प्रतोषति विनाशयति अन्धकार-

मिति । प्रति + उष् दाहे + “इगुपधज्ञेति ।”
३ । १ । १३६ । इति कः ।) प्रत्यूषः । प्रातः ।
इत्यमरटीकायां मथुरेशः ॥ (यथा, पञ्चतन्त्रे ।
१ । २१२ ।
“प्रत्युषे च स्वगृहमभ्युपेत्य द्बारदेशस्थितोऽपि
विविधपौरकृत्योत्सुकतया तामाहेति ॥”)

प्रत्युषः, [स्] क्ली, (प्रत्योषति नाशयत्यन्धकार-

मिति । प्रति + उष् + “उषः कित् ।” उणा०
४ । २३३ । इति असिः । स च कित् ।)
प्रत्यूषः । इत्यमरः । १ । ४ । २ ॥ यथा, भरत-
धृतसूर्य्यशतके ।
“याति व्यक्तिं पुरस्तादरुणकिसलये प्रत्युषः-
पारिजातः ॥”

प्रत्यूषः, पुं, (प्रत्यूषति रुजति कामुकानिति ।

प्रति + ऊष् रोगे + कः ।) प्रभातम् । इत्य-
मरः । १ । ४ । २ ॥ (यथा, मेघदूते । ३३ ।
“दीर्घीकुर्व्वन् पटुमदकलं कूजितं सारसानां
प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः ॥”)
सूर्य्यः । इति शब्दरत्नावली ॥ वसुभेदः । इति
जटाधरः ॥ (यथा, विष्णुपुराणे । १ । १५ । १११ ।
“वसवोऽष्टौ समाख्यातास्तेषां वक्ष्यामि विस्तरम् ।
आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः ।
प्रत्यूषश्च प्रभावश्च वसवो नामभिः स्मृताः ॥”)

प्रत्यूषः, [स्] क्ली, (प्रति + ऊष् + असिः ।)

प्रभातम् । इत्यमरटीकायां भरतः ॥ (यथा,
सुश्रुते । १ । २१ ।
“प्रत्यूषस्यपराह्णे तु जीर्णेऽन्ने च प्रकुप्यति ॥”)

प्रत्यूहः, पुं, (प्रत्यूहनमिति । प्रति + ऊह् +

घञ् ।) विघ्नः । इत्यमरः । ३ । २ । १९ ॥
(यथा, मार्कण्डेये । १६ । ५५ ।
“भर्त्तृशुश्रूषणादेव मया प्राप्तं महत् फलम् ।
सर्व्वकामफलावाप्त्या प्रत्यूहाः परिवर्त्तिताः ॥”)

प्रत्येकं, क्ली, एकं एकं प्रति । यथा, कर्पू राख्य-

स्तोत्रे ।
“प्रत्येकं वा द्वयं वा त्रयमपि च परं बीज-
मत्यन्तगुह्यम् ॥”
(यथा च कुमारे । २ । ३१ ।
“एवं यदात्थ भगवन्नामृष्टं नः परैः पदम् ।
प्रत्येकं विनियुक्तात्मा कथं न ज्ञास्यसि प्रभो ! ॥”)

प्रथ, क प्रक्षेपे । ख्यातौ । इति कविकल्पद्रुमः ॥

(चुरा०-पर०-सक०-अक०-च सेट् ।) रेफयुक्तः ।
क, प्राथयति । इति दुर्गादासः ॥

प्रथ, म ष ङ ख्यातौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-सेट् ।) रेफयुक्तः । म, प्रथ-
यति । ष, प्रथा । ङ, प्रथते गुणी प्रसिद्धः
स्यादित्यर्थः । इति दुर्गादासः ॥

प्रथमः, त्रि, (प्रथते प्रसिद्धो भवतीति । प्रथ् +

“प्रथेरमच् ।” उणा० ५ । ६८ । इति अमच् ।)
प्रधानम् । (यथा, रघुः । १० । ६७ ।
“राम इत्यभिरामेण वपुषा तस्य चोदितः ।
नामधेयं गुरुश्चक्रे जगत्प्रथममङ्गलम् ॥”)
आदिमः । तत्पर्य्यायः । आदिः २ पूर्ब्बः ३
पौरस्त्यः ४ आद्यः ५ । इत्यमरः ॥ अग्रिमः ६
इति जटाघरः ॥ प्राक् ७ । इत्यव्ययवर्गे अमरः ॥
(यथा, विष्णुपुराणे । १ । ११ । ५२ ।
“बाह्यार्थानखिलांश्चित्तं त्याजयेत्प्रथमं नरः ॥”)

प्रथा, स्त्री, (प्रथ् + “षिद्भिदादिभ्योऽड् ।” ३ । ३ । १०४ ।

इत्यङ् । ततष्टाप् ।) ख्यातिः । इत्यमरः । ३ ।
२ । ९ ॥ (यथा, राजतरङ्गिण्याम् । १ । १२ ।
“या प्रथामगमन्नैति सापि वाच्यप्रकाशने ॥”)

प्रथितः, त्रि, (प्रथ् + क्तः ।) ख्यातः । इत्यमरः ।

३ । १ । ९ ॥ (यथा, रघुः । ९ । ७६ ।
“तेनावतीर्य्य तुरगात् प्रथितान्वयेन
पृष्टान्वयः स जलकुम्भनिषण्णदेहः ॥”
स्वारोचिषमनोः पुत्त्रे, पुं । यथा, हरिवंशे ।
७ । १४ ।
“हविध्रः सुकृतिर्ज्योतिरापो मूर्त्तिरयः स्मृतः ।
प्रथितश्च नभस्यश्च नभ ऊर्ज्जस्तथैव च ।
स्वारोचिषस्य पुत्त्रास्ते मनोस्तात ! महात्मनः ॥”)

प्रथितिः, स्त्री, (प्रथ् + “पदिप्रथिभ्यां नित् ।”

उणां ४ । १८२ । इति तिः । स च नित् ।)
ख्यातिः । प्रथधातोर्भावे क्तिप्रत्ययेन निष्पन्ना ।
इति व्याकरणम् ॥

प्रथिमा, [न्] पुं, (पृथोर्भावः । “पृष्वादिभ्य इम-

निज्वा ।” ५ । १ । १२२ । इति इमनिच् । “ऋतो-
हलादेर्लघोः ।” ६ । ४ । १६१ । इति रः । “टेः ।”
६ । ४ । १५५ । इति टेर्लोपः ।) पृथोर्भावः ।
पृथुत्वम् । इति सिद्धान्तकौमुदी ॥ यथा, --
“प्रथिमानन्दधानेन घनेन जघनेन सा ॥”
इति भट्टिः । ४ । १७ ॥
त्रि, अतिशयेन पृथुः । पृथुशब्दादतिशयार्थे
इमन्प्रत्ययेन निष्पन्नः । इति व्याकरणम् ॥

प्रथिमिनी, स्त्री, (प्रथिमास्त्यस्या इति । प्रथिमन्

+ “संज्ञायां मन्माभ्याम् ।” ५ । २ । १३७ ।
इति इनिः ।) प्रथिमयुक्तस्त्री । इति सिद्धान्त-
कौमुदी ॥

प्रथिष्ठः, त्रि, अतिशयेन पृथुः । (पृथु + इष्ठन् ।)

अतिबृहत् । इति मुग्धबोधव्याकरणम् ॥

प्रथुकः, पुं, पृथूकः । इत्यमरटीकायां रायमुकुटः ॥

प्रदः, त्रि, प्रकर्षेण ददाति यः । (प्र + दा + कः ।)

प्रदाता । इति सिद्धान्तकौमुदी ॥ (कर्म्मण्युप-
पदे तु “प्रे दाज्ञः ।” ३ । २ । ६ । इति कः ।
यथा, मनुः । ४ । २३२ ।
“यानशय्याप्रदो भार्य्यामैश्वर्य्यमभयप्रदः ॥”)

प्रदक्षिणं, क्ली, पुं, (प्रगतं दक्षिणमिति । “तिष्ठद्गु-

प्रभृतीनि च ।” २ । १ । १७ । इति समासः ।)
दक्षिणावर्त्तेन देवादिकमुद्दिश्य भ्रमणम् । यथा,
“एकं देव्यां रवौ सप्त त्रीणि कुर्य्याद्बिनायके ।
चत्वारि केशवे कुर्य्यात् शिवे चार्द्धप्रदक्षिणम् ॥”
इति कर्म्मलोचनम् ॥
सर्व्वदेवतातुष्टिदप्रदक्षिणं यथा, --
“प्रसार्य्य दक्षिणं हस्तं स्वयं नम्रशिराः पुनः ।
दक्षिणं दर्शयन् पार्श्वं मनसापि च दक्षिणः ॥
सकृत्त्रिर्व्वा वेष्टयेत्ता देव्याः प्रीतिः प्रजायते ।
स च प्रदक्षिणो ज्ञेयः सर्व्वदेवौधतुष्टिदः ॥
सर्व्वान् कामान् समामाद्य पश्चान्मोक्षमवा-
प्नुयात् ॥
मनसापि च यो दद्याद्देव्यै भक्त्या प्रदक्षिणम् ।
प्रदक्षिणाद्यमगृहे नरकाणि न पश्यति ॥”
इति कालिकापुराणे ७० अध्यायः ॥ * ॥
अपि च । तन्त्रसारे ।
“दक्षिणाद्वायवीं गत्वा दिशं तस्याश्च शाम्भवीम्
ततश्च दक्षिणां गत्वा नमस्कारस्त्रिकोणवत् ॥
अर्द्धचन्द्रं महेशस्य पृष्ठतश्च समारितम् ।
शिवप्रदक्षिणे मन्त्री अर्द्धचन्द्रक्रमेण तु ॥
सव्यासव्यक्रमेणैव सोमसूत्रं न लङ्घयेत् ॥”
सोमसूत्रं जलनिःसरणस्थानम् ।
“प्रसार्य्य दक्षिणं हस्तं स्वयं नम्रशिराः पुनः ।
दर्शयेद्दक्षिणं पार्श्बं मनसापि च दक्षिणः ॥
त्रिधा च वेष्टयेत् सम्यक् देवतायाः प्रदक्षिणम् ॥
एकहस्तप्रणामश्च एकं वापि प्रदक्षिणम् ।
अकाले दर्शनं विष्णोर्हन्ति पुण्यं पुराकृतम् ॥”
(समर्थे, त्रि । यथा, रामायणे । ३ । ४३ । ५१ ।
“प्रदक्षिणेनातिबलेन पक्षिणा
जटायुषा बुद्धिमता च लक्ष्मण ! ॥”
“प्रदक्षिणेन समर्थेन ।” इति तट्टीकायां रामा-
नुजः ॥)