शब्दकल्पद्रुमः/पोटा

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ३/२३५

पोटा, स्त्री, (पुटति स्त्रीपुरुषस्वरूपं संश्लिष्य-

तीति । पुट + अच् । टाप् च ।) स्त्रीपुंस-
लक्षणा । इत्यमरः । २ । ६ । १५ ॥ स्त्रीपुंसयो-
र्लक्षणं चिह्रं स्तनश्मश्र्वादिरूपं यस्यां सा ।
इति भरतः ॥

पोटिकः, पुं, (पोटः संश्लोषोऽस्त्यस्येति ठन् ।)

विष्फोटकः । इति केचित् ॥ (विस्फोटकशब्दे-
ऽस्य विवृतिर्ज्ञातव्या ॥)

पोट्टली, स्त्री, (पोटेन संश्लेषेण लीयते इति ।

ली + डः । पृषोदरादित्वात् साधुः । ङीप् ।)
पोट्टलिका । वस्त्रबद्धद्रव्यम् । पुँटुलि इति
भाषा । यथा, --
“शुद्ध्यर्थं त्रिफलाक्वाथे गुडुच्याः क्वाथ एव वा ।
दोलायन्त्रे पुरः पाच्यः पोट्टल्या वस्त्रबद्धया ॥”
इति वैद्यकम् ॥

पोडुः, पुं, (पुडतीति । पुड + उन् ।) कपाला-

स्थितलम् । इति राजनिर्घण्टः ॥

पोतः, पुं, स्त्री, (पुनातीति । पू + “हसिमृग्रिण्-

वामिदमिलूपूधूर्विभ्यस्तन् ।” उणा० ३ । ८६ ।
इति तन् ।) शिशुः । इत्यमरः । २ । ५ । ३८ ॥
(यथा, कथासरित्सागरे । १२ । १३३ ।
“तत्रस्थात् स्वर्णमूलाख्याद् गिरेः संप्रेष्य राक्ष-
सान् ।
आनाययत् पक्षिपोतं गरुडान्वयसम्भवम् ॥”)

पोतः, पुं, (पुनाति इति । पू + “हसीति ।”

उणा० ३ । ८६ । इति तन् ।) वहित्रम् ।
गृहस्थानम् । पोता इति भाषा । वस्त्रम् । इति
मेदिनी । ते, ३७ ॥ दशवर्षीयहस्ती । इति
हेमचन्द्रः ॥ समुद्रयानम् । जाहाज इति भाषा ॥
(यथा, देवीभागवते । १ । ३ । ४२ ।
“सम्प्राप्य मानुषभवं सकलाङ्गयुक्तं
पोतं भवार्णवजलोत्तरणाय कामम् ।
सम्प्राप्य वाचकमहो न शृणोति मूढः
सो वञ्चितोऽत्र विधिना सुहृदं पुराणम् ॥”)
यथा, --
“समुद्रयाने रत्नानि महामौल्यानि साधुभिः ।
रत्नपारीक्षकैः सार्द्धमानयिष्ये बहूनि च ॥
शुकेन सह संप्राप्तो महान्तं लवणार्णवम् ।
पोतारूढास्ततः सर्व्वे पोतवाहैरुपासिताः ।
अपारे दुस्तरेऽगाधे यान्ति वेगेन नित्यशः ॥”
इति वाराहे गोकर्णमाहात्म्याध्यायः ॥

पोतकी, स्त्री, (पोत इवेति । पोत + इवार्थे कन् ।

स्त्रियां ङीप् ।) पूतिका । इति शब्दमाला ॥
(अस्याः पर्य्यायो गुणाश्च यथा, --
“पोतक्युपोदिका सा तु मालवामृतवल्लरी ।
पोतकी शीतला स्निग्धा श्लेष्मला वातपित्तनुत् ॥
अकण्ठ्या पिच्छिला निद्राशुक्रदा रक्तपित्तजित् ।
बलदा रुचिकृत् पथ्या बृंहनी तृप्तिकारिणी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
श्यामापक्षी । इति राजनिर्घण्टः ॥

पोतजः, पुं, (पोतः सन् न तु डिम्बादिरूप इति

मावः । जायते इति । जन + डः ।) कुञ्ज-
रादिः । यथा, हेमचन्द्रः । ४ । ४२१ ।
“अण्डजाः पक्षिसर्पाद्याः पोतजाः कुञ्जरा-
दयः ॥”

पोतबणिक्, पुं, (पोतेन बणिक् ।) वहित्रेण

बाणिज्यकर्त्ता । नौबाणिज्यकरः । तत्पर्य्यायः ।
सांयात्रिकः २ । इत्यमरः । १ । १० । १२ ।
समुद्रयानचारी ३ । इति जटाधरः ॥ नौ-
बाणिज्यकरः ४ । इति शब्दरत्नावली ॥

पोतरक्षः, पुं, (पोतं रक्षतीति । रक्ष + “कर्म्म-

ण्यण् ।” ३ । २ । १ । इत्यण् ।) केनिपातकः ।
इति शब्दमाला ॥ हालि इति भाषा ॥

पोतलकप्रियः, पुं, (पोतलकः पर्व्वतविशेषः प्रियो-

ऽस्य ।) बुद्धविशेषः । इति त्रिकाण्डशेषः ॥

पोतवाहः, पुं, (पोतं नावं वहतीति । वह +

“कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) वहित्र-
वाहकः । दाँडि इति भाषा । तत्पर्य्यायः ।
नियामकः २ । इत्यमरः । १ । १० । १२ ॥

पोता, [ऋ] पुं, (पुनातीति । पू + “नप्तृनेष्टृ-

त्वष्टृहोतृपोतृभ्रातृजामातृमातृपितृदुहितृ ।”
उणा० २ । ९६ । इति तृन्प्रत्ययेन निपात्यते ।)
विष्णुः । इति संक्षिप्तसारोणादिवृत्तिः ॥
ऋत्विक् । इति भूरिप्रयोगः ॥ (यथा, ऋग्वेदे ।
४ । ९ । ३ ।
“स सद्म परि णीयते होता मन्द्रो दिविष्टिषु ।
उत पोता नि षीदति ॥”)

पोताच्छादनं, क्ली, (पोतमिवाच्छादयतीति । आ +

छादि + ल्युः ।) वस्त्रकुट्टिमम् । इति हारावली ॥

पोताधानं, क्ली, (आधीयतेऽत्रेति । ल्युट् । आधा-

नम् । पोतानां अण्डजमत्स्यानामाधानम् ।)
क्षुद्राण्डमत्स्यसंघातः । इत्यमरः । १ । १० । १९ ॥
पोना इति भाषा । अस्य गुणाः । सुस्निग्धत्वम् ।
लघुत्वम् । रोचनत्वञ्च । इति राजवल्लभः ॥

पोतिका, स्त्री, (पोतोऽस्त्यस्या इति । पोत + ठन् ।

यद्वा, पूतिका पृषोदरादित्वात् साधुः ।) पूतिका ।
इत्यमरटीकायां भरतः ॥ शतपुष्पा ॥ मूल-
पोती । इति राजनिर्घण्टः ॥

पोतासः, पुं, (पोतेभ्यः शिशुभ्यः अस्यते क्षिप्यते

इति । अस + घञ् ।) कर्पूरविशेषः । इति
राजनिर्घण्टः ॥

पोत्रं, क्ली, (पूयतेऽनेनेति । पू + “हलशूकरयोः

पुवः ।” ३ । २ । १८३ । इति ष्ट्रन् ।) शूकर-
मुखाग्रम् । लाङ्गलमुखाग्रम् । वज्रम् । इति
मेदिनी । रे, ६१ ॥ वहित्रम् । इति संक्षिप्तसारो-
णादिवृत्तिः ॥ (पोतृनामर्त्विजः पात्रभेदः ।
यथा, ऋग्वेदे । १ । १५ । २ ।
“मरुतः पिबत ऋतुना पोत्राद्यज्ञं पुनीतन ।
यूयं हि ष्ठा सुदानवः ॥” “पोत्रात् पोतृनाम-
कस्य ऋत्विजः पात्रात् सोमं पिबत ।” इति
तद्भाष्ये सायनः ॥)

पोत्रायुधः, पुं, (पोत्रं तन्मुखाग्रमेव आयुधं

यस्य ।) शूकरः । इति राजनिर्घण्टः ॥

पोत्रिरथा, स्त्री, (पोत्री शूकरः रथ इव गति-

साधकोऽस्याः ।) जिनशक्तिविशेषः । इति
त्रिकाण्डशेषः ॥

पोत्री, [न्] पुं, (पोत्रमस्थास्तीति । पोत्र + इनिः ।)

शूकरः । इत्यमरः । २ । ५ । २ ॥ पोत्रविशिष्टे,
त्रि ॥

पोलिन्दः, पुं, (पोतस्य अलिन्द इवेति । पृषो-

दरादित्वात् साधुः ।) नौकावयवभेदः । तत्-
पर्य्यायः । पादारकः २ । इति त्रिकाण्डशेषः ॥

पोलिका, स्त्री, (पोली + स्वार्थे कन् टाप् । पूर्ब्ब-

ह्रस्वश्च ।) पिष्टकविशेषः । पात्ला रोटी इति
हिन्दी भाषा । यथा, --
“कुर्य्यात् समितयातीव तन्वी पर्पटिका ततः ।
स्वेदयेत्तप्तके तान्तु पोलिकां तां जगुर्ब्बुधाः ॥
तां खादेल्लप्सिकायुक्तां तस्यां मण्डकवद्गुणाः ।
तप्तकं तावा इति लोके ।” इति भावप्रकाशः ॥
तत्पर्य्यायः । पूलिका २ पौलिः ३ पूपिका ४
पूपला ५ । इति हेमचन्द्रः ॥

पोली, स्त्री, (पोलति महत्त्वं गच्छतीति । पुल् +

ज्वलादित्वात् णः । ङीष् ।) पिष्टकविशेषः ।
तत्पर्य्यायः । पूपाली २ चर्पटी ३ । इति
त्रिकाण्डशेषः ॥

पोषः, पुं, पोषणम् । पुषधातोर्भावे घञ् प्रत्यय-

निष्पन्नः । यथा, भट्टिः ।
“यः सर्व्वदास्मानपुषत् स्वपोषम् ॥”
(यथा, च भागवते । ३ । ३० । १० ।
“अर्थैरापादितैर्गुर्व्व्या हिंसयेतस्ततश्च तान् ।
पुष्णाति येषां पोषेण शेषभुयात्यधः स्वयम् ॥”)

पोषणं, क्ली, (पुष् + ल्युट् ।) पुष्टिः । धृतिः ।

पुषधातोर्भावेऽनट् प्रत्ययनिष्पन्नः ॥ (यथा, मार्क-
ण्डेये । २८ । ८ ।
“तद्वद्द्विजातिशुश्रूषा पोषणं क्रयविक्रयी ।
वर्णधर्म्मास्त्विमे प्रोक्ताः श्रूयन्तामाश्रमाश्रयाः ॥”)

पोषयित्नुः, पुं, (पोषयतीति । पुष + णिच्

+ “स्तनिहृषिपुषिगदिमदिभ्यो णेरित्नुच् ।”
उणा० २ । २९ । इति इत्नुच् ।) कोकिलः ।
भर्त्ता । इति संक्षिप्तसारोणादिवृत्तिः ॥ पोषण-
कर्त्तरि, त्रि ॥

पोष्टा, [ष्टृ] पुं, (पुष्णातीति । पुष + तृच् ।)

पूतीकः । इति शब्दचन्द्रिका ॥ काँटाकरञ्ज
इति भाषा ॥ पोषणकर्त्तरि, त्रि ॥ (यथा, हरि-
वंशे । २५ । १७ ।
“ताभिर्धार्य्यास्त्रयो लोकाः प्रजाश्चैव चतुर्विधाः ।
पोष्टा हि भगवान् सोमो जगतो जगतीपते ! ॥”)

पोष्टृवरः, त्रि, पोषकश्रेष्ठः । पोष्टृषु वर इति

सप्तमी तत्पुरुषसमासः ॥

पोष्यः, त्रि, (पुष्यते इति । पुष + ण्यत् ।) पोष-

णीयः । पोषितव्यः । पुषधातोः कर्म्मणि यप्रत्यय-
निष्पन्नः ॥ (यथा, राधातन्त्रे चतुर्द्दशपटले ।
“नन्दगोपस्य देवेशि ! कृष्णस्तु सर्व्वदा प्रियः ।
आत्मना जायते यस्तु आत्मजः स उदाहृतः ।
पोष्यः पुत्त्र इति ख्यातो नन्दस्य वरवर्णिनि ! ॥”)

पोष्यपुत्त्रः, पुं, (पोष्यः पुत्त्रः । पोष्यत्वेनैव पुत्त्रत्वं

प्राप्त इत्यर्थः ।) पालनादिना सुतत्वप्राप्तः
यथा, ब्रह्मवैवर्त्ते गणपतिखण्डे १४ अध्याये ।
“अधुना कृत्तिकानाञ्च षण्णां तत्पोष्यपुत्त्रकः ।
तन्नाम चक्रुस्ताः प्रेम्णा कार्त्तिकश्चेति कौतु-
कात् ॥”
पृष्ठ ३/२३६
अथ तस्य व्यवस्था ।
“तत्राह मनुः ।
‘अपुत्त्रेण सुतः कार्य्यो यादृक् तादृक् प्रयत्नतः ।
पिण्डोदकक्रियाहेतोर्नामसंकीर्त्तनाय च ॥’
अत्रिश्च ।
‘अपुत्रेणैव कर्त्तव्यः पुत्त्रप्रतिनिधिः सदा ।
पिण्डोदकक्रियाहेतोर्यस्मात्तस्मात् प्रयत्नतः ॥’
शौनकः ।
‘अपुत्त्रो मृतपुत्त्रो वा पुत्त्रार्थं समुपोष्य च ॥’
इति । तेन पुत्त्रोत्पत्त्या ।
‘ज्येष्ठेन जातमात्रेण पुत्त्री भवति मानवः ।
पितॄणामनृणश्चैव स तस्माल्लब्धुमर्हति ॥’
इति मनुवचनावगत ऋणपरिहारेऽपि तत्पुत्त्र-
मरणे पिण्डोदकाद्यर्थं पुनः पुत्त्रकरणमावश्यकम् ।
अत्र पुत्त्रपदं पौत्त्रप्रपौत्त्रयोरप्युपलक्षणम् । तयो-
रपि पिण्डदातृत्ववंशकरत्वाविशेषात् । अन्यथा
सत्यपि पौत्त्रे मृतपुत्त्रस्य निर्निमित्तपुत्त्रपरि-
ग्रहापत्तिरतः पुत्त्रपौत्त्रप्रपौत्त्ररहितस्यैव पुत्त्री-
करणमवगम्यते ॥ * ॥ स्त्रिया भर्त्तुरनुज्ञया
तदधिकारः । यथाह वशिष्ठः । ‘न स्त्री पुत्त्रं
दद्यात् प्रतिगृह्णीयाद्वा अन्यत्रानुज्ञानाद्भर्त्तुः ।’
इति ॥ * ॥ प्रतिनिधिरिति स च क्षेत्रजादि-
रेकादशविधः । यथाह मनुः ।
‘क्षेत्रजादीन् सुतानेतानेकादश यथोदितान् ।
पुत्त्रप्रतिनिधीनाहुः क्रियालोपान्मनीषिणः ॥’
बृहस्पतिः ।
‘पुत्त्रास्त्रयोदश प्रोक्ता मनुना येऽनुपूर्ब्बशः ।
सन्तानकारणं तेषामौरसः पुत्त्रिका तथा ॥
आज्यं विना यथा तैलं सद्भिः प्रतिनिधीकृतम् ।
तथैकादश पुत्त्रास्तु पुत्त्रिकौरसयोर्व्विना ॥’
तत्रापि कलौ न सर्व्वेषामभ्यनुज्ञानम् ।
‘अनेकधा कृताः पुत्त्रा ऋषिभिर्यैः पुरातनैः ।
न शक्यास्तेऽधुना कर्त्तुं शक्तिहीनतया नरैः ॥’
इति वचनात् ॥
‘दत्तौरसेतरेषान्तु पुत्त्रत्वेन परिग्नहः ।’
इत्याद्यभिधाय ।
‘इमान् धर्म्मान् कलियुगे वर्ज्ज्यानाहुर्म्मनीषिणः ।’
इति दत्तकेतरप्रतिनिधिनिषेधात् ॥ * ॥ अतो
दत्तकविधिर्विविच्यते । तत्र शौनकः ।
‘ब्राह्मणनां सपिण्डेषु कर्त्तव्यः पुत्त्रसंग्रहः ।
तदभावेऽसपिण्डे वा अन्यत्र तु न कारयेत् ॥’
सपिण्डेष्विति सामान्यश्रवणात् समानासमान-
गोत्रेष्वित्यर्थः । तथा च सपिण्डाभावेऽसपिण्डः
सगोत्रस्तदभावे भिन्नगोत्रोऽपि ग्राह्य इत्याह
शाकलः ।
‘सपिण्डापत्यकञ्चैव सगोत्रजमथापि वा ।
अपुत्त्रको द्विजो यस्मात् पुत्त्रत्वे परिकल्पयेत् ॥
समानगोत्रजाभावे पालयेदन्यगोत्रजम् ।
दौहित्रं भागिनेयञ्च मातृष्वसृसुतं विना ॥’ इति
अन्यत्र तु न कारयेदिति ब्राह्मणातिरिक्त-
क्षत्त्रियादिरसमानजातीयो दत्तको व्यावर्त्त्यते ।
यदाह मनुः ।
‘माता पिता वा दद्यातां यमद्भिः पुत्त्रमापदि ।
सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्त्रिमः सुतः ॥’
आपदि पुत्त्रप्रतिग्रहीतुरपुत्त्रत्वे सदृशं सजा-
तीयं । व्यक्तमाह वृद्धयाज्ञवल्क्यः ।
‘सजातीयः सुतो ग्राह्यः पिण्डदाता स ऋक्थ-
भाक् ।
तदभावे विजातीयो वंशमात्रकरः स्मृतः ॥’
ग्रासाच्छादनमात्रन्तु स लभेत तदृक्थिन इति ।
दौहित्रं भागिनेयञ्चेति दौहित्रभागिनेयनिषेधः
शूद्रातिरिक्तविषयः । तथा च शौनकः ।
‘क्षत्त्रियाणां स्वजातौ च गुरुगोत्रसमेऽपि वा ।
वैश्यानां वैश्यजातेषु शूद्राणां शूद्रजातिषु ॥
सर्व्वेषामेव वर्णानां जातिष्वेव न चान्यतः ।
दौहित्रो भागिनेयश्च शूद्रैस्तु क्रियते सुतः ॥
ब्राह्मणादित्रये नास्ति भागिनेयः सुतः क्वचित् ॥’
जातिष्वेव न चान्यत इति नियमः सजातीय-
सम्भवे विजातीयनिषेधार्थः । अन्यथा प्रागुक्त-
कात्यायनविरोधः स्यात् ॥ * ॥ तत्रापि सन्नि-
हितसपिण्डेषु सति भ्रातृपुत्त्रे स एव पुत्त्रीकार्य्य
इत्याह मनुः ।
‘सर्व्वेषामेकजातानामेकश्चेत् पुत्त्रवान् भवेत् ।
सर्व्वे ते तेन पुत्त्रेण पुत्त्रिणो मनुरब्रवीत् ॥’
बृहस्पतिः ।
“यद्येकजाता बहवो भ्रातरश्च सहोदराः ।
एकस्यापि सुते जाते सर्व्वे ते पुत्त्रिणः स्मृताः ॥”
इति । अत्र वचनद्वयेऽपि भ्रातृसुते च पुत्त्र-
प्रतिनिधितया कथञ्चित् सम्भवत्यन्यो न प्रति
निधिः कार्य्य इत्यवगम्यते ॥ * ॥ भर्त्तृवंशमन्तरेण
चास्या वंशान्तरासम्भवेन तस्यैव स्ववंशकरत्व-
ञ्चेत् यतः समस्तस्यापि पुत्त्रप्रयोजनस्य सम्भवेन
सति सपत्नीपुत्त्रे न दत्तकाद्युपादानम् ॥ * ॥
केन पुत्त्रो देय इत्याह शौनकः ।
‘नैकपुत्त्रेण कर्त्तव्यं पुत्त्रदानं कदाचन ।
बहुपुत्त्रेण कर्त्तव्यं पुत्त्रदानं प्रयत्नतः ॥’
द्विपुत्त्रस्यापि पुत्त्रदाने अपरपुत्त्रनाशे वंश-
विच्छेदमाशङ्क्याह बहुपुत्त्रेणेति । स्त्रियास्तु
जीवति भर्त्तरि तदनुमते प्रोषिते मृते वा तद-
नुज्ञां विनापि । यथा वशिष्ठः । ‘न स्त्री पुत्त्रं
दद्यात् प्रतिगृह्णीयाद्वा अन्यत्रानुज्ञानाद्भर्त्तुः ।’
इति । अनुमतिश्चाप्रतिषेधेऽपि भवति । अप्रति-
षिद्धं परमनुमतं भवतीतिन्यायात् ॥ * ॥ निर-
पेक्षदानमाह याज्ञवल्क्यः ।
‘दद्यान्माता पिता वा यं स पुत्त्रो दत्तको भवेत् ॥’
तथा ‘मातापितृभ्यामुत्सृष्टस्तयोरन्यतरेण वेति ॥’
अथ पुत्त्रपरिग्रहविधिमाह शौनकः ।
‘शौनकोऽहं प्रवक्ष्यामि पुत्त्रसंग्रहमुत्तमम् ।
अपुत्त्रो मृतपुत्त्रो वा पुत्त्रार्थं समुपोष्य च ॥’
उपोष्य ग्रहणात् पूर्ब्बदिने कृतोपवासः । वृद्ध-
गोतमः ।
‘वाससी कुण्डले दत्त्वा उष्णीषं चाङ्गुलीयकम् ।
आचार्य्यं धर्म्मसंयुक्तं वैष्णवं वेदपारगम् ॥
मधुपर्केण संपूज्य राजानञ्च द्बिजान् शुचीन् ॥’
राज्ञो विप्रकृष्टत्वे ग्रामस्वामिनम् । ‘बन्धूनाहूय
सर्व्वांस्तु ग्रामस्वामिनमेव च । इतिस्मरणात् ।
द्विजानिति बहुत्वं त्रित्वपर्य्यवसितं कपिञ्जल-
न्यायात् ।
‘वर्हिः कुशमयञ्चैव पालाशञ्चेध्ममेव च ।
एतानाहृत्य बन्धूंश्च ज्ञातीनाहूय यत्नतः ॥
बन्धूनन्नेन सम्भोज्य ब्राह्मणांश्च विशेषतः ।
अग्न्याधानादिकं तत्र कृत्वाज्योत्पवनान्तकम् ॥
दातुः समक्षं गत्वा च पुत्त्रं देहीति याचयेत् ।
दाने समर्थो दातास्मै यो यज्ञेनेति पञ्चभिः ॥’
दद्यादिति शेषः । बन्धून् आत्ममातृपितृबन्धून् ।
ज्ञातीन् सपिण्डान् । तथा ।
‘देवस्यत्वेतिमन्त्रेण हस्ताभ्यां परिगृह्य च ।
अङ्गादङ्गेत्यृचं जप्त्वा आघ्राय शिशुमूर्द्धनि ।
वस्त्रादिभिरलङ्कृत्य पुत्त्रच्छायावहं सुतम् ॥’
पुत्त्रच्छाया पुत्त्रसादृश्यं नियोगादिना स्वयमुत्-
पादनयोग्यवमिति यावत् । तथा ।
‘नृत्यगीतैश्च वाद्यैश्च स्वस्तिशब्दैश्च संयुतम् ।
गृहमध्ये तमाधाय चरुं कृत्वा विधानतः ॥
यस्त्वाहृतेत्यृचा चैव तुभ्यमग्ने त्यृचैकया ॥
सोमो दददित्येताभिः प्रत्यचं पञ्चभिस्तथेति ।’
वृद्धगौतमः ।
‘पायसं तत्र साज्यञ्च शतसंख्यञ्च होमयेत् ।
प्रजापते न त्वदेतानित्युद्दिश्य प्रजापतिम् ॥’
इति ॥
वशिष्ठः । ‘पुत्त्रं प्रतिगृहीष्यन् बन्धूनाहूय राजनि
निवेद्य निवेशनस्य मध्ये व्याहृतिभिर्हुत्वा अदूर-
बान्धवं बन्धुसन्निकृष्टमेव गृह्णीयात् । सन्देहे
चोत्पन्ने दूरबान्धवं शूद्रमिव स्थापयेत् । विज्ञा-
यते ह्येकेन बहूं स्त्रायत इति ।’ निवेशनं गृहम् ।
सन्देह इति दूरावस्थितबान्धवस्यात्यन्तदेश-
भाषाविप्रकर्षादिना कुलशीलादिसन्देहो भव-
त्येव तथात्वे निर्णयपर्य्यन्तं न व्यवहरेत् तत्र
हेतुरेकेनेति । बन्धून् पित्रादीन् । एतदन्यतर-
विधिरावश्यकः ॥ * ॥ ततश्च शौनकः ।
‘दक्षिणां गुरवे दद्याद्यथाशक्ति द्विजोत्तमः ।
नृपो राज्यार्द्धमेवाथ वैश्यो वित्तशतत्रयम् ।
शूद्रः सर्व्वस्वमेवापि अशक्तश्चेद्यथाबलम् ॥’
राज्यार्द्धमर्द्धराज्योत्पन्नमेकवर्षीयद्रव्यम् । प्रद-
द्यादर्द्धराज्योत्थमेकवर्षाहृतं धनमिति वृद्धगौतम-
स्मरणात् । उत्तममध्यमाधमभेदेन वित्तानां
सुवर्णरजतताम्राणामिति ज्ञेयम् ।
‘शतत्रयं नाणकानां सौवर्णमथ राजतम् ।
प्रदद्यात्ताम्रमथवा उत्तमादिव्यवस्थया ॥’
इति वृद्धगौतमस्मरणात् ॥
सर्व्वस्वमेकवर्षभृतिलब्धमिति यावत् ॥ * ॥
तैत्तिरीयाणान्तु विधिविशेषमाह बौधायनः ।
अथ पुत्त्रपरिग्रहविधिं व्याख्यास्यामः । प्रति-
ग्रहीष्यन्नुपकल्पयते द्वे वाससी द्वे कुण्डले अङ्गु-
लीयकमाचार्य्यञ्च वेदपारगं कुशमयं वर्हिः-
पर्णमयमिध्ममित्यथ बन्धूनाहूय निवेशनस्य मध्ये
राजनि निवेद्य परिषदि वागारमध्ये ब्राह्मणं
पृष्ठ ३/२३७
वागालम्भेन उपवेश्य पुण्याहस्वस्तिऋद्धिमिति
वाचयित्वा यद्देवयजनोल्लेखप्रभृति आप्रणी-
ताभ्यः कृत्वा दातुः समक्षं गत्वा मे पुत्त्रं देहीति
भेक्षेत् ददानीतीतर आह तं परिगृह्णीत
धर्म्माय त्वा परिगृह्णामि सन्तत्यै त्वा परिगृह्णा-
मीत्यथैनं वस्त्रकुण्डलादिभिरलङ्कृत्य परिधान-
प्रभृत्यग्निमुखं कृत्वा पक्त्वा जुहोति यस्त्वा हृदा
कीरिणा मन्यमान इति पुरोऽनुवाक्यमनुद्य
यस्यैवं सुकृते जातवेद इति याज्यया जुहोति
अथ व्याहृतिभिर्हुत्वा स्विष्टिकृत्प्रभृति सिद्ध-
माधेनुवरप्रदानात् दक्षिणां ददात्येते च वाससी
एते कुण्डले एतच्चाङ्गुरीयकमेवं त्वौरस उत्प-
द्यते तुरीयभागे सम्भवतीति आहस्म बौधायन
इति ॥ * ॥ एवमुक्तविध्यभावे परिगृहीतस्य
तु विवाहोचितधनमात्रभागित्वं न त्वंशभागि-
त्वमित्यग्रे वक्ष्यते । तथा च मनुः ।
‘गोत्रऋक्थे जनयितुर्न हरेद्दत्त्रिमः सुतः ।
गोत्रऋक्थानुगः पिण्डो व्यपैति ददतः स्वधेति ॥’
एतेन दातृधने दानादेव पुत्त्रत्वनिवृत्तिद्वारा
दत्त्रिमस्य स्वत्वनिवृत्तिर्द्दातृगोत्रनिवृत्तिश्च भव-
तीत्युच्यते । तथा च गोत्रादिनिवृत्तेरेव दर्शनात्
संस्कुर्य्यात् स्वसुतान् पितेति स्मरणात् ग्रहणा-
नन्तरसम्भाव्यमाना एव दत्तकस्य संस्काराः
प्रतिग्रहीत्रा कार्य्या न पुनर्जनकेन कृतपूर्ब्बा
अपि निवर्त्तनीयाः ॥ * ॥ यदि च तत्पूर्ब्ब-
भाविनोऽपि संस्कारा जनकेन न कृतास्तदा
बीजगर्भदोषनाशावश्यकत्वेन क्रमानुरोधेन च
प्रतिग्रहीत्रैव ते समाधेयाः ॥ * ॥ एवमुप-
नयनमात्रकरणेऽपि प्रतिग्रहीतुर्दत्तकपुत्त्रसिद्धिः ।
‘अन्यशाखोद्भवो दत्तः पुत्त्रश्चैवोपनायितः ।
स्वगोत्रेण स्वशाखोक्तविधिना स स्वशाखभाक् ॥’
इति वशिष्ठस्मरणात् ॥
एतच्चाष्टमाब्दरूपतन्मुख्यकालाभ्यन्तरवर्त्ति-
परिग्रहे बोध्यम् । अन्यथा मुख्यकाले अधिकार-
योग्यत्वाभावे गौणकाले अनधिकारान्न तत्सिद्धि-
रिति ॥ * ॥ अत्र च जनकप्रतिग्रहीत्रोरुभयो-
रपि पुत्त्राभिसन्धाने सति दत्तकस्य द्व्यामुष्या-
यणत्वेनोभयगोत्रभागित्वं विशेषतो वक्ष्यते ।
‘चूडाद्या यदि संस्कारा निजगोत्रेण वै कृताः ।
दत्ताद्यास्तनयास्ते स्युरन्यथा दास उच्यते ॥’
एवञ्च चूडाद्या इत्यतद्गुणसंविज्ञानबहु-
ब्रीहिणा द्विजातीनामुपनयनलाभः शूद्रस्य
विवाहलाभः ॥ * ॥ तथा पैठीनसिः । अथ
दत्तकक्रीतकृत्रिमपुत्त्रिकापुत्त्राः परपरिग्रहेणा-
र्षेण येऽत्र जातास्तेऽसङ्गतकुलीना द्व्यामुष्या-
यणा भवन्तीति । आर्षेण ऋष्युक्तेन परि-
ग्रहेण । जनकग्रहीत्रोः स्वीकारेण द्व्यासुष्या-
यणा भवन्तीत्यर्थः ॥ * ॥ अथ तत्कर्त्तृक-
श्राद्धनिर्णयः । तत्र पितुः सपिण्डीकरणान्त-
षोडशश्राद्धे दत्तकस्य पूर्ब्बगृहीतत्वेऽपि सत्यौ-
रसे नाधिकारः । औरसे पुनरुत्पन्ने तेषु ज्यैष्ठं
न विद्यते । इति देवलेन ज्येष्ठत्वप्रतिषेधात् ।
‘पिण्डदोऽशहरश्चैषां पूर्ब्बाभावे परः परः ।’
इति याज्ञवल्क्यवचनाच्च । अन्यत्र सर्व्वत्रौरस-
वत् । क्षयाहे तु विशेषो यथा जातूकर्णः ।
‘औरसक्षेत्रजौ पुत्त्रौ विधिना पार्व्वणेन तु ।
प्रत्यब्दमितरे कुर्य्युरेकोद्दिष्टं सुता दश ॥’
इतरे दत्तकादयः ॥ * ॥ अथ दत्तकाशौचादि-
निर्णयः । तत्र शुद्धदत्तकस्य तु जनककुले पर-
स्परमशौचं नास्त्येव गोत्रनिवृत्त्याशौचनिवृत्ते-
रर्थसिद्धव्वात् । द्व्यामुष्यायणस्य तु उभयत्रैवा-
शौचमिति । ब्रह्मपुराणे ।
‘दत्तकश्च स्वयं दत्तः कृत्रिमः क्रीत एव च ।
अपविद्धाश्च ये पुत्त्रा भरणीयाः सदैव ते ॥
भिन्नगोत्राः पृथक्पिण्डाः पृथग्वंशकराः
स्मृताः ।
जनने मरणे चैव त्र्यहाशौचस्य भागिनः ॥’
पराशरः ।
‘भिन्नगोत्रः सगोत्रो वा नीतः संस्कृत्य चेच्छया ।
जनने मरणे तस्य त्र्यहाशौचं विधीयते ॥’
तथा ।
‘औरसं वर्जयित्वा च सर्व्ववर्णेषु सर्व्वदा ।
क्षेत्रजादिषु पुत्त्रेषु जातेषु च मृतेषु च ।
अशौचन्तु त्रिरात्रं स्यात् समानमिति निश्चयः ॥’
अथ दत्तकविभागः । मनुः ।
‘पुत्त्रान् द्वादश यानाह नृणां स्वायम्भुवो मनुः ।
तेषां षड्बन्धुदायादाः षडदायादबान्धवाः ॥
औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च ।
गूढोत्पन्नोऽपबिद्धश्च दायादा बान्धवास्तु षट् ॥
कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा ।
स्वयं दत्तश्च शौद्रश्च षडदायादबान्धवाः ॥’
बौधायनः ।
‘औरसं पुत्त्रिकापुत्त्रं क्षेत्रजं दत्तकृत्रिमौ ।
गूढञ्चैवापविद्धञ्च रिक्थभाजः प्रचक्षते ॥
कानीनञ्च सहोढञ्च क्रीतं पौनर्भवन्तथा ।
स्वयं दत्तं निषादञ्च गोत्रभाजः प्रचक्षते ॥’
औरस पुत्त्रिकापुत्त्र-क्षेत्रज-कानीन-गूढोत्पन्ना-
पविद्ध-सहोढ-पौनर्भव-दत्तक-स्वयमुपागत-
कृतक-क्रीतानभिधाय देवलः ।
‘एते द्वादश पुत्त्रास्तु सन्तत्यर्थमुदाहृताः ।
आत्मजाः परजाश्चैव लब्धा यादृच्छिकास्तथा ॥
तेषां षड्बन्धुदायादाः पूर्ब्बेऽन्ये पितुरेव षट् ।
विशेषं वापि पुत्त्राणामानुपूर्ब्बी विशिष्यते ॥
सर्व्वे ह्यनौरसस्यैते पुत्त्रा दायहराः स्मृताः ।
औरसे पुनरुत्पन्ने तेषु ज्यैष्ठं न विद्यते ॥
तेषां सवर्णा ये पुत्त्रास्ते तृतीयांशभागिनः ।
हीनास्तमुपजीवेयुर्ग्रासाच्छादनसम्भृताः ॥’ * ॥
वशिष्ठः । तस्मिंश्चेत् प्रतिगृहीते औरस उत्-
पद्यते स चतुर्थभागभागी यदि नाभ्युदयिकेषु
प्रथुक्तं स्यात् । स प्रतिगृहीतपुत्त्रः आभ्युदयि-
केषु यज्ञादिषु यदि औरसेन प्रयुक्तं न स्यात्
प्रभूतं धनमिति शेषः । अतश्च दत्तकग्रहणा-
नन्तरमौरसोत्पत्तौ तदौरसचतुर्थांशविधिर्वशि-
ष्ठोक्तो दत्तकविषयो ज्ञेयः । तथा देवलकात्या-
यनवचने तृतीयांशग्रहणविधिरित्युत्कृष्टगुण-
दत्तकविषयो वाच्यः ।
‘उपपन्नो गुणैः सर्व्वैः पुत्त्रो यस्य हि दत्त्रिमः ।
स हरेतैव तदृकथं सम्प्राप्तोऽप्यन्यगोत्रतः ॥’
इति मनुवचनैकवाक्यत्वात् । गुणैर्जातिविद्या-
चारैः । तथा केनापि मुनिना दत्तकस्य बन्धु-
दायादत्वमन्येन चादायादत्वमुक्तं तत् गुणवद-
गुणवद्भेदेन समाधेयं एवं दत्तकस्य धनग्रहणादौ
मुनिभेदेन पूर्ब्बापरोक्तिवैषम्यं गुणागुणविवेके-
नापास्तं एतेनौरसस्य भ्रात्रादिधने येनैव भ्रातृ-
त्वादिना सम्बन्धेन अधिकारित्वं तादृशेनैव
सम्बन्धेन तादृशदत्तकस्यापि यथासम्भवमुचि-
तांशभागित्वमवघेयम् । एवं धनिनः पुत्त्रान्तर-
सत्त्वे मृतपितृकदत्तकपौत्त्रस्यापि दत्तको-
चितांशभागित्वम् । तदसत्त्वे सर्व्वहरत्वमपीति ।
न च पौत्त्रस्य स्वपितृयोग्यांशभागित्वं नियमात्
दत्तकग्रहीतुः पितामहौरससत्त्वे तादृशपितृव्य-
तुल्यस्यैवांशस्य तद्योग्यत्वात् दत्तकपौत्त्रः
पितृव्यतुल्यमेवांशं लभतामिति वाच्यम् । पुत्त्र-
कस्य दत्तकत्वे चतुर्थांशः पौत्त्रस्य तु तथात्वे
समानांश इति वैषम्यात् । ततश्च स्वसमान-
रूपस्य पितुर्यादृशांशः शास्त्रसिद्धस्तस्यैव
स्वपितृयोग्यांशतेति यथोक्तमेव साधु । एवं
रीतिः प्रपौत्त्रेऽप्यनुस्मर्त्तव्येति ॥ * ॥
‘औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च ।
गूडोत्पन्नोऽपविद्धश्च भागार्हास्तनया इमे ॥
कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा ।
स्वयंदत्तश्च दासश्च षडिमे पुत्त्रपांसनाः ॥
अभावे पूर्ब्बपूर्ब्बेषां परान् समभिषेचयेत् ।
पौनर्भवं स्वयंदत्तं दासं राज्ये न योजयेत् ॥’
तथा ।
‘न क्षेत्रजादींस्तनयान् राजा राज्येऽभिषेचयेत् ।
पितॄणां शोधयेन्नित्यमौरसे तनये सति ॥’ इति ।
एतावता प्रबन्धेनाभिहितो योऽयं क्षेत्रजदत्त-
कादीनामौरसेन सह विभागप्रकारः स तु
शूद्रस्य न सम्भवति तस्य तु ।
‘दास्यां वा दासदास्यां वा यः शूद्रस्य सुतो
भवेत् ।
सोऽनुज्ञातो हरेदंशमिति धर्म्मो व्यवस्थितः ॥’
इति मनुवचनेन जातोऽपि दास्यां शूद्रेण
कामतोऽशहरो भवेत् ।
‘मृते पितरि कुर्य्युस्तं भ्रातरस्त्वर्द्धभागिनम् ।
अभ्रातृको हरेत् सर्व्वं दुहितणां सुतादृते ॥’
इति याज्ञवल्क्येन च दासीपुत्त्रस्याप्यौरसेन
समांशाभिधानेन पितुरनन्तरं भ्रातृरहितस्य
तस्यैव दौहित्रेण सह विभागदर्शनेन च दण्डा-
पूपायितं सति पितरि क्षेत्रजदत्तकादीना-
मौरसेन समांशोऽसति तु तदर्द्धांशः अन्यशा यत्र
च क्षत्रजदत्तकादीनामौरसचतुर्थांशित्वं तत्र
तदपेक्षया अत्यन्तविप्रकृष्टाधिकारस्य दासी-
पुत्त्रस्यौरससमांशित्वमिति महद्वैषम्यं स्यात्
एवं सत्सु क्षेत्रजादिषु सम्नोश्च पत्नीकन्ययो-
पृष्ठ ३/२३८
र्दौहित्राधिकारे कॢप्ताधिकारविधिवाधापत्ति-
स्तेन दौहित्रपर्य्यन्ताधिकारिशृङ्खलायां तदेक-
तमे सत्यपि न दासीपुत्त्रस्य सर्व्वहरत्वं किन्तु
तत्समांशः । अतएव ।
‘दत्तपुत्त्रे यथा जाते कदाचित्त्वौरसो भवेत् ।
पितुर्वित्तस्य सर्व्वस्य भवेतां समभागिनौ ॥’
इत्यपि वचनं शूद्रविषय एव योजनीयम् ॥ * ॥
अथान्धपङ्गुप्रभृतिपुत्त्राणां धनानधिकारितया
तदौरसक्षेत्रजयोरेव पितामहधनभागित्वश्रुतेर्न
तद्गृहीतदत्तकपुत्त्रादेः पितामहधनाधिकारः
किन्तु भरणमात्रं अन्धादिभार्य्याणां भरणविधा-
नेन तद्भरणस्य दण्डापूपायितत्वात् । तथा अन्ध-
पङ्ग्वादीननधिकारिपुत्त्रानभिधायाह ।
‘औरसक्षेत्रजास्त्वेषां निर्द्दोषा भागहारिणः ।
अपुत्त्रयोषितश्चैषां भर्त्तव्याः साधुवृत्तयः ॥
सुताश्चैषां प्रभर्त्तव्या यावन्न भर्त्तृसात् कृताः ॥’
एवं दत्तकग्रहणानन्तरोत्पन्नौरसेन सह दत्त-
कस्य विभागदर्शनात् सत्यौरसे गृहीतस्य तु
नांशभागित्वमिति । तथा विधानं विना परि-
गृहीतस्यापि नांशभागित्वमित्याह ।
‘तस्मिन् जाते सुते दत्ते न कृते च विधानके ।
तत्सुतस्तस्य वित्तस्य यः स्वामी पितुरञ्जसा ॥’
मनुः ।
‘अविधाय विधानं यः परिगृह्णाति पुत्त्रकम् ।
विवाहविधिभाजं तं न कुर्य्याद्धनभाजनम् ॥’
इति ।
अन्यजातीयदत्तकस्यापि नांशभागित्वमित्याह
‘यदि स्यादन्यजातीयो गृहीतोऽपि सुतः क्वचित् ।
अंशभाजं न तं कुर्य्यात् शौनकस्य मतं हि तत् ॥’
इत्युक्तप्रायमित्यास्तां विस्तारः ॥” इति दत्तक-
चन्द्रिका ॥

पोष्यवर्गः, पुं, (पोष्याणां प्रतिपालनीयानां वर्गः ।)

प्रतिपालनीयगणः । स तु मात्रादिः । यथा, --
“माता पिता गुरुः पत्नी त्वपत्यानि समाश्रिताः ।
अभ्यागतोऽतिथिश्चाग्निः पोष्यवर्गा अमी नव ॥”
इति काशीखण्डम् ॥
अपि च ।
“माता पिता गुरुर्भ्राता प्रजा दीनः समाश्रिताः ।
अभ्यागतोऽतिथिश्चाग्निः पोष्यवर्ग उदाहृतः ॥
भरणं पोष्यवर्गस्य प्रशस्तं स्वर्गसाधनम् ।
नरकं पीडने चास्य तस्माद्यत्नेन तं भरेत् ॥”
इति गारुडे २१५ अध्यायः ॥

पौसवनं, क्ली, (पुंसवनमेव । स्वार्थे अण् ।) पुंस-

वनसंस्कारः । इति भूरिप्रयोगः ॥

पौंस्रं, क्ली, (पुंस इदम् । पुंस् + “स्त्रीपुंसाभ्यां

नञ्स्रञौ भवनात् ।” ४ । १ । ८७ । इति
स्रञ् ।) पुंस्त्वम् । इति शब्दमाला ॥ (धैर्य्यम् ।
यथा, भागवते । ४ । २६ । २६ ।
“का देवरं वशगतं कुसुमास्त्रवेग-
विस्रस्त पौंस्नमुशती न भजेत कृत्ये ॥”
त्रि, पुंसु भवः । पुंस आगतः । यथा, भाग-
वते । ३ । १५ । ४५ ।
“पौंस्नं वपुर्द्दर्शयानमनन्यसिद्धै-
रौत्पत्तिकैः समगृणन् युतमष्टभोगैः ॥”
स्त्रियां ङीप् । पुरुषयोग्या । पुरुषहिता । यथा,
भट्टिः । ५ । ९१ ।
“सङ्गच्छ पौंस्नि ! स्त्रैणं मां युवानं तरुणी शुभे ॥”)

पौगण्डं, क्ली, (पोगण्डस्य भावः । पोगण्ड +

अण् ।) अवस्थाविशेषः । यथा, --
“कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि ।
कैशोरमापञ्चदशात् यौवनञ्च ततः परम् ॥”
इतिदशमस्कन्धीयद्वादशाध्यायस्थसप्तत्रिंशश्लोक-
टीकायां श्रीधरस्वामिधृतवचनम् ॥ (पोगण्डा-
वस्थावति तदवस्थासम्बन्धिनि च त्रि । यथा,
भागवते । ३ । ३१ । २८ ।
“इत्येवं शैशवं भुक्त्वा दुःखं पौगण्डमेव च ॥”)

पौण्डरीकं, क्ली, (पुण्डरीकमिव । पुण्डरीक +

“शर्करादिभ्योऽण् ।” ५ । ३ । १०७ । इत्यण् ।)
प्रपौण्डरीकम् । इति राजनिर्घण्टः ॥ (कुष्ठ-
विशेषः । यथा, सुश्रुते निदानस्थाने ५ अध्याये ।
“तत्र वातेनारुणं पित्तेनौडुम्बर्य्यजिह्वकपाल-
काकणकानि । श्लेष्मणा पौण्डरीकं दद्रुकुष्ठ-
ञ्चेति ॥” पुं, यज्ञविशेषः । यथा, महा-
भारते । १३ । १०७ । ३६-३७ ।
“यस्तु संवत्मरं क्षान्तो भुड्क्ते ऽहन्यष्टमे नरः ।
देवकार्य्यपरो नित्यं जुह्वानो जातवेदसम् ॥
पौण्डरीकस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ।
पद्मवर्णनिभञ्चैव विमानमधिरोहति ॥”)

पौण्डर्य्यं, क्ली, (पुण्डर्य्यमेव । स्वार्थे अण् ।) पुण्ड-

र्य्यम् । इत्यमरटीकायां भरतः ॥ (यथास्य
पर्य्यायो गुणाश्च ।
“प्रपौण्डरीकं पौण्डर्य्यं चक्षुष्यं पौण्डरीयकम् ।
पौण्डर्य्यं मधुरं तिक्तं कषायं शुक्रलं हिमम् ।
चक्षुष्यं मधुरं पाके वर्ण्यं पित्तकफप्रणुत् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

पौण्ड्रः, पुं, देशभेदः । चन्देल इति ख्यातः । इति

शब्दरत्नावली ॥ (सोऽस्य अभिजनस्तस्य राजा
वा । अण् । तद्देशनृपः । यथा, हरिवंशे ।
“पाण्ड्यं पौण्ड्रं कलिङ्गञ्च मात्स्यञ्चैव जनार्द्दनः ।
जघान सहितान् सर्व्वान् -- ॥”
पौण्ड्रदेशोद्भवे, पुंभूम्नि । यथा, हरिवंशे ।
११६ । ५२ ।
“अङ्गवङ्गकलिङ्गैश्च सार्द्धं पौण्ड्रैश्च वीर्य्यवान् ।
निर्य्ययौ चेदिराजस्तु भ्रातृभिः स महारथैः ॥”)
भीमसेनस्य शङ्खः । यथा, --
“पौण्ड्रं दध्मौ महाशङ्खं भीमकर्म्मा वृकोदरः ॥”
इति श्रीभगवद्गीतायाम् । १ । १५ ॥
(पुडि खण्डने + “स्फायितञ्चीति ।” उणा० २ ।
१३ । इति रक् । ततःप्रज्ञाद्यण् ।) इक्षुभेदः ।
इति रत्नमाला ॥ पुँडि इति भाषा ॥

पौण्ड्रकः, पुं, (पौण्ड्र एव । स्वार्थे कन् ।) इक्षु-

भेदः । पुँडि आक् इति भाषा । (यथा, --
“पौण्ड्रको भीरुकश्चैव वंशकः शतपोरकः ।
कातारस्तापसेक्षुश्च काष्ठेक्षुः सूचिपत्रकः ॥
नैपालो दीर्घपत्रश्च नीलपोरोऽथ कोशकृत् ।
इत्येता जातयः स्थौल्याद्गुणान् वक्ष्याम्यतः-
परम् ॥”
इति सुश्रुते सूत्रस्थाने १५ अध्याये ॥)
अस्य गुणाः । शीतलत्वम् । वृष्यत्वम् । स्निग्ध-
त्वम् । मधुरत्वम् । बृहणत्वञ्च । इति राजवल्लभः ॥
(गुणान्तरमस्य यथा, --
“वातपित्तप्रशमनो मधुरो रसपाकयोः ।
सुशीतो बृंहणो बल्यः पौण्ड्रको भीरुकस्तथा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥
पौण्ड्रदेशीयनृपः । यथा, महाभारते । २ । ३४ । १० ।
“पौण्ड्रको वासुदेवश्च वङ्गः कालिङ्गकस्तथा ॥”)
जातिविशेषः । पुँडो इति भाषा । स च शौण्डि-
कायां वैश्याज्जातः । इति ब्रह्मवैवर्त्तपुराणम् ॥
(पौण्ड्रदेशोद्भवक्षत्त्रियविशेषः । स तु क्रियालोपा-
दिना शूद्रत्वमापन्नः । यथा, मनुः । १० । ४४ ।
“पौण्ड्रकाश्चौड्रद्रविडाः काम्बोजा जवनाः
शकाः ॥”)

पौण्ड्रवर्द्धनः, पुं, (पौण्ड्राणामिक्षुविशेषाणां वर्द्धनं

यत्र ।) देशभेदः । इति शब्दरत्नावली ॥
वेहार इति ख्यातः ॥ (यथा, कथासरित्सागरे ।
१९ । १७ ।
“अभवत्तस्य भार्य्या च नगरात् पौण्ड्रवर्द्धनात् ॥”)

पौण्ड्रिकः, पुं, (पुण्ड्र + स्वार्थे ठञ् ।) इक्षुभेदः ।

पुँडि इति भाषा । तत्पर्य्यायः । पुण्ड्रेक्षुः २
पुण्ड्रः ३ सेव्यः ४ अतिरसः ५ मधुः ६ । इति
शब्दमाला ॥

पौतवं, क्ली, परिमाणम् । इति यौतवशब्दटीकायां

भरतः ॥

पौत्तिकं, क्ली, (पुत्तिकाभिर्मधुमक्षिकाविशेषैः

कृतम् । पुत्तिका + “संज्ञायाम् ।” ४ । ३ ।
११७ । इति ठन् ।) पिङ्गलवर्णपुत्तिकाख्यबृह-
न्मक्षिकाहृतघृतवर्णमधु । इति जटाधररत्न-
माले ॥ (यथा, सुश्रुते । १ । ४५ ।
“पौत्तिकं भ्रामरं क्षौद्रं माक्षिकं छात्रमेव च ।
आर्घ्यमौद्दालिकं दालमित्यष्टौ मधुजातयः ॥”)

पौ(त्र)त्त्रः, पुं, (पुत्त्रस्यापत्यम् । पुत्त्र + “अनृष्या-

नन्तर्य्ये विदादिभ्योऽञ् ।” ४ । १ । १०४ । इति
अञ् ।) पुत्त्रस्य पुत्त्रः । नाति इति भाषा ॥
तत्पर्य्यायः । नप्ता २ । इति हेमचन्द्रः ॥ यथा, --
“पुत्त्रेण लोकाञ्जयति पौत्त्रेणानन्त्यमश्नुते ।
अथ पुत्त्रस्य पौत्त्रेण व्रध्नस्याप्नोति पिष्टपम् ॥”
इति दायभागधृतमनुशङ्खलिखितवशिष्ठहारीत-
वचनम् ॥

पौत्त्री, स्त्री, (पुत्त्रस्यापत्यं स्त्री । पुत्त्र + अञ् ।

ङीप् ।) पुत्त्रात्मजा । तत्पपर्य्यायः । नप्त्री २ ।
इत्यमरः । २ । ६ । २९ ॥

पौनःपुनिकः, त्रि, (पुनः पुनर्भवः । पुनःपुनः +

ठञ् । टिलोपः ।) पुनःपुनर्भवः । इति मुग्ध-
बोधव्याकरणम् ॥

पौनःपुन्यं, व्य, (पुनःपुनः + स्वार्थे व्यञ् । टिलोपः ।

पुनर्व्वारम् । तत्पपर्य्यायः । वारवारम् २ मुहुः ३
पृष्ठ ३/२३९
शश्वत् ४ असकृत् ५ पुनःपुनः ६ वारंवारेण
७ अभीक्ष्णम् ८ प्रतिक्षणम् ९ । इति शब्द-
रत्नावली ॥

पौनर्भवः, पुं, (पुनर्भुवोऽपत्यमिति । पुनर्भू +

“अनृष्यानन्तर्य्ये विदादिभ्योऽञ् ।” ४ । १ ।
१०४ । इति अञ् ।) द्वादशविधपुत्त्रान्तर्गत-
पुत्त्रविशेषः । इति जटाधरः ॥ पुनर्भूपुत्त्रः ।
स तु भर्त्तृपरित्यक्तविधवयोरन्येनोत्पादितः ।
तस्य लक्षणं यथा, --
“वा पत्या वा परित्यक्ता विधवा वा स्वयेच्छया ।
उत्पादयेत् पुनर्भूत्वा स पौनर्भव उच्यते ॥”
इति मानवे । ९ । १७५ ॥
“येति । या भर्त्त्रा परित्यक्ता मृतभर्त्तृका वा
स्वेच्छया अन्यस्य पुनर्भार्य्या भूत्वा यमुत्पादयेत्
स उत्पादकस्य पौनर्भवः पुत्त्र उच्यते ।” इति
तट्टीकायां कुल्लूकभट्टः ॥ * ॥ भर्त्तृविशेषः ।
अक्षतयोन्योर्भर्त्तृपरित्यक्तविधवयोः पौनर्भवेन
भर्त्त्रा सह विवाहविधिः एवं कौमारं पति-
मुत्सृज्यान्यमाश्रित्यपुनरागतायास्तेन कौमा-
रेण भर्त्त्रा सह विवाहविधिर्यथा, --
“सा चेदक्षतयोनिः स्याद्गतप्रत्यागतापि वा ।
पौनर्भवेन भर्त्त्रा सा पुनः संस्कारमर्हति ॥”
इति मानवे । ९ । १७६ ॥
“सा चेदिति । सा स्त्री यद्यक्षतयोनिः सती
अन्यमाश्रयेत्तदा तेन पौनर्भवेन भर्त्त्रा पुनर्व्विवा-
हाख्यं संस्कारमर्हति । यद्वा कौमारं पतिमुत्-
सृज्यान्यमाश्रित्य पुनस्तमेव प्रत्यागता भवति
तदा तेन कौमारेण भर्त्त्रा पुनर्व्विवाहाख्यं
संस्कारमर्हति ।” इति तट्टीकायां कुल्लूकभट्टः ॥ * ॥
कन्याविशेषे, स्त्री । सप्तविधपौनर्भवाः कन्या
वर्ज्जनीयाः । यथा, --
“सप्त पौनर्भवाः कन्या वर्ज्जनीयाः कुलाधमाः ।
वाचा दत्ता मनोदत्ता कृतकौतुकमङ्गला ॥
उदकस्पर्शिता या च या च पाणिगृहीतिका ।
अग्निं परिगता या च पुनर्भूप्रभवा च या ।
इत्येताः काश्यपेनोक्ता दहन्ति कुलमग्निवत् ॥
कृतकौतुकमङ्गला बद्धकङ्कणा । उदकस्पर्शिता
उदकपूर्ब्बं दत्तेति रत्नाकरः ।” इत्युद्वाह-
तत्त्वम् ॥

पौरं, क्ली, (पुरे भवम् । पुर + “तत्र भवः ।” ४ ।

३ । ५३ । इत्यण् ।) रोहिषतृणम् । इत्यमरः ।
२ । ४ । १६६ ॥ रामकर्पूर इति ख्यातम् ॥
(अस्य पर्य्यायो यथा, --
“कत्तृणं रौहिषं देवजग्धं सौगन्धिकन्तथा ।
भूतीकं व्यासपौरञ्च श्यामकं धूमगन्धिकम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
पुरोद्भूते, त्रि । इति मेदिनी ॥ (यथा, रघुः । ६ । ८५ ।
“इति समगुणयोगप्रीतयस्तत्र पौराः
श्रवणकटु नृपाणामेकवाक्यं विवव्रुः ॥”
पुं, पुरुराजपुत्त्रः । यथा, ऋग्वेदे । ८ । ३ । १२ ।
“शग्धी नो अस्य बद्ध पौरमाविथ धिय इन्द्र
सिषासतः ॥”
पूरः पूरक एव । स्वार्थे अण् । उदरपूरके,
त्रि । यथा, तत्रैव । २ । ११ । ११ ।
“पृणन्तस्ते कुक्षी वर्द्धयन्त्वित्था सुतः पौर इन्द्र-
माव ॥”)

पौरकः, पुं, (पौर इव कायतीति । कै + कः ।)

गृहबाह्योपवनम् । यथा, --
“निष्कुटस्तु गृहारामो बाह्यारामस्तु पौरकः ॥”
इति हेमचन्द्रः । ४ । १७८ ॥

पौरवः, पुं, (पुरोरपत्यमिति । पुरु + अण् ।)

पुरुवंशः । यथा, --
“द्रुह्योस्तु तनया भोजा अनोस्तु म्नेच्छजातयः ।
पुरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव ! ॥”
इति मात्स्ये ३४ अध्यायः ॥
(देशविशेषः । यथा, मार्कण्डेये । ५८ । ५२ ।
“त्रिनेत्राः पौरवाश्चैव गन्धर्व्वाश्च द्विजोत्तम ! ।
पूर्ब्बोत्तरन्तु कूर्म्मस्य पादमेते समाश्रिताः ॥”
पुरुवंशीये, त्रि ॥ (यथा, शकुन्तलायां प्रथमे
अङ्के ।
“कः पौरवे वसुमतीं शासति शासितरि
दुर्विनीतानाम् ।
अयमाचरत्यविनयं मुग्धासु तपस्विकन्यकासु ॥”)

पौरस्त्यः, त्रि, (पुरो भवः । पुरस् + “दक्षिणा-

पश्चात्पुरसस्त्यक् ।” ४ । २ । ९८ । इति
त्यक् ।) प्रथमः । इत्यमरः । ३ । १ । ८० ॥
(पूर्ब्बदिग्भवः । यथा, रघुः । ४ । ३४ ।
“पौरस्त्यानेवमाक्रामन् तान् तान् जनपदान्
जयी ॥”)

पौराणिकः, त्रि, (पुराणमधीते वेद वा । पुराण +

“आख्यानाख्यायिकेतिहासपुराणेभ्यश्च ।” ४ ।
२ । ६० । इत्यस्य वार्त्तिकोक्त्या ठक् ।)
पुराणवेत्ता । इति सिद्धान्तकौमुदी ॥ (यथा,
महामारते । १ । ४ । १ । “लोमहर्षणपुत्त्र
उग्रश्रवाः सौतिः पौराणिको शौनकस्य कुलपते-
र्द्वादशवार्षिके सत्रे ऋषीनभ्यागतानुपतस्थे ॥”
यथा च भागवते । १२ । ७ । ५ ।
“त्रय्यारुणिः कश्यपश्च सावर्णिरकृतव्रणः ।
वैशम्पायनहारीतौ षड्वै पौराणिका इमे ॥”)

पौरुषं, क्ली, (पुरुष + अण् ।) पुरुषस्य भावः ।

पुरुषस्य कर्म्म । पुरुषस्य तेजः । इति मेदिनी ॥
“क्लीवा हि दैवमेवैकं प्रशंसन्ति न पौरुषम् ।
दैवं पुरुषकारेण घ्नन्ति शूराः सदोद्यमाः ॥”
इत्यग्निपुराणम् ॥
“उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी-
र्दैवेन देयमिति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या
यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥”
इति हितोपदेशः ॥

पौरुषं, त्रि, (पुरुष + अण् ।) ऊर्द्ध्वविस्तृतदोः-

पाणिनृमाणम् । पुरुषपरिमाणम् । इत्यमरः ।
३ । ३ । २२२ ॥ (पुरुषवाह्यः । यथा, मनुः ।
८ । ४०४ ।
“पणं यानं तरे दाप्यं पौरुषोऽर्द्धपणं तरे ॥”)

पौरुषेयः, पुं, (पुरुष + “सर्व्वपुरुषाभ्यां णढञौ ।”

५ । १ । १० । इत्यत्र “पुरुषाद्वधविकारसमूह-
तेन कृतेषु” एष्वर्थेषु ढञ् ।) समूहः । (यथा,
माघः । २ । ४ ।
“एकाकिनोऽपि परितः पौरुषेयवृता इव ॥”)
वधः । पुरुषस्य पदान्तरम् । इति मेदिनी ॥

पौरुषेयः, त्रि, (पुरुष + ढञ् ।) पुरुषकृतः ।

पुरुषविकारः । इति मेदिनी ॥ (पुरुषसम्ब-
न्धिनि । यथा, ऋग्वेदे । १० । ८७ । १६ ।
“यः पौरुषेयेण क्रविषा समंक्ते ॥”)

पौरोगवः, पुं, स्त्री, (पुरोऽग्रे गौर्नेत्रं यस्येति ।

पुरोगुः । ततः प्रज्ञाद्यण् ।) पाकशालाध्यक्षः ।
इत्यमरः । २ । ९ । २७ ॥ (यथा, हरिवंशे । १४६ । ५८ ।
“वृक्षाम्लसौवर्च्चलचुक्रपूर्णान्
पौरोगवोक्तानुपजह्रुरेषाम् ॥”)

पौरोडाशः, पुं, (पुरोडाश एव । प्रज्ञाद्यण् ।)

पुरोडाशः । पुरोडाशसहचरितो मन्त्रः । इति
सिद्धान्तकौमुदी ॥

पौरोडाशिकः, पुं, (पुरोडाशसहचरितो मन्त्रः

पुरोडाशः स एव पौरोडाशः । तस्य व्याख्यान-
स्तत्र भवो वा । “पौरोडाश-पुरोडाशात्
ष्ठन् ।” ४ । ३ । ७० । इति ष्ठन् ।) पुरो-
डाशिकः । इति सिद्धान्तकौमुदी ॥

पौर्णमासः, पुं, (पौर्णमास्यां भवः । पौर्णमासी +

“सन्धिवेलाद्यृतुनक्षत्रेभ्योऽण् ।” ४ । ३ । १६ ।
इत्यण् ।) यागविशेषः । इत्यमरः । २ । ७ ।
४८ ॥ (यथा, मनुः । ४ । २५ ।
“दर्शेन चार्द्धमासान्ते पौर्णमासेन चैव हि ॥”)
तथा हि । अमावस्यायां अमावस्यया यजेत
पौर्णमास्यां पौर्णमास्या यजेत इति श्रुति-
विहितदर्शपौर्णमासयागयोः कर्म्मस्वरूपज्ञाप-
कयोरुत्पत्तिश्रुतीः समामनन्ति । यथा ।
आग्नेयाष्टाकपालोऽमावस्यायां पौर्णमास्याञ्चा-
च्युतो भवति । उपांशुयाजमन्तरा यजति ताभ्या-
मेवाग्नीसोमीयमेकादशकपालं पौर्णमास्या-
मेव प्रायच्छत् ऐन्दं दधि भवत्यमावास्याया-
मैन्द्रं पयो भवत्यमावास्यायामिति । ताभ्या-
माग्नेयाष्टाकपालोपांशुयाजाभ्याम् । तेन आग्ने-
याष्टाकपालोपांशुयाजाग्नीसोमीयैकादशकपा-
लास्त्रयः पौर्णमास्याम् । आग्नेयाष्टाकपा-
लैन्द्रदधियागैन्द्रपयोयागास्त्रयोऽमावास्याया-
मित्यर्थः । आसु श्रुतिषु अमावास्यापौर्णमासी-
पदानि प्रतिपत्सहिततदुभयपराणि । तत्र
पूर्ब्बयोर्यागारम्भः प्रतिपदोर्यागः । तथा च द्वे-
ह वै पौर्णमास्यौ द्वे अमावास्ये तस्मात् प्रति-
पद्युपवसन् यजेतापरेद्युरिति श्रुतिः । अस्यार्थः ।
यावज्जीविकयोर्द्दर्शपौर्णमासयोः प्रकृतिभूतयो
र्व्विकृतिभूतौ दर्शपौर्णमासौ कौण्डपायिनामय-
नीयौ पक्षादौ कर्त्तव्यौ ।” इति मलमासतत्त्वम् ॥

पौर्णमासी, स्त्री, (पूर्णो मासोऽस्यां वर्त्तते इति ।

पूर्णमासादण् वक्तव्य इत्यण् । ततो ङीप् ।)
पूर्णिमा । इत्यमरः । १ । ४ । ७ ॥
पृष्ठ ३/२४०

पौर्ब्बाह्णिकः, त्रि, (पूर्ब्बाह्ण + “विभाषा पूर्ब्बाह्णा-

पराह्णाभ्याम् ।” ४ । ३ । २४ । इति ठञ् ।)
पूर्ब्बाह्णे भवः । पूर्ब्बाह्णसम्बन्धी । इति सिद्धान्त-
कौमुदी ॥

पौलस्ती, स्त्री, (पुलस्तेः स्त्र्यपत्यम् । पुलस्त +

यञ् । ङीप् । यलोपः ।) सूर्पणखा । इति
व्याकरणम् ॥

पौलस्त्यः, पुं, (पुलस्तेरपत्यमिति । पुलस्ति + गर्गादि-

त्वात् यञ् ।) कुवेरः । इत्यमरः । १ । १ । ७२ ॥
रावणः । इति मेदिनी ॥ (यथा, हरिवंशे ।
३३ । ३५ ।
“मुमोच रक्षः पौलस्त्यं पुलस्त्येनानुयाचितः ॥”)
विभीषणः । इति शब्दरत्नावली ॥

पौलिः, पुं, (पोलतोति । पुल महत्त्वे + ज्वलादि-

त्त्वात् णः । पौलेन निर्वृत्तः । सुतङ्गमादित्वात्
इञ् ।) पाकावस्थागतकलायादिः । आरब्ध-
पाकयवसर्षपादिः । वह्निना ईषद्दग्धचुट्चुट्-
शब्दवान् । इति केचित् । दरदग्धः । इति
श्रीधरः । इति भरतः ॥ तत्पर्य्यायः ॥ आप-
क्वम् २ अभ्यूषः ३ । इत्यमरः ॥ अभ्युषः ४
अभ्योषः ५ । इति भरतः ॥

पौलोमी, स्त्री, (पुलोम्नोऽपत्यमिति । पुलोमन् +

अण् । अनो लोपः ।) शची । इति हेमचन्द्रः ॥
(यथा, भागवते । ५ । ७ । ६ ।
“विराजमानः पौलोम्या सहार्द्धासनया भृशम् ॥”)

पौषः, पुं, (पौषी पौर्णमास्यस्मिन्निति । सास्मिन्

पौर्णमासीत्यण् ।) वैशाखादिद्बादशमासान्त-
र्गतनवममासः । पुष्यनक्षत्रयुक्ता पौर्णमासी
यत्र मासे सः । तत्पर्य्यायः । तैषः २ सहस्यः ३ ।
इत्यमरः ॥ पौषिकः ४ हैमनः ५ । इति राज-
निर्घण्टः ॥ तिष्यः ६ तिष्यकः ७ । इति शब्द-
रत्नावली ॥ अयं धनुःस्थरविप्रारब्धशुक्लप्रति-
पदादिदर्शान्तरूपो मुख्यचान्द्रः । कृष्णप्रति-
पदादिपौर्णमास्यन्तरूपो गौणचान्द्रः । धनू-
राशिस्थरविकः सौरः । इति स्मृतिः ॥ * ॥
तत्र जातफलम् । यथा, कोष्ठीप्रदीपे ।
“निगूढमन्त्रः सुकृशाङ्गयष्टिः
परोपकारी पितृवित्तहीनः ।
कष्टान्वितार्थव्ययकृद्विधिज्ञः
पौषप्रसूतः पुरुषः सुधीरः ॥”

पौषी, स्त्री, (पुष्य + “नक्षत्रेण युक्तः ।” इत्यण् ।

तिष्यपुष्येति यलोपः ।) पुष्ययुक्ता पौर्णमासी ।
इत्यमरः ॥ पुष्येण युक्ता रात्रिः । इति मुग्ध-
बोधव्याकरणम् ॥

पौष्करं, क्ली, (पुष्करस्येदमिति । पुष्कर + अण् ।)

पुष्करमूलम् । इति राजनिर्घण्टः ॥ (अस्य
पर्य्यायो गुणाश्च यथा, --
“उक्तं पुष्करमूलन्तु पौष्करं पुष्करञ्च तत् ।
पद्मपत्रञ्च काश्मीरं कुष्ठभेदमिमं जगुः ॥
पौष्करं कटुकन्तिक्तमुक्तं वातकफज्वरान् ।
हन्ति शोथारुचिश्वासान् विशेषात् पार्श्वशूल-
नुत् ॥”
अस्य प्रतिनिधिर्यथा, --
“पौष्कराभावतः कुष्ठम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

पौष्करमूलं, क्ली, (पौष्करं मूलम् ।) पुष्कर-

मूलम् । यथा, --
“मूले पुष्करकाश्मीरपद्मपत्राणि पौष्करे ।”
इत्यमरः ॥
“त्रीणि पुष्करमूले । पुष्करं सुगन्धिद्रव्यं बणिक्-
ख्यातं तस्य इदं पौष्करं ष्णः पौष्करे मूले
पुष्करादीत्यन्वयः ।” इति भरतः ॥

पौष्करिणी, स्त्री, (पौष्करं पुष्कराणां समूहोऽस्या

अस्तीति । पौष्कर + इनि । स्त्रियां ङीप् ।)
पुष्करिणी । इति शब्दरत्नावली ॥

पौष्टिकं, क्ली, (पुष्ट्यै वृद्ध्यै हितमिति । पुष्ठि +

ठञ् ।) क्षौरसमये गात्राच्छादनवस्त्रविशेषः ।
कावाइ इति भाषा ॥ अस्य गुणाः । धनचिह्न-
त्वम् । आयुष्यत्वम् । शुचित्वम् । रूपविराजन-
त्वञ्च । इति राजवल्लभः ॥ धन्यं धनचिह्रम् ।
बल्यमिति वा पाठः । पुष्टिर्धनजनादीनां वृद्धि-
रित्यभिधीयते । तद्धेतुभूत्रं कर्म्म । इति दुर्ग-
भञ्जः ॥ (पुष्टिहिते, त्रि । यथा, महाभारते ।
१२ । २९६ । २९ ।
“सतां वृत्तमधिष्ठाय निहीनानुज्जिहीर्षवः ।
मन्त्रवर्ज्जं न दुष्यन्ति कुर्व्वाणाः पौष्ठिकीः
क्रियाः ॥”)

पौष्पं, त्रि, (पुष्पेण निर्वृत्तम् । पुष्पस्येदं वेति ।

पुष्प + अण् ।) पुष्पनिर्म्मितम् । पुष्पसम्बन्धि ।
यथा, कालिकापुराणे ६७ अध्याये ।
“आसनं प्रथमं दद्यात् पौष्पं दारुजमेव वा ।
वास्त्रं वा चार्म्मणं कौशं मण्डलस्योत्तरे सृजेत् ॥”

पौष्पकं, क्ली, (पुष्पेण कायतीति । कै + कः । पुष्पक

+ स्वार्थे अण् ।) कुसुमाञ्जनम् । इत्यमरः ॥

पौष्पी, स्त्री, (पुष्पस्य इयं इति । पुष्प + अण् ।

गौरादित्वात् ङीष् । पुष्पाख्यया प्रसिद्धत्वात्
तथात्वम् ।) देशविशेषः । यथा, --
“अथ पुष्पपुरं पौष्पी तथा पाटलिपुत्त्रकम् ॥”
इति शब्दरत्नावली ॥

पौष्यः, पुं, (पूष्णोऽपत्यमिति । पूषन् + ष्यञ् ।)

पूषपुत्त्रः । स च करवीरपुरस्य राजा । तस्य
पुत्त्रः शिवांशजश्चन्द्रशेखरः । यथा, --
“पूष्णः पुत्त्रोऽभवत् पौष्यः सर्व्वशास्त्रार्थपारगः ।
स पुत्त्रहीनो राजाभूत् पौष्यो नृपतिसत्तमः ॥
ततः पुत्त्रार्थिनं भूपं प्रसन्नो वृषभध्वजः ।
ब्रह्मदत्तफलं हस्ते कृत्वेदं तमुवाच ह ॥
इदं फलं ब्रह्मदत्तं विभज्य नृपते ! त्रिधा ।
भोजयेस्ताः स्वजायास्त्रं प्रहृष्टः शुद्धमानसः ॥
ततः फले स्वयं देवः प्रविवेश वृषध्वजः ।
तत्क्षणात्तत् फलं भूतं त्रिभागं स्वयमेव हि ॥
ततः समुचिते काले प्राप्ते ताभिस्तु भक्षितम् ।
तत् फलं नृपशाद्र्दूल ! गर्भाश्चाप्याहिताः शुभाः ॥
सम्पूर्णे गर्भकाले तु गर्भेभ्यः समजायत ।
खण्डत्रयं पृथक् राजा यथा भर्गेण भाषितम् ॥
तच्च खण्डत्रयं पौष्यो यथास्थानं नियोज्य च ।
एकं पिण्डं चकाराशु तत्र पुत्त्रो व्यजायत ॥
तस्य नामाकरोद्राजा ब्राह्मणैः स्वैः पुरोहितैः ।
चन्द्रशेखर इत्येवं कान्त्या चन्द्रमसः समः ॥
ब्रह्मावर्त्ताह्वये रम्ये करवीराह्वये पुरे ।
दृशद्वतीनदीतीरे राजा भूत्वा मुमोद ह ॥”
इति कालिकापुराणे ४६ अध्यायात् सङ्कलितः ॥
(नृपभेदः । स तु गुरुदक्षिणार्थमागताय उत-
ङ्काय कुण्डले दत्तवान् । यथा, महाभारते ।
१ । ३ । ११२ ।
“तमुतङ्कं पौष्यः प्रत्युवाच भगवंश्चिरेण पात्र-
मासाद्यते भवांश्च गुणवानतिथिस्तदिच्छे श्राद्धं
कर्त्तुं क्रियतां क्षण इति ॥” एतद्बिशेषविवरणन्तु
तत्रैव द्रष्टव्यम् ॥)

प्याट्, व्य, हे । भोः । इत्यमरः । ३ । ४ । ७ ॥

प्याय, ओ ई ङ वृद्धौ । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-अक०-सेट् ।) ओ ई, पीनं
मुखम् । उपसर्गात्तु प्रप्यानम् । अस्वाङ्गे तु प्यानः
पीनः स्वेदः । ङ, प्यायते । इति दुर्गादासः ॥

प्युष, क उत्सृजि । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-सक०-सेट् ।) अन्तःस्थाद्ययुक्तः । उत्-
सृजि उत्सर्गे । क, प्योषयति धनं दाता ।
इति दुर्गादासः ॥

प्युष, य इर् भागे । दहि । इति कविकल्पद्रुमः ॥

(दिवा०-पर०-सक०-सेट् ।) अन्तःस्थाद्ययुक्तः ।
य, पुष्यति धनं दायादः । इर्, अप्यषत् अप्यो-
षीत् । अस्मात् पुषादित्वान्नित्यं ङ इत्यन्ये ।
इति दुर्गादासः ॥

प्युस, य इर् विभागे । इति कविकल्पद्रुमः ॥ (दिवा०-

पर०-सक०-सेट ।) अन्तःस्थाद्ययुक्तः । य,
प्युस्यति धनं दायादः । इर्, अप्युसत् अप्योसीत् ।
अस्मात् पुषादित्वात् नित्यं ङ इत्यन्ये । इति
दुर्गादासः ॥

प्यै, ङ वृद्धौ । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-

अक०-अनिट् ।) अन्तःस्थाद्ययुक्तः । ङ, प्यायते ।
इति दुर्गादासः ॥

प्र, व्य, (प्रथयतीति । प्रथ + डः ।) विंशत्युप-

सर्गान्तर्गतप्रथमोपसर्गः । अस्यार्थाः । गतिः ।
आरम्भः । उत्कर्षः । सर्व्वतोभावः । प्राथ-
म्यम् । ख्यातिः । उत्पत्तिः । व्यवहारः । इति
दुर्गादासधृतपुरुषोत्तमः ॥

प्रकटं, त्रि, (प्रकटतीति । प्र + कट + अच् ।)

स्पष्टम् । अस्य पर्य्यायः प्रकाशशब्दे द्रष्टव्यः ।
“प्रकटाप्रकटा चेति लीला सेयं द्विधोच्यते ।”
इति भागवतामृतम् ॥
(यथा च, देवीभागवते । १ । ७ । ३८ ।
“जानन्ति ये न तव देवि ! परं प्रभावं
ध्यायन्ति ते हरिहरावपि मन्दचित्ताः ।
ज्ञातं मयाद्य जननि ! प्रकटं प्रमाणं
यद्विष्णुरप्यतितरां विवशोऽथ शेते ॥”)

प्रकटितं, त्रि, (प्र + कट + क्त ।) प्रकाशितम् । इति

हेमचन्द्रः ॥ (यथा, देवोभागवते । १ । ७ । ४४ ।
पृष्ठ ३/२४१
“सृष्ट्वात्र मां भगवति ! प्रविनाशितुं चे-
न्नेच्छास्ति ते कुरु दयां परिहृत्य मौनम् ।
कस्मादिमौ प्रकटितौ किल कालरूपौ
यद्वा भवानि ! हसितुं नु किमिच्छसे त्वम् ॥”)

प्रकम्पनः, पुं, (प्रकम्पयतीति । प्र + कपि + णिच् +

ल्यु ।) वायुः । इति हेमचन्द्रः ॥ (यथा,
माघे । १ । ६१ ।
“निशान्तनारीपरिधानधूनन-
स्फुटागसाप्यूरुषु लोलचक्षुषः ।
प्रियेण तस्यानपराधबाधिताः
प्रकम्पनेनानुचकम्पिरे सुराः ॥”)
नरकविशेषः । इति शब्दरत्नावली ॥ (राक्षस-
विशेषः । इति रामायणम् ॥ प्र + कपि + ल्युट् ।)
कम्पातिशये, क्ली ॥

प्रकरं, क्ली, (प्रकीर्य्यते इति । प्र + कॄ + कर्म्मणि

अप् ।) अगुरु । इति मेदिनी । रे, १७९ ॥

प्रकरः, पुं, (प्रकिरतीति । प्र + कॄ + अच् ।)

समूहः । (प्रकीर्य्यते इति । प्र + कॄ + “ऋदो
रप् ।” ३ । ३ । ५७ । इति अप् ।) विकीर्ण-
कुसुमादिः । इति मेदिनी । रे, १७८ ॥ (यथा,
अम्बाष्टके । ३ ।
“यत्राशयो लगति तत्रागजा वसतु कुत्रापि
निस्तुलशुका
सुत्रामकालमुखसत्राशनप्रकरसुत्राणकारि-
चरणा ।
छत्रानिलातिरयपत्राभिरामगुणमित्रामरीसमबधूः
कुत्रासहन्मणिविचित्राकृतिः स्फुरितपुत्रादि-
दाननिपुणा ॥”)

प्रकरणं, क्ली, (प्रक्रियते अस्मिन्निति । प्र + कृ +

आधारे ल्युट् ।) प्रस्तावः । (वृत्त्रान्तः । इत्यमरः ।
३ । ३ । ६३ ॥ यथा, महाभारते । ३ । २०४ । २१ ।
“एतत्प्रकरणं राजन्नधिकृत्य युधिष्ठिर ! ।
पतिव्रतानां नियतं धर्म्मञ्चावहितः शृणु ॥”)
अभिनेयप्रकारः । रूपकभेदः । इति हेमचन्द्रः ॥
ग्रन्थसन्धिः । इति त्रिकाण्डशेषः ॥ पादः । स
तु एकार्थावच्छिन्नसूत्रसमूहः । इति मुग्धबोध-
टीकायां दुर्गादासः ॥ (नाटकोक्तप्रकरणं
तद्भेदादिर्यथा, साहित्यदर्पणे । ६ । २४० -- २४१ ।
“भवेत् प्रकरणे वृत्तं लौकिकं कविकल्पितम् ।
शृङ्गारोऽङ्गी नायकस्तु विप्रोऽमात्योऽथवा
बणिक् ॥
सापायधर्म्मकामार्थपरो धीरप्रशान्तकः ॥
विप्रनायकं यथा मृच्छकटिकम् । अमात्यनायकं
मालतीमाधवम् । बणिङ्नायकं पुष्पभूषितम् ।
नायिका कुलजा क्वापि वेश्या क्वापि द्वयं
क्वचित् ।
तेन भेदास्त्रयस्तस्य तत्र भेदस्तृतीयकः ॥
कितवद्यूतकारादिविटचेटकसङ्कुलः ॥
कुलस्त्री पुष्पभूषिते । वेश्या तु रङ्गदत्ते । द्बे
अपि मृच्छकटिके । अस्य नाटकप्रतिकृतित्वात्
शेषं नाटकवत् ॥”)

प्रकरी, स्त्री, (प्रकीर्य्यते अत्रेति । प्र + कॄ + अप् ।

गौरादित्वात् ङीष् ।) नाट्याङ्गम् । चत्वरभूमिः ।
इति शब्दरत्नावली ॥

प्रकर्षः, पुं, (प्र + कृष् + भावे घञ् ।) उत्कर्षः ।

यथा, काव्यप्रकाशे ।
“गुणप्रकर्षेण जनोऽनुरज्यते
जनानुरागप्रभवा हि सम्पदः ॥”
(यथा च महाभारते । १ । १५६ । ३४ ।
“बालोऽपि यौवनं प्राप्य मानुषेषु विशाम्पते ! ।
सर्व्वास्त्रेषु परं वीरः प्रकर्षमगमद्बली ॥”)

प्रकाण्डः, पुं, क्ली, (प्रकृष्टः काण्डः इति

प्रादिसमासः ।) मूलादारभ्य शाखावधिवृक्ष-
भागः । गुँडी इति भाषा ॥ तत्पर्य्यायः ।
स्कन्धः २ । इत्यमरः । २ । ४ । १० ॥ काण्डम् ३ ।
इति शब्दरत्नावली ॥ दण्डः ४ । इति राज-
निर्घण्टः ॥ विटपः । शस्तः । इति मेदिनी ।
डे, ३१ ॥ (यथा, अमरे । १ । ४ । २७ ।
“मतल्लिका मतर्च्चिका प्रकाण्डमुद्घतल्लजौ ।
प्रशस्तवाचकान्यमून्ययः शुभावहो विधिः ॥”)
प्रकाण्ड + स्वार्थे कन्प्रत्ययेन प्रशस्तार्थे । यथा,
भट्टौ । ५ । ६ ।
“दण्डकामध्यवात्तां यौ वीर ! रक्षःप्रकाण्डकौ ।
नृर्भ्या संख्येऽकृषातां तौ सभृत्यौ भूमिवर्द्धनौ ॥”
“रक्षःप्रकाण्डकौ प्रशस्तौ राक्षसौ ।” इति
तट्टीकायां जयमङ्गलः ॥)

प्रकाण्डरः, पुं, (प्रकाण्डं राति गृह्णातीति ।

रा + कः ।) वृक्षः । इति शब्दचन्द्रिका ॥

प्रकामं, त्रि, (प्रगतं काममिति प्रादिसमासः ।)

यथेप्सितम् । इत्यमरः ॥ (यथा, महाभारते ।
४ । १३ । २९ ।
“चित्रमाल्याम्बरधरा सर्व्वाभरणभूषिता ।
कामं प्रकामं सेव त्वं मया सह विलासिनि ! ॥”)

प्रकारः, पुं, (प्रभेदकरणं प्रकृष्टकरणं वेति । प्र +

कृ + घञ् ।) भेदः । (यथा, पञ्चदश्याम् । ७ । १४४ ।
“अश्नाति वा नवाश्नाति भुङ्क्ते वा स्वेच्छया-
न्यथा ।
येन केन प्रकारेण क्षुघामपनिनीषति ॥”)
सादृश्यम् । इत्यमरः । २ । ९ । ५७ ॥

प्रकाशं, क्ली, (प्रकाशते इति । प्र + काश +

अच् ।) कांस्यम् । इति हेमचन्द्रः ॥ (दीप्तिः ।
यथा, महाभारते । ३ । १७१ । २७ ।
“पुनः प्रकाशमभवत् तमसा ग्रस्यते पुनः ।
भवत्यदर्शनो लोकः पुनरप्सु निमज्जति ॥”)

प्रकाशः, पुं, (प्रकाशते इति । प्र + काश + अच् ।)

रौद्रः । तत्पर्य्यायः । द्योतः २ आतपः ३ ।
इत्यमरः । १ । ४ । ३४ ॥ राजनिर्घण्टोक्त-
पर्य्यायाः प्रभाशब्दे द्रष्टव्याः ॥ (यथा, पञ्च-
दश्याम् । २ । ३८ ।
“निर्ज्जगद्बोमदृष्टञ्चेत् प्रकाशतमसी विना ।
क्व दृष्टं किञ्च ते पक्षे न प्रत्यक्षं वियत् स्वलु ॥”)
प्रदीप्तः । तत्पर्य्यायः । स्फुटम् २ स्पष्टम् ३
प्रकटम् ४ उल्वणम् ५ व्यक्तम् ६ । इति हेम-
चन्द्रः ॥ प्रव्यक्तम् ७ उद्रिक्तम् ८ । इति जटा-
घरः ॥ प्रहासः । इति मेदिनी । शे, २४ ॥
अतिप्रसिद्धः । इति शब्दरत्नावल्यमरौ ॥

प्रकाशकः, त्रि, प्रकाशकर्त्ता । प्रकाशयतीत्यर्थे

(ण्वुल्) णकप्रत्ययः ॥ (यथा, भगवद्गीतायाम् ।
१४ । ६ ।
“तत्र सत्त्वं निर्म्मलत्वात् प्रकाशकमनामयम् ।
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ! ॥”)

प्रकाशकज्ञाता, [ऋ] पुं, (प्रकाशकस्य आत-

पतस्य ज्ञाता ।) कुक्कुटः । इति शब्दचन्द्रिका ॥
प्रकाशकज्ञातरि, त्रि ॥

प्रकाशात्मा, [न्] पुं, (प्रकाश आत्मा स्वरूपं

देहो वा यस्य ।) सूर्य्यः । इति शब्दचन्द्रिका ॥
व्यक्तस्वभावे, त्रि ॥

प्रकाशितं, त्रि, (प्रकाशो जातोऽस्येति । प्रकाश +

तारकादित्वात् इतच् । यद्बा, प्र + काश +
णिच् + क्त ।) प्रकाशविशिष्टम् । तत्पर्य्यायः ।
दर्शितम् २ आविष्कृतम् ३ प्रकटितम् ४ । इति
हेमचन्द्रः ॥

प्रकीर्णं, क्ली, (प्रकीर्य्यते स्मेति । प्र + कॄ विक्षेपे +

क्तः ।) ग्रन्थविच्छेदः । इति जटाधरः ॥ चा-
मरम् । इति त्रिकाण्डशेषः ॥

प्रकीर्णः, पुं, (प्रकीर्य्यते दुर्गन्धमनेनेति । प्र + कॄ +

क्तः ।) पूतिकरञ्जः । इति राजनिर्घण्टः ॥

प्रकीर्णः, त्रि, (प्रकीर्य्यते स्मेति । प्र + कॄ + क्तः ।)

विक्षिप्तः । विस्तृतः । यथा, --
“प्रकीर्णभाण्डामनवेक्ष्यकारिणीं
सदैव भर्त्तुः प्रतिकूलवादिनीम् ।
परस्य वेश्माभिरतामलज्जा-
मेवंविधां स्त्रीं परिवर्ज्जयामि ॥”
इति लक्ष्मीचरित्रम् ॥
नानाप्रकारमिश्रितः । यथा, --
“प्रकीर्णः पुष्पाणां हरिचरणयोरञ्जलिरयम् ॥”
इति वेणीसंहारः ।

प्रकीर्णकं, क्ली, (प्रकीर्ण + स्वार्थे कन् ।) चामरम् ।

इत्यमरः । २ । ८ । ३१ ॥ विस्तारः । इति
मेदिनी । के, १९६ ॥ ग्रन्थविच्छेदः । इति हेम-
चन्द्रः ॥ पापविशेषः । तथा विष्णुः । यदनुक्तं
तत् प्रकीर्णकम् ।
“प्रकीर्णपातके ज्ञात्वा गुरुत्वमथ लाघवम् ।
प्रायश्चित्तं बुधः कुर्य्यात् ब्राह्मणानुमते सदा ॥”
अनुक्तं अनुक्तनिष्कृतिकं पापम् ।
“अतिपातकाद्यन्यतमत्वेन विशेषतोऽनुक्तकम् ॥”
इति प्रायश्चित्तविवेकः ॥

प्रकीर्णकः, पुं, (प्रकीर्ण + संज्ञायां कन् ।) तुरङ्गमः ।

इति मेदिनी । के, १९६ ॥ (यथा, महाभारते ।
७ । ३५ । ३७ ।
“आरूढान् शिक्षितैर्योधैः शक्तृष्टिपाश-
योधिभिः ।
विध्वस्तचामरकुथान् विप्रबिद्धप्रकीर्णकान् ॥”)

प्रकीर्त्तितं, त्रि, (प्रकीर्त्त्यते स्मेति । प्र + कत् +

क्तः ।) कथितम् । यथा, --
पृष्ठ ३/२४२
“प्रभूतमल्पं कार्य्यं वा यो नरः कर्त्तुमिच्छति ।
सर्व्वारम्भेण तत् कुर्य्यात् सिंहादेकं प्रकीर्त्तितम् ॥”
इति चाणक्यसंग्रहः ॥

प्रकीर्य्यः, पुं, (प्रकीर्य्यते इति । प्र + कॄ + अघ्न्यादि-

त्वात् यक् ।) करञ्जभेदः । इत्यमरः ॥ नाटाक-
रञ्ज इति भाषा ॥ घृतकरञ्जः । रीठाकरञ्जः ।
इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो यथा, --
“घृतपूर्णकरञ्जोऽन्यः प्रकीर्य्यः पूतिकोऽपि च ।
स चोक्तः पूतिकरञ्जः सोमवल्कश्च स स्मृतः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

प्रकुलं, क्ली, (प्रकर्षेण कोलति राशीकरोति

मैत्रीकरोति वेति । प्र + कुल + कः ।) प्रशस्त-
वपुः । इति त्रिकाण्डशेषः ॥

प्रकृतः, त्रि, (प्रक्रियते स्मेति । प्र + कृ + क्त ।) प्रक-

रणप्राप्तः । यथा । प्रकृतमनुसरामः । प्रकर्षेण
कृतः । अविकृतः । प्रपूर्ब्बककृधातोः कर्म्मणि
क्तप्रत्ययः ॥ (प्रक्रान्तः । यथा, माघे । ११ । ४२ ।
“प्रकृतजपविधीनामास्यमुद्रश्मिदन्त-
म्मुहुरपि हितमौष्ठ्यैरक्षरैर्लक्ष्यमन्यैः ॥”)

प्रकृतिः, स्त्री, (प्रक्रियते कार्य्यादिकभनयेति ।

प्र + कृ + क्तिन् ।) स्वभावः । (यथा चरके
विमानस्थाने प्रथमेऽध्याये ।
“तत्र प्रकृतिरुच्यते स्वभावो यः स पुनराहा-
रौषधद्रव्याणां स्वभाविको गुर्व्वादिगुणयोगः ।
तद्यथा माषमुद्गयोः शूकरैणयोश्च ।”) योनिः ।
लिङ्गम् ॥ स्वामी । अमात्यः । सुहृत् । कोषः ।
राष्ट्रम् । दुर्गम् । बलम् । (यथा, मनौ । ९ । २९४ ।
“स्वाम्यमात्यौ पुरं राष्ट्रं कोषदण्डौ सुहृत्तथा ।
सप्त प्रकृतयो ह्येताः सप्ताङ्गं राज्यमुच्यते ॥”
धर्म्माध्यक्षादिसप्तप्रकृतयो यथा, --
“धर्म्माध्यक्षो धनाध्यक्षः कोषाध्यक्षश्च भूपतिः ।
दूतः पुरीधा दैवज्ञः सप्त प्रकृतयोऽभवन् ॥”)
पौराणां श्रेणयः । इत्यमरः । २ । ८ । १८ ॥
(यथा, मार्कण्डेये । १९ । २० ।
“प्रणिपत्य ततस्तस्मै दत्तात्रेयाय सोऽर्ज्जुनः ।
आनाप्य प्रकतीः सम्यगभिषेकमगृह्णत ॥”
स्वरूपावस्था । यथा, हितोपदेशे । २ । १९६ ।
“स्वेदितो मर्द्दितश्चैव रज्जुभिः परिवेष्टितः ।
सुक्तो द्वादशभिर्वर्षैः श्वपुच्छः प्रकृतिं गतः ॥”)
शिल्पी । इति हेमचन्द्रः ॥ शक्तिः । (यथा, --
“प्रधानं प्रकृतिः शक्तिर्नित्याचातिकृतिस्तथा ।
एतानि तस्या नामानि शिवमाश्रित्य याः
स्थिताः ॥”
इति पूर्ब्बखण्डे पञ्चमेऽध्याये शार्ङ्गधरेणोक्तम् ॥)
योषित् । इति शब्दरत्नावली ॥ परमात्मा । इति
धरणिः । पञ्चभूतानि । करणम् । गुह्यम् । जन्तुः ।
एकविंशत्यक्षरपादच्छन्दोविशेषः । माता । इति
नानार्थरत्नमाला ॥ प्रत्ययात् प्रथमः । स च
द्विधा धातुर्नाम च । इत्यजयपालः ॥ (प्रकर्षेण
सृष्ट्यादिकं करोतीति । प्र + कृ + कर्त्तरि
क्तिच् ।) भगवतो मायाख्या शक्तिः । सा च
परापरभेदेन द्विधा । यथा, --
“भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ४ ॥
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहोः ययेदं धार्य्यते जगत् ॥” ५ ॥
इति श्रीभगवद्गीतायां ७ अध्यायः ॥
“एवं श्रोतारमभिमुखीकृत्य इदानीं प्रकृतिद्वारा
सृष्ट्यादिकर्त्तृत्वेन ईश्वरतत्त्वं प्रतिज्ञातं निरू-
पयिष्यन् परापरभेदेन प्रकृतिद्वयमाह भूमिरिति
द्वाभ्याम् । भूम्यादीनि पञ्चभूतसूक्ष्माणि मनः-
शब्देन तत्कारणभूतोऽहङ्कारः बुद्धिशब्देन
तत्कारणं महत्तत्त्वं अहङ्कारशब्देन तत्-
कारणमविद्या इत्येवमष्टधा भिन्ना । यद्वा
भूम्यादिशब्दैः पञ्च महाभूतानि सूक्ष्मैः सह
एकीकृत्य गृह्यन्ते । अहङ्कारशब्देनैवाहङ्कारं
तेनैव तत्कार्य्याणि इन्द्रियाण्यपि गृह्यन्ते बुद्धि-
रिति महत्तत्त्वम् । मनःशब्देन तु मनसैवोन्नेयं
अव्यक्तस्वरूपं प्रधानमित्यनेन प्रकारेण मे
प्रकृतिर्म्मायाख्या शक्तिरष्टधा भिन्ना विभागं
प्राप्ता । चतुर्विंशतिभेदभिन्नाप्यष्टस्वेवान्तर्भाव-
विवक्षयाष्टधा भिन्नेत्युक्तम् । तथा च क्षेत्राध्याये
इमामेव प्रकृतिं चतुर्विंशतितत्त्वात्मना प्रपञ्चयि-
ष्यति ।
‘महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च ।
इन्द्रियाणि दशैकञ्च पञ्च चेन्द्रियगोचरा ॥’
इति ॥ ४ ॥
अपरामिमां प्रकृतिमुपसंहरन् परां प्रकृति-
माह अपरेयमिति । अष्टधा प्रकृतिरुक्ता
इयमपरा निकृष्टा जडत्वात् परार्थत्वाच्च । इतः
सकाशात् परां प्रकृष्टामन्यां जीवभूतां जीव-
स्वरूपां मे प्रकृतिं जानीहि । परत्वे हेतुः यया
चेतनया क्षेत्रज्ञस्वरूपया स्वकर्म्मद्वारेणेदं जग-
द्धार्य्यते ॥” ५ ॥ इति तट्टीकायां श्रीधरस्वामी ॥
सत्त्वरजस्तमसां साम्यावस्था । यथा, --
“सत्त्वं रजस्तमश्चैव गुणत्रयमुदाहृतम् ।
साम्यावस्थितिरेतेषां प्रकृतिः परिकीर्त्तिता ॥
केचित् प्रधानमित्याहुरव्यक्तमपरे जगुः ।
एतदेव प्रजासृष्टिं करोति विकरोति च ॥”
इति मात्स्ये ३ अध्यायः ॥
तत्पर्य्यायः । प्रधानम् २ । इत्यमरः ॥ माया ३
शक्तिः ४ चैतन्यम् ५ । इति राजनिर्घण्टः ॥
तस्या नामान्तराणि यथा, --
“तमोऽव्यक्तं शिवो धाम रजो योनिः सनातनः ।
प्रकृतिर्विकारः प्रलयः प्रधानं प्रभवाप्ययौ ॥
अनुद्रिक्तमनूनं वाप्यकम्पमचलं ध्रुवम् ।
सदसच्चैव तत्सर्व्वमव्यक्तं त्रिगुणं स्मृतम् ।
ज्ञेयानि नामधेयानि नरैरध्यात्मचिन्तकैः ॥
अव्यक्तनामानि गुणांश्च तत्त्वतो
यो वेद सर्व्वाणि गतीश्च केवलाः ।
विमुक्तदेहः प्रविभागतत्त्ववित्
स मुच्यते सर्व्वगुणैर्निरामयः ॥”
इति महाभारते आश्वमेधिकपर्व्व ॥ * ॥
सा पञ्चविधा ।
“गणेशजननी दुर्गा राधा लक्ष्मीः सरस्वती ।
सावित्री च सृष्टिविधौ प्रकृतिः पञ्चमी
स्मृता ॥” * ॥
तस्या व्युत्पत्तिर्यथा, --
“प्रकृष्टवाचकः प्रश्च कृतिश्च सृष्टिवाचकः ।
सृष्टौ प्रकृष्टा या देवी प्रकृतिः सा प्रकीर्त्तिता ॥
गुणे प्रकृष्टे सत्त्वे च प्रशब्दो वर्त्तते श्रुतौ ।
मध्यमे रजसि कृश्च तिशब्दस्तामसः स्मृतः ॥
त्रिगुणात्मस्वरूपा या सर्व्वशक्तिसमन्विता ।
प्रधाना सृष्टिकरणे प्रकृतिस्तेन कथ्यते ॥
प्रथमे वर्त्तते प्रश्च कृतिश्च सृष्टिवाचकः ।
सृष्टेराद्या च या देवी प्रकृतिः सा प्रकी-
र्त्तिता ॥” * ॥
तासां उत्पत्तिः स्वरूपश्च यथा, --
“योगेनात्मा सृष्टिविधौ द्विधारूपो बभूव सः ।
पुंमांश्च दक्षिणार्द्धाङ्गात् वामाङ्गात् प्रकृतिः
स्मृता ॥
सा च ब्रह्मस्वरूपा च या या नित्या सनातनी ।
यथात्मा च यथाशक्तिर्यथाग्नौ दाहिका स्मृता ॥
अतएव हि योगीन्द्रः स्त्रीपुंभेदं न मन्यते ।
सर्व्वं ब्रह्ममयं ब्रह्मन् ! शश्वत् पश्यति नारद ! ॥
स्वेच्छामयं स्वेच्छया च श्रीकृष्णस्य सिसृक्षया ।
साविर्बभूव सहसा मूलप्रकृतिरीश्वरी ।
तदाज्ञया पञ्चविधा सृष्टिकर्म्मणि वेदतः ॥”
दुर्गाप्रकृतिर्यया, --
“अथ भक्तानुरोधाद्वा भक्तानुग्रहविग्रहा ।
गणेशमाता दुर्गा या शिवरूपा शिवप्रिया ॥
नारायणी विष्णुमाया पूर्णब्रह्मस्वरूपिणी ।
ब्रह्मादिदेवैर्मुनिभिर्म्मनुभिः पूजिता स्तुता ॥
सर्व्वाधिष्ठातृदेवी सा सर्व्वरूपा सनातनी ।
धर्म्मसत्यपुण्यकीर्त्तियशोमङ्गलदायिनी ॥
सुखमोक्षहर्षदात्री शोकार्त्तिदुर्गनाशिनी ।
शरणागतदीनार्त्तपरित्राणपरायणा ॥
तेजःस्वरूपा परमा तदधिष्ठातृदेवता ।
सर्व्वशक्तिस्वरूपा च शक्तिरीशस्य सन्ततम् ॥
सिद्धेश्वरी सिद्धरूपा सिद्धिदा सिद्धिदेश्वरी ।
बुद्धिर्निद्रा क्षुत्पिपासा छाया तन्द्रा दया
स्मृतिः ॥
जातिः शान्तिश्च क्षान्तिश्च कान्तिर्भ्रान्तिश्च
चेतना ।
तुष्टिः पुष्टिस्तथा लक्ष्मीर्व्वृत्तिर्माता तथैव च ॥
सर्व्वशक्तिस्वरूपा सा कृष्णस्य परमात्मनः ।
उक्तः श्रुतौ श्रुतिगुणश्चातिस्वल्पं यथागमम् ॥
गुणोऽस्त्यनन्तोऽनन्ताया अपराञ्च निशामय ॥” १
लक्ष्मीप्रकृतिर्यथा, --
“शृणु सत्त्वस्वरूपा या पद्मा च परमात्मनः ।
सर्व्वसम्पत्स्वरूपा सा तदधिष्ठातृदेवता ॥
कान्ता दान्ता च शान्ता च सुशीला सर्व्व-
मङ्गला ।
लोभमोहकामरोषाहङ्कारपरिवर्ज्जिता ॥
भक्तानुरक्ता पत्युश्च सर्व्वाभ्यश्च पतिव्रता ।
प्राणतुल्या भगवतः प्रेमपात्री प्रियंवदा ॥
पृष्ठ ३/२४३
सर्व्वशस्यात्मिका सर्व्वजीवनोपायरूपिणी ।
महालक्ष्मीश्च वैकुण्ठे पाताले वरदा सती ॥
स्वर्गे च स्वर्गलक्ष्मीश्च मर्त्यानां गृहिणान्तथा ।
सर्व्वप्राणिषु द्रव्येषु शोभारूपा मनोहरा ॥
प्रीतिरूपा पुण्यवतां प्रभारूपा नृपेषु च ।
बाणिज्यरूपा बणिजां पापिनां कलहाङ्कुरा ॥
दयामयी भक्तिमतो भक्तानुग्रहकातरा ।
चपले चपला भक्ता सम्पदे च धनाय च ॥
जगज्जीवं मृतं सर्व्वं यया देव्या विना मुने ! ।
शक्तिर्द्बितीया कथिता वेदोक्ता सर्व्वसम्मता ॥
सर्व्वपूज्या सर्व्ववन्द्या चान्यां मत्तो निशा-
मय ॥” २ ॥ * ॥
सरस्वतीप्रकृतिर्यथा, --
“वाग्बुद्धिविद्याज्ञानाधिदेवता परमात्मनः ।
सर्व्वविद्या सर्व्वरूपा सा च देवी सरस्वती ॥
स्वबुद्धिकविता मेधा प्रतिभा स्मृतिदा सताम् ।
नानाप्रकारसिद्धान्तभेदार्थकल्पनाप्रदा ॥
व्याख्या बोधस्वरूपा च सर्व्वसन्देहभञ्जिनी ।
विचारकारिणी ग्रन्थकारिणी शक्तिरूपिणी ॥
स्वरसङ्गीतसन्धानतालकारणरूपिणी ।
विषयज्ञानवाग्रूपा प्रतिविश्वेषु जीविनाम् ॥
व्याख्या मुद्राकरा शान्ता वीणापुस्तकधारिणी ।
शृणु सत्त्वस्वरूपा च सुशीला श्रीहरिप्रिया ॥
हिमचन्दनकुन्देन्दुकुमुदान्भोजसन्निभा ।
जपन्ती परमात्मानं श्रीकृष्णं रत्नमालया ॥
तपःस्वरूपा तपसां फलदात्री तपस्विनी ।
बुद्धिविद्यास्वरूपा च सर्व्वसिद्धिप्रदा सदा ॥
यया विना च विश्वौघो मूको मृतसमः सदा ।
देवी तृतीया गदिता श्रुत्युक्ता जगदम्बिका ॥
यथागमं यथाकिञ्चिदपरां संनिबोध मे ॥” ३ ॥ * ॥
सावित्री प्रकृतिर्यथा, --
“माता चतुर्णां वेदानां वेदज्ञानञ्च छन्दसाम् ।
सन्ध्यावन्दनमन्त्राणां तन्त्राणाञ्च विचक्षणा ॥
द्विजातिजातिरूपा च जपरूपा तपस्विनी ।
ब्रह्मण्यतेजोरूपा च सर्व्वसंस्कारकारिणी ॥
पवित्ररूपा सावित्री गायत्त्री ब्रह्मणः प्रिया ।
तीर्थानि यस्याः संस्पर्शं दर्शं वाञ्छन्ति शुद्धये ॥
शुद्धस्फटिकसङ्काशा शुद्धसत्त्वस्वरूपिणी ।
परमानन्दरूपा च परमा च सनातनी ॥
परब्रह्मस्वरूपा च निर्व्वाणपददायिनी ।
ब्रह्मतेजोमयी शक्तिस्तदधिष्ठातृदेवता ॥
यत्पादरजसा पूतं जगत् सर्व्वञ्च नारद ! ।
देषी चतुर्थी कथिता पञ्चमीं वर्णयामि ते ॥” ४ ॥
राधाप्रकृतिर्यथा, --
“प्रेमप्राणाधिका देवी या पञ्चप्राणरूपिणी ।
प्राणाधिकप्रियतमा सर्व्वाभ्यः सुन्दरी वरा ॥
सर्व्वसौभाग्ययुक्ता च मानिनी गौरवान्विता ।
वामार्द्धाङ्गस्वरूपा च गुणेन तेजसा समा ॥
परा वरा सारभूता परमाद्या सनातनी ।
परमानन्दरूपा च धन्या मान्या च पूजिता ॥
रासक्रीडाधिदेवी च कृष्णस्य परमात्मनः ।
रासमण्डलसंभूता रासमण्डलमण्डिता ॥
रासेश्वरी सुरसिका रासवासनिवासिनी ।
गोलोकवासिनी देवी गोपीवेशविधायिका ॥
परमाह्लादरूपा च सन्तोषहर्षरूपिणी ।
निर्गुणा च गुणाकारा निर्लिप्तात्मस्वरूपिणी ॥
निरीहा निरहङ्कारा भक्तानुग्रहविग्रहा ।
वेदानुसारध्यानेन विज्ञाता सा विचक्षणैः ॥
दृष्टिदृष्टा लसद्वेशा सुरेन्द्रैर्मुनिपुड्गवैः ।
वह्निशुद्धांशुकाधाना रत्नालङ्कारभूषिता ॥
कोटिचन्द्रप्रभाजुष्टपुष्टश्रीयुक्तविग्रहा ।
श्रीकृष्णभक्तिदा सैव दात्री च सर्व्वसम्पदाम् ॥
अवतारे च वाराहे वृषभानुसुता च या ।
यत्पादपद्मसंस्पर्शपवित्रा च वसुन्धरा ॥
ब्रह्मादिभिरदृष्टा या सर्व्वदृष्टा च भारते ।
स्त्रीरत्नसारसंभूता कृष्णवक्षःस्थलोज्ज्वला ॥
यथा घने नवघने लोला सौदामिनी मुने ! ।
षष्टिवर्षसहस्राणि प्रतप्तं ब्रह्मणा पुरा ॥
यत्पादपद्मनखरदृष्टये चात्मशुद्धये ।
न च दृष्टापि स्वप्नेऽपि प्रत्यक्षस्यापि का कथा ॥
तेनैव तपसा दृष्टा भुवि वृन्दावने वने ।
कथिता पञ्चमी देवी सा राधा परिकीर्त्तिता ॥
अंशरूपा कलारूपा कलांशांशसमुद्भवा ।
प्रकृतिः प्रतिविश्वेषु देव्यश्च सर्व्वयोषितः ॥
परिपूर्णतमा पञ्चविधा देवी प्रकीर्त्तिता ।
या याः प्रधानांशरूपा वर्णयामि निशामय ॥” ५ ॥
गङ्गा यथा, --
“प्रधानांशस्वरूपा या गङ्गा भुवनपावनी ।
विष्णुविग्रहसंभूता हररूपा सनातनी ॥
पापिपापेन्धदाहाय ज्वलदिन्धनरूपिणी ।
सुखस्पर्शस्नानपाने निर्व्वाणपददायिनी ॥
गोलोके स्थानप्रस्थानसुखसोपानरूपिणी ।
पवित्ररूपा तीर्थानां सरिताञ्च परा वरा ॥
शम्भुमौलिजटामेरुमुक्तापंक्तिस्वरूपिणी ।
तपःसन्तापिनी सद्यो भारते च तपस्विनाम् ॥
चन्द्रपद्मक्षीरनिभा शृणु सत्त्वस्वरूपिणी ।
निर्म्मला निरहङ्कारा साध्वी नारायण-
प्रिया ॥” १ ॥
तुलसी यथा, --
“प्रधानांशस्वरूपा च तुलसी विष्णुकामिनी ।
विष्णुभूषणरूपा च विष्णुपादस्थिता सती ॥
तपःसङ्कल्पपूजादिसद्यःसम्पादिनी मुने ! ।
सारभूता च पुष्पाणां पवित्रा पुण्यदा सदा ॥
दर्शनस्पर्शनाभ्याञ्च सद्योनिर्व्वाणदायिनी ।
कलौ कलुषशुष्केध्मदाहायाग्निस्वरूपिणी ॥
यत्पादपद्मसंस्पर्शसद्यःपूता वसुन्धरा ।
यत्स्पर्शदर्शं वाञ्छन्ति तीर्थानि चात्मशुद्धये ॥
यया विना च विश्वेषु सर्व्वकर्म्मातिनिष्फलम् ।
मोक्षदा या मुमुक्षूणां कामिनां सर्व्वकामदा ॥
कल्पवृक्षस्वरूपा च भारते ब्रह्मरूपिणी ।
त्राणाय भारतानाञ्च प्रजानां परदेवता ॥” २ ॥
मनसा यथा, --
“प्रधानांशस्वरूपा या मनसा कश्यपात्मजा ।
शङ्करप्रियशिष्या च महाज्ञानविशारदा ॥
नागेश्वरस्यानन्तस्य भगिनी नागपूजिता ।
नागेश्वरी नागमाता सुन्दरी नागवाहिनी ॥
नागेन्द्रगणयुक्ता सा नागभूषणभूषिता ।
नागेन्द्रैर्व्वन्दिता सिद्धयोगिनी नागशायिनी ॥
विष्णुरूपा विष्णुभक्ता विष्णुपूजापरायणा ।
तपःस्वरूपा तपसां फलदात्री तपस्विनी ॥
दिव्यं त्रिलक्षवर्षञ्च तपस्तप्तं यया हरेः ।
तपस्विनीषु पूज्या च तपस्विना च भारते ॥
सर्पमन्त्राधिदेवी च ज्वलन्ती ब्रह्मतेजसा ।
ब्रह्मस्वरूपा परमा ब्रह्मभावेन तत्परा ॥
जरत्कारुमुनेः पत्नी कृष्णांशस्य पतिव्रता ।
आस्तीकस्य मुनेर्म्माता प्रवरस्य तपस्वि-
नाम् ॥” ३ ॥
षष्ठी यथा, --
“प्रधानांशस्वरूपा या देवसेना च नारद ! ।
मातृकासु पूज्यतमा सा च षष्ठी प्रकीर्त्तिता ॥
शिशूनां प्रतिविश्वेषु प्रतिपालनकारिणी ।
तपस्विनी विष्णुभक्ता कार्त्तिकेयस्य कामिनी ।
षष्ठांशरूपा प्रकृतेस्तेन षष्ठी प्रकीर्त्तिता ॥
पुत्त्रपौत्त्रप्रदात्री च धात्रीति जगतां सती ।
सुन्दरी युवती रम्या सन्ततं भर्त्तुरन्तिके ॥
स्थाने शिशूनां परमा वृद्धरूपा च योगिनी ।
पूजा द्वादशमासेषु यस्या विश्वेषु सन्ततम् ॥
पूजा च सूतिकागारे परा षष्ठदिने शिशोः ।
एकविंशतिमे चैव पूजा कल्याणहेतुकी ॥
शश्वन्नियमिता चैषा नित्या काम्या हुतिः परा ।
मातृरूपा दयारूपा शश्वद्रक्षणरूपिणी ॥
जले स्थले चान्तरीक्षे शिशूनां स्वप्नगोचरे ॥” ४ ॥
मङ्गलचण्डी यथा, --
“प्रधानांशस्वरूपा च देवी मङ्गलचण्डिका ।
प्रकृतेर्मुख्यसंभूता सर्व्वमङ्गलदा सदा ॥
सृष्टौ मङ्गलरूपा च संहरे कोपरूपिणी ।
तेन मङ्गलचण्डी सा पण्डितैः परिकीर्त्तिता ॥
प्रतिमङ्गलवारेषु प्रतिविश्वेषु वन्दिता ।
पञ्चोपचारैर्योषिद्भिर्भक्त्या च परिपूजिता ॥
पुत्त्रपौत्त्रधनैश्वर्य्ययशोमङ्गलदायिनी ।
लोकसन्तापपापार्त्तिदुःखदारिद्रनाशिनी ॥
परितुष्टा सर्व्ववाञ्छाप्रदात्री सर्व्वयोषिताम् ।
रुष्टा क्षणेन संहर्त्तुं शक्ता विश्वं महेश्वरी ॥” ५ ॥
काली यथा, --
“प्रधानांशस्वरूपा च काली कमललोचना ।
दुर्गाललाटसम्भूता रणे शुम्भनिशुम्भयोः ॥
दुर्गार्द्धांशस्वरूपा सा गुणेन तेजसा समा ।
कोटिसूर्य्यप्रभाजुष्टपुष्टजाज्वल्यविग्रहा ॥
प्रधाना सर्व्वशक्तीनां वरा बलवती परा ।
सर्व्वसिद्धिप्रदा देवी परमा सिद्धयोगिनी ॥
कृष्णभक्ता कृष्णतुल्या तेजसा विक्रमैर्गुणैः ।
कृष्णभावनया शश्वत् कृष्णवर्णा सनातनी ॥
संहंर्त्तुं सर्व्वब्रह्माण्डं शक्ता निश्वासमात्रतः ।
रणं दैत्यैः समं तस्याः क्रीडया लोकरक्षया ॥
धर्म्मार्थकाममोक्षाश्च दातुं शक्ता च पूजिता ।
ब्रह्मादिभिः स्तूयमाना मुनिभिर्मनुभिर्नरैः ॥” ६ ॥
पृष्ठ ३/२४४
वसुन्धराप्रकृतिर्यथा, --
“प्रधानांशस्वरूपा च प्रकृतेश्च वसुन्धरा ।
आधाररूपा सर्व्वेषां सर्व्वशस्यप्रसूतिका ॥
रत्नाकरा रत्नगर्भा सर्व्वरत्नाकरालया ।
प्रजाभिश्च प्रजेशैश्च पूजिता वन्दिता सदा ॥
सर्व्वोपजीव्यरूपा च सर्व्वसम्पद्विधायिनी ।
यया विना जगत् सर्व्वं निराधारं चराचरम् ॥ ७ ॥
प्रकृतेश्च कला या यास्ता निबोध मुनीश्वर ! ।
यस्य यस्य च याः पत्न्यस्ताः सर्व्वा वर्णयामि ते ॥
स्वाहा देवी वह्निपत्नी त्रिषु लोकेषु पूजिता ।
यया विना हविर्दानं न ग्रहीतुं सुराः क्षमाः ॥ १
दक्षिणा यज्ञपत्नी च दीक्षा सर्व्वत्र पूजिता ।
यया विना च विश्वेषु सर्व्व कर्म्म च निष्फलम् ॥ २ ॥
स्वधा पितॄणां पत्नी च मुनिभिर्मनुभिर्नरैः ।
पूजिता पितृदानञ्च निष्फलञ्च यया विना ॥ ३ ॥
स्वस्तिदेवी वायुपत्नी प्रतिविश्वेषु पूजिता ।
आदानञ्च प्रदानञ्च निष्फलञ्च यया विना ॥ ४ ॥
पुष्टिर्गणपतेः पत्नी प्रतिविश्वेषु पूजिता ।
यया विना परिक्षीणाः पुमांसो योषितो
भवेत् ॥ ५ ॥
अनन्तपत्नी तुष्टिश्च पूजिता वन्दिता भवे ।
यया विना न सन्तुष्टाः सर्व्वे लोकाश्च सन्ततम् ॥ ६
ईशानपत्नी सम्पत्तिः पूजिता च सुरैर्नरैः ।
सर्व्वलोका दरिद्राश्च विश्वेषु च यया विना ॥ ७ ॥
धृतिः कपिलपत्नी च सर्व्वैः सर्व्वत्र पूजिता ।
सर्व्वलोका अधैर्य्याः स्युर्ज्जगत्सु च यया विना ॥ ८
यमपत्नी क्षमा साध्वी सुशीला सर्व्वपूजिता ।
समुन्मत्ताश्च रुष्टाश्च सर्व्वलोका यया विना ॥ ९ ॥
कीडाधिष्ठातृदेवी च कामपत्नी रतिः सती ।
केलिकौतुकहीनाश्च सर्व्वलोका यया विना ॥ १०
सत्यपत्नी सती मुक्तिः पूजिता जगतां प्रिया ।
यया विना भवे लोका बन्धुतारहिताः सदा ॥ ११
मोहपत्नी दया साध्वी पूजिता च जगत्प्रिया ।
सर्व्वे लोकाश्च सर्व्वत्र निष्ठुराश्च यया विना ॥ १२
पुण्यपत्नी प्रतिष्ठा सा पुण्यरूपातिपूजिता ।
यया विना जगत् सर्व्वं जीवन्मृतपरं मुने ! ॥ १३
सुकर्म्मपत्नी कीर्त्तिश्च धन्या मान्या च पूजिता ।
यया विना जगत् सर्व्वं यशोहीनं मृतं यथा ॥ १४
क्रिया उद्योगपत्नी च पूजिता सर्व्वसम्मता ।
यथा विना जगत् सर्व्वमुच्छन्नमिव नारद ! ॥ १५ ॥
अधर्म्मपत्नी मिथ्या सा सर्व्वधूर्त्तैश्च पूजिता ।
यया विना जगन्मुक्तमुच्छन्नं विधिनिर्म्मितम् ॥
सत्ये चादर्शना या च त्रेतायां सूक्ष्मरूपिणी ।
अर्द्धावयवरूपा च द्वापरे संवृता भिया ॥
कलौ महाप्रमत्ता च सर्व्वत्र व्यापिका बलात् ।
कपटेन समं भ्रात्रा भ्रमत्येव गृहे गृहे ॥ १६ ॥
शान्ति-१७ र्लज्जा १८ च भार्य्ये द्वे सुशीलस्य
च पूजिता ।
याभ्यां विना जगत् सर्व्वमुन्मत्तमिव नारद ! ॥
ज्ञानस्य भार्य्यास्तिस्रश्च बुद्धि-१९ र्मेधा २०
स्मृति-२१ स्तथा ।
याभिर्व्विना जगत् सर्व्वं मूढं मृतसमं तदा ॥
मूर्त्तिश्च धर्म्मपत्नी सा कान्तिरूपा मनोहरा ।
परमा सा च विश्वौघा निराधारा यया विना ॥
सर्व्वत्र शोभारूपा सा लक्ष्मीर्मूर्त्तिमती सती ।
श्रीरूपा मूर्त्तिरूपा च मान्या धन्या च पूजिता
॥ २२ ॥
कालाग्निरुद्रपत्नी च निद्रा सा सिद्धयोगिनी ।
सर्व्वलोकाः समाच्छन्ना मायायोगेनरात्रिषु ॥ २३ ॥
कालस्य तिस्रो भार्य्याश्च सन्ध्या-२४ रात्रि-२५
दिनानि च २६ ।
याभिर्व्विना विधात्रा च संख्यां कर्त्तुंन शक्यते ॥
क्षुत्-२७ पिपासे २८ मनोभार्य्ये धन्ये मान्ये
सुपूजिते ।
याभ्यां व्याप्तं जगत् सर्व्वं युक्तचिन्तितमेव च ॥
प्रभा च २९ दाहिका ३० चैव द्वे भार्य्ये तेजस-
स्तथा ।
याभ्यां विना जगत् स्रष्टुं विधातापि नहीश्वरः ॥
कालकन्ये मृत्यु-३१ जरे ३२ प्रज्वरस्य प्रिये
प्रिये ।
याभ्यां जगत् समुच्छन्नं विधात्रा निर्म्मितं विधौ ॥
निद्राकन्या च तन्द्रा ३३ सा प्रीति-३४ रन्या
सुखप्रिये ।
याभ्यां व्याप्तं जगत् सर्व्वं विधिपुत्त्रविधेर्विधौ ॥
वैराग्यस्य हि जाये च श्रद्धा-३५ भक्ती ३६ च
पूजिते ।
याभ्यां शश्वज्जगत् सर्व्वं जीवन्मुक्तमिदं मुने ! ॥
अदिति-३७ र्द्देवमाता च सुरभी २८ च गवां
प्रसूः ।
दितिश्च ३९ दैत्यजननी कद्रुश्च ४० विनता ४१
दनुः ४२ ॥
उपयुक्ताः सृष्टिविधौ एताश्च प्रकृतेः कलाः ॥ *
कलाश्चान्याः सन्ति बह्व्यस्तासु काश्चिन्निबोध मे ॥
रोहिणी ४३ चन्द्रपत्नी च संज्ञा ४४ सूर्य्यस्य
कामिनी ।
शतरूपा ४५ मनोर्भार्य्या शचीन्द्रस्य च गेहिनी
४६ ॥
तारा ४७ बृहस्पतेर्भार्य्या वशिष्ठस्य त्वरु-
न्घती ४८ ।
अहल्या ४९ गौतमस्त्री तु सानसूया ५० त्रिका-
मिनी ॥
पितॄणां मानसी कन्या मेनका ५१ साम्बिका-
प्रसूः ।
लोपामुद्रा ५२ तथा भूती ५३ कुवेरकामिनी
तथा ॥
वरुणानी ५४ यमस्त्री च वलेर्ब्बिन्ध्यावली ५५
तथा ।
कुन्ती च ५६ दयमन्ती च ५७ यशोदा ५८
दैवकी ५९ सती ॥
गान्धारी ६० द्रौपदी ६१ सव्या ६२ सावित्री ६३
सत्यवत्प्रिया ।
वृषभानुप्रिया साध्वी राधामाता कलावती ६४ ॥
मन्दोदरी ६५ च कौशल्या ६६ सुभद्रा ६७
कैटभी ६८ तथा ।
रेवती ६९ सत्यभामा ७० च कालिन्दी ७१
लक्ष्मणा ७२ तथा ॥
जाम्बवती ७३ नाग्नजिती ७४ मित्रबिन्दा ७५
तथापरा ।
लक्ष्मणा ७६ रुक्मिणी ७७ सीता ७८ स्वयं-
लक्ष्मीः प्रकीर्त्तिता ॥
कला योजनगन्धा च ७९ व्यासमाता महासती ।
बाणपुत्त्री तथोषा ८० च चित्रलेखा च ८१
तत्सखी ॥
प्रभावती ८२ भानुमती ८३ तथा मायावती ८४ सती ।
रेणुका ८५ च भृगोर्माता हलिमाता च
रोहिणी ८६ ॥
एकानंशा ८७ च दुर्गांशा श्रीकृष्णभगिनी सती ।
बह्व्यः सन्ति कलाश्चैव प्रकृतेरेव भारते ॥
या याश्च ग्रामदेव्यस्ताः सर्व्वाश्च प्रकृतेः कलाः ।
कलांशांशसमुद्भूताः प्रतिविश्वेषु योषितः ॥ * ॥
योषितामपमानेन प्रकृतेश्च पराभवः ।
ब्राह्मणी पूजिता येन पतिपुत्त्रवती सती ॥
प्रकृतिः पूजिता तेन वस्त्रालङ्कारचन्दनैः ।
कुमारी चाष्टवर्षीया वस्त्रालङ्कारचन्दनैः ।
पूजिता येन विप्रस्य प्रकृतिस्तेन पूजिता ॥ * ॥
सर्व्वाः प्रकृतिसम्भूता उत्तमाधममध्यमाः ।
सत्वांशाश्चोत्तमा ज्ञेयाः सुशोलाश्च पतिव्रताः ॥
मध्यमा राजसाश्चांशास्ताश्च भोग्याः प्रकी-
र्त्तिताः ।
सुखसम्भोगवश्याश्च स्वकार्य्ये तत्पराः सदा ।
अधमास्तामंसाश्चांशा अजातकुलसम्भवाः ॥
दुर्मुखाः कुलटा धूर्त्ताः स्वतन्त्राः कलहप्रियाः ।
पृथिव्यां कुलटा याश्च स्वर्गे चाप्सरसां गणाः ॥
प्रकृतेस्तामसांशांशाः पुंश्चल्यः परिकीर्त्तिताः ।
एवं निगदितं सर्व्वं प्रकृतेः परिकीर्त्तनम् ॥ * ॥
ताश्च सर्व्वाः पूजिताश्च पुण्यक्षेत्रे च भारते ।
पूजिता सुरथेनादौ दुर्गा दुर्गतिनाशिनी ॥
द्वितीये रामचन्द्रेण रावणस्य वधार्थिना ॥
तत्पश्चाज्जगतां माता त्रिषु लोकेषु पूजिता ।
जातादौ दक्षपत्न्याञ्च निहत्य दैत्यदानवान् ॥
ततो देहं परित्यज्य यज्ञे भर्त्तुश्च निन्दया ।
जज्ञे हिमवतः पत्न्यां लेभे पशुपतिं पतिम् ॥
गणेशश्च स्वयं कृष्णः स्कन्दो विष्णुकलोद्भवः ।
बभूवतुस्तौ तनयौ पश्चात्तस्याश्च शौनक ! ॥
लक्ष्मीर्म्मलयभूपेन प्रथमे परिपूजिता ।
त्रिषु लोकेषु तत्पश्चाद्देवतामुनिमानवैः ॥
सावित्री चाश्वपतिना प्रथमे परिपूजिता ।
तत्पश्चात्त्रिषु लोकेषु देवतामुनिमानवैः ॥
आदौ सरस्वती देवी ब्रह्मणा परिपूजिता ।
तत्पश्चात्त्रिषु लोकेषु देवतामुनिमानवैः ॥
प्रथमे पूजिता राधा गोलोके रासमण्डले ।
पौर्णमास्यां कार्त्तिकस्य कृष्णेन परमात्मना ॥
गोपिकाभिश्च गोपैश्च बालिकाभिश्च बालकैः ।
गवां गणैः सुरभ्या च तत्पश्चान्मायया हरेः ॥
तदा ब्रह्मादिभिर्द्देर्वैर्मुनिभिर्मनुभिस्तथा ।
पुष्पधूपादिभिर्भक्त्या पूजिता वन्दिता सदा ॥
पृष्ठ ३/२४५
पृथिव्यां प्रथमे देवी सुयज्ञेनैव पूजिता ।
शङ्करेणोपदिष्टेन पुण्यक्षेत्रे च भारते ॥
त्रिषु लोकेषु तत्पश्चादाज्ञया परमात्मनः ।
पुष्पधूपादिभिर्भक्त्या पूजिता मुनिभिः सुरैः ॥
कलया याः समुद्भूताः पूजितास्ताश्च भारते ।
पूजिता ग्रामदेव्यश्च ग्रामे च नगरे मुने ! ॥
एवं ते कथितं सर्व्वं प्रकृतेश्चरितं शुभम् ।
यथागमं लक्षणञ्च किं भूयः श्रोतुमिच्छसि ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे प्रकृतिचरितं
नामानुक्रमः प्रथमोऽध्यायः ॥ * ॥ पुरुषनाम्नो-
ऽग्रे प्रकृतेर्न्नाम्न उच्चार्य्यता यथा, --
नारद उवाच ।
“आदौ राधांसमुच्चार्य्य पश्चात्कृष्णं विदुर्ब्बुधाः ।
निमित्तमस्य मां भक्तं वद भक्तजनप्रिय ! ॥
श्रीनारायण उवाच ।
निमित्तमस्य त्रिविधं कथयामि निशामय ।
जगन्माता च प्रकृतिः पुरुषश्च जगत्पिता ।
गरीयसीति जगतां माता शतगुणैः पितुः ॥
राधाकृष्णेति गौरीशेत्येवं शब्दः श्रुतौ श्रुतः ।
कृष्णराधेशगौरीति लोके न च कदा श्रुतः ॥
प्रसीद रोहिणीचन्द्र गृहाणार्घ्यामदं मम ।
गृहाणार्घ्यं मया दत्तं संज्ञया सह भास्कर ! ॥
प्रसीद कमलाकान्त गृहाण मम पूजनम् ।
इति दृष्टं सामवेदे कौथुमे मुनिसत्तम ! ॥
राशब्दोच्चारणादेव स्फीतो भवति माधवः ।
धाशब्दोच्चारतः पश्चाद्धावत्येव ससम्भ्रमः ॥
आदौ पुरुषमुच्चार्य्य पश्चात् प्रकृतिमुच्चरेत् ।
स भवेन्मातृगामी च वेदातिक्रमणे मुने ! ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ५० अध्यायः ॥

प्रकृष्टं, त्रि, (प्रकृष्यते इति । प्र + कृष + क्त ।)

प्रकर्षयुक्तम् । तत्पर्य्यायः । मुख्यम् २ प्रमुखम् ३
प्रवर्हम् ४ वर्य्यम् ५ वरेण्यम् ६ प्रवरम् ७ पुरो-
गम् ८ अनुत्तरम् ९ प्राग्रहरम् १० प्रवेकम् ११
प्रधानम् १२ अग्रेसरम् १३ उत्तमम् १४
अग्रम् १५ ग्रामणीः १६ अग्रणीः १७ अग्रि-
मम् १८ जात्यम् १९ अग्र्यम् २० अनुत्तमम् २१
अनवरार्द्ध्यम् २२ प्रेष्ठम् २३ परार्द्ध्यम् २४
परम् २५ । इति हेमचन्द्रः । ६ । ७४ ॥ (यथा,
मनुः । ७ । १७० ।
“यदा प्रकृष्टा मन्येत सर्व्वास्तु प्रकृतीर्भृशम् ।
अत्युच्छ्रितं तथात्मानं तदा कुर्व्वीत विग्रहम् ॥”
आकृष्टम् । यथा, देवीभागवते । १ । ९ । ८२ ।
“रथाङ्गेन तदा च्छिन्ने विष्णुना प्रभविष्णुना ।
जघनोपरि वेगेन प्रकृष्टे शिरसी तयोः ॥”)

प्रकोष्ठः, पुं, (पुकुष्यतेऽनेनेति । प्र + कुष निष्कर्षे +

“उषिकुषीति ।” उणा० २ । ४ । इति स्थन् ।)
कफोणेरधोमणिबन्धपर्य्यन्तहस्तभागः । इत्य-
मरः । २ । ६ । ८० ॥ (यथा, रघुः । ३ । ५९ ।
“ततः प्रकोष्ठ हरिचन्दनाङ्किते
प्रमथ्यमानार्णवधीरनादिनीम् ।
रघुः शशाङ्कार्द्धमुखेन पत्रिणा
शरासनज्यामलुनाद्विडौजसः ॥”)
गृहद्वारपिण्डकम् । वीथी इति विहोन्द इति
च ख्यातम् । इति प्रघाणशब्दटीकायां भरत-
मुकुटमथुरेशाः ॥ (यथा, मानवे । ७ । २२३ ।
श्लोकटीकायां कुल्लूकभट्टः ।
“ततः सन्ध्योपासनं कृत्वा तस्मात् प्रदेशात्
कक्षान्तरं विविक्तप्रकोष्ठावकाशमन्यद्गत्वा
गृहाभ्यन्तरे धृतशस्त्रो रहस्याभिधायिनां
चराणां स्वव्यापारं शृणुयात् ॥”)

प्रक्खरः, पुं, (प्रक्षर + पृषोदरादित्वात् साधुः ।)

अश्वकवचः । इति शब्दमाला ॥ प्रखर इति च
पाठः ॥

प्रक्रन्ता, [न्तृ] त्रि (प्र + क्रम + तृच् ।) उपक्रम-

कर्त्ता । आरम्भकर्त्ता । इति व्याकरणम् ॥

प्रक्रमः, पुं, (प्र + क्रम + भावे घञ् ।) क्रमः ।

अवसरः । इति मेदिनी । मे, ४९ ॥ प्रथमारम्भः ।
तत्पर्य्यायः । उपक्रमः २ । इत्यमरः । ३ । २ । २६ ॥
(यथा, कथासरित्सागरे । १८ । ६३ ।
“पूर्ब्बजैरपि हि प्राची प्रक्रमेण जिता दिशः ।
गङ्गोपकण्ठे वासश्च विहितो हस्तिनापुरे ॥”)

प्रक्रान्तः, त्रि, (प्र + क्रम + क्तः ।) प्रकरणस्थः ।

आरब्धः । यथा, भट्टिः । ४ । ११ ।
“आतिष्ठद्गु जपन् सन्ध्यां प्रक्रान्तामायतीगवम् ।
प्रातस्तरां पतत्रिभ्यः प्रबुद्धः प्रणमन्रविम् ॥”

प्रक्रिया, स्त्री, (प्र + कृ + शः ।) नृपदीनां चामर-

धूननच्छत्रधारणादिव्यापारः । तत्पर्य्यायः ।
अधिकारः २ । इत्यमरः । २ । ८ । ३१ ॥
अधीकारः ३ नियतविधिः ४ । इति शब्दरत्ना-
वली ॥ प्रकृष्टकार्य्यम् ॥ (यथा, महाभारते ।
१२ । १११ । ५८ ।
“नोच्छ्रितं सहते कश्चित् प्रक्रिया वैरकारिका ।
शुचेरपि हि युक्तस्य दोष एव निपात्यते ॥”)

प्रक्लिन्नः, त्रि, (प्र + क्लिद् + क्त ।) तृप्तः । इति

जटाधरः ॥ प्रकर्षेण क्लेदयुक्तश्च ॥

प्रक्वणः, पुं, (प्र + क्वण शब्दे + “क्वणो वीणायाञ्च ।”

३ । ३ । ६५ । इति अप् ।) बीणायाः क्वणितः ।
बीणाशब्दः । तत्पर्य्यायः । प्रक्वाणः २ । इत्य-
मरः । १ । ६ । २४ ॥ सुक्वाणः ३ सुक्वणः ४ उप-
क्वाणः ५ उपक्वणः ६ । इति भरतः ॥

प्रक्वाणः, पुं, (प्र + क्वण + घञ् ।) प्रक्वणः । इत्य-

मरः । १ । ६ । २४ ॥

प्रक्षरः, पुं, (प्रकर्षेण क्षरति सञ्चलतीति । प्र +

क्षर + अच् ।) अश्वसन्नाहः । इति हेमचन्द्रः ।
४ । ३१७ ॥

प्रक्षालनं, क्ली, (प्र + क्षालि + ल्युट् ।) धावनम् ।

मार्ज्जनम् । यथा, --
“धर्म्मार्थं यस्य वित्तेहा वरं तस्य निरीहता ।
प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥”
इति हितोपदेशे १ परिच्छेदः ॥

प्रक्षालितः, त्रि, (प्र + क्षालि + क्तः ।) धौतः ।

मार्ज्जितः । इति हलायुधः ॥

प्रक्षेपः, पुं, (प्र + क्षिप + घञ् ।) औषधादिषु

क्षेपणीयद्रव्यम् । यथा, --
“प्रक्षेपः पादिकः क्वाथ्यात् स्नेहे कल्कसमो मतः ।
षोडशाष्टचतुर्भागं वातपित्तकफार्त्तिषु ॥
क्षौद्रं कषाये दातव्यं विपरीता तु शर्करा ।
मात्रा क्षौद्रघृतादीनां स्नेहे क्वाथे च चूर्णवत् ॥
माषिकं हिङ्गु सिन्धूत्थं जरणाद्यास्तु
शाणिकाः ॥”
इति वैद्यकपरिभाषा ॥
विक्षेपः । यथा, “समित्प्रक्षेपान्तं कर्म्म कृत्वा ।”
इति भवदेवभट्टः ॥ (प्रहरणम् । यथा, भाग-
वते । ४ । २९ । १९ ।
“मनोरश्मिर्बुद्धिसूतो हृन्नीडो द्वन्द्वकूवरः ।
पञ्चेन्द्रियार्थप्रक्षेपः सप्तधातुवरूथकः ॥”)

प्रक्षेपणं, क्ली, (प्र + क्षिप् + ल्युट् ।) प्रकर्षेण

क्षेपः । निक्षेपणम् । (यथा, याज्ञवल्क्ये । २ । २६४ ।
“अर्घप्रक्षेपणात् विंशं भागं शुल्कं नृपो हरेत् ॥”)

प्रक्ष्वेडनः, पुं, (प्रक्ष्वेडतीति । प्र + क्ष्विड अव्यक्त-

शब्दे + ल्युः ।) नाराचः । इत्यमरः । २ । ८ । ८७ ॥

पक्ष्वेडना, स्त्री, (प्रक्ष्वेडन + टाप् । यद्वा, प्रक्ष्वे-

डनं अव्यक्तशब्दोऽस्त्यस्या इति । अच् । टाप् ।)
नाराचः । इत्यमरटीकायां भगीरथः ॥

प्रक्ष्वेदनः, पुं, (प्रक्ष्वेदतीति । प्र + क्ष्विद अव्यक्त-

शब्दे + ल्युः ।) नाराचः । इत्यमरटीकायां भगी-
रथः ॥

प्रक्ष्वेदना, स्त्री, (प्रक्ष्वेदन + टाप् ।) नाराचः ।

इत्यमरटीकायां भगीरथः ॥

प्रखरः, पुं, (प्रकृष्टः खरः ।) हयसन्नाहः । कुक्कुरः ।

अश्वतरः । अत्यन्तखरे, त्रि । इति मेदिनी ॥

प्रख्यः, त्रि, (प्रख्यातीति । प्र + ख्या ख्यातौ +

कः ।) उत्तरपदे तुल्यार्थवाचकः यथा, --
“स्युरुत्तरपदे प्रख्यः प्रकारः प्रतिमो निभः ॥”
इति हेमचन्द्रः ॥
(यथा, महाभारते । १ । २०८ । ३१ ।
“द्विपक्षगरुडप्रख्यैर्द्वारैः सौधैश्च शोभितम् ।
गुप्तमभ्रचयप्रख्यैर्गोपुरैर्म्मन्दरोपमैः ॥”
श्रेष्ठः । यथा, तत्रैव । १२ । २०४ । ८ ।
“ज्ञानमुत्पद्यते पुंसां क्षयात् पापस्य कर्म्मणः ।
यथादर्शतले प्रख्ये पश्यत्यात्मानमात्मनि ॥”)

प्रख्यातः, त्रि, (प्र + ख्या + क्त ।) प्रकृष्टख्याति-

युक्तः । विख्यातः । यथा, --
“यस्य व्याकरणे वरेण्यघटनास्फीताः प्रबन्धा दश
प्रख्याता नव वैद्यकेऽपि तिथिनिर्द्धारार्थ-
मेकोऽद्भुतः ॥”
इति मुग्धबोधशेषे तच्छिष्यपदम् ॥

प्रख्यातवप्तृकः, पुं, (प्रख्यातो वप्ता जनयिता यस्य ।

कप् ।) विख्यातपितृकः । यथा, --
“स्यादामुष्यायणोऽमुष्य पुत्त्रः प्रख्यातवप्तृकः ॥”
इति हेमचन्द्रः । ३ । १६६ ॥

प्रख्यातिः, स्त्री, प्रकृष्टकीर्त्तिः । विख्यातिः । प्रपूर्ब्ब-

ख्याधातोः क्तिन्प्रत्ययनिष्पन्ना ॥

प्रगण्डः, पुं, (प्रत्यासन्नो गण्डो ग्रन्थिर्यस्य ।)

कुर्परोपरिकक्षपर्य्यन्तभागः । इत्यमरः । २ । ६ । ८० ॥
कनुइ अवधि वगल पर्य्यन्त इति भाषा ॥
पृष्ठ ३/२४६

प्रगण्डी, स्त्री, (प्रगण्ड + गौरादित्वात् ङीष् )

बहिःप्राकारः । दुर्गप्राकारभित्तौ शूराणां उप-
वेशनस्थानानि । (यथा, महाभारते । १२ ।
६९ । ४३ ।
“प्रगण्डीः कारयेत् सम्यगाकाशजननीस्तदा ॥”)

प्रगतजानुः, त्रि, (प्रगते संश्लिष्टे जानुनी यस्य ।)

प्रगतजानुकः । इत्यमरटीकायां रमानाथः ॥

प्रगतजानुकः, त्रि, (प्रगते जानुनी यस्य । कप् ।)

यस्य जानुनोर्म्मध्ये नित्यं कादाचित्कं वा मह-
दन्तरालं सः । पाफाराक् व्यक्ति इति भाषा ॥
तत्पर्य्यायः । प्रज्ञुः २ । इत्यमरः । २ । ६ । ४७ ॥
प्रज्ञः ३ प्रगतजानुः ४ । इति भरतः ॥

प्रगन्धः, पुं, (प्रकृष्टो गन्धो यस्य ।) पर्पटः । इति

राजनिर्घण्टः ॥

प्रगल्भः, त्रि, (प्रगल्भते इति । प्र + गल्भ धार्ष्ट्ये +

पचाद्यच् ।) प्रत्युत्पन्नमतिः । तत्पर्य्यायः ।
प्रतिभान्वितः २ । इत्यमरः । ३ । १ । २५ ॥
(यथा, महाभारते । १२ । ६८ । ५८ ।
“प्रज्ञा प्रगल्भं कुरुते मनुष्यं
राजा कृशान् वै कुरुते मनुष्यान् ॥”)

प्रगल्भता, स्त्री, प्रगल्भस्य भावः । (प्रगल्भ + तल् ।)

प्रागल्भ्यम् । तत्पर्य्यायः । उत्साहः २ अभि-
योगः ३ उद्यमः ४ प्रौढिः ५ उद्योगः ६ किय-
देतिका ७ अध्यवसायः ८ ऊर्ज्जः ९ । इति
हेमचन्द्रः । २ । २१३ ॥ तस्य लक्षणम् । यथा,
“निःशङ्कत्वं प्रयोगेषु बुधैरुक्ता प्रगल्भता ॥”
इत्युज्ज्वलनीलमणिः ॥
(यथा, कुमारे । ६ । ३२ ।
“आर्य्याप्यरुन्धती तत्र व्यापारं कर्त्तुमर्हति ।
प्रायेणैवंविधे कार्य्ये पुरन्ध्रीणां प्रगल्भता ॥”)

प्रगल्भा, स्त्री, (प्रगल्भते धृष्टा भवतीति । प्र +

गल्भ धार्ष्ट्ये + पचादित्वादच् । ततष्टाप् ।)
नायिकाभेदः । अस्या लक्षणम् । पतिमात्र-
विषयकेलिकलापकोविदा । अस्याश्चेष्टा रति-
प्रीतिः । आनन्दादात्मसंमोहः । रतिप्रीति-
र्यथा, --
“संस्पृश्य स्तनमाकलय्य वदनं संश्लिष्य कण्ठस्थलं
निष्पीयाधरविम्बमम्बरमपाकृष्य व्युदस्यालकम् ।
देवस्याम्बुजिनीपतेः समुदयं जिज्ञासमाने प्रिये
वामाक्षी वसनाञ्चलैः श्रवणयोर्नीलोत्पलं
निह्नुते ॥”
आनन्दादात्मसंमोहो यथा, --
“नखाङ्कितमुरःस्थलेऽधरतले रदस्य क्षतं
च्युता वकुलमालिका विगलिता च मुक्तावली ।
रतान्तसमये मया सकलमेतदालोचितं
स्मृतिः क्व च पतिः क्व च क्व च तवालिशिक्षा-
विधिः ॥”
सा मानावस्यायां त्रिविधा । धीरा अधीरा
धीराधीरा च । व्यङ्ग्यकोपप्रकाशा धीरा ।
अव्यङ्ग्यकोपप्रकाशा अधीरा । व्यङ्ग्याव्यङ्ग्यकोप-
प्रकाशा धीराधीरा । प्रौढाधीरायास्तु रता-
वौदास्यम् । अधीरायास्तर्ज्जनताडनादि ।
धीराधीराया रतावौदास्यं तर्ज्जनादि च
कोपस्य प्रकाशकम् । प्रौढाधीरा यथा, --
“नो तल्पं भजसे न जल्पसि सुधाधारानुकारा
गिरो
दृक्पातं कुरुषे न वा परिजने कोपप्रकाश-
च्छलात् ।
इत्थं केतकगर्भगौरि दयिते कोपस्य संगोपनं
किं स्यादेव नचेत् पुनः सहचरी कुर्व्वीत साचि
स्मितम् ॥”
प्रगल्भा अधीरा यथा, --
“प्रतिफलमवलोक्य स्वीयमिन्दोः कलायां
हरशिरसि परस्या वासमाशङ्कमाना ।
गिरिशमचलकन्या तर्ज्जयामास कम्प
प्रचलबलयवेल्लत्कान्तिभाजा करेण ॥”
प्रगल्भा धीराधीरा यथा, --
“तल्पोपान्तमुपेयुषि प्रियतमे साचीकृतग्रीवया
काकुव्याकुलवाचि साचिहसितस्फुर्जत्कपोल-
श्रिया ।
हस्तन्यस्तकरे पुनर्मृगदृशा लाक्षारसक्षालित-
प्रोष्ठीपृष्ठमयूखमांसलरुचो विस्फारिता दृष्टयः ॥”
इति रसमञ्जरी ॥
(तल्लक्षणञ्च यथा साहित्यदर्पणे । ३ । १०१ ।
“स्मरान्धा गाढतारुण्या समस्तरतकोविदा ।
भावोन्नता दरव्रीडा प्रगल्भाक्रान्तनायका ॥”
तस्या उदाहरणभेदादिकं तत्रैव विशेषतो द्रष्ट-
व्यम् ॥)

प्रगाढं, त्रि, (प्रकर्षेण गाह्यते स्मेति । प्र + गाह

+ क्तः । “यस्य विभाषा ।” ७ । २ । १५ । इति
न इट् ।) भृशम् । कृच्छ्रम् । इत्यमरः । ३ ।
३ । ४४ ॥ (यथा, महाभारते । ४ । ५९ । २६ ।
“अहमिन्द्राद्दृढां मुष्टिं ब्रह्मणः कृतहस्तताम् ।
प्रगाढे तुमुलं चित्रमभ्यशिक्षं प्रजापतेः ॥”)
दृढम् । इति भरतः ॥ (यथा, महाभारते ।
७ । ९७ । ४८ ।
“तत्रान्तरीक्षे बाणानां प्रगाढानां विशाम्पते ।
संघर्षेण महार्च्चिष्मान् पावकः समजायत ॥”)
घनम् । यथा, सुश्रुते चिकित्सितस्थाने ५ अः ।
“तूणीप्रतूण्योः स्नेहलवणमुदकेन पाययेत्
पिप्पल्यादिचूर्णं वा हिङ्गुयवक्षारप्रगाढं सर्पि-
र्वर्त्तिभिश्चैनमुपक्रमेत् ॥”)

प्रगाता, [तृ] त्रि, (प्र + गै + तृच् ।) उत्तम-

गायकः । इति शब्दरत्नावली ॥ (यथा, महा-
भारते । ३ । २३९ । ८ ।
“ततो गोपाः प्रगातारः कुशला नृत्यवादिते ।
धार्त्तराष्ट्रमुपातिष्ठन् कन्याश्चैव स्वलङ्कृताः ॥”)

प्रगुणः, त्रि, (प्रकर्षेण गुणो यत्र ।) ऋजुः ।

इत्यमरः । ३ । १ । ७२ ॥ (प्रकृष्टगुणवति, त्रि ।
यथा, रघौ । ९ । ४९ ।
“परिचयं चललक्ष्यनिपातने
भयरुषोश्च तदिङ्गितबोधनम् ।
श्रमजयात् प्रगुणाञ्च करत्यसौ
तनुमतोऽनुमतः सचिवैर्ययौ ॥”)

प्रगृह्यं, त्रि, (प्रगृह्यते इति । प्र + ग्रह + “पदास्वै-

रिबाह्यापक्ष्येषु च ।” ३ । १ । ११९ । इति क्यप् ।
“ग्रहिज्येति । ६ । १ । १६ । इति सम्प्रसार-
णम् ।) सन्धिरहितं पदम् । इति मुग्धबोध-
व्याकरणम् ॥ पदपक्षपरतन्त्रबहिर्भूतेषु गृह्यपदं
निपात्यते । यथा, प्रगृह्यं पदं यत् स्वरेण न
समुन्नीयते । इति दुर्गादासः ॥ “आप्रगृह्यः
स्मृतौ वाक्ये ।” इत्यमरः ॥ प्रगृह्यः पाणिन्यादि-
कृतप्रगृह्यसंज्ञो ङानुबन्धरहितः आशब्दः
योऽचा न सन्धीयते स इत्यर्थः । स्मृतौ स्मरणे
यथा । आ ज्ञातं स जटायुरेषः । वाक्ये यथा ।
आ एवं मन्यसे । इति भरतः ॥

प्रगे, व्य, (प्रकर्षेण गीततेऽत्रेति । प्र + गै + के ।)

प्रातः । इत्यमरः । ३ । ४ । १९ ॥ (यथा,
माधे । १२ । १ ।
“इत्थं रथाश्वेभनिषादिनाम्प्रगे
गणो नृपाणामथ तोरणाद्बहिः ।
प्रस्थानकालक्षमवेशकल्पना
कृतक्षणक्षेपमुदैक्षताच्युतम् ॥”)

प्रगेतनः, त्रि, (प्रगे प्रातर्भव इति । प्रगे + “साय-

ञ्चिरमिति ।” ४ । ३ । २३ । इति ट्यु तुट् च ।)
प्रगे भवः । प्रातर्भवः । तत्पर्य्यायः । श्वस्तनः
२ । इति राजनिर्घण्टः ॥

प्रग्रहः, पुं, (प्रगृह्यते इति प्रगृह्णात्यनेनेति वा ।

प्र + ग्रह + “प्रे वणिजाम् ।” ३ । ३ । ५२ । “रश्मौ
च ।” ३ । ३ । ५३ । इति घञभावपक्षे “ग्रह-
वृदृनिश्चिगमश्च ।” ३ । ३ । ५८ । इति अप् ।)
तुलासूत्रम् । अश्वादिरश्मिः । वन्दी । इत्य-
मरः । ३ । ३ । २३६ ॥ नियमनम् ॥ (यथा,
महाभारते । ३ । १७९ । १६ ।
“नहि मे मुच्यते कश्चित् कथञ्चित् प्रग्रहं गतः ।
गजोवा महिषो वापि षष्ठे काले नरोत्तम ! ॥”)
भुजः । रश्मिः । (यथा, गोलाध्याये । ८ ।
“इन्दोः प्राच्यां भवति तरणेः प्रग्रहः किं प्रती-
च्याम् ॥”)
सुवर्णालुमहीरुहः । इति मेदिनी ॥ कर्णिकार-
वृक्षः । इति राजनिर्घण्टः ॥ (तत्पर्य्यायो यथा,
“आरेवतो राजवृक्षः प्रग्रहश्चतुरङ्गुलः ।
आरग्वधोऽथ सम्पाकः कृतमालः सुवर्णकः ॥”
इति वैद्यकरत्नमालायाम् ॥
प्र + ग्रह + भावे अप् । इन्द्रियादीनां निग्रहः ।
यथा, हरिवंशे भविष्यपर्व्वणि । ८ । ७८ ।
“व्यर्थो हि केवलं तस्य प्रग्रहो वाह्यगोचरः ।
तस्मात् सर्व्वप्रयत्नेन चित्तं रक्ष जनार्द्दन ! ॥”
धारणम् । यथा, हरिवंशे भविष्यपर्व्वणि ।
२२ । ४ ।
“उद्धवोऽथ महाबुद्धिरुग्रसेनो महाबलः ।
अन्ये च यादवाः सर्व्वे कवचप्रग्रहे रताः ॥”
अवलम्बनम् । यथा, हरिवंशे । ४१ । १६९ ।
“नृपेष्वथ प्रनष्टेषु जगत्यप्रग्रहाः प्रजाः ।
क्षणेन निर्वृते चैवं हत्वा चान्योन्यमाहवे ॥
परस्परहृतस्वाश्च निराक्रन्दाः सुदुःखिताः ।
पृष्ठ ३/२४७
एवं कष्टमनुप्राप्ताः कलिसन्ध्यांशके तदा ॥”
विष्णुः । यथा, महाभारते । १३ । १४९ । ९४ ।
“प्रग्रहो निग्रहो व्यग्रोऽनेकशृङ्गो गदाग्रजः ॥”
प्रकृष्टाधिष्ठानादौ, त्रि । यथा, रामायणे । २ ।
८२ । १ ।
“तामार्य्यगणसम्पूर्णां भरतः प्रग्रहां सभाम् ।
ददर्श बुद्धिसम्पन्नः पूर्णचन्द्रां निशामिव ॥”
“प्रग्रहा प्रकृष्टैर्व्वशिष्ठादिभिर्ग्रहोऽधिष्ठानं
यस्यां सा ।” इति तट्टीका ॥ उद्यतबाहुः ।
यथा, रामायणे । ७ । ९५ । १४ ।
“एवमुक्तस्तु मुनिना प्राञ्जलिः प्रग्रहो नृपः ।
अभ्यवादयत प्राज्ञस्तमृषिं सत्यशालिनम् ॥”)

प्रग्राहः, पुं, (प्रगृह्यते इति । प्र + ग्रह + “प्रे बणि-

जाम् ।” ३ । ३ । ५२ । “रश्मौ च ।” ३ । ३ । ५३ ।
इति च घञ् ।) प्रग्रहः । इत्यमरः । ३ । ३ ।
२३६ ॥ (“प्रे लिप्सायाम् ।” ३ । ३ । ४६ ।
इति घञ् । प्रग्रहणम् । “पात्रप्रग्राहेण चरति
भिक्षुः ।” इति सिद्धान्तकौमुदी ॥)

प्रग्रीवः, पुं क्ली, (प्रकृष्टा ग्रीवा ग्रीवाकृतिरस्य ।)

गृहादौ प्रान्ते धारणं दारुपङ्क्तिः । वाता-
यनम् । इति सुभूतिः । सुखशाला । इत्येके ।
अश्वशाला । इति केचित् । द्रुमशीर्षकम् । इति
गोवर्द्धनः । इत्यमरटीकायां भरतः ॥

प्रघटावित्, [द्] त्रि, (प्रघटां आडम्बरं

वेत्तीति । प्रघटा + विद् + क्विप् ।) शास्त्रगण्डः ।
इति त्रिकाण्डशेषः ॥

प्रघणः, पुं, (प्रविशद्भिर्जनैः पादैः प्रकर्षेण हन्यते

इति । प्र + हन + “अगारैदेशे प्रघणः प्रघा-
णश्च ।” ३ । ३ । ७९ । इति कर्म्मणि अप् ।
नत्वञ्च ।) बहिर्द्वारप्रकोष्ठकम् । तत्पर्य्यायः ।
प्रघाणः २ अलिन्दः ३ । इत्यमरः । २ । २ । १२ ॥
आलिन्दः ४ । इति भरतः ॥ ताम्रकुम्भः ।
लौहमुद्गरः । इति मेदिनी । णे, ६० ॥ (गृहा-
भ्यन्तरशय्यार्थपिण्डिका । यथा, --
“प्रघाणप्र घणालिन्दा द्वारबाह्यप्रकोष्ठके ।
गृहाभ्यन्तरशय्यार्थपिण्डिकायामपि त्रयम् ॥”
इति शब्दरत्नावली ॥)

प्रघनः, पुं, (प्रविशद्भिर्जनैः पादैः प्रकर्षेण हन्यते

इति । प्र + हन + अप् । न नत्वम् ।) प्रघणः ।
इति मुकुटः ॥

प्रघसः, पुं, (प्रकर्षेण अत्तीति । प्र + अद + अप् ।

“घञपोश्च ।” २ । ४ । ३८ । इति घस्ला-
देशः ।) असुरः । दैत्यः । इति त्रिकाण्डशेषः ॥
(राक्षसभेदः । यथा, महाभारते । ३ । २८४ । २ ।
“पर्व्वणः पूतनो जम्भः खरः क्रोधवशो हरिः ।
प्ररुजश्चारुजश्चैव प्रघसश्चैवमादयः ॥”)

प्रघाणः, पुं, (प्रहन्यते इति । प्र + हन् + “अगा-

रैकदेशे प्रघणः प्रघाणश्च ।” ३ । ३ । ७९ ।
अप् । पक्षे वृद्धिश्च ।) प्रघणः । इत्यमरः ।
२ । २ । १२ ॥ (यथा, नैषधे । १९ । ११ ।
“नयति भगवानम्भोजस्यानिबन्धनबान्धवः
किमपि मघवत्प्रासादस्य प्रघाणमुपघ्नताम् ।
अपसरदरिध्वान्तप्रत्यग्वियत्पथमण्डली
लगनफलदश्रान्तस्वर्णाचलभ्रमविभ्रमः ॥”)

प्रघातः, पुं, (पकर्षेण हन्यते यत्रेति । प्र +

हन् + घञ् ।) युद्धम् । इति हेमचन्द्र-
टीका ॥

प्रघानः, पुं, (प्रविशद्भिर्जनैः पादैः प्रकर्षेण हन्यते

इति । प्र + हन + अप् । वृद्धिः । न नत्वम् ।)
प्रघणः । इति मुकुटः ॥

प्रघूर्णः, पुं, (प्रघूर्णति भ्रमतीति । प्र + घूर्ण +

अच् ।) अतिथिः । इति हेमचन्द्रः ॥ प्रकृष्टघूर्ण-
युक्ते, त्रि ॥

प्रघोषकः, पुं, (प्र + घुष् + भावे घञ् । ततः

कन् ।) ध्वनिः । इति जटाधरः ॥

प्रचक्रं, क्ली, (प्रगतञ्चक्रमिति प्रादिसमासः ।)

चलितसैन्यम् । प्रस्थितसेना । इत्यमरः । २ । ८ । ९६ ॥

प्रचक्षाः, [स्] पुं, (प्रकर्षेण चक्षते वक्तीति ।

प्र + चक्ष + असिः । न ख्यादेशः ।) बृह-
स्पतिः । इत्युणादिकोषः ॥

प्रचण्डः, पुं, (प्रकर्षेण चण्डः उग्रगुणत्वात् ।)

श्वेतकरवीरः । इति मेदिनी ॥ (वत्सप्रीनाम-
नृपतेः सुनन्दागर्भजातः पुत्त्रभेदः । यथा, मार्क
ण्डेये । ११८ । २ ।
“वलीवलाकश्चण्डश्च प्रचण्डश्च सुविक्रमः ॥”)

प्रचण्डः, त्रि, (प्रकर्षेण चण्डः ।) दुर्व्वहः । दुर्धर्षः ।

प्रगल्भः । (यथा, आर्य्यासप्तशत्याम् । ३३० ।
“नाहं वदामि सुतनु त्वमशीला वा प्रचण्ड-
चरिता वा ।
प्रेमस्वभावसुलभं भयमुदयति मम तु हृदयस्य ॥”)
प्रतापी । इति मेदिनी नानार्थरत्नमाला च ॥
(यथा, भागवते । १ । ७ । २१ ।
“ततः प्रादुष्कृतं तेजः प्रचण्डं सर्व्वतोदिशम् ।
प्राणापदमभिप्रेक्ष्य विष्णुं जिष्णुरुवाच ह ॥”)

प्रचण्डमूर्त्तिः, स्त्री, (प्रचण्डा मूर्त्तिर्यस्य ।) वरुण-

वृक्षः । इति शब्दचन्द्रिका ॥ प्रतापयुक्तशरी-
रश्च ॥

प्रचण्डा, स्त्री, (प्रकर्षेण चण्डा ।) दुर्गाया अष्ट-

नायिकान्तर्गतनायिकाभेदः । इति कालीपुरा-
णम् ॥ (सा तु छगलण्डे पीठस्थाने विराजते ।
यथा, देवीभागवते । ७ । ३० । ७३ ।
“छगलण्डे प्रचण्डा तु चण्डिकामरकण्टके ॥”)
श्वेतदूर्व्वा । इति राजनिर्घण्टः ॥

प्रचयः, पुं, (प्रचीयते इति । प्र + चिञ चयने +

“एरच् ।” ३ । ३ । ५६ । इत्यच् ।) समूहः । इति
शब्दचन्द्रिका ॥ शिथिलाख्यसंयोगः । स च
परिमाणजनकः । यथा, --
“संख्यातः परिमाणाच्च प्रचयादपि जायते ।
प्रचयः शिथिलाख्यो यः संयोगस्तेन जन्यते ।
परिमाणन्तूलकादौ नाशस्त्वाश्रयनाशतः ॥”
इति भाषापरिच्छेदः ॥
(यष्ट्यादिकरणकपुष्पफलादीनां चयने । यथा,
“वृक्षाग्रस्थानां फलानां यष्ट्या प्रचयं करोति ।”
इति सिद्धान्तकौमुदी । ३ । ३ । ४० ॥)

प्रचरः, पुं, (प्रचरत्यस्मिन्निति । प्र + चर + आधारे

अप् ।) पन्थाः । इति धरणिः ॥ प्रकर्षेण
गमनञ्च ॥

प्रचरद्रूपः, त्रि, व्यक्तरूपः । प्रचारविशिष्टः । प्रच-

रत् प्रकाशमानं रूपं स्वरूपं यस्य सः ॥

प्रचलाकः, पुं, (प्रकर्षेण चलतीति । प्र + चल +

आकन् ।) शराघातः । शिखण्डः । भुजङ्गमः ।
इति मेदिनी । के, १९६ ॥

प्रचलाकी, [न्] पुं, (प्रचलाकः शिखण्डोऽस्या

स्तीति । प्रचलाक + इनिः ।) मयूरः । इति
मेदिनी ॥ (यथा, उत्तररामचरिते । २ अङ्के ।
“कूजत्कुञ्जकुटीरकौशिकघटाघुत्कारवत्-
कीचक-
स्तम्बाडम्बरमूकमौकुलिकुलक्रौञ्चावतोऽयं गिरिः ।
एतस्मिन् प्रचलाकिनां प्रचलतामुद्वेजिताः
कूजितै-
रुद्वेल्लन्ति पुराणचन्दनतरुस्कन्धेषु कुम्भीनसाः ॥”)

प्रचलायितं, त्रि, (प्रचल इवाचरतीति । “कर्त्तुः

क्यङ् सलोपश्च ।” ३ । १ । ११ । इति क्यड् ।
प्रचलाय-नामधातोः कर्त्तरि क्तः ।) निद्रादिना
घूर्णितम् । इत्यमरः । ३ । १ । ३२ ॥

प्रचारः, पुं, (प्रचरणमिति । प्र + चर + भावे

घञ् ।) प्रचरणम् । व्यक्तः । प्रकाशः । यथा,
“दमनकतरुशाखालम्बिछोलङ्गयुग्मं
तुहिनकिरणविम्बे खञ्जरीटप्रचारः ॥”
इति शङ्कराचार्य्यः ॥
(प्रचरत्यस्मिन्निति । प्र + चर + आधारे घञ् ।
गवादेश्चरणस्थानम् । यथा, महाभारते ।
१ । ४० । १८ ।
“परिश्रान्तः पिपासार्त्त आससाद मुनिं वने ।
गवां प्रचारेष्वासीनं फेनमापिबतां पयः ॥”
अश्वानां नेत्ररोगविशेषः । तच्चिकित्सादिकं
यथा, अश्ववैद्यके । ३० । ३१ -- ३६ ।
“प्रच्छादयति यद्दृष्टिं मांसं पर्य्यन्तवर्ज्जितम् ।
प्रचारकाख्यं तं विन्द्यात् नेत्ररोत्रं कफात्मकम् ॥
क्षितौ निपात्य तुरगं ततो नेत्रं प्रसारयेत् ।
कृतकर्म्मा भिषग् विद्बान् वडिशेनाक्षिवर्त्मनि ॥
ततस्तीक्ष्णेण शस्त्रेण छिन्द्यात् प्रावरकं बुधः ।
तारकस्य यथा पीडा जायेत न मनागपि ॥
शुद्धं तत् पूरयेन्नेत्रं मधुना सैन्धवेन वा ।
प्रक्षाल्य चोत्थाय ततः शङ्खजां वेधयेत् शिराम् ।
कुष्ठेन वचया चव्या तथा त्रिकटुकेन च ।
प्रतिपानं प्रदातव्यं सुरया लवणैः सह ॥
निर्व्वातं विहितं स्थानं ग्रासे दूर्व्वा च पूजिता ।
गुरुभक्ष्यं न दातव्यं मधुरञ्च विशेषतः ॥”)

प्रचुरं, त्रि, (प्रचोरतीति । प्र + चुर + “इगुपध-

ज्ञेति ।” ३ । १ । १३५ । इति कः । यद्वा, प्रगत-
ञ्चुराया इति प्रादिसमासः ।) अनेकम् । तत्-
पर्य्यायः । प्रभूतम् २ प्राज्यम् ३ अदभ्रम् ४
बहुलम् ५ बहु ६ पुरुहम् ७ पुरु ८ भूयिष्ठम् ९
स्फिरम् १० भूयः ११ भूरि १२ । इत्यमरः ।
३ । १ । ६३ ॥ (यथा, भागवते । ५ । १३ । २१ ।
पृष्ठ ३/२४८
“अहो नृजन्माखिलजन्मशोभनं
किं जन्मभिस्त्वपरैरप्यमुष्मिन् ।
न यत् हृषीकेशयशःकृतात्मनां
महात्मनां वः प्रचुरः समागमः ॥”)

प्रचुरपुरुषः, पुं, (प्रचोरतीति । प्र + चुर कि स्तेये

+ कः । प्रचुरश्चासौ पुरुषश्चेति ।) चौरः । इति
त्रिकाण्डशेषः ॥ (प्रचुरो बहुलः पुरुषश्चेति
कर्म्मधारये ।) बहुनरश्च ॥

प्रचेतसी, स्त्री, (प्रचेतयति मूर्च्छितमिति । प्र +

चित् + णिच् + असच् । गौरादित्वात् ङीष् ।)
कट्फलः । इति राजनिर्घण्टः ॥ प्रचेतसः कन्या
च ॥

प्रचेता, [तृ] पुं, (प्रचेतति युद्धादिस्थाने वीरान्

सञ्चिनोतीति । प्र + चित् + तृच् ।) सारथिः ।
इति हेमचन्द्रः ॥

प्रचेताः, [स्] पुं, (प्रचेततीति । प्र + चित +

असुन् ।) वरुणः । इत्यमरः । १ । १ । ६४ ॥
(यथा, रघौ । १ । ८० ।
“हविषे दीर्घसत्रस्य सा चेदानीं प्रचेतसः ।
भुजङ्गपिहितद्वारं पातालमधितिष्ठति ॥”
मुनिविशेषः । (यथा, मनौ । १ । ३५ ।
“मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।
प्रचेतसं वशिष्ठञ्च भृगुं नारदमेव च ॥”
प्रकृष्टं चेतोऽस्य ।) प्रकृष्टहृदि, त्रि । इति
मेदिनी ॥ प्राचीनवर्हिराजपुत्त्रः । यथा, --
“प्राचीनवर्हिर्भगवान् सर्व्वशस्त्रभृतांवरः ।
समुद्रतनयायां वै दश पुत्त्रानजीजनत् ॥
प्रचेतसस्ते विख्याता राजानः प्रथितौजसः ॥”
इति कौर्म्मे १२ अध्यायः ॥
अपि च ।
“प्राचीनवर्हिस्तत्पुत्त्रः पृथिव्यामेकराड्बभौ ।
उपयेमे समुद्रस्य लवणस्य स वै सुताम् ॥
तस्मात् सुषाव सामुद्री दश प्राचीनवर्हिषः ।
सर्व्वे प्रचेतसो नाम धनुर्व्वेदस्य पारगाः ॥
अपृथग्धर्म्मचरणास्तेऽतप्यन्त महत्तपः ।
दश वर्षसहस्राणि समुद्रसलिले शयाः ॥
प्रजापतित्वं संप्राप्य भार्य्या तेषाञ्च मारिषा ।
अभवद्भयशापेन तस्यां दक्षोऽभवत् ततः ॥”
इति गारुडे ६ अध्यायः ॥
(पकृष्टज्ञानयुक्ते, त्रि । यथा, ऋग्वेदे । २ । २३ । २ ।
“देवाश्चित् ते असुर्य्यप्रचेतसो बृहस्पते यज्ञियं
भागमानशुः ॥”
“हे बृहस्पते ! प्रचेतसः प्रकृष्टज्ञानास्ते त्वदीया
देवाश्चिद् देवा अपि ।” इति तद्भाष्ये
सायनः ॥)

प्रचेलं, क्ली, (प्रचेलतीति । प्र + चेल् + अच् ।)

पीतकाष्ठम् । इति शब्दचन्द्रिका ॥

प्रचेलकः, पुं, (प्रकर्षेण चेलति गच्छतीति । प्र +

चेल् + ण्वुल् ।) घोटकः । इति शब्दमाला ॥

प्रचोदनी, स्त्री, (प्रचोद्यते रोगो ययेति । प्र +

चुद् + णिच् + ल्युट् । ङीप् ।) कण्टकारी ।
इत्यमरः । २ । ४ । ९४ ॥

प्रचोदितः, त्रि, (प्र + चुद् + क्तः ।) प्रेरितः ।

यथा, --
“प्रचोदिता येन पुरा सरस्वती ।”
इति श्रीभागवते २ स्कन्धे ४ अध्यायः ॥

प्रच्छ, औ श ज्ञीप्से । इति कविकल्पद्रुमः ॥

(तृदा०-पर०-द्विक०-अनिट् ।) ज्ञीप्सा ज्ञातु-
मिच्छा । ज्ञप क्म इत्यस्यैव ज्ञानपक्षे निष्पाद-
नात् । औ, अप्राक्षीत् । श, पृच्छति वार्त्तां गुरुं
शिष्यः । इति दुर्गादासः ॥

प्रच्छदः, पुं, (प्रच्छाद्यतेऽनेनेति । प्र + छद +

णिच् + करणे घः । “छादेर्घेऽद्व्युपसर्गस्य ।”
६ । ४ । ९६ । इति उपधाया ह्रस्वः ।) आ-
च्छादनम् । इति शब्दरत्नावली ॥ (यथा,
रघुः । १९ । २२ ।
“प्रच्छदान्तगलिताश्रुबिन्दुभिः
क्रोधभिन्नवलयैर्व्विवर्त्तनैः ॥”)

प्रच्छदपटः, पुं, प्रकर्षेण छाद्यतेऽनेन स चासौ

पटश्चेति । आच्छादनपटः । पाछुडिइति ख्यातः ।
तत्पर्य्यायः । निचोलः २ । इत्यमरः । २ । ६ । ११६ ॥
निचुलः ३ । इति व्याडिः ॥ निचोलम् ४ । इति
रभसः ॥ निचोली ५ । इति राजदेवः ॥ इत्य-
मरटीकायां भरतः ॥ (यथा, साहित्यदर्पणे
३ परिच्छेदे ।
“वलीभङ्गाभोगैरलकपतितैः शीर्णकुसुमः
स्त्रियाः सर्व्वावस्थं कथयति रतं प्रच्छदपटः ॥”)

प्रच्छना, स्त्री, (प्रच्छ + बाहुलकात् युच् । टाप् ।)

आमन्त्रणा । इति जटाधरः ॥

प्रच्छन्नं, क्ली, (प्र + छद् + क्त ।) अन्तर्द्वारम् ।

इत्यमरः । २ । २ । १४ ॥ आच्छन्ने, त्रि ॥
(यथा, महाभारते । ३ । ७१ । ३१ ।
“प्रच्छन्ना हि महात्मानश्चरन्ति पृथिवीमि-
माम् ॥”)

प्रच्छर्द्दिका, स्त्री, (प्र + छर्द्द वमने + “रोगाख्यायां

ण्वुल् बहुलम् ।” ३ । ३ । १०८ । इति ण्वुल् ।
स्त्रियां टापि अत इत्वम् ।) वमिः । इत्यमरः ।
२ । ६ । ५५ ॥ (वमनकारके, त्रि ॥)

प्रच्छादनं, क्ली, (प्रच्छाद्यतेऽनेनेति । प्र + छद् +

णिच् + ल्युट् ।) उत्तरीयवस्त्रम् । तत्पर्य्यायः ।
प्रावरणम् २ संव्यानम् ३ उत्तरीयकम् ४ ।
इति हेमचन्द्रः । ३ । ३३५ ॥ (नेत्रच्छदम् ।
यथा, अश्ववैद्यके । २ । १० ।
“प्रच्छादनं भवेद्वर्त्म चाक्षिकूटमतः परम् ॥”
“वर्त्म नेत्रच्छदं प्रच्छादनं प्रच्छादनापरनामकं
भवेत् । वर्त्म नेत्रच्छदेऽध्वनीत्यमरः ॥” इति
तट्टीका ॥ भावे ल्युट् । गोपनम् । यथा, महा-
भारते । १ । १९१ । १७ ।
“आत्मप्रच्छादनार्थं वै बाहुवीर्य्यमुपाश्रितः ।
विप्ररूपं विधायेदं मन्ये मां प्रति युध्यसे ॥”)

प्रच्छादितं, त्रि, (प्र + छद + णिच् + क्तः ।) आ-

च्छादितम् । इति हलायुधः ॥

प्रजः, पुं, (प्रजायते जायागर्भे इति । प्र + जन् +

डः ।) पतिः । “जायायां प्रविश्य पुनर्जायते इति
डे प्रजः पतिः ।” इति प्रजावतीशब्दटीकायां
भरतः ॥

प्रजनः, पुं, (प्रजायतेऽनेनेति । प्र + जन् + करणे

घञ् । “जनिवध्योश्च ।” ७ । ३ । ३५ । इति न
वृद्धिः ।) उपसरः । इत्यमरः । ३ । २ । २५ ॥
द्वे स्त्रीगव्यादिषु पुङ्गवादीनां प्रथमगर्भाधानाय
मैथुनाभियोगः । प्रजनं क्लीवमिति केचित् ॥
पशूनां गर्भग्रहणकालः । इति स्वामी ॥ गवां
प्रथमगर्भग्रहणाभियोगः । इति सुभूतिः ॥
स्त्रीगवीषु पुङ्गवानां प्रथमगमनमिति सर्व्वस्वम् ॥
किन्तु वीनामुपसरं दृष्ट्वेति भट्टिः । इत्यमर-
टीकायां भरतः ॥ (मैथुनसाधनोपस्थेन्द्रियम् ।
यथा, मनुः । १२ । १२१ ।
“वाच्यग्निं मित्रमुत्सर्गे प्रजने च प्रजापतिम् ॥”
प्र + जन् + भावे घञ् । पुत्त्रोत्पादनम् । यथा,
मनुः । ९ । १२१ ।
“उपसर्ज्जनं प्रधानस्य धर्म्मतो नोपपद्यते ।
पिता प्रधानं प्रजने तस्माद्धर्म्मेण तं भजेत् ॥”
जनयितरि, त्रि । यथा, भागवते । ८ । ५ । ३४ ।
“ईशो नगानां प्रजनः प्रजानां
प्रसीदतां नः स महाविभूतिः ॥”
तथा, भगवद्गीतायाम् । १० । २८ ।
“प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥”)

प्रजननं, क्ली, (प्रजायतेऽनेनेति । प्र + जन् + ल्युट् ।)

योनिः । (यथा, सुश्रुते । १ । २३ ।
“स्किक्पायुप्रजननललाटगण्डौष्ठपृष्ठकर्णफल-
कोषोदरजत्रुमुखाभ्यन्तरसंस्थाः सुखरोपणीय-
व्रणाः ॥” प्र + जन् + भावे ल्युट् ।) जन्म ।
इति मेदिनी । ने, १९१ ॥ (यथा, राजतर-
ङ्गिण्याम् । २ । ६१ ।
“वेधाः परां धुरमुपैति परीक्षकाणा-
मिक्षोः फलप्रजननेन कृतश्रमो यः ॥”
धात्रीकर्म्म । यथा, सुश्रुते शारीरस्थाने । १०
अध्याये । “ततः कृतोपधाने मृदुविस्तीर्णे
शयने स्थितामाभुग्नसक्थीमुत्तानामशङ्कनीया-
श्चतस्रः स्त्रियः परिणतवयसः प्रजननकुशलाः
कर्त्तितनखाः परिचरेयुरिति ॥”) प्रगमः । इति
विश्वः ॥ (यथा, महाभारते । १ । १२० । ३७ ।
“तस्मात् प्रहेष्याम्यद्य त्वां हीनः प्रजननात्
स्वयम् ।
सदृशात् श्रेयसो वा त्वं विद्ध्यपत्यं यशस्विनि ! ॥”
प्रजनयतीति । प्र + जन + ल्युः । प्रजोत्पादके,
त्रि । यथा, वाजसनेयसंहितायाम् । १९ । ४८ ।
“इदं हविः प्रजननं मेऽस्तु ॥”)

प्रजनिका, स्त्री, (प्रजनयतीति । प्र + जन +

णिच् + ण्वल् । टापि अत इत्वम् ।) माता ।
इति जटाधरः ॥

प्रजल्पः, पुं, (प्र + जल्प + भावे घञ् ।) वाक्य-

विशेषः । यथा, --
“असूयेर्ष्यामदयुजा योऽवधीरणमुद्रया ।
प्रियस्य कौशलोद्गारः प्रजल्पः स तु कथ्यते ॥”
इत्युज्ज्वलनीलमणिः ॥
पृष्ठ ३/२४९
(वहुभाषणम् । यथा, हठयोगप्रदीपिकायाम् ।
१ । १५ ।
“अत्याहारः प्रयासश्च प्रजल्पो नियमग्रहः ।
जनसङ्गश्च लौल्यञ्च षड्भिर्योगो विनश्यति ॥”)

प्रजवः, पुं, (प्रजवनमिति । प्र + जु वेगगतौ +

“ऋदोरप् ।” ३ । ३ । ५७ । इति भावे अप् ।)
प्रकृष्टवेगः । प्रपूर्ब्बजुधातोर्भावेऽल्प्रत्ययनिष्पन्नः ॥
(यथा, ऋग्वेदे । ७ । ३३ । ८ ।
“वातस्येव प्रजवो नान्येन स्तोमो वसिष्ठा अन्वे-
तवे वः ॥”)

प्रजवी, त्रि, (प्रजवतीति । प्र + जु वेगगतौ +

“प्रजोरिनिः ।” ३ । २ । १५६ । इति इनिः ।)
प्रकृष्टवेगयुक्तः । इत्यमरः । २ । ८ । ७३ ॥

प्रजा, स्त्री, (प्रजायते इति । प्र + जन् + “उप-

सर्गे च संज्ञायाम् ।” ३ । २ । ९९ । इति डः ।)
सन्ततिः । पितृमातृगुणदोषेण प्रजा विभिन्ना
भवति । यथा, अग्निपुराणे ।
“मातॄणां शीलदोषेण पितृशीलगुणेन च ।
विभिन्नास्तु प्रजाः सर्व्वा भवन्ति भवशीलि-
नाम् ॥”
जनः । इत्यमरः । ३ । ३ । ३२ ॥ (यथा,
रघुः । १ । २४ ।
“प्र जानां विनयाघानात् रक्षणात् भरणादपि ।
स पिता पितरस्तासां केवलं जन्महेतवः ॥”
उत्पत्तिः । यथा, ऋग्बेदे । १० । ७२ । ९ ।
“प्रजायै मृत्यवे त्वत्पुनमार्त्ताण्डमाभरत् ॥”)

प्रजागरः, पुं, (प्र + जागृ + “ऋदोरप् ।” ३ । ३ । ५७ ।

इति भावे अप् ।) प्रकर्षेण जागरणम् । इति
हलायुधः ॥ यथा, अग्निपुराणे ।
“देवतानां पितॄणाञ्च घोरं कृत्वा प्रजागरम् ।
त्रेतायुगे चतुर्थांशे रावणस्तपसः क्षयात् ।
रामं दाशरथिं प्राप्य सगणः क्षयमीयिवान् ॥”
(विष्णुः । यथा, महाभारते । १३ । १४९ । ११५ ।
“आधारनिलयो धाता पुष्पहासः प्रजागरः ॥”
“नित्यबुद्धस्वरूपत्वात् प्रजागरः ।” इति तद्-
भाष्यम् ॥ प्राणः । यथा, भागवते । ४ ।
२७ । १५ ।
“ते चण्डवेगानुचराः पुरञ्जनपुरं यदा ।
हर्त्तुमारेभिरे तत्र प्रत्यषेधत् प्रजागरः ॥”
“प्रजागरः प्राणः ।” इति तट्टीकायां स्वामी ॥)

प्रजाता, स्त्री, (प्रजातं प्रजननं सुतादीनामुत्पत्ति-

रित्यर्थः । तदस्या अस्तीति । अच् । ततष्टाप् ।)
जातापत्या । प्रसूता । इत्यमरः । २ । ६ । १६ ॥
(यथा, सुश्रुते निदानस्थाने ९ अध्याये ।
“स्त्रीणामपप्रजातानां प्रजातानां तथाहितैः ।
दाहज्वरकरो घोरो जायते रक्तविद्रधिः ॥”
“ततोऽनन्तरं बलवत्तरमिति तस्याञ्च प्रवाह-
माणायां स्त्रियः शब्दं कुर्य्युः प्रजाता प्रजाता
धन्यं धन्यं पुत्त्रमिति तथास्या हर्षेणाप्यायन्ते
प्राणाः । यदा च प्रजाता स्यात् तदैनामवेक्षेत
काचिदस्या अमरा प्रपन्ना वाप्रपन्ना वेति ॥”
इति चरके शारीरस्थाने ऽष्टमेऽध्याये ॥
अश्वविशेषे, पुं । यथा, कात्यायनश्रौतसूत्रे ।
२० । ३ । २० ।
“प्रजाते वायव्यम् ।” “वडवायां कृतरेतःस्कन्दनः
प्रजात इत्युच्यते ॥” इति तद्भाष्यम् ॥)

प्रजादा, स्त्री, (प्रजां गर्भदोषनिवारणेन सन्ततिं

ददातीति । दा + कः । टाप् ।) गर्भदात्रीक्षुपः ।
इति राजनिर्घण्टः ॥ प्रजादातरि, त्रि ॥

प्रजादानं, क्ली, (प्रजातो जन्मतो दानं शुद्धिरस्य ।)

रजतम् । इति शब्दचन्द्रिका ॥ (प्रजाया दाने
आदाने अदाने च ॥)

प्रजानन्ती, स्त्री, (प्रजानातीति । प्र + ज्ञा +

शतृ + ङीप् ।) पण्डिता । प्राज्ञी । इति हेम-
चन्द्रः । ३ । १८६ ॥ (विशेषवेत्त्ररि, त्रि । यथा,
रामायणे । २ । ७२ । १४ ।
“तं प्रत्युवाच कैकेयी प्रियवद्घोरमप्रियम् ।
अजानन्तं प्रजानन्ती राज्यलोभेन मोहिता ॥”)

प्रजापः, पुं, (प्रजाः पातीति । पा रक्षणे + कः ।)

राजा । इति हेमचन्द्रः । ३ । ३५४ ॥

प्रजापतिः, पुं, (प्रजानां पतिः ।) ब्रह्मा । इत्य-

मरः । १ । १ । १७ ॥ (यथा, महाभारते ।
१ । १ । ३२ ।
“यस्मात् पितामहो जज्ञे प्रभुरेकः प्रजापतिः ।
ब्रह्मा सुरगुरुः स्थाणुर्म्मनुः कः परमेष्ठ्यथ ॥”)
दक्षादिः । (यथा, --
“द्वितीये हि युगे सर्व्वमक्रोधव्रतमास्थितम् ।
दिव्यं सहस्रवर्षाणामसुरा अभिदुद्रुवुः ॥
तपोविघ्नं शमीकर्त्तुन्तपोविघ्नं महात्मनाम् ।
पश्यन् समर्थश्चोपेक्षाञ्चक्रे दक्षः प्रजापतिः ॥
पुनर्माहेश्वरं भागं ध्रुवं दक्षप्रजापतिः ।
प्रायो न कल्पयामास प्रोच्यमानः सुरैरपि ॥”
इति चरके चिकित्सास्थाने तृतीयेऽध्याये ॥)
महीपालः । इति मेदिनी । ते, २०८ ॥ (इन्द्रः ।
यथा, महामारते । ३ । १८५ । १६ ।
“अयमेव विधाता हि तथैवेन्द्रः प्रजापतिः ॥”)
जामाता । दिवाकरः । वह्निः । त्वष्टा । इति हेम-
चन्द्रः ॥ (यथा, वाजसनेयसंहितायाम् । १२ । ६१ ।
“तां विश्वैर्देवैरृतुभिः संविदानः
प्रजापतिर्विश्वकर्म्मा विमुञ्चतु ॥”
मनुः । यथा, मनौ । १० । ७८ ।
“न तौ प्रति हि तान् धर्म्मान् मनुराह प्रजा-
पतिः ॥”)
दश प्रजापतयो यथा, आह्रिकतत्त्वे ।
“मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।
प्रचेतसं वशिष्ठञ्च भृगुं नारदमेव च ।
देवान् सर्व्वानृषीन् सर्व्वांस्तर्पयेदक्षतोदकैः ॥”
एकविंशतिप्रजापतयो यथा, --
“ब्रह्मा स्थाणुर्मनुर्दक्षो भृगुर्धर्म्मस्तथा व्यमः ।
मरीचिरङ्गिरात्रिश्च पुलस्त्यः पुलहः क्रतुः ॥
वशिष्ठः परमेष्ठी च विवस्वान् सोम एव च ।
कर्द्दमश्चापि यः प्रोक्तः क्रोधोऽर्व्वाक् क्रीत एव च ॥
एकविंशतिरुत्पन्नास्ते प्रजापतयः स्मृताः ॥”
इति महाभारते मोक्षधर्म्मः ॥ * ॥
पिता । यथा, --
“जनको जन्मदानाञ्च रक्षणाच्च पिता नृणाम् ।
ततो विस्तीर्णकरणात् कलया स प्रजापतिः ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे ४४ अध्यायः ॥ * ॥
स्वनामख्यातकीटविशेषश्च ॥

प्रजावती, स्त्री, (प्रजास्त्यस्या इति । प्रजा +

मतुप् । मस्य वः । स्त्रियां ङीप् ।) भ्रातृजाया ।
इत्यमरः । २ । ६ । ३० ॥ ज्येष्ठभ्रातृपत्नी । इति
केचित् । इति भरतः ॥ (यथा, रघुः । १४ । ४५ ।
“प्रजावती दोहदशंसिनी ते
तपोवनेषु स्पृहयालुरेव ।
स त्वं रथी तद्व्यपदेशनेयां
प्रापय्य वाल्मीकिपदं त्यजैनाम् ॥”
प्रियव्रतपत्नी । यथा, मार्कण्डेये । ५३ । १३ ।
“प्रियव्रतात् प्रजावत्यां वीरात् कन्या व्यजायत ॥”)
सन्तानविशिष्टा ॥ (यथा, मार्कण्डेये । ९७ । १८ ।
“साम्प्रतं सर्गकर्त्तृत्वमादिष्टं ब्रह्मणा मम ।
सोऽहं पत्नीमभिप्सामि धन्यां दिव्यां प्रजा-
वतीम् ॥”)

प्रजाहितं, क्ली, (प्रजायै हितम् ।) जलम् । इति

शब्दमाला ॥ प्रजोपकारे, त्रि ॥

प्रजिनः, पुं, (प्रकर्षेण जयतीति । प्र + जि +

बाहुलकात् नक् ।) वायुः । इति शब्दमाला ॥

प्रजेश्वरः, पुं, (प्रजानामीश्वरः ।) राजा । इति

त्रिकाण्डशेषः ॥ (यथा, रघुः । ३ । ६८ ।
“तमभ्यनन्दत् प्रथमं प्रबोधितः
प्रजेश्वरः शासनहारिणा हरेः ॥”)

प्रज्ञः, त्रि, (प्रकर्षेण जानातीति । प्र + ज्ञा +

“आतश्चोपसर्गे ।” ३ । १ । १३६ । इति कः ।)
पण्डितः । इति प्राज्ञशब्दटीकायां भरतः ॥
(यथा, माण्डूक्योपनिषदि । ७ ।
“नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न
प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् ॥”) प्रगतजानुकः ।
इति प्रज्ञुशब्दटीकायां भरतः धरणिश्च ॥

प्रज्ञप्तिः, स्त्री, (प्र + ज्ञा + णिच् + क्तिन् ।)

सङ्केतम् । इति त्रिकाण्डशेषः ॥ (यथा,
सर्व्वदर्शनसंग्रहे पूर्णप्रज्ञदर्शनम् ।
“विष्णोः प्रज्ञप्तिरेवैका शब्दैरेतैरुदीर्य्यते ।
प्रज्ञप्तिरूपो हि हरिः सा च स्वानन्दलक्षणा ॥”
ज्ञानम् । ज्ञापनम् । यथा, भागवते । ३ । २५ । १ ।
“कपिलस्तत्त्वसंख्याता भगवानात्ममायया ।
जातः स्वयमजः साक्षादात्मप्रज्ञप्तये नृणाम् ॥”
जिनविद्यादेवीविशेषः । इति हेमचन्द्रः । २ ।
१५३ ॥)

प्रज्ञप्ती, स्त्री, (प्रज्ञप्ति + वा ङीष् ।) जिनविद्या-

देवीविशेषः । इति हेमचन्द्रः । २ । १५३ ॥

प्रज्ञा, स्त्री, (प्र + ज्ञा + कः । टाप् ।) बुद्धिः ।

(यथा, रघुः । १ । १५ ।
“आकारसदृशप्रज्ञः प्रज्ञया सदृ शागमः ॥”
एकाग्रता । यथा, पञ्चदश्याम् । ७ । १०६ ।
“तमेव धीरो विज्ञाय प्रज्ञां कुर्व्वीतब्राह्मणाः ॥”)
प्राज्ञी । प्रकर्षेण जानाति या । इत्यमरः ॥
पृष्ठ ३/२५०
सरस्वती । इति शब्दरत्नावली ॥ बुद्धिवैदिक-
पर्य्यायः । केतुः १ केतः २ चेतः ३ चित्तम् ४
क्रतुः ५ असुः ६ धीः ७ शचीः ८ माया ९
वयुनम् १० अभिख्या ११ । इत्येकादशप्रज्ञा-
नामानि । इति वेदनिवण्टौ ३ अध्यायः ॥

प्रज्ञाकायः, पुं, (प्रज्ञा काय इवास्य ।) मञ्जुघोषः ।

इति त्रिकाण्डशेषः ॥

प्रज्ञाचक्षुः, पुं, (प्रज्ञा एव चक्षुर्य्यस्य ।) धृत-

राष्ट्रः । इति शब्दरत्नावली ॥ (यथा, महा-
भारते । १ । १ । १४७ ।
“श्रुत्वा तु मम वाक्यानि बुद्धियुक्तानि तत्त्वतः ।
ततो ज्ञास्यसि मां सौते प्रज्ञाचक्षुषमित्युत ॥”)

प्रज्ञानं, क्ली, (प्रज्ञायतेऽनेनेति । प्र + ज्ञा + ल्युट् ।)

बुद्धिः । (यथा, महाभारते । ३ । १८५ । १६ ।
“त्वमेव मुह्यसे मोहात् न प्रज्ञानं तवास्ति ह ॥”)
चिह्रम् । इत्यमरः । ३ । ३ । ११२ ॥ (यथा, महा-
भारते । ५ । ३३ । २६ ।
“नासं पृष्टो ह्युपयुक्ते परार्थे
तत् प्रज्ञानं पथमं पण्डितस्य ॥”
चैतन्यम् । तल्लक्षणं यथा, पञ्चतन्त्रे । ५ । १ ।
“येनेक्षते शृणोतीदं जिघ्रति व्याकरोति च ।
स्वाद्वसादू विजानाति तत् प्रज्ञानमुदीरितम् ॥”)
पण्डिते, त्रि । इति भरतद्विरूपकोषः ॥

प्रज्ञी, [न्] त्रि, (प्रज्ञास्त्यस्येति । प्रज्ञा + इनिः ।)

पण्डितः । इति भरतद्विरूपकोषः ॥

प्रज्ञुः, पुं, (प्रगते जानुनी यस्य । “प्रसम्भ्यां जानु-

नोर्ज्ञुः ।” ५ । ४ । १२९ । इति ज्ञुः ।) प्रगत-
जानुकः । इत्यमरः । २ । ६ । ४७ ॥ यस्य
जानुनोर्मध्ये नित्यं कादाचित्कं वा महदन्त-
रालं तस्मिन् द्बयम् । इति भरतः ॥

प्रज्वलितः, त्रि, (प्र + ज्वल + क्तः ।) प्रकृष्टज्वलन-

विशिष्टः । यथा, --
“अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् ।
सुवर्णवर्णममलं समिद्धं सर्व्वतोमुखम् ॥”
इति भवदेवभट्टः ॥

प्रडीनं, क्ली, (प्र + डी नभोगतौ + क्तः ।) पक्षिणां

गतिविशेषः । इत्यमरः । २ । ५ । ३७ ॥ प्रथम-
डीनं प्रडीनं उड्डयनाय क्रमबन्धः । तिर्य्यग्-
गमनम् । इत्यन्ये । इति भरतः ॥

प्रणः, पुं, (प्र + “नश्च पुराणे प्रात् ।” ५ । ४ । ५

इत्यस्य वार्त्ति० इति नः ।) पुराणः । “पुरा-
णार्थे वर्त्तमानात् प्रशब्दात् नो वक्तव्यः ।” इति
सिद्धान्तकौमुदी ॥

प्रणतः, त्रि, (प्र + णम + क्तः ।) प्रकर्षेण नतः ।

प्रणतिविशिष्टः । यथा, --
“ध्येयं सदा परिभवघ्नमभीष्टदोहं
तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् ।
भृत्यार्त्तिहं प्रणतपालभवाब्धिपोतं
वन्दे महापुरुष ! ते चरणारविन्दम् ॥”
इति श्रीभागवतम् ॥

प्रणतिः, स्त्री, (प्रकृष्टं नमनमिति । प्र + णम +

भावे क्तिन् ।) प्रणामः । तत्पर्य्यायः । प्रणि-
पातः २ अनुनयः ३ । इति हेमचन्द्रः ॥ (यथा,
रघौ । ११ । ८९ ।
“राघवोऽपि चरणौ तपोनिधेः
क्षम्यतामिति वदन् समस्पृशत् ।
निर्ज्जितेषु तरसा तरस्विनां
शत्रुषु प्रणतिरेव कीर्त्तये ॥”)

प्रणयः, पुं, (प्रणयनम् । प्र + णी + “एरच् ।”

३ । ३ । ५६ । इति अच् ।) प्रीत्या प्रार्थनम् ।
तत्पर्य्यायः । प्रश्रयः २ । इत्यमरः । ३ । २ । २५ ॥
प्रसरः ३ । इति भरतः ॥ (यथा, रघौ । २ । ५८ ।
“सम्बन्धमाभाषणपूर्ब्बमाहु-
र्वृत्तः स नौ सङ्गतयोर्व्वनान्ते ।
तद्भूतनाथानुग ! नार्हसि त्वं
सम्बन्धिनो मे प्रणयं विहन्तुम् ॥”)
प्रेम । (यथा, भगवद्गीतायाम् । ११ । ४ ।
“सखेति मत्वा प्रसभं यदुक्तं
हे कृष्ण हे यादव हे सखेति ।
अजानता महिमानं तवेदं
मया प्रमादात् प्रणयेन वापि ॥”)
याच्ञा । विश्रम्भः । निर्व्वाणः । इति मेदिनी ।
ये, ८९ ॥

प्रणयी, पुं, (प्रणयोऽस्यास्तीति । प्रणय + इनिः ।)

स्वामी । इति हेमचन्द्रः ॥ प्रणययुक्ते, त्रि ।
(यथा, --
“प्रणयिनि निजनाथे लज्जया मौनभावां
प्रति किमिह नवोढां रौति विर्वौकथाक ॥”
इत्युद्भटः ॥)

प्रणयिनी, स्त्री, (प्रणयिन् + ङीप् ।) भार्य्या ।

इति हेमचन्द्रः ॥

प्रणवः, पुं, (प्रकर्षेण नूयते स्तूयते आत्मा स्वेष्ट-

देवता वानेनेति । प्र + णुल स्तुतौ + “ऋदो-
रप् ।” ३ । ३ । ५७ । इति अप् । “उपसर्गा-
दसमासेऽपि णोपदेशस्य ।” ८ । ४ । १४ । इति
णत्वम् । यद्वा, ब्रह्मविष्णुमहेशरूपत्वात् प्रण-
म्यते इति । प्र + णम + कर्म्मणि घञ् । संज्ञा-
पूर्ब्बकत्वात् वृद्ध्यभावः । पृषोदरादित्वात् मस्य
वः ।) ॐकारः । इत्यमरः । १ । ६ । ४ ॥
तस्य पर्य्यायो यथा, --
“ॐकारः प्रणवस्तारो वेदादिर्व्वर्त्तुलो ध्रुवः ।
त्रैगुण्यं त्रिगुणो ब्रह्म सत्यो मन्त्रादिरव्ययः ॥
ब्रह्मबीजं त्रितत्त्वञ्च पञ्चरश्मिस्त्रिदैवतः ॥”
इति बीजवर्णाभिधानम् ॥
अपि च ।
“ॐकारो वर्त्तुलस्तारो वामश्च हंसकारणम् ।
मन्त्राद्यः प्रणवः सत्यं बिन्दुशक्तिस्त्रिदैवतम् ॥
सर्व्वजीवोत्पादकश्च पञ्चदेवो ध्रुवस्त्रिकः ।
सावित्री त्रिशिखो ब्रह्म त्रिगुणो गुणजीवकः ॥
आदिबीजं वेदसारो वेदबीजमतः परम् ।
पञ्चरश्मिस्त्रिकूटे च त्रिभवे भवनाशनः ॥
गायत्त्री बीजपञ्चांशौ मन्त्रविद्याप्रसूः पभुः ।
अक्षरं मातृकासूश्चानादिदैवतमोक्षदौ ॥”
इति तन्त्रम् ॥ * ॥
(यथा, महानिर्व्वाणतन्त्रे । ३ । ३२ ।
“अकारेण जगत्पाता संहर्त्ता स्यादुकारतः ।
मकारेण जगत्स्रष्टा प्रणवार्थ उदाहृतः ॥”
यथा च ।
“अकारो विष्णुरुद्दिष्ट उकारस्तु महेश्वरः ।
मकारेणोच्यते ब्रह्मा प्रणवेण त्रयो मताः ॥”
वेदस्याध्ययनारम्भे अध्ययनसमाप्तौ च ब्राह्म-
णस्य ॐकारोच्चारकर्त्तव्यत्वमुक्तं यथा मनौ ।
२ । ७४ ।
“ब्राह्मणः प्रणवं कुर्य्यादादावन्ते च सर्व्वदा ।
स्रवत्यनोङ्कृतं पूर्ब्बं परस्ताच्च विशीर्य्यते ॥”)
अस्योद्धारक्रमो यथा, --
“एकमेवाद्वयं ब्रह्म मायया तु चतुष्टयम् ।
रोहिणीतनयो रामः अकाराक्षरसम्भवः ॥
तैजसात्मकप्रद्युम्न उकाराक्षरसम्भवः ।
प्रज्ञात्मको निरुद्धो वै मकाराक्षरसम्भवः ।
अर्द्धमात्रात्मकः कृष्णो यस्मिन् विश्वं प्रतिष्ठि-
तम् ॥”
इति गोपालतापनीयोपनिषत् ॥ * ॥
स च माङ्गलिकः । यथा, --
“ॐकारश्चाथ शब्दश्च द्वावेतौ ब्राह्मणः पुरा ।
कण्ठं भित्त्वा विनिर्ज्जातौ तेन माङ्गलिकावुभौ ॥”
इति मुग्धबोधटीकायां दुर्गादासः ॥ * ॥
अस्य माहात्म्यं यथा, --
“विश्वपादशिरोग्रीवं विश्वेशं विश्वभावनम् ।
यत्प्राप्तये महापुण्यमोमित्ये काक्षरं जपेत् ॥
तदेवाध्ययनं तस्य स्वरूपं शृण्वतः परम् ।
अकारश्च तथोकारो मकारश्चाक्षरत्रयम् ॥
एतास्तिस्रः स्मृता मात्राः सात्वराजसतामसाः ।
निर्गुणा योगिगम्यान्या अर्द्धमात्रा तु सा स्मृता ॥
गान्धारीति च विज्ञेया गान्धारस्वरसंश्रया ।
पिपीलिकागतिस्पर्शा प्रयुक्ता मूर्द्ध्नि लक्ष्यते ॥
यदा प्रयुक्त ॐकारः प्रतिनिर्य्याति मूर्द्धनि ।
तदोङ्कारमयो योगी अक्षरे त्वक्षरो भवेत् ॥
प्राणो धनुः शरश्चात्मा ब्रह्म वेध्यमुदाहृतम् ।
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥
ओमित्येते त्रयो देवास्त्रयो लोकास्त्रयोऽग्नयः ।
विष्णुक्रमास्त्रयश्चैव ऋक्सामानि यजूंषि च ॥
मात्राश्चार्द्धञ्चतस्रस्तु विज्ञेयाः परमार्थतः ।
तत्र युक्तश्च यो योगी स तल्लयमवाप्नुयात् ॥
अकारस्तत्र भूर्लोक उकारश्चोच्यते भुवः ।
सव्यञ्जनो मकारश्च स्वर्लोकः परिकल्प्यते ॥
व्यक्ता तु प्रथमा मात्रा द्वितीयाव्यक्तसंज्ञिका ।
मात्रा तृतीया चिच्छक्तिरर्द्धमात्रा परं पदम् ॥
अनेनैव क्रमेणैता विज्ञेया योगभूमयः ।
ओमित्युच्चारणात् सर्व्वं गृहीतं सदसद्भवेत् ॥
ह्रस्वा तु प्रथमा मात्रा द्बितीया दीर्घसंयुता ।
तृतीया तु प्लुतार्द्धाख्या वचसः सात्त्वगोचरे ॥
इत्येतदक्षरं ब्रह्म परमोङ्कारसंज्ञितम् ।
यस्तं वेद नरः सम्यक् तथा ध्यायति वा पुनः ॥
संसारचक्रमुत्सृज्य त्यक्तत्रिविधबन्धनः ।
प्राप्नोति ब्रह्मनिलयं परमं परमात्मनि ॥
पृष्ठ ३/२५१
अक्षीणकर्म्मवन्धस्तु ज्ञात्वा मृत्युमुपस्थितम् ।
उत्क्रान्तिकाले संस्मृत्य पुनर्योगित्वमृच्छति ॥
तस्मादसिद्धयोगेन सिद्धयोगेन वा पुनः ।
ज्ञेयान्यरिष्टानि सदा येनोत्क्रान्तौ न
सीदति ॥”
इति श्रीमार्कण्डेयपुराणे ॐकारमाहात्म्यम् ॥ * ॥
“यन्न्यूनञ्चातिरिक्तञ्च यच्छिद्रं यदयज्ञियम् ।
यदमेध्यमशुद्धञ्च यातयामञ्च यद्भवेत् ।
तदोङ्कारप्रयुक्तेन सर्व्वञ्चाविकलं भवेत् ॥”
इति तिथ्यादितत्त्वम् ॥ * ॥
“ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।
यः प्रयाति त्यजन् देहं स याति परमां गतिम् ॥”
इति श्रीभगवद्गीतायाम् । ८ । १३ ॥

प्रणादः, पुं, (प्रणदनमिति । प्र + णद + घञ् ।)

अनुरागजशब्दः । इत्यमरः । १ । ६ । ११ ॥
“प्रीतिजनितो मुखकण्ठादिशब्दः । प्रीतिजं
शीत्कृतम् । ‘अनुरागकृते शब्दे प्रणादः
शीत्कृतं नृणाम् ।’ इति शब्दार्णवः ॥ गुणा-
नुरक्तलोकप्रभवः शब्दः । इति मधुमाधवः ।
अनुरागजन्मा जनशब्दः । इति कलिङ्गः ।”
इत्यमरटीकायां भरतः ॥ तारशब्दः । (यथा,
रामायणे । २ । ३८ । २ ।
“तेन तत्र प्रणादेन दुःखितः स महीपतिः ।
चिच्छेद जीविते श्रद्धां धर्म्मे यशसि चात्मनः ॥”)
श्रवणामयः । इति मेदिनी । दे, ३६ ॥ शेषस्य
नामान्तरं कर्णनादः । यथा, --
“कर्णस्रोतःस्थिते वाते शृणोति विविधान्
स्वरान् ।
भेरीमृदङ्गशङ्खानां कर्णनादः स उच्यते ॥”
इति माधवकरः ॥

प्रणामः, पुं, (प्र + णम + भावे घञ् ।) प्रणतिः ।

प्रणिपातः । भक्तिश्रद्धातिशययुक्तनमस्कारः ।
स तु स्वापकर्षबोधकव्यापारविशेषः । इति मुग्ध-
बोधटीकायां दुर्गादासः ॥ स चतुर्व्विधः । अभि-
वादनम् १ अष्टाङ्गः २ पञ्चाङ्गः ३ करशिरः-
संयोगश्च ४ । प्रथमस्य लक्षणं तच्छब्दे द्रष्ट-
व्यम् ॥ द्वितीयो यथा, --
“पद्भ्यां कराभ्यां जानुभ्यामुरसा शिरसा दृशा ।
वचसा मनसा चैव प्रणामोऽष्टाङ्ग ईरितः ॥”
तस्य फलम् ।
“भूमौ निपत्य यः कुर्य्यात् कृष्णेऽष्टाङ्गनतिं सुधीः ।
सहस्रंजन्मजं पापं त्यक्त्वा वैकुण्ठमाप्नुयात् ॥”
तृतीयो यथा, --
“बाहुभ्याञ्चैव जानुभ्यां शिरसा वचसा दृशा ।
पञ्चाङ्गोऽयं प्रणामः स्यात् पूजासु प्रवरा-
विमौ ॥” * ॥
प्रकर्षेण नमनम् । तद्विधिर्यथा, कालिकापुराणे ।
“शिरोमत्पादयोः कृत्वा बाहुभ्याञ्च परस्परम् ।
प्रपन्नं पाहि मामीश भीतं मृत्युग्रहार्णवात् ॥”
किञ्चागमे ।
“दोर्भ्यां पद्भ्याञ्च जानुभ्यामुरसा शिरसा दृशा ।
मनसा वचसा चेति प्रणामोऽष्टाङ्ग ईरितः ॥ * ॥
जानुभ्याञ्चैव बाहुभ्यां शिरसा वचसा धिया ।
पञ्चाङ्गकः प्रणामः स्यात् पूजासु प्रवराविमौ ॥”
इति ॥ * ॥
“गरुडं दक्षिणे कृत्वा कुर्य्यात्तत्पृष्ठतो बुधः ।
अवश्यञ्च प्रणामांस्त्रीन् शक्तश्चेदधिकाधि-
कान् ॥” * ॥
तथा च नारदपञ्चरात्रे ।
“सन्धिं वीक्ष्य हरिं चाद्यं गुरून् स्वगुरुमेव च ।
द्विचतुर्व्विंशदथवा चतुर्व्विंशत्तदर्द्धकम् ॥
नमेत्तदर्द्धमथवा तदर्द्धं सर्व्वदा नमेत् ॥” * ॥
विष्णुधर्म्मोत्तरे ।
“देवार्च्चादर्शनादेव प्रणमेन्मधुसूदनम् ।
स्थानापेक्षा न कर्त्तव्या दृष्ट्वार्च्चां द्विजसत्तमाः ॥
देवार्च्चादृष्टिपूतं हि शुचि सर्व्वं प्रकीर्त्तितम् ॥” * ॥
अथ नमस्कारमाहात्म्यम् । नारसिंहे ।
“नमस्कारः स्मृतो यज्ञः सर्व्वयज्ञेषु चोत्तमः ।
नमस्कारेण चैकेन नरः पूतो हरिं व्रजेत् ॥”
स्कान्दे ।
“दण्डप्रणामं कुरुते विष्णवे भक्तिभावतः ।
रेणुसङ्ख्यां वसेत् स्वर्गे मन्वन्तरशतं नरः ॥”
तत्रैव ब्रह्मनारदसंवादे ।
“प्रणम्य दण्डवद्भूमौ नमस्कारेण योऽर्च्चयेत् ।
स यां गतिमवाप्नोति न तां क्रतुशतैरपि ।
नमस्कारेण चैकेन नरः पूतो हरिं व्रजेत् ॥”
तत्रैव श्रीशिवोमासंवादे ।
“भूमिमापीड्य जानुभ्यां शिर आरोप्य वै
भुवि ।
प्रणमेद्यो हि देवेशं सोऽश्वमेधफलं लभेत् ॥”
तत्रैवान्यत्र ।
“तीर्थकोटिसहस्राणि तीर्थकोटिशतानि च ।
नारायणप्रणामस्य कलां नार्हन्ति षोडशीम् ॥
शाठ्येनापि नमस्कारं कुर्व्वतः शार्ङ्गधन्वने ।
शतजन्मार्ज्जितं पापं तत्क्षणादेव नश्यति ॥
रेणुमण्डितगात्रस्य कणा देहे भवन्ति ये ।
तावद्वर्षसहस्राणि विष्णुलोके महीयते ॥”
विष्णुधर्म्मोत्तरे ।
“अभिवाद्य जगन्नाथं कृतार्थश्च तथा भवेत् ।
नमस्कारक्रिया तस्य सर्व्वपापप्रणाशिनी ॥
जानुभ्याञ्चैव पाणिभ्यां शिरसा च विचक्षणः ।
कृत्वा प्रणामं देवस्य सर्व्वान् कामानवाप्नुयात् ॥”
विष्णुपुराणे ।
“अनादिनिधनं देवं दैत्यदानवदारणम् ।
ये नमन्ति नरा नित्यं न हि पश्यन्ति ते यमम् ॥
ये जना जगतां नाथं नित्यं नारायणं द्विजाः ।
नमन्ति न हि ते विष्णोः स्थानादन्यत्र गामिनः ॥”
नारदीये ।
“एकोऽपि कृष्णस्य कृतः प्रणामो
दशाश्वमेधावभृथैर्न तुल्यः ।
दशाश्वमेधी पुनरेति जन्म
कृष्णप्रणामी न पुनर्भवाय ॥”
हरिभक्तिसुधोदये ।
“विष्णोर्द्दण्डप्रणामार्थं भक्तेन पतता भुवि ।
पातितं पातकं कृत्स्नं नोत्तिष्ठति पुनः सह ॥”
स्कान्दे देवहूतविकुण्डलसंवादे ।
“तपस्तप्त्वा नरो घोरमरण्ये नियतेन्द्रियः ।
यत् फलं स समाप्नोति तन्नत्वा गरुडध्वजम् ॥
कृत्वापि बहुशः पापं नरो मोहसमन्वितः ।
न याति नरकं नत्वा सर्व्वपापहरं हरिम् ॥”
तत्रैव वेदनिधिस्तुतौ ।
“अपि पापं दुराचारं नरं त्वत्प्रणतं हरे ।
नेक्षन्ते किङ्करा याम्या उलूकास्तपनं यथा ॥”
विष्णुपुराणे श्रीयमस्य निजभटानुशासने ।
“हरिममरगणार्च्चिताङ्घ्रिपद्मं
प्रणमति यः परमार्थतो हि मर्त्यः ।
तमपगतसमस्तपापबन्धं
व्रज परिहृत्य यथाग्निमाज्यसिक्तम् ॥”
ब्रह्मवैवर्त्ते ।
“शरणागतरक्षणोद्यतं
हरिमीशं प्रणमन्ति ये नराः ।
न पतन्ति भवाम्बुधौ स्फुटं
पतितानुद्धरति स्म तानसौ ॥”
अष्टमस्कन्धे च बलिवाक्ये ।
“अहो प्रणामाय कृतः समुद्यमः
प्रपन्नभक्तार्थविधौ समाहितः ।
यल्लोकपालैस्तदनुग्रहोऽमरै-
रलब्धपूर्ब्बोऽपसदेऽसुरेऽर्पितः ॥”
अतएव नारायणव्यूहस्तवे ।
“अहो भाग्यमहो भाग्यमहो भाग्यं नृणामिदम् ।
येषां हरिपदाब्जाग्रे शिरो न्यस्तं यथा तथा ॥”
किञ्च । नारसिंहे श्रीयमोक्तौ ।
“तस्य वै नारसिंहस्य विष्णोरमिततेजसः ।
प्रणामं ये प्रकुर्व्वन्ति तेषामपि नमो नमः ॥”
भविष्योत्तरे च जलधेनुप्रसङ्गे ।
“विष्णोर्द्देवजगद्धातुर्जनार्द्दनजगत्पतेः ।
प्रणामं ये प्रकुर्व्वन्ति तेषामपि नमो नमः ॥”
इत्यादि ॥ * ॥
अथ प्रणामनित्यता । बृहन्नारदीये लुब्ध-
कोपाख्यानारम्भे ।
“सकृद्वा न नमेद्यस्तु विष्णवे शर्म्मकारिणे ।
शबोपमं विजानीयात् कदाचिदपि नालपेत् ॥”
किञ्च । पाद्मे वैशाखमाहात्म्ये यमब्राह्मण-
संवादे ।
“पश्यन्तो भगवद्द्वारं नाम शस्त्रपरिच्छदम् ।
अकृत्वा तत्प्रणामादि यान्ति ते नरकौकसः ॥” * ॥
अथ नमस्कारे निषिद्धानि । विष्णुस्मृतौ ।
“जन्मप्रभृति यत्किञ्चित् पुमान् वै धर्म्ममा-
चरेत् ।
सर्व्वं तन्निष्फलं याति एकहस्ताभिवादनात् ॥”
वाराहे ।
“वस्त्रप्रावृतदेहस्तु यो नरः प्रणमेत माम् ।
श्वित्री स जायते मूर्खः सप्तजन्मनि भामिनि ! ॥”
किञ्चान्यत्र ।
“अग्रे पृष्ठे वामभागे समीपे गर्भमन्दिरे ।
जपहोमनमस्कारान्न कुर्य्यात् केशवालये ॥”
पृष्ठ ३/२५२
अपि च ।
“सकृद्भूमौ निपतितो न शक्तः प्रणमेन्मुहुः ।
उत्थायोत्थाय कर्त्तव्यं दण्डवत् प्रणिपातनम् ॥”
इति श्रीहरिभक्तिविलासे ८ विलासः ॥
नतिविशेषस्तु यामले ।
“त्रिकोणाकारा सर्व्वत्र नतिः शक्तेः समीरिता ।
दक्षिणाद्वायवीं गत्वा दिशं तस्याश्च शाम्भवीम् ॥
ततश्च दक्षिणां गत्वा नमस्कारस्त्रिकोणवत् ॥” * ॥
एकहस्तप्रणामनिषेधो यथा, --
“एकहस्तप्रणामश्च एकं वापि प्रदक्षिणम् ।
अकाले दर्शनं विष्णोर्हन्ति पुण्यं पुराकृतम् ॥”
इति तन्त्रसारः ॥ * ॥
कायिकवाचिकमानसमेदेन प्रत्येकं त्रिविधः ।
यथा, कालिकापुराणे ७० अध्याये ।
“कायिको वाग्भवश्चैव मानसन्त्रिविधः स्मृतः ।
नमस्कारस्तु तत्त्वज्ञैरुत्तमाधममध्यमः ॥
प्रसार्य्य पादौ हस्तौ च पतित्वा दण्डवत् क्षितौ ।
जानुभ्यामवनीं गत्वा शिरसा स्पृश्य मेदिनीम् ॥
क्रियते यो नमस्कार उत्तमः कायिकस्तु सः ।
जानुभ्यां क्षितिं संस्पृष्ट्वा शिरसा स्पृश्य मेदि-
नीम् ॥
क्रियते यो नमस्कारो मध्यमः कायिकस्तु सः ।
पुटीकृत्य करौ शीर्षे दीयते यद्यथा तथा ॥
अस्पृष्ट्वा जानुशीर्षाभ्यां क्षितिं सोऽधम उच्यते ॥
यः स्वयं गद्यपद्याभ्यां घटिताभ्यां नमस्कृतिः ।
क्रियते भक्तियुक्तैर्व्वा वाचिकस्तूत्तमः स्मृतः ॥
पौराणिकैर्वैदिकैर्व्वा मन्त्रैर्य्या क्रियते नतिः ।
मध्यमोऽसौ नमस्कारो भवेद्वाचनिकः सदा ।
स वाचिकोऽधमो ज्ञेयो नमस्कारेषु पुत्त्रकौ ॥ *
इष्टमध्यानिष्टगतैर्मनोभिस्त्रिविधं पुनः ।
मननं मानसं प्रोक्तमुत्तमाधममध्यमम् ॥
त्रिविधे च नमस्कारे कायिकश्चोत्तमः स्मृतः ।
कायिकैस्तु नमस्कारैर्देवास्तुष्यन्ति नित्यशः ॥
अयमेव नमस्कारो दण्डादिप्रतिपत्तिभिः ।
प्रणाम इति विज्ञेयः स पूर्ब्बं प्रतिपादितः ॥” * ॥
शूद्रपूजितदेवताप्रणामनिषेधो यथा, --
“यः शूद्रेणार्च्चितं लिङ्गं विष्णुं वा प्रणमेद्यदि ।
निष्कृतिस्तस्य नास्त्येव प्रायश्चित्तायुतैरपि ॥”
इति कर्म्मलोचनम् ॥

प्रणाय्यः, त्रि, (प्रणीयते इति । प्र + णी + ण्यत् ।

“प्रणाय्योऽसम्मतौ ।” ३ । १ । १२८ । इति
साधुः ।) असम्मतः । (यथा, भट्टिः । ६ । ६६ ।
“न प्रणाय्यो जनः कश्चित् निकाय्यं तेऽधि-
तिष्ठति ॥”)
अभिलाषविवर्ज्जितः । इति मेदिनी । ये, ९३ ॥
साधुः । इति त्रिकाण्डशेषः ॥ प्रियः । इति
मुग्धबोधव्याकरणम् ॥

प्रणालः, पुं, (प्रणल्यते जलादिर्निःसार्य्यतेऽनेनेति ।

प्र + णल + घञ् ।) जलनिःसरणमार्गः । इत्य-
मरः । १ । १० । ३५ ॥ पयनाला इति भाषा ॥

प्रणाली, स्त्री, (प्रणाल + गौरादित्वात् ङीष् ।)

जलनिःसरणमार्गः । इत्यमरः । १ । १० । ३५ ॥
पयनाला इति भाषा ॥ (यथा, रामायणे ।
२ । ६२ । १० ।
“तद्वाक्यं करुणं राज्ञः श्रुत्वा दीनस्य भाषितम् ।
कौशल्या व्यसृजद्वाष्पं प्रणालीव नवोदकम् ॥”)

प्रणिधानं, क्ली, (प्रणिधीयतेऽनेनेति । प्र + नि +

धा + ल्युट् ।) प्रयत्नः । (यथा, महाभारते ।
५ । १०३ । २१ ।
“प्रणिधानेन धैर्य्येण रूपेण वयसा च मे ।
मनःप्रविष्टो देवर्षे ! गुणकेश्याः पतिर्व्वरः ॥”)
समाधिः । (यथा, रघुः । १ । ७४ ।
“सोऽपश्यत् प्रणिधानेन सन्ततेः स्तम्भकार-
णम् ॥”)
पवेशनम् । इति मेदिनी । ने, १९३ ॥ (यथा,
सुश्रुते शारीरस्थाने ८ अध्याये ।
“बहुशः क्षता हीनशस्त्रप्रणिधानेनापविद्धा ॥”)

प्रणिधिः पुं, (प्रणिधीयते इति । प्र + नि + धा +

किः ।) चरः । (यथा, देवीभागवते । ५ । ३ । ९ ।
“प्रणिधिं प्रेषयामास हयारिस्तु शचीपतिम् ॥”)
प्रार्थनम् । इत्यमरः । ३ । ३ । ९९ ॥ अवधानम् ।
इति भरतः ॥ (बृहद्रथपुत्त्रः । यथा, महा-
भारते । ३ । २१९ । ९ ।
“बृहद्रथस्य प्रणिधिः कश्यपस्य बृहत्तरः ।
भानुरङ्गिरसो धीर ! पुत्त्रो वर्च्चस्य सौरभः ॥”)

प्रणिपातः, पुं, (प्र + नि + पत + घञ् ।) प्रणतिः ।

इति हेमचन्द्रः ॥ (यथा, कुमारे । ३ । ६१ ।
“तस्याः सखीभ्यां प्रणिपातपूर्ब्बं
स्वहस्तलूनः शिशिरात्ययस्य ।
व्यकीर्य्यत त्र्यम्बकपादमूले
पुष्पोच्चयः पल्लवभङ्गभिन्नः ॥”)

प्रणिहितं, त्रि, (प्र + नि + धा + क्तः ।) स्थापि-

तम् । प्राप्तम् । समाहितम् । इति मेदिनी ।
ते, २०३ ॥ (मिलितम् । यथा, रामायणे ।
४ । २५ । ३४ ।
“ततः प्रणिहिताः सर्व्वा वानर्य्योऽस्य वशानुगाः ।
चुक्रुशुर्व्वीरवीरेति भूयः क्रोशन्ति ताः प्रियम् ॥”)

प्रणीतं, त्रि, (प्र + णी + क्त ।) उपसम्पन्नम् ।

पाकेन रूपरसादिसम्पन्नव्यञ्जनादि । इत्यमर-
भरतौ । क्षिप्तम् । विहितम् । प्रवेशितम् । इति
मेदिनी । ते, १२४ ॥ कृतम् । इति हेमचन्द्रः ॥

प्रणीतः, पुं, (प्रणीयते इति । प्र + णी + क्त ।)

संस्कृतानलः । यज्ञे मन्त्रादिना संस्कृताग्निः ।
इत्यमरः । २ । ७ । २० ॥

प्रणीता, स्त्री, (प्रणीत + टाप् ।) यज्ञपात्र-

विशेषः । इति मेदिनी । ते, १२४ ॥

प्रणुतं, त्रि, (प्र + णु + क्त ।) स्तुतम् । इत्यमरः ।

३ । १ । १०९ ॥

प्रणेयः, त्रि, (प्रकर्षेण नेतुं शक्यः । प्र + णी +

“अचो यत् ।” ३ । १ । ९७ । इति यत् ।)
वश्यः । इत्यमरः । ३ । ३ । २५ ॥ (यथा,
महाभारते । १२ । ५६ । ६० ।
“अस्मत्प्रणेयो राजेति लोकांश्चैव वद-
न्त्युत ॥”)

प्रततिः, स्त्री, (प्रतनोतीति । प्र + तन + क्तिच् ।)

विस्तृतिः । वल्ली । इति मेदिनी । ते, १२९ ॥

प्रतती, स्त्री, (प्रतति + ङीष् ।) व्रतती । इत्य-

मरटीकायां भरतः ॥

प्रतनः, त्रि, (प्र + “नश्च पुराणे प्रात् ।” ५ । ४ ।

२५ । इत्यस्य वार्त्ति० इति चकारात् ट्यु तुट्
च ।) पुरातनः । इत्यमरः । ३ । १ । ७७ ॥

प्रतर्कणं, क्ली, (प्र + तर्क + भावे ल्युट् ।) वितर्कः ।

तत्पर्य्यायः । तर्कः २ वितर्कः ३ व्यूहः ४ वहः ५
ऊहः ६ वितर्कणम् ७ अध्याहारः ८ अध्या-
हरणम् ९ ऊहनम् १० । इति शब्दरत्नावली ॥

प्रतलं, क्ली, (प्रकृष्टं तलम् ।) पातालभेदः । इति

मेदिनी । ले, १०६ ॥

प्रतलः, पुं, (प्रकृष्टं तलमस्य ।) विस्तृताङ्गुलि-

पाणिः । चपेटः । इत्यमरः । २ । ६ । ८४ ॥

प्रतानः, पुं, विस्तृतः । प्रपूर्ब्बतनधातोर्घञ्प्रत्यय-

निष्पन्नः ॥ (तन्तुः । यथा, रघुः । २ । ८ ।
“लताप्रतानोद्ग्रथितैः स केशै-
रधिज्यधन्वा विचचार दावम् ॥”)
वायुरोगविशेषः । तस्य संज्ञान्तरं अपतान-
कम् । यथा, --
“दृष्टिं संस्तभ्य संज्ञाञ्च हत्वा कण्ठेन कूजति ।
हृदि मुक्ते नरः स्वास्थ्यं याति मोहं वृते पुनः ।
वायुना दारुणं प्राहुरेके तदपतानकम् ॥”
इति माधवकरः ॥

प्रतानिनी, स्त्री, (प्रतानो विस्तारोऽस्त्यस्या इति ।

प्रतान + इनिः ।) प्रतानवती । विस्तृतलतादिः ।
इत्यमरभरतौ ॥

प्रतापः, पुं, (प्र + तप् + घञ् ।) कोषदण्डज-

तेजः । कोषो धनं दण्डो दमः तद्धेतुत्वात् सैन्य-
मपि दण्डः ताभ्यां यत्तेजो जायते सः । इति
भरतः ॥ तत्पर्य्यायः । प्रभावः २ । इत्यमरः ।
२ । ८ । २० ॥ (यथा, मनुः । ९ । ३१० ।
“प्रतापयुक्तस्तेजस्वी नित्यं स्यात् पापकर्म्मसु ॥”
पौरुषम् । यथा, रामायणे । १ । १ । ११ ।
“समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् ॥”
“प्रतापः स्मृतिमात्रेण रिपुहृदयविदारणक्षमं
पौरुषं तद्वान् । ‘प्रतापौ पौरुषातपौ ।’ इति
कोषः ।” इति तट्टीकायां रामानुजः ॥) तापः ।
(यथा, रघुः । ४ । १२ ।
“यथा प्रह्लादनाच्चन्द्रः प्रतापात् तपनो यथा ।
तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् ॥”)
तेजः । इति मेदिनी । पे, २० ॥ अर्कवृक्षः । इति
राजनिर्घण्टः ॥ (युवराजस्य छत्रे, क्ली । यथा,
भोजराजकृतयुक्तिकल्पतरौ ।
“नीलो दण्डश्च वस्त्रञ्च शिरःकुम्भस्तु कानकः ।
सौवर्णं युवराजस्य प्रतापं नाम विश्रुतम् ॥”)

प्रतापनं, क्ली, (प्र + तप + णिच् + भावे ल्युट् ।)

पीडनम् । इति शब्दरत्नावली ॥ (यथा,
सुश्रुते । १ । २६ ।
“कानकं राजतं ताम्रं रैतिकं त्रपु सीसकम् ।
चिरस्थानाद्बिलीयन्ते पित्ततेजःप्रतापनात् ॥”)
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/पोटा&oldid=44010" इत्यस्माद् पुनः प्राप्तिः