- तदेव व्यस्य गदितमत्राष्टादशधा पृथक् ।
- पाराशर्य्येण मुनिना सर्व्वेषामपि मानद ! ॥
- वस्तुद्रष्ट्राथ तेनैव मुनीनां भावितात्मनाम् ।
- मत्तः श्रुत्वा पुराणानि लोकेभ्यः प्रचकाशिरे ॥
- मुनयो धर्म्मशीलास्ते दीनानुग्रहकारिणः ।
- मया चेदं पुराणन्तु वशिष्ठाय पुरोदितम् ॥
- तेन शक्त्रिसुतायोक्तं जातूकर्णाय तेन च ।
- व्यासो लब्ध्वा ततश्चैतत् प्रभञ्जनमुखोद्गतम् ॥
- प्रमाणीकृत्य लोकेऽस्मिन् प्रावर्त्तयदनुत्तमम् ॥”
- तत्फलश्रुतिः ।
- “य इदं कीर्त्तयेद्वत्स ! शृणोति च समाहितः ।
- स विधूयेह पापानि याति लोकमनामयम् ॥
- लिखित्वैतत् पुराणन्तु स्वर्णसिंहासनस्थितम् ।
- पत्रेणाच्छादितं यस्तु ब्राह्मणाय प्रयच्छति ॥
- स याति ब्रह्मणो लोकं नात्र कार्य्या विचारणा ॥
- मरीचेऽष्टादशैतानि मया प्रोक्तानि यानि ते ।
- पुराणानि तु सङ्क्षेपाच्छ्रोतव्यानि च विस्तरात् ॥
- अष्टादशपुराणानि यः शृणोति नरोत्तमः ।
- कथयेद्वा विधानेन नेह भूयः स जायते ॥
- सूत्रमेतत् पुराणानां यन्मयोक्तं तवाधुना ।
- तन्नित्यं शीलनीयं हि पुराणफलमिच्छता ॥
- न दाम्भिकाय पापाय देवगुर्व्वनुसूयवे ।
- देयं कदापि साधूनां द्वेषिणे न शठाय च ॥
- शान्ताय रामचित्ताय शुश्रूषाभिरताय च ।
- निर्म्मत्सराय शुचये देयं सद्वैष्णवाय च ॥”
- इति श्रीनारदीयपुराणे पूर्ब्बभागे बृहदुपाख्याने
- चतुर्थपादे १०९ अध्यायः ॥ १८ ॥ * ॥
- इत्यष्टादशमहापुराणानुक्रमणिका समाप्ता ॥ * ॥
- (अष्टादशमहापुराणानां निरुक्तिर्यथा शिव-
- पुराणे उत्तरखण्डे मध्यमेश्वरमाहात्म्ये ।
- “यत्र वक्ता स्वयं तण्डे ! ब्रह्मा साक्षात् चतु-
- र्म्मुखः ।
- तस्माद्ब्राह्मं समाख्यातं पुराणं प्रथमं
- मुने ! ॥” १ ॥
- तण्डे इति मुनिसम्बोधनम् ।
- “पद्मकल्पस्य माहात्म्यं तत्र यस्मादुदाहृतम् ।
- तस्मात् पाद्मं समाख्यातं पुराणञ्च द्विती-
- यकम् ॥ २ ॥
- पराशरकृतं यत्तु पुराणं विष्णुबोधकम् ।
- तदेव व्यासकथितं पुत्त्रपित्त्रोरभेदतः ॥ ३ ॥
- यत्र पूर्ब्बोत्तरे खण्डे शिवस्य चरितं बहु ।
- शैवमेतत् पुराणं हि पुराणज्ञा वदन्ति च ॥ ४ ॥
- भगवत्याश्च दुर्गायाश्चरितं यत्र विद्यते ।
- तत्तु भागवतं प्रोक्तं नतु देवीपुराणकम् ॥ ५ ॥
- नारदोक्तं पुराणन्तु नारदीयं प्रचक्षते ॥ ६ ॥
- यत्र वक्ताभवत्तण्डे ! मार्कण्डेयो महामुनिः ।
- मार्कण्डेयपुराणं हि तदाख्यातञ्च सप्तमम् ॥ ७ ॥
- अग्नियोगात्तदाग्नेयं ८ भविष्योक्तेर्भविष्यकम् । ९ ।
- विवर्त्तनात् ब्रह्मणस्तु ब्रह्मवैवर्त्तमुच्यते ॥ १० ॥
- लिङ्गस्य चरितोक्तत्वात् पुराणं लिङ्गमुच्यते । ११ ।
- वराहस्य च वाराहं पुराणं द्वादशं मुने ! ॥ १२ ॥
- यत्र स्कन्दः स्वयं श्रोता वक्ता साक्षात् महेश्वरः ।
|
- तत्तु स्कान्दं समाख्यातम् १३ वामनस्य तु
- वामनम् ॥ १४ ॥
- कौर्म्मं कूर्म्मस्य चरितम् १५ मात्स्यं मत्स्यस्य
- कीर्त्तितम् । १६ ।
- गरुडस्तु स्वयं वक्ता यत्तद् गारुडसंज्ञ-
- कम् ॥ १७ ॥
- ब्रह्माण्डचरितोक्तत्वात् ब्रह्माण्डं परिकी-
- र्त्तितम् ॥” १८ ॥
- पुराभवः वेदः । सृष्ट्यादिप्रतिपादको ग्रन्थः ।
- यथा, शतपथब्राह्मणे । १४ । ६ । १० । ६ ।
- “ऋग्वेदो यजुर्व्वेदः सामवेदोऽथर्व्वाङ्गिरस
- इतिहासः पुराणं विद्या उपनिषदः श्लोकाः
- सूत्राण्यनुव्याख्यानानि व्याख्यानानि ॥”
- तथा च बृहदारण्यकोपनिषदि ।
- “अस्य महतो भूतस्य निश्वसितमेतद् यदृग्वेदो
- यजुर्व्वेदः सामवेदोऽथर्व्वाङ्गिरस इतिहासः
- पुराणम् ॥”
- “इदं वा अग्रेणव किञ्चिदासीदित्यादिकं जगतः
- प्रागवस्थामुपक्रम्य सर्गप्रतिपादकं वाक्यजातं
- पुराणम् ।” इति ऋग्वेदोपोद्घाते ॥ * ॥)
पुराणः, पुं, (पुरा पुर्ब्बस्मिन् काले भव इति ।
- पुरा + “सायंचिरंप्राह्णेप्रगेऽव्ययेभ्यष्ट्युष्ट्युलौ
- तुट्च ।” ४ । ३ । २३ । इति ष्ट्युः निपातनात्
- तुडभावः ।) पणः । (शिवः । यथा, महा-
- भारते । १३ । १७ । १०६ ।
- “बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी ॥”)
- पुरातने, त्रि । (यथा, मनुः । ५ । २३ ।
- “बभूवुर्हि पुरोडाशा भक्ष्याणां मृगपक्षिणाम् ।
- पुराणेष्वपि यज्ञेषु ब्रह्मक्षत्रसवेषु च ॥”)
- कार्षापणे, पुं, क्ली । इति शब्दरत्नावली ॥
- (यथा, मनुः । ८ । १३६ ।
- “ते षोडश स्याद्धरणं पुराणञ्चैव राजतम् ।
- कार्षापणस्तु विज्ञेयस्ताम्रिकः कार्षिकः पणः ॥”)
पुराणगः, पुं, (पुराणैर्गीयते इति । गै + घजर्थे
- कः । यद्बा, पुराणं वेदं गायतीति । गै +
- “आतोऽनुपेति ।” ३ । २ । ३ । इति कः ।)
- ब्रह्मा । इति हेमचन्द्रः । २ । १२६ ॥ पुराण-
- गायके, त्रि ॥
पुराणपुरुषः, पुं, (पुराणैर्वेदादिभिरुपस्तुतः पुरुषः
- इति मध्यपदलोपिसमासः । यद्बा, पुराणः
- पुरुषः इति कर्म्मधारयः ।) विष्णुः । इति
- इति हेमचन्द्रः । २ । १२८ ॥ (यथा, पाद्मो-
- त्तरखण्डे १११ अध्याये विष्णोरष्टोत्तरशतनाम-
- कीर्त्तने ।
- “पुराणपुरुषो नन्दात्मजः श्रीवत्सलाञ्छनः ॥”)
पुरातनः, पुं, (पुरा भवः । पुरा + ष्ट्युस्तुट् च ।)
- पुराणः । तद्वैदिकपर्य्यायः । प्रत्नम् १ प्रदिवः
- २ प्रवयाः ३ सनेमि ४ पूर्ब्बम् ५ अह्नाय ६ ।
- इति षट्पुराणनामानि । इति वेदनिघण्टौ ३
- अध्यायः ॥ (विष्णुः । यथा, महाभारते । १३ ।
- १४९ । ६६ ।
- “उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ॥”)
|
पुरातनः, त्रि, (पुरा पूर्ब्बस्मिन् काले भवः । पुरा
- + “सायंचिरेति ।” ४ । ३ । २३ । इति ष्ट्युस्तुट्
- च ।) पूर्ब्बकालभवः । पुराण इति भाषा ।
- तत्पर्य्यायः । पुराणः २ प्रतनः ३ प्रत्नः ४ चिर-
- न्तनः ५ । इत्यमरः । ३ । १ । ७७ ॥ चिरत्नः ६ ।
- इति जटाधरः ॥ (यदुक्तं नीतिशास्त्रे ।
- “नवं वस्त्रं नवं छत्रं नव्या स्त्री नूतनं गृहम् ।
- सवत्र नूतनं शस्तं सेवकान्ने पुरातने ॥”)
पुराध्यक्षः, त्रि, (पुरस्य पुराधिकृतो वा अध्यक्षः ।)
- नगराधिकृतः । (यथा, महाभारते । १३ ।
- १३५ । ११ ।
- “चिकित्सकः कान्तपृष्ठः पुराध्यक्षः पुरोहितः ।
- सांवत्सरो वृथाध्यायी सर्व्वे ते शूद्रसम्मिताः ॥”)
- अन्तःपुराध्यक्षलक्षणम् । यथा, --
- “बृद्धः कुलोद्धतः शक्तः पितृपैतामहः शुचिः ।
- राज्ञामन्तःपुराध्यक्षो विनीतश्च तथेष्यते ॥”
- इति युक्तिकल्पतरुः ॥
पुरारिः, पुं, (पुरस्य त्रिपुरस्य अरिः शत्रुः ।)
- शिवः । इति त्रिकाण्डशेषः ॥ (यथा, अध्यात्म-
- रामयणे १ । १ । ५ ।
- पुरारिगिरिसम्भूता श्रीरामार्णवसङ्गता ।
- अध्यात्मरामगङ्गेयं पुणाति भुवनत्रयम् ॥”)
पुरार्द्धविस्तरः, पुं, (पुरार्द्धे पूर्ब्बार्द्धे विस्तरोविस्तृति-
- रस्येति ।) खेटः । इति हेमचन्द्रः । ४ । ३८ ॥
पुरावसुः, पुं, (पुरा पूर्ब्बकाले उत्पत्तेः प्रागित्यर्थः
- वसुः ।) भीष्मः । इति त्रिकाण्डशेषः ॥
पुरावृत्तं, क्ली, (पुरा पुराणं वृत्तं चरित्रं यत्र ।)
- पूर्ब्बवृत्तान्तनिबन्धनम् । तत्पर्य्यायः । इतिहासः
- २ । इत्यमरः । १ । ६ । ४ ॥ पूर्ब्बचरितम् ३ ।
- इति स्वामी ॥ (यथा, महाभारते । ७ । २८ । २४ ।
- “शृणु गुह्यसिदं पार्थ ! पुरावृत्तं यथानघ ! ॥”)
पुरासिनी, स्त्री, (पुरं नगरमस्यति त्यजतीति ।
- अस + णिनिः + ङीप् ।) सहदेवीलता । इति
- राजनिर्घण्टः ॥
पुरासुहृत्, [द्] पुं, (पुरस्य त्रिपुरस्य असुहृत्
- शत्रुः ।) शिवः । इति हेमचन्द्रः । २ । ११४ ॥
पुरिः, स्त्री, (पूर्य्यते इति । पॄ + “कॄगॄशॄपॄ-
- कुटीति ।” उणा० ४ । १४२ । इति इः । स च
- कित् ।) पुरी । इत्यमरटीकायां भरतः ॥ नदी ।
- इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (शरी-
- रम् । इति पुरीतत्-शब्दटीकायां भरतः ॥)
पुरिः, पुं, (पूर्य्यते यशआदिभिरिति । पॄ + इः ।
- सच कित् ।) राजा । इति सिद्धान्तकौमुद्य
- मुणादिवृत्तिः ॥ (सन्न्यासिविशेषः । शङ्कराचार्य्य-
- शिष्यतोटकस्य शिष्येषु अन्यतमशिष्याणा-
- मुपाधिविशेषः । इति केचित् ॥ तल्लक्षणं यथा,
- प्राणतोषिण्यामवधूतप्रकरणे ।
- “ज्ञानतत्त्वेन संपूर्णः पूर्णतत्त्वपदे स्थितः ।
- परब्रह्मरतो नित्यं पुरिनामा स उच्यते ॥”
- तथा च मुण्डमालातन्त्रे २ पटले ।
- “देवतायाः सदा ध्यानं श्रीगुरोः पूजनं तथा ।
- अन्तर्यागेषु यो निष्ठः स वीरः पुरिरेव च ॥”)
|