शब्दकल्पद्रुमः/पुरतः

विकिस्रोतः तः
पृष्ठ ३/१७४

पुरतः, [स्] व्य, (पुरति अग्रे गच्छतीति । पुर +

बाहुलकात् अतसुच् ।) अग्रतः । इत्यमरः । ३ ।
४ । ७ ॥ (यथा, राजतरङ्गिण्याम् । १ । १०७ ।
“निर्गते मञ्जरीकुञ्जादपश्यत् पुरतस्ततः ।
कन्ये नीलनिचोलिन्यौ स केचिच्चारुलोचने ॥”)

पुरतटी, स्त्री, (पुरस्थिता तटीव ।) हट्टी । क्षुद्र-

हट्टः । इति हारावली । १६४ ॥

पुरद्वारं, क्ली, (पुरस्य द्बारम् ।) नगरद्बारम् ।

तत्पर्य्यायः । गोपुरम् २ । इत्यमरः । २ । २ । १६ ॥
(यथा, मनुः । ५ । ९२ ।
“दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत् ।
पश्चिमोत्तरपूर्ब्बैस्तु यथायोगं द्बिजम्मनः ॥”)

पुरद्विट्, [ष्] पुं, (पुरं द्वेष्टीति । द्विष् + क्विप् ।

मयनिर्म्मितानां पुरविशेषाणां दाहकत्वादस्य
तथात्वम् ।) शिवः । इति जटाधरः ॥ (यथा,
भागवते । ४ । ६ । ७ ।
“स इत्थमादिश्य सुरानजस्तु तैः
समन्वितः पितृभिः सप्रजेशैः ।
ययौ सधिष्ण्यान्निलयं पुरद्विषः
कैलासमद्रिप्रवरं प्रियं प्रभोः ॥”)

पुरन्दरं, क्ली, (पुर् + दारि + खच् ।) चविकम् ।

इति शब्दचन्द्रिका ॥

पुरन्दरः, पुं, (अरीणां पुरो दारयतीति । दॄ +

णिच् + “पूःसर्व्वयोर्दारिसहोः ।” ३ । २ । ४१ ।
इति खच् । “वाचं यमपुरन्दरौ च ।” ६ । ३ । ६१ ।
इति निपातितः ।) इन्द्रः । इत्यमरः । १ । १ । ४४ ॥
(यथा, महाभारते । ३ । १०१ । ९ ।
“कालेयभयसन्त्रस्तो देवः साक्षात् पुरन्दरः ।
जगाम शरणं शीघ्रं तन्तु नारायणं प्रभुम् ॥”
पुरं गेहं दारयतीति । दारि + खच् । निपा-
तितः ।) चौरः । यथा, --
“समांसमीना यदि पाकशाला
समांसमीना दश धेनवः स्युः ।
पुरन्दरस्याविषयं यदि स्यात्
पुरन्दरस्यापि पुरं न याचे ॥”
इत्युद्भटः ॥

पुरन्दरा, स्त्री, (पुरं दारयति प्रवाहैरिति ।

दारि + खच् । निपातनात् साधुः । ततष्टाप् ।)
गङ्गा । इति हारावली ॥

पुरन्ध्रिः, स्त्री, (स्वजनसहितं पुरं धारयतीति ।

धृञ + खच् । गौरादित्वात् ङीष् ।
पृषोदरादित्वात् ह्नस्वो वा ।) षतिपुत्त्रदुहि-
त्रादिमती । इति भरतः ॥ तत्पर्य्यायः । कुटु-
म्बिनी । इत्यमरः । २ । ६ । ६ ॥ (यथा, रघुः । ७ । २८ ।

पुरन्ध्री स्त्री, (स्वजनसहितं पुरं धारयतीति ।

धृञ + खच् । गौरादित्वात् ङीष् ।
पृषोदरादित्वात् ह्नस्वो वा ।) षतिपुत्त्रदुहि-
त्रादिमती । इति भरतः ॥ तत्पर्य्यायः । कुटु-
म्बिनी । इत्यमरः । २ । ६ । ६ ॥ (यथा, रघुः । ७ । २८ ।
“तौ स्नातकैर्बन्धुमता च राज्ञा
पुरन्ध्रिभिश्च क्रमशः प्रयुक्तम् ।
कन्याकुमारौ कनकासनस्थौ
आर्द्राक्षतारोपणमन्वभूताम् ॥”)
स्त्रीमात्रम् । इति राजनिर्घण्टः ॥

पुरश्चरणं, क्ली, (पुरोऽग्रतश्चरणं मन्त्रजपादि-

पञ्चाङ्गकर्म्माचरणमिति ।) पुरस्क्रिया । सा तु
स्वेष्टदेवतामन्त्रसिद्ध्यर्थं तद्देवतापूजापूर्ब्बकं तन्-
मन्त्रजपहोमतर्पणाभिषेकब्राह्मणभोजनरूपप-
ञ्चाङ्गकसाधना । यथा, योगिनीहृदये ।
“गुरोराज्ञां समादाय शुद्धान्तःकरणो नरः ।
ततः पुरस्क्रियां कुर्य्यान्मन्त्रसंसिद्धिकाम्यया ॥
जीवहीनो यथा देही सर्व्वकर्म्मसु न क्षमः ।
पुरश्चरणहीनोऽपि तथा मन्त्रः प्रकीर्त्तितः ॥
तस्मादादौ स्वयं कुर्य्यात् गुरुं वा कारयेद्बुधः ।
गुरोरभावे विप्रं वा सर्व्वप्राणिहिते रतम् ।
स्निग्धं शास्त्रविदं मित्रं नानागुणसमन्वितम् ॥
स्त्रियं वा सद्गुणोपेतां सपुत्त्रां विनियोजयेत् ॥
आदौ पुरस्क्रियां कर्त्तुं स्थाननिर्णय उच्यते ॥”
योगिनीहृदये ।
“पुण्यक्षेत्रं नदीतीरं गुहापर्व्वतमस्तकम् ।
तीर्थप्रदेशाः सिन्धूनां सङ्गमः पावनं वनम् ॥
उद्यानानि विविक्तानि विल्वमूलं तटं गिरेः ॥
तुलसीकाननं गोष्ठं वृषशून्यं शिवालयम् ॥
अश्वत्थामलकीमूलं गोशालाजलमध्यतः ।
देवतायतनं कूलं समुद्रस्य निजं गृहम् ॥
साधनेषु प्रशस्तानि स्थानान्येतानि मन्त्रिणाम् ।
अथवा निवसेत्तत्र यत्र चित्तं प्रसीदति ॥” * ॥
तथा ।
“गृहे शतगुणं विद्याद्गोष्ठे लक्षगुणं भवेत् ।
कोटिर्देवालये पुण्यमनन्तं शिवसन्निधौ ॥
म्लेच्छदुष्टमृगव्यालशङ्कातङ्कविवर्ज्जिते ।
एकान्तपावने निन्दारहिते भक्तिसंयुते ॥
सुदेशे धार्म्मिके देशे सुभिक्षे निरुपद्रवे ।
रम्ये भक्तजनस्थाने निवसेत् तापसः प्रिये ! ॥
गुरूणां सन्निधाने च चित्तैकाग्रस्थले तथा ।
एषामन्यतमस्थानमाश्रित्य जपमाचरेत् ॥
यत्र ग्रामे जपेन्मन्त्री तत्र कूर्म्मं विचिन्तयेत् ॥”
गौतमीये ।
“पर्व्वते सिन्धुतीरे वा पुण्यारण्ये नदीतटे ।
यदि कुर्य्यात् पुरश्चर्य्यां तत्र कूर्म्मं न चिन्तयेत् ॥”
विल्वमूलादावपि कूर्म्मचिन्ता नास्ति तदुक्तं
वैशम्पायनसंहितायाम् ।
“पुण्यक्षेत्रं गृही तीर्थं देवतायतनं शुभम् ।
नदीतीरं तथा सिन्धुसङ्गमोऽतिमनोहरः ॥
पर्व्वतस्य गुहाश्चैव तथा पर्व्वतमस्तकम् ।
विल्वमूलं समुद्रश्च वनमुद्यानमेव च ॥
एषु स्थानेषु विप्रेन्द्र ! कूर्म्मचक्रं न चिन्तयेत् ।
ग्रामे वा यदि वा वास्तौ गृहे तञ्च विचिन्त-
येत् ॥”
अथ पुरश्चरणे भक्ष्यादिनियमः ।
गौतमीये ।
“पुरश्चरणकृन्मन्त्री भक्ष्याभक्ष्यं विचारयेत् ।
अन्यथा भोजनाद्दोषात् सिद्धिहानिः प्रजायते ॥
शस्तान्नञ्च समश्नीयात् मन्त्रसिद्धिसमीहया ।
तस्मान्नित्यं प्रयत्नेन शस्तान्नाशी भवेन्नरः ॥”
अगस्त्यसंहितायाम् ।
“दधि क्षीरं घृतं गव्यं ऐक्षवं गुडवर्ज्जितम् ।
तिलाश्चैव सिता मुद्गाः कन्दः केमुकवर्ज्जितः ॥
नारिकेलफलञ्चैव कदली लवली तथा ।
आम्रमामलकञ्चैव पनसञ्च हरीतकी ॥
व्रतान्तरे प्रशस्तञ्च हविष्यं मन्यते बुधैः ॥”
व्रतान्तर इति ।
“हैमन्तिकं सितास्विन्नं धान्यं मुद्गास्तिला यवाः ।
कलायकङ्गुनीवारा वास्तूकं हिलमोचिका ॥
षष्टिका कालशाकञ्च मूलकं केमुकेतरत् ।
लवणे सैन्धवसामुद्रे गव्ये च दधिसर्पिषी ॥
पयोऽनुद्धृतसारञ्च पनसाम्रहरीतकी ।
पिप्पली जीरकञ्चैव नागरङ्गञ्च तिन्तिडी ॥
कदलीलवलीधात्रीफलानिगुडमैक्षवम् ।
अतैलपक्वं मुनयो हविष्यान्नं प्रचक्षते ॥
भुञ्जानो वा हविष्यान्नं शाकं यावकमेव वा ।
पयो मूलं फलं वापि यत्र यत्रोपलभ्यते ॥
रम्भाफलं तिन्तिडीकं कमला नागरङ्गकम् ।
फलान्येतानि भोज्यानि एभ्योऽन्यानि विवर्ज्ज-
येत् ॥”
यत्तु योगिनीतन्त्रे ।
“चिञ्चाञ्च नालिकाशाकं कलायं लकुचं तथा ।
कदम्बं नारिकेलञ्च व्रते कुष्माण्डकं त्यजेत् ॥”
तत्तु व्रतान्तरे बोध्यम् । चिञ्चा तिन्तिडी ॥ * ॥
अथ वर्ज्यानि ।
“विवर्ज्जयेन्मधु क्षारलवणं तैलमेव च ।
ताम्बूलं कांस्यपात्रञ्च दिवाभोजनमेव च ॥”
तथा ।
“क्षारञ्च लवणं मांसं गृञ्जनं कांस्यभोजनम् ।
माषाढकीमसूरांश्च कोद्रवांश्चणकानपि ॥
अन्नं पर्य्युषितञ्चैव निःस्नेहं कीटदूषितम् ॥”
रामार्च्चनचन्द्रिकायाम् ।
“मैथुनं तत्कथालापं तद्गोष्ठीः परिवर्ज्जयेत् ।
ऋतुकालं विना मन्त्री स्वस्त्रियं नैव गच्छति ॥
लवणञ्च पलञ्चैव क्षारं क्षौद्रं रसान्तरम् ।
कौटिल्यं क्षौरमभ्यङ्गमनिवेदितभोजनम् ॥
असङ्कल्पितकृत्यञ्च वर्ज्जयेन्मर्द्दनादिकम् ।
स्नायाच्च पञ्चगव्येन केवलामलकेन वा ॥
मन्त्रजप्तान्नपानीयैः स्नानाचमनभोजनम् ।
कुर्य्याद्यथोक्तविधिना त्रिसन्ध्यं देवतार्च्चनम् ॥
अपवित्रकरो नग्नः शिरसि प्रावृतोऽपि वा ।
प्रलपन् प्रजपेद्यावत्तावत् निष्फलमुच्यते ॥”
नारदीये ।
“मृदु सोष्णं सुपक्वञ्च कुर्य्याद्वै लघु भोजनम् ।
नेन्द्रियाणां यथा वृद्धिस्तथा भुञ्जीत साधकः ॥”
कुलार्णवेऽपि ।
“यस्यान्नपानपुष्टाङ्गः कुरुते धर्म्मसञ्चयम् ।
अन्नदातुः फलस्यार्द्धं कर्त्तुश्चार्द्धं न संशयः ॥
तस्मात् सर्व्वप्रयत्नेन परान्नं वर्ज्जयेत् सुधीः ।
पुरश्चरणकालेषु सर्व्वकर्म्मसु शाम्भवि ! ॥
जिह्वा दग्धा परान्नेन करौ दग्धौ प्रतिग्रहात् ।
परस्त्रीभिर्म्मनो दग्धं कथं सिद्धिर्व्वरानने ! ॥”
परान्नं भिक्षितेतरविषयम् । भिक्षायां तस्य
स्वत्वोत्पादात् । तथा च ।
“वैदिकाचारयुक्तानां शुचीनां श्रीमतां सताम् ।
सत्कुलस्थानजातानां भिक्षाशी चाग्रजन्मनाम् ॥
पृष्ठ ३/१७५
विहाय वह्निं नहि वस्तु किञ्चित्
ग्राह्यं परेभ्यः सति सम्भवे च ।
असम्भवे तीर्थबहिर्व्विशुद्धात्
पर्व्वातिरिक्ते प्रतिगृह्य जप्यात् ॥
तत्रासमर्थोऽनुदिनं विशुद्धात्
याचेत यावद्दिनमात्रभैक्ष्यम् ।
गृह्णाति रागादधिकं न सिद्धिः
प्रजायते कल्पशतैरमुष्य ॥ * ॥
सकृदुच्चरिते शब्दे प्रणवं समुदीरयेत् ।
प्रोक्ते पारशवे शब्दे प्राणायामं सकृच्चरेत् ॥
बहुप्रलापी आचम्य न्यस्याङ्गानि ततो जपेत् ।
क्षुतेऽप्येवं तथास्पृश्यस्थानानां स्पर्शनेन च ॥
एवमादींञ्च नियमान् पुरश्चरणकृच्चरेत् ॥
विण्मूत्रोत्सर्गशङ्कादियुक्तः कर्म्म करोति यत् ।
जपार्च्चनादिकं सर्व्वमपवित्रं भवेत्प्रिये ! ॥
मलिनाम्बरकेशादिमुखदौर्गन्ध्यसंयुतः ।
यो जपेत्तं दहत्याशु देवता गुप्तिसंस्थिता ॥
आलस्यं जृम्भणं निद्रां क्षुतं निष्ठीवनं भयम् ।
नीचाङ्गस्पर्शनं कोपं जपकाले विवर्ज्जयेत् ॥ * ॥
एवमुक्तविधानेन विलम्बं त्वरितं विना ।
उक्तसंख्यं जपं कुर्य्यात् पुरश्चरणसिद्धये ॥
देवतागुरुमन्त्राणामैक्यं सम्भावयन् धिया ।
जपेदेकमनाः प्रातःकालं मध्यन्दिनावधि ॥
यत्सङ्ख्यया समारब्धं तत् कर्त्तव्यं दिने दिने ।
यदि न्यूनाधिकं कुर्य्यात् व्रतभ्रष्टो भवेन्नरः ॥”
मुण्डमालायाम् ।
“यत्सङ्ख्यया समारब्धं तत् जप्तव्यं दिने दिने ।
न्यूनाधिकं न कर्त्तव्यमासमाप्तं सदा जपेत् ॥
प्रजपेदुक्तसङ्ख्यायाश्चतुर्गुणजपं कलौ ॥”
अन्यत्रापि ।
“कृते जपस्तु कल्पोक्तस्त्रेतायां द्बिगुणो मतः ।
द्वापरे त्रिगुणः प्रोक्तश्चतुर्गुणजपः कलौ ॥”
कुलार्णवेऽपि ।
“न्यूनातिरिक्तकर्म्माणि न फलन्ति कदाचन ।
यथाविधिकृतान्येव सत्कर्म्माणि फलन्ति हि ॥
भूशय्या ब्रह्मचारित्वं मौनमाचार्य्यसेविता ।
नित्यपूजा नित्यदानं देवतास्तुतिकीर्त्तनम् ॥
नित्यं त्रिसवनं स्नानं क्षुद्रकर्म्मविवर्ज्जनम् ।
नैमित्तिकार्च्चनञ्चैव विश्वासो गुरुदेवयोः ॥
जपनिष्ठा द्वादशैते धर्म्माः स्युर्म्मन्त्रसिद्धिदाः ॥
स्त्रीशूद्रपतितव्रात्यनास्तिकोच्छिष्टभाषणम् ।
असत्यभाषणं जिह्मभाषणं परिवर्ज्जयेत् ॥
सत्येनापि न भाषेत जपहोमार्च्चनादिषु ।
अन्यथानुष्ठितं सर्व्वं भवत्येव निरर्थकम् ॥
पुरश्चरणकाले तु यदि स्यान्मृतसूतकम् ।
तथा च कृतसङ्कल्पो व्रतं नैव परित्यजेत् ॥”
योगिनीहृदये ।
“शयीतकुशशय्यायां शुचिवस्त्रधरः सदा ।
प्रत्यहं क्षालयेत् शय्यामेकाकी निर्भयः स्वपेत् ॥
असत्यभाषणं वाचं कुटिलां परिवर्ज्जयेत् ।
वज्जेयेद्गीतवाद्यादिश्रवणं नृत्यदर्शनम् ॥
अभ्यङ्गं गन्धलेपञ्च पुष्पधारणमेव च ।
त्यजेदुष्णोदकस्नानमन्यदेवप्रपूजनम् ॥”
तत्रैव ।
“नैकवासा जपेन्मन्त्रं बहुवासाकुलोऽपि वा ॥”
वैशम्पायनसंहितायाम् ।
“विपर्य्यासं स कुर्य्याच्च कदाचिदपि मोहतः ।
उपर्य्यधो बहिर्व्वस्त्रे पुरश्चरणकृन्नरः ॥
पतितानामन्त्यजानां दर्शने भाषणे श्रुते ।
क्षुतेऽधोवायुगमने जृम्भणे जपमुत्सृजेत् ॥
तथा तस्य च तत्प्राप्तौ प्राणायामं षडङ्गकम् ।
कृत्वा सम्यक् जपेत् शेषं यद्वा सूर्य्यादिदर्शनम् ॥”
आदिशब्दाद्बह्निं ब्राह्मणञ्च ॥ * ॥ तन्त्रान्तरे ।
“मनःसंहरणं शौचं मौनं मन्त्रार्थचिन्तनम् ।
अव्यग्रत्वमनिर्व्वेदो जपसम्पत्तिहेतवः ॥ * ॥
उष्णीशी कञ्चुकी नग्नो मुक्तकेशो गणावृतः ।
अपवित्रकरोऽशुद्धः प्रलपन्न जपेत् क्वचित् ॥
अनासनः शयानो वा गच्छन् भुञ्जान एव वा ।
अप्रावृतौ करौ कृत्वा शिरसा प्रावृतोऽपि वा ॥
चिन्ताव्याकुलचित्तो वा क्षुब्धो भ्रान्तः क्षुधा-
न्वितः ।
रथ्यायामशिवस्थाने न जपेत्तिमिरालये ॥
उपानद्गूढपादो वा यानशय्यागतोऽपि वा ।
प्रसार्य्य न जपेत् पादावुत्कटासन एव च ।
न यज्ञकाष्ठे पाषाणे न भूमौ नासने स्थितः ॥”
तथा ।
“मार्ज्जारं कुक्कुटं क्रौञ्चं श्वानं शूद्रं कपिं खरम् ।
दृष्ट्वाचम्य जपेत् शेषं स्पृष्ट्वा स्नानं विधीयते ॥”
सर्व्वत्र जपे त्वयं नियमः ॥ मानसे तु नियमो
नांस्त्येव । तथा च ।
“अशुचिर्व्वा शुचिर्व्वापि गर्च्छस्तिष्ठन् स्वपन्नपि ।
मन्त्रैकशरणो विद्बान् मनसैव सदाभ्यसेत् ॥
न दोषो मानसे जाप्ये सर्व्वदेशेऽपि सर्व्वदा ॥”
श्यामादिजपे तु तत्तन्मन्त्रे विशेषो वक्तव्यः ॥
जपफलमाह शिवधर्म्मे ।
“जपनिष्ठो द्विजश्रेष्ठोऽखिलयज्ञफलं लभेत् ।
सर्व्वेषामेव यज्ञानां जायतेऽसौ महाफलः ॥
जपेन देवता नित्यं स्तूयमाना प्रसीदति ।
प्रसन्ना विपुलान् कामान् दद्यान्मुक्तिञ्च शाश्व-
तीम् ॥”
पाद्मे ।
“यक्षरक्षःपिशाचाश्च ग्रहाः सर्पाश्च भीषणाः ।
जापिनं नोपसर्पन्ति भयभीताः समन्ततः ॥”
पाद्मनारदीययोः ।
“यावन्तः कर्म्मयज्ञाः स्युः प्रदिष्टानि तपांसि च ।
सर्व्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥
माहात्म्यं वाचिकस्यैतज्जपयज्ञस्य कीर्त्तितम् ।
तस्माच्छतगुणोपांशुः सहस्रो मानसः स्मृतः ॥”
तथा तन्त्रे ।
“मानसः सिद्धिकामानां पुष्टिकामैरुपांशुकः ।
वाचिको मारणे चैव प्रशस्तो जप ईरितः ॥”
गौतमीये ।
“शक्त्या त्रिसवनं स्नानमन्यथा द्विः सकृच्च वा ।
त्रिसन्ध्यं प्रजपेन्मन्त्रं पूजनं तत्समं भवेत् ॥”
सन्ध्यात्रये पूजाङ्गत्वाज्जपमष्टोत्तरशतमित्यर्थः ॥
“एकदा वा भवेत् पूजा न जपेत् पूजनं विना ।
जपान्ते वा भवेत् पूजा पूजान्ते वा जपेन्मनुम् ॥
प्रातःकालं समारभ्य जपेन्मध्यन्दिनावधि ॥”
मध्यन्दिनावधीति न नियमपरं किन्त्वधिककाल-
व्यवच्छेदपरम् । अन्यथा तत्समयजपनियमे
कदाचित् जिह्वाया जाड्याजाड्येन वा प्रति-
नियतदिवसीयजपसङ्ख्याया अपूर्णत्वे अधिकत्वे
वा नियमभङ्गः स्यात् ॥ * ॥
“मनः संहृत्य विषयान्मन्त्रार्थगतमानसः ।
न द्रुतं न विलम्बञ्च जपेन्मौक्तिकपंक्तिवत् ॥ * ॥
जपः स्यादक्षरावृत्तिर्मानसोपांशुवाचिकैः ।
धिया यदक्षरश्रेणीं वर्णस्वरपदात्मिकाम् ॥
उच्चरेदर्थमुद्दिश्य मानसः स जपः स्मृतः ॥”
मन्त्रनिर्णये ।
“मानसं मन्त्रवर्णस्य चिंन्तनं मानसः स्मृतः ।
जिह्वोष्ठौ चालयेत् किञ्चिद्देवतागतमानसः ॥
किञ्चित् श्रवणयोग्यः स्यात् उपांशुः स जपः
स्मृतः ।
मन्त्रमुच्चारयेद्वाचा वाचिकः स जपः स्मृतः ॥
उच्चैर्ज्जपाद्विशिष्टः स्यादुपांशुर्द्दशभिर्गुणैः ।
जिह्वाजपः शतगुणः सहस्रो मानसः स्मृतः ॥”
प्रकारान्तरम् ।
“निजकर्णागोचरो यो मानसः स जपः स्मृतः ।
उपांशुर्निजकर्णस्य गोचरः स प्रकीर्त्तितः ॥
निगदस्तु जनैर्वेद्यस्त्रिविधोऽयं जपः स्मृतः ॥”
तन्त्रान्तरे ।
“उच्चैर्जपोऽधमः प्रोक्त उपांशुर्म्मध्यमः स्मृतः ।
उत्तमो मानसो देवि ! त्रिविधः कथितो जपः ॥”
जिह्वाजपस्तु ।
“जिह्वाजपः स विज्ञेयः केवलं जिह्वया बुधैरिति ॥
अतिविलम्बातिशीघ्रजपे दोषमाह ।
“अतिह्नस्वो व्याधिहेतुरतिदीर्घो वसुक्षयः ।
अक्षराक्षरसंयुक्तं जपेन्मौक्तिकहारवत् ॥
मनसा यः स्मरेत् स्तोत्रं वचसा वा मनुं जपेत् ।
उभयं निष्फलं याति भिन्नभाण्डोदकं यथा ॥”
गौतमीये ।
“पशुभावे स्थिता मन्त्राः केवला वर्णरूपिणः ।
सौसुम्नध्वन्युच्चरिताः प्रभुत्वं प्राप्नुवन्ति ते ॥”
पाद्मनारदीययोः ।
“मन्त्राक्षराणि चिच्छक्तौ प्रोतानि परिभावयेत् ।
तामेव परमव्योम्नि परमामृतबृंहिते ॥
दर्शयत्यात्मसद्भावं पूजाहोमादिभिर्व्विनेति ।”
गौतमीये दशाक्षरपटले ।
“मूलमन्त्रं प्राणबुद्ध्या सुसुम्नामूलदेशके ।
मन्त्रार्थं तस्य चैतन्यं जीवं ध्यात्वा पुनः पुनः ॥
कुलार्णवेऽपि ।
“मनोऽन्यत्र शिवोऽन्यत्र शक्तिरन्यत्र मारुतः
न सिद्ध्यति वरारोहे ! कल्पकोटिशतैरपि ॥
जातसूतकमादौ स्यादन्ते च मृतसूतकम् ।
सूतकद्वयसंयुक्तो यो मन्त्रः स न सिद्ध्यति ॥
गुरोस्तद्रहितं कृत्वा मन्त्रं यावज्जपेद्धिया ।
पृष्ठ ३/१७६
सूतकद्वयनिर्म्मुक्तः स मन्त्रः सर्व्वसिद्धिदः ॥
जातसूतकमादौ स्यान्मृतसूतकमन्ततः ।
सूतकद्वयनिर्म्मुक्तो मन्त्रः सिद्ध्यति नान्यथा ॥”
तत्रैव ।
“तस्माद्देवि ! प्रयत्नेन ध्रुवेण पुटितं मनुम् ।
अष्टोत्तरशतं वापि सप्तवारं जपादितः ॥
जपान्ते च तथा जप्यात् चतुर्व्वर्गफलाप्तये ॥”
तत्रैव ।
“ब्रह्मबीजं मनोर्द्दत्त्वा चाद्यन्ते परमेश्वरि ! ।
सप्तवारं जपेन्मन्त्रं सूतकद्वयमुक्तये ॥ * ॥
मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रां न वेत्ति यः ।
शतकोटिजपेनापि तस्य सिद्धिर्न जायते ॥
लुप्तबीजाश्च ये मन्त्रा न दास्यन्ति फलं प्रिये ! ।
मन्त्राश्चैतन्यसहिताः सर्व्वसिद्धिकराः स्मृताः ॥
चैतन्यरहिता मन्त्राः प्रोक्ता वर्णास्तु केवलम् ।
फलं नैव प्रयच्छन्ति लक्षकोटिजपैरपि ॥
मन्त्रोच्चारे कृते यादृक् स्वरूपं प्रथमं भवेत् ।
शते सहस्रे लक्षे वा कोटिजापे न तत्फलम् ॥
हृदये ग्रन्थिभेदश्च सर्व्वावयववर्द्धनम् ।
आनन्दाश्रूणि पुलको देहावेशः कुलेश्वरि ! ॥
गद्गदोक्तिश्च सहसा जायते नात्र संशयः ।
सकृदुच्चरितेऽप्येवं मन्त्रे चैतन्यसंयुते ॥
दृश्यन्ते प्रत्यया यत्र पारम्पर्य्यं तदुच्यते ॥ * ॥
मासमात्रं जपेन्मन्त्रं भूतलिप्या तु संपुटम् ।
क्रमोत्क्रमात् सहस्रञ्च तस्य सिद्धो भवेन्मनुः ॥”
तत्र भूतलिपिः ।
“पञ्च ह्नस्वाः सन्धिवर्णा व्योमाराग्निजलन्धराः ।
अन्त्यमाद्यं द्वितीयञ्च चतुर्थं मध्यमं क्रमात् ॥
पञ्चवर्गाक्षराणि स्युर्व्वान्तश्वेतेन्दुभिः सह ।
एषा भूतलिपिः प्रोक्ता द्विचत्वारिंशदक्षरैः ॥
मन्त्रस्तु ।
अ इ उ ऋ ऌ ए ऐ ओ औ ह य र व ल ङ
क ख घ ग ञ च छ झ ज ण ट ठ ढ ड न त
थ ध द म प फ भ व श ष साः ।
अतः परं मन्त्रमुच्चार्य्य पुनः क्रमेणोल्लेख्यम् ॥ * ॥
गौतमीये ।
“एवं जपं पुरा कृत्वा तेजोरूपं समपयेत् ।
देवस्य दक्षिणे हस्ते कुशपुष्पार्घ्यवारिभिः ॥
सफलं तद्विभाव्यैवं प्राणायामं समाचरेत् ।
जपस्वादौ जपान्ते च त्रितयं त्रितयं चरेत् ॥” * ॥
शक्तिविषये देव्या वामहस्ते । तथा च ।
“एवं जपं पुरा कृत्वा गन्धाक्षतकुशोदकैः ।
जपं समर्पयेद्देव्या वामहस्ते विचक्षणः ॥ * ॥
जपान्ते प्रत्यहं मन्त्री होमयेत्तद्दशांशतः ।
तर्पणञ्चाभिषेषकञ्च तत्तद्दशांशतो मुने ! ॥
प्रत्यहं भोजयेद्विप्रान् न्यूनाधिकप्रशान्तये ।
अथवा सर्व्वपूर्त्तौ च होमादिकमथाचरेत् ॥
सम्पूर्णायां प्रतिज्ञायां तर्पणादिकमाचरेत् ॥”
मुण्डमालायाम् ।
“यस्य यावान् जपः प्रोक्तस्तद्दशांशमनुक्रमात् ।
तत्तद्द्रव्यैर्जपस्यान्ते होमं कुर्य्याद्दिने दिने ॥”
जपसङ्ख्यायां विशेषमाह मुण्डमालायाम् ।
नाक्षतैर्हस्तपर्व्वैर्वा न धान्यैर्न च पुष्पकैः ।
न चन्दनैर्म्मृत्तिकया जपसङ्ख्यान्तु कारयेत् ॥
लाक्षाकुशीदसिन्दूरं गोमयञ्च करीषकम् ।
विलोड्य गुटिकां कृत्वा जपसङ्ख्यान्तु कारयेत् ॥”
पुरश्चरणचन्द्रिकायाञ्च ।
“ततो जपदशांशेन होमं कुर्य्याद्दिने दिने ।
अथवा लक्षसङ्ख्यायां पूर्णायां होममाचरेत् ॥”
तथा । होमाद्यशक्तौ च सनत्कुमारीये ।
“यद्यदङ्गं भवेद्भग्नं तत्सङ्ख्याद्विगुणो जपः ।
होमाभावे जपः कार्य्यो होमसङ्ख्याचतुर्गुणः ॥
विप्राणां क्षत्त्रियाणाञ्च रससङ्ख्यागुणः स्मृतः ।
वैश्यानां वसुसङ्ख्याकमेषां स्त्रीणामयं विधिः ॥
यं वर्णमाश्रितः शूद्रः स च तस्य विधिञ्चरेत् ।
अनाश्रितस्य शूद्रस्य दिक्सङ्ख्याकः समीरितः ।
शूद्रस्य विप्रभृत्यस्य तत्पत्न्याः सदृशो जपः ॥”
अत्राप्यशक्तश्चेत् योगिनीहृदये ।
“होमकर्म्मण्यशक्तानां विप्राणां द्विगुणो जपः ।
इतरेषान्तु वर्णानां त्रिगुणादिः समीरितः ॥”
त्रिगुणादिः होमसङ्ख्यात्रिगुणजपः क्षत्त्रियेण
कार्य्यः । वैश्येन चतुर्गुणः । शूद्रेण पञ्चगुणः ।
तदुक्तं कुलार्णवे ।
“यद्वदङ्गं विहीनं स्यात् तत्सङ्ख्याद्विगुणो जपः ।
कुर्व्वीत त्रिचतुःपञ्च यथासङ्ख्यं द्विजादयः ॥”
एतेन स्त्रीशूद्राणां होमाधिकारः । तथा च ।
“बणिजामर्द्धशशाङ्ककोणं त्र्यस्रं भवति शूद्रा-
णाम् ।”
इति नागभट्टनिबन्धे ॥
शूद्राणां त्र्यस्रमिति कुण्डप्रकरणे सारदायाम् ॥
स्त्रीणां होमाधिकारश्च तत्र ।
“लाजैस्त्रिमधुरोपेतैर्होमः कन्यां प्रयच्छति ।
अनेन विधिना कन्या वरमाप्नोति वाञ्छितम् ॥”
अतः स्त्रीणां होमाधिकारः । तच्च ब्राह्मण-
द्वारा । तथा च तन्त्रे ।
“ओङ्कारोच्चारणाद्धोमात् शालग्रामशिलार्च्च-
नात् ।
ब्राह्मणीगमनाच्चैव शूद्रश्चाण्डालतां व्रजेत् ॥”
इति साक्षान्निषेधात् ।
तथा स्त्रीणामपि सर्व्ववैदिककर्म्मसु शूद्रतुल्यत्व-
प्रतिपादनात् ।
स्त्रीशूद्रकरसंस्पर्शो वज्रपातसमो मम ॥
इति भगवद्वचनाच्च ॥ तथा च नारायणकल्पे ।
“अष्टाक्षरो महामन्त्रः सप्तार्णः शूद्रयोषितोः ।
प्रणवादिश्च यो मन्त्रो न स्त्रीशूद्रे प्रशस्यते ॥”
इति सर्व्वत्र स्त्रीणां शूद्रवद्व्यवहारः ॥ * ॥
शूद्रस्यापि स्वकर्त्तृकहोमः । तथा च वाराही-
तन्त्रे ।
“यदि कामी भवत्येव शूद्रोऽपि होमकर्म्मणि ।
वह्निजायां परित्यज्य हृदयान्तेन होमयेत् ॥”
सर्व्वेषां वा द्विगुणो जपः । तथा च वाशिष्ठे ।
“यद्यदङ्गं विहीयेत तत्सङ्ख्याद्विगुणो जपः ।
कर्त्तव्यश्चाङ्गसिद्ध्यर्थं तदशक्तेन भक्तितः ॥
न चेदङ्गं विहीयेत तद्विशिष्टमताप्नुयात् ।
विप्रभोजनमात्रेण व्यङ्गं साङ्गं भवेत् ध्रुवम् ॥
यत्र भुङ्क्ते द्बिजस्तस्मात्तत्र भुङ्क्ते हरिः
स्वयम् ॥”
तथा अगस्त्यसंहितायाम् ।
“यदि होमेऽप्यशक्तः स्यात् पूजायां तर्पणेऽपि वा ।
तावत्सङ्ख्यजपेनैव ब्राह्मणाराधनेन च ॥
भवेदङ्गद्वयेनैव पुरश्चरणमार्य्य वै ॥” * ॥
वीरतन्त्रे ।
“नियमः पुरुषे ज्ञेयो न योषित्सु कथञ्चन ।
न म्यासो योषितामत्र न ध्यानं न च पूजनम् ॥
केवलं जपमात्रेण मन्त्राः सिद्ध्यन्ति योषिताम् ॥”
ततश्च ।
“गुरवे दक्षिणां दद्यात् भोजनाच्छादनादिभिः ।
गुरुसन्तोषमात्रेण मन्त्रसिद्धिर्भवेत् ध्रुवम् ॥” * ॥
तथा च योगिनीहृदये ।
“गुरोरभावे पुत्त्राय तत्पत्न्यै वा निवेदयेत् ।
तयोरभावे देवेशि ! ब्राह्मणेभ्यो निवेदयेत् ॥
सम्यक्सिद्धैकमन्त्रस्य पञ्चाङ्गोपासनेन च ।
सर्व्वेमन्त्राश्च सिद्ध्यन्ति त्वत्प्रासादात् कुलेश्वरि ! ॥
गुरुमूलमिदं सर्व्वमित्याहुस्तन्त्रवेदिनः ।
एकग्रामे स्थितो नित्यं गत्वा वन्देत वै गुरुम् ॥
गुरुरेव परं ब्रह्म तस्मादादौ तमर्च्चयेत् ।
तदन्ते महतीं पूजां कुर्य्यात् साधकसत्तमः ॥
सुभाषिणीं कुमारीञ्च भूषणैरपि भूषयेत् ।
मिष्टान्नं बहुशः कार्य्यं भुञ्जीत बन्धुभिः सह ॥
एवं सिद्धमनुर्म्मन्त्री साधयेत् सकलेप्सितान् ॥” * ॥
अथ ग्रहणपुरश्चरणम् ।
तन्त्रे ।
“अथवान्यप्रकारेण पुरश्चरणमुच्यते ।
ग्रहणेऽर्कस्य चेन्दोर्व्वा शुचिः पूर्ब्बमुपोषितः ॥
नद्यां समुद्रगामिन्यां नाभिमात्रोदके स्थितः ।
स्पर्शाद्विमुक्तिपर्य्यन्तं जपेन्मन्त्रमनन्यधीः ॥” * ॥
यदि नक्रादिदूषिता नदी भवति तदा यत्
कर्त्तव्यं तदाह रुद्रयामले ।
“अपि शुद्धोदकैः स्नात्वा शुचौ देशे समाहितः ।
ग्रासाद्विमुक्तिपर्य्यन्तं जपेन्मन्त्रमनन्यधीः ॥
इति कृत्वा न सन्देहो जपस्य फलभाग्भवेत् ॥”
नद्यभावे ।
“यद्वा पुण्योदकैः स्नात्वा शुचिः पूर्ब्बमुपोषितः ।
ग्रहणादिविमोक्षान्तं जपेन्मन्त्रमनन्यधीः ॥” * ॥
उपवासासमर्थे तु तत्रैव ।
अथवान्यप्रकारेण पौरश्चारणिको विधिः ।
चन्द्रसूर्य्योपरागे च स्नात्वा प्रयतमानसः ॥
स्पर्शनादिविमोक्षान्तं जपेन्मन्त्रं समाहितः ।
जपाद्दशांशतो होमं तथा होमात्तु तर्पणम् ।
एवं कृत्वा तु मन्त्रस्य जायते सिद्धिरुत्तमा ॥” * ॥
गोपालमन्त्रतर्पणे तु होमसमसङ्ख्यत्वं यथा, --
“इह गोपालमन्त्रस्य तर्पणं होमसङ्ख्यया ।
वर्णानामिह सर्व्वेषामित्यागमविदो विदुः ॥
दृष्ट्वा स्नात्वा सुसङ्कल्प्य विमोक्षान्तं जपञ्चरेत् ।
तावद्यज्ञादिकं कुर्य्याद्ग्रहणान्तेशुचिः पुमान् ॥
एवं जपान्मन्त्रसिद्धिर्भवत्येव न संशयः ॥” * ॥
पृष्ठ ३/१७७
ग्रहणे जपस्य आवश्यकत्वम् ।
“श्राद्धादेरनुरोधेन यदि जप्यं त्यजेन्नरः ।
स भवेद्देवताद्रोही पितॄन् सप्त नयत्यधः ॥”
इति सनत्कुमारीयवचनात् ॥
वस्तुतस्तु आरब्धपुरश्चरणविषयमिदम् ।
तथाहि ।
“आरब्धे पुरश्चरणे यदि च ग्रहणं भवेत्
तदा श्राद्धाद्यनुरोधेन जपं न त्यजेत् । एवं
रात्रावपि पुरश्चरणविशेषे बोद्धव्यम् ।” इति
सर्व्वसमञ्जसम् ॥ * ॥ योगिनीहृदये ।
“कल्पोक्तविधिना मन्त्री कुर्य्याद्धोमादिकन्ततः ।
अथवा तद्दशांशेन होमादींश्च समाचरेत् ॥”
तथा ।
“अनन्तरं दशांशेन क्रमाद्धोमादिकञ्चरेत् ।
तदन्ते महतीं पूजां कुर्य्याद्ब्राह्मणभोजनम् ॥
ततो मन्त्रस्य सिद्ध्यर्थं गुरुं सम्पूज्य तोषयेत् ।
एवञ्च मन्त्रसिद्धिः स्यात् देवता च प्रसीदति ॥”
अत्र ब्राह्मणभोजनमावश्यकमेव ।
“सर्व्वथा भोजयेद्बिप्रान् कृतसाङ्गत्वसिद्धये ।
विप्राराधनमात्रेण व्यङ्गं साङ्गं भवेद्ध्रुवम् ॥”
क्रियासारे ।
“दीक्षाहीनान् पशून् यस्तु भोजयेद्वा स्वमन्दिरे ।
स याति परमेशानि ! नरकानेकविंशतिम् ॥
एवं यः कुरुते देवि ! पुरश्चरणकं प्रिये ! ।
सर्व्वपापविनिर्म्मुक्तो देवीसायुज्यमाप्नुयात् ॥”
यद्यपि पुरश्चरणपदं पञ्चाङ्गपरम् । तथा च ।
“जपहोमौ तर्पणञ्चाभिषेको विप्रभोजनम् ।
पञ्चाङ्गोपासनं लोके पुरश्चरणमुच्यते ॥”
तथापि ग्रहणादौ पुरश्चरणपदं गौणं जपमात्र-
परम् ।
“सूर्य्योदयं समारभ्य यावत् सूर्य्योदयान्तरम् ॥”
इत्यादौ तथादर्शनात् तत्र होमादेरभावात् ।
तर्हि कथं ग्रहणपुरश्चरणे होमादि इति चेत्
वचनादेव । न च पुरश्चरणस्य पञ्चाङ्गत्वात्
सर्व्वत्र तदेव स्यादिति वाच्यम् । ग्रहणे पुन-
स्तद्विधानमनर्थकं स्यात् । किञ्च ग्रहणे होमादि-
नियमात् नान्यत्र होमादिः । ग्रहणपुरश्चरणे
होमादिविधानन्तु प्रकृतीभूतपञ्चाङ्गपुरश्चरण-
तुल्यताबोधनाय । अतएव ग्रहणे पञ्चाङ्ग-
स्वरूपपुरश्चरणे कृते मुख्यप्रयोगेऽप्यधिकार इति
प्रकटीकृतम् । तदकरणे पुनः केवलजपमात्र-
पुरश्चरणे कृते नाधिकार इति सर्व्वसग्मतमिति ।
पुरश्चरणकालस्तु वाराहीये ।
“चन्द्रतारानुकूले च शुक्ले पक्षे शुभेऽहनि ।
आरभेत पुरश्चर्य्यां हरौ सुप्ते न चाचरेत् ॥”
प्रतिप्रसवः । रुद्रयामले ।
“कार्त्तिकाश्विनवैशाखमाधेऽथ मार्गशीर्षके ।
फाल्गुने श्रावणे दीक्षा पुरश्चर्य्या प्रशस्यते ॥”
ग्रस्तास्ते ग्रस्तोदये च दीक्षापुरश्चरणयोर्निषेध-
माह तन्त्रान्तरे ।
“ग्रस्तास्ते ह्युदिते नैव कुर्य्याद्दीक्षां जपं प्रिये ! ।
कृते नाशो भवेदाशु आयुःश्रीसुतसम्पदाम् ॥”
अथ पुरश्च रणप्रयोगः ।
तत्र तावत् भूमेः परिग्रहं कृत्वा पुरश्चरणप्राक्
तृतीयदिवसे क्षौरादिकं विधाय वेदिकाया-
श्चतुर्द्दिक्षु क्रोशं क्रोशद्वयं वा क्षेत्रं चतुरस्रम्
आहारादिविहारार्थं परिकल्प्य तत्र कूर्म्म-
चक्रानुरूपं मण्डलं विधाय एकभक्तं कुर्य्यात् ।
ततः परदिने स्नानादिकं विधाय शुद्धः सन्
वेदिकायाश्चतुर्द्दिक्षु अश्वत्थोडुम्बरप्लक्षाणामन्य-
तमस्य वितस्तिमात्रान् दश कीलकान्, ॐ
नमः सुदर्शनाय अस्त्राय फडितिमन्त्रेणाष्टोत्तर-
शताभिमन्त्रितान् वेदिकाया दशदिक्षु
ॐ ये चात्र विघ्नकर्त्तारो भुवि दिव्यन्तरी-
क्षगाः ।
विघ्नभूताश्च ये चान्ये मम मन्त्रस्य सिद्धिषु ॥
मयैतत् कीलितं क्षेत्रं परित्यज्य विदूरतः ।
अपसर्पन्तु ते सर्व्वे निर्व्विघ्नं सिद्धिरस्तु मे ॥
इत्यनेन निखन्य तेषु ॐ नमः सुदर्शनाय
अस्त्राय फडितिमन्त्रेणास्त्रं संपूज्य पूर्ब्बादि-
क्रमेण इन्द्रादिलोकपालान् पूजयेत् । तद्यथा ।
ॐ भूर्भुवःस्वरिन्द्रलोकपाल इहागच्छ इत्या-
वाह्य पञ्चोपचारैरन्यांश्च पूजयेत् । तथा च
मुण्डमालायाम् ।
“पुण्यक्षेत्रादिकं गत्वा कुर्य्याद्भूमेः परिग्रहम् ।
तथा ह्यमुकमन्त्रस्य पुरश्चरणसिद्धये ।
मयेयं गृह्यते भूमिर्म्मन्त्रोऽयं सिध्यतामिति ॥”
तथा ।
“ग्रामे क्रोशमितं स्थानं नद्यादौ स्वेच्छया मतम् ।
नगरादावपि क्रोशं क्रोशयुग्ममथापि वा ॥
क्षेत्रं वा यावदिष्टन्तु विहारार्थं प्रकल्पयेत् ।
आहारादिविहारार्थं तावतीं भूमिमाक्रमेत् ॥
क्षीरिवृक्षोद्भवान् कीलान् अस्त्रमन्त्राभिमन्त्रि-
तान् ।
निखनेद्दशदिग्भागे तेष्वस्त्रञ्च प्रपूजयेत् ॥
लोकपालान् पुनस्तेषु गन्धाद्यैः पूजयेत् सुधीः ।
ततो मध्यस्थाने क्षेत्रपालं वास्त्वीशञ्च संपूज्य
सर्व्वविघ्नविनाशार्थं गणपतिं पूजयेत् । ॐ
अद्येत्यादि अमुकगोत्रः श्रीअमुकदेवशर्म्मा मत्-
कर्त्तव्यामुकमन्त्रपुरश्चरणकर्म्मणि सर्व्वविघ्नविना-
शार्थं गणेशपूजामहं करिष्ये । इति सङ्कल्प्य
वेदिकामध्ये पञ्चोपचारैर्गणेशं पूजयेत् । तदुक्तम् ।
“क्षेत्रपालादिकं तत्र पूजयेत् विधिवत्ततः ।
क्षेत्रेशं वास्तुनामानं विघ्नराजं समर्च्चयेत् ॥
दिक्पालेभ्यो वलिं दद्यात् ततः क्षेत्रं समा-
विशेत् ॥”
ततो माषभक्तादिना पूजितदेवताभ्यो वलिं
दद्यात् । ततः ।
“ॐ ये रौद्रा रौद्रकर्म्माणो रौद्रस्थाननिवासिनः ।
मातरोऽप्युग्ररूपाश्च गणाधिपतयश्च ये ॥
विघ्नभूताश्च ये चान्ये दिग्विदिक्षु समाश्रिताः ।
सर्व्वे ते प्रीतमनसः प्रतिगृह्णन्त्विमं वलिम् ॥”
इत्यनेन दशदिक्षु भूतेभ्यो वलिं दद्यात् । ततो
गायत्त्रीं जपेत् । तथा च ।
“प्रातः स्नात्वा तु गायत्त्र्याः सहस्रं प्रयतो
जपेत् ।
ज्ञाताज्ञातस्य पापस्य क्षयार्थं प्रथमं ततः ॥”
इति विद्याधराचार्य्यः ॥ * ॥
यत्तु प्रातः स्नात्वा तु गायत्त्र्या अयुतं प्रयतो
जपेत् इति । तत् पुनरत्यन्तपापशङ्कया । ॐ
अद्येत्यादि अमुकगोत्रः श्रीअमुकदेवशर्म्मा
ज्ञाताज्ञातपापक्षयकामोऽष्टोत्तरसहस्रगायत्त्री-
जपमयुतगायत्त्रीजपं वा अहं करिष्ये । इति
सङ्कल्प्य जपेत् । तत उपवासं हविष्यं वा
कुर्य्यात् ॥ * ॥
तत्परदिने उषसि स्नानादिकं कृत्वा स्वस्ति-
वाचनपूर्ब्बकं सङ्कल्पं कुर्य्यात् । यथा विष्णुः
ओम् अद्येत्यादि अमुकगोत्रः श्रीअमुकदेवशर्म्मा
अमुकदेवताया अमुकमन्त्रसिद्धिप्रतिबन्धकता-
शेषदुरितक्षयपूर्व्वकतन्मन्त्रसिद्धिकामोऽद्यारभ्य
यावता कालेन सेत्स्यति तावत्कालममुकदेव-
ताया अमुकमन्त्रस्य इयत्संख्यजपतद्दशांश-
होमतद्दशांशतर्पण-तद्दशांशाभिषेक-तद्दशांश-
ब्राह्मणभोजनरूपपुरश्चरणमहं करिष्ये । इति
सङ्कल्प्य भूतशुद्धिप्राणायामादिकं कृत्वा स्वस्व-
मुद्रां बद्ध्वा स्वस्वपूजापद्धत्युक्तक्रमेण देवतां संपूज्य
दीपे प्रज्वलिते देवतां हृदये प्रातःकालं समा-
रभ्य मध्यंदिनं यावत् जपं कुर्य्यात् । ततस्तद्द-
शांशहोम-तद्दशांश-तर्पण-तद्दशांशाभिषेक-त-
द्दशांशब्राह्मणभोजनङ्कुर्य्यात् । तथा च । सनत्-
कुमारतन्त्रे ।
“प्रणवं तत्सदद्येति मासपक्षतिथावपि ।
अमुकासुकगोत्रोऽहं मूलमुच्चार्य्य तत्परम् ॥
सिद्धिकामोऽस्य मन्त्रस्य इयत्सङ्ख्यं जपन्ततः ।
दशांशं हवनं होमाद्दशांशं तर्पणं ततः ॥
दशांशं मार्ज्जनं तस्माद्दशांशं विप्रभोजनम् ।
पुरश्चरणमेवं हि करिष्ये प्रागुदङ्मुखः ॥”
तथा ।
“दीपस्य ज्वलितस्याथ जपकर्म्म प्रशस्यते ।
तद्दीपस्थानमाश्रित्य वातातपसहां कुटिम् ॥
निर्म्माय विधिवत् कुर्य्यात् जपं तत्र शुभे दिने ॥”
ततो होमस्ततस्तर्पणम् ॥ * ॥
तन्त्रान्तरे ।
“तर्पणन्तु ततः कुर्य्यात्तीर्थोदैश्चन्द्रमिश्रितैः ।
जले देवं समावाह्य पाद्याद्यैरुदकात्मकैः ॥
सम्पूज्य विधिवद्भक्त्या परिवारसमन्वितम् ।
एकैकमञ्जलिं तोयं परिवारान् प्रतर्पयेत् ॥
ततो होमदशांशेन तर्पयेत् परदैवतम् ।
संपूर्णायान्तु सङ्ख्यायां पुनरेकैकमञ्जलिम् ।
अङ्गादिपरिवारेभ्यो दत्त्वा देवं विसर्ज्जयेत् ॥” * ॥
तर्पणवाक्यन्तु मूलमुच्चार्य्य श्रीअमुकं तर्पयामि
नमः । इति विष्णुविषयम् । तथा च गौतमीये ।
“आदौ मन्त्रं समुच्चार्य्य श्रीपूर्ब्बं कृष्णमित्यपि ।
तर्पयामि पदञ्चोक्त्वा नमोऽन्तं तर्पयेन्नरः ॥”
अन्यत्र मूलमुच्चार्य्य अमुकदेवतां तर्पया-
माति ।
पृष्ठ ३/१७८
तथा च ।
“तर्पयामि पदञ्चोक्त्वा मन्त्रान्ते स्वेषु नामसु ।
द्वितीयान्तेषु चेत्येवं तर्पणस्य मनुर्म्मतः ॥”
शक्तिविषये पुनर्म्मूलमुच्चार्य्य अमुकीं तर्पयामि
स्वाहा । होमतर्पणयोः स्वाहेति तत्तत्तन्त्र-
वचनात् । नीलतन्त्रे ।
“मन्त्रान्ते नाम चोच्चार्य्य तर्पयामि ततः परम् ।
कुर्य्याच्चैव वरारोहे ! स्वाहान्तं तर्पणे मतम् ॥”
इत्यादि ॥ विशुद्धेश्वरतन्त्रे ।
“विद्यां पूर्ब्बं समुच्चार्य्य तदन्ते देवताभिधाम् ।
तर्पयामीति सम्प्रोक्त्वा स्वाहान्तस्तर्पणो मतः ॥”
अभिषेकवाक्यन्तु । नमोऽन्तं मूलमुच्चार्य्य असुक-
देवतामहमभिषिञ्चामि इति कलसमुद्रया
स्वमूर्द्ध्नि अभिषिञ्चेत् । तथा च । गौतमीये ।
“नमोऽन्तं मूलमुच्चार्य्य तदन्ते देवताभिधाम् ।
द्वितीयान्तामहं पश्चादभिषिञ्चाम्यनेन तु ॥
अभिषिञ्चेत् स्वमूर्द्धानं तोयैः कुम्भाख्यमुद्रया ॥”
शक्तिविषये नीलतन्त्रे ।
“मन्त्रान्ते नाम चोच्चार्य्य सिञ्चामीति नमः
पदम् ॥”
इति । ततो ब्राह्मणान् भोजयित्वा पूजां
कुर्य्यात् ॥ * ॥ ततो दक्षिणा । अद्येत्यादि कृतै-
तदमुकमन्त्रपुरश्चरणकर्म्मणः साङ्गतार्थं दक्षिणा-
मिदं काञ्चनं वह्निदैवतं अमुकगोत्राय गुरवे
तुभ्यमहं सम्प्रददे । ततोऽच्छिद्रावधारणं कुर्य्यात् ॥
अथ ग्रहणपुरश्चरणसङ्कल्पः ।
तद्यथा, --
ओम् अद्येत्यादि राहुग्रस्ते निशाकरे दिवाकरे
वा असुकगोत्रःश्रीअमुकदेवशर्म्मा अमुकदेवताया
अमुकमन्त्रसिद्धिकामो ग्रासाद्बिमुक्तिपर्य्यन्तं
अमुकदेवताया अमुकमन्त्रजपरूपपुरश्चरणमहं
करिष्ये । इति सङ्कल्प्य जपेत् । ततस्तद्दिने
तत्परदिने वा स्नानादिकं विधाय ॐ अद्ये-
त्यादि अमुकदेवताया अमुकमन्त्रस्य कृतैतत्
ग्रहणकालीन-इयत्सङ्ख्यजपतद्दशांशहोमतद्द-
शांशतर्पण-तद्दशांशाभिषेक-तद्दशांशब्राह्मण-
भोजनकर्म्माण्यहं करिष्ये । इति सङ्कल्प्य
होमादिकं कुर्य्यात् । दक्षिणादिकन्तु पूर्ब्बवत् ।”
इति कृष्णानन्दकृततन्त्रसारः ॥ * ॥
(अथ रहस्य पुरश्चरणम् ।
श्रीपार्व्वत्युवाच ।
“कथयस्व महादेव ! सिद्धिकारणमुत्तमम् ।
येन सिद्धिं समायान्ति सर्व्वतन्त्राश्च सिद्धिदाः ॥
येषु येषु च कालेषु पुरश्चर्य्या भवेद्ध्रुवम् ॥
श्रीशिव उवाच ।
कथयामि समासेन श्रूयतां पर्व्वतात्मजे ! ।
मेषराशौ दशसहस्रं प्रजपेन्मन्त्रमुत्तमम् ॥
पुरश्चरणमेतद्धि श्रूयतां सुरवन्दिते ! ॥
वृषराशौ यदा मन्त्री द्व्ययुतं प्रजपेत् सुधीः ।
तेन तत्र सुसिद्धः स्यान् नात्र कार्य्या विचा-
रणा ॥
मिथुने च यदा मन्त्री त्र्ययुतं मन्त्रमुत्तमम् ।
प्रजपेत् प्रयतो नित्यं पुरश्चरणमुच्यते ॥
कर्कटे च यदा मन्त्री सहस्रं प्रत्यहं जपेत् ।
तेन सर्व्वार्थसिद्धिः स्यात् पुरश्चरणकृद्भवेत् ॥
सिंहे च सर्व्वमन्त्राणामयुतानां द्बयं जपेत् ।
धर्म्मार्थकाममोक्षाणां फलभाग्भवति ध्रुवम् ॥
कन्यायाञ्च यदा मन्त्री मन्त्रं मन्त्रपरायणः ।
सहस्रं द्वादशञ्चैव जपेन्नियतमानसः ॥
पुरश्चरणमेतद्धि सर्व्वकामार्थसाधनम् ।
इह लोके सुखं भुक्त्वा चान्ते देवीपदं व्रजेत् ॥
तुलायां प्रत्यहं मन्त्री सहस्रं साधको जपेत् ।
अनेन विधिना देवि ! पुरश्चरणकृद्भवेत् ॥
वृश्चिके चायुतं मन्त्रं शय्यायां प्रजपेत् सुधीः ।
तेन सर्व्वार्थसिद्धिः स्यात् पुरश्चर्य्याफलं भवेत् ॥
धनुषि च यदा मन्त्रं जपेदयुतमादरात् ।
इहैव कन्दर्पसमो धनवान् वलवान् सुखी ॥
मकरे च यदा मन्त्रं जपेत् साधकसत्तमः ।
चतुर्णामयुतं देवि ! प्रत्यहं यतमानसः ॥
धर्म्मार्थे भावयेन्नित्यं पुरश्चरणमुच्यते ॥
कुम्भ चैव यदा मन्त्रं जपेदयुतमादरात् ।
तेन सर्व्वार्थसिद्धिः स्यात् पुरश्चरणकृद् भवेत् ॥
मीने चैव यदा देवि ! प्रजपेदयुतं द्बयम् ।
तेन पुरश्चरणमित्याहुः सर्व्वागमविशारदाः ॥
सर्व्वत्र जपनं ज्ञेयं रात्रौ वा मैथुनेऽपि वा ।
शय्यायान्तु विशेषेण परयोषित्समागमे ॥
हविष्याशी तदा देवि ! जपेन्नियतमानसः ।
एवंविधं जपं कृत्वा दशांशञ्च तदाचरेत् ॥
दक्षिणां गुरवे दत्त्वा सिद्धिभाग् भवति ध्रुवम् ।
अथवान्यप्रकारेण पुरश्चरणमुच्यते ॥
रविवारादिसर्व्वेषु वारसंख्यासहस्रकम् ।
जप्त्वा मन्त्रं सदा देवि ! साधकः सिद्धिभाग्
भवेत् ॥
पुरश्चरणमेतद्धि नात्र कार्य्या विचरणा ॥
एवंविधं समाचर्य्य दशांशञ्च तदाचरेत् ।
गुरवे दक्षिणां दत्त्वा सर्व्वकाममवाप्नुयात् ॥
केवलं जपमात्रेण पुरश्चरणमुच्यते ।
येषु येषु च नक्षत्रेषु जायते सिद्धिरुत्तमा ॥
कथयामि समासेन श्रूयतां पर्व्वतात्मजे ! ।
अश्विन्यां जप्यते मन्त्रं साधकैश्च सहमकम् ॥
तेन सिद्धिमवाप्नोति साधको नात्र संशयः ।
द्विसहस्रं जपेन्मन्त्रं भरण्याञ्च यदा सुधीः ॥
यमलोकं परित्यज्य धनेन च धनाधिपः ।
कृत्तिकायां जपेन्मन्त्रं त्रिसहस्रञ्च साधकः ॥
रोहिण्याञ्च यदा मन्त्रं जपेत् साधकसत्तमः ।
सहस्रं वा शतं वापि सर्व्वकामार्थमाप्नुयात् ॥
मृगशीर्षे यदा मन्त्रं नियतं प्रजपेत् सुधीः ।
सहस्रपञ्चकञ्चैव बृहस्पतिसमो भवेत् ॥
आर्द्रायां जप्यते मन्त्रं साधकैः सुसमाहितैः ।
षट्सहस्रं यदा देवि ! सर्व्वकामार्थसिद्धये ॥
पुनर्व्वसुसमायोगे यदा सहस्रमुत्तमम् ।
जप्यते साधको नित्यं लभते च सुरोत्तमम् ॥
पुष्यायाञ्च जपेन्मन्त्रं सप्तानाञ्च सहस्रकम् ।
तेन सर्व्वसुसिद्धिः स्यात् पुरश्चर्य्याधिको विधिः ॥
अश्लेषायां यदा देवि ! मन्त्री मन्त्रं समाहितः ।
सहस्रषष्ठकञ्चैव जपेत् सर्व्वार्थसिद्धये ॥
दशसहस्रं मघायाञ्च जप्त्वा मन्त्रं समाहितः ।
पुरन्दरसमो भूत्वा साधको विचरेत् भुवि ॥
एकादशसहस्रन्तु पूर्ब्बत्रये जपेत् सुधीः ।
कुवेर इव वित्ताढ्यो जायते नात्र संशयः ॥
उत्तरत्रितये देवि ! सहस्रं द्वादशं तथा ।
जप्यते साधकैर्नित्यं सर्व्वकामार्थसिद्धये ॥
हस्तायाञ्च जपेद्देवि ! सहस्रञ्च त्रयोदश ।
सूर्य्यस्यैव समो भूत्वा विचरेत् भुवि साधकः ॥
चित्रायाञ्च जपेन्मन्त्रं द्विसहस्रञ्च साधकैः ।
नानाभोगसमायुक्तो भवेद् भुवि पुरन्दरः ॥
स्मृत्वा सर्व्वार्थसिद्धिः स्यात् द्बिसहस्रस्य जाप-
नात् ।
साधकोऽव्याहतगतिर्जायते नात्र संशयः ॥
विशाखायां यदा मन्त्रं चतुःसहस्रकं प्रिये ! ।
जपेच्च साधको नित्यं सोमवत् प्रियदर्शनः ॥
अनुराधायां यदा देवि ! मन्त्री मन्त्रं सदा
जपेत् ।
पुत्त्रपोत्त्रसमायुक्तः खेचरो जायते ध्रुवम् ॥
ज्येष्ठायाञ्च यदा मन्त्रं द्विसहस्रं विचक्षणः ।
प्रजपन् लभते सिद्धिं नात्र कार्य्या विचारणा ॥
मूलायाञ्च जपेन्मन्त्रं सहस्रं पञ्चकं प्रिये ! ।
नानासिद्धिमवाप्नोति साधको नात्र संशयः ॥
वरुणेन समो भूत्वा जायते साधको भुवि ।
शतभिषायां यदा मन्त्रं द्विःसहस्रं जपेत् सुधीः ॥
महापातकान्मुच्येत फलभाग्भवति ध्रुवम् ।
रेवत्याञ्च यदा मन्त्रं चत्वारि सहस्रकं तथा ॥
जप्त्वा स्तुत्वा सदा देवि ! सोमलोकमवाप्नुयात् ।
रात्रौ वा मैथुने वापि शय्यायाञ्च व्यवस्थितः ॥
प्रजपेत् साधको नित्यं साधयेदात्मनो हितम् ।
सर्व्वदा प्रजपेन्मन्त्रं हविष्याशी दिवा शुचिः ॥
दक्षिणां गुरवे दद्यात् यथा विभवविस्तरम् ।
अथवान्यप्रकारेण पुरश्चरणमुच्यते ॥
आदित्यादिवारयोगे नन्दादितिथियोगतः ।
ततस्तत्र जपेन्मन्त्रं सहस्रपञ्चकं प्रिये ! ॥
तेन सर्व्वार्थसिद्धिः स्यात् पुरश्चरणकृद् भवेत् ।
प्रतिपत्तिथिमारभ्य कुहूर्य्यावत् भवेत् प्रिये ! ॥
तिथिसंख्यां समासाद्य वर्द्धयेच्च सहस्रकम् ।
जप्त्वा मन्त्रं सदा मन्त्री सर्व्वकाममवाप्नुयात् ॥
पुरश्चरणमेतद्धि कथितं ते वरानने ! ।
प्रतिपत्तिथिमारभ्य राका यावद् भवेत् प्रिये ! ॥
तावन्मन्त्रं प्रजपेत तिथिसंख्याक्रमेण तु ।
सर्व्वभावसमायुक्तो जायते भावसाधकः ॥
एतेनैव सुसिद्धिः स्यात् नात्र कार्य्या विचारणा ।
अथवान्यप्रकारेण पुरश्चरणमुच्यते ॥
ववादिकरणे देवि ! जप्त्वा विद्यामनन्यधीः ।
करणानुसारेणैव वर्द्धयेच्च सहस्रकम् ॥
पुरश्चरणमेतद्धि सर्व्वतन्त्रे च गोपितम् ।
साधकस्य हितार्थाय कथितं तद्वरानने ! ॥
अथवान्यप्रकारेण पुरश्चरणमुच्यते ।
विष्कुम्भादिषु योगेषु यो जपेत् योगसंख्यया ॥
पृष्ठ ३/१७९
सहसं साधको नित्यं सर्व्वसिद्धिपरायणः ।
पुरश्चरणमेतद्धि तन्त्रे तन्त्रे निरूपितम् ॥
संक्रान्त्यादिषु सर्व्वासु विषुवादिषु पार्व्वति ! ।
संक्रान्त्यनुसारेणैव वर्द्धयेच्च सहस्रकम् ॥
पूर्ब्बमुखो जपेन्मन्त्रं धनार्थी सर्व्वदा प्रिये ! ।
शत्रुनाशाय सततं दक्षिणाभिमुखो जपेत् ॥”
इति स्वतन्त्रे तन्त्रे हरगौरीसंवादे रहस्यपुर-
श्चरणविधिः ॥ * ॥) अत्र आगमकल्पद्रुमोक्त-
कूर्म्मचक्रंतच्छब्दे द्रष्टव्यम् । हरिभक्तिविलासीय-
पुरश्चरणन्तु तद्ग्रन्थे सप्तदशविलासे दर्शनीयम् ॥

पुरश्छदः, पुं, (पुरश्छदति छादयतीति । छद् + अच् ।

यद्वा, पुरोऽग्रतश्छदाः पत्राण्यस्य ।) तृणविशेषः ।
उलु इति भाषा । तत्पर्य्यायः । दर्भः २ शप्तः ३
सोमषत्रः ४ परात्प्रियः ५ । इति शब्द-
चन्द्रिका ॥

पुरस्कारः, पुं, (पुरस्करणमिति + पुरस् + कृ +

भावे घञ् ।) पुरस्क्रिया । अभिशापः । अरि-
ग्रहणम् । अग्रकरणम् । (पुरः क्रियतेऽनेनेति ।)
पूजनम् । (“तस्य बहुमानपुरस्कारं कृत्वा ।”
इति हितोपदेशः ॥) स्वीकारः । सेकः । इति
पुरस्कृतशब्दार्थदर्शनात् ॥

पुरस्कृतः, त्रि, (पुरः क्रियते स्मेति । पुरस् + कृ +

क्तः ।) अभिशस्तः । अरिग्रस्तः । अग्रकृतः ।
पूजितः । इति मेदिनी । ते, २१३ ॥ स्वीकृतः ।
सिक्तः । इति हेमचन्द्रः ॥

पुरस्तात्, व्य, (पूर्ब्बस्मिन् पूर्ब्बस्यां पूर्ब्बस्मात्

पूर्ब्बस्वाः वा पूर्ब्बः पूर्ब्बा वेति । पूर्ब्ब +
“दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्-
देशकालेष्वस्तातिः ।” ५ । ३ । २७ । इति
अस्तातिः । “अस्ताति च ।” ५ । ३ । ४० ।
इति पूर्ब्बस्य पुरादेशः ।) प्राच्यां दिशि । यथा,
पुरस्तात् सूर्य्य उदेति । प्रथमे काले । यथा,
पुरस्ताद्भुङ्क्ते । पुरार्थे । अतीते । यथा, पुर-
स्ताद्रामोऽभूत् । अग्रतः अग्रे देशे । यथा,
पुरस्तादायाति । इत्यमरभरतौ ॥ (यथा च
रघौ । २ । ४४ ।
“मान्यः स मे स्थावरजङ्गमानां
सर्गस्थितिप्रत्यवहारहेतुः ।
गुरोरपीदं धनमाहिताग्ने-
र्नश्यत् पुरस्तादनुपेक्षणीयम् ॥”)

पुरा, व्य, (पुरति अग्रे गच्छतीति । पुर + बाहु-

लकात् का ।) प्रबन्धः । वाक्यरचना पुराणादिः ।
यथा, पुराविदः । चिरम् । चिरन्तनम् । पुराण-
मित्यर्थान्तरम् । अतीतम् । भूतम् । चिरातीत-
मित्येकम् । यथा इतिहासः पुरावृत्तमिति
केचित् ॥ निकटः । सन्निहितः । आगामिकम् ।
अनागतम् । निकटागामिकः । भविष्यदासत्तिः ।
इति केचित् ॥ इत्यमरभरतौ ॥ भीरुः । इति
शब्दरत्नावली ॥ (प्राक् । इति हेमचन्द्रः ।
६ । १७१ ॥ यथा, पञ्चदश्याम् । २ । १४ ।
“इदं सर्व्वं पुरा सृष्टेरेकमेवाद्वितीयकम् ।
सदेवासीन्नामरूपे नास्तामित्यारुणेर्वचः ॥”)

पुरा, स्त्री, (पुरतीति । पुर + क + टाप् ।) पूर्ब्ब-

दिक् । सुगन्धिद्रव्यविशेषः । तत्पर्य्यायः । गन्ध-
वती २ दिव्या ३ गन्धाढ्या ४ गन्धमादिनी ५
सुरभिः ६ भूरिगन्धा ७ कुटी ८ गन्धकुटी ९ ।
अस्या गुणाः । तिक्तत्वम् । कटुत्वम् । शीत-
त्वम् । कषायत्वम् । कफपित्तश्वासास्रविष-
दाहार्त्तिभ्रममूर्च्छातृषानाशित्वञ्च । इति राज-
निर्घण्टः ॥

पुराकृतं, त्रि, (पुरा पूर्ब्बं पूर्ब्बस्मिन् काले वा

कृतम् ।) प्रारब्धकर्म्म । पूर्ब्बकालकृतपुण्यादि ।
यथा, --
“अकाले दर्शनं विष्णोर्हन्ति पुण्यं पुराकृतम् ॥”
इति स्मृतिः ॥

पुराणं, क्ली, (पुरा भवमिति । पुरा + “सायं-

चिरंप्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च ।” ४ । ३ ।
२३ । इति ट्युः । “पूर्ब्बकालैकसर्व्वजरत्पुराणनव-
केवलाः समानाधिकरणेन ।” २ । १ । ४९ । इति
निपातनात् तुडभावः । यद्वा, “पुराणप्रोक्तेषु
ब्राह्मणकल्पेषु ।” ४ । ३ । १०५ । इति निपा-
तितः । यद्वा, पुरा नीयते इति । नी + ड ।
णत्वञ्च ।) व्यासादिमुनिप्रणीतवेदार्थवर्णित-
पञ्चलक्षणान्वितशास्त्रम् । तत्पर्य्यायः । पञ्चलक्ष-
णम् २ । इत्यमरः । १ । ६ । ५ ॥ पञ्चलक्षणानि
यथा, सर्गः १ प्रतिसर्गः २ वंशः ३ मन्वन्तरम् ४
वंशानुचरितम् ५ ॥ महापुराणस्य दश लक्ष-
णानि । यथा, सर्गः १ विसर्गः २ वृत्तिः ३ रक्षा ४
अन्तरम् ५ वंशः ६ वंश्यानुचरितम् ७ संस्था
८ हेतुः ९ अपाश्रयः १० ॥ अथाष्टादशमहा-
पुराणानि तेषां श्लोकसंख्यानि च तथा । ब्राह्मं
दशसहस्रम् १ पाद्मं पञ्चपञ्चाशत्सहस्रम् २
वैष्णवं त्रयोविंशतिसहस्रम् ३ शैवं चतुर्व्विंशति-
सहस्रम् ४ भागवतम् अष्टादशसहस्रम् ५ नार-
दीयं पञ्चविंशतिसहस्रम् ६ मार्कण्डेयं नवसह-
स्रम् ७ आग्नेयं चतुःशताधिकपञ्चदशसहस्रम्
८ भविष्यं पञ्चशताधिकचतुर्द्दशसहस्रम् ९
ब्रह्मवैवर्त्तम् अष्टादशसहस्रम् १० लैङ्गं एका-
दशसहस्रम् ११ वाराहं चतुर्व्विंशतिसहस्रम्
१२ स्कान्दं शताधिकैकाशीतिसहस्रम् १३
वामनं दशसहस्रम् १४ कौर्म्मं सप्तदशसहस्रम्
१५ मात्स्यं चतुर्द्दशसहस्रम् १६ गारुडं ऊन-
विंशतिसहस्रम् १७ ब्रह्माण्डं द्वादशसहस्रम् १८ ।
समुदायेन चतुलक्षश्लोकाः । इति श्रीभागवतीय-
द्वादशस्कन्धः ॥ (अपि च देवीभागवते १ स्कन्धे
३ अध्याये तथा मत्स्यपुराणे ५३ अध्याये
एतद्विवरणं द्रष्टव्यम् ॥) अपि च ।
सूत उवाच ।
“विस्तराणि पुराणानि चेतिहासश्च शौनक ! ।
संहितां पञ्चरात्राणि कथयामि यथागमम् ॥
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं विप्र ! पुराणं पञ्चलक्षणम् ॥
एतदुपपुराणानां लक्षणञ्च विदुर्बुधाः ।
महताञ्च पुराणानां लक्षणं कथयामि ते ॥ * ॥
सृष्टिश्चापि विसृष्टिश्च स्थितिस्तेषाञ्च पालनम् ।
कर्म्मणां वासना वार्त्ता मनूनाञ्च क्रमेण च ॥
वर्णनं प्रलयानाञ्च मोक्षस्य च निरूपणम् ।
उत्कीर्त्तनं हरेरेव देवानाञ्च पृथक् पृथक् ॥
दशाधिकं लक्षणञ्च महतां परिकीर्त्तितम् ।
संख्यानञ्च पुराणानां निबोध कथयामि ते ॥
परं ब्रह्मपुराणञ्च सहस्राणां दशैव च ।
पञ्चोनषष्टिसाहस्रं पाद्ममेव प्रकीर्त्तितम् ॥
त्रयोविंशतिसाहस्रं वैष्णवञ्च विदुर्वुधाः ।
चतुर्विंशतिसाहस्रं शैवमेव निरूपितम् ॥
ग्रन्थोऽष्टादशसाहस्रं श्रीमद्भागवतं विदुः ।
पञ्चविंशतिसाहस्रं नारदीयं प्रकीर्त्तितम् ॥
मार्कण्डं नवसाहस्रं पुराणं पण्डिता विदुः ।
चतुःशताधिकं पञ्चदशसाहस्रमेव च ॥
परमग्निपुराणञ्च रुचिरं परिकीर्त्तितम् ।
चतुर्द्दशसहस्रानी परं पञ्चशताधिकम् ॥
पुराणप्रवरञ्चैव भविष्यं परिकीर्त्तितम् ।
अष्टादशसहस्रञ्च ब्रह्मवैवर्त्तमीप्सितम् ॥
सर्व्वेषाञ्च पुराणानां सारमेव विदुर्बुधाः ।
एकादशसहस्रञ्च परं लिङ्गपुराणकम् ॥
चतुर्व्विंशतिसाहस्रं वाराहं परिकीर्त्तितम् ।
एकाशीतिसहस्रञ्च परमेव शताधिकम् ॥
वरं स्कन्दपुराणञ्च सद्भिरेवं निरूपितम् ।
वामनं दशसाहस्रं कौर्म्मं सप्तदशैव तु ॥
मात्स्यं चतुर्द्दशं प्रोक्तं पुराणं पण्डितैस्तथा ।
ऊनविंशतिसाहस्रं गारुडं परिकीर्त्तितम् ॥
परं द्वादशसाहस्रं ब्रह्माण्डं परिकीर्त्तितम् ।
एवं पुराणसंख्यानं चतुर्लक्षमुदाहृतम् ॥
अष्टादशपुराणानामेवमेव विदुर्बुधाः ।
एवञ्चोपपुराणानामष्टादश प्रकीर्त्तिताः ॥ * ॥
इतिहासो भारतञ्च वाल्मीकं काव्यमेव च ।
पञ्चकं पञ्चरात्राणां कृष्णमाहात्म्यपूर्ब्बकम् ।
वाशिष्ठं नारदीयञ्च कापिलं गौतमीयकम् ।
परं सनत्कुमारीयं पञ्चरात्रञ्च पञ्चकम् ॥
पञ्चम्यः संहितानाञ्च कृष्णभक्तिसमन्विताः ।
ब्रह्मणश्च शिवस्यापि प्रह्नादस्य तथैव च ॥
गौतमस्य कुमारस्य संहिताः परिकीर्त्तिताः ।
इति ते कथितं सर्व्वं क्रमेण च पृथक् पृथक् ॥
अस्त्येवं विपुलं शास्त्रं ममापि च यथागमम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १३२ अः ॥
पद्मपुराणमते तु ।
“निस्ताराय तु लोकानां स्वयं नारायणः प्रभुः ।
व्यासरूपेण कृतवान् पुराणानि महीतले ॥
पठनाच्छ्रवणाद्येषां नृणां पापक्षयो भवेत् ।
घर्म्माघर्म्मपरिज्ञानं सदाचारप्रवर्त्तनम् ॥
गतिश्च परमा तद्बद्भक्तिर्भगवति प्रभौ ।
तानि ते कथयिष्यामि सप्रमाणानि भूतले ॥” * ॥
पुराणसंख्यान्तरमाह ।
“पुराणानि चतुर्लक्षाण्येतानि धरणीतले ।
तथा महाभारतञ्च लक्षसंख्यं प्रकीर्त्तितम् ॥
पञ्चलक्षमिदं राजन् ! कथितं ब्रह्म केवलम् ।
वेदः पञ्चमनामैष लोकनिस्तारकः परः ॥
पृष्ठ ३/१८०
तत्र पद्मपुराणञ्च प्रथमं स प्रणीतवान् ।
ततोऽन्यानि पुराणानि कृत्वा षोडश तु क्रमात् ॥
अष्टादशं भागवतं सारमाकृष्य सर्व्वतः ।
कृतवान् भगवान् व्यासः शुकञ्चाध्यापयत् सुतम् ॥”
इति पातालखण्डे ७१ अध्यायः ॥ * ॥
आख्यानादिभिः सह व्यासः पुराणं चक्रे ।
यथा, --
“आख्यानैश्चाप्युपाख्यानैर्गाथाभिः कल्पशुद्धिभिः ।
पुराणसंहितां चक्रे पुराणार्थविशारदः ॥
प्रख्यातो व्यासशिष्योऽभूत् सूतो वै लोमहर्षणः ।
पुराणसंहितां तस्मै ददौ व्यासो महामुनिः ॥”
अस्य टीका यथा, --
आख्यानादिभिः सह पुराणं चक्रे व्यास इत्य-
न्वयः । तत्र च ।
स्वयं दृष्टार्थकथनं प्राहुराख्यानकं बुधाः ।
श्रुतस्यार्थस्य कथनमुपाख्यानं प्रचक्षते ॥
गाथास्तु पितृपृथ्वीप्रभृतिगीतयः । कल्पशुद्धिः
श्राद्धकल्पादिनिर्णयः ॥ * ॥
“सुमतिश्चाग्निवर्च्चाश्वमित्रायुः शांशपायनः ।
अकृतव्रणोऽथ सावर्णिः षट् शिष्यास्तस्य चाभ-
वन् ॥”
टीका । सुमत्यादयस्तु रोमहर्षणस्य षट्शिष्या-
स्तत्कृताः षट् संहिता जगृहुः ॥ * ॥
“काश्यपः संहिताकर्त्ता सावर्णिः शांशपायनः ।
लौमहर्षणिका चान्या तिसृणां मूलसंहिता ॥”
टीका । अकृतव्रण एव काश्यपः काश्यपो
ह्यकृतव्रण इति वायूक्तेः । रौमहर्षणिका चान्या
रोमहर्षणेन पुनः संक्षेपेण प्रोक्ता ॥ * ॥
“चतुष्टयेनाप्येतेन संहितानामिदं मुने ! ।”
टीका । एतासां काश्यपादिकृतानां संहिताना-
मर्थचतुष्टयेनापि मूलभूतेन तत्सारोद्धारा-
त्मकं इदं श्रीविष्णुपुराणं सुने ! मैत्रेय ! मया
कृतमिति शेषः ॥ * ॥
“आद्यं सर्व्वपुराणानां पुराणं ब्राह्ममुच्यते ।
अष्टादशपुराणानि पुराणज्ञाः प्रचक्षते ॥”
इति विष्णुपुराणे ३ अंशे ६ अध्यायः ॥ * ॥
तेषां नामोच्चारणादिमाहात्म्यं यथा, --
“अष्टादशपुराणानां नामधेयानि यः पठेत् ।
त्रिसन्ध्यं जपते नित्यं सोऽश्वमेधफल लभेत् ॥”
इति मार्कण्डेयपुराणम् ॥ * ॥
तामसपुराणानि यथा, --
“मात्स्यं कौर्म्मं तथा लैङ्गं शैवं स्कान्दं तथैव च ।
आग्नेयञ्च षडेतानि तामसानि निबोधत ॥”
सात्त्विकपुराणानि यथा, --
“वैष्णवं नारदीयञ्च तथा भागवतं शुभम् ।
गारुडञ्च तथा पाद्मं वाराहं शुभदर्शने ! ।
सात्त्विकानि पुराणानि विज्ञेयानि शुभानि वै ॥”
राजसपुराणानि यथा, --
“ब्रह्माण्डं ब्रह्मवैवर्त्तं मार्कण्डेयं तथैव च ।
भविष्यं वामनं ब्राह्मं राजसानि निबोधत ॥
सात्त्विका मोक्षदाः प्रोक्ता राजसाः स्वर्गदाः
शुभाः ।
तथैव तामसा देवि ! निरयप्राप्तिहेतवः ॥”
इति पाद्मोत्तरखण्डे ४३ अध्यायः ॥ * ॥
अष्टादशोपपुराणानि यथा, --
“आद्यं सनत्कुमारोक्तं नारसिंहमथापरम् ।
तृतीयं स्कान्दमुद्दिष्टं कुमारेण तु भाषितम् ॥
चतुर्थं शिवधर्म्माख्यं साक्षान्नन्दीशभाषितम् ।
दुर्व्वाससोक्तमाश्चर्य्यं नारदोक्तमतः परम् ॥
कापिलं वामनञ्चैव तथैवोसनसेवितम् ।
ब्रह्माण्डं वारुणञ्चाथ कालिकाह्वयमेव च ॥
माहेश्वरं तथा शाम्बं सौरं सर्व्वार्थसञ्चयम् ।
पराशरोक्तमपरं मारीचं भार्गवाह्वयम् ॥”
इति गारुडे २२७ अध्यायः ॥ * ॥
कौर्म्मोक्तान्येतानि उपपुराणशब्दे द्रष्टव्यानि ॥
पुराणपाठक्रमस्तु पारायणशब्दे पाठशब्दे च
द्रष्टव्यः ॥ अथाष्टादशमहापुराणानामनुक्रम-
णिका अर्थात् तेषां श्लोकपर्व्वखण्डभागोपाख्यान-
श्रवणदानफलानि लिख्यन्ते ।
सूत उवाच ।
“एतच्छ्रत्वा नारदस्तु कुमारस्य वचो मुदा ।
पुनरप्याह सुप्रीतो जिज्ञासुः श्रेय उत्तमम् ॥
नारद उवाच ।
साधु साधु महाभाग ! सर्व्वलोकोपकारकम् ।
महातन्त्रं त्वया प्रोक्तं सर्व्वतन्त्रोत्तमोत्तमम् ॥
अधुना श्रोतुमिच्छामि पुराणाख्यानमुत्तमम् ।
यस्मिन् यस्मिन् पुराणे तु यद्यदाख्यानकं मुने ! ।
तत्तत् सर्व्वं समाचक्ष्व सर्व्वज्ञस्तं यतो मतः ॥
तच्छ्रुत्वा वचनं विप्रा नारदस्य शुभावहम् ।
पुराणाख्यानसंप्रश्नं कुमारः प्रत्युवाच ह ॥
सनत्कुमार उवाच ।
पुराणाख्यानकं विप्र ! नानाकल्पसमुद्भवम् ।
नानाकथासमायुक्तमद्भुतं बहुविस्तरम् ॥
ऋषिः सनातनश्चायं यथा वेद तथापरः ।
न वेद तस्मात् पृच्छ त्वं बहुकल्पविदांवरम् ॥
श्रुत्वेत्थं नारदो वाक्यं कुमारस्य महात्मनः ।
प्रणम्य विनयोपेतः सनातनमथाव्रवीत् ॥
ब्रह्मन् ! पुराणविच्छ्रेष्ठ ! ज्ञानविज्ञानतत्पर ! ।
पुराणानां विभागं मे साकल्येनानुकीर्त्तय ॥
यस्मिन् श्रुते श्रुतं सर्व्वं ज्ञाते ज्ञातं कृते कृतम् ।
वर्णाश्रसाचारधर्म्मं साक्षात्कारत्वमेष्यति ॥
कियन्ति च पुराणानि कियत् सङ्ख्यानि मानतः ।
किं किमाख्यानयुक्तानि तद्वदस्व मम प्रभो ! ॥
चातुर्वर्ण्याश्रया नाना व्रतादीनां कथास्तथा ।
सृष्टिक्रमेण वंशानां कथाः सम्यक् प्रकाशय ॥
त्वत्तोऽधिको न चान्योऽस्ति पुराणाख्यानवित्
प्रभो ! ।
तस्मादाख्याहि मह्य त्वं सर्व्वसन्देहभञ्जनम् ॥
ततः सनातनो विप्राः श्रुत्वा नारदभाषितम् ।
नारायणं क्षणं ध्यात्वा प्रोवाचाथ विदांवरः ॥
सनातन उवाच ।
साधु साधु मुनिश्रेष्ठ ! सर्व्वलोकोपकारक ! ।
पुराणाख्यानविज्ञाने यज्जाता नैष्ठिकी मतिः ॥
तुभ्यं समभिधास्यामि यत् प्रोक्तं ब्रह्मणा पुरा ।
मरीच्यादिऋषिभ्यस्तु पुत्त्रस्नेहावृतात्मना ॥
एकदा ब्रह्मणः पुत्त्रो मरीचिर्नाम विश्रुतः ।
स्वाध्यायश्रुतसम्पन्नो वेदवेदाङ्गपारगः ॥
उपसृत्य स्वपितरं ब्रह्माणं लोकभावनम् ।
प्रणम्य भक्त्या पप्रच्छ इदमेव मुनीश्वर ! ।
पुराणाख्यानममलं यत्त्वं पृच्छसि मानद ! ॥
मरीचिरुवाच ।
भगवन् ! देवदेवेश ! लोकानां प्रभवाप्यय ! ।
सर्व्वज्ञ ! सर्व्वकल्याण सर्व्वाध्यक्ष नमोऽस्तु ते ॥
पुराणबीजमाख्याहि मह्यं शुश्रूषते पितः ! ।
लक्षणञ्च प्रमाणञ्च वक्तारं पृच्छकं तथा ॥
ब्रह्मोवाच ।
शृणु वत्स ! प्रवक्ष्यामि पुराणानां समुच्चये ।
यस्मिन् ज्ञाते भवेज्ज्ञातं वाङ्मयं सचराचरम् ॥
पुराणमेकमेवासीत् सर्व्वकल्पेषु मानद ! ।
चतुर्व्वर्गस्य बीजञ्च शतकोटिप्रविस्तरम् ॥
प्रवृत्तिः सर्व्वशास्त्राणां पुराणादभवत्ततः ॥
कालेनाग्रहणं दृष्ट्वा पुराणस्य महामतिः ।
हरिर्व्यासस्वरूपेण जायते च युगे युगे ॥
चतुर्लक्षप्रमाणेन द्वापरे द्बापरे सदा ।
तदष्टादशधा कृत्वा भूर्लोके निर्द्दिशत्यपि ॥
अद्यापि देवलोके तु शतकोटि प्रविस्तरम् ।
अस्त्येव तस्य सारस्तु चतुर्लक्षेण वर्ण्यते ॥ * ॥
ब्राह्मम् १ पाद्मम् २ वैष्णवञ्च ३ वायवीयम् ४
तथैव च ।
भागवतम् ५ नारदीयम् ६ मार्कण्डेयञ्च ७
कीर्त्तितम् ॥
आग्नेयञ्च ८ भविष्यञ्च ९ ब्रह्मवैवर्त्त-१०
लिङ्गके ११ ।
वाराहञ्च १२ तथा स्कान्दम् १३ वामनम् १४
कूर्म्म-१५ संज्ञकम् ।
मात्स्पञ्च १६ गारुडम् १७ तद्वद्ब्रह्माण्डाख्य-१८
मिति त्रिषट् ॥
एकं कथानकं सूत्रं वक्तुः श्रोतुः समाह्वयम् ।
प्रवक्ष्यामि समासेन निशामय समाहितः ॥” * ॥
तत्र प्रथमं ब्रह्मपुराणम् ।
“ब्राह्मं पुराणं तत्रादौ सर्व्वलोकहिताय व ।
व्यासेन वेदविदुषा समाख्यातं महात्मना ॥
तद्वै सर्व्वपुराणाग्र्यं धर्म्मकामार्थमोक्षदम् ।
नानाख्यानेतिहासाढ्यं दशसाहस्रमुच्यते ॥ * ॥
तत्पूर्ब्बभागे ।
“देवानामसुराणाञ्च यत्रोत्पत्तिः प्रकीर्त्तिता ।
प्रजापतीनाञ्च तथा दक्षादीनां मुनीश्वर ! ॥
ततो लोकेश्वरस्यात्र सूर्य्यस्य परमात्मनः ।
वंशानुकीर्त्तनं पुण्यं महापातकनाशनम् ॥
यत्रावतारः कथितः परमानन्दरूपिणः ।
श्रीमतो रामचन्द्रस्य चतुर्व्यूहावतारिणः ॥
ततश्च सोमवंशस्य कीर्त्तनं यत्र वर्णितम् ।
कृष्णस्य जगदीशस्य चरितं कल्मषापहम् ॥
द्वीपानाञ्चैव सिन्धूनां वर्षाणां चाप्यशेषतः ।
वर्णनं यत्र पातालस्वर्गाणाञ्च प्रदृश्यते ॥
नरकाणां समाख्यानं सूर्य्यस्तुतिकथानकम् ।
पृष्ठ ३/१८१
पार्व्वत्याश्च तथा जन्म विवाहश्च निगद्यते ॥
दक्षाख्यानं ततः प्रोक्तमेकाम्रक्षेत्रवर्णनम् ।
पूर्ब्बभागोऽयमुदितः पुराणस्यास्य मानद ! ॥” * ॥
तदुत्तरभागे ।
“अस्योत्तरे विभागे तु पुरुषोत्तमवर्णनम् ।
विस्तरेण समाख्यातं तीर्थयात्राविधानतः ॥
अत्रैव कृष्णचरितं विस्तारात् समुदीरितम् ।
वर्णनं यमलोकस्य पितृश्राद्धविधिस्तथा ॥
वर्णाश्रमाणां धर्म्माश्च कीर्त्तिता यत्र विस्तरात् ।
विष्णुधर्म्मयुगाख्यानं प्रलयस्य च वर्णनम् ॥
योगानाञ्च समाख्यानं साङ्ख्यानाञ्चापि वर्णनम् ।
ब्रह्मवादसमुद्देशः पुराणस्य च शंसनम् ॥
एतद्ब्रह्मपुरणान्तु भागद्बयसमाचितम् ।
वर्णितं सर्व्वपापघ्नं सर्व्वसौख्यप्रदायकम् ॥” * ॥
तत्फलश्रुतिः ।
“सूतशौनकसंवादं भुक्तिमुक्तिप्रदायकम् ।
लिखित्वैतत् पुराणं यो वैशाख्यां हेमसंयुतम् ॥
जलधेनुयुतञ्चापि भक्त्या दद्याद्द्विजातये ।
पौराणिकाय सम्पूज्य वस्त्रभोज्यविभूषणैः ।
स वसेद्ब्रह्मणो लोके यावच्चन्द्रार्कतारकम् ॥
यः पठेच्छृणुयाद्वापि ब्राह्मानुक्रमणीं द्बिज ! ।
सोऽपि सर्व्वपुराणस्य श्रोतुर्वक्तुः फलं लभेत् ॥
शृणोति यः पुराणन्तु ब्राह्मं सर्व्वं जितेन्द्रियः ।
हविष्याशी च नियमात् स लभेद् ब्रह्मणः
पदम् ॥
किमत्र बहुनोक्तेन यद्यदिच्छति मानवः ।
तत् सर्व्वं लभते वत्स ! पुराणस्यास्य कीर्त्तनात् ॥”
इति श्रीनारदीयपुराणे पूर्ब्बभागे बृहदुपा-
ख्याने चतुर्थपादे ९२ अध्यायः ॥ १ ॥
द्वितीयं पद्मपुराणम् ।
श्रीब्रह्मोवाच ।
“शृणु पुत्त्र ! प्रवक्ष्यामि पुराणं पद्मसंज्ञिकम् ।
महत्पुण्यप्रदं नॄणां शृण्वतां पठतां मुदा ॥
यथा पञ्चेन्द्रियः सर्व्वः शरीरीति निगद्यते ।
तथेदं पञ्चभिः खण्डैरुदितं पापनाशनम् ॥” * ॥
तत्र प्रथमे सृष्टिखण्डे ।
“पुलस्त्येन तु भीष्माय सृष्ट्यादिक्रमतो द्विज ! ।
नानाख्यानेतिहासाद्यैर्यत्रोक्तो धर्म्मविस्तरः ॥
पुष्करस्य च महात्म्यं विस्तरेण प्रकीर्त्तितम् ।
ब्रह्मयज्ञविधानञ्च वेदपाठादिलक्षणम् ॥
दानानां कीर्त्तनं यत्र वृत्तानाञ्च पृथक् पृथक् ।
विवाहः शैलजायाश्च तारकाख्यानकं महत् ॥
माहात्म्यञ्च गवादीनां कीर्त्तिदं सर्व्वपुण्यदम् ।
कालकेयादिदैत्यानां वधो यत्र पृथक् पृथक् ॥
ग्रहाणामर्च्चनं दानं यत्र प्रोक्तं द्विजोत्तम ! ।
तत्सृष्टिखण्डमुद्दिष्टं व्यासेन सुमहात्मना ॥” * ॥
द्वितीये भूमिखण्डे ।
“पितृमात्रादिपूज्यत्वे शिवशर्म्मकथा पुरा ।
सुव्रतस्य कथा पश्चात् वृत्रस्य च वधस्तथा ॥
पृथोर्वेणस्य चाख्यानं धर्म्माख्यानं ततः परम् ।
पितृशुश्रूषणाख्यानं नहुषस्य कथा ततः ॥
ययातिचरितञ्चैव गुरुतीर्थनिरूपणम् ॥
राज्ञा जैमिनिसंवादो बह्वाश्चर्य्यकथायुतः ॥
कथा ह्यशोकसुन्दर्य्या हुण्डदैत्यवधाचिता ।
कामोदाख्यानकं तत्र विहुण्डवधसंयुतः ॥
कुञ्जलस्य च संवादश्च्यवनेन महात्मना ।
सिद्धाख्यानं ततः प्रोक्तं खण्डस्यास्य फलोहनम् ॥
सूतशौनकसंवादं भूमिखण्डमिदं स्मृतम् ॥” * ॥
तृतीये स्वर्गखण्डे ।
“ब्रह्माण्डोत्पत्तिरुदिता यत्रर्षिभिश्च सौतिना ।
सभूमिलोकसंस्थानं तीर्थाख्यानं ततः परम् ॥
नर्म्मदोत्पत्तिकथनं तत्तीर्थानां कथा पृथक् ।
कुरुक्षेत्रादितीर्थानां कथाः पुण्याः प्रकीर्त्तिताः ॥
कालिन्दीपुण्यकथनं काशीमाहात्म्यवर्णनम् ॥
गयायाश्चैव माहात्म्यं प्रयागस्य च पुण्यकम् ।
वर्णाश्रमानुरोधेन कर्म्मयोगनिरूपणम् ॥
व्यासजैमिनिसंवादः पुण्यकर्म्मकथाचितः ।
समुद्रमथनाख्यानं व्रताख्यानं ततः परम् ॥
ऊर्ज्जपञ्चाहमाहात्म्यं स्तोत्रं सर्व्वापराधनुत् ।
एतत्स्वर्गाभिधं विप्र ! सर्व्वपातकनाशनम् ॥”
चतुर्थे पातालखण्डे ।
“रामाश्वमेधे प्रथमं रामराज्याभिषेचनम् ।
अगस्त्याद्यागमश्चैव पौलस्त्याचयकीर्त्तनम् ॥
अश्वमेधोपदेशश्च हयचर्य्या ततः परम् ।
नानाराजकथाः पुण्या जगन्नाथानुवर्णनम् ॥
वृन्दावनस्य माहात्म्यं सर्व्वपापप्रणाशनम् ।
नित्यलीलानुकथनं यत्र कृष्णावतारिणः ॥
माधवस्नानमाहात्म्ये स्नानदानार्च्चने फलम् ।
धरावराहसंवादो यमब्राह्मणयोः कथा ॥
संवादो राजदूतानां कृष्णस्तोत्रनिरूपणम् ।
शिवसम्भुसमायोगो दधीच्याख्यानकन्ततः ॥
भस्ममाहात्म्यमतुलं शिवमाहात्म्यमुत्तमम् ।
देवरातसुताख्यानं पुराणज्ञप्रशंसनम् ॥
गौतमाख्यानकञ्चैव शिवगीता ततः स्मृता ।
कल्पान्तरी रामकथा भरद्वाजश्रमास्थितौ ॥
पातालखण्डमेतद्धि शृण्वतां ज्ञानिनां सदा ।
सर्व्वपापप्रशमनं सर्व्वाभीष्टफलप्रदम् ॥”
पञ्चमे उत्तरखण्डे ।
“पर्व्वताख्यानकं पूर्ब्बं गौर्य्यै प्रोक्तं शिवेन वै ।
जालन्धरकथा पश्चाच्छ्रीशैलाद्यनुकीर्त्तनम् ॥
सगरस्य कथा पुण्या ततः परमुदीरितम् ।
गङ्गाप्रयागकाशीनां गयायाश्चाधिपुण्यकम् ॥
आम्रादिदानमाहात्म्यं तन्महाद्बादशीव्रतम् ।
चतुर्व्विंशैकादशीनां माहात्म्यं पृथगीरितम् ॥
विष्णुधर्म्मसमाख्यानं विष्णुनामसहस्रकम् ।
कार्त्तिकव्रतमाहात्म्यं माघस्नानफलन्ततः ॥
जम्बुद्वीपस्य तीर्थानां माहात्म्यं पापनाशनम् ।
साभ्रमत्याश्च माहात्म्यं नृसिंहोत्पत्तिवर्णनम् ॥
देवशर्म्मादिकाख्यानं गीतमाहात्म्यवर्णने ।
भक्त्याख्यानञ्च माहात्म्यं श्रीमद्भागवतस्य ह ॥
इन्द्रप्रस्थस्य माहात्म्यं बहुतीर्थकथाचितम् ।
मन्त्ररत्नाभिधानञ्च त्रिपाद्भूत्यनुवर्णनम् ॥
अवतारकथा पुण्या मत्स्यादीनामतः परम् ।
रामनामशतं दिव्यं तन्माहात्म्यञ्च वाडव ! ॥
परीक्षणञ्च भृगुणा श्रीविष्णोर्वैभवस्य च ।
इत्येतदुत्तरं खण्डं पच्चमं सर्व्वपुण्यदम् ॥” * ॥
तत्फलश्रुतिः ।
“पञ्चखण्डयुतं पाद्मं यः शृणोति नरोत्तमः ।
स लभेद्बैष्णवं धाम भुक्त्वा भोगानिहेप्सितान् ॥
एतद्वै पञ्चपञ्चाशत्सहस्रं पद्मसंज्ञकम् ।
पुराणं लेखयित्वा वै ज्यैष्ठ्यां स्वर्णाज्यसंयुतम् ॥
यः प्रदद्यात् सुसत्कृत्य पुराणज्ञाय मानद ! ।
स याति वैष्णवं नाम सर्व्वदेवनमस्कृतः ॥
पद्मानुक्रमणीमेतां यः पठेत् शृणुयात् तथा ।
सोऽपि पद्मपुराणस्य लभेत् श्रवणजं फलम् ॥”
इति श्रीनारदीयपुराणे पूर्ब्बभागे बृहदुपाख्याने
चतुर्थपादे ९३ अध्यायः ॥ २ ॥
तृतीयं विष्णुपुराणम् ।
श्रीब्रह्मोवाच ।
“शृणु वत्स ! प्रवक्ष्यामि पुराणं वैष्णवं महत् ।
त्रयोविंशतिसाहस्रं सर्व्वपातकनाशनम् ॥
यत्रादिभागे निर्द्दिष्टाः षडंशाः शक्तृजेन ह ।
मैत्रेयायादिमे तत्र पुराणस्यावतारिकाः ॥”
तत्र प्रथमभागस्य प्रथमांशे ।
“आदिकारणसर्गश्च देवादीनाञ्च सम्भवः ।
समुद्रमथनाख्यानं दक्षादीनां ततोचयाः ॥
ध्रुवस्य चरितं चैव पृथोश्चरितमेव च ।
प्राचेतसं तथाख्यानं प्रह्लादस्य कथानकम् ॥
पृथग्राज्याधिकाराख्या प्रथमोऽंश इती-
रितः ॥”
प्रथमभागस्य द्वितीयांशे ।
“प्रियव्रताचयाख्यानं द्वीपवर्षनिरूपणम् ।
पातालनरकाख्यानं सप्तस्वर्गनिरूपणम् ।
सूर्य्यादिचारकथनं पृथग्लक्षणसंयुतम् ॥
चरितं भरतस्याथ मुक्तिमार्गनिदर्शनम् ॥
निदाघऋभुसंवादो द्वितीयोऽंश उदाहृतः ॥”
प्रथमभागस्य तृतीयांशे ।
“मन्वन्तरसमाख्यानं वेदव्यासावतारकम् ।
नरकोद्बारकं कर्म्म गदितञ्च ततः परम् ॥
सगरस्यौर्वसंवादे सर्व्वधर्म्मनिरूपणम् ।
श्राद्धकल्पं तथोद्दिष्टं वर्णाश्रमनिवन्धने ।
सदाचारश्च कथितो मायामोहकथा ततः ।
तृतीयोऽंशोऽयमुदितः सर्व्वपापप्रणाशनः ॥”
प्रथमभागस्य चतुर्थांशे ।
“सूर्य्यवंशकथा पुण्या सोमवंशानुकीर्त्तनम् ।
चतुर्थेऽंशे मुनिश्रेष्ठ ! नानाराजकथाचितम् ॥”
प्रथमभागस्य पञ्चमांशे ।
“कृष्णावतारसंप्रश्नो गोकुलीया कथा ततः ।
पूतनादिवधो बाल्ये कौमारेऽघादिहिंसनम् ॥
कैशोरे कंसहननं माथुरं चरितं तथा ।
ततस्तु यौवने प्रोक्ता लीला द्बारवतीभवा ॥
सर्व्वदैत्यवधो यत्र विवाहाश्च पृथग्विधाः ।
यत्र स्थित्वा जगन्नाथः कृष्णो योगेश्वरेश्वरः ॥
भूभारहरणं चक्रे परस्वहननादिभिः ।
अष्टावक्रीयमाख्यानं पञ्चमोऽंश इती-
रितः ॥”
पृष्ठ ३/१८२
प्रथमभागस्य षष्ठांशे ।
“कलिजं चरितं प्रोक्तं चातुर्व्विध्यं लयस्य च ।
ब्रह्मज्ञानसमुद्देशः खाण्डिक्यस्य निरूपितः ॥
केशिध्वजेन चेत्येष षष्ठोऽंशः परिकीर्त्तितः ॥”
तस्य द्वितीयभागे ।
“अतःपरन्तु सूतेन शौनकादिभिरादरात् ।
पृष्टेन चोदिताः शश्वद्विष्णुधर्म्मोत्तराह्वयाः ॥
नानाधर्म्मकथाः पुण्या व्रतानि नियमा यमाः ।
धर्म्मशास्त्रं चार्थशास्त्रं वेदान्तं ज्योतिषं तथा ॥
वंशाख्यानं प्रकरणात् स्तोत्राणि मनवस्तथा ॥
नानाविद्याश्रयाः प्रोक्ताः सर्व्वलोकोपकारकाः ।
एतद्विष्णुपुराणं वै सर्व्वशास्त्रार्थसंग्रहम् ॥ * ॥
तत्फलश्रुतिः ।
“वाराहकल्पवृत्तान्तं व्यासेन कथितं त्विह ।
यो नरः पठते भक्त्या यः शृणोति च सादरम् ।
तावुभौ विष्णुलोकं हि व्रजेतां भुक्तभोगकौ ॥
तल्लिखित्वा च यो दद्यादाषाढ्यां घृतधेनुना ।
सहितं विष्णुभक्ताय पुराणार्थविदे द्विज ! ।
स याति वैष्णवं धाम विमानेनार्कवर्च्चसा ॥
यश्च विष्णुपुराणस्य समनुक्रमणीं द्विज ! ।
कथयेच्छणुयाद्वापि स पुराणफलं लभेत् ॥”
इति श्रीनारदीयपुराणे पूर्ब्बभागे बृहदुपाख्याने
चतुर्थपादे ९४ अध्यायः ॥ ३ ॥
चतुर्थं वायुपुराणम् ।
ब्रह्मोवाच ।
“शृणु विप्र ! प्रवक्ष्यामि पुराणं वायवीयकम् ।
यस्मिन् श्रुते लभेद्धाम रुद्रस्य परमात्मनः ॥
चतुर्व्विंशतिसाहस्रं तत् पुराणं प्रकीर्त्तितम् ।
श्वेतकल्पप्रसङ्गेन धर्म्माण्यत्राह मारुतः ॥
तद्वायवीयमुदितं भागद्वयसमाचितम् ॥” * ॥
तस्य पूर्ब्बभागे ।
“स्वर्गादिलक्षणं यत्र प्रोक्तं विप्र ! सविस्तरम् ॥
मन्वन्तरेषु वंशाश्च राज्ञां ये यत्र कीर्त्तिताः ।
गयासुरस्य हननं विस्तराद्यत्र कीर्त्तितम् ॥
मासानाञ्चैव माहात्म्यं माघस्योक्तं फलाधिकम् ।
दानधर्म्मा राजधर्म्मा विस्तरेणोदितास्तथा ॥
भूपातालककुव्व्योमचारिणां यत्र निर्णयः ।
व्रतादीनाञ्च पूर्ब्बोऽयं विभागः समुदाहृतः ॥”
तदुत्तरभागे ।
“उत्तरे तस्य भागे तु नर्म्मदातीर्थवर्णनम् ।
शिवस्य संहिताख्या वै विस्तरेण मुनीश्वर ! ॥
यो देवः सर्व्वदेवानां दुर्व्विज्ञेयः सनातनः ।
स तु सर्व्वात्मना यस्यास्तीरे तिष्ठति सन्ततम् ॥
इदं ब्रह्मा हरिरिदं साक्षाच्चेदं परो हरः ।
इदं ब्रह्म निराकारं कैवल्यं नर्म्मदाजलम् ॥
ध्रुवं लोकहितार्थाय शिवेन स्वशरीरतः ।
शक्तिः कापि सरिद्रूपा रेवेयमवतारिता ॥
ये वसन्त्युत्तरे कूले रुद्रस्यानुचरा हि ते ।
वसन्ति याम्यतीरे ये लोकं ते यान्ति वैष्णवम् ॥
ओंकारेश्वरमारभ्य यावत् पश्चिमसागरम् ।
सङ्गमाः पञ्च च त्रिंशन्नदीनां पापनाशनाः ॥
दशैकमुत्तरे तीरे त्रयोविंशति दक्षिणे ।
पञ्चत्रिंशत्तमः प्रोक्तो रेवासागरसङ्गमः ॥
सङ्गमैः सहितान्येवं रेवातीरद्बयेऽपि च ।
चतुःशतानि तीर्थानि प्रसिद्धानि च सन्ति हि ।
षष्टितीर्थसहस्राणि षष्टिकोट्यो मुनीश्वर ! ।
सन्ति चान्यानि रेवायास्तीरयुग्मे पदे पदे ॥
संहितेयं महापुण्या शिवस्य परमात्मनः ।
नर्म्मदाचरितं यत्र वायुना परिकीर्त्तितम् ॥”
तत्फलश्रुतिः ।
“लिखित्वेदं पुराणन्तु गुडधेनुसमाचितम् ।
श्रावण्यां यो ददेद्भक्त्या ब्राह्मणाय कुटुम्बिने ॥
रुद्रलोकें वसेत् सोऽपि यावदिन्द्राश्चतुर्द्दश ।
यः श्रावयेद्वा शृणुयाद्वायवीयमिदं नरः ।
नियमेन हरिष्याशी स रुद्रो नात्र संशयः ॥
यश्चानुक्रमणीमेतां शृणोति श्रावयेत वा ।
सोऽपि सर्व्वपुराणस्य फलं श्रवणजं लभेत् ॥”
इति श्रीनारदीयपुराणे पूर्ब्बभागे बृहदुपाख्याने
चतुर्थपादे ९५ अध्यायः ॥ ४ ॥
पञ्चमं श्रीभागवतपुराणम् ।
ब्रह्मोवाच ।
“मरीचे ! शृणु वक्ष्यामि वेदव्यासेन यत् कृतम् ।
श्रीमद्भागवतं नाम पुराणं ब्रह्मसम्मितम् ॥
तदष्टादशसाहस्रङ्कीर्त्तितं पापनाशनम् ।
सुरपादपरूपोऽयं स्कन्धैर्द्बादभिर्युतः ॥
भगवानेव विप्रेन्द्र ! विश्वरूपी क्षमीरितः ॥”
तस्यप्रथमस्कन्धे ।
“तत्र तु प्रथमे स्कन्धे सूतर्षीणां समागमः ।
व्यासस्य चरितं पुण्यं पाण्डवानां तथैव च ॥
पारीक्षितमुपाख्यानमितीदं समुदाहृतम् ॥”
द्वितीयस्कन्धे ।
“परीक्षिच्छुकसंवादे सृतिद्वयनिरूपणम् ।
ब्रह्मनारदसंवादेऽवतारचरितामृतम् ॥
पुराणलक्षणञ्चैव सृष्टिकारणसम्भवः ।
द्वितीयोऽयं समुदितः स्कन्धो व्यासेन धीमता ॥”
तृतीयस्कन्धे ।
“चरितं विदुरस्याथ मैत्रेयेणास्य सङ्गमः ।
सृष्टिप्रकरणं पश्चाद्ब्रह्मणः परमात्मनः ॥
कापिलं साङ्ख्यमप्यत्र तृतीयोऽयमुदाहृतः ॥”
चतुर्थस्कन्धे ।
“सत्याश्चरितमादौ तु ध्रुवस्य चरितं ततः ।
पृथोः पुण्यसमाख्यानं ततः प्राचीनवर्हिषः ।
इत्येष तुर्य्यो गदितो विसर्गे स्कन्ध उत्तमः ॥”
पञ्चमस्कन्धे ।
“प्रियव्रतस्य चरितं तद्वंश्यानाञ्च पुण्यदम् ।
ब्रह्माण्डान्तर्गतानाञ्च लोकानां वर्णनन्ततः ॥
नरकस्थितिरित्येष संस्थाने पञ्चमो मतः ॥”
षष्ठस्कन्धे ।
“अजामिलस्य चरितं दक्षसृष्टिनिरूपणम् ॥
वृत्राख्यानं ततः पश्चान्मरुतां जन्म पुण्यदम् ।
षष्ठोऽयमुदितः स्कन्धो व्यासेन परिपोषणे ॥”
सप्तमस्कन्धे ।
“प्रह्लादचरितं पुण्यं वर्णाश्रमनिरूपणम् ।
सप्तमो गदितो वत्स ! वासनाकर्म्मकीर्त्तने ॥”
अष्टमस्कन्धे ।
“गजेन्द्रमोक्षणाख्यानं मन्वन्तरनिरूपणम् ।
समुद्रमथनञ्चैव वलिवैभवबन्धनम् ॥
मत्स्यावतारचरितमष्टमोऽयं प्रकीर्त्तितः ॥” * ॥
नवमस्कन्धे ।
“सूर्य्यवंशसमाख्यानं सोमवंशनिरूपणम् ।
वंश्यानुचरिते प्रोक्तो नवमोऽयं महामते ! ॥”
दशमस्कन्धे ।
“कृष्णस्य बालचरितं कौमारञ्च व्रजस्थितिः ॥
कैशोरं मथुरास्थानं यौवनं द्वारकास्थितिः ।
भूभारहरणञ्चात्र निरोधे दशमः स्मृतः ॥”
एकादशस्कन्धे ।
“नारदेन तु संवादो वसुदेवस्य कीर्त्तितः ।
यदोश्च दत्तात्रेयेण श्रीकृष्णेनोद्धवस्य च ॥
यादवानां मिथोऽन्तश्च मुक्तावेकादशः स्मृतः ॥”
द्वादशस्कन्धे ।
“भविष्यकलिनिर्द्देशो मोक्षो राज्ञः परीक्षितः ॥
वेदशाखाप्रणयनं मार्कण्डेयतपः स्मृतम् ।
सौरी विभूतिरुदिता सात्वती च ततः परम् ॥
पुराणसङ्ख्याकथनमाश्रये द्वादशो ह्ययम् ।
इत्येवं कथितं वत्स ! श्रीमद्भागवतं तव ॥” * ॥
तत्फलश्रुतिः ।
“वक्तुः श्रोतुश्चोपदेष्टुरनुमोदितुरेव च ।
साहाय्यकर्त्तुर्गदितं भक्तिभुक्तिविमुक्तिदम् ॥
प्रौष्ठपद्यां पूर्णिमायां हेमसिंहसमाचितम् ।
देयं भागवतायेदं द्विजाय प्रीतिपूर्ब्बकम् ॥
संपूज्य वस्त्रहेमाद्यैर्भगवद्भक्तिमिच्छता !
योऽप्यनुक्रमणीमेतां श्रावयेच्छृणुयात्तथा ।
स पुराणश्रवणजं प्राप्नोति फलमुत्तमम् ॥” * ॥
इति श्रीनारदीयपुराणे पूर्ब्बभागे बृहदुपाख्याने
चतुर्थपादे ९६ अध्यायः ॥ ५ ॥
षष्ठं नारदीयपुराणम् ।
श्रीब्रह्मोवाच ।
“शृणु विप्र ! प्रवक्ष्यामि पुराणं नारदीयकम् ।
पञ्चविंशतिसाहस्रं बृहच्चित्रकथाश्रयम् ॥” * ॥
तत्र पूर्ब्बभागे प्रथमपादे ।
“सूतशौनकसंवादः सृष्टिसंक्षेपवर्णनम् ।
नानाधर्म्मकथाः पुण्याः प्रवृत्ते समुदाहृताः ॥
प्राग्भागे प्रथमे पादे सनकेन महात्मना ॥”
पूर्ब्बभागे द्वितीयपादे ।
“द्वितीये मोक्षधर्म्माख्ये मोक्षोपायनिरूपणम् ।
वेदाङ्गानाञ्च कथनं शुकोत्पत्तिश्च विस्तरात् ।
सनन्दनेन गदिता नारदाय महात्मने ॥” * ॥
पूर्ब्बभागे तृतीयपादे ।
“महातन्त्रे समुद्दिष्टं पशुपाशविमोक्षणम् ।
मन्त्राणां शोधनं दीक्षा मन्त्रोद्धारश्च पूजनम् ॥
प्रयोगाः कवचं नामसहस्रं स्तोत्रमेव च ।
गणेशसूर्य्यविष्णूनां शिवशक्त्योरनुक्रमात् ॥
सनत्कुमारमुनिना नारदाय तृतीयके ॥”
पूर्ब्बभागे चतुर्थपादे ।
“पुराणलक्षणञ्चैव प्रमाणं दानमेव च ॥
पृथक् पृथक् समुद्दिष्टं दानकालपरःसरम्
पृष्ठ ३/१८३
चैत्रादिसर्व्वमासेषु तिथीनाञ्च पृथक् पृथक् ॥
प्रोक्तं प्रतिपदादीनां व्रतं सर्व्वाघनाशनम् ।
सनातनेन मुनिना नारदाय चतुर्थके ॥
पूर्ब्बभागोऽयमुदितो बृहदाख्यानसंज्ञितः ॥”
तदुत्तरभागे ।
“अस्योत्तरे विभागे तु प्रश्न एकादशीव्रते ॥
वशिष्ठेनाथ संवादो मान्धातुः परिकीर्त्तितः ।
रुक्माङ्गदकथा पुण्या मोहिन्युत्पत्तिकर्म्म च ॥
वसुशापश्च मोहिन्यै पश्चादुद्धरणक्रिया ।
गङ्गाकथा पुण्यतमा गयायात्रानुकीर्त्तनम् ॥
काश्या माहात्म्यमतुलं पुरुषोत्तमवर्णनम् ।
यात्राविधानं क्षेत्रस्य बह्वाख्यानसमन्वितम् ॥
प्रयागस्याथ माहात्म्यं कुरुक्षेत्रस्य तत्परम् ।
हरिद्वारस्य चाख्यानं कामोदाख्यानकं तथा ॥
वदरीतीर्थमाहात्म्यं कामाख्यायास्तथैव च ।
प्रभासस्य च माहात्म्यं पुराणाख्यानकं ततः ॥
गौतमाख्यानकं पश्चाद्वेदपादस्तवस्ततः ।
गोकर्णक्षेत्रमाहात्म्यं लक्ष्मणाख्यानकं तथा ॥
सेतुमाहात्म्यकथनं नर्म्मदातीर्थवर्णनम् ।
अवन्त्याश्चैव माहात्म्यं मथुरायास्ततः परम् ॥
वृन्दावनस्य महिमा वसोर्ब्रह्मान्तिके गतिः ।
मोहिनीचरितं पश्चादेवं वै नारदीयकम् ॥” * ॥
तत्फलश्रुतिः ।
“यः शृणोति नरो भक्त्या श्रावयेद्वा समाहितः ।
स याति ब्रह्मणो धाम नात्र कार्य्या विचारणा ॥
यस्त्वेतदिषपूर्णायां धेनूनां सप्तकाचितम् ।
प्रदद्याद्द्विजवर्य्याय स लभेन्मोक्षमेव च ॥
यश्चानुक्रमणीमेतां नारदीयस्य वर्णयेत् ।
शृणुयाद्वैकचित्तेन सोऽपि स्वर्गगतिं लभेत् ॥”
इति श्रीनारदीयपुराणे पूर्ब्बभागे बृहदुपाख्याने
चतुर्थपादे ९७ अध्यायः ॥ ६ ॥
सप्तमं मार्कण्डेयपुराणम् ।
श्रीब्रह्मोवाच ।
“अथ ते संप्रवक्ष्यामि मार्कण्डेयाभिधं मुने ! ।
पुराणं सुमहत् पुण्यं पठतां शृण्वतां सदा ॥
यत्राधिकृत्य शकुनीन् सर्व्वधर्म्मनिरूपणम् ।
मार्कण्डेयेन मुनिना जैमिनेः प्राक् समीरितम् ॥
पक्षिणां धर्म्मसंज्ञानां ततो जन्मनिरूपणम् ।
पूर्ब्बजन्मकथा चैषां विक्रिया च दिवस्पतेः ॥
तीर्थयात्रा बलस्यातो द्रौपदेयकथानकम् ।
हरिश्चन्द्रकथा पुण्या युद्धमाडीवकाभिधम् ॥
पितापुत्त्रसमाख्यानं दत्तात्रेयकथा ततः ।
हैहयस्याथ चरितं महाख्यानसमाचितम् ॥
मदालसाकथात्रोक्ता ह्यलर्कचरिताचिता ।
सृष्टिसंकीर्त्तनं पुण्यं नवधा परिकीर्त्तितम् ॥
कल्पान्तकालनिर्द्देशो यक्षसृष्टिनिरूपणम् ।
रुद्रादिसृष्टिरप्युक्ता द्वीपवर्षानुकीर्त्तनम् ॥
मनूनाञ्च कथा नाना कीर्त्तिताः पापहारिकाः ।
तासु दुर्गाकथात्यन्तं पुण्यदा चाष्टमेऽन्तरे ॥
तत्पश्चात् प्रणवोत्पत्तिस्त्रयीतेजःसमुद्भवः ।
मार्त्तण्डस्य च जन्माख्या तन्माहात्म्यसमाचिता ॥
वैवस्वताचयश्चापि वत्सप्र्यश्चरितं ततः ॥”
वन्सप्रीस्थाने वत्सध्री च पाठः ।
“खनित्रस्य ततः प्रोक्ता कथा पुण्या महात्मनः ॥
अविक्षिच्चरितं चैव किमिच्छव्रतकीर्त्तनम् ।
नरिष्यन्तस्य चरितं इक्ष्वाकुचरितं ततः ॥
तुलस्याश्चरितं पश्चाद्रामचन्द्रस्य सत्कथा ।
कुशवंशसमाख्यानं सोमवंशानुकीर्त्तनम् ॥
पुरूरवःकथा पुण्या नहुषष्य कथाद्भुता ।
ययातिचरितं पुण्यं यदुवंशानुकीर्त्तनम् ॥
श्रीकृष्णबालचरितं माथुरं चरितं ततः ।
द्बारकाचरितञ्चाथ कथा सर्व्वावतारजा ॥
ततः साङ्ख्यसमुद्देशः प्रपञ्चासत्त्वकीर्त्तनम् ।
मार्कण्डेयस्य चरितं पुराणश्रवणे फलम् ॥” * ॥
तत्फलश्रुतिः ।
“यः शृणोति नरो भक्त्या पुराणमिदमादरात् ।
मार्कण्डेयाभिधं वत्स ! स लभेत् परमां गतिम् ॥
यस्तु व्याकुरुते चैतच्छैवं स लभते पदम् ॥
तत् प्रयच्छेल्लिखित्वा यः सौवर्णकरिसंयुतम् ।
कार्त्तिक्यां द्विजवर्य्याय स लभेद्ब्रह्मणः पदम् ॥
शृणोति श्रावयेद्वापि यश्चानुक्रमणीमिमाम् ।
मार्कण्डेयपुराणस्य स लभेद्बाञ्छितं फलम् ॥”
इति श्रीनारदीयपुराणे पूर्ब्बभागे बृहदुपाख्याने
चतुर्थपादे ९८ अध्यायः ॥ ७ ॥
अष्टमं अग्निपुराणम् ।
श्रीब्रह्मोवाच ।
“अथातः संप्रवक्ष्यामि तवाग्नेयपुराणकम् ।
ईशानकल्पवृत्तान्तं वशिष्ठायानलोऽब्रवीत् ॥
तत् पञ्चदशसाहस्रं नाम्नां चरितमद्भतम् ।
पठतां शृण्वताञ्चैव सर्व्वपापहरं नृणाम् ॥
प्रश्नपूर्ब्बं पुराणस्य कथा सर्व्वावतारजा ।
सृष्टिप्रकरणं चाथविष्णुपूजादिकं ततः ॥
अग्निकार्य्यं ततः पश्चान्मन्त्रमुद्रादिलक्षणम् ।
सर्व्वदीक्षाविधानञ्च अभिषेकनिरूपणम् ॥
लक्षणं मण्डलादीनां कुशाया मार्ज्जनं ततः ।
पवित्रारोपणविधिर्देवालयविधिस्ततः ॥
शालग्रामादिपूजा च मूर्त्तिलक्ष्म पृथक् पृथक् ।
न्यासादीनां विधानञ्च प्रतिष्ठा पूर्त्तका ततः ॥
विनायकादिदीक्षाणां विधिर्ज्ञेयस्ततः परम् ।
प्रतिष्ठा सर्व्वदेवानां ब्रह्माण्डस्य निरूपणम् ॥
गङ्गादितीर्थमाहात्म्यं जम्ब्वादिद्वीपवर्णनम् ।
ऊर्द्ध्वाधोलोकरचना ज्योतिश्चक्रनिरूपणम् ॥
ज्योतिषञ्च ततः प्रोक्तं शास्त्रं युद्धजयार्णवम् ।
षट्कर्म्म च ततः प्रोक्तं मन्त्रयन्त्रौषधीगणः ॥
कुब्जिकादिसमर्च्चा च षोढान्यासविधिस्तथा ।
कोटिहोमविधानञ्च तदन्तरनिरूपणम् ॥
ब्रह्मचर्य्यादिधर्म्माश्च श्राद्धकल्पविधिस्ततः ।
ग्रहयज्ञस्ततः प्रोक्तो वैदिकस्मार्त्तकर्म्म च ॥
प्रायश्चित्तानुकथनं तिथीनाञ्च व्रतादिकम् ।
वारव्रतानुकथनं नक्षत्रव्रतकीर्त्तनम् ॥
मासिकव्रतनिर्द्देशो दीपदानविधिस्तथा ।
नवव्यूहार्च्चनं प्रोक्तं नरकाणां निरूपणम् ॥
व्रतानाञ्चापि दानानां निरूपणमिहोदितम् ।
नाडीचक्रसमुद्देशः सन्ध्याविधिरनुत्तमः ॥
गायत्त्र्यर्थस्य निर्द्देशो लिङ्गस्तोत्रं ततः परम् ।
राजाभिषेकमन्त्रोक्तिर्धर्म्मकृत्यञ्च भूभुजाम् ॥
स्वप्नाध्यायस्ततः प्रोक्तः शकुनादिनिरूपणम् ।
मण्डलादिकनिर्द्देशो रणदीक्षाविधिस्ततः ॥
रामोक्तनीतिनिर्द्देशो रत्नानां लक्षणं ततः ।
धनुर्विद्या ततः प्रोक्ता व्यवहारप्रदर्शनम् ॥
देवासुरविमर्द्दाख्या ह्यायुर्व्वेदनिरूपणम् ।
गजादीनां चिकित्सा च तेषां शान्तिस्ततः परम् ॥
गोनसादिचिकित्सा च नानापूजास्ततः परम् ।
शान्तयश्चापि विविधा छन्दःशास्त्रमतः परम् ॥
साहित्यञ्च ततः पश्चादेकार्णादिसमाह्वयाः ।
सिद्धशिष्टानुशिष्टिश्च कोषः स्वर्गादिवर्गके ॥
प्रलयानां लक्षणञ्च शारीरकनिरूपणम् ।
वर्णनं नरकाणाञ्च योगशास्त्रमतः परम् ॥
ब्रह्मज्ञानं ततः पश्चात् पुराणश्रवणे फलम् ।
एतदाग्नेयकं विप्र ! पुराणं परिकीर्त्तितम ॥”
तत्फलश्रुतिः ।
“तल्लिखित्वा तु यो दद्यात् सुवर्णकमलाचितम् ।
तिलधेनुयुतं वापि मार्गशीर्ष्यां विधानतः ।
पुराणार्थविदे सोऽथ स्वर्गलोके महीयते ॥
एषानुक्रमणी प्रोक्ता तषाग्नेयस्य भक्तिदा ।
शृण्वतां पठताञ्चैव नृणाञ्चेह परत्र च ॥” * ॥
इति श्रीनारदीयपुराणे पूर्ब्बभागे बृहदुपाख्याने
चतुर्थपादे ९९ अध्यायः ॥ ८ ॥
नवमं भविष्यपुराणम् ।
श्रीब्रह्मोवाच ।
“अथ ते संप्रवक्ष्यामि पुराणं सर्व्वसिद्धिदम् ।
भविष्यं भरतः सर्व्वलोकाभीष्टप्रदायकम् ॥
यत्राहं सर्व्वदेवानामादिकर्त्ता समुद्यतः ।
सृष्ट्यर्थं तत्र सञ्जातो मनुः स्वायम्भुवः पुरा ॥
स मां प्रणम्य पप्रच्छ धर्म्मं सर्व्वार्थसाधकम् ।
अहं तस्मै तदा प्रीतः प्रावोचं धर्म्मसंहिताम् ॥
पुराणानां यदा व्यासो व्यासञ्चक्रे महामतिः ।
तदा तां संहितां सर्व्वां पञ्चधा व्यभजन्मुनिः ॥
अघोरकल्पवृत्तान्तनानाश्चर्य्यकथाचिताम् ॥”
तत्र प्रथमपर्व्वणि ।
“तत्रादिमं स्मृतं पर्व्व ब्राह्म्यं यत्रास्त्युपक्रमः ।
सूतशौनकसंवादे पुराणप्रश्नसंक्रमः ।
आदित्यचरितः प्रायःसर्व्वाख्यानसमाचितः ॥
सृष्ट्यादिलक्षणोपेतः शास्त्रसर्व्वस्वरूपकः ।
पुस्तलेखकलेखानां लक्षणञ्च ततः परम् ॥
संस्काराणाञ्च सर्व्वेषां लक्षणञ्चात्र कीर्त्तितम् ।
पक्षत्यादितिथीनाञ्च कल्पाः सप्त च कीर्त्तिताः ॥
अष्टम्याद्याः शेषकल्पा वैष्णवे पर्व्वणि स्मृताः ।
शैवे च कामतो भिन्नाः सौरे चान्त्यकथाचयः ॥
प्रतिसर्गाह्वयं पश्चान्नानाख्यानसमाचितम् ।
पुराणस्योपसंहारसहितं पर्व्व पञ्चमम् ॥
एषु पञ्चसु पूर्ब्बस्मिन् ब्रह्मणो महिमाधिकः ॥”
द्वितीयतृतीयचतुर्थपञ्चमपर्व्वसु ।
“धर्म्मे कामे च मोक्षे तु विष्णोश्चापि शिवस्य च ।
द्वितीये च तृतीये च सौरो वर्गचतुष्टये ॥
प्रतिसर्गाह्वयं त्वन्त्यं प्रोक्तं सर्व्वकथाचितम् ।
पृष्ठ ३/१८४
सभविष्यं विनिर्द्दिष्टं पर्व्व व्यासेन धीमता ।
चतुर्द्दशसहस्रन्तु पुराणं परिकीर्त्तितम् ।
भविष्यं सर्व्वदेवानां साम्यं यत्र प्रकीर्त्तितम् ॥
गुणानां तारतम्येन समं ब्रह्मेति हि श्रुतिः ॥”
तत्फलश्रुतिः ।
“तल्लिखित्वा तु यो दद्यात् पौष्यां विद्बान् विम-
त्सरः ।
गुडधेनुयुतं हेमवस्त्रमाल्यविभूषणैः ॥
वाचकं पुस्तकञ्चापि पूजयित्वा विधानतः ।
गन्धाद्यैर्भाज्यभक्ष्यैश्च कृत्वा नीराजनादिकम् ।
यो वै जितेन्द्रियो भूत्वा सोपवासः समाहितः ॥
अथ वै यो नरो भक्त्या कीर्त्तयेच्छृणुयादपि ।
स मुक्तः पातकैर्घोरैः प्रयाति ब्रह्मणः पदम् ॥
योऽप्यनुक्रमणीमेतां भविष्यस्य निरूपिताम् ।
पठेद्वा शृणुयाच्चैतौ भुक्तिं मुक्तिञ्च विन्दतः ॥”
इति श्रीनारदीयपुराणे पूर्ब्बभागे बृहदुपाख्याने
चतुर्थपादे १०० अध्यायः ॥ ९ ॥
दशमं ब्रह्मवैवर्त्तपुराणम् ।
श्रीब्रह्मोवाच ।
“शृणु वत्स ! प्रवक्ष्यामि पुराणं दशमं तव ।
ब्रह्मवैवर्त्तकं नाम वेदमार्गानुदर्शकम् ॥
सावर्णिर्यत्र भगवान् साक्षाद्देवर्षयेऽर्थितः ।
नारदाय पुराणार्थं प्राह सर्व्वमलौकिकम् ॥
धर्म्मार्थकाममोक्षाणां सारः प्रीतिर्हरौ हरे ।
तयोरभेदसिद्ध्यर्थं ब्रह्मवैवर्त्तमुत्तमम् ॥
रथन्तरस्य कल्पस्य वृत्तान्तं यन्मयोदितम् ।
शतकोटिपुराणे तत् संक्षिप्य प्राह वेदवित् ॥
व्यासश्चतुर्द्धा संव्यस्य ब्रह्मवैवर्त्तसंज्ञितम् ।
अष्टादशसहस्रन्तत् पुराणं परिकीर्त्तितम् ॥
ब्रह्मप्रकृतिविघ्नेशकृष्णखण्डसमाचितम् ।
तत्र सूतर्षिसंवादे पुराणीयक्रमो मतः ॥”
तत्र प्रथमे ब्रह्मखण्डे ।
“सृष्टिप्रकरणं त्वाद्यं ततो नारदवेधसोः ।
विवादः सुमहान् यत्र द्वयोरासीत् पराभवः ॥
शिवलोकगतिः पश्चाज्ज्ञानलाभः शिवान्-
मुनेः ।
शिववाक्येन तत्पश्चात् मरीचे ! नारदस्य च ॥
मननञ्चैव सावर्णेर्ज्ञानार्थं सिद्धसेविते ।
आश्रमे सुमहत्पुण्ये त्रैलोक्याश्चर्य्यकारिणि ।
एतद्धि ब्रह्मखण्डं हि श्रुतं पापविनाशनम् ॥”
द्वितीये प्रकृतिखण्डे ।
“ततः सावर्णिसंवादो नारदस्य समीरितः ।
कृष्णमाहात्म्यसंयुक्तो नानाख्यानकथोत्तरः ॥
प्रकतेरं शभूतानां कलानाञ्चापि वर्णितम् ।
माहात्म्यं पूजनाद्यञ्च विस्तरेण यथास्थितम् ॥
एतत्प्रकृतिखण्डं हि श्रुतं भूतिविधायकम् ॥”
तृतीये गणेशखण्डे ।
“गरोशजन्मसंप्रश्नः सपुण्यकमहाव्रतम् ।
पार्व्वत्याः कार्त्तिकेयेन सह विघ्नेशसम्भवः ॥
चरितं कार्त्तवीर्य्यस्य जामदग्न्यस्य चाद्भुतम् ।
विवादः सुमहान् पश्चाज्जामदग्न्यगणेशयोः ॥
एतद्विघ्नेशखण्डं हि सर्व्वविघ्नविनाशनम् ॥”
चतुर्थे श्रीकृष्णजन्मखण्डे ।
“श्रीकृष्णजन्मसंप्रश्नो जन्माख्यानं ततोऽद्भुतम् ।
गोकुले गमनं पश्चात् पूतनादिवधोऽद्भुतः ॥
बाल्यकौमारजा लीला विविधास्तत्र वर्णिताः ।
रासक्रीडा च गोपीभिः शारदी समुदाहृता ।
रहस्ये राधया क्रीडा वर्णिता बहुविस्तरा ॥
सहाक्रूरेण तत्पश्चान्मथुरागमनं हरेः ।
कंसादीनां वधे वृत्ते साद्यस्य द्विजसंस्कृतिः ॥
काश्यसान्दीपनेः पश्चाद्विद्योपादानमद्भुतम् ।
यवनस्य वधः पश्चाद्द्वारकागमनं हरेः ॥
नरकादिवधस्तत्र कृष्णेन विहितोऽद्भुतः ।
कृष्णखण्डमिदं विप्र ! नृणां संसारखण्डनम् ॥”
तत्फलश्रुतिः ।
“पठितञ्च श्रुतं ध्यातं पूजितं चाभिवर्णितम् ।
इत्येतद्ब्रह्मवैवर्त्तं पुराणं चात्यलौकिकम् ॥
व्यासोक्तं चादिसम्भूतं पठन् शृण्वन् विमुच्यते ।
विज्ञानज्ञानशमनात् घोरात् संसारसागरात् ॥
लिखित्वेदञ्च यो दद्यान्माघ्यां धेनुसमाचितम् ।
ब्रह्मलोकमवाप्नोति स मुक्तोऽज्ञानबन्धनात् ॥
यश्चानुक्रमणीं वापि पठेद्वा शृणुयादपि ।
सोऽपि कृष्णप्रसादेन लभते वाञ्छितं फलम् ॥”
इति श्रीनारदीयपुराणे पूर्ब्बभागे बृहदुपाख्याने
चतुर्थपादे १०१ अध्यायः ॥ १० ॥
एकादशं लिङ्गपुराणम् ।
श्रीब्रह्मोवाच ।
“शृणु पुत्त्र ! प्रवक्ष्यामि पुराणं लिङ्गसंज्ञितम् ।
पठतां शृण्वताञ्चैव भक्तिमुक्तिप्रदायकम् ॥
यच्च लिङ्गाभिधं तिष्ठन् वह्निलिङ्गे हरोऽभ्यधात् ।
मह्यं धर्म्मादिसिद्ध्यर्थं अग्निकल्पकथाश्रयम् ॥
तदेव व्यासदेवेन भागद्वयसमाचितम् ।
पुराणं लिङ्गमुदितं बह्वाख्यानविचित्रितम् ॥
तदेकादशसाहस्रं हरमाहात्म्यसूचकम् ।
परं सर्व्वपुराणानां सारभूतं जगत्त्रये ॥
पुराणोपक्रमे प्रश्नः सृष्टिसंङ्क्षेपतः पुरा ॥”
तत्र पूर्ब्बभागे ।
“योगाख्यानं ततः प्रोक्तं कल्पाख्यानं ततःपरम् ॥
लिङ्गोद्भवस्तदर्च्चा च कीर्त्तिता हि ततः परम् ।
सनत्कुमारशैलादिसंवादश्चाथ पावनः ॥
ततो दधीचिचरितं युगधर्म्मनिरूपणम् ।
ततो भुवनकोषाख्या सूर्य्यसोमान्वयस्ततः ॥
ततश्च विस्तरात् सर्गस्त्रिपुराख्यानकं तथा ।
लिङ्गप्रतिष्ठा च ततः पशुपाशविमोक्षणम् ॥
शिवव्रतानि च तथा सदाचारनिरूपणम् ।
प्रायश्चित्तान्यरिष्टानि काशीश्रीशैलवर्णनम् ॥
अन्धकाख्यानकं पश्चाद्वाराहचरितं पुनः ।
नृसिंहचरितं पश्चाज्जलन्धरवधस्ततः ॥
शैवं सहस्रनामाथ दक्षयज्ञविनाशनम् ।
कामस्य दहनं पश्चात् गिरिजायाः करग्रहः ॥
ततो विनायकाख्यानं नृत्याख्यानं शिवस्य च ।
उपमन्युकथा चापि पूर्ब्बभाग इतीरितः ॥” * ॥
तदुत्तरभागे ।
“विष्णुमाहात्म्यकथनमम्बरीषकथा ततः ।
सनत्कुमारनन्दीशसंवादश्च पुनर्मुने ! ॥
शिवमाहात्म्यसंयुक्तस्नानयागादिकं ततः ।
सूर्य्यपूजाविधिश्चैव शिवपूजा च मुक्तिदा ॥
दानानि बहुधोक्तानि श्राद्धप्रकरणन्ततः ।
प्रतिष्ठा तत्र गदिता ततोऽघोरस्य कीर्त्त नम् ॥
व्रजेश्वरी महाविद्या गायत्त्रीमहिमा ततः ।
त्र्यम्बकस्य च माहात्म्यं पुराणश्रवणस्य च ॥
एतस्योपरिभागस्ते लैङ्गस्य कथितो मया ।
व्यासेन हि निबद्धस्य रुद्रमाहात्म्यसूचिनः ॥”
तत्फलश्रुतिः ।
“लिखित्वैतत् पुराणन्तु तिलधेनुसमाचितम् ।
फाल्गुन्यां पूर्णिमायां यो दद्याद्भक्त्या द्विजातये ।
स लभेच्छिवसायुज्यं जरामरणवर्ज्जितः ॥
यः पठेच्छृणुयाद्वापि लैङ्गं पापापहं नरः ।
स भुक्तभोगो लोकेऽस्मिन्नन्ते शिवपुरं व्रजेत् ॥
लिङ्गानुक्रमणीमेतां पठेद् यः शृणुयात् तथा ।
तावुभौ शिवभक्तौ तु लोकद्वितयभोगिनौ ।
जायेतां गिरिजाभर्त्तुः प्रसादान्नात्र संशयः ॥”
इति श्रीनारदीयपुराणे पूर्ब्बभागे बृहदुपाख्याने
चतुर्थपादे १०२ अध्यायः ॥ ११ ॥
द्वादशं वराहपुराणम् ।
श्रीब्रह्मोवाच ।
“शृणु वत्स ! प्रवक्ष्यामि वाराहं वैपुराणकम् ।
भागद्वययुतं शश्वद्विष्णुमाहात्म्यसूचकम् ॥
मानवस्य तु कल्पस्य प्रसङ्गं मत्कृतं पुरा ।
निबबन्ध पुराणेऽस्मिंश्चतुर्व्विंशसहस्रके ॥
व्यासो हि विदुषां श्रेष्ठः साक्षान्नारायणो भुवि ।
तत्रादौ शुभसंवादः स्मृतो भूमिवराहयोः ॥”
तत्र पूर्ब्बभागे ।
“अथादिकृतवृत्तान्ते रभ्यस्य चरितं ततः ।
दुर्ज्जयाय च तत्पश्चाच्छ्राद्धकल्प उदीरितः ॥
महातपस आख्यानं गौर्य्युत्पत्तिस्ततः परम् ।
विनायकस्य नागानां सेनान्यादित्ययोरपि ॥
गणानाञ्च तथा देव्या धनदस्य वृषस्य च ।
आख्यानं सत्यतपसो व्रताख्यानसमन्वितम् ॥
अगस्त्यगीता तत्पश्चाद्रुद्रगीता प्रकीर्त्तिता ।
महिषासुरविध्वंसे माहात्म्यञ्च त्रिशक्तिजम् ॥
पर्व्वाध्यायस्ततः श्वेतोपाख्यानं गोप्रदानिकम् ।
इत्यादिकृतवृत्तान्तं प्रथमोद्देशनामकम् ॥
भगवद्धर्म्मके पश्चाद्व्रततीर्थकथानकम् ।
द्वात्रिंशदपराधानां प्रायश्चित्तं शरीरकम् ॥
तीर्थानाञ्चापि सर्व्वेषां माहात्म्यं पृथगीरितम् ।
मथुराया विशेषेण श्राद्धादीनां विधिस्ततः ॥
वर्णनं यमलोकस्य ऋषिपुत्त्रप्रसङ्गतः ।
विपाकः कर्म्मणाञ्चैव विष्णुव्रतनिरूपणम् ॥
गोकर्णस्य च माहात्म्यं कीर्त्तितं पापनाशनम् ।
इत्येष पूर्ब्बभागोऽस्य पुराणस्य निरूपितः ॥”
उत्तरभागे ।
“उत्तरे प्रविभागे तु पुलस्त्यकुरुराजयोः ।
संवादे सर्व्वतीर्थानां माहात्म्यंविस्तारात्पृथक् ॥
अशेषधर्म्माश्चाख्याताः पौष्करं पुण्यपर्व्व च ।
इत्येवं तव वाराहं प्रोक्तं पापविनाशनम् ॥”
पृष्ठ ३/१८५
तत्फलश्रुतिः ।
“पठतां शृण्वताञ्चैव भगवद्भक्तिवर्द्धनम् ।
काञ्चनं गरुडं कृत्वा तिलधेनुसमाचितम् ॥
लिखित्वैतच्च यो दद्याच्चैत्र्यां विप्राय भक्तितः ।
स लभेद्वैष्णवं धाम देवर्षिगणवन्दितः ॥
यो वानुक्रमणीमेतां शृणोत्यपि पठत्यपि ।
सोऽपि भक्तिं लभेद्विष्णौ संसारोच्छेदकारि-
णीम् ॥” * ॥
इति श्रीनारदीयपुराणे पूर्ब्बभागे बृहदुपाख्याने
चतुर्थपादे १०३ अध्यायः ॥ १२ ॥
त्रयोदशं स्कन्दपुराणम् ।
श्रीब्रह्मोवाच ।
“शृणु वक्ष्ये मरीचे ! च पुराणं स्कन्दसंज्ञितम् ।
यस्मिन् प्रतिपदं साक्षान्महादेवो व्यवस्थितः ॥
पुराणे शतकोटौ तु यच्छैवं वर्णितं मया ।
लक्षितस्यार्थजातस्य सारो व्यासेन कीर्त्तितः ॥
स्कन्दाह्वयस्तत्र खण्डाः सप्तैव परिकल्पिताः ।
एकाशीतिसहस्रन्तु स्कान्दं सर्व्वाघकृन्तनम् ॥
यः शृणोति पठेद्वापि स तु साक्षाच्छिवः स्थितः ।
यत्र माहेश्वरा धर्म्माः षण्मुखेन प्रकाशिताः ॥
कल्पे तत्पुरुषे वृत्ताः सर्व्वसिद्धिविधायकाः ॥”
तत्र प्रथमे माहेश्वरखण्डे ।
“तस्य माहेश्वरश्चाद्यः खण्डः पापप्रणाशनः ॥
किञ्चिन्न्यूनार्कसाहस्रो बहुपुण्यो बृहत्कथः ।
सुचरित्रशतैर्युक्तः स्कन्दमाहात्म्यसूचकः ॥
यत्र केदारमाहात्म्ये पुराणोपक्रमः पुरा ।
दक्षयज्ञकथा पश्चाच्छिवलिङ्गार्च्चने फलम् ॥
समुद्रमथनाख्यानं देवेन्द्र चरितं ततः ।
पार्व्वत्याः समुपाख्यानं विवाहस्तदनन्तरम् ॥
कुमारोत्पत्तिकथनं ततस्तारकसङ्गरः ।
ततः पशुपताख्यानं चण्ड्याख्यानसमाचितम् ॥
द्यूतप्रवर्त्तनाख्यानं नारदेन समागमः ।
ततः कुमारमाहात्म्ये पञ्चतीर्थकथानकम् ॥
धर्म्मवर्म्मनृपाख्यानं नदीसागरकीर्त्तनम् ।
इन्द्रद्युम्नकथा षश्चान्नाडीजङ्घकथाचिता ॥
प्रादुर्भावस्ततो मह्याः कथा दमनकस्य च ।
महीसागरसंयोगः कुमारेशकथा ततः ॥
ततस्तारकयुद्धञ्च नानाख्यानसमाचितम् ।
वधश्च तारकस्याथ पञ्चलिङ्गनिवेशनम् ॥
द्वीपाख्यानं ततः पुण्यं ऊर्द्ध्वलोकव्यवस्थितः ।
ब्रह्माण्डस्थितिमानञ्च वर्करेशकथानकम् ॥
महाकालसमुद्भूतिः कथा चास्य महाद्भुता ।
वासुदेवस्य माहात्म्यं कोरितीर्थं ततः परम् ॥
नानातीर्थसमाख्यानं गुप्तक्षेत्रे प्रकीर्त्तितम् ।
पाण्डवानां कथा पुण्या महाविद्याप्रसाधनम् ॥
तीर्थयात्रासमाप्तिश्च कौमारमिदमद्भुतम् ।
अरुणाचलमाहात्म्ये सनकब्रह्मसंकथा ॥
गौरीतपःसमाख्यानं तत्तत्तीर्थनिरूपणम् ।
महिषासुरजाख्यानं वधश्चास्य महाद्भुतः ॥
शोणाचले शिवास्थानं नित्यदा परिकीर्त्तितम् ।
इत्येष कथितः स्कान्दे खण्डो माहेश्वरोऽद्-
भुतः ॥”
द्वितीये वैष्णवखण्डे ।
“द्वितीयो वैष्णवः खण्डस्तस्याख्यानानि मे शृणु ।
प्रथमं भूमिवाराहं समाख्यानं प्रकीर्त्तितम् ॥
यत्र वोचककुध्रस्य माहात्म्यं पापनाशनम् ।
कमलायाः कथा पुण्या श्रीनिवासस्थितिस्ततः ॥
कुलालाख्यानकं चात्र सुवर्णमुखरीकथा ।
नानाख्यानसमायुक्ता भारद्वाजकथाद्भुता ॥
मतङ्गाञ्जनसंवादः कीर्त्तितः पापनाशनः ।
पुरुषोत्तममाहात्म्यं कीर्त्तितं चोत्कले ततः ॥
मार्कण्डेयसमाख्यानमम्बरीषस्य भूपतेः ।
इन्द्रद्युम्नस्य चाख्यानं विद्यापतिकथा शुभा ॥
जैमिनेः समुपाख्यानं नारदस्यापि वाडव ! ।
नीलकण्ठसमाख्यानं नारसिंहोपवर्णनम् ॥
अश्वमेधकथा राज्ञो ब्रह्मलोकगतिस्तथा ।
रथयात्राविधिः पश्चाज्जन्मस्नानविधिस्तथा ॥
दक्षिणामूर्त्त्युपाख्यानं गुण्डिचाख्यानकं ततः ।
रथरक्षाविधानञ्च शयनोत्सवकीर्त्तनम् ॥
श्वेतोपाख्यानमत्रोक्तं वह्न्युत्सवनिरूपणम् ।
दोलोत्सवो भगवतो व्रतं सांवत्सराभिधम् ॥
पूजा च कामिभिर्विष्णोरुद्दालकनियोगकः ।
मोक्षसाधनमत्रोक्तं नानायोगनिरूपणम् ॥
दशावतारकथनं स्नानादिपरिकीर्त्तनम् ।
ततो वदरिकायाश्च माहात्म्यं पापनाशनम् ॥
अग्न्यादितीर्थमाहात्म्यं वैनतेयशिलाभवम् ।
कारणं भगवद्वासे तीर्थं कापालमोचनम् ॥
पञ्चधाराभिधं तीर्थं मेरुसंस्थापनं तथा ।
ततः कार्त्तिकमाहात्म्ये माहात्म्यं मदनालसम् ॥
धूम्रकोशसमाख्यानं दिनकृत्यानि कार्त्तिके ।
पञ्चभीष्मव्रताख्यानं कीर्त्तिदं भुक्तिमुक्तिदम् ॥
तद्व्रतस्य च माहात्म्ये विधानं स्नानजं तथा ।
पुण्ड्रादिकीर्त्तनं चात्र मालाधारणपुण्यकम् ॥
पञ्चामृतस्नानपुण्यं घण्टानादादिजं फलम् ।
नानापुष्पार्च्चनफलं तुलसीदलजं फलम् ॥
नैवेद्यस्य च माहात्म्यं हरिवासरकीर्त्तनम् ।
अखण्डैकादशीपुण्यं तथा जागरणस्य च ॥
मत्स्योत्सवविधानञ्च नाममाहात्म्यकीर्त्तनम् ।
ध्यानादिपुण्यकथनं माहात्म्यं मथुराभवम् ॥
मथुरातीर्थमाहात्म्यं पृथगुक्तं ततः परम् ।
वनानां द्वादशानाञ्च माहात्म्यं कीर्त्तितं ततः ॥
श्रीमद्भागवतस्यात्र माहात्म्यं कीर्त्तितं परम् ।
वज्रशाण्डिल्यसंवादं अन्तर्लीलाप्रकाशकम् ॥
ततो माघस्य माहात्म्यं स्नानदानजपोद्भवम् ।
नानाख्यानसमायुक्तं दशाध्याये निरूपितम् ॥
ततो वैशाखमाहात्म्ये शय्यादानादिजं फलम् ।
जलदानादिविधयः कामाख्यानमतः परम् ॥
श्रुतदेवस्य चरितं व्याधोपाख्यानमद्भुतम् ।
तथाक्षयतृतीयादेर्विशेषात् पुण्यकीर्त्तनम् ॥
ततस्त्वयोध्यामाहात्म्ये चक्रब्रह्माह्वतीर्थके ।
ऋणपापविमोक्षाख्ये तथाधारसहस्रकम् ॥
स्वर्गद्वारं चन्द्रहरिधर्म्महर्य्युपवर्णनम् ।
स्वर्णवृष्टेरुपाख्यानं तिलोदा सरयूयुतिः ॥
सीताकुण्डं गुप्तहरिः सरयूर्घर्घराचयः ।
गोप्रचारञ्च दुग्धोदं गुरुकुण्डादिपञ्चकम् ॥
घोषार्कादीनि तीर्थानि त्रयोदश ततः परम् ।
गयाकूपस्य माहात्म्यं सर्व्वाघविनिवर्त्तकम् ॥
माण्डव्याश्रमपूर्ब्बाणि तीर्थानि तदनन्तरम् ।
अजितादिमानसादितीर्थानि गदितानि च ॥
इत्येष वैष्णवः खण्डो द्वितीयः परिकीर्त्तितः ॥”
तृतीये ब्रह्मखण्डे ।
“अतःपरं ब्रह्मखण्डं मरीचे ! शृणु पुण्यदम् ।
यत्र वै सेतुमाहात्म्ये फलं स्नानेक्षणेद्भवम् ॥
गालवस्य तपश्चर्य्या राक्षसाख्यानकं ततः ।
चक्रतीर्थादिमाहात्म्यं देवीपतनसंयुतम् ॥
वेतालतीर्थमहिमा पापनाशादिकीर्त्तनम् ।
मङ्गलादिकमाहात्म्यं ब्रह्मकुण्डादिवर्णनम् ।
हनूमत्कुण्डमहिमागस्त्यतीर्थभवं फलम् ॥
रामतीर्थादिकथनं लक्ष्मीतीर्थनिरूपणम् ।
शङ्खादितीर्थमहिमा तथा साध्यामृतादिजः ॥
धनुष्कोट्यादिमाहात्म्यं क्षीरकुण्डादिजं तथा ।
गायत्र्यादिकतीर्थानां माहात्म्यं चात्र कीर्त्ति-
तम् ॥
रामनाथस्य महिमा तत्त्वज्ञानोपदेशनम् ।
यात्राविधानकथनं सेतौ मुक्तिप्रदं नृणाम् ॥
धर्म्मारण्यस्य माहात्म्यं ततः परमुदीरितम् ।
स्थाणुः स्कन्दाय भगवाम् यत्र तत्त्वमुपादिशत् ॥
धर्म्मारण्यसुसंभूतिस्तत्पुण्यपरिकीर्त्तनन् ।
कर्म्मसिद्धेः समाख्यानं ऋषिवंशनिरूपणम् ॥
अप्सरातीर्थमुख्यानां माहात्म्यं यत्र कीर्त्ति-
तम् ।
वर्णानामाश्रमानाञ्च धर्म्मतत्त्वनिरूपणम् ॥
देवस्थानविभागश्च वकुलार्ककथा शुभा ।
छत्रा नन्दा तथा शान्ता श्रीमाता च मतङ्गिनी ॥
पुण्यदात्र्यः समाख्याता यत्र देव्यः समास्थिताः ।
इन्द्रेश्वरादिमाहात्म्यं द्बारकादिनिरूपणम् ॥
लोहासुरसमाख्यानं गङ्गाकूपनिरूपणम् ।
श्रीरामचरितञ्चैव सत्यमन्दिरवर्णनन् ॥
जीर्णोद्धारस्य कथनं शासनप्रतिपादनम् ।
जातिभेदप्रकथनं स्मृतिधर्म्मनिरूपणम् ॥
ततस्तु वैष्णवा धर्म्मा नानाख्यानैरुदीरिताः ।
चातुर्म्मास्ये ततः पुण्ये सर्व्वधर्म्मनिरूपणम् ॥
दानप्रशंसा तत्पश्चाद्व्रतस्य महिमा ततः ।
तपसश्चैव पूजायाः सच्छिद्रकथनं ततः ॥
प्रकृतीनां भिदाख्यानं शालग्रामनिरूपणम् ।
तारकस्य वधोपायो त्र्यक्षार्च्चा महिमा तथा ॥
विष्णोः शापश्च वृक्षत्वं पार्व्वत्यनुनयस्ततः ।
हरस्य ताण्डवं नृत्यं रामनामनिरूपणम् ॥
हरस्य लिङ्गपतनं कथायै जवनस्य च ।
पार्व्वतीजन्मचरितं तारकस्य वधोऽद्भुतः ॥
प्रणवैश्वर्य्यकथनं तारकाचरितं पुनः ।
दक्षयज्ञसमाप्तिश्च द्वादशाक्षररूपणम् ॥
ज्ञानयोगसमाख्यानं महिमा द्वादशार्णजः ।
श्रवणादिकपुण्यञ्च कीर्त्तितं शर्म्मदं नृणाम् ॥”
तृतीये ब्रह्मखण्डस्योत्तरभागे ।
“ततो ब्रह्मोत्तरे भागे शिवस्य महिमाद्भुतः ।
पृष्ठ ३/१८६
पञ्चाक्षरस्य महिमा गोकर्णमहिमा ततः ॥
शिवरात्रेश्च महिमा प्रदोषव्रतकीर्त्तनम् ।
सोमवारव्रतञ्चापि सीमन्तिन्याः कथानकम् ॥
भद्रायूत्पत्तिकथनं सदाचारनिरूपणम् ।
शिववर्म्मसमुद्देशो भद्रायूद्वाहवर्णनम् ॥
भद्रायुमहिमा चापि भस्ममाहात्म्यकीर्त्तनम् ।
शवराख्यानकञ्चैव उमामाहेश्वरव्रतम् ॥
रुद्राक्षस्य च माहात्म्यं रुद्राध्यायस्य पुण्यकम् ।
श्रवणादिकपुण्यञ्च ब्रह्मखण्डोऽयमीरितः ॥” * ॥
चतुर्थे काशीखण्डे ।
“अतः परं चतुर्थन्तु काशीखण्डमनुत्तमम् ।
विन्ध्यनारदयोर्यत्र संवादः परिकीर्त्तितः ॥
सत्यलोकप्रभावश्चागस्त्यावासे सुरागमः ।
पतिव्रताचरित्रञ्च तीर्थचर्य्याप्रशंसनम् ॥
ततश्च सप्तपुर्य्याख्या संयमिन्या निरूपणम् ।
व्रध्नस्य च तथेन्द्राग्न्योर्लोकाप्तिः शिवशर्म्मणः ॥
अग्नेः समुद्भवश्चैव क्रव्याद्वरुणसम्भवः ।
गन्धवत्यलकापुर्य्योरीश्वर्य्याश्च समुद्भवः ॥
चन्द्रोडुबुधलोकानां कुजेज्यार्कभुवां क्रमात् ।
सप्तर्षीणां ध्रुवस्यापि तपोलोकस्य वर्णनम् ॥
ध्रुवलोककथा पुण्या सत्यलोकनिरीक्षणम् ।
स्कन्दागस्त्यसमालापो मणिकर्णीसमुद्भवः ॥
प्रभावश्चापि गङ्गाया गङ्गानामसहस्रकम् ।
वाराणसीप्रशंसा च भैरवाविर्भवस्ततः ॥
दण्डपाणिज्ञानवाप्योरुद्भवः समनन्तरम् ।
ततः कलावत्याख्यानं सदाचारनिरूपणम् ॥
ब्रह्मचारिसमाख्यानं ततः स्त्रीलक्षणानि च ।
कृत्याकृत्यविनिर्द्देशो ह्यविमुक्तेशवर्णनम् ॥
गृहस्थयोगिनोर्धर्म्माः कालज्ञानं ततः परम् ।
दिवोदासकथा पुण्या काशीवर्णनमेव च ॥
योगिचर्च्चा च लोलार्कोत्तरशाम्बार्कजा कथा ।
द्रुपदार्कस्य तार्क्ष्याख्यारुणार्कस्योदयस्ततः ॥
दशाश्वमेधतीर्थ्याख्या मन्दराच्च गणागमः ।
पिशाचमोचनाख्यानं गणेशप्रेषणन्ततः ॥
मायागणपतेश्चाथ भुवि प्रादुर्भवस्ततः ।
विष्णुमायाप्रपञ्चोऽथ दिवोदासविमोक्षणम् ॥
ततः पञ्चनदोत्पत्तिर्विन्दुमाधवसम्भवः ।
ततो वैष्णवतीर्थाख्या शूलिनः काशिकागमः ॥
जैगीषव्येण संवादो ज्येष्ठेशाख्या महेशितुः ।
क्षेत्राख्यानं कन्दुकेशव्याध्रेश्वरसमुद्भवः ॥
शैलेशरत्नेश्वरयोः कृत्तिवासस्य चोद्भवः ।
देवतानामधिष्ठानं दुर्गासुरपराक्रमः ॥
दुर्गाया विजयश्चाथ ओङ्कारेशस्य वर्णनम् ।
पुनरोङ्कारमाहात्म्यं त्रिलोचनसमुद्भवः ॥
केदाराख्या च धर्म्मेशकथा विश्वभुजोद्भवा ।
वीरेश्वरसमाख्यानं गङ्गामाहात्म्यकीर्त्तनम् ॥
विश्वकर्म्मेशमहिमा दक्षयज्ञोद्भवस्तथा ।
सतीशस्यामृतेशादेर्भुजस्तम्भः पराशरेः ॥
क्षेत्रतीर्थकदम्बश्च मुक्तिमण्डपसंकथा ।
विश्वेशविभवश्चाथ ततो यात्रापरिक्रमः ॥” * ॥
पञ्चमे अवन्तीखण्डे ।
“अतः परं त्ववन्त्याख्यं शृणु खण्डञ्च पञ्चकम् ।
महाकालवनाख्यानं ब्रह्मशीर्षच्छिदा ततः ॥
प्रायश्चित्तविधिश्चाग्नेरुत्पत्तिश्च सुरागमः ।
देवदीक्षा शिवस्तोत्रं नानापातकनाशनम् ॥
कपालमोचनाख्यानं महाकालवनस्थितिः ।
तीर्थं कलकलेशस्य सर्व्वपापप्रणाशनम् ॥
कुण्डमप्सरसंज्ञञ्च सर्गे रुद्रस्य पुण्यदम् ।
कुटुम्बेशञ्च विद्याध्रमर्कटेश्वरतीर्थकम् ॥
स्वर्गद्वारं चतुःसिन्धुतीर्थं शङ्करवापिका ।
सकरार्कगन्धवतीतीर्थम्पापप्रणाशनम् ॥
दशाश्वमेधैकानंशातीर्थ च हरिसिद्धिदम् ।
पिशाचकादियात्रा च हनूमत्कयमेश्वरौ ॥
महाकालेशयात्रा च वल्मीकेश्वरतीर्थकम् ॥
शुक्रेशभेशोपाख्यानं कुशस्थल्याः प्रदक्षिणम् ।
अक्रूरमन्दाकिन्धङ्कपादचन्द्राकवैभवम् ॥
करभेशकुक्कुटेशलड्डुकेशादितीर्थकम् ।
मार्कण्डेशं यज्ञवापी सोमेशं नरकान्तकम् ॥
केदारेश्वररामेशसौभाग्येशनरार्ककम् ।
केशार्कं शक्तिभेदञ्च स्वणक्षरमुखानि च ॥
ओङ्कारेशादितीर्थानि अन्धकस्तुतिकीर्त्तनम् ।
कालारण्ये लिङ्गसङ्ख्या स्वर्णशृङ्गाभिधानकम् ॥
कुशस्थल्या अवन्त्याश्चोज्जयिन्या अभिधानकम् ।
पद्मावती कुमुद्वत्यमरावतीतिनामकम् ॥
विशालाप्रतिकल्पाभिधाने च ज्वरशान्तिकम् ।
शिप्रास्नानादिकफलं नागोन्मीता शिवस्तुतिः ॥
हिरण्याक्षवधाख्यानं तीर्थं सुन्दरकुण्डकम् ।
नीलगङ्गा पुष्कराख्यं बिन्ध्यावासनतीर्थकम् ॥
पूरुषोत्तमाधिमासं तत्तीर्थञ्चाघनाशनम् ।
गोमतीवामने कुण्डे विष्णोर्नामसहस्रकम् ॥
वीरेश्वरसरः कालभैरवस्य च तीर्थके ।
महिमा नागपञ्चम्यां नृसिंहस्य जयन्तिका ॥
कुठुवेश्वरयात्रा च देवसाधककीर्त्तनम् ।
कर्कराजाख्यतीर्थञ्च विघ्नेशादिसुरोहनम् ॥
रुद्रकुण्डप्रभृतिषु बहुतीर्थनिरूपणम् ।
यात्राष्टतीर्थजा पुण्या रेवामाहात्म्यमुच्यते ॥
धर्म्मपुण्यस्य वैराग्ये मार्कण्डेयेन सङ्गमः ।
प्राग्लयानुभवाख्यानं अमृतापरिकीर्त्तनम् ॥
कल्पे कल्पे पृथक् नाम नर्म्मदायाः प्रकीर्त्तितम् ।
स्तवमार्षं नार्म्मदञ्च कालरात्रिकथा ततः ॥
महादेवस्तुतिः पश्चात् पृथक्कल्पकथाद्भुता ।
बिशल्याख्यानकं पश्चाज्जालेश्वरकथा तथा ॥
गौरीव्रतसमाख्यानं त्रिपुरज्वालनन्ततः ।
देहपातविधानञ्च कावेरीसङ्गमस्ततः ॥
दारुतीर्थं ब्रह्मवर्ज्जं यत्रेश्वरकथानकम् ।
अग्नितीर्थं रवितीर्थं मेघनादं दिदारुकम् ॥
देवतीर्थं नर्म्मदेशं कपिलाख्यं करञ्जकम् ।
कुण्डलेशं पिप्पलादं विमलेशञ्च शूलभित् ॥
शचीहरणमाख्यातमन्धकस्य वधस्ततः ।
शूलभेदोद्भवो यत्र दानधर्म्माः पृधग्विधाः ॥
आख्यानं दीर्घतपस ऋष्यशृङ्गकथा ततः ।
चित्रसेनकथा पुण्या काशिराजस्य मोक्षणम् ॥
ततो देवशिलाख्यानं शवरीचरिताचितम् ।
व्याधाख्यानं ततः पुण्यं पुष्करिण्यर्कतीर्थकम् ॥
आपित्येश्वरतीर्थञ्च शक्रतीर्थं करोटिकम् ।
कुमारेशमगस्त्येशं च्यवनेशञ्च मातृजम् ॥
लोकेशं धनदेशञ्च मङ्गलेशञ्च कामजम् ।
नागेशञ्चापि गोपारं गौतमं शङ्खचूडजम् ॥
नारदेशं नन्दिकेशं वरुणेश्वरतीर्थकम् ।
दधिस्कन्दादितीर्थानि हनूमन्तेश्वरन्ततः ॥
रामेश्वरादितीर्थानि सोमेशं पिङ्गलेश्वरम् ।
ऋणमोक्षं कपिलेशं पूतिकेशं जलेशयम् ॥
चण्डार्कयमतीर्थञ्च कह्लोडीशञ्च नान्दिकम् ।
नारायणञ्च कोटीशं व्यासतीर्थं प्रभासिकम् ॥
नागेशं सङ्कर्षणकं मन्मथेश्वरतीर्थकम् ।
एरण्डीसङ्गमं पुण्यं सुवर्णाशिलतीर्थकम् ॥
करञ्जं कामहं तीर्थं भाण्डीरं रोहिणीमवम् ।
चक्रतीर्थं धौतपापं स्कान्दमाङ्गिरसाह्वयम् ॥
कोटितीर्थमयोन्याख्यमङ्गाराख्यं त्रिलोचनम् ।
इन्द्रेशं कम्बुकेशञ्च सोमेशं कोहनेशकम् ॥
नार्म्मदं चार्कमाग्नेयं भार्गवेश्वरसत्तमम् ।
ब्राह्मं दैवञ्च भागेशमादिवाराहणं कवे ॥
रामेशमथ सिद्धेशमाहल्यं कङ्कटेश्वरम् ।
शाक्रं सौम्यञ्च नान्देशं तापेशं रुक्मिणीभवम् ॥
योजनेशं वराहेशं द्वादशीशिवतीर्थके ।
सिद्धेशं मङ्गलेशञ्च लिङ्गवाराहतीर्थकम् ॥
कुण्डेशं श्वेतवाराहं भार्गवेशं रवीश्वरम् ।
शुक्लादीनि च तीर्थानि हूँकारस्वामितीर्थकम् ॥
सङ्गमेशं नारकेशं मोक्षं सार्पञ्च गोपकम् ।
नागं शाम्बञ्च सिद्धेशं मार्कण्डाक्रूरतीर्थके ॥
कामोदशूलारोपाख्ये माण्डव्यं गोपकेश्वरम् ।
कपिलेशं पिङ्गलेशं भूतेशं गाङ्गगौतमे ॥
आश्वमेधं भृगुकच्छं केदारेशञ्च पापनुत् ।
खनखलेशं जालेशं शालग्रामं वराहकम् ॥
चन्द्रप्रभासमादित्यं श्रीपत्याख्यञ्च हंसकम् ।
मूलस्थानञ्च शूलेशमाग्नायाचित्रदैवकम् ॥
शिखीशं कोटितीर्थञ्च दशकन्यं सुवर्णकम् ।
ऋणमोक्षं भारभूतिरत्रास्ते पुंखमुण्डिमम् ॥
आमलेशं कपालेशं शृङ्गेरण्डीभवन्ततः ।
कोटितीर्थं लोटनेशं फलस्तुतिरतः परम् ॥
दृमिजङ्गलमाहात्म्ये रोहिताश्वकथा ततः ।
धुन्धुमारसमाख्यानं वधोपायस्ततोऽस्य च ॥
वधो धुन्धोस्ततः पश्चात् ततश्चित्रवहोद्भवः ।
महिमास्य ततश्चण्डीशप्रभावो रतीश्वरः ॥
केदारेशो लक्षतीर्थं ततो विष्णुपदीभवम् ।
मुखारं च्यवनान्धाख्यं ब्रह्मणश्च सरस्ततः ॥
चक्राख्यं ललिताख्यानं तीर्थञ्च बहुगोमथम् ।
रुद्रावर्त्तञ्च मार्कण्डं तीर्थं पापप्रणाशनम् ॥
रावणेशं शुद्धपटं देवान्धुप्रेततीर्थकम् ।
जिह्वोदतीर्थसम्भूतिः शिवोद्भेदं फलस्तुतिः ॥
एष खण्डो ह्यवन्त्याख्यः शृण्वतां पापनाशनः ॥
षष्ठे नागरखण्डे ।
“अतः परं नागराख्यः खण्डः षष्ठोऽभिधीयते ॥
लिङ्गोत्पत्तिसमाख्यानं हरिश्चन्द्रकथा शुभा ।
विश्वामित्रस्य माहात्म्यं त्रिशङ्कुस्वर्गतिस्तथा ॥
हाटकेश्वरमाहात्म्ये वृत्रासुरवधस्तथा ।
पृष्ठ ३/१८७
नागविलं शङ्खतीर्थमचलेश्वरवर्णनम् ॥
चमत्कारपुराख्यानं चमत्कारकरं परम् ।
गयशीर्षं बालशाख्यं बालमण्डं मृगाह्वयम् ॥
विष्णुपादञ्च गोकर्णं युगरूपं समाश्रयः ।
सिद्धेश्वरं नागसरः सप्तार्षेयं ह्यगस्त्यकम् ॥
भ्रूणगर्त्तं नलेशञ्च भीष्मं दूर्व्वैरमर्ककम् ।
सार्म्मिष्ठं शोभनाथञ्च दौर्गमानर्जकेश्वरम् ॥
जमदग्निवधाख्यानं नैःक्षत्त्रियकथानकम् ।
रामह्नदं नागपुरं जडलिङ्गञ्च यज्ञभूः ॥
मुण्डीरादित्रिकार्कञ्च सतीपरिणयस्तथा ।
वालखिल्यञ्च यागेशं वालखिल्यञ्च गारुडम् ॥
लक्ष्मीशापः साप्तविंशः सोमप्रासादमेव च ।
अम्बावृद्धं पादुकाख्यमाग्नेयं ब्रह्मकुण्डकम् ॥
गोमुखं लोहयष्ट्याख्यमजापालेश्वरी तथा ।
शानैश्चरं राजवापी रामेशो लक्ष्मणेश्वरः ॥
कुशेशाख्यं लवेशाख्यं लिङ्गं सर्व्वोत्तमोत्तमम् ।
अष्टषष्टिसमाख्यानं दमयन्त्यास्त्रिजातकम् ॥
ततोऽम्बा रेवती चात्र भट्टिकातीर्थसम्भवम् ।
क्षेमङ्करी च केदारं शुक्लतीर्थं मुखारकम् ॥
सत्यसन्धेश्वराख्यानं तथा कर्णोत्पलाकथा ।
अटेश्वरं याज्ञवल्क्यं गौर्य्यं गाणेशमेव च ॥
ततो वास्तुपदाख्यानमजागहकथानकम् ॥
सौभाग्यान्धुकशूलेशं धर्म्मराजकथानकम् ।
मिष्टाम्रदेश्वराख्यानं गाणपत्यत्रयं ततः ॥
जावालिचरितञ्चैव मकरेशकथा ततः ।
कालेश्वर्य्यन्धकाख्यानं कुण्डमाप्सरसन्तथा ॥
पुष्यादियं रौहिताश्वं नागरोत्पत्तिकीर्त्तनम् ।
भार्गवं चरितं चैव वैश्वामैत्रं ततः परम् ॥
सारस्वतं पैप्पलादं कंसारीशञ्च पैण्डिकम् ।
ब्रह्मणो यज्ञचरितं सावित्र्याख्यानसंयुतम् ॥
रैवतं भर्त्तृयज्ञाख्यं मुख्यतीर्थनिरीक्षणम् ।
कौरवं हाटकेशाख्यं प्रभासं क्षेत्रकत्रयम् ॥
पौष्करं नैमिषं धार्म्ममरण्यत्रितयं स्मृतम् ।
वाराणसी द्वारकाख्यावन्त्याख्येति पुरीत्रयम् ॥
वृन्दावनं खाण्डवाख्यमद्वैकाख्यं वनत्रयम् ।
कल्पः शालस्तथा नन्दो ग्रामत्रयमनुत्तमम् ॥
असिशुक्लपितृसंज्ञं तीर्थत्रयमुदाहृतम् ।
श्र्यर्व्वुदौ रैवतश्चैव पर्व्वतत्रयमुत्तमम् ॥
नदीनां त्रितयं गङ्गा नर्म्मदा च सरस्वती ।
सार्द्धकोटित्रयफलमेकैकञ्चैषु कीर्त्तितम् ॥
कूपिका शङ्खतीर्थञ्चामरकं बालमण्डनम् ।
हाटकेशक्षेत्रफलप्रदं प्रोक्तं चतुष्टयम् ॥
शाम्बादित्यं श्राद्धकल्पं यौधिष्ठिरमथान्धकम् ।
जलशायि चतुर्म्मास्यमशून्यशयनव्रतम् ॥
मङ्कणेशं शिवरात्रिस्तुलापुरुषदानकम् ।
पृथ्वीदानं वाणकेशं कपालमोचनेश्वरम् ॥
पापपिण्डं साप्तलैङ्गं युगमानादिकीर्त्तनम् ।
निम्बेशशाकम्भर्य्याख्या रुद्रैकादशकीर्त्तनम् ॥
दानमाहात्म्यकथनं द्वादशादित्यकीर्त्तनम् ।
इत्येष नागरः खण्डः प्रभासाख्योऽधुनोच्यते ॥”
सप्तमे प्रभासखण्डे ।
“सोमेशो यत्र विश्वेशोऽर्कस्थलं पुण्यदं महत् ।
सिद्धेश्वरादिकाख्यानं पृथगत्र प्रकीर्त्तितम् ॥
अग्नितीर्थं कपर्द्दीशं केदारेशं गतिप्रदम् ।
भीमभैरवचण्डीशभास्कराङ्गारकेश्वराः ॥
बुधेज्यभृगुसौरेन्दुशिखीशा हरविग्रहाः ।
सिद्धेश्वराद्याः पञ्चान्येरुद्रास्तत्र व्यवस्थिताः ॥
वरारोहा ह्यजापाला मङ्गला ललितेश्वरी ।
लक्ष्मीशो वाडवेशश्चार्घीशः कामेश्वरस्तथा ॥
गौरीशवरुणेशाख्यमुषीशञ्च गणेश्वरम् ।
कुमारेशञ्च शाकल्यं शकुलोतङ्कगौतमम् ॥
दैत्यघ्नेशं चक्रतीर्थं सन्निहत्याह्वयं तथा ।
भूतेशादीनि लिङ्गानि आदिनारायणाह्वयम् ॥
ततश्चक्रधराख्यानं शाम्बादित्यकथानकम् ।
कथा कण्टकशोधिन्या महिषघ्न्यास्ततः परम् ॥
कपालीश्वरकोटीशबालब्रह्माह्वसत्कथा ।
नरकेशसम्बर्त्तेशनिधीश्वरकथा ततः ॥
बलभद्रेश्वरस्याथ गङ्गाया गणपस्य च ।
जाम्बवत्याख्यसरितः पाण्डुकूपस्य सत्कथा ॥
शतमेधलक्षमेधकोटिमेधकथा तथा ।
दुर्व्वासार्कयदुस्थानहिरण्यासङ्गमोत्कथा ॥
नगरार्कस्य कृष्णस्य सङ्कर्षणसमुद्रयोः ।
कुमार्य्याः क्षेत्रपालस्य ब्रह्मेशस्य कथा पृथक् ॥
पिङ्गलासङ्गमेशस्य शङ्करार्कघटेशयोः ।
ऋषितीर्थस्य नन्दार्कत्रितकूपस्य कीर्त्तनम् ॥
शशोपानस्य पर्णार्कन्यङ्कुमन्त्योः कथाद्भुता ।
वाराहस्वामिवृत्तान्तं छायालिङ्गाख्यगुल्फयोः ॥
कथा कनकनन्दायाः कुन्तीगङ्गेशयोस्तथा ।
चमसोद्भेदविदुरत्रिलोकेशकथा ततः ॥
मङ्कणेशत्रैपुरेशषण्डतीर्थकथा तथा ।
सूर्य्यप्राचीत्रीक्षणयोरुमानाथकथा तथा ॥
भूद्धारशूलस्थलयोश्च्यवनार्केशयोस्तथा ।
अजापालेशबालार्ककुवेरस्थलजा कथा ॥
ऋषितोयाकथा पुण्या सङ्गालेश्वरकीर्त्तनम् ।
नारदादित्यकथनं नारायणनिरूपणम् ॥
तप्तकुण्डस्य माहात्म्यं मूलचण्डीशवर्णनम् ।
चतुर्व्वक्त्रगणाध्यक्षकलम्बेश्वरयोः कथा ॥
गोपालस्वामिवकुलस्वामिनोर्म्मरुतीकथा ।
क्षेमार्कोन्नतविघ्नेशजलस्वामिकथा ततः ॥
कालमेघस्य रुक्मिण्या ऊर्व्वशीश्वरभद्रयोः ।
शङ्खावर्त्तमोक्षतीर्थगोष्पदाच्युतसद्मनाम् ॥
जालेश्वरस्य हूँकारकूपचण्डीशयोः कथा ।
आशापुरस्थविघ्नेशकलाकुण्डकथाद्भुता ॥
कपिलेशस्य च कथा जरद्गवशिवस्य च ।
नलकर्कोटेश्वरयोर्हाटकेश्वरजा कथा ॥
नारदेशमन्त्रभूषा दुर्गकूटगणेशजा ।
सुपर्णेलाख्यभैरव्योर्भल्लतीर्थभवा कथा ॥
कीर्त्तनं कर्द्दमालस्य गुप्तसोमेश्वरस्य च ॥
बहुस्वर्णेशशृङ्गेशकोटीश्वरकथा ततः ॥
मार्कण्डेश्वरकोटीशदामोदरगृहोत्कथा ।
स्वर्णरेखा ब्रह्मकुण्डं कुन्तीभीमेश्वरौ तथा ॥
मृगीकुण्डञ्च सर्व्वस्वं क्षेत्रे वस्त्रापथे स्मृतम् ।
दुत्राविल्वेशगङ्गेशरैवतानां कथाद्भुता ॥
ततोऽर्व्वुदे श्वभ्रकथा अचलेश्वरकीर्त्तनम् ।
नागतीर्थस्य च कथा वशिष्ठाश्रमवर्णनम् ॥
भद्रंकर्णस्य माहात्म्यं त्रिनेत्रस्य ततः परम् ।
केदारस्य च माहात्म्यं तीर्थागमनकीर्त्तनम् ॥
कोटीश्वररूपतीर्थहृषीकेशकथा ततः ।
सिद्धेशशुक्रेश्वरयोर्म्मणिकर्णीशकीर्त्तनम् ॥
पङ्गुतीर्थयमतीर्थवाराहतीर्थवर्णनम् ।
चन्द्रप्रभासपिण्डोदश्रीमाताशुक्लतीर्थजम् ॥
कात्यायन्याश्च माहात्म्यं ततः पिण्डारकस्य च ।
ततः कनखलस्याथ चक्रमानुषतीर्थयोः ॥
कपिलाग्नितीर्थकथा तथा रक्तानुबन्धजा ।
गणेशपार्थेश्वरयोर्यात्रायामुद्गलस्य च ॥
चण्डीस्थानं नागभवशिरःकुण्डमहेशजा ।
कामेश्वरस्य मार्कण्डेयोत्पत्तेश्च कथा ततः ॥
उद्दालकेशसिद्धेशगततीर्थकथा पृथक् ।
श्रीदेवमातोत्पत्तिश्च व्यासगौतमतीर्थयोः ॥
कुलसन्तारमाहात्म्यं रामकोट्याह्वतीर्थयोः ।
चन्द्रोद्भेदेशानशृङ्गब्रह्मस्थानोद्भवोहनम् ॥
त्रिपुष्कररुद्रह्नदगुहेश्वरकथा शुभा ।
अविमुक्तस्य माहात्म्यमुमामाहेश्वरस्य च ॥
महौजसः प्रभावश्च जम्बुतीर्थस्य वर्णनम् ।
गङ्गाधरमिश्रकयोः कथा चाथ फलस्तुतिः ॥
द्बारकायाश्च माहात्म्ये चन्द्रशर्म्मकथानकम् ।
जागराद्याख्यव्रतञ्च व्रतमेकादशीभवम् ॥
महाद्वादशिकाख्यानं प्रह्लादर्षिसमागमः ।
दुर्व्वासस उपाख्यानं यात्रोपक्रमकीर्त्तनम् ॥
गोमत्युत्पत्तिकथनं तस्यां स्नानादिजं फलम् ।
चक्रतीथस्य माहात्म्यं गोमत्युदधिसङ्गमः ॥
सनकादिह्नदाख्यानं नृगतीर्थकथा ततः ।
गोप्रचारकथा पुण्या गोपीनां द्वारकागमः ॥
गोपीसरःसमाख्यानं ब्रह्मतीर्थादिकीर्त्तनम् ।
पञ्चनद्यागमाख्यानं नानाख्यानसमाचितम् ॥
शिवलिङ्गमहातीर्थकृष्णपूजादिकीर्त्तनम् ।
त्रिविक्रमस्य मूर्त्त्याख्या दुर्व्वासःकृष्णसंकथा ॥
कुशदैत्यवधोऽर्च्चाख्या विशेषार्च्चनजं फलम् ।
गोमत्यां द्वारकायाञ्च तीर्थागमनकीर्त्तनम् ॥
कृष्णमन्दिरसंप्रेक्षा द्वारवत्यभिषेचनम् ।
तत्र तीर्थावासकथा द्वारकापुण्यकीर्त्तनम् ॥
इत्येष सप्तमः प्रोक्तः खण्डः प्राभासिको द्विज ! ।
स्कान्दे सर्व्वोत्तरकथा शिवमाहात्म्यवर्णने ॥”
तत्फलश्रुतिः ।
“लिखित्वैतत्तु यो दद्याद्धेमशूलसमाचितम् ।
माघ्यां सत्कृत्य विप्राय स शैवे मोदते पदे ॥”
इति श्रीनारदीयपुराणे पूर्ब्बभागे बृहदुपाख्याने
चतुर्थपादे १०४ अध्यायः ॥ १३ ॥
चतुर्द्दशं वामनपुराणम् ।
श्रीबह्मोवाच ।
“शृणु वत्स ! प्रवक्ष्यामि पुराणं वामनाभिधम् ।
त्रिविक्रमचरित्राढ्यं दशसाहस्रसङ्ख्यकम् ॥
कूर्म्मकल्पसमाख्यानं वर्गत्रयकथानकम् ।
भागद्वयसमायुक्तं वक्तृश्रोतृशुभावहम् ॥” * ॥
तत्र पूर्ब्बभागे ।
“पुराणप्रश्नः प्रथमं ब्रह्मशीर्षच्छिदा ततः ।
पृष्ठ ३/१८८
कपालमोचनाख्यानं दक्षयज्ञविहिंसनम् ॥
हरस्य कालरूपाख्या कामस्य दहनं ततः ।
प्रह्लादनारायणयोर्युद्धं देवासुराह्वयम् ॥
सुकेश्यर्कसमाख्यानं ततो भुवनकोषकम् ।
ततः काम्यव्रताख्यानं श्रीदुर्गाचरितं ततः ॥
तपतीचरितं पश्चात् कुरुक्षेत्रस्य वर्णनम् ।
सरोमाहात्म्यमतुलं पार्व्वतीजन्मकीर्त्तनम् ॥
तपस्तस्या विवाहश्च गौर्य्युपाख्यानकं ततः ।
ततः कौशिक्युपाख्यानं कुमारचरितं ततः ॥
ततोऽन्धकवधाख्यानं साध्योपाख्यानकं ततः ।
जावालिचरितं पश्चादरजायाः कथाद्भुता ॥
अन्धकेश्वरयोर्युद्धं गणत्वं चान्धकस्य च ।
मरुतां जन्मकथनं वलेश्च चरितं ततः ॥
ततस्तु लक्ष्म्याश्चरितं त्रैविक्रममतः परम् ।
प्रह्लादतीर्थयात्रायां प्रोच्यन्ते तत्कथाः शुभाः ॥
ततश्च धुन्धुचरितं प्रेतोपाख्यानकं ततः ।
नक्षत्रपुरुषाख्यानं श्रीदामचरितं ततः ॥
त्रिविक्रमचरित्रान्ते ब्रह्मप्रोक्तः स्तवोत्तमः ।
प्रह्लादवलिसंवादे सुतले हरिशंसनम् ॥
इत्येष पूर्ब्बभागोऽस्य पुराणस्य तवोदितः ॥”
तदुत्तरे भागे बृहद्वामनाख्ये ।
“शृणु तस्योत्तरं भागं बृहद्वामनसंज्ञकम् ॥
माहेश्वरी भागवती सौरी गाणेश्वरी तथा ।
चतस्रः संहिताश्चात्र पृथक् साहस्रसङ्ख्यया ॥
माहेश्वर्य्यान्तु कृष्णस्य तद्भक्तानाञ्च कीर्त्तनम् ।
भागवत्यां जगन्मातुरवतारकथाद्भुता ॥
सौर्य्यां सूर्य्यस्य महिमा गदितः पापनाशनः ।
गाणेश्वर्य्यां गणेशस्य चरितञ्च महेशितुः ॥
इत्येतद्वामनं नाम पुराणं सुविचित्रकम् ।
पुलस्त्येन समाख्यातं नारदाय महात्मने ॥
ततो नारदतः प्राप्तं व्यासेन सुमहात्मना ।
व्यासात्तु लब्धवान् वत्स ! तच्छिष्यो रोमहर्षणः ॥
स चाख्यास्यति विप्रेभ्यो नैमिषीयेभ्य एव च ।
एवं परम्पराप्राप्तं पुराणं वामनं शुभम् ॥” * ॥
तत्फलश्रुतिः ।
“ये पठन्ति च शृण्वन्ति तेऽपि यान्ति परां गतिम् ।
लिखित्वैतत् पुराणन्तु यः शरद्विषुवेऽर्पयेत् ॥
विप्राय वेदविदुषे घृतधेनुसमाचितम् ।
स समुद्धृत्य नरकान्नयेत् स्वर्गं पितॄन् स्वकान् ।
देहान्ते भुक्तभोगोऽसौ याति विष्णोः परं
पदम् ॥”
इति श्रीनारदीयपुराणे पूर्ब्बभागे बृहदुपाख्याने
चतुर्थपादे १०५ अध्यायः ॥ १४ ॥
पञ्चदशं कूर्म्मपुराणम् ।
श्रीब्रह्मोवाच ।
“शृणु वत्स ! मरीचेऽद्य पुराणं कूर्म्मसंज्ञितम् ।
लक्ष्मीकल्पानुचरितं यत्र कूर्म्मवपुर्हरिः ॥
धर्म्मार्थकाममोक्षाणां माहात्म्यञ्च पृथक् पृथक् ।
इन्द्रद्युम्नप्रसङ्गेन प्राहर्षिभ्यो दयान्तिकम् ॥
तत्सप्तदशसाहस्रं सुचतुःसंहितं शुभम् ।
यत्र ब्राह्म्यां पुरा प्रोक्ता धर्म्मा नानाविधा मुने ! ॥
नानाकथाप्रसङ्गेन नृणां सद्गतिदायकाः ॥” * ॥
तत्पूर्ब्बभागे ।
“तत्र पूर्ब्बविभागे तु पुराणोपक्रमः पुरा ।
लक्ष्मीप्रद्युम्नसंवादः कूर्म्मर्षिगणसङ्कथा ॥
वर्णाश्रमाचारकथा जगदुत्पत्तिकीर्त्तनम् ।
कालसङ्ख्या समासेन लयान्ते स्तवनं विभोः ॥
ततः सङ्क्षेपतः सर्गः शाङ्करं चरितं तथा ।
सहस्रनाम पार्व्वत्या योगस्य च निरूपणम् ॥
भृगुवंशसमाख्यानं ततः स्वायम्भुवस्य च ।
देवादीनां समुत्पत्तिर्दक्षयज्ञाहतिस्ततः ॥
दक्षसृष्टिकथा पश्चात् कश्यपान्वयकीर्त्तनम् ।
आत्रेयवंशकथनं कृष्णस्य चरितं शुभम् ॥
मार्कण्डकृष्णसंवादो व्यासपाण्डवसंकथा ।
युगधर्म्मानुकथनं व्यासजैमिनिकी कथा ॥
वाराणस्याश्च माहात्म्यं प्रयागस्य ततः परम् ।
त्रैलोक्यवर्णनञ्चैव वेदशाखानिरूपणम् ॥” * ॥
तदुत्तरभागे ।
“उत्तरेऽस्य विभागे तु पुरा गीतैश्वरी ततः ।
व्यासगीता ततः प्रोक्ता नानाधर्म्मप्रबोधनी ॥
नानाविधानां तीर्थानां माहात्म्यञ्च पृथक्
ततः ।
नानाधर्म्मप्रकथनं ब्राह्मीयं संहिता स्मृता ॥
अतः परं भगवती संहितार्थनिरूपणे ।
कथिता यत्र वर्णानां पृथग्वृत्तिरुदाहृता ॥”
तदुत्तरभागीयभगवत्याख्यद्वितीयसंहितायाः
पञ्चपादेषु ।
“पादेऽस्याः प्रथमे प्रोक्ता ब्राह्मणानां व्यव-
स्थितिः ।
सदाचारात्मिका वत्स ! भोगसौख्यविवर्द्धनी ॥
द्वितीये क्षत्त्रियाणान्तु वृत्तिः सम्यक् प्रकी-
र्त्तिता ।
यया त्वाश्रितया पापं विधूयेह व्रजेद्दिवम् ॥
तृतीये वैश्यजातीनां वृत्तिरुक्ता चतुर्व्विधा ।
यया चरितया सम्यक् लभते गतिमुत्तमाम् ॥
चतुर्थेऽस्यास्तथा पादे शूद्रवृत्तिरुदाहृता ।
यया सन्तुष्यति श्रीशो नृणां श्रेयोविवर्द्धनः ॥
पञ्चमेऽस्यास्ततः पादे वृत्तिः सङ्करजोदिता ।
यया चरितयाप्नोति भाविनीमुत्तमां जनिम् ॥
इत्येषा पञ्चपद्युक्ता द्बितीया संहिता मुने ! ।
तृतीयात्रोदिता सौरी नृणां कामविधायिनी ॥
षोढा षट्कर्म्मसिद्धिं सा बोधयन्ती च कामि-
नाम् ।
चतुर्थी वैष्णवी नाम मोक्षदा परिकीर्त्तिता ॥
चतुष्पदी द्विजादीनां साक्षाद्ब्रह्मस्वरूपिणी ।
ताः क्रमात् षट्चतुर्द्द्वीषुसाहस्राः परि-
कीर्त्तिताः ॥”
तत्फलश्रुतिः ।
“एतत्कूर्म्मपुराणन्तु चतुर्व्वर्गफलप्रदम् ।
पठतां शृण्वतां नॄणां सर्व्वोत्कृष्टगतिप्रदम् ॥
लिखित्वैतत्तु यो भक्त्या हेमकूर्म्मसमन्वितम् ।
ब्राह्मणायायने दद्यात् स याति परमां गतिम् ॥”
इति श्रीनारदीयपुराणे पूर्ब्बभागे बृहदुपाख्याने
चतुर्थपादे १०६ अध्यायः ॥ १५ ॥
षोडशं मत्स्यपुराणम् ।
श्रीब्रह्मोवाच ।
“अथ मात्स्यं पुराणं ते प्रवक्ष्ये द्बिजसत्तम ! ।
यत्रोक्तं सत्यकल्पानां वृत्तं सङ्क्षिप्य भूतले ॥
व्यासेन वेदविदुषा नरसिंहोपवर्णनम् ।
उपक्रम्य तदुद्दिष्ठं चतुर्द्दशसहस्रकम् ॥
मनुमत्स्यसुसंवादो ब्रह्माण्डवर्णनन्ततः ।
ब्रह्मदेवासुरोत्पत्तिर्म्मारुतोत्पत्तिरेव च ॥
मदनद्वादशी तद्वत् लोकपालाभिपूजनम् ।
मन्वन्तरसमुद्देशो वैश्याराज्याभिवर्णनम् ॥
सूर्य्यवैवस्वतोत्पत्तिर्व्वधसङ्गमनं तथा ।
पितृवंशानुकथनं श्राद्धकालस्तथैव च ॥
पितृतीर्थप्रचारश्च सोमोत्पत्तिस्तथैव च ।
कीर्त्तनं सोमवंशस्य ययातिचरितं तथा ॥
कार्त्तवीर्य्यस्य चरितं सृष्टं वंशानुकीर्त्तनम् ।
मृगुशापस्तथा विष्णोर्दशधा जन्म च क्षितौ ॥
कीर्त्तनं पुरुवंशस्य वंशो हौताशनः परः ।
क्रियायोगस्ततः पश्चात् पुराणं परिकीर्त्तितम्
व्रतं नक्षत्रपुरुषं मार्त्तण्डशयनं तथा ।
कृष्णाष्टमीव्रतं तद्वद्रोहिणीचन्द्रसंज्ञितम् ॥
तडागविधिमाहात्म्यं पादपोत्सर्ग एव च ।
सौभाम्यशयनं तद्वदगस्त्यव्रतमेव च ॥
तथानन्ततृतीयाया रसकल्याणिनीव्रतम् ।
तथैवानन्दकर्य्याश्च व्रतं सारस्वतं पुनः ॥
उपरागाभिषेकश्च सप्तमीशयनं तथा ।
भीमाख्या द्वादशी तद्वदनङ्गशयनं तथा ॥
अशून्यशयनं तद्वत् तथैवाङ्गारकव्रतम् ।
सप्तमीसप्तकं तद्वद्बिशोकद्वादशीव्रतम् ॥
मेरुप्रदानं दशधा ग्रहशान्तिस्तथैव च ।
ग्रहस्वरूपकथनं तथा शिवचतुर्द्दशी ॥
तथा सर्व्वफलत्यागः सूर्य्यवारव्रतं तथा ।
संक्रान्तिस्नपनं तद्वद्विभूतिद्वादशीव्रतम् ॥
षष्टिव्रतानां माहात्म्यं तथा स्नानविधिक्रमः ।
प्रयागस्य तु माहात्म्यं द्वीपलोकानुवर्णनम् ॥
तथान्तरीक्षचारश्च ध्रुवमाहात्म्यमेव च ।
भवनानि सुरेन्द्राणां त्रिपुरोद्योतनं तथा ॥
पितृप्रवरमाहात्म्यं मन्वन्तरविनिर्णयः ।
चतुर्युगस्य सम्मूतिर्युगधर्म्मनिरूपणम् ॥
वज्राङ्गस्य तु सम्भूतिस्तारकोत्पत्तिरेव च ।
तारकासुरमाहात्म्यं ब्रह्मदेवानुकीर्त्तनम् ॥
पार्व्वतीसम्भवस्तद्वत्तथा शिवतपोवनम् ।
अनङ्गदेहदाहश्च रतिशोकस्तथैव च ॥
गौरीतपोवनं तद्बच्छिवेनाथ प्रसादनम् ।
पार्व्वतीऋषिसंवादस्तथैवोद्वाहमङ्गलम् ॥
कुमारसम्भवस्तद्बत् कुमारविजयस्तथा ।
तारकस्य वधो घोरो नरसिं होपवर्णनम् ॥
पद्मोद्भवविसर्गस्तु तथैवान्धकघातनम् ।
वाराणस्यास्तु माहात्म्यं नर्म्मदायास्तथैव च
प्रवरानुक्रमस्तद्वत् पितृगाथानुकीर्त्तनम् ।
तथोभयमुखीदानं दानं कृष्णाजिनस्य च ॥
ततः सावित्र्युपाख्यानं राजधर्म्मास्तथैव च ।
विविधोत्पातकथनं ग्रहशान्तिस्तथै च ॥
पृष्ठ ३/१८९
यात्रानिमित्तकथनं स्वप्नमङ्गलकीर्त्तनम् ॥
वामनस्य तु माहात्म्यं वाराहस्य ततः परम् ॥
समुद्रमथनं तद्वत् कालकूटाभिशान्तनम् ।
देवासुरविमर्दश्च वास्तुविद्या तथैव च ॥
प्रतिमालक्षणं तद्वद्देवतास्थापनं तथा ।
प्रासादलक्षणं तद्वन्मण्डपानाञ्च लक्षणम् ॥
भविष्यराज्ञामुद्देशो महादानानुकीर्त्तनम् ।
कल्पानुकीर्त्तनं तद्बत् पुराणेऽस्मिन् प्रकीर्त्तितम् ॥”
तत्फलश्रुतिः ।
“पवित्रमेतत् कल्याणमायुःकीर्त्तिविवर्द्धनम् ।
यः पठेच्छृणुयाद्वापि स याति भवनं हरेः ॥
लिखित्वैतत्तु यो दद्याद्धेममत्स्यगवाचितम् ।
विप्रायाभ्यर्च्च्य विषुवे स याति परमं पदम् ॥”
इति श्रीनारदीयपुराणे पूर्ब्बभागे बृहदुपाख्याने
चतुर्थपादे १०७ अध्यायः ॥ १६ ॥
सप्तदशं गुरुडपुराणम् ।
श्रीब्रह्मोवाच ।
“मरीचे शृणु वच्म्यद्य पुराणं गारुडं शुभम् ।
गरुडायाब्रवीत् पृष्टो भगवान् गरुडासनः ॥
एकोनविंशसाहस्रं तार्क्ष्य कल्पकथाचितम् ॥”
तत्र पूर्ब्बखण्डे ।
“पुराणोपक्रमो यत्र सर्गसङ्क्षेपतस्ततः ।
सूर्य्यादिपूजनविधिर्दीक्षाविधिरतः परम् ॥
श्र्यादिपूजा ततः पश्चान्नवव्यूहार्च्चनं द्बिज ! ।
पूजाविधानञ्च तथा वैष्णवं पञ्जरं ततः ॥
योगाध्यायस्ततो विष्णोर्नामसाहस्रकीर्त्तनम् ।
ध्यानं विष्णोस्ततः सूर्य्यपूजा मृत्युञ्जयार्च्चनम् ॥
मालामन्त्राः शिवार्च्चाथ गणपूजा ततः परम् ।
गोपालपूजा त्रैलोक्यमोहनश्रीधरार्च्चनम् ॥
विष्ण्वर्च्चा पञ्चतत्त्वार्च्चा चक्रार्च्चा देवपूजनम् ।
न्यासादिसन्ध्योपास्तिश्च दुगार्च्चाथ सुरार्च्चनम् ॥
पूजा माहेश्वरी चातः पवित्रारोहणार्च्चनम् ।
मूर्त्तिध्यानं वास्तुमानं प्रासादानाञ्च लक्षणम् ॥
प्रतिष्ठा सर्व्वदेवानां पृथक्पूजाविधानतः ।
योगोऽष्टाङ्गो दानधर्म्मः प्रायश्चित्तं निधिक्रिया ॥
द्वीपेशनरकाख्यानं सूर्य्यव्यूहश्च ज्योतिषम् ।
सामुद्रिकं स्वरज्ञानं नवरत्नपरीक्षणम् ॥
माहात्म्यमथ तीर्थानां गयामाहात्म्यमुत्तमम् ।
ततो मन्वन्तराख्यानं पृथक् पृथक्विभागशः ॥
पित्राख्यानं वर्णधर्म्मा द्रव्यशुद्धिः समर्पणम् ।
श्राद्धं विनायकस्यार्च्चा ग्रहयज्ञस्तथाश्रमाः ॥
मननाख्या प्रेताशौचं नीतिसारो व्रतोक्तयः ।
सूर्य्यवंशः सोमवंशोऽवतारकथनं हरेः ॥
रामायणं हरिवंशो भारताख्यानकन्ततः ।
आयुर्व्वेदे निदानं प्राक् चिकित्साद्रव्यजा गुणाः ॥
रोगघ्नं कवचं विष्णोर्गारुडं त्रैपुरो मनुः ।
प्रश्नचूडामणिश्चान्ते हयायुर्व्वेदकीर्त्तनम् ॥
औषधीनामकथनं ततो व्याकरणोहनम् ।
छन्दःशास्त्रं सदाचारस्ततः स्नानविधिः स्मृतः ॥
तर्पणं वैश्यदेवञ्च सन्ध्या पार्व्वणकर्म्म च ।
नित्यश्राद्धं सपिण्डाख्यं धर्म्मसारोऽघनिष्कृतिः ॥
प्रतिसंक्रम उक्तोऽस्माद्युगधर्म्माः कृतेः फलम् ।
योगशास्त्रं विष्णुभक्तिर्नमस्कृतिफलं हरेः ॥
माहात्म्यं वैष्णवञ्चाथ नारसिंहस्तवोत्तमम् ।
ज्ञानामृतं गुह्याष्टकं स्तोत्रं विष्ण्वर्च्चनाह्वयम् ॥
वेदान्तसाङ्ख्यसिद्धान्तं ब्रह्मज्ञानं तथात्मकम् ।
गीतासारफलोत्कीर्त्तिः पूर्ब्बखण्डोऽयमीरितः ॥”
उत्तरखण्डे प्रेतकल्पे ।
“अथास्यैवोत्तरे खण्डे प्रेतकल्पः पुरोदितः ।
यत्र तार्क्षेण संपृष्टो भगवानाह वाडव ! ॥
धर्म्मप्रकटनं पूर्ब्बयोनीनां गतिकारणम् ।
दानाधिकं फलञ्चापि प्रोक्तमत्रौर्द्ध्वदेहिकम् ॥
यमलोकस्य मार्गस्य वर्णनञ्च ततः परम् ।
षोडशश्राद्धफलकं वृत्तानाञ्चात्र वर्णितम् ॥
निष्कृतिर्यममार्गस्य धर्म्मराजस्य वैभवम् ।
प्रेतपीडाविनिर्द्देशः प्रेतचिह्ननिरूपणम् ॥
प्रेतानां चरिताख्यानं कारणं प्रेततां प्रति ।
प्रेतकृत्यविचारश्च सपिण्डीकरणोक्तयः ॥
प्रेतत्वमोक्षणाख्यानं दानानि च विमुक्तये ।
आवश्यकोत्तमं दानं प्रेतसौख्यकरं हितम् ॥
शारीरकविनिर्द्देशो यमलोकस्य वर्णनम् ।
प्रेतत्वोद्धारकथनं कर्म्मकर्त्तृविनिर्णयः ॥
मृत्योः पूर्ब्बक्रियाख्यानं पश्चात् कर्म्मनिरूपणम् ।
मध्यं षोडशकं श्राद्धं स्वर्गप्राप्तिक्रियोहनम् ॥
सूतकस्याथ सङ्ख्यानं नारायणवलिक्रिया ।
वृषोत्सर्गस्य माहात्म्यं निषिद्धपरिवर्ज्जनम् ॥
अपमृत्युक्रियोक्तिश्च विपाकः कर्म्मणां नृणाम् ।
कृत्याकृत्यविचारश्च विष्णुध्यानं विमुक्तये ॥
स्वर्गतौ विहिताख्यानं स्वर्गसौख्यनिरूपणम् ।
भूर्लोकवर्णनञ्चैव सप्तधा लोकवर्णनम् ॥
पञ्चोर्द्ध्वलोककथनं ब्रह्माण्डस्थितिकीर्त्तनम् ।
ब्रह्माण्डानेकचरितं ब्रह्मजीवनिरूपणम् ॥
आत्यन्तिकलयाख्यानं फलस्तुतिनिरूपणम् ।
इत्येतद्गारुडं नाम पुराणं भुक्तिमुक्तिदम् ॥”
तत्फलश्रुतिः ।
“कीर्त्तितं पापशमनं पठतां शृण्वतां नृणाम् ।
लिखित्वैतत् पुराणन्तु विषुवे यः प्रयच्छति ॥
सौवर्णं हंसयुग्माढ्यं विप्राय स दिवं व्रजेत् ॥” * ॥
इति श्रीनारदीयपुराणे पूब्बभागे बृहदुपाख्याने
चतुर्थपादे १०८ अध्यायः ॥ १७ ॥
अष्टादशं ब्रह्माण्डपुराणम् ।
श्रीब्रह्मोवाच ।
“शृणु वत्स ! प्रवक्ष्यामि ब्रह्माण्डाख्यं पुरातनम् ।
यच्च द्वादशसाहस्रं भाविकल्पकथायुतम् ॥
प्रकृयाख्योऽनुषङ्गाख्य उपोद्घातस्तृतीयकः ।
चतुर्थ उपसंहारः पादाश्चत्वार एव हि ॥
पूर्ब्बपादद्वयं पूर्ब्बो भागोऽत्र समुदाहृतः ।
तृतीयो मध्यमो भागश्चतुर्थस्तूत्तरो मतः ॥” * ॥
तत्र पूर्ब्बभागे प्रक्रियापादे ।
“आदौ कृत्यसमुद्देशो नैमिषाख्यानकं ततः ।
हिरण्यगर्भोत्पत्तिश्च लोककल्पनमेव च ॥
एष वै प्रथमः पादो द्वितीयं शृणु मानद ! ॥”
पूर्ब्बभागे अनुषङ्गपादे ।
“कल्पमन्वन्तराख्यानं लोकज्ञानं ततः परम् ।
मानसीसृष्टिकथनं रुद्रप्रसववर्णनम् ॥
महादेवविभूतिश्च ऋषिसर्गस्ततः परम् ।
अग्नीनां विचयश्चाथ कालसद्भाववर्णनम् ॥
प्रियव्रताचयोद्देशः पृथिव्यायामविस्तरः ।
वर्णनं भारतस्यास्य ततोऽन्येषां निरूपणम् ॥
जम्ब्वादिसप्तद्वीपाख्या ततोऽधोलोकवर्णनम् ।
ऊर्द्ध्वलोकानुकथनं ग्रहचारस्ततः परम् ॥
आदित्यव्यूहकथनं देवग्रहानुकीर्त्तनम् ।
नीलकण्ठाह्वयाख्यानं महादेवस्य वैभवम् ॥
अमावास्यानुकथनं युगतत्त्वनिरूपणम् ।
यज्ञप्रवर्त्तनं चाथ युगयोरन्त्ययोः कृतिः ॥
युगप्रजालक्षणञ्च ऋषिप्रवरवर्णनम् ।
वेदानां व्यसनाख्यानं स्वायम्भुवनिरूपणम् ॥
शेषमन्वन्तराख्यानं पृथिवीदोहनन्ततः ।
चाक्षुषेऽद्यतने सर्गो द्वितीयोऽङ्घ्रिः पुरोदले ॥”
मध्यमभागे उपोद्घातपादे ।
“अथोपोद्घातपादे तु सप्तर्षिपरिकीर्त्तनम् ।
प्राजापत्यचयस्तस्माद्देवादीनां समुद्भवः ॥
ततो जयाभिव्याहारौ मरुदुत्पत्तिकीर्त्तनम् ।
काश्यपेयानुकथनमृषिवंशनिरूपणम् ॥
पितृकल्पानुकथनं श्राद्धकल्पस्ततः परम् ।
वैवस्वतसमुत्पत्तिः सृष्टिस्तस्य ततः परम् ॥
मनुपुत्त्राचयश्चातो गान्धर्व्वस्य निरूपणम् ।
इक्ष्वाकुवंशकथनं वंशोऽत्रेः समहात्मनः ॥
अमावसोराचयश्च रजेश्चरितमद्भुतम् ।
ययातिचरितञ्चाथ यदुवंशनिरूपणम् ॥
कार्त्तवीर्य्यस्य चरितं जामदग्न्यं ततः परम् ।
वृष्णिवंशानुकथनं सगरस्याथ सम्भवः ॥
भार्गवस्यानुचरितं तथा कार्य्यवधाश्रयम् ।
समरस्याथ चरितं भार्गवस्य कथा पुनः ॥
देवासुराहवकथा कृष्णाविर्भाववर्णने ।
इनस्य च स्तवः पुण्यः शुक्रेण परिकीर्त्तितः ॥
विष्णुमाहात्म्यकथनं वलिवंशनिरूपणम् ।
भविष्यराजचरितं संप्राप्तेऽथ कलौ युगे ॥
एवमुद्घातपादोऽयं तृतीयो मध्यमे दले ॥”
उत्तरभागे उपसंहारपादे ।
“चतुर्थमुपसंहारं वक्ष्ये खण्डे तथोत्तरे ।
वैवस्वतान्तराख्यानं विस्तरेण यथातथम् ॥
पूर्ब्बमेव समुद्दिष्टं सङ्क्षेपादिह कथ्यते ।
भविष्याणां मनूनाञ्च चरितं हि ततः परम् ॥
कल्पप्रलयनिर्द्देशः कालमानं ततः परम् ।
लोकाश्चतुर्द्दश ततः कथिता मानलक्षणैः ॥
वर्णनं नरकाणाञ्च विकर्म्माचरणैस्ततः ।
मनोमयपुराख्यानं लयः प्राकृतिकस्ततः ॥
शैवस्याथ पुरस्यापि वर्णनञ्च ततः परम् ।
त्रिविधाद्गुणसम्बन्धाज्जन्तूनां कीर्त्तिता गतिः ।
अनिर्द्देश्याप्रतर्क्यस्य ब्रह्मणः परमात्मनः ।
अन्वयव्यतिरेकाभ्यां वर्णनं हि ततः परम् ॥
इत्येष उपसंहारः पादो वृत्तः स चोत्तरः ।
चतुष्पादं पुराणं ते ब्रह्माण्डं समुदाहृतम् ॥
अष्टादशमनौपम्यं सारात्सारतरं द्विज ! ।
ब्रह्माण्डञ्च चतुर्लक्षं पुराणत्वेन पठ्यते ॥
पृष्ठ ३/१९०
तदेव व्यस्य गदितमत्राष्टादशधा पृथक् ।
पाराशर्य्येण मुनिना सर्व्वेषामपि मानद ! ॥
वस्तुद्रष्ट्राथ तेनैव मुनीनां भावितात्मनाम् ।
मत्तः श्रुत्वा पुराणानि लोकेभ्यः प्रचकाशिरे ॥
मुनयो धर्म्मशीलास्ते दीनानुग्रहकारिणः ।
मया चेदं पुराणन्तु वशिष्ठाय पुरोदितम् ॥
तेन शक्त्रिसुतायोक्तं जातूकर्णाय तेन च ।
व्यासो लब्ध्वा ततश्चैतत् प्रभञ्जनमुखोद्गतम् ॥
प्रमाणीकृत्य लोकेऽस्मिन् प्रावर्त्तयदनुत्तमम् ॥”
तत्फलश्रुतिः ।
“य इदं कीर्त्तयेद्वत्स ! शृणोति च समाहितः ।
स विधूयेह पापानि याति लोकमनामयम् ॥
लिखित्वैतत् पुराणन्तु स्वर्णसिंहासनस्थितम् ।
पत्रेणाच्छादितं यस्तु ब्राह्मणाय प्रयच्छति ॥
स याति ब्रह्मणो लोकं नात्र कार्य्या विचारणा ॥
मरीचेऽष्टादशैतानि मया प्रोक्तानि यानि ते ।
पुराणानि तु सङ्क्षेपाच्छ्रोतव्यानि च विस्तरात् ॥
अष्टादशपुराणानि यः शृणोति नरोत्तमः ।
कथयेद्वा विधानेन नेह भूयः स जायते ॥
सूत्रमेतत् पुराणानां यन्मयोक्तं तवाधुना ।
तन्नित्यं शीलनीयं हि पुराणफलमिच्छता ॥
न दाम्भिकाय पापाय देवगुर्व्वनुसूयवे ।
देयं कदापि साधूनां द्वेषिणे न शठाय च ॥
शान्ताय रामचित्ताय शुश्रूषाभिरताय च ।
निर्म्मत्सराय शुचये देयं सद्वैष्णवाय च ॥”
इति श्रीनारदीयपुराणे पूर्ब्बभागे बृहदुपाख्याने
चतुर्थपादे १०९ अध्यायः ॥ १८ ॥ * ॥
इत्यष्टादशमहापुराणानुक्रमणिका समाप्ता ॥ * ॥
(अष्टादशमहापुराणानां निरुक्तिर्यथा शिव-
पुराणे उत्तरखण्डे मध्यमेश्वरमाहात्म्ये ।
“यत्र वक्ता स्वयं तण्डे ! ब्रह्मा साक्षात् चतु-
र्म्मुखः ।
तस्माद्ब्राह्मं समाख्यातं पुराणं प्रथमं
मुने ! ॥” १ ॥
तण्डे इति मुनिसम्बोधनम् ।
“पद्मकल्पस्य माहात्म्यं तत्र यस्मादुदाहृतम् ।
तस्मात् पाद्मं समाख्यातं पुराणञ्च द्विती-
यकम् ॥ २ ॥
पराशरकृतं यत्तु पुराणं विष्णुबोधकम् ।
तदेव व्यासकथितं पुत्त्रपित्त्रोरभेदतः ॥ ३ ॥
यत्र पूर्ब्बोत्तरे खण्डे शिवस्य चरितं बहु ।
शैवमेतत् पुराणं हि पुराणज्ञा वदन्ति च ॥ ४ ॥
भगवत्याश्च दुर्गायाश्चरितं यत्र विद्यते ।
तत्तु भागवतं प्रोक्तं नतु देवीपुराणकम् ॥ ५ ॥
नारदोक्तं पुराणन्तु नारदीयं प्रचक्षते ॥ ६ ॥
यत्र वक्ताभवत्तण्डे ! मार्कण्डेयो महामुनिः ।
मार्कण्डेयपुराणं हि तदाख्यातञ्च सप्तमम् ॥ ७ ॥
अग्नियोगात्तदाग्नेयं ८ भविष्योक्तेर्भविष्यकम् । ९ ।
विवर्त्तनात् ब्रह्मणस्तु ब्रह्मवैवर्त्तमुच्यते ॥ १० ॥
लिङ्गस्य चरितोक्तत्वात् पुराणं लिङ्गमुच्यते । ११ ।
वराहस्य च वाराहं पुराणं द्वादशं मुने ! ॥ १२ ॥
यत्र स्कन्दः स्वयं श्रोता वक्ता साक्षात् महेश्वरः ।
तत्तु स्कान्दं समाख्यातम् १३ वामनस्य तु
वामनम् ॥ १४ ॥
कौर्म्मं कूर्म्मस्य चरितम् १५ मात्स्यं मत्स्यस्य
कीर्त्तितम् । १६ ।
गरुडस्तु स्वयं वक्ता यत्तद् गारुडसंज्ञ-
कम् ॥ १७ ॥
ब्रह्माण्डचरितोक्तत्वात् ब्रह्माण्डं परिकी-
र्त्तितम् ॥” १८ ॥
पुराभवः वेदः । सृष्ट्यादिप्रतिपादको ग्रन्थः ।
यथा, शतपथब्राह्मणे । १४ । ६ । १० । ६ ।
“ऋग्वेदो यजुर्व्वेदः सामवेदोऽथर्व्वाङ्गिरस
इतिहासः पुराणं विद्या उपनिषदः श्लोकाः
सूत्राण्यनुव्याख्यानानि व्याख्यानानि ॥”
तथा च बृहदारण्यकोपनिषदि ।
“अस्य महतो भूतस्य निश्वसितमेतद् यदृग्वेदो
यजुर्व्वेदः सामवेदोऽथर्व्वाङ्गिरस इतिहासः
पुराणम् ॥”
“इदं वा अग्रेणव किञ्चिदासीदित्यादिकं जगतः
प्रागवस्थामुपक्रम्य सर्गप्रतिपादकं वाक्यजातं
पुराणम् ।” इति ऋग्वेदोपोद्घाते ॥ * ॥)

पुराणः, पुं, (पुरा पुर्ब्बस्मिन् काले भव इति ।

पुरा + “सायंचिरंप्राह्णेप्रगेऽव्ययेभ्यष्ट्युष्ट्युलौ
तुट्च ।” ४ । ३ । २३ । इति ष्ट्युः निपातनात्
तुडभावः ।) पणः । (शिवः । यथा, महा-
भारते । १३ । १७ । १०६ ।
“बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी ॥”)
पुरातने, त्रि । (यथा, मनुः । ५ । २३ ।
“बभूवुर्हि पुरोडाशा भक्ष्याणां मृगपक्षिणाम् ।
पुराणेष्वपि यज्ञेषु ब्रह्मक्षत्रसवेषु च ॥”)
कार्षापणे, पुं, क्ली । इति शब्दरत्नावली ॥
(यथा, मनुः । ८ । १३६ ।
“ते षोडश स्याद्धरणं पुराणञ्चैव राजतम् ।
कार्षापणस्तु विज्ञेयस्ताम्रिकः कार्षिकः पणः ॥”)

पुराणगः, पुं, (पुराणैर्गीयते इति । गै + घजर्थे

कः । यद्बा, पुराणं वेदं गायतीति । गै +
“आतोऽनुपेति ।” ३ । २ । ३ । इति कः ।)
ब्रह्मा । इति हेमचन्द्रः । २ । १२६ ॥ पुराण-
गायके, त्रि ॥

पुराणपुरुषः, पुं, (पुराणैर्वेदादिभिरुपस्तुतः पुरुषः

इति मध्यपदलोपिसमासः । यद्बा, पुराणः
पुरुषः इति कर्म्मधारयः ।) विष्णुः । इति
इति हेमचन्द्रः । २ । १२८ ॥ (यथा, पाद्मो-
त्तरखण्डे १११ अध्याये विष्णोरष्टोत्तरशतनाम-
कीर्त्तने ।
“पुराणपुरुषो नन्दात्मजः श्रीवत्सलाञ्छनः ॥”)

पुरातनः, पुं, (पुरा भवः । पुरा + ष्ट्युस्तुट् च ।)

पुराणः । तद्वैदिकपर्य्यायः । प्रत्नम् १ प्रदिवः
२ प्रवयाः ३ सनेमि ४ पूर्ब्बम् ५ अह्नाय ६ ।
इति षट्पुराणनामानि । इति वेदनिघण्टौ ३
अध्यायः ॥ (विष्णुः । यथा, महाभारते । १३ ।
१४९ । ६६ ।
“उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ॥”)

पुरातनः, त्रि, (पुरा पूर्ब्बस्मिन् काले भवः । पुरा

+ “सायंचिरेति ।” ४ । ३ । २३ । इति ष्ट्युस्तुट्
च ।) पूर्ब्बकालभवः । पुराण इति भाषा ।
तत्पर्य्यायः । पुराणः २ प्रतनः ३ प्रत्नः ४ चिर-
न्तनः ५ । इत्यमरः । ३ । १ । ७७ ॥ चिरत्नः ६ ।
इति जटाधरः ॥ (यदुक्तं नीतिशास्त्रे ।
“नवं वस्त्रं नवं छत्रं नव्या स्त्री नूतनं गृहम् ।
सवत्र नूतनं शस्तं सेवकान्ने पुरातने ॥”)

पुराध्यक्षः, त्रि, (पुरस्य पुराधिकृतो वा अध्यक्षः ।)

नगराधिकृतः । (यथा, महाभारते । १३ ।
१३५ । ११ ।
“चिकित्सकः कान्तपृष्ठः पुराध्यक्षः पुरोहितः ।
सांवत्सरो वृथाध्यायी सर्व्वे ते शूद्रसम्मिताः ॥”)
अन्तःपुराध्यक्षलक्षणम् । यथा, --
“बृद्धः कुलोद्धतः शक्तः पितृपैतामहः शुचिः ।
राज्ञामन्तःपुराध्यक्षो विनीतश्च तथेष्यते ॥”
इति युक्तिकल्पतरुः ॥

पुरारिः, पुं, (पुरस्य त्रिपुरस्य अरिः शत्रुः ।)

शिवः । इति त्रिकाण्डशेषः ॥ (यथा, अध्यात्म-
रामयणे १ । १ । ५ ।
पुरारिगिरिसम्भूता श्रीरामार्णवसङ्गता ।
अध्यात्मरामगङ्गेयं पुणाति भुवनत्रयम् ॥”)

पुरार्द्धविस्तरः, पुं, (पुरार्द्धे पूर्ब्बार्द्धे विस्तरोविस्तृति-

रस्येति ।) खेटः । इति हेमचन्द्रः । ४ । ३८ ॥

पुरावसुः, पुं, (पुरा पूर्ब्बकाले उत्पत्तेः प्रागित्यर्थः

वसुः ।) भीष्मः । इति त्रिकाण्डशेषः ॥

पुरावृत्तं, क्ली, (पुरा पुराणं वृत्तं चरित्रं यत्र ।)

पूर्ब्बवृत्तान्तनिबन्धनम् । तत्पर्य्यायः । इतिहासः
२ । इत्यमरः । १ । ६ । ४ ॥ पूर्ब्बचरितम् ३ ।
इति स्वामी ॥ (यथा, महाभारते । ७ । २८ । २४ ।
“शृणु गुह्यसिदं पार्थ ! पुरावृत्तं यथानघ ! ॥”)

पुरासिनी, स्त्री, (पुरं नगरमस्यति त्यजतीति ।

अस + णिनिः + ङीप् ।) सहदेवीलता । इति
राजनिर्घण्टः ॥

पुरासुहृत्, [द्] पुं, (पुरस्य त्रिपुरस्य असुहृत्

शत्रुः ।) शिवः । इति हेमचन्द्रः । २ । ११४ ॥

पुरिः, स्त्री, (पूर्य्यते इति । पॄ + “कॄगॄशॄपॄ-

कुटीति ।” उणा० ४ । १४२ । इति इः । स च
कित् ।) पुरी । इत्यमरटीकायां भरतः ॥ नदी ।
इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (शरी-
रम् । इति पुरीतत्-शब्दटीकायां भरतः ॥)

पुरिः, पुं, (पूर्य्यते यशआदिभिरिति । पॄ + इः ।

सच कित् ।) राजा । इति सिद्धान्तकौमुद्य
मुणादिवृत्तिः ॥ (सन्न्यासिविशेषः । शङ्कराचार्य्य-
शिष्यतोटकस्य शिष्येषु अन्यतमशिष्याणा-
मुपाधिविशेषः । इति केचित् ॥ तल्लक्षणं यथा,
प्राणतोषिण्यामवधूतप्रकरणे ।
“ज्ञानतत्त्वेन संपूर्णः पूर्णतत्त्वपदे स्थितः ।
परब्रह्मरतो नित्यं पुरिनामा स उच्यते ॥”
तथा च मुण्डमालातन्त्रे २ पटले ।
“देवतायाः सदा ध्यानं श्रीगुरोः पूजनं तथा ।
अन्तर्यागेषु यो निष्ठः स वीरः पुरिरेव च ॥”)
पृष्ठ ३/१९१

पुरी, स्त्री, (पुरि + वा ङीष् ।) नगरी । इत्य-

मरः । २ । २ । १ ॥ (यथा, श्रीधरस्वामिधृत-
भृगुवचनम् ।
“नृपावासः पुरी प्रोक्ता विशां पुरमपीष्यते ॥”)
अस्या लक्षणादि पुरशब्दे नगरशब्दे च
लिखितम् । तद्वर्णनं यथा, महाभारते ।
३ । १५ । ५ -- ८ ।
“पुरी समन्ताद्विहिता सपताका सतोरणा ।
सचक्रा सहुडा चैव सयन्त्रखनका तथा ॥
सोपशल्यप्रतोलीका साट्टाट्टालकगोपुरा ।
सचक्रग्रहणी चैव सोल्कालातावपोथिका ॥
सोष्ट्रिका भरतश्रेष्ठ ! सभेरीपणवानका ।
सतोरणाङ्कुशा राजन् ! सशतघ्नीकलाङ्गला ॥
सभुशुण्ड्यश्मगुडका सायुधा सपरस्वधा ।
लोहचर्म्मवती चापि साग्निः सगुडशृङ्गिका ॥”
“पताका ध्वजाञ्चलः । तोरणानि बहिर्द्वाराणि ।
चक्राणि योधगणाः । हुडास्तदाश्रयस्थानानि
भाषायां बुरुज्संज्ञानि । अन्ये तु विण्मूत्रोत्-
सर्ज्जनशृङ्गाणि हुडा इत्याहुः उदाहरन्ति च ।
‘कल्यन्ते हुडशृङ्गाणि रथस्योपरि सूरिभिः ।
विण्मूत्रस्पर्शशुद्ध्यर्थं करादिस्पर्श उद्यते ॥’
इति ॥
यन्त्राण आग्नेयौषधबलेन दृषत्पिण्डोत्क्षेप-
णानि महान्ति भाषायां कामान्संज्ञकानि ।
क्षुद्राणि सीसगुलिकोत्क्षेपणयन्त्राणि वन्दुक्संज्ञ-
कानि । खनकाः सुरङ्गद्वारा गुप्तमार्गकर्त्तारः ॥
उपशल्याः लोहमुखाः कीलाः तद्युक्ताः प्रतोल्यो
रथ्यामार्गा यस्यां सा । अट्टालकाः उभरिगृहाः ।
गोपुराणि पुरद्वाराणि । साट्टानि अट्टेन अन्नेन
सहितानि अट्टालकादीनि यस्यां सा । साट्टेति
विशेषणं उपशल्यस्य ग्रामान्तस्य रथ्यायाश्चा-
वृत्या सम्बध्यते । चक्रग्रहणी सन्यनिग्राहिका
मोर्च्चा इति म्लेच्छप्रसिद्धा । सोल्कालाताव-
पोथिका सोल्कमलातं ज्वालासहितमुल्मुकं
यस्यां सा सोल्कालाता इति केचित् । अवबद्धाः
पोथिका यन्त्रबद्धाः काष्ठपाषाणादयो रिपूणा-
मुपरिपातनाय वस्यामिति प्राञ्चः । उल्केवोल्का
प्राणहरत्वात् यन्त्रोत्क्षिप्तो गोलः । अलातं
सकाष्ठदण्डलोहमयमाग्नेयं प्रहरणं बाण इति
भाषायां प्रसिद्धम् । तयोरप्रत्याख्येयगत्योरपि
पोथिका पातयित्र्यः मन्त्रमय्यः शक्तयः कर्णा-
येन्द्रदत्तशक्तिसदृशा तद्युक्ताः सोल्कालाता-
वपोथिका ॥ * ॥ उष्ट्रिका मृच्चर्म्ममयानि
भाण्डानि । सर्ष्टिकेति पाठे ऋष्टय आयुध-
विशेषाः ॥ * ॥ अश्मगुडकाः वर्त्तुलीकृताः
पाषाणाः । लोहमयानि चर्म्माणि कमठपृष्ठा-
काराणि प्रहारवारकाणि ढाल इति प्रख्या-
तानि । साग्निः आग्नेयौषधसहिता गुडाः
गोलकाः । शृङ्गिकास्तदुत्क्षेपकयन्त्राणि ।
शत्रूणामुपरि पातनाय तप्तो गुडो द्रवीभूतो
यत्र शिखरे स्थाप्यते तत्सहितेत्यन्ये ॥” इति
नीलकण्ठकृतभारतभावदीपनामटीका ॥

पुरीतत्, पुं, क्ली, (पुरीं शरीरं तनोतीति । तन

दुञ् विस्तारे + क्विप् । “गमः क्वौ ।” ६ । ४ । ४० ।
इत्यत्र “गमादीनामिति वक्तव्यम् ।” इति
वार्त्तिकोक्त्या अनुनासिकलोपः । तुगागमश्च ।
पुरिं तनोतीति वाक्ये “नहिवृतिवृषिव्यधि-
रुचिसहितनिषु क्वौ ।” ६ । ३ । ११६ । इति
पूर्ब्बपदस्य दीर्घः ।) अन्त्रम् । आँत इति
ख्यातम् । अन्तति वध्नाति कालखण्डादि अन्त्रं
अतिबन्धे नाम्नीतिरः । पुरिः शरीरं तनोतीति
पुरीतत् क्विप् वनतनाद्यनिमामिति नलोपे स्वस्य
तनिति तन् निपातनादिकारस्य दीर्घः । अन्त्र-
साहचर्य्यात् क्लीवत्वम् । पुरीतदस्त्रियामिति
वाचस्पतिः । इत्यमरभरतौ ॥

पुरीमोहः, पुं, (पुरीं शरीरं मोहयतीति ।

मुह + णिच् + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।)
धुस्तूरः । इति शब्दमाला ॥

पुरीषं, क्ली, (पिपर्त्ति शरीरमिति । प + “शॄ-

पॄभ्यां किच्च ।” उणा० ४ । २७ । इति ईषन् । स च
कित् ।) विष्ठा । इत्यमरः । २ । ६ । ६९ ॥
तदुत्सर्गविधिर्यथा, --
“मुहूर्त्ते ब्राह्म उत्थाय रात्रिवासं परित्यजेत् ।
परिधायापरं वस्त्रं शयनस्थानतोऽन्वहम् ॥
मुखाङ्घ्रिहस्तान् प्रक्षाल्य द्विराचम्य ततो द्विजः ।
कृष्ण कृष्ण स्मृतिं कृत्वा खनित्वा नैरृतीं दिशम् ॥
खनित्रखननेनैव द्बादशाङ्गुल्यधोमृदम् ।
गृहीत्वोदकपात्रञ्च मितं गच्छेद्धनुःशतम् ॥
ग्रामाद्बा शरविक्षेपमात्रामनुदिते रवौ ।
मैत्रमावश्यकं कर्त्तुं नगराच्च चतुर्गुणाम् ॥
तत्त्रिमुष्ट्यायतं गर्त्तं तथा कृत्वा गभीरकम् ।
कृत्वा त्वद्भिः खनित्रेण कुशैराच्छाद्य तत्तृणम् ॥
शुष्कैः काष्ठैरयज्ञीयैर्भूगर्त्तमवगुण्ठितः ।
संवीताङ्गो वेणुदलैः पत्रैर्मृण्मयभाजनैः ॥
छत्रं खनित्रं संस्थाप्य वारिपात्रमुपानहौ ।
ततो द्विजस्तूपविशेद्वस्त्रेणाच्छाद्य मस्तकम् ॥
यज्ञोपवीतं कर्णेऽथ धृत्वा मौनी च दक्षिणे ।
आगतो द्बिजमग्निं नोपश्यन् सन्तञ्च भास्करम् ॥
गुरुं समीरणं सर्व्वदेवतामूर्त्तिमेव च ।
मातरं पितरं चन्द्रं सर्व्वं गुरुजनं स्त्रियम् ॥ * ॥
उदङ्मुखस्त्रिसन्ध्यासु दिवसे च यदा निशि ।
दक्षिणामुख उत्सर्गं कुर्य्यान्मूत्रपुरीषयोः ॥
पूर्ब्बाह्णे तु द्विजः कुर्य्यात् पश्चिमाभिमुखोऽथवा ।
अपराह्णे पूर्ब्बमुखी मूत्रगूथविसर्जनम् ॥
मध्याह्ने प्रयतः कुर्य्याद्यतवागुत्तरामुखः ।
दक्षिणाभिमुखो रात्रौ द्बिजो मैत्रं प्रयत्नतः ॥
निशायामन्धकारे तु छायायां दिवसे तथा ।
यथेच्छसुमुखो भूत्वा मैत्रं कुर्य्यात् द्बिजो भयात् ॥
दिग्भ्रमाच्च मनोदुःखाद्बिण्मूत्रस्य विसर्ज्जनम् ।
मोहाद्वाधोमुखः कुर्य्याद्यतवाक् प्रयतो द्विजः ॥
सन्न्यासी ब्रह्मचारी च वानप्रस्थो गृही द्विजः ।
शाखाध्यायी च वेदानां सर्व्वयज्ञेषु दीक्षितः ॥
मुनिश्च सर्व्वधर्म्मज्ञो दान्तः शान्त उदारधीः ।
सदोत्तरमुखः कुर्य्याद्वैष्णवो नान्य एव च ॥
प्रातश्च मैत्रं सायाह्ने दक्षिणाभिमुखो निशि ।
योगिनान्तु यथा स्त्रीणां शूद्रादीनामयं क्रमः ॥
न देवायतने वृक्षमूले च न जले नदे ।
न नदीकूपमार्गेषु न वापीगोष्ठभस्मसु ॥
न चिताग्निश्मशानेषु नोषरे न द्बिजालये ।
नाम्भःसमीपे न पुण्ड्रे नाकाशे न च शाद्वले ॥
न समुद्रे न काम्ये च न तीर्थे न द्विजालये ।
न यज्ञवृक्षमूलेषु नोपद्वारे चतुष्पथे ॥
न शस्यक्षेत्रे न खले पुष्पोद्याने न चत्वरे ।
सोपानत्को न नग्नश्च न रथ्यासेव्यभूतले ॥
न वैष्णवालये गोत्रे न सूर्य्याभिमुखस्तथा ।
न फालकृष्टकेदारे न तिष्ठंश्च कदाचन ॥
न गच्छन्न च वल्मीके न च पर्व्वतमस्तके ।
न जलं न दिशो भागान्नाकाशमवलोकयन् ॥
न गोव्रजे नदीतीरे नित्यस्थाने न गोमये ।
न यज्ञभूमौ न गृहे न पंवित्रीकृतस्थले ॥
द्विजो न देहच्छायायां शकृन्मूत्रविसर्जनम् ।
कुर्य्याद्यज्ञेष्टकाकूटे न च सप्राणिगर्त्तके ॥
उद्धृताम्भोमृत्तिकाभ्यामित्थं नारद ! यत्नतः ।
कृत्वोत्सर्गं ततः कुर्य्यात् शौचं मूत्रपुरीषयोः ॥
शुष्ककाष्ठेन लोष्ट्रेणायज्ञीयेन तृणेन वा ।
प्रमार्ज्य गुह्यमुत्तिष्ठेत् शिश्नञ्चैव विशेषतः ॥
विधृत्य वामहस्तेन शिश्नन्तूपविशेन्निशि ।
चेद्दक्षिणामुखः सन्ध्यां दिवोत्तरमुखस्तदा ॥
पूतिगन्धिजलं दुष्टं सफेनञ्च सबुद्वुदम् ।
तीर्थोदकं सलवणं पाथो वर्णान्तरन्तथा ॥
समुद्रगानदीवारः सासुद्रञ्च सकर्द्दमम् ।
यवनान्त्यजखाताम्भः समुद्रगनगोदकम् ॥
धान्यक्षेत्रस्य सलिलं सकीटञ्च परित्यजेत् ।
मानवो देवखाताम्भः सकले शौचकर्म्मणि ॥ * ॥
मृदः सकीटास्तीर्थानां देवायतनगोष्ठयोः ।
नदोदधिनदीदेवखाततीरस्य मृत्तिकाः ॥
महीतलोद्भवाः क्षेत्रकूड्ययोः सिकताश्च याः ।
अन्तर्जला धूलिमृदो वल्मीकस्य च कर्द्दमाः ॥
ऊषराश्च हलोत्ख्याता मृत्तिका भवनस्य च ।
अश्वत्थतुलसीघात्रीमूलादीनाञ्च या मृदः ॥
श्मशानभूमेः शैलस्य तथा पूतस्थलस्य च ।
शौचावशिष्टमार्गस्य आखूत्खाताश्च मृत्तिकाः ॥
यज्ञस्थानस्य विप्राणां साधूनामालयस्य च ।
मृत्तिका वर्जयेदेता देवर्षे ! शौचकर्म्मणि ॥
पवित्रस्थानतो ग्राह्या द्वादशाङ्गुल्यधोमृदः ।
द्विजैः सकलशौचार्थं शर्करादिविवर्जिताः ॥ * ॥
प्रथमेऽद्भिर्नरः शौचं कुर्य्यान्मृद्भिरतः परम् ।
पुनर्जलैः पुरीषस्य यथा गन्धक्षयो भवेत् ॥
मृत्तिका प्रथमा शौचे त्वर्द्धप्रसृतिसम्मिता ।
पूर्णप्रसृतिमात्रा तु द्वितीया सजला तथा ॥
तृतीया प्रमिता शौचे सार्द्धप्रसृतिमृत्तिका ।
चतुर्थ्याद्या क्रमादेवमर्द्धप्रसृतिवर्द्धिता ॥
यया मृत्तिकया पूर्य्यं त्रिपर्व्व शौचकारिणः ।
अर्द्धप्रसृतिमात्रा सा मुनिभिः परिकीर्त्तिता ॥
गुदे दद्यान्मृदस्तिस्रः पञ्च वा सप्त वा तथा ।
मृदमेकां तथा शिश्ने तिस्रो वा मृत्तिका द्बयम् ॥
पृष्ठ ३/१९२
सप्त वामकरे दद्यान्मृदस्त्रिंशच्चतुर्द्दश ।
तिस्रो वा हस्तयोः सप्त चतुर्द्दश च षोडश ॥
पाण्योरेकां मृदं पृष्ठे षड्वा तिस्रश्च मृत्तिकाः ।
हस्तद्वयनखेष्वेकां तिस्रश्च षड्मृदस्तथा ॥ * ॥
मैथुने रेतःस्खलने मूत्रोत्सर्गे च मृद्द्वयम् ।
दद्यात्तिस्रश्च शिश्नैकां तिस्रो वामकरे मृदः ॥
हस्ते च मृद्द्वयं म्रक्षेत्तिस्रो वा शुद्धितत्परः ।
पदैकैके द्विजस्तिस्रो गृहीत्थं शौचमाचरेत् ॥
गृहिणो द्बिगुणं शौचं यत्नतो ब्रह्मचारिणाम् ।
गृहस्थवानप्रस्थानां प्रोक्तं त्रिगुणमेव च ॥
सन्न्यासिनां वैष्णवानां शौचं सेव्यं चतुर्गुणम् ।
हस्तपाद्बारिपात्रन्तु मृद्भिरद्भिश्च गोमयैः ॥
दिवा यद्विहितं शौचं निशायामर्द्धकं भवेत् ।
एतदर्द्धमशौचे तु जातके मृतकेऽपि च ॥
चौरादिवाधिते मार्गे शौचमस्यार्द्धमाचरेत् ।
योषितामेतदर्द्धन्तु शूद्रादीनाञ्च नारद ! ॥
व्याधिभिश्चातुरो मर्त्य आर्त्तो यदि यथाबलम् ।
शौचं कुर्य्यात् कृतं यत्र तत् स्थानं शोधयेज्जलैः ॥
वेदस्मृतिपुराणानि धर्म्मशास्त्राणि नैत्यिकम् ।
मैत्रादिकर्म्म यः कुर्य्याद्विहाय मन्दधीर्द्विजः ॥
प्रतिप्रज्ञानमायुश्च प्रज्ञां हन्ति यशः श्रियम् ।
बलमाचारहीनस्य सदा तस्यापवित्रता ॥ * ॥
सात्वताश्चेद्द्विजा भूपा वैश्यशूद्रान्त्यजाः स्त्रियः ।
कुर्व्वन्ति शौचं यत्नेन यावच्चेतःपवित्रता ॥
येषां कृष्णस्य मननं तथा नामप्रजल्पनम् ।
सदैव स्मरणं भागवतानां साधुसेवनम् ॥
भक्तिप्रधौतमनसां गोविन्दार्पितकर्म्मणाम् ।
बाह्यान्तःकृष्णचित्तानां शुचिता तदहर्निशम् ॥
मृद्गोमयजलैः शौचमनेकैः कुरुते यदि ।
मनोऽपवित्रता यस्य कदाचिद्वै न शुध्यति ॥
गोविन्ददासता नास्ति यस्य लोकस्य जन्मनि ।
सोऽपि देहाशुचिः कृत्वा शौचं मैत्रादिकर्म्मसु ॥
शतधा यदि देवर्षे शौचं कुर्य्यात् सहस्रधा ।
मृद्वारिगोमयैर्लोको भावदुष्टो न शुध्यति ॥
सदा चित्तापवित्रत्वमकार्ष्णो भुवि यो नरः ।
तस्य तु स्यान्न मैत्रादिशौचेनैव स शुध्यति ॥
पर्व्वताकारकूटैश्च गोविट्सर्व्वनदीजलैः ।
शौचं कृत्वा न शुध्येत दुष्टचित्तो भवेद्यदि ॥”
इति पाद्मोत्तरखण्डे १०९ अध्यायः ॥
(उदकम् । इति निघण्टुः । १ । १२ ॥ “पूरयति
जगत् प्रलयकाले पूर्य्यते अनेन तडाकादि पालकं
वा जगतः शस्योत्पत्तिहेतुत्वात् । प्रीणातेर्वा
बाहुलकात् कीषन्प्रत्ययः ईकारस्योकारा-
देशः स च पकारात् परो द्रष्टव्यः ।” इति तत्र
देवराजयज्वा ॥ यथा, ऋग्वेदे । १ । १६३ । १ ।
“यदक्रन्दः प्रथमं जायमान
उद्यन्त्समुद्रादुत वा पुरीषात् ॥”
“पुरीषात् सर्व्वकामानां पूरकादुदकात् ॥”
इति तद्भाष्ये सायनः ॥)

पुरीषणः, पुं, (पुर्य्या देहात् इष्यते त्यज्यते इति ।

पुरी + इष + कर्म्मणि ल्युट् ।) पुरीषम् । इति
त्रिकाण्डशेयः ॥

पुरीषमः, पुं, (पुरीषं मिमीते इति । मा + कः ।)

माषः । इति त्रिकाण्डशेषः ॥

पुरुः, पुं, (पिपर्त्ति पूर्य्यते वेति । पॄ + “पॄभिदि-

व्यधिगृधिधृषिदृशिभ्यः ।” उणा० १ । २४ ।
इति कुः । “उदोष्ठ्यपूर्ब्बस्य ।” ७ । १ । १०२ ।
इति उत्वम् । “उरण्रपरः ।” १ । १ । ५१ ।
इति रपरत्वम् ।) देवलोकः । नृपभेदः । स च
ययातेः कनिष्ठपुत्त्रः । (आद्यूदन्तोऽपि पाठः ।)
परागः । इति मेदिनी । रे, ५८ ॥ दैत्यः । इत्यु-
णादिकोषः ॥ नदीभेदे, त्रि । इति शब्दरत्ना-
वली ॥ (राजविशेषः । यथा, महाभारते ।
२ । ४ । २७ ।
“सुकर्म्मा चेकितानश्च पुरुश्चामित्रकर्षणः ॥”
चाक्षुषमनोः पुत्त्रभेदः । यथा, मार्कण्डेये । ७६ । ५५ ।
“उरूपुरुशतद्युम्नप्रमुखाः सुमहाबलाः ।
चाक्षुषस्य मनोः पुत्त्राः पृथिवीपतयोऽभवन् ॥”
पर्व्वतभेदः । यथा, महाभारते । ३ । ९० । २२ ।
“पर्व्वतश्च पुरुर्नाम यत्र जातः पुरूरवाः ।
भृगुर्यत्र तपस्तेपे महर्षिगणसेविते ॥”
शरीरम् । यथा, शङ्करविजये । १३ अध्याये ।
“पुरुसंज्ञे शरीरेऽस्मिन् शयनात् पुरुषो हरिः ।
शकारस्य षकारोऽयं व्यत्ययेन प्रयुज्यते ॥”)
प्रचुरे, त्रि । इत्यमरः । ३ । १ । ६३ ॥ (यथा,
नैषधे । १९ । ५ ।
“स्फुरति तिमिरस्तोमः पङ्कप्रपञ्च इवोच्चकैः
पुरुसितगरुच्चञ्चच्चञ्चूपुटस्फुटचुम्बितः ॥”)

पुरुकुत्सवः, पुं, इन्द्ररिपुविशेषः । यथा, --

“इन्द्रो विपश्चिद्देवानां तद्रिपुः पुरुकुत्सवः ।
जघान हस्तिरूपेण भगवान्मधुसूदनः ॥”
इति गारुडे ८७ अध्यायः ॥

पुरुदंशकः, पुं, (पुरु बहुलं यथा स्यात्तथा दश-

तीति । दन्श + ण्वुल् ।) हंसः । इति त्रिकाण्ड-
शेषः ॥

पुरुदंशाः, [स्] पुं, (पुरुं दैत्यविशेषं दशति

हिनस्तीति । दन्श + असुन् ।) इन्द्रः । इति
जटाधरः ॥

पुरुषः, पुं, (पुरति अग्रे गच्छतीति । पुर +

“पुरः कुषन् ।” उणा० ४ । ७४ । इति कुषन् ।)
पिपर्त्ति पूरयति बलं यः पुर्षु शेते य इति वा ।
पुमान् । (यथा, मनौ । १ । ३२ ।
“द्विधा कृत्वात्मनो देहमर्द्धेन पुरुषोऽभवत् ।
अर्द्धेन नारी तस्यां स विराजमसृजत् प्रभुः ॥”)
तत्पर्य्यायः । पूरुषः २ ना ३ नरः ४ पञ्चजनः
५ पुमान् ६ अर्थाश्रयः ७ अधिकारी ८ कर्म्मार्हः
९ जनः १० अर्थवान् ११ । इति राजनिर्घण्टः ॥
मनुष्यः १२ मानवः १३ मर्त्यः १४ मानुषः १५
मनुः १६ । इति शब्दरत्नावली ॥ रसिकराजः
१७ घनकामधामा १८ मदनशायकाङ्कः १९
मन्मथशायकलक्ष्यः २० । इति कविकल्पलता ॥
स चतुर्विधः । यथा, --
“शशो मृगोवृषञ्चाश्वो नृणां जातिचतुष्टयम् ॥”
शशादीनां लक्षणं यथा, --
“मृदुवचनसुशीलः कोमलाङ्गः सुकेशः
सकलगुणनिधानः सत्यवादी शशोऽयम् । १ ।
वदति मधुरवाणीं दीर्घनेत्रोऽतिभीरु-
श्चपलमतिसुदेहः शीघ्रवेगो मृगोऽयम् ॥ २ ॥
बहुगुणबहुबन्धुः शीघ्रकामो नताङ्गः
सकलरुचिरदेहः सत्यवादी वृषोऽयम् । ३ ।
उदरकटिकृशः स्यादुग्रकण्ठाधरौष्ठो
दशनवदननासाश्रोत्रदीर्घो हि वाजी ॥” ४ ॥
इति रतिमञ्जरी ॥ * ॥
तस्य पञ्चलक्षणत्वं यथा, --
“पात्रे त्यागी गुणे रागी भोगी परिजनैः सह ।
शास्त्रे बोद्धा रणे योद्धा पुरुषः पञ्चलक्षणः ॥”
इति प्राचीनाः ॥
जितेन्द्रियस्य पुरुषत्वं यथा, --
“सा श्रीर्या न मदं कुर्य्यात् स मुखी तृष्णयो
ज्झितः ।
तन्मित्रं यत्र विश्वासः पुरुषः स जितेन्द्रियः ॥”
इति गारुडे १६ अध्यायः ॥ * ॥
(अस्य लक्षणादिकं यथा, --
“उन्मानमानगतिसंहतिसारवर्ण-
स्नेहस्वरप्रकृतिसत्त्वमनूकमादौ ।
क्षेत्रं मृजाञ्च विधिवत् कुशलोऽवलोक्य
सामुद्रविद्वदति यातमनागतञ्च ॥
अस्वेदनौ मृदुतलौ कमलोदराभौ
श्लिष्टाङ्गुली रुचिरताम्रनखौ सुपार्ष्णी ।
उष्णौ शिराविरहितौ सुनिगूढगुल्फौ
कूर्म्मोन्नतौ च चरणौ मनुजेश्वरस्य ॥
शूर्पाकारविरूक्षपाण्डुरनखौ वक्रौ शिरासन्ततौ
संशुष्को विरलाङ्गुली च चरणौ दारिद्य्रदुःख-
प्रदौ ।
मार्गायोत्कटकौ कषायसदृशौ वंशस्य विच्छि-
त्तिदौ
ब्रह्मघ्नौ परिपक्वमृद्द्युतितलौ पीतावगम्यारतौ ॥
प्रविरलतनुरोमवृत्तजङ्घा
द्विरदकरप्रतिमैर्वरोरुभिश्च ।
उपचितसमजानवश्च भूपा
धनरहिताः श्वशृगालतुल्यजङ्घाः ॥
रोमैकैकं कूपके पार्थिवानां
द्वे द्वे ज्ञेये पण्डितश्रोत्रियाणाम् ।
त्र्याद्यैर्निःस्वा मानवा दुःखभाजः
केशाश्चैवं निन्दिताः पूजिताश्च ॥
निर्मांसजानुर्म्रियते प्रवासे
सौभाग्यमल्पैर्विकटैर्दरिद्राः ।
स्त्रीनिर्जिताश्चापि भवन्ति निम्नै
राज्यं समांसैश्च महद्भिरायुः ॥
लिङ्गेऽल्पे धनवानपत्यरहितः स्थूले विहीनो धनै-
र्मेढ्रे वामनते सुतार्थरहितो वक्रेऽन्यथा पुत्त्र-
वान् ।
दारिद्य्रं विनते त्वधोऽल्पतनयो लिङ्गे शिरास-
न्तते ।
स्थूलग्रन्थियुते सुखी मृदु करोत्यन्तं प्रमेहा-
दिभिः ॥
पृष्ठ ३/१९३
कोशनिगूढैर्भूपा दीर्घैर्भग्नैश्च वित्तपरिहीनाः ।
ऋजुवृत्तशेफसो लघुशिरालशिश्नाश्च धनवन्तः ॥
जलमृत्युरेकवृषणो विषमैः स्त्रीचञ्चलः समैः
क्षितिपः ।
ह्नस्वायुश्चोद्बद्धैः प्रलम्बवृषणस्य शतमायुः ॥
रक्तैराढ्यामणिभिर्निर्द्रव्याः पाण्डुरैश्चमलिनैश्च ।
सुखिनः सशब्दमूत्रा निःस्वा निःशब्दधाराश्च ॥
द्बित्रिचतुर्धाराभिः प्रदक्षिणावर्तवलितमूत्राभिः ।
पृथ्वीपतयो ज्ञेया विकीर्णमूत्राश्च धनहीनाः ॥
एकैव मूत्रधारा वलिता रूपप्रधानसुतदात्री ।
स्निग्धोन्नतसममणयो धनवनितारत्नभोक्तारः ॥
मणिभिश्च मध्यनिम्नैः कन्यापितरो भवन्ति
निःस्वाश्च ।
बहुपशुभाजो मध्योन्नतैश्च नात्युल्वणैर्धनिनः ॥
परिशुष्कबस्तिशीर्षैर्धनरहिता दुर्भगाश्च
विज्ञेयाः ।
कुसुमसमगन्धशुक्रा विज्ञातव्या महीपालाः ॥
मधुगन्धे बहुवित्ता मत्स्यसगन्धे बहून्यपत्यानि ।
तनुशुक्रः स्त्रीजनको मांससगन्धो महाभोगी ॥
मदिरागन्धे यज्वा क्षारसगन्धे च रेतसि दरिद्रः ।
शीघ्रं मैथुनगामी दीर्घायुरतोऽन्यथाल्पायुः ॥
निःस्वोऽतिस्थूलस्फिक् समांसलस्फिक् सुखा-
न्वितो भवति ।
व्याघ्रान्तोऽध्यर्धस्फिग्मण्डूकस्फिग्नराधिपतिः ॥
सिंहकटिर्मनुजेन्द्रः कपिकरभकटिर्धनैः परि-
त्यक्तः ।
समजठरा भोगयुता घटपिठरनिभोदरा
निःस्वाः ॥
अविकलपार्श्वा धनिनो निम्नैर्वक्रश्च भोगस-
न्त्यक्ताः ।
समकुक्षा भोगाढ्या निम्नाभिर्भोगपरिहीनाः ॥
उन्नतकुक्षाः क्षितिपाः कुटिलाः स्युर्मानवा
विषमकुक्षाः ।
सर्पोदरा दरिद्रा भवन्ति बह्वाशिनश्चैव ॥
परिमण्डलोन्नताभिर्विस्तीर्णाभिश्च नाभिभिः
सुखिनः ।
स्वल्पा त्वदृश्यनिम्ना नाभिः क्लेशावहा भवति ॥
वलिमध्यगता विषमा शूलावाधं करोति
नैःख्यञ्च ।
शाठ्यं वामावर्त्ता करोति मेधां प्रदक्षिणतः ॥
पार्श्वायता चिरायषमुपरिष्टाच्चेश्वरं गवा-
ढ्यमधः ।
शतपत्रकर्णिकाभा नाभिर्मनुजेश्वरं कुरुते ॥
शस्त्रान्तं स्त्रीभोगिनमाचार्य्यं बहुसुतं यथा-
सङ्ख्यम् ।
एकद्वित्रिचतुर्भिर्वलिभिर्विद्यान्नृपं त्ववलिम् ॥
विषमवलयो मनुष्या भवन्त्यगम्याभिगामिनः
पापाः ।
ऋजुवलयः सुखभाजः परदारद्वेषिणश्चैव ॥
मांसलमृदुभिः पार्श्वैः प्रदक्षिणावर्त्तरोमभि-
र्भूपाः ।
विपरीतैर्निर्द्रव्याः सुखपरिहीनाः परप्रेष्याः ॥
सुभगा भवन्त्यनुद्बद्धचूचुका निर्धना विषमदीर्घैः ।
पीनोपचितनिमग्नैः क्षितिपतयश्चूचुकैः सुखिनः ॥
हृदयं समुन्नतं पृथु न वेपनं मांसलं च नृप-
तीनाम् ।
अधमानां विपरीतं खररोमचितं शिरालञ्च ॥
समवक्षसोऽर्थवन्तः पीनैः शूरास्त्वकिञ्चना-
स्तनुभिः ।
विषमं वक्षो येषां ते निःस्वाः शस्त्रनिधनाश्च ॥
विषमैर्विषमो जत्रुभिरर्थविहीनोऽस्थिसन्धि-
परिणद्धैः ।
उन्नतजत्रुर्भागी निम्नैर्निःस्वोऽर्थवान् पीनैः ॥
चिपिटग्रीवो निःस्वः शुष्का सशिरा च यस्य
वा ग्रीवा ।
महिषग्रीवः शूरः शास्त्रान्तो वृषसमग्रीवः ॥
कम्बुग्रीवो राजा प्रलम्बकण्ठः प्रभक्षणो भवति ।
पृष्ठमभग्नमरोमशमर्थवतामशुभदमतोऽन्यत् ॥
अस्वेदनपीनोन्नतसुगन्धिसमरोमसङ्कुलाः
कक्षाः ।
विज्ञातव्या धनिनामतोऽन्यथार्थैर्विहीनानाम् ॥
निर्मांसौ रोमचितौ भग्नावल्पौ च निर्धन-
स्यांसौ ।
विपुलावव्युच्छिन्नौ सुश्लिष्टौ सौख्यवीर्य्यवताम् ॥
करिकरसदृशौ वृत्तावाजान्ववलम्बिनौ समौ
पीनौ ।
बाहू पृथिवीशानामधमानां रोमशौ ह्नस्वौ ॥
हस्ताङ्गुलयो दीर्घाश्चिरायुषामवलिताश्च
सुभगानाम् ।
मेधाविनाञ्च सूक्ष्माश्चिपिठाः परकर्म्मनिरता-
नाम् ॥
स्थूलाभिर्धनरहिता बहिर्नताभिश्च शस्त्र-
निर्याणाः ।
कपिसदृशकरा धनिनो व्याघ्रोपमपाणयः
पापाः ॥
मणिबन्धनैर्निगूढैर्दृढैश्च सुश्लिष्टसन्धिभिर्भूपाः ।
हीनैर्हस्तच्छेदः श्लथैः सशब्दैश्च निर्द्रव्याः ॥
पितृवित्तेन विहीना भवन्ति निम्नेन करतलेन
नराः ।
संवृतनिम्नैर्धनिनः प्रोत्तानकराश्च दातारः ॥
विषमैर्विषमा निःस्वाश्च करतलैरीश्वरास्तु
लाक्षाभैः ।
पीतैरगम्यवनिताभिगामिनो निर्घना रूक्षैः ॥
तुषसदृशनखाः क्लीवाश्चिपिटैः स्फुटितैश्च
वित्तसन्त्यक्ताः ।
कुनखविवर्णैः परतर्कुकाश्च ताम्रैश्च भूपतयः ॥
अङ्गुष्ठयवैराढ्याः सुतवन्तोऽङ्गुष्ठमूलगैश्च यवः ।
दीर्घाङ्गुलिपर्वाणः सुभगा दीर्घायुषश्चैव ॥
स्निग्धा निम्ना रेखा धनिनां तद्ब्यत्ययेन
निःस्वानाम् ।
विरलाङ्गुलयो निःस्वा धनसञ्चयिनो घना-
ङ्गुलयः ॥
तिस्रो रेखा मणिबन्धनोत्थिताः करतलोपगा
नृपतेः ।
मीनयुगाङ्कितपाणिर्नित्यं सत्रप्रदो भवति ॥
वज्राकारा धनिनां विद्याभाजान्तु मीनपुच्छ-
निभाः ।
शङ्खातपत्रशिविकागजाश्वपद्मोपमा नृपतेः ॥
कलशमृणालपताकाङ्कुशोपमाभिर्भवन्ति निधि-
पालाः ।
दामनिभाभिश्चाढ्याः स्वस्तिकरूपाभिरैश्वर्य्यम् ॥
चक्रासिपरशुतोमरशक्तिधनुःकुन्तसन्निभा
रेखाः ।
कुर्व्वन्ति चमूनाथं यज्वानमुलूखलाकाराः ॥
मकरध्वजकोष्ठागारसन्निभाभिर्महाधनोपेताः ।
वेदीनिभेन चैवाग्निहोत्रिणो ब्रह्मतीर्थेन ॥
वापीदेवकुलाद्यैर्धर्मं कुर्व्वन्ति च त्रिकोणाभिः ।
अङ्गुष्ठमूलरेखाः पुत्त्राः स्युर्दारिकाः सूक्ष्माः ॥
रेखाः प्रदेशिनीगाः शतायुषां कल्पनीय-
मूनाभिः ।
छिन्नाभिर्द्रुमपतनं बहुरेखारेखिणो निःस्वाः ॥
अतिकृशदीर्घैश्चिवुकैर्निर्द्रव्या मांसलैर्धनोपेताः ।
विम्बोपमैरवक्रैरधरैर्भूपास्तनुभिरस्वाः ॥
ओष्ठैः स्फुटितविखण्डितविवर्णरूक्षैश्च धन-
परित्यक्ताः ।
स्निग्धा घनाश्च दशनाः सुतीक्ष्णदंष्ट्राः समाश्च
शुभाः ॥
जिह्वा रक्ता दीर्घा श्लक्ष्णा सुसमा च भोगिनां
ज्ञेया ।
श्वेता कृष्णा परुषा निर्द्रव्याणां तथा तालु ॥
वक्त्रं सौम्यं संवृतममलं श्लक्ष्णं समञ्च भूपानाम् ।
विपरीतं क्लेशभुजां महामुखं दुर्भगाणाञ्च ॥
स्त्रीमुखमनपत्यानां शाठ्यवतां मण्डलं परि-
ज्ञेयम्
दीर्घं निर्द्रव्याणां भीरुमुखाः पापकर्माणः ॥
चतुरश्रं धूर्तानां निम्नं वक्त्रञ्च तनयरहिता-
नाम् ।
कृपणानामतिह्नस्वं सम्पूर्णं भोगिनां कान्तम् ॥
अस्फुटिताग्रं स्निग्धं श्मश्रु शुभं मृदु च सन्न-
तञ्चैव ।
रक्तैः परुषैश्चौराः श्मश्रुभिरल्पैश्च विज्ञेयाः ॥
निर्मांसैः कर्णैः पापमृत्यवश्चर्पटैः सुबहुभोगाः ।
कृपणाश्च ह्नस्वकर्णाः शङ्कुश्रवणाश्च भूपतयः ॥
रोमशकर्णा दीर्घायुषस्तु धनभागिनो विपुल-
कर्णाः ।
क्रूराः शिरावनद्धैर्व्यालम्बैर्मांसलैः सुखिनः ॥
भोगी त्वनिम्नगण्डो मन्त्री सम्पूर्णमांसगण्डो यः ।
सुखभाक् शुकसमनासश्चिरजीवी शुष्कनासश्च ॥
छिन्नानुरूपयागम्यगामिनो दीर्घया तु सौभा-
ग्यम् ।
आकुञ्चितया चौरः स्त्रीमृत्युः स्याच्चिपिट-
नासः ॥
धनिनोऽग्रवक्रनासा दक्षिणवक्राः प्रभक्षणाः
क्रूराः ।
ऋज्वी स्वल्पच्छिद्रा सुपुटा नासा सभाम्या-
नाम् ॥
पृष्ठ ३/१९४
धनिनां क्षुतं सकृद् द्वित्रिपिण्डितं ह्लादि सान-
नादञ्च ।
दीर्घायुषां प्रमुक्तं विज्ञेयं संहतञ्चैव ॥
पद्मदलाभैर्धनिनो रक्तान्तविलोचनाः श्रियो-
भाजः ।
मधुपिङ्गलैर्महार्था मार्जारविलोचनाः पापाः ॥
हरिणाक्षा मण्डललोचनाश्च जिह्मैश्च लोचनै-
श्चौराः ।
क्रूराः केकरनेत्रा गजसदृशदृशश्च भूपतयः ॥
ऐश्वर्य्यं गम्भीरैर्नोलोत्पलकान्तिभिश्च विद्वांसः ।
अतिकृष्णतारकाणामक्ष्णामुत्पाटनं भवति ॥
मन्त्रित्वं स्थूलदृशां श्यावाक्षाणाञ्च भवति
सौभाग्यम् ।
दीना दृग्निःस्वानां स्निग्धा विपुलार्थभोगव-
ताम् ॥
अभ्युन्नताभिरल्पायुषो विशालोन्नताभिरति-
सुखिनः ।
विषमभ्रुवो दरिद्रा बालेन्दुनतभ्रुवः सधनाः ॥
दीर्घासंसक्ताभिर्धनिनः खण्डाभिरर्थपरिहीनाः ।
मध्यविनतभ्रुवो ये ते सक्ताः स्त्रीष्वगम्यासु ॥
उन्नतविपुलैः शङ्खैर्धन्या निम्नैः सुतार्थसन्त्यक्ताः ।
विषमललाटा विधना धनवन्तोऽर्धेन्दुसदृशेन ॥
शुक्तिविशालैराचार्य्यता शिरासन्ततैरधर्म्म-
रताः ।
उन्नतशिराभिराढ्याः स्वस्तिकवत्संस्थिताभिश्च ॥
निम्नललाटा वधबन्धभागिनः क्ररकर्म्मनिर-
ताश्च ।
अभ्युन्नतैश्च भूपाः कृपणाः स्युः सङ्कटललाटाः ॥
रुदितमदीनमनश्रु स्निग्धञ्च शुभावहं मनुष्या-
णाम् ।
रूक्षं दीनं प्रचुराश्रु चैव न शुभप्रदं पुंसाम् ॥
हसितं शुभदमकम्पं सनिमीलितलोचनञ्च
पापस्य ।
हृष्टस्य हसितमसकृत् सोन्मादस्यासकृत्प्रान्ते ॥
तिस्रो रेखाः शतजीविनां ललाटायताः स्थिता
यदि ताः ।
चतसृभिरवनीशत्वं नवतिश्चायुः सपञ्चाब्दा ॥
विच्छिन्नाभिश्चागम्यगामिनो नवतिरप्यरेखेण ।
केशान्तोपगताभी रेखाभिरशीतिवर्षायुः ॥
पञ्चभिरायुः सप्ततिरेकाग्रावस्थिताभिरपि षष्टिः ।
बहुरेखेण शतार्धं चत्वारिंशच्च वक्राभिः ॥
त्रिंशद्भ्रूलग्नाभिर्विंशतिकश्चैव वामवक्राभिः ।
क्षुद्राभिः स्वल्पायुर्न्यूनाभिश्चान्तरे कल्प्यम् ॥
परिमण्डलैर्गवाढ्याश्छत्राकारैः शिरोभिरव-
नीशाः ।
चिपिटैः पितृमातृघ्नाः करोटिशिरसां चिरा-
न्मृत्युः ॥
घटमूर्धा ध्वानरुचिर्द्विमस्तकः पापकृद्धनैस्त्यक्तः ।
निम्नन्तु शिरो महतां वहुनिम्नमनर्थदं भवति ॥
एकैकभवैः स्निग्धैः कृष्णैराकुञ्चितैरभिन्नाग्रैः ।
मृदुभिर्न चातिवहुभिः केशैः सुखभाग् नरेन्द्रो
वा ॥
बहुमूलविषमकपिलाः स्थूलस्फुटिताग्रपरुष-
ह्नस्वाश्च ।
अतिकुटिलाश्चातिघनाश्च मूर्धजा वित्तहीना-
नाम् ॥
यद्यद्गात्रं रूक्षं मांसविहीनं शिरावनद्बञ्च ।
तत्तदनिष्टं प्रोक्तं विपरीतमतः शुभं सर्व्वम् ॥
त्रिषु विपुलो गम्भीरस्त्रिष्वेव षडन्नतश्चतुर्ह्नस्वः ।
सप्तसु रक्तो राजा पञ्चसु दीर्घश्च सूक्ष्मश्च ॥
नाभिः स्वरः सत्त्वमिति प्रदिष्टं
गम्भीरमेतत्त्रितयं नराणाम् ।
उरो ललाटं वदनञ्च पुंसां
विस्तीर्णमेतत्त्रितयं प्रशस्तम् ॥
वक्षोऽथ कक्षा नखनासिकास्यं
कृकाटिका चेति षडुन्नतानि ।
ह्नस्वानि चत्वारि च लिङ्गपृष्ठं
ग्रीवा च जङ्घे च हितप्रदानि ॥
नेत्रान्तपादकरताल्वधरोष्ठजिह्वा
रक्ता नखाश्च खलु सप्त सुखावहानि ।
सूक्ष्मानि पञ्च दशनाङ्गुलिपर्वकेशाः
साकं त्वचा कररुहाश्च न दुःखितानाम् ॥
हनुलोचनबाहुनासिकाः
स्तनयोरन्तरमत्र पञ्चमम् ।
इति दीर्घमिदं तु पञ्चकं
न भवत्येव नृणामभूभृताम् ॥
इति क्षेत्रम् ॥
छाया शुभाशुभफलानि निवेदयन्ती
लक्ष्या मनुष्यपशुपक्षिषु लक्षणज्ञैः ।
तेजोगुणान् बहिरपि प्रविकाशयन्ती
दीपप्रभा स्फटिकरत्नघटस्थितेव ॥
स्निग्धद्बिजत्वङ्नखरोमकेश-
छाया सुगन्धा च महीसमुत्था ।
तुष्ट्यर्थलाभाभ्युदयान् करोति
धर्म्मस्य चाहन्यहनि प्रवृत्तिम् ॥
स्निग्धा सिताच्छहरिता नयनाभिरामा
सौभाग्यमार्दवसुखाभ्युदयान् करोति ।
सर्व्वार्थसिद्धिजननी जननीव चाप्या
छाया फलं तनुभृतां शुभमादधाति ॥
चण्डाधृष्या पद्महेमाग्निवर्णा
युक्ता तेजोविक्रमैः सप्रतापैः ।
आग्नेयीति प्राणिनां स्याज्जयाय
क्षिप्रं सिद्धं वाञ्छितार्थस्य धत्ते ॥
मलिनपरुषकृष्णा पापगन्धानिलोत्था
जनयति वधबन्धव्याध्यनर्थार्थनाशान् ।
स्फटिकसदृशरूपा भाग्ययुक्तात्युदारा
निधिरिव गगनोत्था श्रेयसां स्वश्छवर्णा ॥
छायाः क्रमेण कुजलाग्न्यनिलाम्बरोत्थाः
केचिद्वदन्ति दश ताश्च यथानुपूर्ब्ब्या ।
सूर्य्याब्जनाभपुरुहूतयमोडुपानां
तुल्यास्तु लक्षणफलैरिति तत्समासः ॥
इति मृजा ॥
करिवृषरथौघमेरीमृदङ्गसिंहाब्दनिःस्वना
भूपाः ।
गर्दभजर्जररूक्षस्वराश्च धनसौख्यसन्त्यक्ताः ॥
इति स्वरः ॥
सप्त भवन्ति च सारा मेदोमज्जात्वगस्थि-
शुक्राणि ।
रुधिरं मांसं चेति प्राणभृतां तत्समासफलम् ॥
ताल्वोष्ठदन्तपालीजिह्वानेत्रान्तपायुकरचरणैः
रक्तैस्तु रक्तसारा बहुसुखवनितार्थपुत्त्रयुताः ॥
स्निग्धत्वक्का धनिनो मृदुभिः सुभगा विच-
क्षणास्तनुभिः ।
मज्जामेदःसाराः सुशरीराः पुत्त्रवित्तयुक्ताः ॥
स्थूलास्थिरस्थिसारो बलवान् विद्यान्तगः सुरू-
पश्च ।
बहुगुरुशुक्राः सुभगा विद्वांसो रूरवन्तश्च ॥
उपचितदेहो विद्वान् धनी सुरूपश्च मांस-
सारो यः ।
इति सारः ॥
सङ्घात इति च सुश्लिष्टसन्धिता सुखभुजो ज्ञेया ॥
इति संहतिः ॥
स्नेहः पञ्चसु लक्ष्यो वाग्जिह्वादन्तनेत्रनखसंस्थः ।
सुतधनसौभाग्ययुताः स्निग्धैस्तैर्निर्धना रूक्षैः ॥
इति स्नेहः ॥
द्युतिमान्वर्णः स्निग्धः क्षितिपानां मध्यमः सुतार्थ-
वताम् ।
रूक्षो धनहीनानां शुद्धः शुभदो न सङ्कीर्णः ॥
इति वर्णः ॥
साध्यमनूकं वक्त्राद्गोवृषशार्दूलसिंहगरुडमुखाः ।
अप्रतिहतप्रतापा जितरिपवो मानवेन्द्राश्च ॥
वानरमहिषवराहाजतुल्यवदनाः सुतार्थसुख-
भाजः ।
गर्दभकरभप्रतिमैर्मुखैः शरीरैश्च निःस्वसुखाः ॥
इत्यनूकम् ॥
अष्टशतं षण्णवतिः परिमाणं चतुरशीरिति
पुंसाम् ।
उत्तमसमहीनानामङ्गुलसङ्ख्यास्वमानेन ॥
इत्युन्मानम् ॥
भारार्धतनुः सुखभाक् तुलितोऽतो दुःखभाग्
भवत्यूनः ।
भारोऽतीवाढ्यानामध्यर्घः सर्व्वधरणीशः ॥
विंशतिवर्षा नारी पुरुषः खलु पञ्चविंशतिभि-
रब्दैः ।
अर्हति मानोन्मानं जीवितभागे चतुर्थे वा ॥
इति मानम् ॥
भूजलशिख्यनिलाम्बर
सुरनररक्षःपिशाचकतिरश्चाम् ।
सत्त्वेन भवति पुरुषो
लक्षणमेतद्भवत्येषाम् ॥
महीस्वभावः शुभपुष्पगन्धः
सम्भोगवान् सुश्वसनः स्थिरश्च ।
तोयस्वभावो बहुतोयपायी
प्रियाभिलाषी रसभोजनश्च ॥
अग्निप्रकृत्या चपलोऽतितीक्ष्ण-
श्चण्डः क्षुधालुर्बहुभोजनश्च ।
पृष्ठ ३/१९५
वायोः स्वभावेन चलः कृशश्च
क्षिप्रं च कोपस्य वशं प्रयाति ॥
खप्रकृतिर्निपुणो विवृतास्यः
शब्दगतेः कुशलः सुषिराङ्गः ।
त्यागयुतो पुरुषो मृदुकोपः
स्नेहरतश्च भवेत्सुरसत्त्वः ॥
मर्त्यसत्त्वसंयुतो गीतभूषणप्रियः ।
संविभागशीलवान्नित्यमेव मानवः ॥
तीक्ष्णप्रकोपः खलचेष्टितश्च
पापश्च सत्त्वेन निशाचराणाम् ।
पिशाचसत्त्वश्चपलो मलाक्तो
बहुप्रलापी च समुल्वणाङ्गः ॥
भीरुः क्षुधालुर्बहुभुक् च यः स्यात्
ज्ञेयः स सत्त्वेन नरस्तिरश्चाम् ।
एवं नराणां प्रकृतिः प्रदिष्टा
यल्लक्षणज्ञाः प्रवदन्ति सत्त्वम् ॥
इति प्रकृतिः ॥
शार्दूलहंससमदद्विपगोपतीनां
तुल्या भवन्ति गतिभिः शिखिनाञ्च भूपाः ।
येषाञ्च शब्दरहितं स्तिमितञ्च यातं
तेऽपीश्वरा द्रुतपरिप्लुतगा दरिद्राः ॥
इति गतिः ॥
श्रान्तस्य यानमशनञ्च बुभुक्षितस्य
पानं तृषापरिगतस्य भयेषु रक्षा ।
एतानि यस्य पुरुषस्य भवन्ति काले
धन्यं वदन्ति खलु तं नरलक्षणज्ञाः ॥
पुरुषलक्षणमुक्तमिदं मया
मुनिमतान्यवलोक्य समासतः ।
इदमधीत्य नरो नृपसम्मतो
भवति सर्व्वजनस्य च वल्लभः ॥”
इति श्रीवराहमिहिरकृतौबृहत्संहितायां पुरुष-
लक्षणं नामाष्टषष्टितमोऽध्यायः ॥ * ॥)
कृष्णभक्तपुरुषस्य गोविन्दपदाश्रयत्वं यथा, --
“स्त्रियो वा पुरुषो वापि ह्याततायी नपुंसकः ।
भक्तत्वे गणनीयश्चेद्गोविन्दपदमाश्रयेत् ॥”
इति पाद्मोत्तरखण्डे ९९ अध्यायः ॥
पुरुषाणां मध्ये गुरवो यथा, --
“गुरूणामपि सर्व्वेषां पूज्याः पञ्च विशेषतः ।
तेषामाद्यास्त्रयः श्रेष्ठास्तेषां माता सुपूजिता ॥
यो भावयति या सूते येन विद्योपदिश्यते ।
ज्येष्ठभ्राता च भर्त्ता च पञ्चैते गुरवः स्मृताः ॥”
इति कौर्म्मे उपविभागे ११ अध्यायः ॥
आत्मा । इत्यमरः । ३ । ३ । २१८ ॥ (यथा,
भागवते । ७ । १४ । ३७ ।
“पुराण्यनेन सृष्टानि नृतिर्य्यगृषिदेवताः ।
शेते जीवेन रूपेण पुरेषु पुरुषो ह्यसौ ॥”
यथा च शङ्करविजये १३ अध्याये ।
“पुरुसंज्ञे शरीरेऽस्मिन् शयनात् पुरुषो हरिः ।
शकारस्य षकारोऽयं व्यत्ययेन प्रयुज्यते ॥”)
साङ्ख्यतत्त्वज्ञः । पुन्नागपादपः । इति मेदिनी ।
षे, ४१ ॥ (तत्पर्य्यायो यथा, वैद्यकरत्नमालायाम् ॥
“कुम्भीकः पुरुषस्तुङ्गः पुन्नागो रक्तकेशरः ॥”)
विष्णुः । इति शब्दरत्नावली ॥ (स हि पुराण-
पुरुष एव । यथा, हरिवंशे । १२८ । २० ।
“एवं पुराणः पुरुषो विष्णुर्वेदेषु पठ्यते ।
अचिन्त्यश्चाप्रमेयश्च गुणेभ्यश्च परस्तथा ॥”
शिवः । यथा, महाभारते । १४ । ८ । १४ ।
“याम्यायाव्यक्तरूपाय सद्वृत्ते शङ्कराय च ।
क्षेम्याय हरिकेशाय स्थाणवे पुरुषाय च ॥”
जीवः । यथा, शिवपुराणे वायुसंहितायां पूर्ब्ब-
भागे । ४ । १६ ।
“प्रकृतिः क्षरमित्युक्तं पुरुषोऽक्षर उच्यते ।
ताविमौ प्रेरयत्यन्यः स परः परमेश्वरः ॥”)
दुर्गा । यथा, --
“महानिति च योगेषु प्रघानश्चैव कथ्यते ।
त्रिगुणा व्यतिरिक्ता सा पुरुषश्चेति चोच्यते ॥”
इति देवीपुराणे ४५ अध्यायः ॥
तस्य पञ्चविंशतितत्त्वात्मकत्वं जडत्वञ्च यथा, --
“एभिः सम्पादितं भुङ्क्ते पुरुषः पञ्चविंशकः ।
ईश्वरेच्छावशः सोऽपि जडात्मा कथ्यते बुधैः ॥”
इति मात्स्ये तत्त्वकथनावसारे ७ अध्यायः ॥
(अश्वस्थानकभेदः । यथा, माघे । ५ । ५६ ।
श्लोकटीकायां मल्लिनाथधृतवचनम् ।
“पश्चिमेनाग्रपादेन भुवि स्थित्वाग्रपादयोः ।
ऊर्द्ध्वप्रेरणया स्थानमश्वानां पुरुषः स्मृतः ॥”)
मेषमिथुनसिं हतुलाधनुःकुम्भराशयः । यथा, --
“क्रूरोऽथ सौम्यः पुरुषोऽङ्गना च
ओजोऽथ युग्मं विषमः समश्च ।
चरस्थिरद्व्यात्मकनामधेया
मेषादयोऽमी क्रमशः प्रदिष्टाः ॥”
पुरुषग्रहा यथा, --
“भौमार्कजीवाः पुरुषाः क्लीवौ सोमजभानुजौ ।
स्त्र्याख्यौ भार्गवचन्द्रौ द्वौ तत्पतित्वात्तथोच्यते ॥”
पुरुषनक्षत्राणि यथा, --
“हस्तो मूलश्रवणपुनर्व्वसूमृगशिरस्तथा पुष्यः ।
गर्भाधानादिकार्य्येषु पुन्नामायं गणः शुभदः ॥”
इति ज्योतिस्तत्त्वम् ॥
तद्वैदिकपर्य्यायः । मनुष्याः १ नरः २ धवाः ३
जन्तवः ४ विशः ५ क्षितयः ६ कृष्णयः ७ चर्ष-
ण्यः ८ नहुषः ९ हरयः १० मर्य्याः ११ मर्त्त्याः
१२ मर्त्ताः १३ व्राताः १४ तुर्व्वशाः १५ हृह्यवः
१६ आयवः १७ यदवः १८ अनवः १९ पूरवः
२० जगतः २१ तस्थुषः २२ पञ्चजनाः २३
विवस्वन्तः २४ पृतनाः २५ । इति वेदनिघण्टौ
२ अध्यायः ॥

पुरुषकं, क्ली, पुं, (पुरुष एवेति । पुरुष + स्वार्थे कन् ।)

घोटकानामूर्द्ध्वस्थितिः । इति त्रिकाण्डशेषः ॥
शीखपाँओ इति हिन्दीभाषा ॥ (यथा, माघे ।
५ । ५६ ।
“श्रीवृक्षकी पुरुषकोन्नमिताग्रकायः ॥”
“पुरुषकोऽश्वानां स्थानकभेदः । यदुक्तम्, --
‘पश्चिमेनाग्रपादेन भुवि स्थित्वाग्रपादयोः ।
ऊर्द्ध्वप्रेरणया स्थानमश्वानां पुरुषः स्मृतः ॥’
पुरुष एव पुरुषकस्तेन पुरुषकेण स्थानके-
नान्नमित ऊर्द्ध्वावस्थितोऽग्रकायः पूर्ब्बकायो यस्य
स तथोक्तः ।” इति तट्टीकायां मल्लिनाथः ॥)

पुरुषकारः, पुं, (पुरुषस्य कारः करणम् ।) पुरु-

षस्य कृतिः । पौरुषम् । चेष्टा । यथा, --
मनुरुवाच ।
“दैवे पुरुषकारे च किं ज्यायस्तं ब्रवीहि मे ।
अत्र मे संशयो देव छेत्तुमर्हस्यशेषतः ॥
मत्स्य उवाच ।
स्वमेव कर्म्म दैवाख्यं विद्धि देहान्तरार्जितम् ।
तस्मात् पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः ॥
प्रतिकूलन्तथा दैवं पौरुषेण विहन्यते ।
मङ्गलाचारयुक्तानां नित्यमुत्थानशीलिनाम् ॥
येषां पूर्ब्बकृतं कर्म्म सात्त्विकं मनुजोत्तम ! ।
पौरुषेण विना तेषां केषाञ्चिद्दृश्यते फलम् ॥
कर्म्मणा प्राप्यते लोके राजसस्य तथा फलम् ।
कृच्छ्रेण कर्म्मणा विद्धि तामसस्य तथा फलम् ॥
पौरुषेणाप्यते राजन् ! मार्गितव्यं फलं नरैः ।
दैवमेव विजानन्ति नराः पौरुषवर्ज्जिताः ॥
तस्मात्त्रिकालसंयुक्तं दैवं न सफलं भवेत् ।
पौरुषं दैवदम्पत्या काले फलति पार्थिव ! ॥
दैवं पुरुषकारश्च कालश्च मनुजोत्तम ! ।
त्रयमेतन्मनुष्यस्य पिण्डितं स्यात् फलावहम् ॥
कृषेर्वृष्टिसमायोगाद्दृश्यन्ते फलसिद्धयः ।
तास्तु काले प्रदृश्यन्ते नैवाकाले कथञ्चन ॥
तस्मात् सदैव कर्त्तव्यं सधर्म्मं पौरुषं नृभिः ।
एवन्ते प्राप्नुवन्तीह परलोकफलं ध्रवम् ॥
लालसाः प्राप्नुवन्त्यर्थान्न च दैवपरायणाः ।
तस्मात् सर्व्वप्रयत्नेन पौरुषे यत्नमाचरेत् ॥
त्यक्त्वालसान् दैवपरान् मनुष्या-
नुत्थानयुक्तान् पुरुषान् हि लक्ष्मीः ।
अन्विष्य यत्नाद्बृणुते नृपेन्द्र !
तस्मात् सदोत्थानवता हि भाव्यम् ॥”
इति मात्स्ये दैवपुरुषकारको नाम १९५ अध्यायः ॥
(यथा च नीतिशास्त्रे ।
“यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् ।
तथा पुरुषकारेण विना दैवं न सिध्यति ॥”)

पुरुषकुञ्जरः, पुं, (पुरुषेषु कुञ्जरः श्रेष्ठ इति । पुरुषः

कुञ्जर इवेत्युपमितसमासो वा ।) पुरुषश्रेष्ठः ।
यथा, अमरे । ३ । १ । ५९ ।
“स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः ।
सिंहशार्द्दूलनागाद्याः पुंसिश्रेष्ठार्थवाचकाः ॥”
(यथा, रामायणे । २ । १० । ५ ।
“हन्तानार्य्ये ! ममामित्रे ! सकामा भव केकयि ! ।
मृते मयि गते रामे वनं पुरुषकुञ्जरे ॥”)

पुरुषत्रा, व्य, (द्वितीयासप्तम्यर्थवृत्तेः पुरुषशब्दात्

“देवमनुष्यपुरुषपुरुमर्त्त्येभ्यो द्वितीयासप्तम्यो-
र्बहुलम् ।” ५ । ४ । ५६ । इति त्रा ।) पुरुषम् ।
पुरुषौ । पुरुषान् । पुरुषे । पुरुषयोः । पुरुषेषु ॥
देवादेर्द्बीप्त्योस्त्राजितिसूत्रेण त्राच्प्रत्ययनिष्प-
न्नम् । देवादिस्तु देवमनुष्यपुरुषपुरुमर्त्यबहु
इत्यादि । इति मुग्धबोधटीकायां दुर्गादासः ।
(यथा, ऋग्वेदे । ३ । ३३ । ८ ।
“उक्थेषु कारो प्रति नो जुषस्व
मा नो नि कः पुरुषत्रा नमस्ते ॥”
“पुरुषत्रा पुरुषेषु ।” इति तद्भाष्ये सायनः ॥)
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/पुरतः&oldid=44006" इत्यस्माद् प्रतिप्राप्तम्