शब्दकल्पद्रुमः/कुलायः

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ २/१५४

कुलायः, पुं, (कुलानां पक्षिसमूहानां अयः वास-

स्थानम् ।) नीडः । (यथा, माघे ।
“खगकुलायकुलायनिलायिताम्” ।)
स्थानमात्रम् । इति मेदिनी ॥

कुलायस्थः, पुं, (कुलाये नीडे तिष्ठति । स्था + कः ।)

पक्षी । इति शब्दचन्द्रिका ॥

कुलायिका, स्त्री, (कुलायः पक्षिवासस्थानं विद्यते

ऽस्याम् । ठन् ।) पक्षिशाला । इति त्रिकाण्डशेषः ॥

कुलालः, पुं, (कुलं घटादिनिर्म्माणोपयोगिमृदाद्युपा-

दानं आलाति सम्यगादत्ते । आ + ला + कः । कुलं
वंशं घटादिसमूहं वा अलति पर्य्याप्नोति वा
अल् + कर्म्मण्यण् । कुल् + “तमिविशि विडीति”
उणां १ । ११७ । इति कालन् वा ।) कुम्भकारः ।
इत्यमरः । २ । १० । ६ ॥ तस्योत्पत्तिर्यथा ।
“मालाकारात् कर्म्मकार्य्यां कुम्भकारो व्यजायत” ॥
इति परासरसंहिता ॥
“पट्टिकाराच्च तैलिक्यां कुम्भकारो बभूव ह” ॥
इति पराशरपद्धतिः ॥ ब्रह्मवैवर्त्तोक्ता च कुम्भका-
रशब्दे द्रष्टव्या ॥ कुक्कुभपक्षी । इति मेदिनी ॥

कुलाली, स्त्री, (कुलं पर्व्वतकुलं कलायकुलं वा अलति

परिवर्द्धयति । अल् + अण् । ङीप् ।) कुलत्था-
काराञ्जनप्रस्तरविशेषः । कुलत्थाञ्जनमिति ख्याता ।
इत्यमरः । २ । ९ । १०२ ॥ अरण्यकुलत्थिका वन-
कुलत्थकडाइ इति भाषा । इति राजनिर्घण्टः ॥
(कुलाल + स्त्रियां ङीष् ।) कुलालभार्य्या ॥

कुलाहः, पुं, (कुलं पालककुलं स्वकुलं वा आहन्ति ।

आ + हन् + डः ।) ईषत्पीतवर्णः कृष्णजानुर्घो-
टकः । इति हेमचन्द्रः ॥

कुलाहकः पुं, (कुलाह + संज्ञायां कन् ।) कृकलासः ।

इति शब्दमाला ॥ वृक्षविशेषः । राङ्गा कुले
खाडा इति भाषा । अस्य गुणः । आमवात-वात-
रक्तरोगनाशित्वम् । इति राजवल्लभः ॥

कुलाहलः, पुं, (कुलं आहलति स्पृशति स्पर्द्धते वा ।

आ + हल विलेखने + अच् ।) क्षुद्रवृक्षविशेषः ।
कोकसीमा इति भाषा । तत्पर्य्यायः । अलम्बुषः
२ गोच्छालः ३ भूकदम्बः ४ । इति रत्नमाला ॥

कुलिः, पुं, (कुल् + इन् किञ्च ।) हस्तः । इति त्रि-

काण्डशेषः ॥

कुलिः, स्त्री, (कुल् इन् किच्च ।) कण्टकारी । इति

शब्दरत्नावली ॥

कुलिकः, त्रि, (कुलं अधीनतया प्रशस्ततया वा अ-

स्त्यस्य । इति ठन् ।) शिल्पिकुलप्रधानः । इत्य-
मरः । २ । १० । ५ ॥ कुलसत्तमः इति मेदिनी ॥

कुलिकः, पुं, अष्टमहानागान्तर्गतनागविशेषः ।

(यथा, भागवते । ५ । २४ । ३१ ।
“ततोऽधस्तात् पाताले नागलोकपतयो वासुकि-
प्रमुखाः शङ्खकुलिकमहाशङ्खश्वेतधनञ्जयधृतराष्ट्र-
शङ्खचूडकम्बलाश्वतरदेवदत्तादयो महाभोगिनो
महामर्षा निवसन्ति” ॥
अम्य रूपमप्युक्तं हेमाद्रौ यथा ।
“कुलिकोऽर्द्धचन्द्रमौलिर्ज्वालाधूमसमप्रभः” ॥)
वृक्षविशेषः । इति मेदिनी ॥ केलेकडा इति भाषा ॥
लिकषेला, स्त्री, रव्यादिवारेषु शुभकर्म्मषु निषिद्ध-
कालविशेषः । यथा । रवौ सप्तमयामार्द्धम्
सोमे षष्ठयामार्द्धम् । मङ्गले पञ्चमयामार्द्धम् ।
बुधे चतुर्थयामार्द्धम् । गुरौ तृतीययामार्द्धम् ।
शुक्रे द्वितीययामार्द्धम् । शनौ प्रथमयामार्द्धम् ।
राघवभट्टमते तु पूर्ब्बोक्तयामार्द्धानां दिवाशेष-
भागः । रात्रौ प्रथमभागः । इति ज्योतिषतत्त्वम् ॥

कुलिङ्गः, पुं, (कौ पृथिव्यां लिङ्गति गच्छतीति । कु

+ लिगि + अच् + इदित्वात् नुम् । यद्वा कुत्सितं
कृष्णवर्णं लिङ्गं वर्णं यस्य ।) पक्षिविशेषः । फिङ्गा
इति भाषा । तत्पर्य्यायः । कलिङ्गः २ धुम्याटः ३
फिङ्गकः ४ । इति शब्दमाला ॥ भृङ्गः ५ । इत्य-
मरः ॥ अस्य मांसगुणाः । मधुरत्वम् । स्निग्धत्वम् ।
कफपित्तकारित्वञ्च । इति राजवल्लभः ॥

कुलिङ्गकः, पुं, (कुलिङ्ग + अल्पार्थे कन् ।) चटक-

पक्षी । इति हेमचन्द्रः ॥

कुलिङ्गाक्षी, स्त्री, (कुलिङ्गस्य अक्षिवत् फलं यस्य ।)

पेटिकावृक्षः । इति रत्नमाला । पेटारी इति
भाषा ॥

कुलिङ्गी, क्ली, (कुलिङ्ग + स्त्रियां गौरादित्वात् ङीष् ।)

कर्कटशृङ्गीवृक्षः । इति रत्नमाला ॥

कुलिरः, पुं, (कुल् + बाहुलकात् इरन् किच्च ।)

कर्कटः । इति शब्दरत्नावली ॥

कुलिशं, क्ली, पुं, (कुलौ हस्ते शेते अवतिष्ठते । कुल +

शी + डः । यद्वा कुलिनः पर्व्वतान् श्यति दारय-
तीति । शो + डः । “आतोनुपसर्गे कः” । ३ । २ । ३ ।
इति को वा ।) वज्रम् । इत्यमरभरतौ ॥
(यथा, कुमारे । १ । २० ।
“क्रुद्धेऽपि पक्षच्छिदि वृत्रशत्रा-
ववेदनाज्ञं कुलिशक्षतानाम्” ॥
कु ईषत् कुत्सितं वा लिशति । कु + लिश अल्पी-
भावे गतौ च + कः ।) मत्स्यविशेषः । तत्पर्य्यायः ।
कण्टकाष्ठीलः २ । इति त्रिकाण्डशेषः ॥
(यथा, सुश्रुते सूत्रस्थाने ६४ अध्याये ।
“तिमिमिङ्गिलकुलिशापाकमस्त्यनिरालकनन्दिवा-
रलकमकरगर्गरकचन्द्रकमहामीनराजीवप्रभृतयः
सामुद्राः” ॥ कौ भूमौ लिशति अल्पीभवति
कुंभूमिं लिशति गच्छति ह्रस्वतया प्राप्नोति वा ।)
अस्थिसंहारवृक्षः । इति रत्नमाला ॥

कुलिशनायकः, पुं, (कुलिशवत् नायको यस्मिन् ।)

शृङ्गारबन्धविशेषः । तस्य लक्षणम् ।
“स्त्रीपादद्वयमाकृष्य विमुमुक्षितलिङ्गकः ।
योनिञ्च पीडयेत् कामी बन्धः कुलिशनायकः” ॥
इति रतिमञ्जरी ॥

कुलिशाङ्कुशा, स्त्री, (कुलिशेनाङ्कुशेन चैव निमृह्यते

मनो यया । यद्वा कुलिशवत् दृढमङ्कुशं यस्याः ।)
बौद्धानां विद्यादेवीतिशेषः । इति हेमचन्द्रः ॥

कुलिशासनः, पुं, (कुलिशं वज्रं तद्वत् दृढमासनमस्व ।)

शाक्यमुनिः । इति त्रिकाण्डशेषः ॥

कुली, स्त्री, (कुलि + कृदिकारान्तत्वात् वा ङीष् ।)

कण्टकारी । इत्यमरः । २ । ४ । ९४ ॥ पत्नीज्येष्ठ-
भगिनी । इति हेमचन्द्रः ॥ वृहती । इति राज-
निर्घण्टः ॥

कुलीनः, पुं, (कुले प्रशस्तवंशे जातः । “कुलात् खः” ।

४ । १ । १३९ । इति खः ।) श्रेष्ठघोटकः ।
तत्यर्य्यायः । आजानेयः २ । इत्यमरः ॥ अजा-
नेयः ३ । इति तट्टीका ॥ स्वजानेयः ४ जात्यः ५
बालाश्विः ६ । इति शब्दरत्नावली ॥ (तन्त्र-
शास्त्रोक्तकुलाचारव्रते स्थितः कौलः ॥) उत्तम
कुलोद्भवे, त्रि । तत्पर्य्यायः । महाकुलः २ आर्य्यः
३ सभ्यः ४ सज्जनः ५ साधुः ६ । इत्यमरः । २ । ७ ।
३ ॥ * ॥ अथाधुनिककुलीनलक्षणम् । कुलं
उत्कर्षविशेषवंशः । इति सङ्केतम् । अथवा रूढ्य-
र्थम् । तस्यापत्यमित्यर्थेकुलशब्दादीनप्रत्ययेन कुलीन
इति पदसिद्धिरिति केचित् । अर्थात् कुलीन-
शब्देन उत्कर्षविशेषवंशजातकव्यक्तिरिति । तथा
च लक्षणम् । उत्कर्षविशेषधर्म्मावच्छिन्नवंशजात-
कत्वे सति तद्धर्म्मवत्त्वं कुलीनत्वमिति । उत्कर्ष-
विशेषस्तु नवधा गुणाः । ते च यथा ।
“आचारो विनयो विद्या प्रतिष्ठा तीर्थदर्शनम् ।
निष्ठाऽऽष्टत्तिस्तपो दानं नवधा कुलक्षणम्” ॥
अत एव उत्कर्षविशेषात्मकनवधागुणविशिष्टत्वं
कुलीनत्वम् । एतेन इदानों साधारणसामान्य-
जनानां यदि नवधा गुणा वर्त्तन्ते तदा तेऽपि
कुलीनाः स्युस्तन्न । अनवच्छिन्नपर्य्यायत्वं कुलीनत्वम् ।
प्रमाणं यथा, --
“सपर्य्यायं समासाद्य दानग्रहणमुत्तमम् ।
कन्याऽभावे कुशत्यागः प्रतिज्ञा वा परस्परम्” ॥
तथा च ।
“कुलीनस्य सुतां लब्ध्वा कुलीनाय सुतां ददौ ।
पर्य्यायक्रमतश्चैव स एव कुलदीपकः” ॥
तथा च ।
“आदानञ्च प्रदानञ्च कुशत्यागस्तथैव च ।
प्रतिज्ञाघटकाग्रे च कुलकर्म्म चतुर्व्विधम्” ॥
इति कुलदीपिका ॥ * ॥ अथ वल्लालभूपालकृताः
पञ्चगोत्रजराढीयब्राह्मणस्य ग्रामविशिष्टस्य मुख्य-
गौणभेदेन द्वाविंशतिकुलीनाः यथा । शाण्डिल्य-
गोत्रे भट्टनारायणवंशज आदिवराहवन्द्यः स
मुख्यः । रामगडगडः निपकेशरकोणी गुँयी कुलभी
वटु दिर्घाटिः वैकुण्ठपारियालः एते पञ्च गौणाः ॥
काश्यपगोत्रे दक्षवंशजः सुलोचनचट्टः स मुख्यः ।
जगहडः धीरगुडः काकपीतमण्डी एते त्रयो
गौणाः ॥ भरद्वाजगोत्रे श्रीहर्षवंशजः धुरन्धर
मुखयटी स च सुख्यः । विनायकदिण्डीसाँयी गन्ध-
र्व्वरायी एतौ द्वौ गौणौ ॥ सावर्णगोत्रे वेदगर्भ-
वंशजःवीरव्रतगाङ्गली सुधीरकुन्दः एतौ द्वौ मुख्यौ ।
वीरसूदनघण्टेश्वरः एष गौणः ॥ वात्स्यगोत्रे
छान्दडवंशजः सुरभिघोषवालः कविकाञ्जिलालः
रविपूतितण्डः एते मुख्याः । भानुचौटखण्डो
पनिकालुमहिन्त्या वनमालिपिप्पली एते गौणाः ॥
अधुना एषां मध्ये मुख्या अष्टौ कुलीना गौणा-
श्चौर्द्दशश्रोत्रियाः । अन्येऽपि पञ्चगोत्राज्जाताः
सप्तत्रिंशच्छ्रोत्रियाः सन्ति ॥ ततो लक्षणसेनेन
मुख्याष्टकुलीनो न विंशतिपुत्त्राणां समीकरणं
कृतम् । तत एतेषां नानादोषदर्शनात् देवीवरेण
पृष्ठ २/१५५
फुलिया खडदहवल्लवीसर्व्वानन्दी इत्याद्याः षट्-
त्रिंशन्मेलाः कृताः । ततो भागयूथथाक इति
तिस्रः संज्ञा जाताः कुलाचार्य्यग्रन्थात् ज्ञेयाः ॥ * ॥
अथ वारेन्द्रब्राह्मणकुलीनाः ।
“आदौ मैत्रस्ततो भीमो रुद्रः संजामिनिस्तथा ।
लाहिडिर्भादुडिः साधुर्भादडाः पङ्क्तिपूरकाः” ॥
एषां नानादोषदर्शनात् कुलाचार्य्येण अष्टौ पटी
इति संज्ञा कृता । तद्यथा । निराविला १ रोहिला
२ भूष्णा ३ आलेखानी ४ कुतलखानी ५ वेणी ६
जोनाली ७ भवानीपुर ८ । एतेषां कुलाघातात्
काप इति संज्ञा जाता ॥ * ॥
अथ वैद्यस्यादिकुलीनाः ।
धन्वन्तरिगोत्रे विनायकसेनः । मौद्गल्यगीत्रे चायु-
दासः । काश्यपे कायुगुप्तः । वल्लालेनैषां कुलं
महामध्यमकनिष्ठकुलभेदेन त्रिधा कृतम् । तत्र
महाकुलीनाः पञ्च । यथा । कृष्णसेनखानः १ हरि-
हरसेनखानः २ चण्डीवरदासः ३ गणपतिदासः
४ दुर्जयदासः ५ । अधुनैषां कुलस्य ह्रासवृद्धि-
भङ्गा न सन्ति ॥ * ॥
अथ दक्षिणराढीयकायस्थकुलीनाः ।
तत्रादिशूरराजेन कान्यकुब्जदेशादानीतैर्ब्राह्मण-
पञ्चकैः सह घोषवसुमित्रदत्तगुहाः पञ्चागता
आदिकुलीनाः यथा । सौकालीनगोत्रे मकरन्द-
घोषः १ । गौतमे दशरथवसुः २ । विश्वामित्रे
कालिदासमित्रः ३ । काश्यपगोत्रे दशरथगुहः
स्वाहङ्कारादवमानितो वङ्गे गतः ४ । भरद्वाज-
गोत्रे पुरुषोत्तमदत्तः विनयहीनतो निष्कुलः ५ ।
वङ्गजकुलाचार्य्यग्रन्थे स एव मौद्गल्यगोत्रः ॥ * ॥
अथ वल्लालसेनकृतसमाजादयः ।
तत्राद्यस्य षष्ठ पुरुषयोर्निशापतिप्रभाकरघोष-
योर्वासस्थाने क्रमेण वालीआकनाख्यौ ग्रामौ ।
द्वितीयस्य पञ्चमपुरुषयोः शुक्तिमुक्तिवस्वोर्वासस्थाने
क्रमेण वागाण्डिमाहिनगराख्यौ ग्रामौ । तृतीय-
स्याष्टमपुरुषयोः धूँइ गुँइ मित्रयोर्वासस्थाने
क्रमेण वडिशाटेकानामग्रामौ ॥ अपरेऽष्टादश-
समाजास्तत्स्थानां कुलाभावात् न लिखिताः ॥ * ॥
तेषां कुलन्तु नवविधम् । मुख्य १ । कनिष्ठ २
छभाया ३ मध्यांश ४ तेओज ५ एतानि प्रधा-
नानि । कनिष्ठद्वितीयपुत्त्र ६ छभायाद्वितीयपुत्त्र
७ मध्यांशद्वितीयपुत्त्र ८ तेओजद्वितीयपुत्त्र इति
च ९ । नवरङ्गानुरोधात् छभायाज्येष्ठपुत्त्रस्य
मध्यश्रेष्ठ इति संज्ञा जाता ॥ * ॥
अथ कुलानां विवरणम् ।
मुख्यकुलीनस्य प्रथमपुत्त्रः पितृतुल्यः द्वितीयः
कनिष्ठनामकुलविशिष्टः तृतीयो मध्यांशनामकुल-
युक्तः चतुर्थः तेओजनामकुलान्वितः पञ्चमादियाव-
त्पुत्त्राः मध्यांशद्वितीयपुत्त्रनामकुलयुक्ता भवन्ति ॥
कनिष्ठकुलीनस्य ज्येष्ठपुत्त्रः छभायानामकुलयुक्तः
तस्य ज्येष्ठपुत्त्रः मध्यश्रेष्ठनामकुलयुक्तः तस्य ज्येष्ठ-
पुत्त्रः मध्यांशनामकुलविशिष्टः स एव अपरम-
ध्यांशवारभायामध्यांश इति संज्ञाद्वययुक्तः ॥ * ॥
एषां कर्म्मणा वृद्धिर्यथा । मुख्यकुलीनस्य द्वितीय-
तृतीयपुत्त्रयोः कुलस्य वाडिमुख्य इति संज्ञा
चतुर्थपञ्चमषष्ठपुत्त्राणां कुलस्य वाडिकनिष्ठ इति
संज्ञा सप्तमाष्टमनवमपुत्त्राणां कुलस्य वाडिम-
ध्यांश इति संज्ञा दशमैकादशद्वादशपुत्त्राणां
कुलस्य वाडितेओज इति संज्ञा भवति ॥ कनिष्ठ-
नामकुलीनस्य द्वितीयपुत्त्रस्य कुलस्य तेओज इति
संज्ञा भवति । मुख्यकुलीनस्य तृतीयपुत्त्रस्य
द्वितीयपुत्त्रस्य कुलस्य तेओज इति संज्ञा ॥ मध्यां-
शद्वितीयपुत्त्र इति संज्ञं कुलं मुख्यकनिष्ठछभाया-
मध्यश्रेष्ठमध्यांश इति कुलपञ्चकात् भवति ॥ * ॥
मुख्यकुलन्तु त्रिविधं यथा । प्रकृतम् १ सहजम् २
कोमलम् ३ । आदौ षट्समाजे षट् प्रकृतामुख्या
अभूवन् । ततस्तेषां द्वितीयतृतीयपुत्त्रयोः कुलस्य
वृद्ध्या क्रमेण सहजकोमल इति संज्ञा जाता ।
प्रकृतमुख्यकुले दानग्रहणाभ्यां सहज इति संज्ञा
कोमलमुख्यकुले दानग्रहणाभ्यां कोमल इति
संज्ञा भवति । सहजः सहजेन कोमलः कोमले-
नापि कुलं कृत्वा तत्तद्भावापन्नौ भवतः ॥ पितृकु-
लानुसारेण ज्येष्ठपुत्त्राणां कुलस्य जन्ममुख्यजन्म-
कनिष्ठादिसंज्ञा ॥ * ॥ प्रकृवमुख्यकुलस्य ह्रास-
वृद्धी न भवतः । सहजमुख्यकुलस्य ह्रासवृद्धी
भवतः । कोमलमुख्यकुलस्यापि ह्रासवृद्धी न
भवतः । कनिष्ठकुलस्य मुख्यत्वं छभायाकुलस्य
कनिष्ठत्वं भवति । मध्यांशकुलस्य स्थिरतरत्वम् ।
कनिष्ठद्वितीयपुत्त्रः वाडितेओज इति संज्ञां
प्राप्नोति । मुख्यतृतीयपुत्त्रस्य द्वितीयपुत्त्रः तेओज
इति संज्ञामपि प्राप्तुमर्हति । छभायाद्वितीयपुत्त्र-
मध्यांशद्वितीयपुत्त्रयोः कुले ह्रासवृद्धी न स्तः ।
सर्व्वे कुलीनाः कुलनाशात् वंशजभावापन्ना
भवन्ति ॥ * ॥ आदौ यदि पितृपर्य्यायाय अथवा
मौलिकाय कन्यां दद्यात् तद्दानं प्रामाणिकसंज्ञं
भवति । पश्चात् कुलकर्म्मकर्त्तव्यम् । तद्यथा ।
मुख्यस्य कन्यायाः प्रदाने तस्याः छेइ संज्ञा षष्ठ-
कन्यावधि गरछेइ इति संज्ञा भवति । अन्य-
कुलानां ज्येष्ठकन्यायाः प्रदाने तस्या आकृतिरिति
संज्ञा तदनन्तरं यावत्कन्यानां प्रदाने तासां क्रमेण
प्रतिसारणी जघन्या इति संज्ञाद्वयं भवति ॥
आत्मसमकुलीनाय आकृतिनामकन्यादाने कुलस्य
श्रेष्ठत्वम् । अनुजकन्याग्रहणे तु कुलह्रासो भवति ।
मुख्यस्य गरछेइ इति नाम्नीं कन्यां अन्यकुलीनस्य
प्रतिसारणीञ्च कन्यां मौलिको वंशजश्च ग्रहीतु-
मर्हति । उत्तममध्यमाधमकर्म्मभिः शौर्य्यसमा-
वेशनिन्दा इति त्रयं कुलस्यांशकर्म्म ॥ * ॥ पूर्ब्बं
विपर्य्याये विवाहो जातः । पुरन्दरवसुनैषां त्रयो-
दशपर्य्यायावधिश्रेणीपर्य्यायबन्धभ्रमकृतकुलोद्धरणे
कृते । यथा ।
“विपर्य्याये कुलं नास्ति न कुलं रण्डपिण्डयोः” ॥ * ॥
अथ मुख्येतरकुलीनानां पाणिदोषाः ।
“देवी गङ्गा तथा गौरी भैरवी भास्करी तथा ।
वलायी चण्डिदासी च सप्तैते कुलकण्टकाः” ॥
अपि च ।
“श्रीनाथी श्रीकरी विष्णुदासी हृदय एव च ।
कन्दर्पी च सदानन्दी षडेते कुलकण्टकाः” ॥
इति कुलाचार्य्यकारिका ॥ * ॥
अथ मुख्यकुलीनस्य कार्य्यम् । स च आगछेइ
अर्थादग्रिमां कन्यां आत्मतुल्याय द्वितीयां कनि-
ष्ठकुलीनायतृतीयां छभायानामकुलयुक्ताय चतुर्थीं
मध्यश्रेष्ठनामकुलविशिष्टाय अथवा मुख्यतृतीय-
पुत्त्रमध्यांशकुलीनाय पञ्चमीं तेओजनामकुल
युक्ताय दद्यात् । तनदन्तरजातानां गरछेइ इति
संज्ञा ताः मौलिकमध्यांशद्वितीयपुत्त्रमुख्यकुली
नेभ्यो दातुमर्हति । स एवादौ मुख्यकुलीनस्या-
ग्रिमां कन्यां ततः कनिष्ठकुलीनस्य कन्यां ततो
मध्यांश इति नामकुलयुक्तस्य कन्यां ततो जन्म-
तेओज इतिनामकुलविशिष्टस्य कन्यां गृह्णी-
यात् ॥ * ॥ अथ कनिष्ठकुलीनस्य कार्य्यम् ।
स प्रथमां कन्यां आत्मतुल्यकुलीनाय द्वितीयां
तेओज इति नामकुलयुक्ताय दद्यात् । मुख्यतृती-
यपुत्त्राय मध्यांशनामकुलयुक्ताय अथवा मुख्य-
द्वितीयपुत्त्राय कन्यां दातुमर्हति । मुख्यकुलीनस्य
द्वितीयां कन्यां अथवा कनिष्ठकुलीनस्य प्रथमां
गृह्णीयात् । ततो मुख्यकुलीनस्य तृतीयपुत्त्रस्य
मध्यांशनामकुलयुक्तस्य कन्यां गृह्णीयात् ॥ * ॥
अथ छभाया कुलीनस्य कार्य्यम् । स मध्यांशनाम-
कुलविशिष्टाय प्रथमां कन्यां मध्यांश इतिकुल-
युक्तानुजाय अर्थात् वाडितेओजनामकुलविशि-
ष्टाय द्वितीयां दद्यात् । मुख्यकुलीनस्य तृतीय-
कन्यां अथवा कनिष्ठकुलीनस्य प्रथमां कन्यां
गृह्णीयात् ॥ * ॥ अथ मुख्यतृतीयपुत्त्रस्य मध्यां-
शनामकुलीनस्य कार्य्यम् । स प्रथमकन्यां जन्मते-
ओजनामकुलविशिष्टाय द्वितीयां मध्यांशकुल-
विशिष्टस्य द्वितीयपुत्त्राय दद्यात् । कनिष्ठस्य
प्रथमां कन्यां ततस्तेओजकुलयुक्तस्य प्रथमां कन्यां
ततस्तेओजानुजकुलीनस्य प्रथमां कन्यां गृह्णीयात्
मुख्यस्य तृतीयकन्याग्रहणं तस्य महत् कर्म्म ॥ * ॥
अथ जन्मतेओजनामकुलीनस्य कार्य्यम् । स
प्रथमां कन्यां मुख्यकुलीनस्य चतुर्थपुत्त्राय अथवा
मध्यांशनामकुलविशिष्टस्य द्वितीयपुत्त्राय द्वितीयां
तेओजनामकुलविशिष्टस्य द्वितीयपुत्त्राय दद्यात् ।
मुख्यकुलीनस्य पञ्चमकन्यां अथवा मध्यांशनामकु-
लीनस्य प्रथमकन्यां गृह्णीयात् ॥ * ॥ अथ कनिष्ठ-
कुलीनस्य द्वितीयपुत्त्रस्य कार्य्यम् । स आत्म-
तुल्याय अथवा तेओजनामकुलविशिष्टद्वितीय-
पुत्त्राय प्रथमां कन्यां दद्यात् । मुख्यचतुर्थपुत्त्र-
जन्मतेओजनामकुलयुक्तस्य प्रथमां अथवा कनि-
ष्ठनामकुलीनस्य द्वितीयां कन्यां गृह्णीयात् ॥ * ॥
अथ छभायानामकुलीनस्य द्वितीयपुत्त्रस्य कार्य्यम् ।
स आत्मतुल्याय अथवा तेओजनामकुलविशिष्ट-
द्वितीयपुत्त्राय प्रथमां कन्यां दद्यात् । तेओज-
नामकुलविशिष्टस्य प्रथमां कन्यां अथवा छभाया-
नामकुलयुक्तस्य द्वितीयां गृह्णीयात् ॥ * ॥ अथ
मध्यांशनामकुलीनस्य द्वितीयपुंत्त्रस्य कार्य्यम् । स
आत्मतुल्याय अथवा तेओजनामकुलविशिष्टस्य
द्वितीयपुत्त्राय प्रथमां कन्यां दद्यात् । तेओज-
पृष्ठ २/१५६
नामकुलविशिष्टस्य प्रथमां अथवा अन्यकुलीनानां
मध्यांशनामकुलविशिष्टस्य वा द्वितीयां कन्यां
गृह्णीयात् ॥ * ॥ अथ तेओजनामकुलीनस्य द्वि-
तीयपुत्त्रस्य कार्य्यम् । स आत्मतुल्याय अथवा
वंशजाय प्रथमां कन्यां दद्यात् । मध्यांशनाम-
कुलविशिष्टस्य द्वितीयपुत्त्रस्य प्रथमां कन्यां अथवा
तेओजनामकुलविशिष्टस्य द्वितीयां गृह्णीयात् ॥ * ॥
अथ मध्यश्रेष्ठनामकुलीनस्य कार्य्यम् । स मध्य-
श्रेष्ठपुत्त्रवारभायामध्यांशनामकुलीनाय प्रथमां
मध्यांशकुलविशिष्टस्य द्वितीयपुत्त्राय तेओजनाम-
कुलीनाय द्वितीयां कन्यां दद्यात् । मुख्यकुलीनस्य
चतुर्थीं कन्यां अथवा कनिष्ठकुलीनस्य प्रथमां
कन्यां गृह्णीयात् । ततः तेओजनामकुलविशिष्टस्य
प्रथमां कन्यां गृह्णीयात् । ततः तेओजानुज-
कुलीनस्य अग्रिमां कन्यां गृह्णीयात् ॥ * ॥ अथ
मध्यश्रेष्ठपुत्त्रवारभायामध्यांशनामकुलीनस्य का-
र्य्यम् । स तेओजनामकुलयुक्ताय प्रथमां कन्यां
दद्यात् । कनिष्ठकुलविशिष्टस्य अथवा छभाया-
नामकुलयुक्तस्य किं बा मध्यश्रेष्ठकुलीनस्य प्रथमां
कन्यां गृह्णीयात् ॥ * ॥ अथ चतुस्त्रिंशदधिक-
सप्तदशशतशकाब्दे मत्पित्रा तावत्कुलीनकुला-
चार्य्यमतेन मुख्यकुलीनस्य द्वितीयतृतीययोः क-
न्ययोः क्रमेण ग्रहणेन तदलाभे शौर्य्यकुले दानेन
समानकुले ग्रहणेन च कनिष्ठछभायानामकुलयोः
पुरुषानुक्रमेण स्थिरतरत्वं निर्णीतम् । तद्यथा, --
“कनिष्ठकुलवेश्मनि क्वचन केऽपि केऽपीच्छया
परेऽपि पुरुषत्रयादगमनेव दोच्छेयिकाम् ।
निषेधमिह नेक्षते कमपि तत्र षड्भ्रातृजः
सुतः पितृपदं कथं जननतो हि न प्राप्स्यति ॥
शाके पद्यपदत्रिसप्तवसुधागण्ये वरेण्ये तथा
पर्य्याये परिपूरिते हि विषमे धन्ये त्रयोविंशके ।
गोपीमोहनदेववंशतिलकेनापूर्ब्बकं श्रीमता
निर्णीतं यदपीह तच्च घटकैः सर्व्वैः कुलीनैर्म्मतम् ॥
कनिष्ठषड्भ्रातृकुलस्य तद्वत्
स्वच्छेयिकायामिदमेव मूलम् ।
आदानतः पित्र्यपदस्य लाभो
ज्येष्ठत्वभावः पुरुषक्रमेण ॥
छेयिकायामशक्तस्य दानञ्चेत् प्रबलं भवेत् ।
पर्य्यायस्य समानस्य ग्रहणादपि तिष्ठति ॥
शौर्य्यं निन्दा समावेशस्त्रिविधोऽंशः कुलस्य वै ।
तस्य ध्वंसो न हि भवेद्यत्नतो रक्षितः स हि ॥
अत्र यद्यन्यथाभावो भवेदपि यथाविधि ।
क्रमागतेषु वर्गेर्षु तदा हानिर्भविष्यति ॥
सर्व्वैः कुलज्ञैश्च कुलीनवर्गै-
र्गोष्ठीपतीनां पुरतः सहर्षैः ।
इदं हि पत्रं लिखितं प्रयत्नात्
निर्णीत एष प्रचलिष्यतीति” ॥ * ॥
अथ वङ्गजकुलीनाः ।
“वसुवंशे च मुख्यौ द्वौ नाम्ना लक्ष्मणपूषणौ ।
घोषेषु च समख्यितश्चतुर्भुजमहाकृती ॥
दशरथो गुहश्चैव मित्रस्तारापतिस्तथा” ॥
एतेषामादिपरुषनिर्णयो यथा । गौतमगोत्रे
सर्व्वादौ दशरथवसुसुतौ कृष्णवसुपरमवसुकौ
कृष्णवसुदक्षिणराढे ख्यातस्तस्य सुतः भववसुः
तत्सुतः हंसवसुः तत्सुताः शुक्तिमुक्त्यलङ्कारवसुकाः ।
अलङ्कारवसुः राढात् वङ्गे गतः तस्य वङ्गे कुल-
हानिर्जाता तस्य सुतः मधुवसुः तत्सुतः गुणाकर-
वसुः तत्सुता अनन्तादयः । दशरथसुतः परम-
वसुस्तत्सुतौ लक्ष्मणवसुपूषणवसुकौ वङ्गे ख्यातौ ।
सौकालीनगोत्रे मकरन्दघोषसुतौ भवनाथघोष-
सुभाषितघोषौ भवनाथघोषो दक्षिणराढे ख्यातः
सुभाषितघोषो वङ्गे ख्यातः तस्य सुतश्चतुर्भुज-
घोषः ॥ विश्वामित्रगोत्रे सर्व्वादौ कालिदास-
मित्रसुतौ अश्वपतिमित्रश्रीधरमित्रौ श्रीधर-
मित्रो दक्षिणराढे ख्यातः अश्वपतिमित्रो वङ्गे
ख्यातस्तस्य सुतस्तारापतिमित्रः ॥ इति वङ्गकुला-
चार्य्यग्रन्थः कुलदीपिका ॥

कुलीनकः, पुं, (कुलीन + संज्ञायां कन् ।) वनमुद्गः ।

इति हेमचन्द्रः ॥

कुलीनसं, क्ली, (कौ लीनं भूलग्नं द्रव्यादिकं स्यतीति ।

सो + कः ।) जलम् । इति हेमचन्द्रः ॥

कुलीरः, पुं, (कुल् संस्त्याने + ईरन् किच्च ।) क-

र्कटः । इत्यमरः । १ । १० । २१ ॥ काँक्डा इति
भाषा । (“अथ कुलीरप्रभृतयो जलजन्तवस्तमभ्यु-
पेत्य प्रोचुः” । इति हितोपदेशः ॥) कर्कटराशिः
इति ज्योतिषम् ॥

कुलीरशृङ्गी, स्त्री, (कुलीरावयव इव शृङ्गं यस्य । कुलीर-

शृङ्ग + गौरादित्वात् ङीष् ।) कर्कटशृङ्गीवृक्षः ।
इति रत्नमाला ॥

कुलीरात्, [द्] पुं, (कुलीरं अत्तीति । अद् + क्विप् ।

उत्पत्तिमात्रेणैवात्मप्रसूतिभक्षणादस्य तथात्वम् ।)
कर्कटशिशुः । तत्पर्य्यायः । स्येगविः २ । इति
त्रिकाण्डशेषः ॥

कुलीशः, पुं क्ली, (कुलिश + पृषोदरात् दीर्घः ।)

कुलिशम् । इत्यमरटीकासारसुन्दरी ॥

कुलुकं, क्ली, (कुल् + बाहुलकात् उलच् किच्च

निपातनात् लस्य कः ।) जिह्वामलम् । इति हेम-
चन्द्रः ॥

कुलुक्कगुञ्जा, स्त्री, (कौ भूमौ लुक्का गुप्ता गुञ्जा इव ।)

उल्काग्निः । इति हारावली ॥

कुलेश्वरः, पुं, (कुलस्य जगत्समूहस्य कुलचक्रस्य वा

ईश्वरः ।) शिवः । (कुलस्य वंशस्य ईश्वरः नेता
कर्त्ता वा ।) कुलपतिः । इति शब्दमाला ॥

कुलोत्कटः, पुं, (कुले कुलेन वा उत्कटः उद्रिंक्त उग्रो

वा ।) कुलीनाश्वः । इति शब्दचन्द्रिका ॥ उत्कट-
कुलोद्भवे त्रि ॥

कुल्फः, पुं क्ली, (कल संख्याने “कलिगलिभ्यां फग-

स्योच्च” । उणां ५ । २६ । इति फक् अस्य उच्च ।)
रोगः । गुल्फे पुं इत्युणादिकोषः ॥ (यथा, ऋग्वेदे
७ । ५० । २ । “यद्विजामन्परुषि वन्दनं भुवदष्टी-
वन्तौ परिकुल्फौ च देहत्” ॥)

कुल्मलं, क्ली, (कुष् निष्कर्षे “कुषेर्लश्चं” । उणां ४ ।

१८७ । इति क्मलन् लश्चान्तादेशः ।) पापम् ।
इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (यथा, अथ-
र्व्ववेदे २ । ३० । ३ ।
“तत्र मे गच्छताद्धवं शल्य इव कुल्मलं यथा” ॥)

कुल्माषं, क्ली, (कोलतीति । कुल् + क्विप । ततः कुलं

भक्तमिश्रितजलं मस्यतीति । मसीर्य्य परिणामे +
अण् पृषोदरात् षत्वम् ।) काञ्जिकम् । इत्यमरः ।
२ । ९ । ३९ ॥

कुल्माषः, पुं, (कोलति इति । कुल् + क्विप् । कुल्

अर्द्धस्विन्नो माषोऽस्मिन् ।) यावकः । इत्यमरः ।
२ । ९ । १८ ॥
(यथा, सुश्रुते सूत्रस्थाने ४६ अध्याये ॥
“कुल्माषा वातला रूक्षा गुरवो भिन्नवर्च्चसः” ॥)
वोरवधान्यम् । कुलत्थ इत्यन्ये । माषाकृतिपत्रः ।
काश्मीरेषु तुलसी इति ख्यातः इति सुभूतिः ।
इति भरतः ॥ राजमाष इत्यन्ये । इति नयना-
नन्दः ॥ माषादिमिश्रमर्द्धस्विन्नभक्तम् । खिञ्चडी
इति ख्यातश्च । इति लिङ्गादिसंग्रहटीकायां
भरतः ॥ पाचितमाषादिरिति भीमः । इति सार-
सुन्दरी ॥ अर्द्धस्विन्नगोधूमचणकादयः । (यथा,
शब्दार्थचिन्तामणौ ।
“अर्द्धस्विन्नास्तु गोधूमा अन्येऽपि चणकादयः ।
कुल्माषा इति कथ्यन्ते शब्दशास्त्रेषु पण्डितैः” ॥)
अस्य गुणाः । गुरुत्वम् । रूक्षत्वम् । वातकारि-
त्वम् । मलभेदित्वञ्च । इति भावप्रकाशः ॥ रोग-
विशेषः । इति शब्दरत्नावली ॥ वनकुलत्थः । इति
रत्नमाला ॥

कुल्माषाभिषुतं, क्ली, (कुल्माषैर्यवादिभिरर्द्धस्विन्नै-

रभिषूयते स्म इति । अभि + षु + क्तः ।) काञ्जि-
कम् । इत्यमरटीकायां स्वामी ॥

कुल्मासं, क्ली, (कोलतीति कुल् भक्तमिश्रितजलम् ।

तत् मस्यति परिणमयतीति अण् ।) कुल्माषम ।
इत्यमरटीकायां भरतः ॥

कुल्यं, क्ली, (कुल् बन्धे + क्यप् ।) अस्थि । इत्यमरः ।

२ । ६ । ६८ ॥ अष्टद्रोणपरिमाणम् । सूर्पम् ।
आमिषम् । इति मेदिनी ॥

कुल्यः, त्रि, (कुलस्यापत्यम् । “अपूर्ब्बपदादन्यतरस्या-

मिति” । ४ । १ । १४० । इति यत् । यद्वा कुले
भवः कुलाय हितः कुले साधुः वा दिगादित्वात्
तत्र साधुरिवि वा यत् ।) कुलोद्भवः । कुलहितः ।
(यथा, भागवते ७ । ६ । १३ ।
“गृहान् मनोज्ञोरुपरिच्छदांश्च
वृत्तीश्च कुल्याः पशुभृत्यवर्गान्” ॥)
मान्ये पुं इति । मेदिनी ।

कुल्या, स्त्री, (कुले प्राणिगणे साधुः तत्र साधु-

रिति यत् ।) क्षुद्रा कृत्रिमा नदी । इत्यमरः ।
१ । १० । ३४ ॥ (यथा, शाकुन्तले १ माङ्के ।
“कुल्याम्भोभिः पवनचपलैः शाखिनो धौतमूलाः” ॥)
पयःप्रणाली । पयनाला इति भाषा । जीवन्ति-
कौषधिः । नदीमात्रम् । इति मेदिनी ॥
(यथा, महाभारते ३ पर्व्वणि ।
“सैन्धवारण्यमासाद्य कुल्यानां कुरु दर्शनम्” ॥)
कुलस्त्री । इति हलायुधः ॥ स्थूलवार्त्ताकुः । इति
रत्नमाला ॥
पृष्ठ २/१५७

कुवं, क्ली, (कौ पृथिव्यां वलते मण्डलाकारपुष्पावय-

वेन संवृणोतीव । वल संवरणे अन्येभ्योऽपीति डः ।
यद्वा कुं भूमिं वाति । कु + वा + कः ।) उत्पलम् ।
जलजपुष्पमात्रम् । इति हेमचन्द्रः ॥

कुवकालुका, स्त्री, (कुवमिव कायते प्रकाशते ।

कुव + कै + कः । कुवका आलुका इव ।) घोली-
शाकम् । इति राजनिर्घण्टः ॥

कुवङ्गं, क्ली, (कुत्सितं वङ्गमिव गुणैः ।) सीसकम् ।

इति राजनिर्घण्टः ॥

कुवचः, त्रि, (कुत्सितं वचः यस्य ।) कुवादः । पर-

दोषकथनशीलः । इत्यमरः ॥

कुवज्रकं, क्ली, (कु ईषत् वज्रं हीरकमिव कायते ।

कै + कः ।) वैक्रान्तमणिः । इति राजनिर्घण्टः ॥

कुवरः, पुं, (कुत्सितं यथा स्यात् तथा व्रियते । वृ +

अप् । यद्वा कुत्सितं रसं वृणोति गृह्णाति । कु +
वृ + अच् ।) तुवरः । इत्यमरटीकायां रायमुकुटः ॥

कुवलं, क्ली, (कौ वलते । वल् + पचाद्यच् ।) उत्पलम् ।

मुक्ताफलम् । वदरीफलम् । इति मेदिनी ॥

कुवलयं, क्ली, (कोः पृथिव्या भूमेर्वा वलयमिव शोभा-

कारकत्वात् ।) उत्पलम् । इत्यमरः । ६ । १० । ३७ ॥
नीलोत्पलम् । इति राजनिर्घण्ठः ॥
(यथा, -- मेघदूते ४६ ।
“ज्योतिर्लेखा वलयिगलितं यस्य वर्हं भवानी ।
पुत्त्रप्रेम्ना कुवलयदलप्रापि कर्णे करोति” ॥)

कुवलयापीडः, पुं, (कुवलयं उत्पलं आ सम्यक् पीड-

यति । कुवलयं सर्व्वं भूवलयं आपीडयति वा आ
+ पीड् + अच् ।) कंसस्य हस्तिरूपो दैत्य-
विशेषः । इति श्रीभागवतम् ॥ (यथा, हरिवंशे
१०५ । २६-२७ ।
“शकुनिं केशिनञ्चैव यमलार्ज्जुनकावपि ।
नागं कुवलयापीडं चानूरं मुष्टिकं तथा ॥
कंसञ्च बलिनां श्रेष्ठं सगणं देवकीसुतः ।
निहत्य गोपवेशेन क्रीडयामास केशवः” ॥
कुवलयं नीलोत्पलं आपीडः भूषणं यस्य इति
व्युत्पत्या नीलोत्पलालङ्कृतो जनः ॥)

कुवलयिनी, स्त्री, (कुवलयानां सङ्घः ततः खलादि-

त्वात् इनिः । यद्वा कुवलयानि सन्त्यस्यां इति
इनिः ङीष् ।) उत्पलिनी । इति राजनिर्घण्टः ॥

कुवलाश्वः, पुं, (कौ पृथिव्यां वलते विचरणसमर्थो

भवति यद्वा कुं भूमिं पृथिवीं वा वलते व्याप्नोतीव ।
वल् + अच् । कुवलः वेगगमनेन भूवलयभ्रमणक्षमः
अश्वो यस्य ।) धुन्धुमारराजः । इति हेम-
चन्द्रः ॥ (यथा, विष्णुपुराणे ४ । २ । १२ । “श्राव-
स्तस्य वृहदश्वस्तस्यापि कुवलाश्वः योऽसावुतङ्कस्य
महर्षेरपकारिणं धुन्धुनामानमसुरं वैष्णवेन तेज-
साऽऽप्यायितः पुत्त्रसहस्रैरेकविंशतिभिः परिवृतो
जघान धुन्धुमारसंज्ञामवाप च” ॥ अयमेव कुवल-
याश्व इति नाम्नापि विश्रुतः ॥)

कुवली, स्त्री, (कुबल + स्त्रियां गौरादित्वात् ङीष् ।)

कोलिष्टक्षः । इति रत्नमाला ॥

कुवादः, त्रि, (कुत्सितो वादः भाषणं यस्य ।) कुवचः ।

परदोषकथनशीलः । इत्यमरः । ३ । १ । ३७ ॥

कुवाहुलः, पुं, (कुत्सितं वहतीति । कु + वह +

उलञ् ।) उष्ट्रः । इति शब्दचन्द्रिका ॥

कुविन्दः, पुं, (कुत्सितं भक्तादिम्रक्षितसूत्रादिकं कुत्सि-

तवृत्या वा जीविकां विन्दतीति ।) तन्त्रवायः ।
स तु शूद्रागर्भे विश्वकर्म्मौरसजातः । इति ब्रह्म-
वैवर्त्तपुराणम् ॥

कुवृत्तिकृत्, पुं, (कुवृत्तिं ईषदावरणरूपं चरणं

करोति कुत्सितैः कण्टकादिभिर्वा वृत्तिं आव-
रणं करोति आत्मानमिति शेषः । कुवृत्ति +
कृ + क्विप् तुगागमश्च ।) पूतिकः । इति शब्द-
चन्द्रिका ॥ काँटा करञ्ज इति भाषा ॥ (कुत्सि-
तां वृत्तिं व्यवहारं करोतीति असद्व्यवहार-
कारी ॥)

कुवेणी, स्त्री (कु ईषत् वेणन्ते गच्छन्ति मत्स्या

अस्याम् । कु + वेण् + इन् । ततः कृदिकारान्ता-
दिति वा ङीप् ।) मत्स्यधानी इत्यमरः । १ । १० ।
१६ ॥ खालै इति भाषा । कुत्सिता वेणी यस्याः ।
निन्दितवेणी नारी च ॥

कुवेरः, पुं, (कुत्सितं वेरं शरीरमस्य ।) तथा च वायु-

मार्कण्डेयपुराणे ।
“कुत्सायां क्विति शब्दोऽयं शरीरं वेरमुच्यते ।
कुवेरः कुशरीरत्वात् नाम्ना तेनैव सोऽङ्कितः” ॥
इत्यमरटीकायां भरतः ॥ देवताविशेषः । स तु
विश्रवोमुनेरिडविडाभार्य्यायां जातः । धनयक्षो-
त्तरदिशां पतिश्च । इति श्रीभागवतम् ॥ त्रिच-
रणोऽष्टदंष्ट्रोऽयं जातः । तत्पर्य्यायः । त्र्यम्बकसखः २
यक्षराट् ३ गुह्यकेश्वरः ४ मनुष्यधर्म्मा ५ धनदः ६
राजराजः ७ धनाधिपः ८ किन्नरेशः ९ वैश्र-
वणः १० पौलस्त्यः ११ नरवाहनः १२ यक्षः
१३ एकपिङ्गः १४ ऐलविलः १५ श्रीदः १६ पुण्य-
जनेश्वरः १७ । इत्यमरः । १ । १ । ७१ -- ७३ । हर्य्यक्षः
१८ अलकाधिपः १९ । इति जटाधरः ॥ * ॥
नन्दीवृक्षः । इति मेदिनी ॥ अर्हदुपासकविशेषः ।
इति हेमचन्द्रः ॥

कुवेरः, त्रि, (कुत्सितं वेरं क्षेपणं दानादिकं गति-

र्वा यस्य ।) मम्दः । इति धरणी ॥ (कुत्सितं वेरं
शरीरं यस्य ।) कुशरीरः । इति त्रिकाण्डशेषः ॥

कुवेरकः, पुं, (कुवेर + संज्ञायां कन् ।) नन्दीवृक्षः ।

इत्यमरः । २ । ४ । १२७ ॥

कुवेराक्षी, स्त्री, (कुवेरस्य अक्षीव पिङ्गलं पुष्प-

मस्याः ।) पाटलावृक्षः । इत्यमरः । २ । ४ । ५५ ॥
लताकरञ्जः । सितपाटलिकावृक्षः । इति राज-
निर्घण्टः ॥

कुवेराचलः, पुं, (कुवेरस्य अचलः ।) कैलासपर्व्वतः ।

इति त्रिकाण्डशेषः ॥

कुवेराद्रिः, पुं, (कुवेरस्य अद्रिः पर्व्वतः ।) कैलास-

पर्व्वतः । इति जटाधरः ॥

कुवेलं, क्ली, (कुवेषु जलजपुष्पेषु मध्ये इं शोभां लाति

गृह्णातीति । ला + कः ।) कुवलयम् । इति हेम-
चन्द्रः ॥

कुश इ कि द्युतौ । इति कविकल्पद्रुमः ॥ (चुरां

पक्षे भ्वां--परं-अकं-सेट्-इदित् ।) पञ्चमस्वरी ।
इ कुंश्यते । कि कुंशयति कुंशति । इति दुर्गा-
दासः ॥

कुश य इर् श्लिषि । आलिङ्गन इति यावत् । इति

कविकल्पद्रुमः ॥ (दिवां-परं-सकं-सेट् ।) य कुश्यति
बाला कान्तम् । इर् अकुशत् अकोशीत् ।
अस्मात् पूषादित्वान्नित्यं ङ इत्यन्ये । इति दुर्गा-
दासः ॥

कुशं, क्ली पुं, (कु पापं श्यति नाशयति । कु + शो

+ डः । यद्वा कौ भूमौ शेते राजते शोभते
इत्यर्थः ।) स्वनामख्याततृणम् । तत्पर्य्यायः । कुथः
२ दर्भः ३ पवित्रम् ४ । इत्यमरः । २ । ४ । १६६ ॥
याज्ञिकः ५ ह्रस्वगर्भः ६ वर्हिः ७ कुतुपः ८ । इति
शब्दरत्नावली ॥ अपि च ।
“कुशो दर्भस्तथा वर्हिः सूच्यग्रो यत्र भूषणः ।
ततोऽन्यो दीर्घपत्रः स्यात् क्षुरपत्रस्तथैव च” ॥
तस्योत्पत्तिर्यथा, --
“वर्हिष्मती नाम पुरी सर्व्वसम्पत्समन्विता ।
न्यपतन् यत्र रोमाणि यज्ञस्याङ्गं विधुन्वतः ॥
कुशकाशास्त एवासन् शश्वद्धरितवर्च्चसः ।
ऋषयो यैः पराभाव्य यज्ञघ्नान् यज्ञमीजिरे” ॥
इति श्रीभागवतम् ॥ अस्य गुणाः ।
“दर्भद्वयं त्रिदोषघ्नं मधुरं तुवरं हिमम् ।
मूत्रकृच्छ्राश्मरीतृष्णावस्तिरुक्प्रदरास्रजित्” ॥
इति भावप्रकाशः ॥ * ॥ तस्य धारणविधिस्तत्
प्रतिनिधिश्च यथा, --
“पूजाकाले सर्व्वदैव कुशहस्तो भवेच्छुचिः ।
तर्ज्जन्या रजतं धार्य्यं स्वर्णं धार्य्यमनामया ॥
कुशकार्य्यकरं यस्मान्न तु वन्याः कुशाः कुशाः ।
कुशेन रहिता पूजा विफला कथिता मया ॥
नान्यस्य रजतं स्वर्णं धार्य्यं हि निजमङ्गले” ॥
इति वरदातन्त्रे १ पटलः ॥ * ॥
सधवायास्तत्स्पर्शनिषेधो यथा, --
“न स्पृशेत्तिलदर्भांश्च सधवा तु कथञ्चन” ॥
इति हलायुधकृतब्राह्मणसर्व्वस्वम् ॥ अन्यत् दर्भ-
शब्दे द्रष्टव्यम् ॥

कुशं, क्ली, (कौ पृथिव्यां भूमौ शेते । भूलग्नत्वात्

तथात्वम् ।) जलम् । इति मेदिनी ॥

कुशः, पुं, (कु पापं श्यति नाशयति विहितराजधर्म्मा-

नुष्ठानेन । कु + शो + डः । अपरा व्युत्पत्तिर्यथा
यथा, रामायणे ।
“यस्तयोः पूर्ब्बजो जातः स कुशेर्मन्त्रसत्कृतैः ।
निर्म्मार्ज्जनीयस्तु तदा कुश इत्यस्य नाम तत्” ॥)
रामसुतः । (यथा, रघुः १६ । ७२ ।
“यत् कुम्भयोनेरधिगम्य रामः
कुशाय राज्येन समं दिदेश ।
तदस्य जैत्राभरणं विहर्त्तु-
रज्ञातपातं सलिले ममज्ज” ॥)
योक्त्रम् । इति मेदिनी ॥ पुराणोक्तसप्तद्वीपेषु
द्वीपभेदः । स तु घृतसमुद्रेणावृतः । तत्र देव
निर्म्मितोऽग्नितुल्यः कुशस्तम्बोऽस्ति । (अतः कुश-
द्वीप इति संज्ञया विख्यातः ।) तदधिपः प्रिय-
व्रतराजपुत्त्रो हिरण्यरेताः तद्द्वीपं विभज्य सप्त-
पृष्ठ २/१५८
पुत्त्रेभ्यो दत्तवान् । तेषां नामानि यथा । वसुः १
वसुदानः २ दृढरुचिः ३ नाभिगुप्तः ४ स्तुत्यव्रतः ५
विप्रनामा ६ देवनामा ७ । एषां वर्षेषु सप्त सीमा-
गिरयः । यथा । बभ्रुः १ चतुःशृङ्गः २ कपिलः ३
चित्रकूटः ४ देवानीकः ५ ऊर्द्ध्वरोमा ६ द्रविणः
७ । सप्त नद्यश्च यथा । रसकुल्या १ मित्रविन्दा
२ श्रुतविन्दा ३ देवगर्भा ४ घृतच्युता ५ मधुः ६ माला
७ । तत्र स्थिताः कुशलकोविदाभिमुक्तकुलकसंज्ञाः
क्रमेण ब्राह्मणक्षत्त्रियवैश्यशूद्राः भगवन्तमग्नि-
रूपिणं आसां नदीनां पयोभिर्यजन्ते । इति
श्रीभागवतम् ॥ (विष्णुपुराणे तु एतद्द्वीपाधिपते-
स्तत्पुत्त्राणां गिरीणां नदीनाञ्च नामान्तराणि
दृश्यन्ते । यथा २ । ४ । ३६ -- ४४ ।
“ज्योतिष्मतः कुशद्वीपे सप्त पुत्त्राः शृणुष्व तान् ।
उद्भिदो वेणुमांश्चैव वैरथो लम्बनो धृतिः ॥
प्रभाकरोऽथ कपिलस्तन्नामा वर्षपद्धतिः ।
तस्मिन् वसन्ति मनुजाः सह दैवेयदानवैः ॥
तथैव देवगन्धर्व्वयक्षकिंपुरुषादयः ।
वर्णास्तत्रापि चत्वारो निजानुष्ठानतत्पराः ॥
दमिनः शुष्मिणः स्नेहा मन्देहाश्च महामुने ! ।
ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्राश्चानुक्रमोदिताः ॥
यथोक्तकर्म्मकर्त्तृत्वात् स्वाधिकारक्षयाय ते ।
तत्रैव तं कुशद्वीपे ब्रह्मरूपं जनार्द्दनम् ॥
यजन्तः क्षपयन्त्युग्रमधिकारं फलप्रदम् ।
विद्रुमो हेमशैलश्च द्युतिमान् पुष्पवांस्तथा ॥
कुशेशयो हविश्चैव सप्तमो मन्दराचलः ।
वर्षाचलास्तु तत्रैते सप्तद्वीपे महामुने ! ॥
नद्यस्तु सप्त तासान्तु शृणु नामान्यनुक्रमात् ।
धूतपापा शिवा चैव पवित्रा सम्मतिस्तथा ॥
विद्युदम्भा मही चान्या सर्व्वपापहरास्त्विमाः ।
अन्याः सहस्रशस्तत्र क्षुद्रनद्यस्तथाचलाः ॥
कुशद्वीपे कुशस्तम्बः सज्ञया तस्य तत् स्मृतः ।
तत्प्रमाणेन स द्वीपो घृतोदेन समावृतः” ॥)

कुशः, त्रि, (कु कुस्तिते कर्म्मणि शेते अवतिष्ठते ।

कु + शी + कः ।) पापिष्ठः ॥ (कुत्सिते मदशय्यायां
शेते इति ।) मत्तः । इति मेदिनी ॥

कुशण्डिका, स्त्री, (कुशैः कण्डिका इव । कुशकण्डिका

पृषोदरात् कस्य लोपः ।) सर्व्वहोमार्थाग्निसंस्का-
रकक्रिया । तत्र सर्व्वेषामाहुतियुक्तकर्म्मणां कुश-
ण्डिकासंस्कृताग्निसाध्यत्वात् सैव प्रथममभिधीयते ।
तत्र हस्तप्रमाणं चतुरस्रं स्थण्डिलं शर्कराङ्गारास्थि-
केशतुषादिरहितं पूर्ब्बोत्तरप्लवं समं वा छाया-
मण्डपसहितं गोमयेनोपलिप्य स्नातः शुचिरा-
चान्तः प्राङ्मुखः कुशसहितासनोपविष्टः कर्त्ता
उत्तरस्यां दिश्यभ्युक्षणार्थं कुशकुसुमसहितजल-
पात्रं निधाय दक्षिणं जानु भूमौ पातयित्वा
उत्तराग्रकुशोपरि सव्यहस्तप्रादेशमुत्तानं वह्नि-
स्थापनपर्य्यन्तं भूमौ निधाय दक्षिणहस्तानामि-
काङ्गुष्ठगृहीतकुशमूलेन स्थण्डिलदक्षिणप्रान्ते द्वा-
दशाङ्गुलप्रमाणां प्राङ्मुखीं रेखामुल्लिख्य रेखेयं
पृथ्वीदेवताका पीतवर्णा इति ध्यायेत् । तन्मूलतः
प्रभृत्येकविंशत्यङ्गुलप्रमाणां उत्तराभिमुखीं रेखा-
मुल्लिख्य रेखेयं अग्निदेवताका लोहितवर्णा इति
ध्यायेत् । ततः प्रथमरेखायाः उत्तरतः सप्ताङ्गुला-
न्तरितां प्रादेशप्रमाणां पूर्ब्बाभिमुखीं रेखामुल्लिख्य
रेखेयं प्रजापतिदेवताका कृष्णवर्णा इति ध्यायेत् ।
ततः सप्ताङ्गुलान्तरितां प्रादेशप्रमाणां पूर्ब्बभि-
मुखीं रेखामुल्लिख्य रेखेयं इन्द्रदेवताका नीलवर्णा
इति ध्यायेत् । ततोऽपि सप्ताङ्गुलान्तरितां प्रादे-
शप्रमाणां पूर्ब्बाभिमुखीं रेखामुल्लिख्य रेखेयं
सोमदेवताका शुक्लवर्णा इति ध्यायेत् । ततः
क्रमेण दक्षिणहस्ताङ्गुष्ठानामिकाभ्यां रेखासूत्करं
गृहीत्वा प्रजापतिरृषिस्तृष्टुप्छन्दोऽग्निर्द्देवता
रेखासूत्करनिरसने विनियोगः । ॐ निरस्तः
परावसुरित्यैशान्यां दिशि अरत्निमात्रान्तरिते
देशे प्रक्षिपेत् । ततः पूर्ब्बस्थापितजलेन रेखा-
भ्युक्षणं कृत्वा दक्षिणदिक्स्थकांस्यपात्रस्थाग्नेर्नव-
शरावस्थाग्नेर्व्वा ज्वलदिन्धनं गृहीत्वा प्रजापति-
रृषिस्तृष्टुप्छन्दः अग्निर्द्देवताग्निसंस्कारे विनि-
योगः । ॐ क्रव्यादमग्निं प्रहिणोमि दूरं यम-
राज्यं गच्छतु रिप्रवाहः । अनेन दक्षिणपश्चिम-
कोणे प्रक्षिपेत् । ततोऽपरमग्निं गृहीत्वा प्रजा-
पतिरृषिर्वृहतीच्छन्दः प्रजापतिर्द्देवता अग्नि-
स्थापने विनियोगः । ॐ भूर्भुवः स्वरोम् । इत्य-
नेनाग्निमात्माभिमुखं तृतीयरेखोपरि स्थापयेत्
ततो वामहस्तमुत्तोल्याञ्जलिं बद्ध्वा पठेत् । प्रजा-
पतिरृषिस्तृष्टुप्छन्दोऽग्निर्द्देवताग्निस्थापने विनि-
योगः । ॐ इहैवायमितरो जातवेदा देवेभ्यो
हव्यं वहतु प्रजानन् ॥ ततोऽग्ने ! त्वं विश्वरूप-
नामासि इति नाम कृत्वा ध्यात्वाऽऽवाह्य विश्व-
रूपनाम्ने अग्नये नमः इति पाद्यादिनाभ्यर्च्च्य । ॐ
सर्व्वतः पाणिपादान्तः सर्व्वतोऽक्षिशिरोमुखः ।
विश्वरूपो महानग्निः प्रणीतः सर्व्वकर्म्मसु ॥ इति
पठेत् ॥ ततः प्रादेशप्रमाणां घृताक्तां समिधं
तूष्णीमग्नौ हुत्वा ब्रह्मस्थापनं कुर्य्यात् । समाग्र-
पञ्चाशत्कुशपत्ररचितं द्विर्दक्षिणावर्त्तमूर्द्ध्वमुखं दर्भ-
वटुं अधीतवेदं ब्राह्मणं वा छत्रमुत्तरासङ्गं वा
कमण्डलुं वा ब्रह्मत्वेन परिकल्प्य धारासहित-
मुदकपात्रं गृहीत्वा अग्नेरुत्तरतः प्रभृति दक्षि-
णावर्त्तेन दक्षिणदेशं गत्वा अरत्निमात्रान्तरिते
देशे पूर्ब्बाभिमुखीं वारिधारां दत्त्वा तदुपरि
प्रागग्रान् कुशानास्तीर्य्य पश्चिमाभिमुखोऽनुपवि-
ष्टस्तिष्ठेत् । वामहस्तानामिकाङ्गुष्ठाभ्यामास्तीर्ण-
कुशपत्रमेकं गृहीत्वा प्रजापतिरृषिरनुष्टुप्छन्दो-
ऽग्निर्देवता तृणनिरसने विनियोगः । ॐ निरस्तः
परावसुरित्यनेन दक्षिणपश्चिमकोणे प्रक्षिपेत् ।
ततोऽप उपस्पृश्य दक्षिणपादेन सव्यपादमवष्टभ्य
उत्तराभिमुखीभूय आस्तीर्णकुशानद्भिरभ्युक्ष्य प्रजा-
पतिरृषिरनुष्टुप्छन्दः अग्निर्देवता ब्रह्मोपवेशने
विनियोगः । ॐ आवसोः सदने सीद इति ।
ब्राह्मणब्रह्मपक्षे तु ब्राह्मण एव सीदामीति
ब्रूयात् । अनेन कुशोपरि पूर्ब्बाग्रं कुशब्राह्मणं
ब्राह्मणब्रह्मपक्षे तु उत्तराभिमुखं स्थापयित्वा
तदुपरि कुशान् दत्त्वा अद्भिरभ्यक्ष्य कुशकुसुमै-
रर्च्चयेत् । ततस्तेनैव पथा प्रत्यावृत्यासने पूर्ब्बा-
भिमुख उपविष्टो भूमिजपादिकं कुर्य्यात् । यदि
तु ब्रह्मत्वेनारोपितो ब्राह्मणः अयज्ञीयवाचं वदे-
त्तदा इमं मन्त्रं जपेत् । प्रजापतिरृषिर्गायत्री-
च्छन्दो विष्णुर्देवता अयज्ञीयवाग्वचननिमित्तजपे
विनियोगः । ॐ इदं विष्णुर्विचक्रमे त्रेधा निदधे
पदं समूढमस्य पांशुले । इति जपेत् । कुशादि-
ब्रह्मपक्षे तु कर्म्मकर्तुरेव कृताकृतावेक्षणादिब्रह्म-
कार्य्यकर्तृत्वादयज्ञीयवाग्वचननिमित्तं स एव
जपेत् । यदि प्रकृते कर्म्मणि चरुहोमोऽस्ति तदा
अस्मिन्नेव समये चरुं श्रपयित्वा तदुपरि घृतं
दत्त्वा अग्नेरुत्तरतः कुशोपरि संस्थाप्य भूमि-
जपादिकं कुर्य्यात् । दक्षिणजानु भूमौ पातयित्वा
दक्षिणहस्तोपरिभावेन अधोमुखौ हस्तौ भूमौ
निधाय । परमेष्ठी ऋषिरनुष्टुप्छन्दोऽग्निर्देवता
भूमिजपे विनियोगः । ॐ इदं भूमेर्भजामह
इदं भद्रं सुमङ्गलम् । परास्रपत्नान् बाधस्वान्येषां
विन्दते धनम् । इति जप्त्वा रात्रौ चेत् कर्म्म तदा
धनमितिस्थाने वस्विति प्रयोक्तव्यम् । ततो
दक्षिणहस्तेन कुशान् गृहीत्वा अग्नेरुत्तरतः
प्रभृति दक्षिणावर्त्तेन तृणादिकमनेन मन्त्रेण
परिशोधयेत् । त्रयाणां मन्त्राणामृष्यादयः साधा-
रणाः । कौत्सऋषिर्जगतीच्छन्दोऽग्निर्द्देवता पृष्ठस्य
षडहस्य षष्ठेऽहन्यग्निमारुते शस्ते परिसमूहने
विनियोगः । ॐ इमं स्तोममर्हते जातवेद-
रथमिव सम्महे मा मनीषया भद्रा हि नः प्रम-
तिरस्य संसद्यग्ने सख्ये मा रिषामा वयन्तव ।
ॐ भरामेध्मं कृणवामा हवींषि ते चितयन्तः
पर्व्वणा पर्व्वणा वयम् । जीवातवे प्रतरां साधया
धियोऽग्ने सख्ये मा रिषामा वयन्तव । ॐ शकेम
त्वा समिधं साधया धियस्ते देवा हविरदन्त्या-
हुतं त्वमादित्यानावहतां ह्युश्मस्यग्ने सख्ये मा
रिषामा वयन्तव । ततस्तान् कुशान् ऐशान्यां
दिशि प्रक्षिपेत् । ततोऽग्नेः पूर्ब्बतः उत्तरान्ताद्द-
क्षिणान्तं यावत् उपमूललूनान् एकपत्रीकृतान्
कुशान् अग्रेण मूलमाच्छादयन् वारत्रयमास्त-
रेत् । एवं दक्षिणस्यां पूर्ब्बान्तात् पश्चिमान्तं
यावत् । प्रतीच्याञ्च दक्षिणादुत्तरान्तं यावत् । एव-
मुत्तरस्यां पश्चिमान्तात् पूर्ब्बान्तं यावत् क्रमेणास्त-
रेत् । ततो घृताक्तस्वस्तिकान् दशदिक्षु पूर्ब्बादि-
क्रमेण दद्यात् । ॐ इन्द्राय लोकपालाय
स्वाहा । एवं अग्नये इत्यादि । ततः प्रादेशद्वय-
प्रमाणां धवखदिरपलाशोडुम्बराणामन्यतमस्य
विंशतिकाष्ठिकां मध्ये घृतस्रुवं दत्त्वा प्रजापतिं
मनसा ध्यात्वा तूष्णीमग्नौ जुहुयात् । ततः स्तरण-
कुशादेव समाग्रकुशपत्रद्वयं गृहीत्वा प्रजापतिं-
रृषिः पवित्रे देवते पवित्रच्छेदने विनियोगः ।
ॐ पवित्रे स्थो वैष्णव्यौ इति मन्त्रेण प्रादेश-
प्रमाणं कृत्वा कुशान्तरेण वेष्टयित्वा नखव्यति-
रेकेण छित्वा प्रजापतिरृषिः पवित्रे देवते पवित्र-
मार्ज्जने विनियोगः । ॐ विष्णोर्म्मनसा पूते
स्थः इत्यनेनाभ्यक्ष्य ताम्रादिपात्रे पवित्रमुत्तराग्रं
पृष्ठ २/१५९
निधाय तत्र होमार्थं घृतं निःक्षिपेत् । ततस्तत्कुश-
पत्रद्वयमग्रे दक्षिणहस्तानामिकाङ्गुष्ठाभ्यां मूले च
वामहस्तानामिकाङ्गुष्ठाभ्यां गृहीत्वा दक्षिण-
हस्तोपरिभावेनाधोमुखव्यस्तपाणिः प्रजापति-
रृषिराज्यं देवता आज्योत्पवने विनियोगः । ॐ
देवस्त्वा सवितोत्पुनात्वछिद्रेण पवित्रेण वसोः
सूर्य्यस्य रश्मिभिः स्वाहा । इत्यनेन कुशपत्रद्वय-
मध्येन घृतमग्नौ सकृज्जुहुयात् । तूष्णीं वारद्वयम् ।
ततस्तत्कुशपत्रद्वयमद्भिरभ्युक्ष्याग्नौ निःक्षिपेत् ।
ततस्तस्याज्यपात्रस्योदकेनानुमार्ज्जनमग्नेरुपरि नि-
धानं उत्तरस्यां दिश्यवतारणं इत्थमेव वारत्रयं
संस्कुर्य्यात् इत्याज्यसंस्कारः । ततो धवखदिर-
पलाशोडुम्बराणामन्यतमस्य अरत्निमात्रं भ्रमि-
ताङ्गुष्ठपर्व्वविलं नासारन्ध्रवन्मध्यस्थितमर्य्यादं स्रुवं
इत्थमेव वारत्रयं संस्कुय्यादिति । स्रुवसंस्कारः ।
एवं स्रुङ्मेक्षणादिकं संस्कुर्य्यात् । ततो दक्षिणं
जानु भूमौ पातयित्वा उदकाञ्जलिं गृहीत्वा
प्रजापतिरृषिरदितिर्द्देवता उदकाञ्जलिसेके वि-
नियोगः । ॐ अदिते अनुमन्यस्व इत्यनेनाग्ने-
र्द्दक्षिणतः पश्चिमान्तात् पूर्ब्बान्तं यावदुदकाञ्ज-
लिना सिञ्चेत् । ततः प्रजापतिरृषिरनुमतिर्द्देवता
उदकाञ्जलिसेके विनियोगः । ॐ अनुमते अनु-
मन्यस्व इत्यनेनाग्नेः पश्चिमतो दक्षिणान्तादुत्त-
रान्तं यावदुदकाञ्जलिना सिञ्चेत् । ततः प्रजा-
पतिरृषिः सरस्वती देवता उदकाञ्जलिसेके
विनियोगः । ॐ सरस्वत्यनुमन्यस्व इत्यनेनाग्ने-
रुत्तरतः पश्चिमान्तात् पूर्ब्बान्तं यावदुदकाञ्जलिना
सिञ्चेत् । ततः प्रजापतिरृषिः सविता देवता
अग्निपर्य्युक्षणे विनियोगः । ॐ देव सवितः
प्रसुवयज्ञं प्रसुवयज्ञपतिं भगाय दिव्यो गन्धर्व्वः
केतपूः केतन्नः पुनातु वाचस्पतिर्वाचन्नः स्वदतु
इत्यनेनोदकाञ्जलिना दक्षिणावर्त्तेनाग्निं वेष्टयेत् ।
ततो दक्षिणं जानूत्थाप्य उपर्य्यधःस्थितदक्षिण-
वाममुंष्टिभ्यां फलपुष्पकुशान् गृहीत्वा विरूपाक्ष-
जपं कुर्य्यात् । परमेष्ठी ऋषी रुद्ररूपोऽग्निर्द्देवता
विरूपाक्षजपे विनियोगः । ॐ भूर्भुवः स्वरोम्
महान्तमात्मानं प्रपद्ये विरूपाक्षोऽसि दन्ताञ्जि-
स्तस्य ते शय्या पर्णे गृहान्तरीक्षे विमितं हिर-
ण्मयं तद्देवानां हृदयान्ययस्मये कुम्भेऽन्तः सन्नि-
हितानि तानि बलभृच्च बलसाच्च रक्षतोऽप्रमणी
अनिमिषत्तत् सत्यं यत्ते द्वादशपुत्त्रांस्ते त्वा संव-
त्सरे संवत्सरे कामप्रेण यज्ञेन याजयिंत्वा पुन-
र्ब्रह्मचर्य्यमुपयन्ति त्वं देवेषु ब्राह्मणोऽस्म्यहं मनु-
ष्येषु ब्राह्मणो वै ब्राह्मणमुपधावत्युपधावामि
जपन्तं मा मा प्रतिजापीर्ज्जुह्वन्तं मा मा प्रति-
हौषीः कुर्व्वन्तं मा मा प्रतिकार्षीस्त्वां प्रपद्ये त्वया
प्रसूत इदं कर्म्म करिष्यामि तन्मे राध्यतां तन्मे
समृद्ध्यतां तन्म उपपद्यतां समुद्रो मा विश्वव्यचा
ब्रह्माऽनुजानातु तुथो मा विश्ववेदा ब्रह्मणः पुत्त्रो-
ऽनुजानातु श्वात्रो मा प्रचेता मैत्रावरुणोऽनुजा-
नातु तस्मै विरूपाक्षाय दन्ताञ्जये समुद्राय विश्व-
व्यचसे तुथाय विश्ववेदसे श्वात्राय प्रचेतसे सह-
स्राक्षाय ब्रह्मणः पुत्त्राय नमः । इति जपित्वा
गृहीतकुशान् प्रागुदीच्यां दिशि क्षिपेत् । फल-
पुष्पे ब्रह्मणे निवेदयेत् ॥ * ॥ अथ काम्यकम्मार्थं
कुशण्डिका तदा प्राणान् संयम्य प्रथमं पुटाञ्जलिः ।
ॐ तपश्च तेजश्च श्रद्धा च ह्रीश्च सत्यञ्चाक्रोधश्च
त्यागश्च घृतिश्च धर्म्मश्च सत्वञ्च वाक् च मन-
श्चात्मा च ब्रह्म च तानि प्रपद्ये तानि मामवन्तु ।
इति जपित्वा पश्चात् विरूपाक्षजपं कुर्य्यात् ।
इति सामवेदिनां सर्व्वसाधारणी कुशण्डिका
समाप्ता । इति भवदेवभट्टः ॥ * ॥ अन्यत् रघु-
नन्दनभट्टाचार्य्यकृतसंस्कारतत्त्वे द्रष्टव्यम् ॥ यजु-
र्व्वेदिनां कुशण्डिका पशुपतिकृतदशकर्म्मपद्धतौ
ऋग्वेदिनां कुशण्डिका कालेशिकृतदशकर्म्मपद्धतौ
च द्रष्टव्या ॥ * ॥ * ॥ अथ कुशण्डिकानन्तरं प्रकृतं
कर्म्म कर्त्तव्यम् । तत्र प्रथमं प्रादेशप्रमाणां घृताक्तां
समिधं तूष्णीमग्नौ हुत्वा महाव्याहृतिहोमं
कुर्य्यात् । प्रजापतिरृषिर्गायत्रीच्छन्दोऽग्निर्देवता
महाव्याहृतिहोमे विनियोगः । ॐ भूः स्वाहा ।
प्रजापतिरृषिरुष्णिक्छन्दो वायुर्देवता महाव्या-
हृतिहोमे विनियोगः । ॐ भुवः स्वाहा । प्रजा-
पतिरृषिरनुष्टुप्छन्दः सूर्य्यो देवता महाव्याहृति-
होमे विनियोगः । ॐ स्वः स्वाहा । इति स्रुवे-
णाज्याहुतित्रयन्दद्यात् । यदि प्रकृते कर्म्मणि
चरुहोमोऽस्ति तदा आज्यतन्त्रोपक्रमविहितत्वात्
महाव्याहृतिहोमस्य प्रथमं महाव्याहृतिहोमो
न कर्त्तव्योऽन्ते तु कर्त्तव्य एव विहितत्वात् । ततः
प्रकृतं कर्म्म समाप्य पुनर्महाव्याहृतिहोमं कृत्वा
प्रादेशप्रमाणां समिधं तूष्णीमग्नौ हुत्वा शाट्या-
यनहोमादिवामदेव्यगानान्तं उदीच्यं साधारणं
कर्म्म करणीयम् । तदभिधीयते । तत्र प्रथमं ॐ
अद्येत्यादि अत्रामुककर्म्मणि यत्किञ्चिद्वैगुण्यं जातं
तद्दोषप्रशमनाय शाट्यायनहोममहं कुर्व्वीय
इति सङ्कल्पं कृत्वा अग्ने त्वं विधुनामासि इति
नाम कृत्वा संपूज्य पुनर्घृताक्तां प्रादेशप्रमाणां
समिधं तूष्णीमग्नौ हुत्वा महाव्याहृतिहोमञ्च
पूर्ब्बवत् कृत्वा प्रायश्चित्तहोमं कुर्य्यात् । प्रजापति
रृषिरग्निर्द्देवता प्रायश्चित्तहोमे विनियोगः ।
ॐ पाहि नोऽग्न एनसे स्वाहा । प्रजापतिरृषि-
र्विश्वेदेवा देवताः प्रायश्चित्तहोमे विनियोगः ।
ॐ पाहि नो विश्ववेदसे स्वाहा । प्रजापतिरृषि-
र्व्विभावसुर्देवता प्रायश्चित्तहोमे विनियोगः ।
ॐ यज्ञं पाहि विभावसो स्वाहा । प्रजापतिरृ-
षिः शतक्रतुर्देवता प्रायश्चित्तहोमे विनियोगः ।
ॐ सव्यं पाहि शतक्रतो स्वाहा । प्रजापतिरृषि-
रनुष्टुप्छन्दोऽग्निर्देवता प्रायश्चित्तहोमे विनि-
योगः । ॐ पाहि नो अग्न एकया पाह्युत
द्वितीयया पाहि गीर्भिस्तिसृभिरुर्जांपते पाहि
चतसृभिर्वसो स्वाहा । प्रजापतिरृषिर्गायत्री-
च्छन्दोऽग्निर्देवता प्रायश्चित्तहोमे विनियोगः ।
ॐ पुनरूर्ज्जा निवर्त्तस्व पुनरग्न इषायुषा पुनर्नः
पाह्यंहसः स्वाहा । प्रजापतिरृषिर्गायत्रीच्छन्दो-
ऽग्निर्देवता प्रायश्चित्तहोमे विनियोगः । ॐ सहर्ज्जा
निवर्त्तस्वाग्ने पिनुस्व धारया विश्वप्स्याः विश्वतः
परि स्वाहा । प्रजापतिरृषिरनुष्टुप्छन्दोऽग्निर्दे-
वता प्रायश्चित्तहोमे विनियोगः । ॐ आज्ञा-
यदनाज्ञातं यज्ञस्य क्रियते मिथः अग्ने तदस्य
कल्पय त्वं हि वेत्थ यथायथं स्वाहा । प्रजापति-
रृषिः पङ्क्तिच्छन्दः प्रजापतिर्देवता प्रायश्चित्त-
होमे विनियोगः । ॐ प्रजापते न त्वदेतान्यन्यो
विश्वा जातानि परिता बभूव । यत्कामास्ते
जुहुमस्तन्नोऽस्तु वयं स्यामः पतयो रयीणां स्वाहा ।
ततः पूर्ब्बवदेव महाव्याहृतिहोमः समित्प्रक्षे-
पश्च । प्रजापतिरृषिर्गायत्रीच्छन्दोऽग्निर्देवता
महाव्याहृतिहोमे विनियोगः । ॐ भूः स्वाहा ।
प्रजापतिरृषिरुष्णिक्छन्दो वायुर्देवता महाव्या-
हृतिहोमे विनियोगः । ॐ भुवः स्वाहा । प्रजा-
पतिरृषिरनुष्ठुप्छन्दः सूर्य्यो देवता महाव्याहृति-
होमे विनियोगः ॐ स्वः स्वाहा ॥ * ॥
ततोनवग्रहहोमः । ॐ आकृष्णेन रजसा वर्त्त-
मानो निवेशयन्नमृतं मर्त्त्यञ्च हिरण्ययेन सविता
रथेना देवो याति भुवनानि पश्यन् स्वाहा । ॐ
आप्यायस्व समेतु ते विश्वतः सोमवृष्ट्यं भवा
वाजस्य सङ्गथे स्वाहा । ॐ अग्निर्मूर्द्धा दिवः
ककुत् पतिः पृथिव्या अयं अपां रेतांसिं जिन्वति
स्वाहा । ॐ अग्ने विवस्वदुषसश्चित्रं राधोऽमर्त्य
आदाशुषे जातवेदो वहा त्वमद्याँ देवाँ उषर्वुधः
स्वाहा । ॐ वृहस्पते परिदीया रथेन रक्षोहा-
ऽमित्राँ अपबाधमानः प्रभञ्जत्सेनाः प्रमृणो युधा
जयन्नस्माकमेध्यविता रथानां स्वाहा । ॐ शुक्र-
न्तेऽन्यद्यजन्तेऽन्यद्विषुरूपेऽहनी द्यौरिवासि ।
विश्वा हि माया अवसि स्वधावन् भद्रा ते पूषन्निह
रातिरस्तु स्वाहा । ॐ शन्नो देवी रभीष्टये शन्नो
भवन्तु पीतये । शंयोरभिस्रवन्तु नः स्वाहा ।
ॐ कयानश्चित्र आभुवदूती सदावृधः सखा
कया सचीष्टया वृता स्वाहा । ॐ केतुं कृन्वन्नके-
तवे पेशो मर्य्या अपेशसे समुशद्भिरजायथाः
स्वाहा ॥ * ॥ ततः इन्द्राद्यष्टलोकपालहोमं प्रत्यक्ष-
देवताहोमञ्च कृत्वा घृताक्तां प्रादेशप्रमाणां समिधं
तूष्णीमग्नौ हुत्वा उदकाञ्जलिसेकं कुर्य्यात् । प्रजा-
पतिरृषिः सविता देवताग्निपर्य्युक्षणे विनियोगः ।
ॐ देव सवितः प्रसुवयज्ञं प्रसुवयज्ञपतिं भगाय
दिव्यो गन्धर्व्वः केतपूः केतन्नः पुनातु वाचस्पति-
र्व्वाचन्नः स्वदतु । अनेनोदकाञ्जलिना दक्षिणा-
वर्त्तेनाग्निं वेष्टयेत् । प्रजापतिरृषिरदितिर्देवता
उदकाञ्जलिसेके विनियोगः । ॐ अदितेऽन्व-
मंस्थाः अनेनाग्नेर्दक्षिणतः पश्चिमान्तात् पूर्ब्बान्तं
यावदुदकाञ्जलिना सिञ्चेत् । प्रजापतिरृषिरनु-
मतिर्देवता उदकाञ्जलिसेके विनियोगः । ॐ
अनुमतेऽन्वमंस्थाः अनेनाग्नेः पश्चिमतो दक्षिणा-
न्तादुत्तरान्तं यावदुदकाञ्जलिना सिञ्चेत् । प्रजा-
पतिरृषिः सरस्वती देवता उदकाञ्जलिसेके वि-
नियोगः । ॐ सरस्वत्यन्वमंस्थाः । अनेनाग्नेरुत्त-
रतः पञ्चिमान्तात् पूर्ब्बान्तं यावदुदकाञ्जलिना
सिञ्चेत् । तत उत्तानहस्तद्वयेन कतिपयास्तरण-
पृष्ठ २/१६०
कुशान् गृहीत्वा प्रजापतिरृषिर्व्वयो देवता दर्भ-
तृणाभ्यञ्जने विनियोगः । ॐ अक्तं रिहा णाव्यन्तु
वयः । अनेनाग्रमध्यमूलानि घृतेनाभ्यनक्ति वार-
त्रयं मन्त्रश्च वारत्रयमेव पठनीयः । ततस्तान्
कुशानद्भिरभ्युक्ष्य प्रजापतिरृषिरनुष्टुप्छन्दो रुद्र-
रूपोऽग्निर्देवता दर्भजुटिकाहोमे विनियोगः ।
ॐ यः पशूनामधिपती रुद्रस्तस्तिचरो वृषा ।
पशूनस्माकं मा हिंसीरेतदस्तु हुतन्तव स्वाहा ।
अनेनाग्नौ क्षिपेत् । तत अग्ने त्वं मृडनामासीति
नाम कृत्वा गन्धमाल्यवस्त्रताम्बूलैरग्निमभ्यर्च्च्य
प्रजापतिरृषिर्व्विराट्छन्द इन्द्रो देवता यशस्का-
मस्य यजनीयप्रयोगे विनियोगः । ॐ पूर्णहोमं
यशसे जुहोमि योऽस्मै जुहोति वरमस्मै ददाति
वरं वृणे यशसा भामि लोके स्वाहा । अनेन
पूर्णाहुतिं दद्यात् । ततो ब्रह्मणे पूर्णपात्रादि
दक्षिणां दत्त्वा होमदक्षिणां कुर्य्यात् । ततः प्रद-
क्षिणेन दक्षिणं देशं गत्वा ब्रह्मग्रन्थिं मुक्त्वा प्रत्या-
वृत्यासने पुनरुपविश्य कुशकुसुमसहितजलपात्रे
हस्तं निधाय महावामदेव्य ऋषिर्व्विराडगाय-
त्रीच्छन्द इन्द्रो देवता शान्तिकर्म्मणि जपे विनि-
योगः । ॐ कया न श्चित्र आभुवदूती सदा
वृधः सखा कया सचीष्टया वृता । ॐ कस्त्वा
सत्यो मदानां मंहिष्ठो मत्सदन्धसः दृढाचिदारुजे
वसु । ॐ अभीषुणः सखीनामविता जरितॄणां
शतम्भवास्यूतये । ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः
स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्योऽरिष्ट-
नेमिः स्वस्ति नो वृहस्पतिर्दधातु ॥ “एता ऋचो
गीत्वा शान्तिं कुर्य्यात् । गानाशक्तौ एता एव
ऋचस्त्रिरावृत्त्या पठेदिति । ततो दक्षिणां दत्त्वा
अच्छिद्रावधारणं कुर्य्यात् । इति सर्व्वकर्म्मसा-
धारणमुदीच्यं कर्म्म समाप्तम् ॥

कुशपः, पुं, (कुश् य संश्लेषे + बाहुलकात् कपन् ।)

पानपात्रम् । इत्युणादिकोषः ॥

कुशपुष्पं, क्ली, (कुशाकारं पुष्पमस्य ।) ग्रन्थिपर्णम् ।

इति रत्नमाला ॥ गाँठियाला इति भाषा ॥

कुशलं, क्ली, (कुश् + वृषादित्वात् कलन् । यद्वा कुं

पापं तस्मात् शलति गच्छति पृथक्त्वं प्राप्नोतीत्यर्थः ।
कु + शल् + अच् ।) कल्याणम् । (यथा, रघुः १ । ५८ ।
“प्रप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनिः” ॥ * ॥
समागमे विहिते अभिवादकमवरवयस्कं स-
मानवयस्कमनभिवादकमपि ब्राह्मणं कुशलमिति
शब्दविशेषोच्चारणेनैव कल्याणप्रश्नं पृच्छेत् । य-
दुक्तं मनौ २ । १२७ ।
“ब्राह्मणं कुशलं पृच्छेत् क्षत्त्रबन्धुमनामयम् ।
वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च” ॥)
पर्य्याप्तिः । पुण्यम् । (तद्वति, त्रि ।
यथा, गीतायाम् १८ । १० ।
“नद्वेष्ट्यकुशलं कर्म्म कुशले नानुषज्जते” ॥
कौ पृथिव्यां शलति श्लाघा प्राप्नोतीति । शल
+ अच् ।) शिक्षिते, त्रि । इत्यमरः । ३ । ३ ।
२०३ ॥ (यथा, मनुः ८ । १५७ ।
“समुद्रयानकुशला देशकालार्थदर्शिनः ।
स्थापयन्ति तु यां वृद्धिं सा तत्राधिगमं प्रति” ॥
कुशं लाति गृह्णाति । कुश + ला + कः । कुश-
ग्राहकः । इति व्युत्पत्तिलब्धोऽर्थः ॥)

कुशलवौ, पुं, (पुष्पवतोरिव एकशक्त्या तयोरेव

बोधकत्वम् द्वन्द्वसमासे तु कुशश्च लवश्च तौ कुशी-
लवौ मित्रावरुणावित्यादिवज्ज्ञेयम् ।) एकयोक्त्या
रामपुत्त्रौ । इति हेमचन्द्रः ॥ तयोर्नामकारणं
यथा, --
“यस्तयोः प्रथमं जातः स कुशैर्म्मन्त्रसंस्कृतैः ।
निर्म्मार्ज्जनीयो नाम्ना हि भविता कुश इत्यसौ ॥
यश्चावरज एवासील्लवणेन समाहितः ।
निर्म्मार्ज्जनीयो वृद्धाभिर्नाम्ना स भविता लवः ॥
एवं कुशलवौ नाम्ना यमौ तौ सम्बभूवतुः ।
भगवत्कृतनामानौ सुखिनावक्षयौ च तौ” ॥
इति रामायणम् ॥

कुशलप्रश्नः, पुं, (कुंशलः शुभः प्रश्नः ।) कुशलजिज्ञासा ।

तत्पर्य्यायः । कौशली २ । इति त्रिकाण्डशेषः ॥

कुशली, स्त्री, (कुश इव लीयते । ली + डः गौरादि-

त्वात् ङीष् ।) अश्मन्तकवृक्षः । क्षुद्राम्लिका ।
इति वैद्यकम् ॥

कुशली, [न्] त्रि, (कुशलं अस्त्यस्य । कुशल + इनिः ।)

मङ्गलान्वितः । (यथा, रघौ ५ । ४ ।
“अप्यग्रणीर्मन्त्रकृतामृषीणां
कुशाग्रबुद्धे ! कुशली गुरुस्ते” ॥)

कुशस्थलं, क्ली, (कुशप्रधानं स्थलम् ।) कान्यकुब्ज-

देशः । इति हेमचन्द्रः ॥ (यथा, वेणीसंहारे ।
“कुशस्थलं वृकस्थलं माकन्दं वाराणवतम् ।
देहि मे चतुरो ग्रामान् कञ्चिदेकञ्च पञ्चमम्” ॥)

कुशस्थली, स्त्री, (कुशस्थल + स्त्रियां ङीष् ।) द्वा-

रिका । इति जटाधरः ॥ (यथा, -- महाभारते
२ । मन्त्रणापर्व्वणि १४ । ४९ ।
“इति सञ्चिन्त्य सर्व्वे स्म प्रतीचीं दिशमांश्रिताः ।
कुशस्थलीं पुरीं रम्यां रैवतेनोपशोभिताम्” ॥
पुर्य्येषा तु पुरा रेवतनाम्ना केनचित् नरपतिना
निर्म्मिता कालवशात् राक्षसैरुत्सादिता श्वापदा-
श्रयीभूताऽऽसीत् ततो देवप्रमुखैर्यादवैः संस्कृता
सती तेषामेव वासभूमिरासीत् ॥)

कुशा, स्त्री, (कुश् य संश्लेषे + कः टाप् च ।) रज्जुः ।

इति मेदिनी । मधुकर्कटिका । इति शब्द-
चन्द्रिका ॥ वल्गा । इति हेमचन्द्रः ॥ (छन्दोगाः
स्तोत्रीयागणनार्थानौदुम्बरान् शङ्कून् कुशा इति
व्यवहरन्ति ॥ इति चिन्तामणिः ॥)

कुशाकरः, पुं, (कुशैराकीर्य्यते समन्तात् अग्रेण

मूलाच्छादनेन वेष्ट्यतेऽत्र । आ + कॄ + अधिक-
रणे अप् । कुशण्डिकासमये कुशैर्वेष्टनात् तथा-
त्वम् ।) अग्निः । इति शब्दमाला ॥ (कुशां रज्जुं
करोतीति व्युत्पत्त्या रज्जुकारकः ॥)

कुशाक्षः, पुं, (कुश इव सूक्ष्मं क्षुद्रमित्यर्थः अक्षि

यस्य । समासे अच् ।) वानरः । इति शब्दमाला ॥

कुशाग्रीयमतिः, त्रि, (कुशाग्रीया कुशानां अग्रवत्

सूक्ष्मा मतिर्यस्य ।) तीक्ष्णबुद्धिः । (यदुक्तं शिष्टैः ।
“अहञ्च भाष्यकारश्च कुशाग्रीयधियाबुभौ ।
नैव शब्दाम्बुधेः पारं किमन्ये जडबुद्धयः” ॥)
तत्पर्य्यायः । सूक्ष्मदर्शी २ तत्कालधीः ३ प्रत्युत्पन्न-
मतिः ४ । इति हेमचन्द्रः ॥ सूक्ष्मायां बुद्धौ कर्म्म-
धारयस्तत्र स्त्री ॥

कुशारणिः, पुं, (कुशं शापप्रदानार्थं जलं अरणिरिव

यस्य ।) दुर्व्वासाः । इति त्रिकाण्डशेषः ॥

कुशाल्मलिः, पुं, (कुत्सितः शाल्मलिः ।) रोहित-

वृक्षः । इति राजनिर्घण्टः ॥

कुशिंशपा, स्त्री, (कुत्सिता शिंशपा ।) कपिलशिं-

शपा । इति राजनिर्घण्टः ॥

कुशिकः, पुं, (कुशः कुशसंज्ञको महीपालो जनकत्वे-

नास्त्यस्य । कुश + ठन् ।) स्वनामख्यातनृपविशेषः ।
(स तु विश्वामित्रपितामहः गाधेः पिता । एत-
द्विवरणन्तु महाभारते १३ । भीष्मयुधिष्ठिरसंवादे
५२ अध्यायमारभ्य द्रष्टव्यम् ॥) फालः । सर्जवृक्षः ।
विभीतकवृक्षः । इति हेमचन्द्रः ॥ अश्वकर्णवृक्षः ।
इति राजनिर्घण्टः ॥ तैलशेषः । इति विश्वः ॥
केकरे त्रि । इति शब्दमाला ॥

कुशितं, त्रि, (कुश् + इतच् । यद्वा कुशसंश्लेषे + क्त

इट् च ।) जलमिश्रितम् । इत्युणादिकोषः ॥

कुशी, स्त्री, (कुश + अयोविकारार्थे “जानपदेति”

४ । १ । ४२ । इति ङीष् ।) फालः । इति मेदिनी ॥

कुशी, [न्] पुं, (कुशाः सन्त्यस्य । समाधियोगकाले

अङ्गेषु कुशोत्पत्तेस्तथात्वम् ।) वाल्मीकिमुनिः ।
इति हेमचन्द्रः ॥ (कुशविशिष्ठे, त्रि । यथा, महा-
भारते १३ । मेघवाहनोपाख्याने १४ । ३७४ ।
“दिनेऽष्टमे तु विप्रेण दीक्षितोऽहं यथाविधि ।
दण्डी मुण्डी कुशी चीरी घृताक्तो मेखलीकृतः” ॥)

कुशीदं, क्ली, (कुसीद + पृषोदरात् सस्य शत्वम् ।)

वृद्धिजीविका । इत्यमरटीकायां भरतः ॥ रक्त-
चन्दनम् । इति मुण्डमालातन्त्रम् ॥

कुशीलवः, पुं, (कुत्सितं शीलं अस्य इति कुशीलः ।

कुगतीतिसमासः अन्यत्रापि दृश्यते इति वः ।
यद्वा कुशीलं वाति गच्छति प्राप्नातीति यावत् ।
वा + कः ।) चारणः । इत्यमरः । २ । १० । १२ ॥
नटविशेषः । कथकादिः । इत्यन्ये । देशान्तरे
कीर्त्तिं प्रचारयति यो नटः । इत्यन्ये । इति
भरतः ॥ (एते हि अपाङ्क्तेया हव्यकव्ययोर्वर्ज्ज्याः ।
यथा, मनुः ३ । १५५ ।
“कुशीलवोऽवकीर्णी च वृषलीपतिरेव च” ॥
कुशीलववृत्त्यर्थं नाट्यशास्त्रप्रचारकत्वात् वाल्मी-
किमुनिः ॥)

कुशीलवौ, पुं, (कुशश्च लवश्च तौ कुशीलवौ ।) एक-

योक्त्या रामपुत्त्रौ । इति हेमचन्द्रः ॥
(यथा, रामायणे ७ । १०७ । सग ।
“अभिषिच्य महात्मानावुभौ रामः कुशीलवौ” ॥)

कुशीवशः, पुं, (कुशीव कुशवान् सन् शेते समाधौ

अवतिष्ठते इति । शी + ड ।) वाल्मीकिमुनिः ।
इति त्रिकाण्डशेषः ॥

कुशूलः, पुं, (कुसूल + पुषोदरात् शत्वम् ।) तुषानलः ।

इति जटाधरः ॥ धान्यागारम् । तत्पर्य्यायः । अन्न-
कोष्ठकः २ । इति हेमचन्द्रः ॥ व्रीह्यगारम् ३ ।
पृष्ठ २/१६१
इति त्रिकाण्डशेषः ॥ (यथा, मनुः ४ । ७ ।
“कुशूलधान्यको वा स्यात् कुम्भीधान्यक एव वा ।
त्र्यहैहिको वापि भवेदश्वस्तनिक एव वा” ॥)

कुशेशयं, क्ली, (कुशे जले शेते । कुश + शी + अच् ।

अलुक् समासः ।) पद्मम् । (यथा, रघुः ६ । १८ ।
“कुशेशयाताम्रतलेन कश्चित् करेण रेखाध्वजला-
ञ्छनेन” ॥) सारसपक्षी । इत्यमरः । १ । १० । ४० ॥

कुशेशयः, पुं, (कुशेशयं पद्ममिव आकृतिर्विद्यतेऽस्य ।

अर्श आद्यच् ।) कर्णिकारवृक्षः । इति शब्दचन्द्रिका ॥
(कुशद्वीपस्थपर्व्वतविशेषः । इति विष्णुपुराणे ॥
२ । ४ । ३६ ॥)

कुष ग निष्कर्षे । इति कविकल्पद्रुमः । (क्र्यां --

परं -- सकं -सेट् ।) ग कुष्णाति चुकोष । निष्कर्ष
इयत्तापरिच्छेदः । तूलैरवकुष्णातीति वोपदेवः ॥
निष्कर्षोऽन्तःप्रकाशनमिति गोविन्दभट्टः ॥ “ततो-
ऽकुष्णाद्दशग्रीवः क्रुद्धः प्राणान् वनौकसाम्” । इति
भट्टौ अनेकार्थत्वांन्निष्कोषणार्थः । इति दुर्गादासः ॥

कुषलः, त्रि, (कुष् + बाहुलकात् कलच् ।) कुशलः ।

इत्यमरटीकायां भरतः ॥

कुषाकुः, पुं, (कुष + “कठिकुषिभ्यां काकुः” । उणां

३ । ७७ । इति काकुः ।) कपिः । अग्निः । अर्कः ।
परोत्तापिनि, त्रि । इति मेदिनी ॥

कुषितः, त्रि, (कुष् निष्कर्षे + क्तः ।) जलमिश्रितः ।

इत्युणादिकोषः ॥

कुषीदं, क्ली, (कुसीद + पृषोदरात् षत्वम् ।) कुसी-

दम् । इत्यमरटीकायां भरतः ॥

कुष्ठं, क्ली, (कुष्णाति रोगम् । कुष् + “हनि कुषीति” ।

उणां २ । २ । इति क्थन् ।) विषभेदः । इति
हेमचन्द्रः ॥ औषधविशेषः । कुड् इति भाषा ।
तत्पर्य्यायः । व्याधिः २ पारिभव्यम् ३ वाप्यम् ४
पाकलम् ५ उत्पलम् ६ । इत्यमरः । २ । ४ ।
१२६ ॥ आप्यम् ७ । इति तट्टीका ॥ जरणम् ८ ।
इति रत्नमाला ॥ रुजा ९ गदः १० आमयः ११
पारिभद्रकम् १२ रामम् १३ वाणीरजम् १४
पावनम् १५ कुत्सितम् १६ पद्मकम् १७ गदा-
ह्वम् १८ गदाह्वयम् १९ कौवेरम् २० भासु-
रम् २१ । इति शब्दरत्नावली ॥ काकलम् २२
नीरुजम् २३ । इति जटाधरः ॥
“कुष्ठं रोगाह्वयं वाप्यं पारिभव्यं तथोत्पलम् ।
कुष्ठमुष्णं कटु स्वादु शुक्रलं तिक्तकं लघु ।
हन्ति वातास्रवीसर्पकासकुष्ठमरुत्कफान्” ॥ * ॥
अथ कुष्ठभेदपुष्करमूलम् ।
“उक्तं पुष्करमूलन्तु पुष्करं पौष्करञ्च तत् ।
पद्मपत्रञ्च काश्मीरं कुष्ठभेदमिदं जगुः ॥
पौष्करं कटुकं तिक्तमुष्णं वातकफज्वरान् ।
हन्तिशोथारुचिश्वासान् विशेषात् पार्श्वशूलनुत्” ॥
इति भावप्रकाशः ॥ अस्य गुणाः । कटुत्वम् ।
उष्णत्वम् । तिक्तत्वम् । कफवायुकुष्ठरोगविसर्प-
विषकण्डूखर्ज्जूदद्रुनाशित्वम् । कान्तिकारित्वञ्च ।
इति राजनिर्घण्टः ॥ श्वासकासज्ज्वरहिक्काना-
शित्वम् । इति राजवल्लभः ॥ * ॥
स्वनामख्यातरोगः । कुट् इति भाषा । तत्पर्य्यायः ।
श्वित्रम् २ । इत्यमरः । २ । ४ । ५४ ॥ श्वेतम् ३
श्वेत्रम् ४ । इति तट्टीका ।
तस्य निदानपूर्ब्बिका संप्राप्तिर्यथा ।
“विरोधीन्यन्नपानानि द्रवस्निग्धगुरूणि च ।
भजतामागतां छर्दिं वेगांश्चान्यान् प्रतिघ्नताम् ॥
व्यायाममतिसन्तापमतिभुक्त्वा निषेविणाम् ।
शीतोष्णलङ्घनाहारान् क्रमं मुक्त्वा निषेविणाम् ॥
घर्म्मश्रमभयार्त्तनां द्रुतं शीताम्बुसेविनाम् ।
अजीर्णाध्यशिनाञ्चैव पञ्चकर्म्मापचारिणाम् ॥
नवान्नदधिमत्स्यातिलवणाम्लनिषेविणाम् ।
मांसमूलकपिष्टान्नतिलक्षीरगुडाशिनाम् ॥
व्यायामञ्चाप्यजीर्णेऽन्ने निद्राञ्च भजतां दिवा ।
विप्रान् गुरून् धर्षयतां पापं कर्म्म च कुर्व्वताम् ॥
वातादयस्त्रयो दुष्टास्त्वग्रक्तं मांसमम्बु च ।
दूषयन्ति स कुष्ठानां सप्तको द्रव्यसंग्रहः ॥
अतः कुष्ठानि जायन्ते सप्त चैकादशैव तु ।
कुष्ठानिं सप्तधा दोषैः पृथग्द्वन्द्वैः समागतैः ॥
सर्व्वेष्वपि त्रिदोषेषु व्यपदेशोऽधिकत्वतः” ॥ * ॥
तस्य पूर्ब्बरूपं यथा ।
“अतिश्लक्ष्णः खरः स्पर्शः स्वेदास्वेदौ विवर्णता ।
दाहः कण्डुस्त्वचि स्वापस्तोदः कोठोन्नतिर्भ्रमः ॥
व्रणाणामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः ।
रूढानामतिरूक्षत्वं निभित्तेऽल्पेऽपि कोपणम् ॥
रोमहर्षोऽसृजः कार्ष्ण्यं कुष्ठलक्षणमग्रजम्” ॥ * ॥
तच्च वातादिभेदेन अष्टादशप्रकारम् ।
तत्र सप्तमहाकुष्ठानि यथा ।
“कृष्णारुणकपालाभं यद्रूक्षं परुषं तनु ।
कापालं तोदबहुलं तत्कुष्ठं विषमं स्मृतम् ॥ १ ॥
रुग्दाहरागकण्डूभिः परीतं रोमपिञ्जरम् ।
उडुम्बरफलाभासं कुष्ठमौडुम्बरं वदेत् ॥ २ ॥
श्वेतं रक्तं स्थिरं स्त्यानं स्निग्धमुत्सन्नमण्डलम् ।
कृच्छ्रमन्योन्यसंयुक्तं कुष्टं मण्डलमुच्यते ॥ ३ ॥
कर्कशं रक्तपर्य्यन्तमन्तःश्यावं सवेदनम् ।
यदृष्यजिह्वासंस्थानमृष्यजिह्वं तदुच्यते ॥ ४ ॥
सश्वेतं रक्तपर्य्यन्तं पुण्डरीकदलोपमम् ।
सोत्सेधञ्च सरागञ्च पुण्डरीकं प्रचक्षते ॥ ५ ॥
श्वेतं ताम्रं तनु च यद्रजो घृष्टं विमुञ्चति ।
प्रायश्चोरसि तत् सिध्ममलावुकुसुमोपमम् ॥ ६ ॥
यत् काकणन्तिकावर्णमपाकं तीव्रवेदनम् ।
त्रिदोषलिङ्गं तत्कुष्ठं काकणं नैव सिध्यति” ॥ ७ ॥
एकादशक्षुद्रकुष्ठानि यथा ।
“अस्वेदनं महाकास्तु यन्मत्स्यसकलोपमम् ।
तदेव कुष्ठं चर्म्माख्यं बहुलं हस्तिचर्म्मवत् ॥ १ ॥
श्यावं किणखरस्पर्शं परुषं किटिमं स्मृतम् ॥ २ ॥
वैपादिकं पाणिपादस्फुटितं तीव्रवेदनम् ॥ ३ ॥
कण्डुमद्भिः सरागैश्च गण्डैरलसकं चितम् ॥ ४ ॥
सकण्डुरागपिडकं दद्रुमण्डलमुद्गतम् ॥ ५ ॥
रक्तं सशूलं कण्डूमत् सस्फोटं यद्गलत्यपि ।
तच्चर्म्मदलमाख्यातं संस्पर्शासहमुच्यते ॥ ६ ॥
सूक्ष्मा बह्व्यः पिडकाः स्राववत्यः
पामेत्युक्ताः कण्डुमत्यः सदाहाः । ७ ॥
सैव स्फोटैस्तीव्रदाहैरुपेता
ज्ञेया पाण्योः कच्छुरुग्रास्फिचोश्च ॥ ८ ॥
स्फोटाः श्यावारुणा भासा विष्फोटाः स्युस्तनुत्वचः ॥ ९ ॥
रक्तं श्यावं सदाहार्त्ति शतारुः स्याद्बहुव्रणम् ॥ १० ॥
सकण्डुपिडका श्यावा बहुस्रावा विचर्च्चिका” ॥ ११ ॥
इति माधवकरः ॥

कुष्ठः, पुं, (कुष्णाति शरीरस्थशोणितं विकुरुते इति ।

निष्कर्षार्थकस्य कुष्धातोरत्र विकारार्थत्वं बोध्य-
ते धातूनामनेकार्थत्वात् । कुष् निष्कर्षे + “हनि-
कुषीति” । उणां २ । २ । इति क्थन् ।)
स्वनामख्यातरोगः ।
तस्य निदानं पूर्ब्बलिखितम् । औषधं यथा ।
“सर्व्वकुष्टेषु वमनं रेचनं रक्तमोक्षणम् ।
वचावासापटोलानां निम्बस्य फलिनीत्वचः ॥
कषायो मधुना पीतो वातहृन्मदनान्वितः ।
विरेचनं प्रयोक्तव्यं त्रिवृद्दन्तीफलत्रिकैः ॥
मनःशिला मरीचानि तैलपाकं पयो हरेत् ।
सर्व्वकुष्ठानुलेपोऽयं शिवा पञ्चगुडोदनम् ॥
करञ्जैडगजौ कुष्ठं गोमूत्रेण प्रलेपतः ।
करवीरोद्वर्त्तनञ्च तैलाक्तस्य तु कुष्ठहृत् ॥
हरिद्रामलयं रास्ना गुडूच्येडगजस्तथा ।
आरग्वधः करञ्जश्च लेपः कुष्ठहरः परः ॥
मनःशिला विडङ्गानि वाकुची सर्षपस्तथा ।
करञ्जो मूत्रपिष्टोऽयं लेपः कुष्ठहरोऽर्कवत् ॥
विडङ्गैडगजाकुष्ठनिशासिन्धूत्थसर्षपैः ।
मूत्राम्बुपिष्टो लेपोऽयं दद्रुकुष्ठविनाशनः ॥
प्रपुन्नाटकवीजानि धात्री सर्ज्जरसः स्नूही ।
सौवीरपिष्टं दद्रू णामेतदुद्वर्त्तनं परम् ॥
आरग्वधस्य पत्राणि आरनालेन पेषयेत् ।
दद्रुकिट्टिमकुष्ठानि हन्ति सिध्मानमेव च ॥
उष्णा पीता वाकुची च कुष्ठजित् क्षीरभोजिनः ।
तिलाज्यत्रिफलाक्षौद्रव्योषभल्लातशर्कराः ॥
वृष्यः सप्तसमो मेध्यः कुष्ठहा कामचारिणः ।
विडङ्गत्रिफलाकृष्णाचूर्णं लीढं समाक्षिकम् ॥
हन्ति कुष्ठं कृमीन्मेहनाडीव्रणभगन्दरान् ।
यः खादेदभयारिष्टामलकानि तथा निशा ॥
स जयेत् सर्व्वकुष्ठानि मासादूर्द्ध्वं न संशयः ।
दह्यमानाच्युतः कुम्भे मूलगे खदिराङ्कुरः ॥
साक्षधात्रीरसक्षौद्रं हन्यात् कुष्ठं रसायनम् ।
धात्रीखदिरयोः क्वाथं पीत्वावल्गुजसंयुतम् ॥
शङ्खेन्दुधवलं श्वित्रं हन्ति तूर्णं न संशयः ।
पीत्वा भल्लातकं तैलं मांसव्याधिं जयेन्नरः ॥
सेवितं खादिरं वारि पानाद्यैः कुष्ठजिद्भवेत् ।
वासा गुडूची त्रिफला पटोलञ्च करञ्जकम् ॥
निम्बासनं कृष्णवेत्रं क्वाथकल्केन यद्युतम् ।
वज्रकं तद्धरेत् कुष्ठं शतं वर्षाणि जीवति ॥
स्वरसेन च दूर्व्वायाः पचेत्तैलं चतुर्गुणम् ।
कच्छुर्विचर्च्चिका पामा अभ्यङ्गादेव नश्यति ॥
द्रुमत्वगर्ककुष्ठानि लवणानि च मूत्रकम् ।
गण्डीरिका चित्रकैस्तैस्तैलं कुष्ठव्रणादिनुत्” ॥
इति गारुडे १७५ अध्यायः ॥
“कुष्ठेन्द्रयवसिद्धार्थनिशा दूर्व्वा च कुष्ठजिंत्” ॥
इति तत्रैव १७५ अध्यायः ॥
पृष्ठ २/१६२
“करवीरं भृङ्गराजं लवणं कुष्ठमर्द्दकम् ।
चतुर्गुणेन मूत्रेण पचेत्तैलं हरेच्च तत् ।
पामां विचर्च्चिकां कुष्ठमभ्यङ्गाद्धि व्रणानि वै” ॥
“सैन्यवञ्च विडङ्गानि सोसराजी तु सर्षपाः ।
रजनी द्वे विषाञ्चैव गोमूत्रेण च पेषयेत् ।
कुष्ठनाशश्च तत्क्षेपान्निम्बपत्रादनात्तथा” ॥
इति च गारुडे १८७ अध्यायः ॥
“सतक्रकाशमूलं वा वाकुचीमूलमेव वा ।
काञ्जिकेन च वाकुच्या मूलं वै कुष्ठरोगनुत्” ॥
इति गारुडे १८८ अध्यायः ॥
“पीतं वृश्चिकमूलन्तु पर्य्युषितजलेन वै ।
सार्द्धं विनाशयेद्दाहज्वरञ्च परमेश्वर ! ॥
शिखायाञ्चैव तद्बद्धं भवेदैकाहिकादिनुत् ।
एतत् सकाञ्जिकं पीतं वातकुष्ठज्वरादिनुत्” ॥
इति गारुडे १९३ अध्यायः ॥
“नित्यं निम्बदलानाञ्च चूर्णमामलकस्य च ।
प्रत्यूषे भक्षयेच्चैव तस्य कुष्ठं विनश्यति ॥
हरीतकी विडङ्गञ्च हरिद्रा सितसर्षपाः ।
सोमराजस्य वीजानि करञ्जस्य च सैन्धवम् ।
गोमूत्रपिष्टान्येतानि कुष्ठरोगहराणि च” ॥
वीजानि स्थाने मूलानि वा पाठः ।
इति तत्रैव १९४ अध्यायः ॥
“चन्दनं कुङ्कुमं मांसी कर्पूरो जातिपत्रिका ।
जातीकक्कोलपूगाणां लवङ्गस्य फलानि च ॥
अगुरूशीरकस्तूर्य्यः कुष्ठं तगरनालिका ।
गोरोचना प्रियङ्गुश्च वोलं मदनकं नखम् ॥
सरलः सप्तपर्णश्च लाक्षा चामलकी तथा ।
कर्व्वूरकः पद्मकञ्च एतैस्तैलं प्रसाधितम् ।
प्रस्वेदमलदौर्गन्ध्यकण्डूकुष्ठहरं परम्” ॥
इति गारुडे १९८ अध्यायः ॥ * ॥
अथ वैद्यकमते कुष्ठचिकित्सामाह ।
“वातोत्तरेषु सर्पिर्व्वमनं श्लेष्मोत्तरेषु कुष्ठेषु ।
पित्तोत्तरेषु मोक्षो रक्तस्य विरेचनं श्रेष्ठम् ॥
पुराणधान्यानि च जाङ्गलानि
मांसानि मुद्गाश्च पटोलयुक्ताः ।
यवादयश्चात्र हिताः पुराणा
घृतानि शाकानि च तिक्तकानि” ॥
तन्त्रान्तरे ।
“पुराणाः शालिगोधूममुद्गाद्याः कुष्ठिनो हिताः ।
तिक्तशाकं जाङ्गलञ्च पानादौ खदिरोदकम् ॥
ये लेपाः कुष्ठानां यज्यन्ते निर्गतास्रदोषाणाम् ।
संशोधिताशयानां सद्यः सिद्धिर्भवेत्तेषाम् ॥
दूर्व्वाऽभयासैन्धवचक्रमर्द्द-
कुठेरकाः काञ्जिकतक्रपिष्टाः ।
एभिः प्रलेपैरपि बद्धमूलां
कण्डूञ्च दद्रुञ्च निवारयन्ति ॥
तुल्यो रसः शालतरोस्तुषेण
सचक्रमर्द्दोऽप्यभयाविमिश्रः ।
पानीयभुक्तेन तदम्लपिष्टो
लेपः कृतो दद्रुगजेन्द्रसिंहः ॥
विडङ्गैडगजाकुष्ठनिशासिन्धूत्थसषपैः ।
धान्याम्लपिष्टैर्लेपोऽयं दद्रुकुष्ठविनाशनः ॥
एडगजकुष्ठसैन्धवसौवीरसर्षपैः क्रिमिघ्नैः ।
क्रिमिसिध्मदद्रुमण्डलकुष्ठानां नाशनो लेपः ॥
पर्णानि पिष्ट्वा चतुरङ्गुलस्य
तक्रेण पर्णान्यथ काकमाच्याः ।
तैलाक्तगात्रस्य नरस्य कुष्ठा-
न्युद्वर्त्तयेदश्वहनच्छदैश्च ॥ ५ ॥
विडङ्गसैन्धवशिवाशशिरेखा-
सर्षपकरञ्जरजनीभिश्च ।
गोजलपिष्टो लेपः
कुष्ठहरो दिवसनाथसमः ॥ ६ ॥
कासमर्द्दकमूलञ्च काञ्जिकेन प्रपेषितम् ।
दद्रुकिट्टिमकुष्ठानि जयेदेतत्प्रलेपनात् ॥ ७ ॥
आरग्वधस्य पत्राणि आरनालेन पेषयेत् ।
दद्रुकिट्टिमकुष्ठानि हन्ति सिध्मानमेव च ॥ ८ ॥
चक्राह्वयं स्नुहीक्षीरं भावितं मूत्रसंयुतम् ।
रवितप्तं हि किञ्चित्तु लेपनं किट्टिमापहम् ॥ ९ ॥
शिखरीरसेन सुपिष्टं मूलकवीजं प्रलेपतः सिध्म ।
क्षारेण वा कदल्या रजनीमिश्रेण नाशयति ॥ १० ॥
॥ ११ ॥
सक्षारं गन्धकं लेपात् कटुतैलेन सिध्मजित् ॥
कासमर्द्दकवीजानि मूलकानां तथैव च ॥ १२ ॥ १३ ॥
गन्धाश्वचूर्णमिश्राणि सिध्मनां परमौषधम् ॥
उपदेशात् काञ्जिकपिष्टैर्लेपः ॥ १४ ॥
गन्धपाषाणचूर्णेन यवक्षारेण लेपितम् ।
सिध्मनाशं व्रजत्याशु कटुतैलयुतेन च ॥
द्वयं समं कटुतैलेन लेपः ॥ १५ ॥
कुष्ठं मूलकवीजं प्रियङ्गवः सर्षपास्तथा रजनी ।
एतत् केशरषष्ठं निहन्ति बहुवार्षिकं सिध्म ॥ १६ ॥
नीलकुरुण्टकपत्रैरालिप्य गात्रमतिबहुशः ।
लिम्पेन्मूलकवीजैः पिष्टैस्तक्रेण सिध्मनाशाय ॥ १७ ॥
एडगजातिलसर्षपकुष्ठं मागधिकालवणत्रयमस्तु ।
पूतिकृतं दिवसत्रयमेतद्धन्ति विचर्च्चिकदद्रुककुष्ठम्
॥ १८ ॥
सिन्दूरमरिचचूर्णं महिषीनबनीतसंयुतं बहुशः ।
लेपान्निहन्ति पामां तैलं करवीरसिद्धं वा ॥ १९ ॥ २० ॥
पारदं शङ्खगन्धञ्च शिलाचोत्तरवारुणी ।
प्रपून्नाडश्च सर्पाक्षिमेघनादाग्निलाङ्गली ॥
उत्तरवारुणी, राखालशशा इति ख्याता ॥
भल्लातं गृहधूमञ्च मुनिगुञ्जा स्नुहीपयः ।
अरिष्टञ्च गुडः क्षौद्रं वागुजीवीजतुल्यकम् ॥
गोमूत्रैरारनालैर्व्वा पिष्ट्वा लेपञ्च कारयेत् ।
दद्रुमण्डलकण्डूञ्च विचर्ञ्चिञ्च विनाशयेत् ॥ २१ ॥
मनःशिलाले मरिचञ्च तैल-
मार्कं पयः कुष्ठहरः प्रलेपः ॥ २२ ॥
विषवरुणहरिद्राचित्रकागारधूम-
मनलमरिचदूर्व्वाक्षीरमर्क्कस्नुहीभ्याम् ।
दहति पतितमात्रात् कुष्ठजातीरशेषाः ।
कुलिशमिव सरोषाच्छक्रहस्ताद्विमुक्तम् ॥
अत्र अनलं भल्लातकः ॥ २३ ॥
भल्लातका द्वीपि सुधार्कमूलं
गुञ्जाफलत्र्यूषणशङ्खचूर्णम् ।
तुत्थं सकुष्ठं लवणानि पञ्च
क्षारद्वयं लाङ्गलिकाञ्च पक्त्वा ॥
स्नुह्यर्कदुग्धं घनमायसस्थं
शलाकया तद्विदधीत लेपम् ।
कुष्ठे किलासे तिलकालके च
अशेषदुर्नामसचर्म्मकीले ॥
भल्लातका द्वीपि चित्रकं तन्मूलम् ॥
एषां समभागचूर्णं सिजार्कयोः क्षीरे दत्त्वा
किञ्चित् पाकं कुर्य्यात् । अथ वा क्षीरद्वयं चतु-
र्गुणं चूर्णं पादिकं लेपयोग्यं पाकं कुर्य्यात् । शला-
कया कुष्ठस्थाने दद्यात् ॥ २४ ॥
“स्नुक्काण्डशुशिरे दग्ध्वा गृहधूमं ससैन्धवम् ।
अन्तर्धूमं तैलयुक्तं लेपाद्धन्ति विचर्च्चिकाम्” ॥
सिजनलके सैन्धवगृहधूमं समभागं प्रपूर्य्य स्थाल्य-
भ्यन्तरे कृत्वा शरावेण पिधाय दग्ध्वा पिष्ट्वा
कटुतैलेन लेपः ॥ २५ ॥
“स्नुक्काण्डे सर्षपात् कल्कः कुकूलानलपाचितः ।
लेपाद्विचर्च्चिकां हन्ति रागवेगं इव त्रपाम्” ॥
सिजनलके राइकल्कं प्रपूर्य्य शुष्कगोमयाग्नौ
दग्ध्वा कटुतैलेन लेपः ॥ २६ ॥
“नारिकेलोदरे न्यस्तस्तण्डुलः पूतिता गतः ।
लेपाद्विपादिकां हन्ति चिरकालानुबन्धिनीम् ॥ २७
तिलकुसुमलवणगोजलकटुतैलं लौहभाजने कृत्वा ।
शोषितमर्कमयूखैः पादस्फुटनं निहन्ति लेपेन” ॥ २८
“उन्मत्तकस्य वीजेन माणकक्षारवारिणा ।
कटुतैलं विपक्तव्यं शीघ्रं हन्ति विपादिकाम्” ॥
कटुतैल शं ४ भाणनालपत्राणां क्षार पल ६४
जल शं ६४ शेष शं १६ कल्क धुस्तूरवीज पल
८ । उन्मत्ततैलम् ॥ २९ ॥
“अवल्गुजं कासमर्द्दं चक्रमर्द्दं निशायुगम् ।
माणिमन्थञ्च तुल्यांशं मस्तुकाञ्जिकपेषितम् ॥
कण्डूं कच्छूं जयत्युग्रां सिद्ध एष प्रयोगराट् ॥ ३० ॥
कोमलसिंहास्यदलं सनिशं सुरभीजलेन पिष्टम् ।
दिवसत्रयेण नियतं क्षपयति कच्छूं विलेपनतः ॥ ३१
“वायस्येडगजाकुष्ठकृष्णाभिर्गुडिका कृता ।
वस्तमूत्रेण संपिष्ट्वा लेपाच्छूइत्रविनाशिनी” ॥
समभागचूर्णं छागमूत्रेण पिष्ट्वा गुडिका कार्य्या ।
तेनैव लेपः ॥ ३२ ॥
“पूतिकार्कस्नुक्नरेन्द्रद्रुमाणां
मूत्रैः पिष्ट्वा पल्लवाः सौमनाश्च ।
लेपाच्छ्वित्रं हन्ति दद्रुव्रणांश्च
कुष्ठान्यर्शांस्यस्रनाडीव्रणांश्च” ॥
सौमना जातीपत्री ॥ सर्व्वेषां पल्लवान् गोमूत्रेण
पिष्ट्वा लेपो देयः ॥ ३३ ॥
“गजचित्रव्याघ्रचर्म्ममसीतैलविलेपनात् ।
श्वित्रं नाशं व्रजेत् किं वा पूतिकीटविलेपनात्” ॥
गजचर्म्म चित्ररोमव्याघ्रचर्म्म अनयोर्भस्म कटु-
तैलञ्च लेपः । अथवा पादुडियाकीटं पिष्ट्वा लेपः ॥
३४ ॥ ३५ ॥ “कुडवोऽवल्गुजवीजात् हरिताल-
चतुर्थमागसंमिश्रः । गवां मूत्रेण पिष्टः स्ववर्ण-
करणः परं श्वित्रे” ॥ आयुर्व्वेदसारेऽपि ।
“कुडवो वागुजीवीजात् हरितालपलान्वितः ।
गवां मूत्रेण संपिष्य लेपनात् श्वित्रनाशनम् ॥ ३६ ॥
पृष्ठ २/१६३
धात्रीखदिरयोः क्वाथं पीत्वा च मधुसंयुतम् ।
शङ्खकुन्देन्दुधवलं जयेच्छित्रं न संशयः ॥ ३७ ॥
धात्रीखदिरयोः क्वाथमवल्गुजरजोऽन्वितम् ।
पीत्वा शङ्खेन्दुकुन्दाभं हन्ति श्वित्रं न संशयः ॥ ३८ ॥
क्षारे सुदग्धे गजलण्डजे च
गजस्य मूत्रेण बहुश्रुते च ।
द्रोणप्रमाणं दशभागयुक्तं
दत्त्वा पचेत् वीजमवल्गुजस्य ॥
एतद्यदा चिक्वणतामुपैति
तदाशु सिद्धां गुडिकां प्रकुर्य्यात् ।
श्वित्रं प्रलिम्पेदथ तेन घृष्टं
तदा व्रजत्याशु स्ववर्णभावम् ॥ ३९ ॥
श्वेतजयन्तीमूलं पीतं पिष्टञ्च पयसैव ।
श्वित्रं निहन्ति नियतं रविवारे वैद्यनाथाज्ञा ॥ ४० ॥
गुञ्जाफलाग्निचूर्णन्तु लेपितं श्वेतकुष्ठनुत् ।
शिलापामार्गभस्मापि लिप्त्वा श्वित्रं विनाशयेत् ॥
४१ ॥ ४२ ॥
एरण्डतुलसीवीजं वागुजी चक्रमर्द्दकम् ।
तिक्तकोषातकीवीजं कृष्णाङ्कोठस्य वीजकम् ॥
गोमूत्रदधिदुग्धैश्च पचेदप्याजमूत्रकैः ।
कल्कं दत्त्वा शिला काशी पथ्या कुष्ठं विडङ्गकम् ॥
कटुतैलञ्च तल्लेपाद्घृष्ट्वा घृष्ट्वा विलेपनैः ।
पञ्चाननमिदं तैलं श्वेतकुष्ठकुलापहम्” ॥
कुटुतैल शं ४ क्वाथ्यएरण्डवीजादीनां मिलित्वा शं
२ कल्कशिलाकाश्यादीनां मिलित्वा शं १ ।
इति श्वित्रे पञ्चाननतैलम् ॥ ४३ ॥
“आरग्वधं धवं कुष्ठं हरितालं मनःशिला ।
रजनीद्वयसंयुक्तं पचेत्तैलं विधानवित् ॥
एतेनाभ्यञ्जनादेव क्षिप्रं श्वित्रं विनश्यति” ॥
तिलतैल शं ४ पा शं १६ कल्कमिलित शं १ ।
इति आरग्वधाद्यं तैलम् ॥ ४४ ॥
“शुद्धसूतं समं गन्धं त्रिफला भृङ्गवागुजी ।
भल्लातकं तिलः कृष्णो निम्बवीजं समं समम् ।
मर्द्दयेद्भृङ्गजद्रावैः शोष्यं पेष्यं पुनः पुनः ॥
इत्थं कुर्य्युस्त्रिसप्ताहं रसः श्वेतारिको भवेत् ।
मध्वाज्यैर्निष्कमात्रन्तु खादेत् श्वेतं विनाशयेत्” ॥
इति श्वेतारिः ॥ ४५ ॥
“पिबति सकटुतैलं गन्धपाषाणचूर्णं
रविकिरणसुतप्तं पामनो यः पलार्द्धम् ।
त्रिदिनतदनुसिक्तः क्षीरभोजी च शीघ्रं
भवति कनकदीप्तिः कामरूपी मनुष्यः” ॥ ६६ ॥
“तीव्रेण कुष्टेन परीतदेहो
यः सोमराजीं नियमेन खादेत् ।
संवत्सरं कृष्णतिलद्वितीयां
स सोमराजीं वपुषाऽतिशेते ॥ ४७ ॥
घर्म्मसेवी कदुष्णेन वारिणा वागुजीं पिबेत् ।
क्षीरभोजी च सप्ताहात् कुष्ठी कुष्ठं व्यपोहति ॥ ४८
अवल्गुजवीजकर्षं पीत्वा कोष्णेन वारिणा ।
भोजनं सर्पिषा कार्य्यं सर्व्वकुष्ठविनाशनम् ॥ ४९ ॥
छिन्नायाः स्वरसो वापि सेव्यमानो यथाबलम् ।
जीर्णे घृतेन भुञ्जीत मुद्गयूषौदनेन च ॥
अपि पूतिशरीरोऽपि दिव्यरूपी भवेन्नरः ॥ ५० ॥
यः खादेदभयारिष्टमरिष्टामलकानि वा ।
स जयेत् सर्व्वकुष्ठानि मासादूर्द्ध्वं न संशयः ॥ ५१ ॥ ५२ ॥
निम्बस्य पत्रं मूलानि सत्वक्पुष्पफलानि च ।
चूर्णितानि घृतक्षौद्रसंयुतानि दिने दिने ॥
लिह्यात् पिबेद्वा मूत्रेण संयक्तान्युदकेन वा ।
मदिरामलतोयेन पयसा वा यथाबलम् ॥
भुञ्जीत घृतयूषाद्यैः शाल्यन्नं पयसापि वा ।
सर्व्वकुष्ठविसर्पार्शोनाडीदुष्टव्रणानपि ॥
कामलाञ्च गदानन्यांस्तथा पित्तकफास्रजान् ।
संवत्सरप्रयोगेण सर्व्ववर्ज्ज्यविवर्ज्जितः ॥
जयत्येतत् पञ्चनिम्बं रसायनमनुत्तमम्” ॥
इति पञ्चनिम्बम् ॥ ५३ ॥
“पुष्पकाले च पुष्पाणि फलकाले फलानि च ।
संचूर्ण्य पिचुमर्द्दस्य त्वङ्मूलानि दलानि च ॥
द्विरंशानि समाहृत्य भागिकानि प्रकल्पयेत् ।
त्रिफलात्र्युषणं ब्रह्मी श्वदंष्ट्रारुष्कराग्निकाः ॥
विडङ्गसारवाराहीलौहचूर्णामृताः समाः ।
हरिद्राद्वयावल्गुजव्याधिघाताः सशर्कराः ॥
कुष्ठेन्द्रयवपाठाश्च कृत्वा चूर्णं सुसंयुतम् ।
खदिरासननिम्बानां घनक्वाथेन भावयेत् ॥
सप्तधा पञ्चनिम्बञ्च मार्करस्वरसेन च ।
स्निग्धशुद्धतनुर्धीमान् योजयेच्च शुभे दिने ॥
अधुना तिक्तहविषा खदिरासनवारिणा ।
सेव्यमुष्णाम्बुना वापि कोलवृद्ध्या पलं पिबेत् ॥
तिक्तहविषा वक्ष्यमाणपञ्चतिक्तघृतेन ॥
जीर्णे च भोजनं कार्य्यं स्निग्धं लघु हितञ्च यत् ॥
विचर्च्चिकोडुम्बरपुण्डरीक-
कपालदद्रूकिटिमालसादि ।
शतारुविस्फोटविसर्पपामां
कुष्ठप्रकोपं विविधं किलासम् ॥
भगन्दरं श्लीपदवातरक्तं
जडान्ध्यनाडीव्रणशीर्षरोगान् ।
सर्व्वप्रमेहान् प्रदरांश्च सर्व्वान्
दंष्ट्राविषं मूलविषं निहन्ति ॥
स्थूलोदरः सिंहकृशोदरश्च
सुश्लिष्टसन्धिर्मधुनोपयोगात् ।
समीपयोगादपि ये दशन्ति
सर्पादयो यान्ति विनाशमाशु ॥
जीवेच्चिरं व्याधिजराविमुक्तः
शुभे रतश्चन्द्रसमानकान्तिः” ॥
इति पञ्चनिम्बः ॥ ५४ ॥
“अमृतायाः पलशतं दशमूल्यास्तथा शतम् ।
पाठामूर्व्वाबलातिक्तादार्व्वीगन्धर्व्वहस्तकाः ॥
एषां दशपलान् भागान् विभीतक्याः शतं हरेत् ।
द्वे शते च हरीतक्या आमलक्यास्तथा शतम् ॥
जलद्रोणद्वये पक्त्वा अष्टभागावशेषितम् ।
प्रस्थं गुग्गुलुमाहृत्य प्रस्थार्द्धञ्च घृतं पचेत् ॥
पाकसिद्धौ प्रदातव्यं गुडूच्याः सत्त्वमेव च ।
पलद्वयं तथा शुण्ठ्याः पिप्पल्याश्च पलद्वयम् ॥
ततो मात्रां प्रयुञ्जीत ज्ञात्वा दोषबलाबलम् ।
अष्टादशसु कुष्ठेषु वातरक्तगदेषु च ॥
कामलामामवातञ्च अग्निमान्द्यं भगन्दरम् ।
पीनसञ्च प्रतिश्यायं प्लीहानमुदरं तथा ॥
एतान् रोगान्निहन्त्याशु भास्करस्तिमिरं यथा” ॥
अमृतागुग्गुलुः । अयं वातरक्ते प्रशस्तः ॥ ५५ ॥
“निम्बामृतावृषपटोलनिदिग्धिकानां
भागान् पृथग्दशपलान् विपचेद्घटेऽपाम् ।
अष्टांशशेषितरसेन सुनिश्चितेन
प्रस्थं घृतस्य विपचेत् पिचुभागकल्कैः ॥
पाठाविडङ्गसुरदारुगजोपकुल्या-
द्विक्षारनागरनिशामिषिचव्यकुष्ठैः ।
तेजोवतीमरिचवत्सकदीप्यकाग्नि-
रोहिण्यरुष्करवचाकणमूलयुक्तैः ॥
मञ्जिष्ठयातिविषया वरया यमान्या
संशुद्धगुग्गुलुपलैरपि पञ्चसंख्यैः ।
तत् सेवितं विधमति प्रबलं समीरं
सन्ध्यस्थिमज्जगतमप्यथ कुष्ठमीदृक् ॥
नाडीव्रणार्व्वुदभगन्दरगण्डमाला-
जत्रूर्द्ध्वसर्व्वगदगुल्मगुदोत्थमेहान् ।
यक्ष्मारुचिश्वसनपीनसकासशोष-
हृत् पाण्डुरोगगलविद्रधिवातरक्तम्” ॥
इति पञ्चतिक्तघृतगुग्गुलुः ॥ ५६ ॥ * ॥
“श्वेतकरवीरमूलं विषांशकं साधितं गोमूत्रे ।

चर्म्मदलसिध्मपामाविस्फोटक्रिमिकिटिमजित्तैलम्” ॥

तिलतैल ४ शेर, गोमूत्र १६ शेर, श्वेतकरवीर-
मूल ४ पल, विष ४ पल । करवीरतैलम् ॥ ५७ ॥
“मृतस्य कृष्णसर्पस्य शिरःपुच्छान्त्रवर्ज्जितम् ।
अन्तर्धूमं कृतं भस्म वागुजीतैलमिश्रितम् ।
एतेन मर्दनादेव गलत्कुष्ठं विनश्यति” ॥
इति कृष्णसर्पतैलम् ॥ ५८ ॥
“सूतकं गन्धकं कुष्ठं सप्तपर्णञ्च चित्रकम् ।
सिन्दूरञ्च रसोनञ्च हरितालमवल्गुजम् ॥
आरग्वधस्य वीजानि जीर्णताम्रं मनःशिला ।
प्रत्येकं कर्षमेतेषां कटुतैलं पलाष्टकम् ॥
साधयेत् सूर्य्यतापेन सर्व्वकुष्ठविनाशनम् ।
श्वित्रमौडुम्बरं कच्छूं मांसवृद्धिं भगन्दरम् ॥
विचर्च्चिकाञ्च पामानं वातरक्तं सुदारुणम् ।
गम्भीरञ्च तथोत्तानं नाशयेत् यस्य म्रक्षणात् ॥
कुष्ठराक्षसनामेदं स्ववर्णकरणं परम् ।
अश्विभ्यां निर्म्मितं ह्येतत् लोकानुग्रहहेतवे” ॥
इति कुष्ठराक्षसतैलम् ॥ ५९ ॥
“सूतं गन्धं शिला तालं काञ्जिकैर्मर्दयेद्दिनम् ।
तल्लिप्तवस्त्रवर्त्तीं तां तैलाक्तां ज्वालयेदधः ॥
स्थिते पात्रे पचेत्तैलं गृहीत्वा लेपयेत्ततः ।
कुष्ठस्थानं विशेषेण सर्व्वकुष्ठं हरत्यलम् ॥
इदं कालानलं तैलं वातकुष्ठे महौषधम्” ॥
“एषां समं काञ्जिकं सर्व्वेषां द्विगुणं तिलतैलंम् ।
कल्कं वस्त्रे संलिप्य संशोष्य वर्त्तीं कुर्य्यात् तां
तैलाक्तां सम्दंशिकया ज्वालयित्वा उपरि तैलं
दत्त्वा ततः पतितं तैलं अधःपात्रे गृह्णीयात् ततः
कुष्ठस्थाने दद्यात्” ॥
इति कुष्ठकालानलतैलम् ॥ ६० ॥
“सिन्दूरामृततालगैरिकहलाजाजीगदत्र्यूषणै-
र्हृत्पाषाणरसोनवाणदहनस्नुह्यर्कदुग्धैर्निशा ।
पृष्ठ २/१६४
राजीगन्धकहिङ्गुभिः परिमितैः शुक्त्या पचेत् सार्षपं
तैलं प्रस्थमितं घृतस्य कुडवं पात्रं तथार्काद्रसम्” ॥
हृत्पाषाणं मनःशिला ।
“गोमूत्रञ्च तथा विनीय सकलं पूतं शृतं रोगिण
दद्यात् कुष्ठविचर्च्चिकादिषु भिषक् नाम्ना तु षड्-
विन्दुकम्” ॥ इति षड्विन्दुतैलम् ॥ ६१ ॥
“सर्व्वकुष्ठे सर्व्वव्रणे सर्व्वत्र गलिते क्षते ।
नक्तमालं हरिद्रे द्वे अर्कं तगरमेव च ॥
करवीरवचाकुष्ठं आस्फोता रक्तचन्दनम् ।
मालती सिन्धुवारञ्च मञ्जिष्ठा सप्तपर्णकम् ॥
एषामर्द्धपलान् भागान् विषस्य द्विपलं तथा ।
चतुर्गुणे गवां मूत्रे तैलप्रस्थं विपाचयेत् ॥
श्वित्रविस्फोटकिटिमकीटलूताविचर्च्चिकाः ।
कण्डूकच्छुरिकायाश्च ये व्रणा विषदूषिताः ॥
ते सर्व्वे नाशमायान्ति तमः सूर्य्योदये यथा ॥
विषतैलमिदं नाम्ना सर्व्वब्रणविशोधनम्” ॥
इति विषतैलम् ॥ ६२ ॥
“सोमराजी हरिद्रे द्वे सर्षपाः कुष्ठमेव च ।
करञ्जैडगजावीजं पत्राण्यारग्वधस्य च ॥
विपचेत् सार्षपं तैलं नाडीदुष्टव्रणापहम् ।
अनेनाशु प्रशाम्यन्ति कुष्ठान्यष्टादशैव तु ॥
नीलिका पिडका व्यङ्गा गम्भीरं वातशोणितम् ।
कण्डूकच्छुप्रशमनं दद्रुपामानिवारणम्” ॥
इति सोमराजीतैलम् ॥ ६३ ॥
“सोमराजीतुलाक्वाथे यथा दद्रुहनस्य च ।
गोमूत्रस्य तथा पात्रे कल्कं दत्त्वा विचक्षणः ॥
विपचेत् कार्षिकैर्भागैः कटुतैलाढकं भिषक् ।
चित्रकं लाङ्गलाख्या च नागरं कुष्ठमेव च ॥
हरिद्रा नक्तमालञ्च हरितालं मनःशिला ।
आस्फोतार्ककरवीरं सप्तपर्णञ्च गोमयम् ॥
खदिरो निम्बपत्रञ्च मरिचं कासमर्द्दकम् ।
एतानि श्लक्ष्णपिष्टानि कल्कं दत्त्वा विचक्षणः ॥
हन्ति सर्व्वाणि कुष्ठानि क्रिमिदुष्टव्रणानि च ।
किटिमं दद्रुजातञ्च गात्रवैवर्ण्यमेव च ॥
विशीर्णचर्म्ममांसादिदृढीकरणमुत्तमम् ।
पाण्डुरोगं तथा कण्डूं विसर्पं हन्ति दारुणम् ।
ये चान्ये त्वग्गता रोगास्तांस्तु शीघ्रं व्यपोहति” ॥
इति वृहत्सोमराजीतैलम् ॥ ६४ ॥
“मरिचालशिलाब्दार्कपयोऽश्वारिजटात्रिवृत् ।
शकृद्रसविशालारुक् निशायुक्दारुचन्दनैः ॥
कटुतैलात् पचेत् प्रस्थं द्व्यक्षैर्विषपलान्वितैः ।
सगोमूत्रैस्तदभ्यङ्गाद्दद्रुश्वित्रविनाशनम् ॥
सर्व्वेष्वपि च कुष्ठेषु तैलमेतत् प्रशस्यते” ॥
इति मरिचाद्यं तैलम् ॥ ६५ ॥
“मरिचं त्रिवृता दन्ती क्षीरमार्कं शकृद्रसः ।
देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम् ॥
विशाला करवीरञ्च हरितालं मनःशिला ।
चित्रको लाङ्गलाख्या च विडङ्गं चक्रमर्द्दकम् ॥
शिरीषं कुटजो निम्बः सप्तपर्णः स्नुहामृता ।
शम्पाको नक्तमालोऽब्दं खदिरं पिप्पली वचा ॥
ज्योतिष्मती च पलिका विषस्य द्विपलं भवेत् ।
आढकं कटुतैलस्य गोमूत्रञ्च चतुर्गुणम् ॥
मृत्पात्रे लौहपात्रे वा शनैर्मृद्वग्निना पचेत् ।
पक्त्वा तैलवरं ह्येतन्म्रक्षयेत् कुष्ठकान् व्रणान् ॥
पामाविचर्च्चिकादद्रुकण्डूविस्फोटकानि च ।
वलयः पलितं छाया नली व्यङ्गं तथैव च ॥
अभ्यङ्गेन प्रणश्यन्ति सौकुमार्य्यञ्च जायते ।
प्रथमे वयसि स्त्रीणां यासां नस्यन्तु दीयते ॥
परामपि जरां प्राप्य न स्तना यान्ति नम्रताम् ।
बलीवर्द्दस्तुरङ्गो वा गजो वा वायुपीडितः ॥
त्रिभिरभ्यञ्जनैर्गाढं भवेन्मारुतविक्रमः” ॥
कटुतैल १६ शेर, गोमूत्र ६४ शेर, कल्कार्थं
मरिचादीनां प्रत्येकं १ पल, विष २ पल ।
इति वृहन्मरिचाद्यं तैलम् ॥ ६६ ॥
“सप्तपर्णस्तथा काली गुडूची पिचुमर्द्दकम् ।
शिरीषञ्च महातिक्ता जया तुम्बी मृगादनी” ॥
काली कालिः लता ॥
“निशादशपलान् मागान् जलद्रोणे विपाचयेत् ।
तैलप्रस्थं समादाय गोमूत्रञ्च चतुर्गुणम् ॥
आरग्वधो भृङ्गराजो जयाधुस्तूररात्रयः ।
इन्द्राशनाग्निखर्ज्जूरं गोमयार्कस्नुहीच्छदम् ॥
तैलतुल्यं प्रदातव्यं स्वरसञ्च पृथक् पृथक् ।
महाकालवचा ब्रह्मी तुम्ब्यग्निगृहपुत्त्रिका ॥
कुचेला कुलका रात्रिर्मेघनामा च ग्रन्थिका ।
सम्पाकमर्कक्षीरञ्च कासुन्देश्वरमूलकम्” ॥
कासुन्दमूलकं कालकासुन्दामूलम् । कासुन्दः
खरमर्द्दकमिति क्वचित्पाठः तन्मते ईश्वरमूलस्थाने
अपामार्गमूलम् ॥
“आचु जिङ्गी महातिक्ता विशाला छपिपत्रकम् ।
पूतिकास्फोत मूर्व्वा च सप्तपर्णं शिरीषकम्” ॥
छपिपत्रकं विछातिपत्रम् ॥
“कुटजं पिचुमर्द्दश्च महानिम्बं तथैव च ।
गुडूची चन्द्ररेखा च सोमराट् चक्रमर्द्दकम् ॥
तुम्बुरुभृङ्गषष्ट्याह्वकन्दकं कटुरोहिणी ।
शटीदार्व्वी त्रिवृत् पद्मग्रन्थिकागुरुपुष्करम् ॥
कर्पूरं कट्फलं मांसी मुरैलाटरुषाभयम् ।
एतेषां कार्षिकैः कल्कैर्नाम्ना कन्दर्प उच्यते ॥
अष्टादशविधं कुष्ठं ग्रन्थिमज्जगतं तथा ।
हस्तपादाङ्गुलीसन्धिगलितं सर्व्वसन्धिषु ॥
अधिकानि च मांसानि यस्य गात्रे भविष्यति ।
नासाकर्णास्यवैकल्यं भेकाकारवपुस्त्वचम् ॥
श्वेतं रक्तं तथा कुष्ठं नानावर्णं विपादिकभ् ।
श्वित्रं बहुविधञ्चैव वातशोणितमेव च ॥
कपालं क्रिमिजं कुष्ठं कण्डूदद्रुविचर्च्चिकाम् ।
पामादिस्फोटकादीनि क्रिमिवृद्धिं तथैव च ॥
कटीदद्रुं मसूरीञ्च किटिमं रक्तमण्डलम् ।
कुष्ठमौडुम्बरं पद्मं महापद्मं तथैव च ॥
गलगण्डार्व्वुदं हन्याद्गण्डमालां भगन्दरम् ।
वातजं पित्तजञ्चैव श्लेष्मजं सान्निपातिकम् ॥
एकोल्वणं द्व्युल्वणञ्च कुष्ठं हन्यान्न संशयः” ॥
इति कन्दर्पसारतैलम् ॥ ६७ ॥ * ॥
“भल्लातकानां पवनोद्धतानां
वृन्तव्युदानाञ्च यदाढकं स्यात् ।
तच्चेष्टकाचूर्णकणैर्विघृष्य
प्रक्षालयित्वा विसृजेत् प्रवाते ॥
शुष्कं पुनस्तद्विदलीकृतञ्च
ततः पचेदप्सु चतुर्गुणासु ।
तत्पादशेषं परिपूतशीतम्
क्षीरेण तुल्येन पुनः पचेत्तु ॥
तदर्द्धया शर्करया विकीर्णं
ततः खजेनोन्मथितं विधाय ।
तत् सप्तरात्रादुपजातवीर्य्यं
सुधारसादप्यधिकत्वमेति ॥
प्रातर्विबुद्धः कृतदेवकार्य्यो
मात्राञ्च खादेत् स्वशरीरयोग्याम् ।
न चान्नपाने परिहार्य्यमस्ति
न चातपे चाध्वनि मैथुने च ॥
यथेष्टचेष्टो विहितोपयोगा-
द्भवेन्नरः काञ्चनराशिगौरः ।
अनन्यमेधा नरसिंहतेजा
हृष्टेन्द्रियोऽव्याहतबुद्धिसत्त्वः ॥
दन्ताश्च शीर्णाः पुनरुद्भवन्ति
केशाश्च शुक्लाः पुनरेव दिव्याः ।
नीलाञ्जनालिप्रतिमा भवन्ति
त्वचो विवर्णाः पुनरेव दिव्याः ॥
विशीर्णकर्णाङ्गुलिनासिकोऽपि
क्रिम्यर्द्दितो भिन्नगलोऽपि कुष्ठी ।
सोऽपि क्रमादङ्कुरिताग्रशाख-
स्तरुर्यथा भाति नभोऽम्बुसिक्तः ॥
उष्ट्रान् मयूरान् जयति स्वरेण
बलेन नागस्तुरगो जवेन ।
रसायनस्यास्य नरः प्रसादा-
द्वृहस्पतेरप्यधिकोऽपि बुद्ध्या ॥
ग्रन्थान् विशालान् पुनरुक्तिदोषान्
गृह्णाति शीघ्रं न च नश्यते तु ।
कुर्व्वन्निमं कल्पमनल्पबुद्धि-
र्जीवेन्नरो वर्षशतानि पञ्च ॥
राजा ह्ययं सर्व्वरसायनानां
चकार योगं भगवानगस्त्यः” ॥
इति अमृतभल्लातकम् ॥ ६८ ॥
“निम्बं गोपारुणा कठ्वी त्रायन्ती त्रिफला घनम् ।
पप्पटारण्डजानन्तावचाखदिरचन्दनम्” ॥
अरण्डजं हाकुचवीजम् ।
“पाठा शुण्ठी शटी भार्गी वासा भूनिम्बवत्सकम् ।
श्यामेन्द्रवारुणी मूर्व्वा विडङ्गेन्द्रविषानलम् ॥
हस्तिकर्णामृता द्रेका पटोलं रजनीद्वयम् ।
कर्णारग्वधसप्ताह्वकृष्णवेत्रोच्चटाफलम्” ॥
द्रेका महानिम्बम् । कर्णारग्वधः शोणालिफल
मज्जा ।
“भूकन्दं तृणपर्णञ्च जिङ्गी पद्माटमूषली ।
विश्वक्सेना च कैटर्य्यं शरपुङ्खा क्षीरकञ्चुकी ॥
एषां द्विपलिकान् भागान् जलद्रोणे विपाचयेत् ।
अष्टमागावशेषन्तु कषायमवतारयेत् ॥
भल्लातकसहस्राणि त्रीणि छित्वार्म्मणेऽम्भसि ।
चतुर्भागावशेषन्तु कषायमवतारयेत् ॥
तौ कषायौ समादाय वस्त्रपूतौ च कारयेत् ।
पृष्ठ २/१६५
गुडस्य तु तुला ताभ्यां कषायं विपचेत् भिषक् ॥
भल्लातकसहस्राणां मज्जानं तत्र दापयेत् ।
त्रिकटुत्रिफलामुस्तसैन्धवानां पलं पलम् ॥
दीपकस्य पलञ्चैव चातुर्ज्जातं पलांशिकम् ।
संचूर्ण्य प्रक्षिपेदत्र कन्दकञ्च चतुःपलम् ॥
स्निग्धभाण्डे विनिक्षिप्य स्थापयेत् कुशलो भिषक् ।
महाभल्लातको ह्येष महादेवेन निर्म्मितः ॥
जगतस्तु हितार्थाय जयेच्छीघ्रं न संशयः ।
श्वित्रमौडम्बरं दद्रुमृष्यजिह्वं सकाकणम् ॥
पुण्डरीकञ्च चर्म्माख्यं विष्फोटं मण्डलं तथा ।
कण्डं कपालं कण्डूञ्च पामानं सविपादिकम् ॥
वातरक्तमुदावर्त्तं पाण्डुरोगं ब्रणक्रिमीन् ।
अर्शांसि षट्प्रकाराणि कासं श्वासं भगन्दरम् ॥
सदाभ्यासेन पलितमामवातं सुदुस्तरम् ।
अनुपाने प्रयोक्तव्यं छिन्नाक्वाथं पयोऽथवा ।
भोजने च सदा भोज्यमुष्णञ्चान्नं विशेषतः” ॥
इति महाभल्लातकगुडः ॥ ६९ ॥
“हुताशमुखसंशुद्धं पलमेकं रसस्य वै ।
पलं लौहस्य ताम्रस्य पलं भल्लातकस्य च ॥
गन्धकञ्च पलञ्चैकमभ्रकस्य च गुग्गुलोः ।
हरीतकीविभीतक्योश्चूर्णं कर्षद्वयं द्वयोः ॥
अष्टमाषाधिकं तत्र धात्र्याः पाणितलानि षट् ।
घृतं द्व्यष्टगुणं लोहात् द्वात्रिंशत्त्रिफलाजलम् ॥
एकं कृत्वा पचेत् पात्रे लौहे च विधिपूर्ब्बकम् ।
पाकमेतस्य जानीयात् कुशलो लोहपाकवित् ॥
विबुद्धः प्रातरुत्थाय गुरुदेवद्विजार्च्चकः ।
रक्तिकादिक्रमेणैव घृतभ्रामरमर्द्दितम् ॥
लौहे लौहस्य दण्डेन कुर्य्यादेतद्रशायनम् ।
अनुपानञ्च कुर्व्वीत नारिकेलोदकं पयः ॥
सर्व्वकुष्ठहरं श्रेष्ठं वलीपलितनाशनम् ।
पाण्डुमेहामवातघ्नं वातरक्तरुजापहम् ॥
क्रिमिशोथाश्मरीशूलदुर्नामवातरोगनुत् ।
क्षयं हन्ति महाश्वासमत्यर्थं शुक्रवर्द्धनम् ।
अग्निसन्दीपनं हृद्यं कान्त्यायुर्बलवृद्धिकृत् ॥
विवर्ज्य्य शाकाम्लमपि स्त्रियञ्च
सेव्यो रसो जाङ्गलजाविकानाम् ।
शाल्योदनं षष्ठिकमाज्यमुद्ग-
क्षौद्रं गुडः क्षीरमिह क्रियायाम् ॥
शालिञ्च गुर्व्वादिवृहत्करञ्ज-
शिलाजतुक्षौद्रयुतं पयश्च ।
सर्पिर्युतं भक्षयतो विहङ्गान्
प्रपूर्य्यते दुर्ब्बलदेहधातुः ॥
कृष्णस्य पक्षस्य सिते तु पक्षे
त्रिपञ्चरात्रेण यथा शशाङ्कः” ॥
पाकलक्षणं यथा, --
“वस्त्रे निष्पीडितं सूक्ष्मे स्थूलतन्तौ घने दृढे ।
समुद्रं जायते व्यक्तं न निःसरति सन्धिभिः ।
न च शब्दायते बह्नौ तदा सिद्धिं विनिर्द्दिशेत्” ॥
इति अमृताङ्कुरलौहम् ॥ ७० ॥
“गन्धकेन हतं ताम्रं दशभागं समुद्धरेत् ।
उषणं पञ्चभागं स्यादमृतञ्च द्विभागिकम् ॥
दातव्यं कुष्ठिने सम्यगनुपानस्य योगतः ।
गलिते स्फुटिते चैव विपुले मण्डले तथा ॥
विचर्च्चिकादद्रुपामासर्व्वकुष्ठप्रशान्तये” ॥
इति उदयभास्करः ॥ ७१ ॥
“तालकं वंशपत्राख्यं कुष्माण्डसलिले क्षिपेत् ।
सप्तधा वा त्रिधा वापि दध्नाम्लेन तथैव च ॥
शोधयित्वा पुनः शुष्कं चूर्णयेत् तण्डुलाकृतिः ।
ततः शरावके यन्त्रे स्थापयेत् कुशलो भिषक् ॥
वदरीपल्लवोत्थेन लेपनं कारयेत् ततः ।
अरुणाभमधःपात्रं तावज्ज्वाला प्रदीयते ॥
स्वाङ्गशीतं समुद्धृत्य माणिक्याभो भवेद्रसः ।
घृतक्षौद्रेण संमर्द्य खादयेद्रक्तिकाद्वयम् ॥
संपूज्य देवदेवेशं कुष्ठरोगाद्विमुच्यते ।
स्फुटितं गलितं कुष्ठं वातरक्तं भगन्दरम् ॥
नाडीव्रणं व्रणं दुष्टमुपदंशं विचर्च्चिकाम् । [णान् ।
नासास्यसम्भवान् रोगान् क्षतान् हन्यात् सुदारु-
पुण्डरीकञ्च चर्स्माख्यं विस्फोटं मण्डलं तथा” ॥
इति रसमाणिक्यम् ॥ ७२ ॥
“कुष्माण्डत्रिफलातैलकन्याकाञ्जिकभावितम् ।
तालकं तुल्यगन्धं स्यादर्द्धपारदमर्दितम् ॥
अजाक्षीरेण निम्बूककन्यातोयैर्दिनत्रयम् ।
प्रत्येकं भावयेत् शुष्कं चक्रिकाकारतां गतम् ॥
विपचेत् हण्डिकामध्ये पलाशक्षारमध्यगम् ।
यामान् द्वादश शीतेऽस्मिन् प्रयोज्यं रक्तिकाद्वयम् ॥
हन्त्यष्ठादशकुष्ठानि रोमविध्वंसनं तथा ।
द्विविधं वातरक्तञ्च नाडीदुष्टव्रणानि च” ॥
इति तालकेश्वरः ॥ ७३ ॥
“दद्रुघ्नवाणाङ्घ्रिरसं दत्त्वा तालं सुचूर्णितम्
पुनः पुनश्च संमर्द्य शुष्कं कृत्वा पुटे दहेत्” ॥
वाणाङ्घ्रिरसं शरपुङ्खपत्ररसम् ॥
दृढस्थाल्यां घृतं क्षारं पालाशञ्चाप्युपर्य्यधः ।
ततो ज्वाला प्रदातव्या दिनरात्रे मृतं भवेत् ॥
शुक्लवर्णो यदा च स्यादग्नौ दत्ते न धूमकम् ।
तदा ज्ञातं मृतं तालं सर्व्वकुष्ठविनाशनम् ॥
गलत् कुष्ठं वातरक्तं ताम्रवर्णञ्च मण्डलम् ।
शीतपित्तमहादद्रुछुच्छुन्दरविनाशनम् ।
पथ्यं मसूरचणकं मुद्गसूपं यथेच्छया” ॥
इति तालकेश्वरः ॥ ७४ ॥ अतिदृष्टफलोऽयम् ।
“संमर्द्य तालकं शुष्कं वंशपत्राख्यमुच्चकैः ।
कुष्माण्डनीरे सम्भाव्य त्रिदिनं शोधयेत् पुनः ॥
घृतकन्याद्रवैर्भूयो भावयेच्च दिनत्रयम् ।
संमर्द्य काञ्जिकेनैव दध्राम्लेन विमर्द्दयेत् ॥
संमर्द्य चूर्णसलिले रसे पौनर्नवे पुनः ।
त्रिदिनं मर्द्दयित्वा तु कारयेत् स्वटिकाकृतिम् ॥
स्थाल्यां दृढतरायान्तु पलाशक्षारसञ्चयम् ।
उपर्य्यधस्तालकस्य क्षारं दत्त्वा शरावकैः ॥
पिधाय लेपयेत् यत्नात् पूरयेत् क्षारसञ्चयम् ।
पुनरूर्द्ध्वं शरावेण लेपयेत्तत् दृढं ततः ॥
द्वात्रिंशद्यामपर्य्यन्तं वह्निज्वाला प्रदीयते ।
एवं सिद्धेन तालेन गन्धतुल्ये न मेलयेत् ॥
द्वयोस्तुल्यं जीर्णताम्रं वालुकायन्त्रगं पचेत् ।
अयं तालेश्वरो नाम रसः परमदुर्लभः ॥
हन्त्यष्टादश कुष्ठानि वातशोणितनाशनः ।
रक्तमण्डलमत्युग्रं स्फुटितं गलितं तथा ॥
बहुरूपं सर्व्वजातं नाशयेदविकल्पतः ।
दुष्टव्रणञ्च वीसर्पं त्वग्दोषञ्च विनाशयेत् ॥
दृष्टो वारसहस्रञ्च रोगवारणकेशरी” ॥
इति महातालकेश्वरः ॥ ७५ ॥
“कुष्माण्डत्रिफलातैलकन्याकाञ्जिकभावितम्
तालुकं तुल्यगन्धं स्यादर्द्धपारदमर्दितम् ॥
अजाक्षीरेण निम्बूककन्यातोयैर्दिनत्रयम् ।
प्रत्येकं भावयेच्छुष्कं चक्रिकाकारतां गतम् ॥
विपचेत् हण्डिकामध्ये पलाशक्षारमध्यगम् ।
यामान् द्वादशशीतेऽस्मिन् प्रयोज्यं रक्तिकाद्वयम् ।
हन्त्यष्टादश कुष्ठानि रोमविध्वंसनादिकम्” ॥
इति तालकेश्वरः ॥ ७६ ॥
इति गोविन्दविशारदकृतभैषज्यरत्नावल्यां कुष्ट-
चिकित्सा समाप्ता ॥

कुष्ठकेतुः, पुं, (कुष्ठस्तन्नाशकः केतुरिव ।) भूभ्याहुल्यः ।

इति राजनिर्घण्टः ॥

कुष्ठगन्धि, क्ली, (कुष्ठस्येव गन्धोऽस्य । समासे इच् ।)

एलवालुकम् । इति राजनिर्घण्टः ॥

कुष्ठघ्नः, पुं, (कुष्ठं हन्ति इति । हन् + टक् ।) हिता-

वली । इति राजनिर्घण्टः ॥

कुष्ठघ्नी, स्त्री, (कुष्ठघ्न + स्त्रियां टित्वात् ङीप् ।) काको-

दुम्बरिका । इति राजनिर्घण्टः ॥
(वाकुची । अस्याः पर्य्याया यथा ।
“अवल्गुजो वाकुची स्यात् सोमराजी सुपर्णिका ।
शशिलेखा कृष्णफला सोमापूति फलीति च ॥
सोमवल्ली कालमेषी कुष्ठघ्नी च प्रकीर्त्तिता” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
अस्या व्यवहारो यथा --
“कुटजाग्निनिम्बनृपतरुखदिरासनसप्तपर्णनिर्यूहे ।
सिद्धा मधु-घृतयुक्ताः कुष्ठघ्नीर्भक्षयेदभयाः” ॥
इति वाभटे चिकित्सास्थाने १९ अध्याये ॥)

कुष्ठनाशनः, पुं, (कुष्ठं नाशयतीति । नश् + णिच् +

ल्युः ।) वाराहीकन्दः । गौरसर्षपः । इति राज-
निर्घण्टः । क्षीरीशवृक्षः । इति रत्नमाला ॥

कुष्ठनाशिनी, स्त्री, (कुष्ठं नाशयतीति । नश + णिच्

णिनिः । स्त्रियां नान्तत्वात् ङीप् ।) सोमराजिः ।
इति रत्नमाला ॥

कुष्ठलं, क्ली, (कु कुत्सितं स्थलम् । अम्बष्ठादित्वात्

षत्वम् ।) कुत्सितस्थलम् । इति संक्षिप्तसारव्या-
करणम् ॥

कुष्ठसूदनः, पुं, (कुष्ठं सूदयति नाशयतीति । सूदि +

ल्युः ।) आरग्बधः । इति राजनिर्घण्टः ॥
(आरग्बधशब्दे गुणपर्य्याया अस्य ज्ञातव्याः ॥)

कुष्ठहन्ता, [तृ] पुं, (कुष्ठं हन्ति इति । कुष्ठ + हन्

+ तृच् ।) हस्तिकन्दः । इति राजनिर्घण्टः ॥

कुष्ठहन्त्री, स्त्री, (कुष्ठहन्तृ + स्त्रियां ऋदन्तात्

ङीप् ।) वाकुची । इति राजनिर्घण्टः । हाकुच्
इति भाषा ॥

कुष्ठहृत्, पुं, (कुष्ठं हरतीति । कुष्ठ + हृ + क्विप

तुगागमश्च ।) खदिरवृक्षः । इति त्रिकाण्डशेषः ॥

कुष्ठारिः, पुं, (कुष्ठस्य अरिः शत्रः नाशक इत्यर्थः ।)

पृष्ठ २/१६६
विट्खदिरः । इति शब्दचन्द्रिका ॥ पटोलः ।
आदित्यपत्रः । खदिरः । गन्धकः । इति राज-
निर्घण्टः ॥

कुष्ठी, [न्] त्रि, (कुष्ठः अस्यास्तीति । कुष्ठ +

इनिः ।) कुष्ठरोगयुक्तः । (यथा, मनुः । ३ । ७ ।
“क्षय्यामयाव्यपस्मारिश्वित्रिकुष्ठिकुलानि च” ॥)

कुष्मलं, क्ली, (कुष् + “कुटिकुषिभ्यां क्मलन्” । उणां

४ । १८६ । इति क्मलन् ।) छेदनम् । विकशितम् ।
इत्युणादिकोषः ॥

कुष्माण्डः, पुं स्त्री, शिवस्य गणदेवताभेदः । (यथा,

विष्णुपुराणे । १ । १२ । १३ ।
“कुष्माण्डा विविधै रूपैः सहेन्द्रेण महामुने ! ।
समाधिभङ्गमत्यन्तं आरब्धाः कर्त्तुमातुराः” ॥)
भ्रूणविशेषः इति मेदिनी ॥ (कुष्माण्डाकारत्वात्
शिवगणभ्रूणयोस्तथात्वम् ॥ कु ईषत् उष्मा
अण्डेषु वीजेषु यस्य ।) वृहत्फललताविशेषः ।
कुम्डा इति कोहडा इति च भाषा । तत्प-
र्य्यायः । धृणावासः २ तिमिषः ३ ग्राम्यकर्कटी
४ । इति त्रिकाण्डशेषः ॥ कुष्माण्डकः ५ कर्कारुः
६ । इत्यमरः ॥ पुष्पफलः ७ । इति रत्नमाला ॥
कुष्माण्डी ८ कर्कोटिका ९ कुम्भाण्डी १० वृहत्फला
११ सुफला १२ कुञ्चफला १३ नागपुष्पफला १४
शुनी १५ कूष्माण्डः १६ शिखिवर्द्धकः १७ । इति
शब्दरत्नावली ॥ कूष्माण्डकः १८ । इत्यमरटीका ॥
अपि च ।
“कुष्माण्डं स्यात् पुष्पफलं पीतपुष्पं वृहत्फलम् ।
कुष्माण्डं वृंहणं वृष्यं गुरुपित्तास्रवातनुत् ॥
बालं पित्तापहं शीतं मध्यमं कफकारकम् ।
वृद्धं नातिहिमं स्वादु सक्षारं दीपनं लघु ॥
वस्तिशुद्धिकरं चेतोरोगहृत् सर्व्वदोषजित्” ॥ * ॥
अथ कोहण्डी ।
“कुष्माण्डी तु भृशं लघ्वी कर्क्कारुरपि कीर्त्तिता ।
कर्क्कारुर्ग्राहिणी शीता रक्तपित्तहरा गुरुः ।
पक्वा तिक्ताग्निजननी सक्षारा कफवातनुत्” ॥
इति भावप्रकाशः ॥ अस्य फलगुणाः । मूत्राघात-
प्रमेहकृच्छ्राश्मरीनाशित्वम् । विण्मूत्रग्लपनत्वम् ।
तृष्णार्त्तिशमनत्वम् । जीर्णाङ्गपुष्टिप्रदत्वम् । शुक्र-
वृद्धिकारित्वम् । स्वादुतरत्वम् । अरोचकहरत्वम् ।
बलकारित्वम् । पित्तापहत्वम् । वल्लीफलानां मध्ये
प्रवरत्वञ्च । इति राजनिर्घण्टः ॥ तस्य बालफल-
गुणः । पित्तहरत्वम् । मध्यमफलगुणौ । कफ-
कारित्वम् । अतिगुरुपाकित्वम् ॥ पक्वफलगुणाः ।
लघुपाकित्वम् । उष्णत्वम् । क्षाररसत्वम् । अग्नि-
दीपनत्वम् । वस्तिशोधनत्वम् । सर्व्वदोषनाशि-
त्वम् । हृद्यत्वम् । चित्तविकारिणः पथ्यत्वञ्च ॥
अस्य नाडिकागुणाः । क्षाररसत्वम् । मधुरत्वम् ।
गुरुत्वम् । रूक्षत्वम् । रुचिकारित्वम् । वायुकफा-
श्मरीशर्करारोगनाशित्वञ्च ॥ अस्य मज्जगुणाः ।
शुक्रकारित्वम् । पित्तनाशित्वम् । वस्तिशोधन-
त्वञ्च । इति राजवल्लभः ॥

कुष्माण्डकः, पुं, (कुष्माण्ड + स्वार्थे कन् ।) कुष्माण्डः ।

इत्यमरः । २ । ४ । १५५ ॥ (यथा, भावप्रकाशे ।
“घृते तप्ते विनिःक्षिप्य खण्डान् कुष्माण्डसम्भवान् ।
वार्त्ताकुविधिना कुर्य्यात् प्रलेहतलनादिकम् ॥
वेसवाराम्लतक्रेण धृते तलनपूर्ब्बकम् ।
कुष्माण्डकं फलं सिद्धं विदुः सुस्वादु सुन्दरम्” ॥
नागविशेषः । यथा, महाभारते । १ । २५ । ११ ।
“नागः शङ्खमुखश्चैव तथा कुष्माण्डकोऽपरः” ॥)

कुष्माण्डी, स्त्री, (कुष्माण्ड + स्त्रियां जातित्वात् ङीष् ।)

उमा । (मसिना ।) ओषधी । इति हेमचन्द्रः ॥
कर्कारुः । इति राजनिर्घण्टः ॥ यागक्रियाविशेषः ।
इति शब्दरत्नावली ॥

कुस इ कि भासने । इति कविकल्पद्रुमः ॥ (चुरां-

पक्षे भ्वां--परं--अकं--सेट्--इदित् ।) पञ्चमस्वरी ।
इ कुंस्यते । किं कुंसयति कुंसति । भासनं दीप्तिः ।
इति दुर्गादासः ॥

कुस य इर् श्लिषि । इति कविकल्पद्रुमः ॥ (दिवां-

परं--सकं--सेट् ।) य, कुस्यति बाला कान्तम् । इर्
अकुसत् अकोसीत् । अस्मात् पुषादित्वान्नित्यं ङ
इत्यन्ये । इति दुर्गादासः ॥

कुसलं, क्ली, (कुस् + कलच् ।) कुशलम् । इत्यमर-

टीका ॥

कुसितः, पुं, (कुस + “कुसेरुम्भोमेदेताः” । उणां ४ ।

१०६ । इति इतः ।) जनपदः । इति सिद्धान्त-
कौमुद्यामुणादिवृत्तिः ॥

कुसिदायी, स्त्री, (स्त्रीत्यर्थे “वृषाकप्यग्निकुसित-

कुसिदानामुदात्तः” । ४ । १ । ३७ । इति प्रकृतेरैकारा
देशो ङीप् च ।) कुसीदपत्नी । इति जटाधरः ॥

कुसिम्बी, स्त्री, (कौ पृथिव्यां शिम्बीति ख्याता ।

पृषोदरात् सः ।) शिम्बी । इति राजनिर्घण्टः ॥
(“कुसिम्बिवल्लीप्रभवास्तु शिम्बाः” ॥
इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥)

कुसीदं, क्ली, (कुस् + “कुसेरुम्भोमेदेताः” उणां । ४

१०६ । इति ईदप्रत्ययः । इह सूत्रे तृतीयप्रत्ययो
ह्रस्वादिर्दोर्घादिश्चेति तन्त्रेणोपात्तः । वृषाकप्य-
ग्नीति सूत्रे ह्रस्व एवेति वृत्तिकारहरदत्तादयः ।
यद्वा कुत्सितं निकृष्टरूपवृद्धिदानेनेत्यर्थः सीदति-
अधोमर्णो यत्र । पृषोदरात् साधुः । यथा वृह-
स्पत्युक्तौ “कुत्सितात् सीदतश्चैव निर्विशङ्कैः प्रगृ-
ह्यते । चतुर्गुणं वाष्टगुणं कुसीदाख्यमृणन्ततः” ॥)
ऋणदानजीविका । वृद्ध्याजीवनम् । सुद् वाडि
देओया इत्यादि भाषा । तत्पर्य्यायः । अर्थ
प्रयोगः २ वृद्धिजीविका ३ । इत्यमरः । २ । ९ ।
४ ॥ यथा, --
“कुसीदकृषिवाणिज्यं प्रकुर्व्वीतास्वयंकृतम् ।
आपत्काले स्वयं कुर्व्वन्नैनसा युज्यते द्विजः ॥
बहवो वर्त्तनोपाया ऋषिभिः परिकीर्त्तिताः ।
सर्व्वेषामपि चैवैषां कुसीदमधिकं विदुः ॥
अनावृष्ट्या राजभयान्मूषिकाद्यैरुपद्रवैः ।
कृष्यादिके भवेद्बाधा सा कुसीदे न विद्यते ॥
शुक्लपक्षे तथा कृष्णे रजन्यां दिवसेऽपि वा ।
उष्णे वर्षति शीते वा वर्द्ध्वनं न निवर्त्तते ॥
देशं गतानां या वृद्धिर्नानापण्योपजीविनाम् ।
कुसीदं सर्व्वतः सम्यक् संस्थितस्यैव जायते ॥
लब्धलाभः पितॄन् देवान् ब्राह्मणांश्चैव पूजयेत् ।
ते तृप्तास्तस्य तद्दोषं शमयन्ति न संशयः ॥
वणिक् कुसीदो दद्यात्तु वस्त्रं गां काञ्चनादिकम् ।
कृषीवलोऽन्नपानानि यानशय्यासनानि च ॥
पण्येभ्यो विंशतिं दत्त्वा पशुस्वर्णादिकं शतम् ।
पादेनायस्य पारक्यं कुर्य्यात् सञ्चयमात्मवान् ॥
अर्द्धेन चात्मभरणं नित्यनैमित्तिकान्वितम् ।
पादञ्च प्रार्थमायस्य मूलभूतं विवर्द्धयेत् ॥
विद्या शिल्पं भृतिः सेवा गोरक्षं विपणिः कृषिः ।
वृत्तिर्भैक्षं कुसीदञ्च दश जीवनहेतवः” ॥
इति गारुडे २१५ अध्यायः ॥ * ॥ गोतमः ।
“कृषिगोरक्षवाणिज्यञ्चास्वयं कृतं कुसीदञ्चेति ।
कुसीदस्य पृथक् ग्रहणं स्वयंकृतस्याभ्यनुज्ञानार्थम्” ॥
कुसीदं वृद्धिकर्म्मेति प्रदेशान्तरेऽभिधानात् इति
कल्पतरुः ॥ वृहस्पतिः ।
“कुसीदं कृषिवाणिज्यं प्रकुर्व्वीतास्वयं कृतम् ।
आपत्काले स्वयं कुर्व्वन् नैनसा युज्यते द्विजः ॥
लब्धलाभः पितॄन् देवान् ब्राह्मणांश्चैव भोजयेत् ।
ते तृप्तास्तस्य तं दोषं शमयन्ति न संशयः ॥
वणिक् कुसीदी दद्यात्तु वस्त्रगोकाञ्चनादिकम् ।
कृषीवलोऽन्नपानानि यानशय्यासनानि च ॥
पण्येभ्यो विंशकं दत्त्वा पशुस्वर्णादिकं शतम् ॥
वणिक् कुसीद्यदोषः स्यात् ब्राह्मणानाञ्चपूजनात् ।
राज्ञे दत्त्वा तु षड्भागं देवतानाञ्च विंशकम् ॥
त्रिंशद्भागञ्च विप्राणां कृषिं कृत्वा न दोषभाक्” ॥
तथा, मनुः ।
“अशीतिभागं गृह्णीयात् मासाद्वार्द्धुषिकः शतात् ।
द्विकं शतं वा गृह्णीयात् सतां धर्म्ममनुस्मरन् ॥
द्विकं शतञ्च गृह्णानो न भवत्यर्थकिल्विषी ।
शतकार्षापणे अशीतिभागं विंशतिं पणान्” ॥
द्विकं पुराणद्वयम् । एवंविधनियममतिक्रम्य
अनापदि स्वयमन्यद्वारा वा यः स्वाच्छन्द्येन व्यव-
हरति तस्यैव प्रायश्चित्तम् । आपदि तु स्वयंकरण
नियमातिक्रमे च न दोषः । इति प्रायश्चित्त-
विवेकः । इत्याह्निकाचारतत्त्वम् ॥ कुसीदिके त्रि ।
इति मेदिनी ॥

कुसीदायी, स्त्री, (कुसीदः कुसीदजीवी तस्य पत्नी ।

मुग्धबोधमते ईप् ऐङ्च । पाणिन्यादिमते तु
कुसितकुसिदशब्दाभ्यां ह्रस्वमध्याभ्यामेव ङीप् ऐच्च
इति विशेषः । तदा “वृषाकप्यग्निकुसितकुसिदानामु
दात्तः” । ४ । १ ३७ । इति प्रकृतेरैकारादेशो
ङीप् च ।) कुसीदपत्नी । इति जटाधरः ॥

कुसीदिकः, त्रि, (कुसीदं वृद्धिस्तदर्थं द्रव्यं कुसीदं तत्

प्रयच्छति । “कुसीददशैकादशात् ष्ठन्ष्ठचौ” । ४ ।
४ । ३१ । इति ष्ठन् ।) वृद्धिजीवी । तत्पर्य्यायः ।
वार्द्धुषिकः २ वृद्ध्याजीवः ३ वार्द्धुषिः ४ । इत्यमरः ।
२ । ९ । ५ ॥ कुसीदः ५ । इति शब्दरत्नावली ॥
कुसीदी ६ । यथा, आह्निकतत्त्वे ॥
“वणिक् कुसीद्यदोषः स्यात् ब्राह्मणानाञ्च पूजनात्” ॥

कुसुमं, क्ली, (“कुसेरुम्भोमेदेताः” । उणां ४ । १०६ ।

इति उमः । निपातनात् गुणाभावः ।) पुष्पम् ।
(यथा, ऋतुसंहारे वसन्तवर्णने ४ ।
पृष्ठ २/१६७
“वापीजलानां मणिमेखलानां
शशाङ्कभासां प्रमदाजनानां ।
चूतद्रुमाणां कुसुमानतानां
ददाति सौरभ्यमयं वसन्तः” ॥
फलकुसुमविशेषाणां द्रव्यान्तरसुलभत्वादिसूचकत्वं
दर्शितं यथा वृहत्संहितायां २९ अध्याये ।
“फलकुसुमसम्प्रवृद्धिं वनस्पतीनां विलोक्य विज्ञे-
यम् । सुलभत्वं द्रव्याणां निष्पत्तिश्चापि शस्यानाम्” ॥
केन कस्य वृद्धिर्ज्ञेया तदाह ।
“शालेन कलमशालीरक्ताशोकेन रक्तशालिश्च ।
पाण्डूकः क्षीरिकया नीलाशोकेन मसूरकः ॥
न्यग्रोधेन तु यवकस्तिन्दुकवृद्ध्या च षष्टिको भवति ।
अश्वत्थेन ज्ञेया निष्पत्तिः सर्व्वशस्यानाम् ॥
जम्बूमिस्तिलमाषाः शिरीषवृद्ध्या च कङ्गु निष्पत्तिः ।
गोधूमाश्च मधुकैर्यववृद्धिः सप्तपर्णेन ॥
अतिमुक्तककुन्दाभ्यां कर्पासं सर्षपान् वदेदसनैः ।
बदरीभिश्च कुलत्थांश्चिरविल्वेनादिशेन्मुद्गान् ॥
अतसीवेतसपुष्पैः पलाशकुसुमैश्च कोद्रवा ज्ञेयाः ।
तिलकेन शङ्खमौक्तिकरजतान्यथ चेङ्गुदेन शणः ॥
करिणश्च हस्तिकर्णै रादेश्या वाजिनोऽश्वकर्णेन ।
गावश्च पाटलाभिः कदलीभिरजाविकं भवति ॥
चम्पककुसुमैः कनकं विद्रुमसम्पच्च बन्धजीवेन ।
कुरुवकवृद्ध्या वज्रं वैदूर्य्यं नन्दिकावर्त्तैः ॥
विद्याच्च सिन्धुवारेण मौक्तिकं कुङ्कुमं कुसुम्भेन ।
रक्तोत्पलेन राजा मन्त्री नीलोत्पलेनोक्तः ॥
श्रेष्ठी सुवर्णपुष्पैः पद्मैर्विप्राः पुरोहिताः कुमुदैः ।
सौगन्धिकेन बलपतिरर्केण हिरण्यपरिवृद्धिः ॥
आम्रैः क्षेमं भल्लातकैर्भयं पीलुभिस्तथारोग्यम् ।
खदिरशमीभ्यां दुर्भिक्षमर्ज्जुनैः शोभना वृष्टिः ॥
पिचुमर्द्दनाग कुसुमैः सुभिक्षमथमारुतः कपित्थेन ।
निचुलेनावृष्टिमयं व्याधिभयं भवति कुटजेन ॥
दूर्व्वाकुशकुमुमाभ्यां भिक्षुर्वह्निश्च कोविदारेण ।
श्यामालताभिवृद्ध्या बन्धक्यो वृद्धिमायान्ति” ॥)
फलम् । स्त्रीरजः । (यथा, ज्योतिषशास्त्रे ।
“यदा नार्य्याः पितुर्गेहे कुसुमस्तनसम्भवः” ॥)
नेत्ररोगविशेषः । इति मेदिनी ॥

कुसुमपुरं, क्ली, (कुसुमाख्यं पुरम् ।) पुरविशेषः ।

पाटना इति ख्यातम् । तत्पर्य्यायः । पाटलि-
पुत्त्रम् २ । इति हेमचन्द्रः ॥ (यथा, मुद्राराक्षसे
२याङ्के । “सखे ! विराधगुप्त ! वर्णयेदानीं कुसुम-
पुरवृत्तान्तशेषं अपि क्षमन्ते कुसुमपुरनिवासि-
नोऽस्मदुपजापं चन्द्रगुप्तप्रकृतयः” ॥)

कुसुममध्यं, क्ली, (कुसुमं मध्ये अभ्यन्तरे यस्य ।)

वृक्षविशेषः । इति शब्दचन्द्रिका । चालिता
गाछ इति भाषा ॥

कुसुमाञ्जनं, क्ली, (कुसुमाकारमञ्जनं शाकपार्थि-

वादिवत् समासः ।) कुसुमाकाररीतिमलसम्भव-
मञ्जनम् । तत्पर्य्यायः । पौष्पकम् २ रीतिपुष्पम् ३
पुष्पकेतु ४ । इत्यमरः । २ । ९ । १०३ ॥ राज-
निर्घण्टोक्तगुणपर्य्यायौ पुष्पाञ्जनशब्दे द्रष्टव्यौ ॥

कुसुमात्मकं, क्ली, (कुसुममेवात्मा स्वरूपं यस्य ।

कप् ।) कुङ्कुमम् । इति हारावली ॥

कुसुमाधिपः, पुं, (कुसुमेषु कुसुमप्रधानवृक्षेषु अधिपः

श्रेष्ठः ।) चम्पकवृक्षः । इति शब्दरत्नावली ॥
(चम्पकशब्दे ऽस्य विवृतिर्व्याख्येया ॥)

कुसुमाधिराट्, [ज्] पुं, (कुसुमेषु कुसुमप्रधानवृक्षेषु

अधिराजते दूरव्यापिसुगन्धित्वात् । अधि + राज्
+ क्विप् ।) चम्पकवृक्षः । इति त्रिकाण्डशेषः ॥

कुसुमायुधः, पुं, (कुसुमानि आयुधानि अस्त्राणि

अस्य ।) कामदेवः । इति शब्दरत्नावली ॥
(यथा, शाकुन्तले ३ याङ्के ।
“भगवन् मन्मथ ! कुतस्ते कुसुमायुधस्य सत-
स्तैक्ष्ण्यमेतत्” ॥ तथा, कुमारे च । ४ । ४० ।
“कुसुमायुधपत्नि ! दुर्लभ-
स्तव भर्त्ता न चिराद्भविष्यति” ॥ इति ॥)

कुसुमालः, पुं, (कुसुमवत् लोभनीयं द्रव्यादिकं आ-

लाति सम्यक् अगोचरेणैव गृह्णाति । आ + ला
+ कः ।) चौरः । इति हारावली ॥

कुसुमासवं, क्ली, (कुसुमानां तद्रसानां आसवम्

मद्यम् ।) मधु । इति राजनिर्घण्टः ॥

कुसुमेषुः, पुं, (कुसुमानि इषवो वाणा यस्य ।) काम-

देवः । इत्यमरः । १ । १ । २७ ॥ (यथा, माघे । ८ । ७० ।
“स्वच्छाम्भः स्नपनविधौ तमङ्गमौष्ठ
स्ताम्बूलद्युतिविशदो विलासिनीनाम् ।
वासश्च प्रतनु विविक्तमस्त्वितीया-
नाकल्पो यदि कुसुमेषुणा न शून्यः” ॥)

कुसुम्भं, क्ली, (कौ पृथिव्यां सुम्भति शोभते दीप्तिं

प्राप्नोतीत्यर्थः । कु + सुभि + अच् इदित्वात् नुम् ।)
स्वर्णम् । इति मेदिनी ॥ पुष्पंविशेषः । कुसुमफुल
इति भाषा ॥ (यथा, ऋतुसंहारे वसन्तवर्णने ६ ।
“कुसुम्भरागारुणितैर्दूकूलै
र्नितम्बविम्बानि विलासिनीनाम् ।
तन्वंशुकैः कुङ्कुमरागगौरैः
अलङ्क्रियन्ते स्तनमण्डलानि” ॥)
तत्पर्य्यायः । कमलोत्तमम् २ वह्निशिखम् ३ महा-
रजनम् ४ । इत्यमरः । २ । ९ । १०६ ॥ पावकम् ५
पीतम् ६ पर्द्मोत्तरम् ७ रक्तम् ८ लोहितम् ९
वस्त्ररञ्जनम् १० अग्निशिखम् ११ । अस्य शाक-
गुणाः । मधुरत्वम् । कटुत्वम् । उष्णत्वम् । विण्मूत्र-
दोषमदनाशित्वम् । दृष्टिप्रसादनत्वम् । रुचि-
प्रदत्वम् । अग्निदीप्तिकारित्वञ्च । इति राज-
निर्घण्टः ॥ रूक्षत्वम् । कफवायुनाशित्वम् । पित्त-
कारित्वञ्च । तत्तैलगुणाः । कटुत्वम् । उष्णत्वम् ।
त्रिदोषकारित्वम् । गुरुत्वञ्च । इति राजवल्लभः ॥
कृमियक्ष्ममलनाशित्वम् । तेजोबलकारित्वञ्च ।
घर्षणेनास्य गुणाः । त्रिदोषकारित्वम् । पुष्टिबल-
क्षयकण्डूकारित्वञ्च । इति राजनिर्घण्टः ॥ (कुसु-
म्भशाकभक्षणे निषेधमाह तिथितत्त्वधृतोशनो-
वचने यथा, --
“कुसुम्भं ललिताशाकं वृन्ताकं पूतिकां तथा ।
भक्षयन् पतितस्तु स्यादपि वेदान्तगो द्विजः” ॥)

कुसुम्भः, पुं, (“कुसेरुम्भोमेदेताः” । उणां । ४ । १०६ ।

इति उम्भ प्रत्ययः ।) कमण्डलुः । इत्यमरः । ३ ।
३ । १३६ ॥ (यथा, मनौ । ६ । ५२ ।
“क्लप्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान्” ॥)
महारजनवृक्षः । इति राजनिर्घण्टः ॥
(कुसुम फुल इति भाषा ॥ अस्य पर्य्याया यथा ।
“पद्मोत्तमविकाशः स्यात् कुसुम्भः शरटस्तथा” ॥
इति वैद्यकरत्नमालायाम् ॥ अस्य गुणाश्च यथा ।
“कटुर्विपाके कटुकः कफघ्नो
विदाहिभावादहितः कुसुम्भः” ॥
इति सुश्रुते सूत्रस्थावे ४६ अध्याये ॥)

कुसूः, पुं, (कुस् + कूप्रत्ययः ।) किञ्चुलुकः । इति

हेमचन्द्रः ॥

कुसूलः, पुं, (कुस् + कूलच् । यद्वा कुशूलः निपा-

तनात् सत्वम् ।) कुशूलः । इति कटशब्दार्थे
भरतः ॥

कुसृतिः, स्त्री, (कुत्सिता सृतिः उपायः व्यवहारो वा ।)

शाठ्यम् । इत्यमरः । १ । ७ । ३० । इन्द्रजालम् ।
इति हेमचन्द्रः । (कर्म्भधारये कुत्सितपथः । इति
व्युत्पत्तिलब्धोऽर्थः ॥ कुत्सिता सृतिराचारो
यस्येति विग्रहे, दुराचारे त्रि ।
यथा, भागवते ८ । २३ । ७ ।
“कस्माद्वयं कुसृतयः खलयोनयस्ते
दाक्षिण्यदृष्टिपदवीं भवतः प्रणीताः” ॥)

कुस्तुभः, पुं, (कुं भुवं स्तुभ्नोति । स्तुन्भ + मूला

दित्वात् कः ।) विष्णुः । इत्यमरटीकायां भरता-
दयः ॥ (समुद्रः । तस्येदं अण् कौस्तुभम् इति
शब्दार्थचिन्तामणिः ।

कुस्तुम्बरी, स्त्री, (कुत्सिता तुम्बरी । पृषोदरात् सुटि

साधुः ।) धन्याकम् । इत्यमरटीकायां भरतः ॥
(यथा, सुश्रुते सूत्रस्थाने ४६ अध्यायः ।
“आद्रां कुस्तुम्बरों कुर्य्यात् स्वादुसौगन्ध्यहृद्यताम् ।
सा शुष्का मधुरापाके स्निग्धा तृड्दाहनाशनी” ॥)

कुस्तुम्बुरु, क्ली, (कुत्सितं तुम्बति अर्द्दयति यत् ।

तुवि अर्द्दने + बाहुलकात् उरुप्रत्ययः । जाति-
निर्द्देशात् सुट् ।) धन्याकम् । इत्यमरः । २ । ९ । ३८ ॥
(अस्य पर्य्याया यथा, वैद्यकरत्नमालायाम् ॥
“धन्याकं धन्यक धान्यं कुस्तुम्बुरु धनीयकम् ।
धन्या कुस्तुम्बुरी चान्या वेषलोग्रा वितुन्नकम्” ॥)
(पुं, यक्षविशेषः । यथा, महाभारते । २ । १० । १५ ।
“कुस्तुम्बुरुः पिशाचश्च गजकर्णो विशालकः ।
एते चान्ये च बहवो यक्षाः शतसहस्रशः” ॥)

कुस्म क ङ मतीक्षिते । इति कविकल्पद्रुमः ॥ (चुरां-

आत्मं-सकं-सेट् ।) कुस्मिति च । (अत्र अकं) ह्रस्वी
दन्त्योपधः । मतीक्षितं बुद्धिपूर्ब्बकदर्शनम् । कुस्मित्
कुत्सितमीषद्धास्यम् । क ङ, कुस्मयते जनः । बुद्ध्या
पश्यति कुत्सितं स्मयते वेत्यर्थः । इति दुर्गादासः ॥

कुह त् क ङ विस्मायने । इति कविकल्पद्रुमः ॥

(अदन्तचुरां-आत्मं-सकं-सेट् ।) ह्रस्वी । विस्मा-
यनमन्यतो विस्मयोत्पादनम् । ङ कुहयते । कुह-
केनेन्द्रजालिको लोकं विस्माययति इत्यर्थः ।
स्यातां कुहयते विस्मापयते हेतुतो भयमिति
भट्टमल्लदर्शनाद्विस्मापने इति पाठ इत्येके । इति
दुर्गादासः ॥

कुह, व्य, (“वा ह च छन्दसि” । ५ । ३ । १३ ।

पृष्ठ २/१६८
इति हः । “कु तिहोः” । ७ । २ । १०४ । इति किमः
कुः ।) कुत्र । वैदिकप्रयोगोऽयम् । इति व्याकरणम् ॥
(यथा, ऋग्वेदे २ । १२ । ५ । “यं स्मा पृच्छन्ति
कुह सेतिघोरमुतेमाहुर्नैषो अस्तीत्येनम्” ॥)

कुहः, पुं, (कुहयति विस्माययति ऐश्वर्य्यप्रभावेन यः ।

कुह + णिच् + अच् ।) कुवेरः । इति हेमचन्द्रः ॥
(क्ली, माया । कुहकम् । यथा, रामायणे २ । १०९ । २७ ।
सन्तुष्टपञ्चवर्गोऽहं लोकयात्रां प्रवाहये ।
“अकुहः श्रद्दधानः सन् कार्य्याकार्य्यविचक्षणः” ॥)

कुहकं, क्ली, (कुह + “बहुलमन्यत्रापि” । उणां

२ । ३७ इति क्वुब् ।) माया ।
(यथा, भागवते । १ । १ । १ ।
“जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्व-
राट् तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत्
सूरयः । तेजोवारिमृदां यथा विनिमयो यत्र
त्रिसर्गो मृषा धाम्ना स्वेन सदा निरस्तकुहकं सत्यं
परं धीमहि” ॥) तत्पर्य्यायः । इन्द्रजालम् २ जा-
लम् ३ कुसृतिः ४ । तद्युक्ते त्रि । तत्पर्य्यायः ।
धूर्त्तः २ वञ्चकः ३ व्यंसकः ४ दाण्डाजिनिकः ५
मायी ६ जालिकः ७ । इति हेमचन्द्रः ॥ दाम्भिकः ।
इत्युणादिकोषः । (सर्पविशेषः । यथा, विष्णु-
पुराणे १ । १७ । ३८ ॥
“इत्युक्तास्तेन ते सर्पाः कुहकास्तक्षकान्धकाः ।
अदशन्त समस्तेषु गात्रेष्वतिविषोल्वणाः” ॥)

कुहकजीवी, [न्] त्रि, (कुहकेन इन्द्रजालविद्यया

जीवति जीवनयात्रां सम्पादयतीति । कुहक + जीव्
+ णिनिः ।) मायाजीवी । इति महाभारतम् ॥
वाजिकर इति भाषा ॥ (सर्पजीवि । इति व्युत्प-
त्तिलब्धोऽर्थः । सापुडे इति भाषा ॥)

कुहकस्वनः, पुं, (कुहकः विस्मापकः स्वनः शब्दो-

ऽस्य ।) कुक्कुटपक्षी । इति हेमचन्द्रः ॥

कुहकस्वरः, पुं, (कुहकः विस्मापकः स्वरो यस्य ।

कुक्कुटः । इति हारावली ॥

कुहक्कः, पुं, तालभेदः । यथा, सङ्गीतदामोदरे ।

“द्रुतद्वन्द्वं लघुद्वन्द्वं ताले कुहक्कसंज्ञके” ॥

कुहनं, क्ली, (कु ईषत् प्रयत्नेन हन्यते इति । हन् +

कर्म्मणि अप् ।) मृद्भाण्डविशेषः । काचभाजनम् ।
(कुत्सिताचारेण हन्तीति । हन् + अच् ।) ई-
र्ष्यालौ त्रि । इति मेदिनी ॥

कुहनः, पुं, (कुं पृथ्वीं भूमिं वा हन्ति खनतीत्यर्थः ।

हन् + अच् ।) मूषिकः । (कौ पृथिव्यां कुत्सितं
वा हन्ति दशतीति । हन् + अच् ।) सर्पः । इति
हेमचन्द्रः ॥

कुहना, स्त्री, (कुह + “ण्यासश्रन्थो युच्” । ३ । ३ ।

१०७ । इति युच् ।) दम्भचर्य्या । इति मेदिनी ॥
लोमान्मिथ्येर्य्यापथकल्पना । इत्यमरः । २ । ७ ।
५३ ॥ अर्थलिप्सया मिथ्याचारभेदस्य सम्पादना ।
दम्भमात्रकृतध्यानमौनादिः । अर्थलिप्सया धर्म्मा-
श्रवणं इत्यन्ये । इति भरतः ॥

कुहनिका, स्त्री, (कुह + युच् स्वार्थे कः टाप् अत

इत्वम् ।) कुहना । इति शब्दरत्नावली ॥

कुहरं, क्ली, (कुं भूमिं हरतीति । कु + हृ + अच् ।)

गह्वरम् । छिद्रम् । इति मेदिनी ॥ (यथा, प्रसन्न-
राघवे ।
‘तैः किं मत्तकरीन्द्रकुम्भकुहरे नारोपणीयाः कराः’ ॥)
कर्णः कण्ठशब्दः । गलः । अन्तिकम् । इत्यजय-
पालः ॥

कुहरः, पुं, (कुह विस्मायने + कः । कुहं विस्मा-

यनं भयमित्यर्थः राति ददाति भयं जनयतीति
भावः । रा + कः ।) नागविशेषः । इति मेदिनी ॥

कुहरितं, क्ली, (कुहरयति कण्ठशब्दं करोति ।

कुहर + कृतौ णिच् + भावे क्तः ।) पिकालापः ।
रतिध्वनिः । इति मेदिनी ॥ रटितम् । इति
विश्वः ॥

कुहलिः, पुं, (कु + हलि + इन् ।) पूगपुष्पिका । इति

त्रिकाण्डशेषः । पान इति भाषा ॥

कुहा, स्त्री, (कुह + कः टाप् च ।) कटुकी । इति

शब्दचन्द्रिका ॥
(वदरी ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे
भागे ॥ गुणाश्चास्य वदरशब्दे ज्ञेयाः ॥)

कुहुः, स्त्री, (कुह + मृगष्वादित्वात् कुः ।) कुहूः ।

इति हेमचन्द्रः ॥ (यथा, महाभारते ।
“कोकिलानां कुहुरवैः सुखैः श्रुतिमनोहरैः” ॥)

कुहूः, स्त्री, (कुह + बाहुलकात् कूप्रत्ययः ।) नष्टेन्दु-

कलामावास्य । इत्यमरः । १ । ४ । ९ ॥
(यथा, श्रुतौ । “द्वे ह वा अमावास्या या
पूर्ब्बामावास्या सिनीवाली योत्तरा सा कुहूरिति” ॥
व्यक्तमाह कालमाधवीये व्यासः ।
“दृष्टचन्द्रा सिनीवाली नष्टचन्द्रा कुहूर्मता” ॥
मतान्तरे तु ।
“तिथिक्षये सिनीवाली नष्टचन्द्रा कुहूर्मता ।
बाहुल्येपि कुहूर्ज्ञेया वेदवेदान्तवेदिभिः” ॥
तत्र श्राद्धाधिकारिभेदमाह । यथा, जावालिः ।
“अपराह्णद्वयाव्यापी यदि दर्शस्तिथिक्षये ।
आहिताग्नेः सिनीवाली निरग्न्यादेः कुहूर्मता” ॥
आदिशब्दात् स्त्रीशूद्रयोरपि ग्रहणं यथाह
लोगाक्षिः ।
“सिनीवाली द्विजैः कार्य्या साग्निकैः पितृकर्म्मणि ।
स्त्रीभिः शूद्रैः कुहूः कार्य्या तथा चानग्निकैर्द्विजैः” ॥
तदधिष्ठत्री देवपत्नी । यथा, निरुक्ते ।
“सिनीवाली कुहूरिति देवपत्न्याविति” ॥
सा च अङ्गिरसः सुता । यथाह भागवते ४ ।
१ । २९ ।
“श्रद्धा त्वङ्गिरसः पत्नी चतस्रोऽसूत कन्यकाः ।
सिनीवाली कुहूराका चतुर्थ्यनुमतिस्तथा” ॥)
कोकिलालापः । इति मेदिनी ॥ (यथा, आर्य्या-
सप्तशती ६३० ।
“केनाश्रावि पिकानां कुहूं विहायेतरः शब्दः” ॥)

कुहूकण्ठः, पुं, (कुहूरितिशब्दः कण्ठे यस्य ।) को-

किलः । इति शब्दरत्नावली ॥

कुहूमुखः, पुं, (कुहूरिति शब्दः मुखे यस्य ।) कोकिलः

इति त्रिकाण्डशेषः ॥

कुहूरवः, पुं, (कुहूरिति रवो यस्य ।) कोकिलः ।

इति राजनिर्घण्टः ॥ (यदुक्तम् ।
“पिक ! विधुस्तव हन्ति समं तम-
स्त्वमपि चन्द्रविरोधिकुहूरवः” ॥)

कुहूलं, क्ली, (कुह + ऊलक्प्रत्ययः ।) सशल्यभूरन्ध्रम् ।

इति जटाधरः ॥

कुहेडिका, स्त्री, (कु ईषत् हेडति वेष्टते नेत्रसञ्चा-

रोऽस्याम् । हेड् ङ वेष्टने + इन् ततः स्वार्थेकन्
ततः टाप् ।) कुज्झटिका । इति भूरिप्रयोगः ॥

कुहेडी, स्त्री, (कु ईषत् हेडति वेष्टते नेत्रसञ्चारो

ऽस्याम् । हेड वेष्टने + “सर्व्वधातुभ्यः इन्” उणां
४ । ११७ । इति इन् । ततः कृदिकारान्तात् वा
ङीष् ।) कुहेडिका । इति शब्दमाला ॥

कुहेलिका, स्त्री, (कु ईषत् हेडति षेष्टते नेत्रसञ्चारो-

ऽस्याम् । हेडवेष्टने + इन् । ततः स्वार्थे कन् ।
टाप् । डस्य लत्वम् ।) कुज्झटिः । इति त्रिकाण्ड-
शेषः ॥

कू शि ङ आर्त्तस्वरे । इति कविकल्पद्रुमः ॥ (तुदां--

आत्मं--अकं--सेट् ।) शि ङ कुवते अकुविष्ट ।
इति दुर्गादासः ॥

कू ञ ग शंब्दे । इति कविकल्पद्रुमः ॥ (क्र्यां--उभं

--अकं--सेट् ।) ञ ग कूनाति कूनीते । ह्रस्वान्तो-
ऽयमिति जैमिनिः । दन्त्यनोपधोऽपि । नकार-
रहितो ह्रस्वान्त इति रमानाथः । दीर्घान्त इति
जौमराः । इति दुर्गादासः ॥

कूः, स्त्री, (कूनाति शब्दायते इति । कू + क्विप् ।)

पिशाची । इति शब्दमाला ॥

कूकुदः, त्रि, (कू शब्दे भावे क्विप् । कुवः शब्दस्य

कीर्त्तेरित्यर्थः कुं भूमिं आस्पदस्वरूपामिति
यावत् ददातीति । कूकु + दा + कः ।) सत्कृत्या-
लङ्कृतां कन्यां यो ददाति सः । इत्यमरः । ३ । १ ।
१४ ॥

कूचः, पुं, (कु शब्दे “कुवश्चट् दीर्घश्च” । उणां

४ । ९१ । इति चट् दीर्घश्च ।) स्तनः । इत्युणादि-
कोषः ॥

कूचिका, स्त्री, (कूच + टित्वात् ङीप् । स्वार्थे कन् ।)

तूलिका । इति हेमचन्द्रः ॥

कूज हिक्वने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-

सेट् ।) दीर्घी । हिक्वनमव्यक्तशब्दः । कूजति
कोकिलः । इति दुर्गादासः ॥

कूजितं, क्ली (कूज् + भावे क्तः ।) पक्षिध्वनिः इति

हेमचन्द्रः ॥ (यथा, गीतगोविन्दे १ । ४ । २ ।
“ललितलवङ्गलतापरिशीलनकोमलमलयसमीरे ।
मधुकरनिकरकरम्बितकोकिलकूजितकुञ्जकुटीरे” ॥)

कूट क ङ अप्रसादाप्रदोः । इति कविकल्पद्रमः ॥

(चुरां-आत्मं-अकं-सेट् ।) अप्रदा दानाभावः । क
ङ कूटयते खलः स्फुटमप्यर्थं प्रसन्नं न करोति ।
किञ्चिन्न ददाति वेत्यर्थः । इति दुर्गादास ॥

कूट त् क दाहे । मन्त्रे । इति कविकल्पद्रुमः ॥

(अदन्तचुरां-परं-सकं-सेट् ।) दीर्घो । अचुकूटत् ।
इति दुर्गादासः ॥

कूटः, पुं, (कूटयति दग्धीकरोति शापप्रभावेन सा-

पराधान् इति । कूट दाहे + णिच् + अच् ।)
अगस्त्यमुनिः । इति शब्दरत्नावली ॥
पृष्ठ २/१६९

कूटः, पुं, स्त्री, (कूट्यते दातुं न शक्यते स्थावर

त्वादिति । कूट अप्रदाने + कर्म्मणि घञ् ।) गृहम् ।
इति शब्दरत्नावली ॥

कूटः, पुं, क्ली, (कूट् + घञ् ।) निश्चलः । राशिः ।

(यथा, हेः रामायणे । १ । १४ । १५ ।
“अन्नकूटाश्च दृश्यन्ते बहवः पर्व्वतोपमाः” ॥)
लौहमुद्गरः ॥ (यथा, भागवते । ४ । २५ । ८ ।
“एते त्वां संप्रतीक्षन्ते स्मरन्तो वैशसं तव ।
संपरेतमयःकूटैश्छिन्दन्त्युत्थितमन्यवः” ॥)
माया । (यथा, महाभारते वनपर्व्वणि ।
“नैव धर्म्मेण तद्राज्यं नार्ज्जवेन न चौजसा ।
अक्षकूटमधिष्टाय हृतं दुर्य्योधनेन वै” ॥)
पर्व्वतशृङ्गम् । (यथा, महाभारते आनुशासनिके ।
“अद्रीणामिव कूटानि धातुरक्तानि शेरते” ॥)
तुच्छः । सीरावयवः । यन्त्रम् । फाँद् इति भाषा ।
(यथा, रामायणे ।
“वागुराभिश्च पाशैश्च कूटैश्च विविधैस्तथा” ॥)
अनृतम् । इति मेदिनी ॥ भग्नशृङ्गषण्डः । इति
हेमचन्द्रः ॥ कैतवम् । इत्यमरः । ३ । ३ । ३६ ॥
(यथा, भागवते । ६ । ५ । १० ।
“वाचः कूटन्तु देवर्षेः स्वयं विममृशुर्घिया” ॥
तद्वति त्रि । यथा, मनुः । ७ । ९० ।
“न कूटैरायुधैर्हन्यात् युध्यमानो रणे रिपून्” ॥
मिथ्याभूते त्रि । यथा, याज्ञवल्क्यः ।
“द्विगुणा वान्यथा ब्रूयुः कूटाःस्युः पूर्ब्बसाक्षिणः” ॥
पुरद्वारम् । यथा, महाभारते । ४ । ५ । १४ ।
“इयं कूटे मनुष्येन्द्र ! गहने महती शमी ।
भीमशाखा दुरारोहा श्मशानस्य समीपतः” ॥
अत्र कूटशब्दस्तु टीकाकृन्मतभेदेन अर्थान्तरे-
ऽपि वर्त्तते । अग्रभागमात्रम् । यथा, रामायणे ।
“किरीटकूटैर्ज्वलितं शृङ्गारं दीप्तकुण्डलम्” ॥
भागवते च । ३ । १३ । २९ ।
“सवज्रकूटाङ्गनिपातवेग-
विशीर्णकुक्षिः स्तनयन्नुदन्वान् ।
उत्सृष्टदीर्घोर्म्मिभुजैरिवार्त्त-
श्चुक्रोश यज्ञेश्वर ! पाहि मेति” ॥)

कूटकं, क्ली, (कूट् + संज्ञायां कन् ।) फालम् । इत्य-

मरः । २ । ९ । १३ ॥

कूटकः, पुं, (कूट् + ण्वुल् ।) कवरी । इति त्रिकाण्ड-

शेषः ॥ मुरानामगन्धद्रव्यम् । इति शब्दमाला ॥
(पर्व्वतविशेषः । यथा, भागवते । ५ । १९ । १७ ।
“भारते ऽस्मिन्वर्षे सरिच्छैलाः सन्ति बहवः” ।
“त्रिकूट ऋषभः कूटकः क्रौञ्चः सह्यः” इति ॥)

कूटकृत्, पुं, (कूटं करोतीति । कूट + कृ + क्विप्

तुगागमश्च ।) शिवः । कायस्थः । इति त्रिकाण्ड-
शेषः । कितवे, त्रि ॥ (तुलाकर्म्मणि कैतवकारी ।
यथा, याज्ञवल्क्यः । २ । २४३ ।
“तुलाशासनमानानां कूटकृन्नाणकस्य च” ॥)

कूटजः, पुं, (कूटे पर्व्वते एव जायते । जन + डः ।)

कुटजवृक्षः । इति राजनिर्घण्टः ॥ (कुटजशब्दे
ऽस्य गुणादयो ज्ञेयाः ॥)

कूटपूर्व्वं, पुं, हस्तिनां त्रिदोषजज्वरः । इति

त्रिकाण्डशेषः ॥ कूटपर्ब्बोऽपि क्वचित्पाठः ॥

कूटपालकः, पुं, (कूटं मृत्स्तोमं पालयतीति । पालि

+ ण्वुल् ।) कुलालस्य पवनम् । कुमारेर पोयान्
इति भाषा । पित्तज्वरः । इति हारावली ॥

कूटयन्त्रं, क्ली, (कूटं कैतववत् यन्त्रम् ।) आमिषं दत्त्वा

मृगपक्षिबन्धनार्थं यत् सन्धानयन्त्रं निवेश्यते तत् ।
फाँद् इति भाषा । तत्पर्य्यायः । उन्माथः २ ।
इत्यमरः । २ । १० । २६ ॥

कूटशाल्मलिः, पुं, (कूटः शाल्मलिः ।) शाल्मलिविशेषः ।

काशिमाला इति ख्यातः । कुत्सितशाल्मलिः
अनृतशाल्मलिर्वा । इत्यन्ये । इति भरतः ॥ तत्प-
र्य्यायः । रोचनः २ । इत्यमरः । २ । ४ । ४७ ॥
(क्वचित् स्त्रीलिङ्गे ऽपि दृश्यते । कूटशाल्मलिरिव
इति व्युत्पत्त्या यमस्य गदायाः गौणी संज्ञा । यथा,
रघौ १२ । ९५ ।
“अयःशङ्कुचितां रक्षः शतघ्नीमथ शत्रवे ।
हृतां वैवस्वतस्येव कूटशाल्मलिमक्षिपत्” ॥
नरकस्थकण्टकाचितलोहशाल्मलिवृक्षविशेषः ।
स च दुरारोहः । यथा, महाभारते १८ । ३ । ४ ।
“नादृश्यन्त च तास्तत्र यातनाः पापकर्म्मिणाम् ।
नदी वैतरणी चैव कूटशाल्मलिना सह” ॥)
राजनिर्घण्टोक्तगुणपर्य्यायौ रोहितकशब्दे द्रष्टव्यौ ॥

कूटसंक्रान्तिः, स्त्री, अर्द्धरात्रातीते सूर्य्यस्य राश्यन्त-

रगभनम् । यथा, --
“संक्रान्तिर्द्विविधा यत्र पूर्ब्बं तत्र परित्यजेत् ।
कर्त्तव्यं कूटसंक्रान्त्यां स्नानदानतपोव्रतम् ॥
अर्द्धरात्रव्यतीते तु यदा संक्रमते रविः ।
सा ज्ञेया कूटसंक्रान्तिर्मुनिभिः परिकीर्त्तिता” ॥
इति विद्यानिधिकृतज्योतिःसागरसारधृतं वच-
नम् ॥ * ॥ अपि च ।
“अर्द्धरात्रे व्यतीते तु संक्रान्तिर्यदहर्भवेत् ।
पूर्ब्बे व्रतादिकं कुर्य्यात् परेद्युः स्नानदानयोः ॥
इति भीमपराक्रमीयम् ॥ स्नानदानयोरित्यत्र
सप्तमीनिर्द्देशात् परदिवसीयस्रानदाननिमित्तकं
पूर्ब्बदिने उपवाससंयमनरूपव्रतादिकं कुर्य्यादि-
त्यर्थः । इति तिथ्यादितत्त्वम् ॥

कूटस्थः, त्रि, (कूटे मायायां तिष्ठतीति । यद्वा, कूट-

वत् निर्व्विकारेण निश्चलः सन् तिष्ठतीति । कूट् +
स्था + कः ।) एकरूपतया यः कालव्यापी सः । इत्य-
मरः ॥ (परमात्मा । यथा, पञ्चदश्यां ६ । २२-२७ ।
“अधिष्ठानतया देहद्वयावच्छिन्नचेतनः ।
कूटवन्निर्व्विकारेण स्थितः कूटस्थ उच्यते ॥
कूटस्थे कल्पिता बुद्धिस्तत्र चित्प्रतिविम्बकः ।
प्राणानां धारणाज्जीवः संसारेण स युज्यते ॥
जलव्योम्ना घटाकाशो यथा सर्व्वस्तिरोहितः ।
तथा जीवेन कूटस्थः सोऽन्योन्याध्यास उच्यते ॥
अयं जीवो न कूटस्थं विविनक्ति कदाचन ।
अनादिरविवेकोऽयं मूलाविद्येति गम्यताम् ॥
विक्षेपावृतिरूपाभ्यां द्विधा ऽविद्या प्रकल्पिता ।
न भाति नास्ति कूटस्थ इत्यापादनमावृतिः ॥
अज्ञानी विदुषा पृष्टः कूटस्थं न प्रबुध्यते ।
न भाति नास्ति कूटस्थ इति बुद्ध्वा वदत्यपि” ॥
कूटस्थचैतन्यस्य अविद्याध्यस्ततयैव जीवत्वं नतु
स्वरूपतः नितरां तस्मादपि निरध्यस्तत्वात् नि-
र्म्मलः सच्चिदानन्दस्वरूपावस्थः पुरुषोत्तमः पर-
मात्मेत्युच्यते । यथा, गीतायां १५ । १६-१७ ।
“द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्व्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य विभर्त्त्यव्यय ईश्वरः” ॥)
एकेनैव स्वभावेन निरवधिकालस्य व्यापको य आ-
काशादिः । इति भरतः ॥ (कूटे भयावहे तिष्ठति
यः । स्था + कः ।) व्यालनखः । इति राजनिर्घण्टः ॥
(व्याघ्रनख इति भाषा ॥)

कूटस्थं, क्ली, (कूटस्थ इव प्रकाशते यत् । अर्शआदे-

रच् ।) व्याघ्रनखाख्यगन्धद्रव्यम् । इति जटाधरः ॥

कूटसाक्षी, [न्] त्रि, (कूटः मायावी मिथ्यावादी

कपटीत्यर्थः साक्षी ।) मिथ्यासाक्षी इति व्यव-
हारतत्त्वम् ॥ (याज्ञवल्क्ये कूटसाक्षिलक्षणम् ।
यथा, --
“द्विगुणा वान्यथा ब्रूयुः कूटाः स्युः पूर्ब्बसाक्षिणः” ॥
ते तु गुरुदण्डार्हाः । अकृतप्रायश्चित्ताः रौरवाख्य-
नरकं व्रजेयुः ॥ यो हि जानन्नपि साक्ष्यं न ददाति
स कूटसाक्षितुल्यः । तथा च तत्रैव ।
“न ददाति तु यः साक्ष्यं जानन्नपि नराधमः ।
स कूटसाक्षिणां पापैस्तुल्यो दण्डेन चैव हि” ॥)

कूटागारं, क्ली, (कूटं आगारं गृहम् ।) वडभी ।

तत्पर्य्यायः । चन्द्रशालिका २ । इति त्रिकाण्ड-
शेषः ॥ स्त्रीणां क्रीडागारम् । इत्यादिकाण्ड-
टीका ॥

कूटार्थभाषिता, स्त्री, (कूटार्थस्य दुर्भेद्यार्थस्य कल्पि-

तार्थस्य वा या भाषिता ।) प्रबन्धकल्पनाकथा ।
इति शब्दरत्नावली ॥ रूपकथा इति भाषा ॥

कूड, शि घान्ये । भक्षे । इति कविकल्पद्रुमः । (तुदां-

पर-अकं-सकञ्च-सेट् ।) षष्ठस्वरी । फलाभावे
ऽप्यस्य कूटादौ पाठः प्राचामनुरोधात् । प्राञ्चोऽपि
डान्तप्रस्तावादिमं कूटादौ पठितवन्तः । शि,
कूडती कूडन्ती । घान्यं घनीभावः । कूडति
दुग्धं वह्नियोगात् । कूडत्यन्नं लोकः । इति
दुर्गादासः ॥

कूड्यं, क्ली, (कूडति घनीभवति मृदादिना । कूड् +

ण्यत् ।) भित्तिः । इति शब्दरत्नावली ॥ देयाल
इति भाषा ॥

कूण, त् क सङ्कोचे । इति कविकल्पद्रुमः ॥ (अद-

न्तचुरां-परं-अकं-सेट् ।) दीर्घी मूर्द्धन्योपधः
अचुकूणच्चक्षुः सङ्कुचितमभूदित्यर्थः । इति दुर्गा-
दासः ॥

कूण, क ङ सङ्कुचि । इति कविकल्यद्रुमः ॥ (चुरां-

आत्मं-अकं-सेट् ।) षष्ठस्वरी । क ङ, कूणयते चक्षुः
सङ्कुचितं स्यादित्यर्थः । पञ्चमस्वरीत्येके । इति
दुर्गादासः ॥

कूणिः, त्रि, (कूणति कुञ्चितो भवति रोगादिभिरिति

शेषः । कूण सङ्कोचे “सर्व्वधातुभ्य इन्” । उणां
४ । ११७ । इति इन् ।) कूणिः । रोगादिना
पृष्ठ २/१७०
कुञ्चितकरः । इत्यमरटीकायां भरतः ॥

कूणिका, स्त्री, (कूण् + ण्वुल् टाप् अत इत्वञ्च ।)

शृङ्गम् । वीणामूलस्थवशशलाका । तत्पर्य्यायः ।
कलिका २ । इति हेमचन्द्रः ॥

कूदरः, पुं, (कुत्सितं उदरं यस्य । ऋतुदोषतः पापो-

दरजातत्वात् तथात्वम् ।) जातिविशेषः । यथा, --
ब्रह्मवैवर्त्तपुराणे ।
“ब्राह्मण्यामृषिवीर्य्येण ऋतोः प्रथमवासरे ।
कुत्सिते चोदरे जातः कूदरस्तेन कीर्त्तितः ॥
तदशौचं विप्रतुल्यं पतितो ह्यृतुदोषतः ।
सद्यः कोटकसंसर्गादधमो जगतीतले” ॥

कूद्दालः, पुं, (कुद्दाल + पृषोदरात् दीर्घत्वे साधुः ।)

कुद्दालवृक्षः । इत्यमरटीकायां रमानाथः ॥

कूप, त् क दौर्ब्बल्ये । (अदन्तचुरां--परं--अकं--सेट् ।)

अयं षष्ठस्वरी । इति त्रिलोचनः ॥ सप्तमखरी ।
इति कविकल्पद्रुमटीकायां दुर्गादासः ॥

कूपः, पुं, (कु ईषत् आपी यत्र । “ऋक्पूरित्यः” ।

५ । ४ । ७४ । ऊदनोरित्यत्र दीर्घनिर्द्देशादन्यत्रा-
प्यूदिति वा । यद्वा कुतन्ति मण्डूकाः अत्र । “कुपु
भ्याञ्च” । उणां ३ । २७ इति पो दीर्घश्च ।) स्वना-
मख्यातो जलाधारः ॥ कूया इति पात्कूया इति
च भाषा । तत्पर्य्यायः । अन्धुः २ प्रहिः ३ उद-
पानम् ४ । इत्यमरः । १ । १० । २६ ॥ अवटः ५
कोट्टारः ६ । इति जटाधरः ॥ कात्तः ७ कर्त्तः ८
वज्रः ९ काटः १० खातः ११ अवतः १२ क्रिविः
१३ सूदः १४ उत्सः १५ ऋष्यदात् १६ कारोत-
रात् १७ कुशेषः १८ केवटः १९ । इति वेद-
निघण्टौ ३ अध्याये त्रयोदशकूपनामानि ॥
तस्य लक्षणं यथा, --
“भूमौ खातोऽल्पविस्तारो गम्भीरो मण्डलाकृतिः ।
बद्धोऽबद्धः स कूपः स्यात्तदम्भः कौपमुच्यते” ॥
इति भावप्रकाशः ॥ तज्जलगुणाः । वातकफ-
नाशित्वम् । अग्निदीपनत्वम् । लघुत्वम् । पित्त-
वर्द्धनत्वम् । क्षारत्वम् । शीतकाले उष्णत्वम् ।
उष्णकाले शीतत्वम् । वसन्तकाले प्रशस्तत्वञ्च ।
इति राजवल्लभः ॥
(“रूक्षं कफघ्नं लवणात्मकञ्च
सन्दीपनं पित्तकरं लघूष्णम् ।
कूपोदकं वातहरं प्रदिष्टं
हितं न शस्तं शरदो वदन्ति” ॥
इति हारीते प्रथमस्थाने ७ अध्याये ॥
कूपादिकरणफलादिकं जलाशयतत्त्वधृतादित्य-
पुराणवचनम् । यथा, --
“सेतुबन्धरता ये च तीर्थशौचरताश्च ये ।
तडागकूपकर्त्तारो मुच्यन्ते ते तृषाभयात्” ॥
विष्णौ च । “अथ कूपकर्त्तुस्तत्प्रवृत्ते पानीये
दुष्कृतार्द्धं विनश्यति” । तत्प्रवृत्ते कृतकूपा-
दुत्थिते । विष्णुधर्म्मोत्तरे च ।
“तडागकूपकर्त्तारस्तथा कन्याप्रदायिनः ।
छत्रोपानहदातारस्ते नराः स्वर्गगामिनः” ॥
तथा, नन्दिकेश्वरपुराणे ।
“यो वापीमथवा कूपं देशे तोयविवर्ज्जिते ।
खानयेत् स दिवं याति विन्दौ विन्दौ शतं समाः” ॥
तत्संस्कारकर्त्तुरपि फलमुच्यते विष्णौ । यथा, --
“कूपारामतडागेषु देवतायतनेषु च ।
पुनः संस्कारकर्त्ता च लभते मौलिकं फलम्” ॥
परं जलशून्यदेशखनने एव प्रतिष्ठा न तु पङ्को-
द्धारमात्रे । “अजले जलमुत्पाद्य” इति वचनात् ॥)
गर्त्तः । गुणवृक्षः । नदीमध्यस्थितो वृक्षः पर्व्वतो
वा । इत्युणादिकोषः । कूपकः । कूपा इति भाषा ।
मृन्मानम् । इति मेदिनी ॥

कूपकः, पुं, (कूपे गर्त्ते कायते प्रकाशते इति । कै +

कः ।) नौकागुणबन्धनस्तम्भः । इत्यमरः । १ । १० ।
१२ । मास्तुल इति भाषा । तैलपात्रम् । कूपा इति
भाषा । कुकुन्दरम् । उदपानम् । चिता । इति
मेदिनी ॥ (शुष्कनद्यादौ जलार्थं कृतो गर्त्तः ।
इत्यमरः । १ । १० । १० ॥)

कूपाङ्गः, पुं, (कूपाकारं अङ्ग अस्मिन् ।) रोमाञ्चः ।

इति शब्दरत्नावली ॥ कूपाङ्कोऽपि पाठः ॥

कूपारः, पुं, (कुं पृथिवीं पिपर्त्ति पूरयति । पॄ +

अण् पृषोदरात् उकारस्य दीर्घः ।) अकूपारः ।
इत्यमरटीका ॥ कूवारोऽपि पाठः ॥

कूपिका, स्त्री, (कूप + संज्ञायां कन् ततष्टाप् अत-

इत्वञ्च ।) अम्भोगतोपलम् । जलमध्यस्थितपर्व्व-
तादिः । इति मेदिनी ॥

कूपी, स्त्री, (कूप् + इन् ततो ङीप् ।) पात्रविशेषः ।

यथा, अजीर्णचिकित्सायां भावप्रकाशः ॥
“भावयेत् सप्तकृत्वस्तच्चणकाम्लजलेन च ।
ततः संशोष्य संपिष्य कूपीमध्ये निधापयेत्” ॥

कूमं, क्ली, (कोः पृथिव्याः भूमेर्वा उमा कान्तिर्य-

स्मात् ।) सरोवरः । इति जटाधरः ॥

कूरः, पुं, (वेञ स्यूतौ + भावे क्विप् ऊः । कौ भूमौ

उवं वयनं लाति गृह्णातीति । ला + कः । लस्य
रः ।) भक्तम् । इति हलायुधः ॥

कूर्च्चं, क्ली, (कुर्य्यते इति कुर् बाहुलकात् चट् निपा-

तनात् दीर्घः ।) मलापकर्षार्थकेशादिमुष्टिः । कुँचि
इति भाषा । यथा, -- नरसिंहपुराणे ।
“ततः समर्पयेत् कूर्च्चमुशीरादिविनिर्म्मितम् ।
मलापकर्षणाद्यर्थं श्रीमन्मूर्त्त्यङ्गसन्धितः” ॥
विष्णुधर्म्मोत्तरे च ।
“उशीरकूर्च्चकं दत्त्वा सर्व्वपापैः प्रमुच्यते ।
दत्त्वा गोदालजं कूर्च्चं सर्व्वांस्तापान् व्यपोहति ।
दत्त्वा चामरकं कूर्च्चं श्रियमाप्नोत्यनुत्तमाम्” ॥
इति श्रीहरिभक्तिविलासस्य ६ विलासे ४८ श्लोकः ॥

कूर्च्चः, पुं क्ली, (कुर् + चट् निपातनात् दीर्घः ।)

भ्रुवोर्मध्यम् । भ्रूद्वयमध्यस्थानम् । इत्यमरः । २ ।
६ । ९२ ॥ मयूरपुच्छमुष्टिः । कुशमुष्टिः । इति
हरिवंशे पुण्यकव्रतटीकायां नीलकण्ठः ॥ कठि-
नम् । श्मश्रु । कैतवम् । इति मेदिनी ॥ विकत्थ-
नम् । दम्भः । क्षिप्रोपरिभागः । स तु अङ्गुष्ठाङ्गु-
लिमध्यस्य उपरिभागः । इति हेमचन्द्रः ॥ हूं
वीजम् । इति तन्त्रम् ॥ (यथा, कर्पूरस्तवे “वर्गाद्यं
वह्निसंस्थं विधुरतिवलितं तत्त्रयं कूर्च्चयुग्मम्” ॥
तथा, भैरवतन्त्रे ।
“कालीवीजद्वयं देवि ! दीर्घं हूंकारमेव च ।
त्र्यक्षरी सा महाविद्या चामुण्डा कालिका स्मृता” ॥)

कूर्च्चः, पुं, (कुर् + बाहुलकात् चट् निपातनात् दीर्घः ।)

शीर्षम् । इति धरणी ॥

कूर्च्चशिरः, [स्] क्ली, (कूर्च्चस्य शिरः इव शिरो-

ऽस्य ।) अङ्घ्रिस्कन्धः । इति हेमचन्द्रः । गुड्मुडा
इति भाषा ॥ (“गुल्फसन्धेरध उभयतः कूर्च्चशिरो
नाम तत्र रुजा शोफौ” ॥ “द्वेद्वे कूर्च्चशिरांसि च” ॥
इति सुश्रुते शारीरस्थाने ६ अध्याये ॥)

कूर्च्चशीर्षः, पुं, (कूर्च्चं श्मश्रु तद्वत् शीर्षं यस्य ।)

जीवकवृक्षः । स तु अष्टवर्गमध्यपठितौषधिः ।
इत्यमरः । २ । ४ । १४२ ॥ (जीवकशब्दे ऽस्य विव-
रणं व्याख्येयम् ॥)

कूर्च्चशीर्षकः, पुं, (कूर्च्चं श्मश्रु तद्वत् शीर्षं यस्य । कप् ।)

जीवकः । इति राजनिर्घण्टः । (नारिकेलवृक्षः ।
इति चिन्तामणिः ॥)

कूर्च्चशेखरः, पुं, (कूर्च्चमिव शेखरमस्य ।) नारिकेल-

वृक्षः । इति राजनिर्घण्टः ॥

कूर्च्चिका, स्त्री, (कूर्च्चाकारोऽस्त्यस्याः । कूर्च्च + ठन् ।)

क्षीरविकृतिः । क्षीरसा इति भाषा । इत्यमरः ।
२ । ९ । ४४ ॥ सा द्विधा यथा, --
“दध्रा सह च यत् पक्वं क्षीरं सा दधिकूर्च्चिका ।
तक्रेण पक्वं यत् क्षीरं सा भवेत्तक्रकूर्च्चिका” ॥
इति भरतः ॥
(“कूर्च्चिका विकृता भक्ष्या गुरवो नातिपित्तलाः” ॥
इति सुश्रते सूत्रस्थाने ४६ अध्याये ॥)
सूचिका । सूँच इति भाषा । तूलिका । तुली इति
भाषा । कुद्मलः । कुँडि इति भाषा । कुञ्चिका ।
कुँजि इति भाषा । इति हेमचन्द्रो मेदिनी च ॥

कूर्द्द ङ क्रीडायाम् । इति कविकल्पद्रुमः । (भ्वां-

आत्मं--अकं--सेट् ।) षष्ठस्वरी । ङ, कूर्द्दते । इति
दुर्गादासः ॥

कूर्द्दनं, क्ली, (कूर्द्द + भावे ल्युट् ।) क्रीडा । खेला ।

इत्यमरः । १ । ७ । ३३ ॥

कूर्द्दनी, स्त्री, (कूर्द्द्यतेऽस्याम् । कूर्द्द + अधिकरणे

ल्युट् ततो ङीप् ।) चैत्रीपूर्णिमा । सा तु काम-
देवोत्सवतिथिः । इति त्रिकाण्डशेषः ॥

कूर्पं, क्ली, (कुरं पाति । पा + कः ।) भ्रूद्वयमध्यस्थ-

लम् । इति हेमचन्द्रः ॥

कूर्पासः, पुं, (कुर्परे शरीरे अस्यते आस्ते वा । अस्

+ वञ् । पृषोदरात् रलोपः पूर्ब्बदीर्घश्च ।) क-
ञ्चुकः । धारवाणः । इति हेमचन्द्रः ॥ (स्वार्थे कन्
प्रत्ययेनास्योदाहरणं यथा, माघे । ५ । २३ ।
“प्रस्वेदवारिसविशेषविषक्तमङ्गे
कूर्पासकं क्षतनखक्षतमुत्क्षिपन्ती” ॥)

कूर्म्मः, पुं, (कुत्सितः ईषद् वा ऊर्म्मिः वेगो यस्य ।

के जले ऊर्म्मिर्यस्येति वा पृषोदरात् साधुः ।)
जलजन्तुविशेषः । काछिम् इति भाषा । (यथा,
भगवद्गीतायाम् । २ । ५८ ।
“यदा संहरते चायं कूर्म्मोऽङ्गानीव सर्व्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता” ॥)
तत्पर्य्यायः । कच्छपः २ पञ्चनखः ३ गुह्यः ४ पञ्च-
पृष्ठ २/१७१
गुप्तः ५ पीबरः ६ कमठः ७ जलगुल्मः ८ । इति
जटाधरः ॥ अस्य मांसादिगुणपर्य्यायान्तरौ
कच्छपशब्दे द्रष्टव्यौ ॥ * ॥ (तल्लक्षणं यथा, --
वृहत्संहितायाम् ६४ अध्याये ।
“स्फटिकरजतवर्णो नीलराजीव चित्रः
कलशसदृशमूर्त्तिश्चारुवंशश्च कूर्म्मः ।
अरुणसमवपुर्व्वा सर्षपाकारचित्रः
सकलनृपमहत्त्वं मन्दिरस्थः करोति ॥
अञ्जनमृङ्गश्यामवपुर्वा विन्दुविचित्रोऽव्यङ्गशरीरः ।
सर्पशिरा वा स्थूलगलोयः सोपि नृपाणां राष्ट्रविवृद्ध्यै ॥
वैदूर्य्यत्विट् स्थूलकण्ठस्त्रिकोणो
गूढश्छिद्रश्चारुवंशश्च शस्तः ।
क्रीडावाप्यां तोयपूर्णे मणौ वा
कार्य्यः कूर्म्मो मङ्गलार्थं नरेन्द्रैः” ॥
परमेश्वरः । यथाह ऋग्वेदभाष्योपक्रमणिकायां
दयानन्दः ।
“परमेश्वरेणेदं सकलं जगक्त्रियते तस्मात् तस्य
कूर्म्म इति संज्ञा” ॥ प्रजापतेरवतारविशेषः ।
यथा, शतपथब्राह्मणे । ७ । ५ । १ । ५ ।
“स यत् कूर्म्मो नाम एतद्वा रूपं कृत्वा प्रजा-
पतिः प्रजा असृजत यदसृजताकरोत्तद् यदकरोत्
तस्मात् कूर्म्मः कश्यपो वै कूर्म्मस्तस्मादाहुः सर्व्वाः
प्रजाः काश्यप्य इति । स यः स कूर्म्मोऽस्य स
आदित्यः” ॥ इति ॥ * ॥)
वाह्यवायुविशेषः । यथा, --
“उन्मीलने स्मृतः कूर्म्मो भिन्नाञ्जनसमप्रभः” ॥
इति शारदातिलकटीका ॥ * ॥ मुद्राविशेषः ।
यथा, --
“वामहस्तस्य तर्जन्यां दक्षिणस्य कनिष्ठया ।
तथा दक्षिणतर्जन्यां वामाङ्गुष्ठेन योजयेत् ॥
उन्नतं दक्षिणाङ्गुष्ठं वामस्य मध्यमादिकाः ।
अङ्गुलीर्योजयेत् पृष्ठे दक्षिणस्य करस्य च ॥
वामस्य पितृतीर्थेन मध्यमानामिके तथा ।
अधोमुखे च ते कुर्य्याद्दक्षिणस्य करस्य च ॥
कूर्म्मपृष्ठसमं कुर्य्याद्दक्षपाणिञ्च सर्व्वतः ।
कूर्म्ममुद्रेयमाख्याता देवताध्यानकर्म्मणि” ॥
इति तन्त्रसारः ॥ * ॥ (आसनविशेषः । यथा
हठयोगदीपिकायाम् । १ । २२ ।
“गुदं निरुध्य गुल्फाभ्यां व्युत्क्रमेण समाहितः ।
कूर्म्मासनं भवेदेतदिति योगविदो विदुः” ॥)
सत्ययुगे समुद्रमन्थनकाले मन्दरपर्व्वतधारणार्थं
कच्छपरूपभगवदवतारविशेषः । यथा, --
“क्षीरोदमध्ये भगवान् कूर्म्मरूपी स्वयं हरिः” ॥
इति पद्मपुराणम् ॥ अपि च ।
“विलोक्य विघ्नेशविधिं तदेश्वरो
दुरन्तवीर्य्योऽवितथोऽभिसन्धिः ।
कृत्वा वपुः काच्छपमद्भुतं महत्
प्रविश्य तोयं गिरिमुज्जहार” ॥
इति श्रीभागवतम् ॥ * ॥ (“काश्यपपत्न्याः कद्रोः
पुत्त्रेषु एकः । स च नागविशेषः । यथा, महा-
भारते । १ । ६५ । ४१ ।
“शेषोऽनन्तो वासुकिश्च तक्षकश्च भुजङ्गमः ।
कूर्म्मश्च कुलिकश्चैव काद्रवेयाः प्रकीर्त्तिताः” ॥)

कूर्म्मचक्रं, क्ली (कूर्म्माकारं चक्रम् । मध्यपदलोपी

कर्म्मधारयः ।) कृषिकर्म्मोक्तकच्छपाकारचक्रम् ।
तस्याकारो यथा, --
“प्राङ्मुखो भगवान् देवः कूर्म्मरूपी व्यवस्थितः ।
आक्रम्य भारतं वर्षं नवभेदं यथाक्रमम्” ॥
तत्र नक्षत्रन्यासक्रमः ।
“मध्यप्रागग्नियाम्यादिकृत्तिकादित्रयत्रयैः ।
क्रूरवेधयुतैस्तैस्तु पीड्यन्ते तन्निवासिनः” ॥
तत्र वेधो यथा, --
“पूर्ब्बापरे भवेद्वेधो वेधश्चोत्तरदक्षिणे ।
ईशाने राक्षसे वेधो वेध आग्नेयमारुते ।
तारात्रयान्वितं तत्र सौरिं यत्नेन चिन्तयेत्” ॥
तत्र वेधादिजन्यदोषाः ।
“अतिवृष्टिरनावृष्टिः शलभा मूषिकाः खगाः ।
स्वचक्रं परचक्रञ्च सप्तैते सम्भवन्ति च ॥
एवं देशगृहग्रामक्षेत्रनामर्क्षतो वदेत् ।
तथा च यत्र नक्षत्रे दिव्यपार्थिवनाभसाः ॥
दृश्यन्ते सुमहोत्पाताः स्वां दिशं तत्र पीडयेत् ।
सौरिर्बलाधिपो दुष्टः स्वल्पवीर्य्यः शुभावहः ॥
एकदा पीडयेद्यत्र भानुजः कूर्म्मपञ्चके ।
तत्र स्थाने महाविघ्नो जायते नात्र संशयः ॥
दुष्टस्थाने गते चन्द्रे कर्त्तव्यं शान्तिपौष्टिकम्” ॥
तच्चक्रमध्यस्था देशाः ।
“मध्ये सारस्वता मत्स्याः शूरसेनाः समाथुराः ।
पञ्चालशाल्वमाण्डव्यकुरुक्षेत्रगजाह्वयाः ॥
मरुनैमिषविन्ध्याद्रिपाण्ड्यघोषाः सयामुनाः ।
काश्ययोध्या प्रयागश्च गया वैदेहकादयः” ॥
तत्र पूर्ब्बस्थदेशाः ।
“प्राच्यां मागधशोणौ च वारेन्द्रोगौडरा ढकाः ।
वर्द्धमानतमोलिप्तप्राग् ज्योतिषोदयाद्रयः” ॥
तत्राग्निकोणस्थदेशाः ।
“आग्नेय्यामङ्गवङ्गोपवङ्गत्रैपुरकोशलाः ।
कलिङ्गौड्रान्ध्रकिष्किन्ध्याविदर्भशवरादयः” ॥
तत्र दक्षिणस्थदेशाः ।
“दक्षिणेऽवन्तिमाहेन्द्रमलया ऋष्यमूककाः ।
चित्रकूटमहारण्यकाञ्चीसिंहलकोङ्कणाः ।
कावेरी ताम्रपर्णी च लङ्कात्रिकूटकादयः” ॥
तत्र नैरृतकोणस्थदेशाः ।
“नैरृते द्रविडानर्त्तमहाराष्ट्राश्च रैवतः ।
यवनः पह्नवः सिन्धुः पारसीकादयो मताः” ॥
तत्र पश्चिमस्थदेशाः ।
“पश्चिमे हैहयाऽस्ताद्रिम्लेच्छवासशकादयः” ॥
तत्र वार्युकोणस्थदेशाः ।
“वायव्ये गुज्जराटश्च नाटजालन्धरादयः” ॥
तत्र उत्तरस्थदेशाः ।
“उत्तरे चीननेपालहूनकैकेयमन्दराः ।
गान्धारहिमवत्क्रौञ्चगन्धमादनमालवाः ।
कैलासमद्रकाश्मीरम्लेच्छदेशाः खसादयः” ॥
तत्रेशानकोणस्थदेशाः ।
“ऐशाने स्वर्णभौमश्च गङ्गाद्वारस्तु टङ्कणः ।
वाह्लीकब्रह्मपुरककीराता दरदादयः” ॥
इति ज्योतिस्तत्त्वम् ॥ * ॥ जपयज्ञकर्म्मोक्तकमठा-
कारचक्रम् । तस्य लिखनक्रमः ।
“चतुरस्रां भुवं भित्त्वा कोष्ठानां नवकं लिखेत् ।
पूर्ब्बकोष्ठादि विलिखेत् सप्तवर्गाननुक्रमात् ॥
लक्षमीशे मध्यकोष्ठे स्वरान् युग्मक्रमाल्लिखेत् ।
दिक्षु पूर्ब्बादितो यत्र क्षेत्राद्यक्षरसंस्थितिः ॥
मुखं तत्तस्य जानीयात् हस्तावुभयतः स्थितौ ॥
कोष्ठे कुक्षी उभे पादौ द्वे शिष्टं पुच्छमीरितम् ॥
क्रमेणानेन विभजेन्मध्यस्थमपि भागतः” ॥ * ॥
तस्याङ्गविशेषे स्थितस्य जपादौ गुणदोषाः यथा ।
“मुखस्थो लभते सिद्धिं करस्थः स्वल्पजीवनः ।
उदासीनः कुक्षिसंस्थः पादस्थो दुःखमाप्नुयात् ॥
पुच्छस्थः पीड्यते मन्त्री बन्धनोच्चाटनादिभिः ।
कूर्म्मचक्रमिदं प्रोक्तं मन्त्रिणां सिद्धिदायकम्” ॥ * ॥
तदज्ञाने दोषो यथा, पिङ्गलायाम् ।
“कूर्म्मचक्रमविज्ञाय यः कुर्य्यात् जपयज्ञकम् ।
तस्य यज्ञफलं नास्ति सर्व्वानर्थाय कल्पते” ॥
इति तन्त्रसारः ॥ (तन्त्रोक्तग्रहणीयमन्त्रशुभादि-
सूचककूर्म्माकारचक्रविशेषः । तत्स्वरूपादि रुद्र-
यामले उक्तम् । यथा ।
“कूर्म्मचक्रं प्रवक्ष्यामि शुभाशुभफलात्मकम् ।
यज्ज्ञात्वा सर्व्वशास्त्रार्थं जानाति पण्डितोत्तमः ॥
अभेद्यं भेदकं चक्रं शृणुष्वादरपूर्ब्बकम् ।
कूर्म्माकारं महाचक्रं चतुष्पादसमावृतम् ॥
तुण्डे स्वरान्, दक्षपादे कवर्गं, वामपादके ।
चवर्गं, कीर्त्तितं पश्चात् अधःपादे टवर्गकम् ॥
तदधस्तु तवर्गः स्यादुदरे च पवर्गकम् ।
यवान्तं हृदये प्रोक्तं शहान्तं पृष्ठमध्यके ॥
लाङ्गूले शक्रवीजञ्च क्षकारं लिङ्गमध्यके ।
लिखित्वा गणयेन्मन्त्री चक्राकारं मलापहम् ॥
स्वरे लाभः कवर्गे श्रीश्चवर्गश्च विवेकदः ।
टवर्गे राजपदवी तवर्गे धनवान् भवेत् ॥
उदरे सर्व्वनाशः स्यात् हृदये बहुदुःखभाक् ।
पृष्ठे च सर्व्वसन्तापः लाङ्गूले मरणं ध्रुवम् ॥
वैष्णवे पृष्ठेदेशे तु दुःखञ्च वामपादके ।
विरुद्धद्वयलाभे तु न कुर्य्याच्चक्रचिन्तनम् ॥
विरुद्धैके धर्म्मनाशो युग्मदोषे च मारणम् ।
यत्र देवाक्षरञ्चास्ति तत्र चेन्निजवर्णकम् ॥
विरुद्धञ्च त्यजेच्चक्रमन्यमन्त्रं विचारयेत् ।
पृथक् होमे यदि भवेत् वर्णमाला महेश्वर ! ॥
यदि तत्सौख्यभावः स्यात् तत्सौख्यं नापि वर्ज्जयेत् ॥
विभिन्नगेहे दोषश्चेत् शुभमन्त्रञ्च संत्यजेत् ॥
इति ते कथितं देव ! दृष्टादृष्टफलप्रदम् ।
ये शोधयन्ति चक्रेन्द्रं मन्त्रसिद्धिप्रदं शुभम्” ॥ * ॥
कूर्म्मरूपी विष्णुः केन रूपेण विराजते तत्संस्थान-
विवरणं मार्कण्डेयपुराणे ५८ अध्याये उक्तम् ॥
तद्-यथा । क्रोष्टुकिरुवाच ।
“भगवन् ! कथितं सम्यक् भवता भारतं मम ।
सरितः पर्व्वता देशा ये च तत्रं वसन्ति व ॥
किन्तु कूर्म्मस्त्वया पूर्ब्बं भारते भगवान् हरिः ।
कथितस्तस्य संस्यानं श्रोतुमिच्छाम्यशेषतः ॥
कथं स संस्थितो देवः कूर्म्मरूपी जनार्द्दनः ॥
पृष्ठ २/१७२
शुभाशुभ मनुष्याणां व्यज्यते च ततः कथम् ।
यथामुखं यथापादस्तस्य तद्ब्रूह्यशेषतः ॥
मार्कण्डेय उवाच ।
प्राङ्मुखो भगवान् ! देवः कूर्म्मरूपी व्यवस्थितः ।
आक्रम्य भारतं वर्षं नवभेदमिदं द्विज ! ॥
नवधा संस्थितान्यस्य नक्षत्राणि समन्ततः ।
विषयाश्च द्विजश्रेष्ठ ! ये सम्यक् तान्निबोध मे ॥
वेदमन्त्रा विमाण्डव्याः शाल्वनीपास्तथा शकाः ।
उज्जिहानास्तथा वत्स ! घोषसङ्ख्यास्तथा खशाः ॥
मध्ये सारस्वता मत्स्याः शूरसेनाः समाथुराः ।
धर्म्मारण्या ज्योतिषिका गौरग्रीवा गुडाश्मकाः ॥
विदेहकाः सपाञ्चालाः सङ्केताः कङ्कमारुताः ।
कालकोटिसपाषण्डाः पारिपात्रनिवासिनः ॥
कापिङ्गलाः कुरुर्वाह्यस्तथैवोडुम्बरा जनाः ।
गजाह्वयाश्च कूर्म्मस्य जलमध्यनिवासिनः ॥
कृत्तिका रोहिणी सौम्या एतेषां मध्यवासिनाम् ।
नक्षत्रत्रितयं विप्र ! शुभाशुभविपाटकम् ॥
वृषध्वजोऽञ्जनश्चैव जम्ब्वाख्यो मानवाचलः ।
सूर्पकर्णो व्याघ्रमुखः खर्मकः कर्व्वटाशनः ॥
तथा चन्द्रेश्वराश्चैव खशाश्च मगधास्तथा ।
गिरयो मैथिलाः शुभ्रास्तथा वदनदन्तुराः ॥
प्राग्ज्योतिषाः सलौहित्याः सामुद्राः पुरुषादकाः ।
पूर्णोत्कटो भद्रगौरस्तथोदयगिरिर्द्विज ! ॥
कशाया मेखलामुष्टास्ताम्रलिप्तैकपादपाः ।
वर्द्धमानाः कोशलाश्च मुखे कूर्म्मस्य संस्थिताः ॥
रौद्रः पुनर्व्वसुः पुष्यो नक्षत्रत्रितयं मुखे ।
पादे तु दक्षिणे देशाः क्रोष्टुके वदतः शृणु ॥
कलिङ्गवङ्गजठराः कोशला मृषिकास्तथा ।
चेदयश्चोर्द्धकर्णाश्च मत्स्याद्या विन्ध्यवासिनः ॥
विदर्भा नारिकेलाश्च धर्म्मद्वीपास्तथैलिकाः ।
व्याघ्रग्रीवा महाग्रीवास्त्रैपुराः श्मश्रुधारिणः ॥
कैस्किन्धा हैमकूटाश्च निषधाः कटकस्थलाः ।
दशार्णाहारिका नग्ना निषादाः काकुलालकाः ॥
तथैव पर्णशवराः पादे वै पूर्ब्बदक्षिणे ।
अश्लेषर्क्षं तथा पैत्र्यं फालगुन्यः प्रथमास्तथा ॥
नक्षत्रत्रितयं पादमाश्रितं पूर्ब्बदक्षिणम् ।
लङ्का कालाजिनाश्चैव शैलिका निकटास्तथा ॥
महेन्द्रमलयाद्रौ च दर्द्रुरे च वसन्ति ये ।
कर्कोटकवने ये च भृगुकच्छाः सकोङ्कणाः ॥
सर्व्वाश्चैव तथाऽऽभीरा वैण्यास्तीरनिवासिनः ।
अवन्तयो दासपुरा स्तथैवाकणिनो जनाः ॥
महाराष्ट्राः सकर्णाटा गोनर्द्दाश्चित्रकूटकाः ।
चोलाःकोलगिराश्चैव क्रौञ्चद्वीपजढाधराः ॥
कावेरी ऋष्यमूकस्था नासिक्याश्चैव ये जनाः ।
शङ्खशुक्त्यादिवैदूर्य्यशैलप्रान्तचराश्च ये ।
तथा वारिचराः कोलाः चर्म्मपट्टनिवासिनः ।
गणवाह्याः पराः कृष्णाद्वीपवासनिवासिनः ॥
सूर्य्याद्रौ कुमुदाद्रौ च ते वसन्ति तथा जनाः ।
औखावनाः सपिशिका स्तथा ये कर्म्मनायकाः ॥
दक्षिणाः कौरुषा ये च ऋषिकास्तापसाश्रमाः ॥
ऋषभाः सिंहलाश्चैव तथा काञ्चीनिवासिनः ।
तिलङ्गा कुञ्जरदरी कच्छवासाश्च ये जनाः ।
ताम्रपर्णी तथा कुक्षिरिति कूर्म्मस्य दक्षिणः ।
फालगुन्यश्चोत्तरा हस्ता चित्रा चर्क्षत्रयं द्विज ! ।
कूर्म्मस्य दक्षिणे कुक्षौ वाह्यपादस्तथापरम् ॥
काम्बोजाः पह्लवाश्चैव तथैव वडवामुखाः ।
तथा च सिन्धुसौवीराः सानर्त्ता वनितामुखाः ॥
द्रावणाः सार्गिगाः शूद्राः कर्णप्राधेयवर्वराः ।
किराताः पारदाः पाण्ड्यास्तथा पारशवाः कलाः ॥
धूर्त्तका हैमगिरिकाः सिन्धुकालकवैरताः ।
सौराष्ट्रा दरदाश्चैव द्राविडाश्च महार्णवाः ॥
एते जनपदाः पादे स्थिता वै दक्षिणेऽपरे !
स्वात्यो विशाखा मैत्रञ्च नक्षत्रत्रयमेव च ॥
मणिमेघः क्षुराद्रिश्च खञ्जनोऽस्तगिरिस्तथा ।
अपरान्तिका हैहयाश्च शान्तिका विप्रशस्तकाः ॥
कोकङ्कणाः पञ्चदकाः वमना ह्यवरास्तथा ।
तारक्षुरा ह्यङ्गतकाः शर्कराः शाल्मवेश्मकाः ॥
गुरुस्वराः फल्गुनकाः वेणुमत्याञ्च ये जनाः ।
तथा फल्गुलुका घोरा गुरुहाश्च कलास्तथा ॥
एकेक्षणा वाजिकेशा दीर्घग्रीवाः सचूलिकाः ।
अश्वकेशास्तथा पुच्छे जनाः कूर्म्मस्य संस्थिताः ॥
ऐन्द्रमूलन्तथाषाढा नक्षत्रत्रयमेव च ।
माण्डव्याश्चण्डखाराश्च अश्वकालनतास्तथा ॥
कुन्यतालडहाश्चैव स्त्रीवाह्या बालिकास्तथा ।
नृसिंहा वेणुमत्याञ्च बलावस्थास्तथापरे ॥
धर्म्मबद्धास्तथालूका उरुकर्म्मस्थिता जनाः ।
वामपादे जनाः पार्श्वे स्थिताः कूर्म्मस्य भागुरे ॥
आषाढाश्रबणे चैव धनिष्ठा यत्र संस्थिता ।
कैलासो हिमवांश्चैव धनुष्मान् वसुमांस्तथा ॥
क्रौञ्चाः कुरुवकाश्चैव क्षुद्रवीणाश्च ये जनाः ।
रसालयाः सकैकेया भोगप्रस्थाः सयामुनाः ॥
अन्तर्द्वीपास्त्रिगर्त्ताश्च अग्नीज्याः सार्दना जनाः ।
तथैवाश्वमुखाः प्राप्ताश्चिविडाः केशधारिणः ॥
दासेरका वाटधानाः शवधानास्तथैव च ।
पुष्कलाधमकैराता स्तथा तक्षशिलाश्रयाः ॥
अम्बाला मालवा मद्रा वेणुकाः सवदन्तिकाः ।
पिङ्गला मानकलहा हूणाः कोहलकास्तथा ॥
माण्डव्या भूतियुवकाः शातका हेमतारकाः ।
यशोमत्याः सगान्धाराः स्वरसागरराशयः ॥
यौधेया दासमेयाश्च राजन्याः श्यामकास्तथा ।
क्षेमधूर्त्ताश्च कूर्म्मस्य वामकुक्षिमुपाश्रिताः ॥
वारुणञ्चात्र नक्षत्रं तत्र प्रौष्ठपदाद्वयम् ।
येन किन्नरराज्यञ्च पशुपालं सकीचकम् ॥
काश्मीरकं तथा राष्ट्रमभिसारजनस्तथा ।
दवदास्त्वङ्गनाश्चैव कुलटा वनराष्ट्रकाः ॥
सैरिष्टा ब्रह्मपुरकास्तथैव वनवाह्यकाः ।
किरातकौशकानन्दा जनाः पह्लवलोलनाः ॥
दार्वादा मरकाश्चैव कुरटाश्चान्नदारकाः ।
एकपादाः खशा घोषाः स्वर्गभौमानवद्यकाः ॥
तथा सयवना हिङ्गाश्चीरप्रावरणाश्च ये ।
त्रिनेत्राः पौरवाश्चैव गन्धर्व्वाश्च द्विजोत्तम ! ॥
पूर्ब्बोत्तरन्तु कूर्म्मस्य पादमेते समाश्रिताः ।
रेवत्याश्चाश्विदैवत्यं याम्यञ्चर्क्षमिति त्रयम् ॥
तत्र पादे समाख्यातं पाकाय मुनिसत्तम ! ।
देशेष्वेतेषु चैतानि नक्षत्राण्यपि वै द्विज ! ॥
एतत्पीडा अमी देशाः पीड्यन्ते ये क्रमोदिताः ।
यान्ति चाभ्युदयं विप्र ! ग्रहैः सम्यगवस्थितैः ।
यस्यर्क्षस्य पतिर्यो वै ग्रहस्तद्भावितो भयम् ॥
तद्देशस्य मुनिश्रेष्ठ ! तदुत्कर्षे शुभागमः ।
प्रत्येकं देशसामान्यं नक्षत्रग्रहसम्भवम् ॥
भयं लोकस्य भवति शोभनं वा द्विजोत्तम ! ।
स्वर्क्षैरशोभनैर्जन्तोः सामान्यमिति भीतिदम् ॥
ग्रहैर्भवति पीडोत्थमल्पायासमशोभनम् ।
तथैव शोभनः पाको दुःस्थितैश्च तथा ग्रहैः ॥
अल्पोपकाराय नृणां देशज्ञैश्चात्मनो बुधैः ।
द्रव्ये गोष्ठेऽथ भृत्येषु सुहृत्सु तनयेषु वा ॥
भार्य्यायाञ्च ग्रहे दुःस्थे भयं पुण्यवतां नृणाम् ॥
आत्मन्यथाल्पपुण्यानां सर्वत्रैवातिपापिनाम् ।
नैकत्रापि ह्यपापानां भयमस्ति कदाचन ॥
दिग्देशजनसामान्यं नृपसामान्यमात्मजम् ।
नक्षत्रग्रहसामान्यं नरो भुङ्क्ते शुभाशुभम् ॥
परस्पराभिरक्षा च ग्रहादौःस्थ्येन जायते ।
एतेभ्य एव विप्रेन्द्र ! शुभहानिस्तथाशुभैः ॥
यदेतत् कूर्मसंस्थानं नक्षत्रेषु मयोदितम् ।
एतत् तु देशसामान्यमशुभं शुभमेव च ।
तस्मात् विज्ञाय देशर्क्षं ग्रहपीडान्तथात्मनः ॥
कुर्व्वीत शान्तिं मेधावी लोकवादांश्च सत्तम ! ।
आकाशाद्देवतानाञ्च दैत्यादीनाञ्च दौर्हृदाः ॥
पृथ्व्यां पतन्ति ते लोके लोकवादा इति श्रुताः ।
तां तथैव बुधःकुर्य्यात् लोकवादान्न हापयेत् ॥
तेषान्तत्करणान्नॄणां युक्तो दुष्टागमक्षयः ॥
शुभोदयं प्रहाणिञ्च पापानां द्विजसत्तम ! ।
प्रज्ञाहानिं प्रकुर्य्युस्ते द्रव्यादीनाञ्च कुर्वते ॥
तस्माच्छान्तिपरः प्राज्ञो लोकवादरतस्तथा ।
लोकवादांश्च शान्तीश्च ग्रहपीडासु कारयेत् ॥
अद्रोहानुपवासांश्च शस्तं चैत्यादिवन्दनम् ।
जपं होमं तथा दानं स्नानं क्रोधादिवर्जनम् ॥
अद्रोहः सर्व्वभूतेषु मैत्रीं कुर्य्याच्च पण्डितः ।
वर्जयेदसतीं वाचमतिवादांस्तथैव च ॥
ग्रहपूजाञ्च कुर्व्वीत सर्व्वपीडासु मानवः ।
एवं शाम्यन्त्यशेषाणि घोराणि द्विजसत्तम ! ॥
प्रयतानां मनुष्याणां ग्रहर्क्षोत्थान्यशेषतः ।
एष कूर्मो मया ख्यातो भारते भगवान् विभुः ॥
नारायणो ह्यचिन्तात्मा यत्र सर्व्वं प्रतिष्ठितम् ।
तत्र देवाः स्थिताः सर्व्वे प्रतिनक्षत्रसंश्रयाः ॥
तथा मध्ये हुतवहः पृथ्वी सोमश्च वै द्विज ! ।
मेषादयस्त्रयो मध्ये मुखे द्वौ मिथुनादिकौ ॥
प्राग्दक्षिणे तथा पादे कर्किसिंहौ व्यवस्थितौ ।
सिंहकन्यातुलाश्चैव कुक्षौ राशित्रयं स्थितम् ।
तुलाथ वृश्चिकश्चोभौ पादे दक्षिणपश्चिमे ॥
पृष्ठे च वृश्चिकेनैव सह धन्वी व्यवस्थितः ।
वायव्ये चास्य वै पादे धनुर्ग्राहादिकं त्रयम् ॥
कुम्भमीनौ तथैवास्य उत्तरां कुक्षिमाश्रितौ ।
मीनमेषौ द्विजश्रेष्ठ ! पादे पूर्ब्बोत्तरे स्थितौ ॥
कूर्मे देशास्तथर्क्षाणि देशेष्वेतेषु वै द्विज ! ॥
राशयश्च तथर्क्षेषु ग्रहराशिष्ववस्थिताः ।
पृष्ठ २/१७३
तस्माद्ग्रहर्क्षपीडासु देशपीडां विनिर्दिशेत् ॥
तत्र स्नात्वा प्रकुर्वीत दानहोमादिकं विधिम् ।
स एष वैष्णवः पादो ब्रह्मा मध्ये ग्रहस्य यः” ॥ * ॥
विष्णुः । स एव कश्यपसंज्ञया परिकीर्त्त्यते तत्प्रमा-
णादिकं यथा, -- शतपथब्राह्मणे । ७ । ५ । १ । ५ ।
“स यत्कूर्म्मो नाम । प्रजापतिः प्रजा असृजत
यदसृजताकरोत् तद् यदकरोत् तस्मात् कूर्म्मः
कश्यपो वै कूर्म्मस्तस्मादाहुः सर्व्वाः प्रजाः का-
श्यप्य” इति ॥ अत्र स्वामिदयानन्दकृतभाष्यम् ।
स यत् कूर्म्म इति । “परमेश्वरेणेदं सकलं जगत्
क्रियते तस्मात्तस्य कूर्म्म इति संज्ञा । कश्यपो वै
कूर्म्म इत्यनेन परमेश्वरस्यैव कश्यपनामास्ति ।
तेनैव इमाः सर्व्वाः प्रजा उत्पादितास्तस्मात्
सर्व्वा इमाः प्रजाः काश्यप्य इत्युच्यन्ते । कश्यपः
कस्मात् पश्यको भवतीति निरुक्त्या पश्यतीति
पश्यः सर्व्वज्ञतया सकलं जगत् विजानाति स पश्यः
पश्य एव निर्भ्रमतयातिसूक्ष्ममपि वस्तु यथार्थं जा-
नात्येव अतः पश्यक इति । आद्यान्ताक्षरविपर्य्यया-
सिद्धेःसिंहः कृतेस्तर्कुरित्यादिवत् कश्यप इति हय-
वरट् इत्येतस्योपरि महाभाष्यप्रमाणेन पदं सिध्य-
ति अतः सुष्टु विज्ञायते काश्यप्यः प्रजा इति” ॥ * ॥)

कूर्म्मपृष्ठः, पुं, (कूर्म्मस्य पृष्ठमिव । कठोरत्वात् तथा-

त्वम् ।) अम्लानवृक्षः । इति शब्दचन्द्रिका ॥ कच्छ-
पस्य पृष्ठदेशः ॥ (यथा, महामारते ३ । ४६ । ११ ।
“गूढगुल्फशिरौ पादौ ताम्रायततलाङ्गुली ।
कूर्म्मपृष्ठोन्नतौ चापि शोभेते किङ्किणीकिणौ” ॥)

कूर्म्मपृष्ठकं, क्ली, (कूर्म्मपृष्ठमिव कायते प्रकाशते

इति । कै + कः ।) शरावम् । इति शब्दचन्द्रिका ।
शरा इति भाषा ॥

कूर्म्मराजः, पुं, (कूर्म्मरूपेण कूर्म्मेषु वा राजते यः ।

राज् + अच् ।) कच्छपराजः । तत्पर्य्यायः । अकू-
पारः २ परीवर्त्तः ३ । इति जटाधरः । तथाहि ।
“पृथ्वि ! स्थिरा भव भुजङ्गम ! धारयैनां
त्वं कूर्म्मराज ! तदिदं द्वितयं दधीथाः ।
दिक्कुञ्जराः कुरुत तत्त्रितये दिधीर्षा-
मार्य्यः करोतु हरकार्म्मुकमाततज्यम्” ॥
इति महानाटकम् ॥ स एवादिकच्छपः । यथा ।
“विलोक्य विघ्नेशविधिं तदेश्वरो
दुरन्तवीर्य्योऽवितथोऽभिसन्धिः ।
कृत्वा वपुः काच्छपमद्भुतं महत्
प्रविश्य तोयं गिरिमुज्जहार ॥
सुरासुरेन्द्रैर्मुजवीर्य्यवेपितं
परिम्रमन्तं गिरिमङ्ग ! पृष्ठतः ।
बिभ्रत्तदावर्त्तनमादिकच्छपो
मेनेऽङ्गकण्डूयनमप्रमेयः” ॥
इति श्रीभागवते । ८ । ७ । ८, १० ॥

कूल, आवृतौ । इति कविकल्पद्रुमः ॥ (भ्वां--परं--

सकं--सेट् ।) षष्ठस्वरी । कूलति वाटी प्राचीरम् ।
इति दुर्गादासः ॥

कूलं, क्ली, (कूलति जलप्रवाहं आवृणोतीति । कूल्

+ अच् ।) नद्या जलसमीपस्थानम् ।
(यथा, रघुः । १६ । ३५ ।
“इत्यध्वनः कैश्चिदहोभिरन्ते
कूलं समासाद्य कुशः सरय्वाः” ॥)
तत्पर्य्यायः । रोधः २ तीरम् ३ प्रतीरम् ४ तटम्
५ तटः ६ तटी ७ । इत्यमरः । १ । १० । ७ ॥
रोधम् ८ । इति शब्दरत्नावली ॥ वेला ९ । इति
जटाधरः ॥ (कूल्यते आब्रियतेऽसौ । कूल + घञर्थे
कः ।) स्तूपः । सैन्यपृष्ठम् । तडागः । इति विश्वः ॥

कूलकं, क्ली, पुं, (कूल + स्वार्थे संज्ञायां वा कन् ।)

स्तूपः । इति मेदिनी । तीरम् । इति विश्वः ॥

कूलकः, पुं, (कूल + संज्ञायां कन् ।) कृमिपर्ब्बतः ।

इति मेदिनी । उएर ढिपि इति भाषा ॥

कूलङ्कषः, पुं, (कूलं तीरं कषति भिनत्तीति । कष् +

खश् मुम् च ।) समुद्रः । इति त्रिकाण्डशेषः ॥

कूलङ्कषा, स्त्री, (कूलङ्कष + टाप् ।) नदी । इति

हलायुधः ॥ (यथा, शाकुन्तले ५ माङ्के ।
“व्यपदेशमाविलयितुं समीहसे माञ्च नाम पात-
यितुम् । कूलङ्कषेव सिन्धुः प्रसन्नमोघं तटतरुञ्च” ॥)

कूलभूः, स्त्री, (कूलस्य तीरस्य भूः भूमिः ।) तीर-

भूमिः । इति हेमचन्द्रः ॥

कूलवती, स्त्री, (कूलं तटः अस्त्यस्याः । अस्त्यर्थे

मतुप् मस्य वः । ततो ङीप् ।) नदी । इति राज-
निर्घण्टः ॥

कूलहण्डकः, पुं, (कूले तडागादौ हुण्डते संघीभव-

तीति । हुडि सघे + ण्वुल् इदित्वात् नुम् च ।
पृषोदरात् उकारलोपः ।) जलावर्त्तः । इति
त्रिकाण्डशेषः ॥

कूवरः, पुं, क्ली, (कू शब्दे + वरच् ।) युगन्धरः ।

यत्र रथस्य यूपकाष्ठमासज्यते तत्र । इत्यम-
रमेदिनीकरौ ॥ (यथा, रामायणे ३ । २८ । ३० ।
“हेमचन्द्रमसम्बाधं वैदूर्य्यमणिकूवरम्” ॥
रथमित्यर्थः ॥)

कूवरः, पुं, (कू + वरच् ।) कुब्जकः । कुँजा इति

भाषा । मनोज्ञे, त्रि । इति मेदिनी ॥

कूवरी, स्त्री, (कूवर + गौरादित्वात् ङीष् ।) कम्ब-

लाच्छादितरथः । इति हलायुधः ॥

कूष्माण्डः, पुं, (कु ईषत् ऊष्मा अण्डेषु वीजेषु यस्य ।)

कर्कारुः । गणदेवताविशेषः । इति हेमचन्द्रः ॥
(कूष्माण्डाकारत्वात् शिवगणोऽपि तन्नाम्नाऽऽख्या-
यते । यथा, भागवते २ । ६ । ४२ । “अन्ये च ये
प्रेतपिशाचभूतकूष्माण्डयादोमृगपक्ष्यधीशाः” ॥
ऋषिविशेषः । यथा, याज्ञवल्क्ये ।
“कुष्माण्डो राजपुत्त्रश्चेत्यन्ते स्वाहासमन्वितैः” ॥
यजुर्वेदिकमन्त्रविशेषः । यथा, मनुः ८ । १०६ ।
“कुष्माण्डैर्वापि जुहुयाद् घृतमग्नौ यथाविधि” ॥
“कुष्माण्डमन्त्रा यजुर्वेदिकाः यद्देवा देवहेलनमित्ये-
वमादयः । तैर्मन्त्रदेवतायै घृतमग्नौ जुहुयात्” ।
इति तट्टीकायां कुल्लूकभट्टः ॥)

कूष्माण्डकः, पुं, (कूष्माण्ड + स्वार्थे कन् ।) कूष्माण्डः ।

इत्यमरटीकायां स्वामी ॥

कूष्माण्डी, स्त्री, (कूष्माण्ड + गौरादित्वात् जातित्वात्

वा ङीष् ।) ओषधिः । अम्बिका । इति हेमचन्द्रः ॥
(अम्बिकायाश्च कूष्माण्डबलिप्रियत्वात् तथात्वम् ।
मन्त्रात्मकदेवतासु ऋक्षु तु स्त्रियां ङीप् । यथा,
याज्ञवल्क्ये ।
“त्रिरात्रोपोषितो भूत्वा कूष्माण्डीभिर्घृतं शुचिः ।
सुरापः स्वर्ण्णहारी च रुद्रजापी जले स्थितः” ॥
“त्रिरात्रसुपोषितः कूष्माण्डीभिर्यद्देवा देवहेडन-
मित्याद्याभिः कूष्माण्डदृष्टाभिरनुष्टुव्भिर्मन्त्रलिङ्ग-
देवताभिरृग्भिश्चत्वारिंशद्घृताहुतीर्हुत्वा शुचि-
र्भवेत्” ॥ तथा, मिताक्षरायाम् । “अथ कूष्माण्डी-
भिर्जुहुयाद्योऽपूतमिवात्मानं मन्येत यदर्व्वाची-
नमेनोम्रूणहत्यायास्तस्मान्मुच्यते अयोनौ वा रेतः
सिक्त्वा अन्यत्र स्वप्नादिति” । वशिष्ठस्मृतौ च ।
“सर्व्ववेदपवित्राणि वक्ष्यामहमतः परम् ।
येषां जपैश्च होमैश्च पूयन्ते नात्रसंशयः ॥
अघमर्षणं देवकृतः शुद्धवत्यस्तरत् समाः ।
कूष्माण्ड्यः पावमान्यश्च दुर्गासावित्र्यथैव च” ॥)

कूहना, स्त्री, (कुह + युच् । पृषोदरात् पूर्ब्बदीर्घः ।)

कुहना । इति शब्दरत्न्यवली ॥

कूहा, स्त्री, (कु कुत्सितं ईषद्वा ऊह्यतेऽत्र । ऊह

वितर्के + अधिकरणे घञर्थे कः । यद्वा कुहयति
मोहयति लोकान् । कुह + कः पृषोदरादित्वाद्
दीर्घः ।) कुज्झटिका । इति शब्दरत्नावली ।
कुया इति भाषः ॥

कृ, ञ कृतौ । इति कविकल्पद्रुमः ॥ (भ्वां-उभं-सकं-

अनिट् ।) ञ, करति करते । अयं कैश्चित् न
मन्यते । इति दुर्गादासः ॥

कृ, ञ न वधे । इति कविकल्पद्रुमः ॥ (स्वां--उभं--सकं--

अनिट् ।) ञ न, कृणोति कृणुते । इति दुर्गादासः ॥

कृ, ञ द डु कृतौ । इति कविकल्पद्रुमः ॥ (तनां--उभं

--सकं--अनिट् ।) ञ द, करोति कुरुते । डु, कृत्रि-
मम् । अस्माद्गुणी मकारोऽप्यगुणी वा वक्तव्य
इति वररुचिः ॥ “तेन किं करोमि कथं कुर्मि
क्वानु गच्छामि माधव ! । दुर्य्योधनविहीनन्तु
शून्यं सर्व्वमिदं जगत्” ॥ इति दुर्गादासः ॥

कृकः, पुं, (कृ + कक् ।) गलः । इति हेमचन्द्रः ॥

कृकणः, पुं, (कृ इति कणति शब्दं करोतीति । कृ +

कणशब्दे + अच् ।) क्रकरपक्षी । कयार इति
भाषा । इत्यमरः । २ । ५ । १९ ॥ कृमिः । इति
हारावली ॥

कृकरः, पुं, (कृ करणं सृष्ट्यादिकार्य्यं करोतीति ।

कृ + ट ।) शिवः । इति त्रिकाण्डशेषः ॥ (कृ
इति क्षुतादिशब्दं करोतीति ।) शरीरवाह्यपञ्च-
वाय्वन्तर्गतवायुविशेषः । यथा, --
“कृकरस्तु क्षुते चैव जवाकुसुमसन्निभः” ।
इति शारदातिलकटीका ॥ कृकणपक्षी । इति
शब्दरत्नावली ॥ चव्यकम् । करवीरवृक्षः । इति
राजनिर्घण्टः ॥

कृकला, स्त्री, (कृकाकारं गलदेशाकृतिं लातीति ।

ला + कः टाप् च ।) पिप्पली । इति राजनिर्घण्टः ॥
(कृकं शोभितगलं लातीति । कृकलासस्त्री । यथा,
इन्द्रजालतन्त्रे ।
“सर्पदन्तं गृहीत्वा तु कृष्णवृश्चिककण्टकम् ।
कृकलारक्तसंयुक्तं सूक्ष्मचूर्णन्तु कारयेत्” ॥)