शब्दकल्पद्रुमः/क

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ २/००१
शब्दकल्पद्रुमः । द्वितीयकाण्डम् ।

, ककारः । (वर्णस्य स्वरूपग्रहणाय कारः ।) स तु

व्यञ्जनप्रथमवर्णः । अस्योच्चारणस्थानं कण्ठः ।
इति व्याकरणम् ॥ (तंथा चोक्तम् “तुल्यास्य प्रयत्नं
सवर्णं” । १ । १ । ९ । सिद्धान्तकौमुद्याम् ।
“अकुहविसर्जनीयानाङ्कण्ठः” ॥ इति ॥ * ॥)
(वङ्गीयभाषायां) तस्य लेखनप्रकारो यथा, --
“वामरेखा भवेद्ब्रह्मा विष्णुर्द्दक्षिणरेखिका ।
अधोरेखा भवेद्रुद्रो मात्रा साक्षात् सरस्वती ॥
कुण्डली चाङ्कुशाकारा मध्यशून्यं सदाशिवः ।
कदम्बगोलकाकारं ककारं भावयेत् सुधीः” ॥
इति वर्णोद्धारतन्त्रम् ॥ * ॥ तस्य नामानि
यथा, --
“कः क्रोधीशो महाकाली कामदेवप्रकाशकः ।
कपाली तेजसः शान्तिर्वासुदेवो जयानलः ॥
चक्री प्रजापतिः सृष्टिर्दक्षस्कन्धो विशाम्पतिः ।
अनन्तः पार्थवो विन्दुस्तापिनी परमात्मकः ॥
वर्गाद्यश्च मुखी ब्रह्मा सखाद्योऽम्भः शिवो जलम् ।
माहेश्वरी तुला पुष्प मङ्गलश्चरणं करः ॥
नित्या कामेश्वरी मुख्यः कामरूपो गजेन्द्रकः ।
श्रीपुरं रमणो रङ्गकुसुमा परमात्मकः” ॥
इति तन्त्रशास्त्रम् ॥
“अधुना संप्रवक्ष्यामि ककारतत्त्वमुत्तमम् ।
रहस्यं परमाश्चर्य्यं त्रैलोक्यानाञ्च संशृणु ॥
वामरेखा भवेद्ब्रह्मा विष्णुर्द्दक्षिणरेखिका ।
अधोरेखा भवेद्रुद्रो मात्रा साक्षात् सरस्वती ॥
कुण्डली अङ्कुशाकारा मध्ये शून्यः सदाशिवः ।
जवायावकसंकाशा वामरेखा वरानने ! ॥
शरच्चन्द्रप्रतीकाशा दक्षरेखा च मूर्त्तिमान् ।
अधोरेखा वरारोहे ! महामरकतद्युतिः ॥
शङ्खकुन्दसमा कीर्त्तिर्म्मात्रा साक्षात् सरस्वती ।
कुण्डली अङ्कुशा या तु कोटिविद्युल्लताकृतिः ॥
कोटिचन्द्रप्रतीकाशो मध्ये शून्यः सदाशिवः ।
शून्यगर्ष्मे स्थिता काली कैवल्यपददायिनी ॥
ककाराज्जायते सर्व्वं कामं कैवल्यमेव च ।
अर्थश्च जायते देवि ! तथा धर्म्मश्च नान्यथा ॥
ककारः सर्व्ववर्णानां मूलप्रकृतिरेव च ।
ककारः कामदा कामरूपिणी स्फुरदव्यया ॥
कामनीया महेशानि ! स्वयं प्रकृतिसुन्दरी ।
माता सा सर्व्वदेवानां कैवल्यपददायिनी ॥
ऊर्द्ध्वकोणे स्थिता कामा ब्रह्मशक्तिरितीरिता ।
वामकोणे स्थिता ज्येष्ठा विष्णुशक्तिरितीरिता ॥
दक्षकोणे स्थिता विन्दू रौद्री संहाररूपिणी ।
ज्ञानात्मा स तु चार्व्वङ्गि ! कलाचतुष्टयात्मकः ॥
इच्छाशक्तिर्भवेद्ब्रह्मा विष्णुश्च ज्ञानशक्तिमान् ।
क्रियाशक्तिर्भवेद्रुद्रः सर्व्वे प्रकृतिमूर्त्तिमान् ॥
आत्मविद्या शिवस्तत्र सदा मन्त्रः प्रतिष्ठितः ।
आसनं त्रिपुरादेव्याः ककारं पञ्चदैवतम् ॥
ईश्वरो यस्तु देवेशि ! त्रिकोणे तस्य संस्थितिः ।
त्रिकोणमेतत् कथितं योनिमण्डलमुत्तमम् ॥
केवलं प्रपदे यस्याः कामिनी सा प्रकीर्त्तिता ।
ॐ जवायावकसिन्दूरसदृशीं कामिनीं परम् ॥
चतुर्भुजां त्रिनेत्राञ्च बाहुवल्लीविराजिताम् ।
कदम्बकोरकाकारस्तनद्वयविभूषिताम् ॥
रत्नकङ्कणकेयूरमङ्गदैरुपशोभिताम् ।
रत्नहारैः पुष्पहारैः शोभितां परमेश्वरीम् ॥
एवं हि कामिनीं ध्यात्वा ककारं दशधा जपेत् ।
प्रफुल्लञ्च ततो ध्यात्वा जपस्य फलभाग्भवेत् ॥
एतत्ते कथितं देवि ! ककारतत्त्वमुत्तमम्” ॥
इति कामधेनुतन्त्रम् ॥ (अनुबन्धविशेषः । यथाह
कविकल्पद्रुमः । “कश्चुरादिः किस्तु वा” । एतेन
गणत् क संख्याने गणयति कथत् क वाक्यप्रबन्धे
कथयति इत्यादि स्यात् ॥)

कं, क्ली, (कायति शब्दो निर्गच्छति यतः यस्मिन्

सतीत्यर्थः सजिह्ववदनस्य शिरोऽन्तर्वर्त्तित्वात् ।
यद्वा कायति वर्णात्मकं ध्वन्यात्मकं वा शब्दं
करोति जीवः यस्मिन् सतीति यावत् ॥ कै शब्दे
“अन्येभ्योऽपि दृश्यते” डः । ३ । २ । १०१ ।)
शिरः ॥ (यथा, तन्त्रसारे ।
“द्वाभ्यामोष्ठौ द्विरुन्मृज्य चैकेन क्षालयेत्करम् ।
मुख-घ्राण-नेत्र-श्रोत्र-नाभ्युरस्कं भुजौ क्रमात्” ॥
अत्र कं शिरः इति तट्टीका ॥ कायति शब्दा-
यते स्रोतोवेगेनालोडनेन वेति यावत् ।) जलम् ॥
(यथा, भागवते ६ । १ ४२ ।
“सूर्य्योऽग्निः खं मरुद्गावः सोमः सन्ध्याहनीदिशः ।
कं कुः कालो धर्म्म इति ह्येते दैह्यस्य साक्षिणः” ॥
कायन्ति आनन्दोत्सवध्वनिं कुर्व्वन्ति यस्मिन् समा-
गते उपस्थिते इत्यर्थः गृहिण इति शेषः । आ-
नन्दध्वनेस्तु सुखानुवर्त्तित्वात् ।) सुखम् । इति
मेदिनी ॥
(यथा, छान्द्योग्योपनिषदि । ४ । १० । ५ ।
“प्राणो ब्रह्मकं ब्रह्म खं ब्रह्मेति स होवाच विजा-
नाम्यहं यत् प्राणो ब्रह्म कञ्च तु खञ्च न विजा-
नामीति ते होचुर्यद् वाव कं तदेव खं यदेव खं
तदेव कमिति प्राणञ्च हास्मै तदाकाशञ्चोचुः” ॥
“तमेवमुक्तवन्तं ब्रह्मचारिणं ते ह्यग्नयः ऊचुः ।
यद्वाव यदेव वयं कमवोचाम तदेव खमाकाशम्
इत्येवं खेन विशेष्यमाणं कं विषयेन्द्रियसंयोग-
जातसुखान्निवर्त्तितं स्यान्नीलेनेव विशेष्यमाण-
मुत्पलं रक्तादिभ्यः ॥ यदेव खमाकाशमवोचाम
तदेव च कं सुखमिति जानोहि एवञ्च सुखेन
विशेष्यमाणं खं भौतिकादचेतनात् खान्निवर्त्तितं
स्यान्नीलोत्पलवदेव” ॥ इति भाष्यम् ॥ कचते दी-
प्यते मस्तकोपरि शोभते इति भावः । यद्वा कच्यते
बध्यते संयम्यते कराभ्याम् । कच् बन्धने डः ।)
केशः ॥ इति धरणी ॥

कः, पुं, (कचति दीप्यते स्वेन ज्योतिषा ज्योति-

र्म्मयत्वात् कच् + ड ।) ब्रह्मा (यथा, भागवते ।
३ । १२ । ५१ ।
“एवं युक्तकृतस्तस्य दैवं चावेक्षतस्तदा ।
कस्य रूपमभूद् द्वेधा यत्कायमभिचक्षते” ॥)
विष्णुः । (यथा महाभारते । १३ । विष्णोः सहस्र-
नामकथने । १४९ । ९१ ।
“एको नैकः सवः कः किं यत् तत्पदमनुत्तमम्” ॥
प्रजापतिः । यथा भागवते । ८ । ५ । ३९ ।
“खेभ्यश्च छन्दांस्यृषयो मेढ्रतः कः
प्रसीदतां नः स महाविभूतिः” ॥)
दक्षः । (यथा भागवते । ९ । १० । १० ॥
“जघ्नेऽद्भुतैणवपुषाऽश्रमतोऽपकृष्टो
पृष्ठ २/००२
:मारीचमाशु विशिखेन यथा कमुग्रः” ॥)
कामदेवः ॥ अग्निः ॥ वायुः ॥ यमः ॥ सूर्य्यः ॥ आत्मा ॥
राजा ॥ ग्रन्थिः ॥ मयूरः ॥ इति मेदिनी ॥ मनः ॥
शरीरम् ॥ कालः ॥ धनम् ॥ शब्दः ॥ इत्यनेकार्थ-
कोषः ॥ प्रकाशः ॥ इत्येकाक्षरकोषः ॥

कः, त्रि, सर्व्वनाम । इति विश्वः । के कि इति भाषा ॥

(यथा विष्णुपुराणे । १ । १७ । २० ।
“तमृते परमात्मानं तात ! कः केन शास्यते” ॥)

कंशः, पुं क्ली, कंसः ॥ पानपात्रम् । इत्यमरटीका ॥

कंसं, क्ली पुं, (कामयति काम्यते वा अनेन

पातुमितिशेषः । “वृतॄवदिहनिकमीति” सः ।
उणां । ३ । ६२ ।) मद्यादिपानपात्रम् । तत्पर्य्यायः ।
पानभाजनम् २ । इत्यमरः ॥ २ । ९ । ३२ । कंशम्
३ । कांस्यम् ४ । इति तट्टीका । तैजसद्रव्यम् ।
स्वर्णरजतादिनिर्म्मितपात्रमात्रम् । मानविशेषः
तत्तु आढकपरिमाणम् । इति मेदिनी ॥ (चतुः
षष्टिपलात्मकाढकरूपम् ॥ यथा भावप्रकाशे ।
“शरावोऽष्टपलं तद्वज्ज्ञेयमत्र विचक्षणैः ।
शरावाभ्यां भवेत् प्रस्थश्चतुः प्रस्थैस्तथाढकः ।
भाजनं कांसपात्रञ्च चतुःषष्टिपलश्चसः” ॥
ताम्रवङ्गमिश्रितधातुविशेषः । काँसा इति भाषा ।
तत्पर्य्यायः । कांस्यम् २ । कंसास्थि ३ । ताम्रार्द्धम्
४ । इति त्रिकाण्डशेषः ॥ (वर्तुलाकारयज्ञिय-
पात्रभेदः । यथा शतपथब्राह्मणे । १४ । ९ । ३ । १ ।
“औडुम्बरे कंसे चमसे वा” ।)

कंसः, पुं, (कामयति पित्रादिबन्धुवर्गान् अभिभूय

पापात्मकं राज्यविषयादिभोगं यः । कम् + सः ।
यद्वा कंस्ते शास्ति शत्रून् कंस शासने इत्यस्मात्
सः ।) विष्णुद्वेष्ट्रसुरविशेषः । इति हेमचन्द्रः ॥
स तु मथुरादेशराजा । यदुवंशीयोग्रसेनराज-
पुत्त्रः । श्रीकृष्णमातुलः । तेन बधः प्राप्तः ।
(एतद्विवरणं भागवते । १० । ४४ अध्याये विशे-
षेण दृष्टव्यम् ॥ कंसनामकारणं हरिवंशे यथा,
“कस्य त्वमिति यच्चाहं त्वयोक्तो मत्तकाशिनि ।
कंसस्तस्माद्रिपुध्वंसी तव पुत्त्रो भविष्यति” ॥
अतएव कंसधातुनिष्पन्नत्वमेव प्रशस्यते ॥)

कंसकं, क्ली, (काम्यतेऽनेन चक्षुर्दृष्ट्यादिकमिति-

शेषः । कम् + सः । ततो जातौ संज्ञायां वा कन् ।)
चक्षुरौषधधातुविशेषः । स तु हीराकसीप्रभेदः ।
तत्पर्य्यायः । पुष्पकासीसम् २ । नयनौषधम् ३ ।
इति हेमचन्द्रः ॥

कंसकारः, पुं, स्त्री, (कंसं तन्मयपात्रादिकं करोति

यः । कंस + कृ + “कर्म्मण्यण्” । ३ । २ । १ । केचित्तु
तालव्यशकारमिच्छन्त्यत्र ।) जातिविशेषः । काँ-
सारि इति भाषा ॥ तस्योत्पत्तिर्यथा ।
“वैश्यायां ब्राह्मणाज्जातः अम्बष्ठो गान्धिको बणिक् ।
कंसकारशङ्खकारौ ब्राह्मणात् सम्बभूवतुः” ॥
इति ष्टहद्धर्म्मपुराणम् ॥ अपि च ।
“विश्वकर्म्मा च शूद्रायां वीर्य्याधानं चकार सः ।
ततो बभूवुः पुत्त्राश्च षडेते शिल्पकारिणः ॥
मालाकरः कर्म्मकारः शङ्खकारः कुविन्दकः ।
कुम्भकारः कंसकारः षडेते शिल्पिनो नराः” ॥
इति ब्रह्मवैवर्त्तपुराणम् ॥

कंसजित्, पुं, (कंसं जयति जितवान् वा कंस + जि

+ कर्त्तरि क्विप् ।) श्रीकृष्णः । इति हलायुधः ॥

कंसवती, स्त्री, (कंसः शासनशक्तिरस्त्यस्याः । कंस +

मतुप् मस्य वत्वम् । यद्वा कंसः भ्रातृत्वेनास्त्यस्याः ।)
कंसभगिनी । सा उग्रसेनसुता । वसुदेवानुजपत्नी
च । (यथा भागवते । ९ । २४ । २५ ।
“कंसा कंसवती कङ्का शूरभू राष्ट्रपालिका ।
उग्रसेनदुहितरो वसुदेवानुजस्त्रियः” ॥)

कंसहा, [न्] पुं, (कंसं हन्ति हतवान् वा । कंस +

हन् + क्विप् ।) विष्णुः । इति हेमचन्द्रः ॥

कंसा, स्त्री, (कंस + टाप् ।) कंसभगिनी । सा उग्र-

सेनसुता । वसुदेवानुजपत्नी च ।
(यथा भागवते । ९ । २४ । २५ ।
“कंसा कंसवती कङ्का शूरभू राष्ट्रपालिका ।
उग्रसेनदुहितरो वसुदेवानुजस्त्रियः” ॥)

कंसारातिः, पुं, (कंसस्य अरातिः ।) विष्णुः । इत्य-

मरः ॥ १ । १ । २१ ॥

कंसारिः, पुं, (कंसस्य अरिः शत्रुः ।) श्रीकृष्णः । इति

शब्दरत्नावली ॥ (यथा राजतरङ्गिणो । १ । ५९ ।
“साहायकार्थमाहूतो जरासन्धेन बन्धुना ।
समं रुरोध कंसारेर्मथुरां पृथुभिर्ब्बलैः” ॥)

कंसास्थि, क्ली, (कंसस्य अस्थि । अस्थि रूपमित्यर्थः ।)

कांस्यधातुः । इति त्रिकाण्डशेषः ॥

कंसोद्भवा, स्त्री, (कंसात् तैजसधातुविशेषसम्बन्धात्

उद्भवति या । यद्वा कंसायाः निर्झरिण्या उद्भवा
कंसायां उद्भवो यस्या वा । कंस + उत् + भू +
अच् । कंस इव शुभ्रत्वात् उद्भवतीति केचित् ।)
सुगन्धिमृत्तिकाविशेषः । तत्पर्य्यायः । आढकी २
तुवरी ३ काक्षी ४ मृदाह्वया ५ सौराष्ट्री ६ पा-
र्व्वती ७ कालिका ८ पर्पटी ९ सती १० । इति
हेमचन्द्रः ॥

कक इ ङ व्रजने । इति कविकल्पद्रुमः ॥ (भ्वां--

आत्मं--सकं--सेट् ।) इ कर्म्मणि कङ्क्यते । ङ कङ्कते ।
इति दुर्गादासः ॥

कक ङ इच्छायां । गर्व्वे । चापले । इति कवि-

कल्पद्रुमः ॥ (भ्वां--आत्मं--सकं--अकं--च--सेट् ।)
इच्छेह तृष्णा । चापलं चञ्चलीभावः । ङ ककते
काकः । सतृष्णश्चञ्चलो वा स्यादित्यर्थः । गर्व्वः
कैश्चिन्न पठ्यते । इति दुर्गादासः ॥

ककन्दः, पुं, (कको गर्ब्बश्चापल्यं वा भवत्यस्मात् ।

कक + अन्दच् । यद्वा ककं गर्व्वं चापल्यं तृष्णां
वा ददातीति । कक् + दा + डः ।) स्वर्णः । इत्यु-
णादिकोषः ॥

ककुञ्जलः, पुं स्त्री, (कं जलं कूजयति आह्वयते या-

चते इति यावत् । क + कूज् + अलच् । पृषोद-
रादित्वात् नुम् ह्रस्वश्च ।) चातकपक्षी । इति
राजवल्लभः ॥

ककुत्, [द्] स्त्री, (कं सुखं कावयति गृहस्थस्य औ-

न्नत्यं प्रापयतीति यावत् । वृषाणां हि ककुत्
गृहस्थस्य सुखलक्षणमिति भावः । ककुद्धीनवृष-
पालने दरिद्रता इति सरणात् । क + कु +
णिच्र् + पृषोदरादित्वात् ह्रस्वः तुगागमश्च ।) वृ
षाङ्गविशेषः । षाँडेर झुँट् इति भाषा । (यथा,
अथर्व्ववेदे । ६ । ८६ । ३ । “सम्राडस्य सुरामों
ककुन् मनुष्याणाम् । देवानामर्द्धभागसि त्वणको
वृषो भव” ॥ स्कन्धभागः ॥
यथा, भागवते ५ । २५ । ७ । “ध्यायमानः सुरा-
सुरोरगसिद्धगन्धर्व्वविद्याधरमुनिगणैरनवरतमद-
मुदितविकृतविह्वललोचनः सुललितमुखरिकामृ-
तेनाप्यायमानः स्वपार्षदविवुधयूथपपतीनपरिम्ला-
नरागनवतुलसिकामोदमध्वासवेन माद्यन्मधुकर-
व्रातमधुरगीतश्रियं वैजयन्तीं स्वां वनमालां नील-
वासा एककुण्डलो हलककुदि कृतसुभगसुन्दरभुजो
भगवान् माहेन्द्रो वारणेन्द्र इव काञ्चनीं कक्षामु-
दारलीलो बिभर्त्ति” ॥) ध्वजः । वरः । इति मेदिनी ॥
(यथा, ऋग्वेदे । ८ । ४४ । १६ ।
“अग्निर्मूर्द्धादिवः ककुत्पतिः पृथिव्या अयम्” ॥)

ककुत्स्थः, पुं, (वृषरूपधरस्य देवेन्द्रस्य ककुदि तिष्ठति

यः सः । ककुत् + स्था + कः ।) सूर्य्यवंशीयराजवि-
शेषः । स तु अयोध्याधिपतिः । (पुरञ्जयनामायं ।)
शशादराजपुत्त्रः । इक्ष्वाकुराजपौत्त्रश्च ॥ (येन
चासौ ककुत्स्थनामासीत् तत्कथा हरिवंशे
ऐलोत्पत्तौ । ११ । १९--२० ॥
“शशादस्य तु दायादः ककुत्स्थो नाम वीर्य्यवान् ।
इन्द्रस्य वृषभूतस्य ककुत्स्थोऽजयतासुरान् ॥
पूर्ब्बं देवासुरे युद्धे ककुत्स्थस्तेन सः स्मृतः ।
अनेनास्तु ककुत्स्थस्य पृथुरानेनसः स्मृतः” ॥
तथा च महाभारते १ । १ । २२९ ।
“पुरुः कुरुर्यदुः शूरो विश्वगश्वो महाद्युतिः ।
अणुहो युवनाश्वश्च ककुत्स्थो विक्रमी रघुः” ॥)
स्कन्धदेशस्थिते त्रि ॥)

ककुदः, पुं क्ली, (कं सुखं उत्कर्षं वा कौति प्रकाश-

यति धातूनामनेकार्थत्वात् कुधातुरत्र प्रकाशनार्थः
अन्तर्ण्यन्तार्थश्च । कु + क्विप् तुक् च पृषोदरादि-
त्वात् तस्य दः । यद्वा कस्य सुखस्य शरीरस्य वा कुं
भूभिं मूलं आकरमिति यावत् ददातीति । ककु +
दा + कः । यद्वा “ककुदस्यावस्थायां लोपः” । ५ ।
४ । १४६ । अर्द्धर्च्चादि-पां । २ । ४ । ३१ ।) प्राधा-
न्यम् । (यथा अथर्व्ववेदे । १० । १० । १९ ।
“ऊर्द्ध्वो विन्दुरुदचरद् ब्रह्मणः ककुदादधि” ।
रघुश्च । ६ । ७१ ॥
“इक्षाकुवंश्यः ककुदं नृपाणां
ककुत्स्थ इत्याहितलक्षणोऽभूत् ।
काकुत्स्थशब्दं यत उन्नतेच्छाः
श्लाघ्यं दधत्युत्तरकोशलेन्द्राः” ॥)
राजचिह्नम् । तत्तु श्वेतच्छत्रादि । (यथा रघुः ।
३ । ७० ।
“अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे
नृपतिककुदं दत्त्वा यूने सितातपवारणम्” ॥)
वृषाङ्गम् । झुँट इति भाषा । इत्यमरः ॥ ३ । ३ ।
९१ ॥ (यथा महाभारते । १३ । १४ । २३६-२३९ ।
“वृषरूपधरं साक्षात् क्षीरोदमिव सागरम् ।
कृष्णपुच्छं महाकायं मधुपिङ्गललोचनम् ॥
पृष्ठ २/००३
:वज्रसारमयैः शृङ्गैर्निष्टप्तकनकप्रभैः ।
सुतीक्ष्णैर्मृदुरक्ताग्रैरुत्किरन्तमिवावनिम् ॥
जाम्वूनदेन दाम्ना च सर्व्वतः समलङ्कृतम् ।
सुवक्त्रखुरनासञ्च सुकर्णं सुकटीतटम् ॥
सुपार्श्वं विपुलस्कन्धं सुरूपं चारुदर्शनम् ।
ककुदं तस्य चाभाति स्कन्धमापूर्य्य धिष्ठितम्” ॥)
पर्ब्बताग्रभागः । इति अमरटीकायां स्वामी ॥

ककुद्मान् [त्] पुं, (ककुदस्यास्तीति । मतुप् इति

“मादुपधायाश्च मतो र्वो यवादिभ्यः” । ८ । २ । ९ ।
न मस्य वकारत्वम् ।) वृषः । इति हेमचन्द्रः ॥
(यथा, कुमारे । १ । ५६ ।
“तुषारसंघातशिलाः खुराग्रैः
समुल्लिखन् दर्पकलः ककुद्मान्” ॥)
पर्व्वतः । इत्यमरटीकायां स्वामी ॥
(यथा, विष्णुपुराणे २ । ४ । २७ ।
“ककुद्मान् पर्ब्बतबरः सरिन्नामानि मे शृणु” ॥)
ऋषभौषधम् । इति राजनिर्घण्टः ॥ अत्र क्वचिदप-
वादविषयेऽप्युत्सर्गोऽभिनिविशते इति न्यायात्
वतुप्राप्तौ मतुप्रत्ययः ॥ इति मुग्धबोधमतम् ॥
(ऊर्म्मिः । यथा, यजुर्व्वेदे । ९ । ६ ।
“ऊर्म्मिः प्रतूर्त्तिः ककुद्मान्” ॥)

ककुद्मती, स्त्री, (ककुदिव वृषस्कन्धवत् अतिशयितो

मांसपिण्डः अस्त्यस्याम् । मुतुप् । यवादित्वात् न
मस्य वत्वं स्त्रियां ङीप् ।) कटिः । इत्यमरः ॥ २ । ६ ।
७४ । पाछा इति भाषा ॥

ककुन्दरं, क्ली, (कस्य शरीरस्य कुं भूमिं नितम्बस्थलवि-

शेषं दृणातीति । ककु + दॄ + खच् मुम्च ।) कुकु-
न्दरम् । नितम्बस्थकूपकद्वयम् । इत्यमरटीकायां
रमानाथः राजनिर्घण्टश्च ॥ (यथाह, याज्ञवल्क्यः ।
३ । ९६ ।
“कनीनिके चाक्षिकूटे शस्कुलीकर्णपत्रकौ ।
कर्णौ शङ्खौ भ्रुवौ दन्तवेष्टावोष्ठौ ककुन्दरे” ॥
“सकृद्विभक्तश्चतुरस्रः ककुन्दरविभागशोभी
रथाङ्गाकारसंस्थितश्च नितम्बभागः” ।
इति दशकुमारे ॥)

ककुप्, [भ्] स्त्री, (कं वातं स्कुभ्नाति विस्तारयति

या । स्कुभ इति सौत्रः । क्विप् । पृषोदरादित्वात्
सलोपः ।) दिक् । इत्यमरः ॥ १ । ३ । १ । प्रवेणी ।
शोभा । चम्पकमाजा । इति मेदिनी ॥ शास्त्रम् ।
इति विश्वः ॥

ककुभ्, स्त्री, (कं सुखं आनन्दं स्कुभ्नाति विस्तारयति

या पृषोदरादित्वात् सलोपः ।) रागिणीविशेषः ।
तस्या नामान्तरम् । कुहुः । तस्या लक्षणम् ।
“पीतं वसाना वसनं सुकेशी
वने रुदन्ती पिकनाददूना ।
विलोकयन्ती ककुभोऽतिभीता
मूर्त्तिः प्रदिष्टा ककुभस्तथेयम्” ॥
इति सङ्गीतदामोदरः ॥ (दिक् । यथा,
मागवते । २ । ७ । २५ ।
“वक्षःस्थलस्पर्शरुग्नमहेन्द्रवाहदन्तैर्विडम्बितककु-
ब्जुष ऊढहासम्” ॥ दक्षकन्या । सैव घर्म्मपत्नी ।
गथा तत्रैव । ६ । ६ । ४ ।
“भानुर्लम्बा ककुब् जामिर्विश्वा साध्या मरुत्वती” ॥)

ककुभः, पुं, (कस्य वातस्य कुः भूमिः स्थानं प्रकाश-

रूपविशेष इति यावत् भात्यस्मात् । ककु + भा +
कः । यद्वा कं वातं स्कुभ्नाति विस्तारयति । क +
स्कुम्भ + कः + पृषोदरादित्वात् सलोपः ॥) अर्ज्जु-
नवृक्षः । (यथा, चक्रपाणिदत्तकृतसंग्रहे ॥
“गोधूमककुभचूर्णं छागपयोगव्यसर्पिषा पक्वम् ।
मधुशर्करासमेतं समयति हृद्रोगमुद्धतं पुंसाम् ॥
मूलं नागबलायास्तु चूर्णं दुग्धेन पाययेत् ।
हृद्रोगश्वासकासघ्नं ककुभस्य च वल्कलम् ॥
रसायनं परं बल्यं वातजिन्मासयोजितम् ।
संवत्सरप्रयोगेन जीवेत् वर्षशतं नरः” ॥)
वीणाङ्गम् । तत्पर्य्यायः । प्रसेवकः २ । इत्यमरः ॥
१ । ७ । ७ ॥ वीणाप्रान्तवक्रकाष्ठम् । दण्डाधःशब्द-
गाम्भीर्य्यार्थंदारुमयं भाण्डं यच्चर्म्मणाच्छाद्य दीयते
तत्रेत्यन्ये । वीणास्थितालावुफले इत्यपरे । इति
भरतः ॥ रागविशेषः । इति मेदिनी ॥
(शिवः । यथा महाभारते १३ । शिवसहस्रनाम-
कीर्त्तने १७ । १३० ।
“हर्य्यक्षः ककुभो वज्री शतजिह्वः सहस्रपात्” ॥)

ककुभा, स्त्री, (केन आदित्येन कुत्सितानि भानिनक्ष-

त्राण्यस्याम् । टावन्तोऽपीति कश्चित् तन्न । व्यधि-
करणबहुब्रीहिप्रसङ्गात् ।) दिक् । इत्यमरटीकायां
रायमुकुटः ॥ (केन सूर्य्येण दिनप्रकाशेनेति भावः
कुत्सिता भाति । भा दीप्तौ । इति धातोः सुपीति
कः । भिदाद्यङ् वा । रात्रावेवास्या माधुर्य्यस्या-
धिक्यमिति तात्पर्य्यार्थः ।) रागिणीविशेषः । इति
हलायुधः ॥

ककुभादनी, स्त्री, (ककुभः अर्ज्जुन इव अद्यतेऽसौ तुल्य-

गुणत्वात् । ककुभ + अद् + कर्म्मणि ल्युट् + स्त्रियां
ङीप् ।) नलीनामगन्धद्रव्यम् । इति शब्दचन्द्रिका ॥

कक्क हासे । इति कविकल्पद्रुमः ॥ (भ्वां--परं--अकं--

सेट् ।) कोपधः । कक्कति । इति दुर्गादासः ॥

कक्कोलः, पुं क्ली, (ककते गच्छति दिशि प्रकाशते

इत्यर्थः ततः क्विप् कक्कोलति संस्त्यायति कुल-
धातोर्ज्वलादित्वात् णः । कक्चासौ कोलश्चेति ।
“पूगकक्कोलकर्पूरलवङ्गसुमनःफलैरित्युक्तेः” ।)
सुगन्धिद्रव्यविशेषः । काँकला इति भाषा । अस्य
गुणाः । कटुत्वम् । हृद्यत्वम् । सुगन्धित्वम् । कफ-
वातनाशित्वञ्च । इति राजवल्लभः ॥ (यथा रामा-
यणे ३ काण्डे ।
“वनानि च सुरम्याणि कक्कोलानां त्वचस्य च” ॥)

कक्कोलकं, क्ली, (कक्कोलस्य + इदमर्थे स्वार्थे वा कन् ।

शाल्मलिद्वीपान्तर्गतसप्तमवर्षपर्ब्बतः । तद्विचरणं
विष्णुपुराणे २ अंशे ४ अध्याये द्रष्टव्यम्” ॥)
गन्धद्रव्यविशेषः । काँकला इति ख्यातम् । तत्पर्य्यायः
कोलकम् २ कोषफलम् ३ । इत्यमरः ॥ कृत-
फलम् ४ कटुकफलम् ५ द्वेष्यम् ६ स्थूलमरिचम्
७ कक्कोलम् ८ माधवोचितम् ९ कालम् १०
कटफलम् ११ मरिचम् १२ । अस्य गुणाः ।
कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । वक्त्रजाड्यहर-
त्वम् । दीपनत्वम् । पाचनत्वम् । रुचिकारित्वम् ।
कफवातरोगनाशित्वञ्च । इति राजनिर्घण्टः ॥
(“कक्कोलकं लवङ्गञ्च तिक्तं कटुकफापहम् ।
लघुतृष्णापहं वक्त्रक्लेददौर्गन्ध्यनाशनम्” ॥
इति सुश्रुतः ॥)

कक्ख हासे । इति कविकल्पद्रुमः ॥ (भ्वां--परं--अकं--

सेट् ।) कोपधः । कक्खति । इति दुर्गादासः ॥

कक्खटः, त्रि, (कक्खति हसति यः ॥ प्रफुल्लमुखो

जनः । इति व्युत्पत्त्यर्थः । अन्यस्तु रूढ्यर्थः । कक्ख
अटन् । अथवा कक्खं प्रसन्नभावं अटति अद्दयति
कर्कशान्तर्वृत्तित्वात् कक्ख + अट् + अच् । यदा
कठिण्यां वर्त्तते तदा कक्खति कृष्ट्या प्रकाशयति
वर्णान् । अन्तर्णिजर्थः ।) कठिनः । इत्यमरः ॥

कक्खटपत्रकः, पुं, (कक्खटानि प्रकाशान्वितानि

पत्राणि यस्य । कप् ।) वृक्षविशेषः । पाट इति
भाषा । तत्पर्य्यायः । पट्टः २ वाजशलः ३ शाणिः ४
चिमः ५ । इति शब्दमाला ॥

कक्खटी, स्त्री, (कक्खति भूकर्षणेन प्रकाशयति

वर्णान् । अत्राप्यन्तर्णिच् शकादिभ्योऽटन् गौरा-
दित्वात् ङीष् ।) खटिका । खडी इति भाषा ।
तत्पर्य्यायः । वर्णलेखा २ कठिनी ३ खटी ४ । इति
त्रिकाण्डशेषः ॥

कक्षः, पुं, (कषतीति । कष् हिंसायां “वृतॄवदि-

हनिकमिकषिभ्यः सः” । उणां ३ । ६२ । इति
सः ।) बाहुमूलम् । इत्यमरः । २ । ६ । ७९ ॥
काँक् वगल् इति च भाषा ॥
(यथा, महाभारते ४ । ६ । १ ।
“वदर्य्यरूपान् प्रतिगृह्य काञ्चना-
नक्षान् स कक्षे परिरभ्य वाससा” ॥)
तृणम् । वीरुत् । इत्यमरः ॥ ३ । ३ । २१८ ।
(यथा, मनुः ७ । ११० ।
“यथोद्धरति निर्द्दाता कक्षं धान्यञ्च रक्षति” ॥
“यथा क्षेत्रे धान्यतृणादिकयोः सहोत्पन्नयोरपि
धान्यानि लवनकर्त्ता रक्षति तृणादिकञ्चोद्धरति” ।
इति तट्टीकायां कुल्लूकभट्टः ॥) शुष्कतृणम् । इति
धरणी ॥ (यथा, माधः । २ । ४२ ।
“प्रक्षिप्योदर्च्चिषं कक्षे शेरते तेऽभिमारुतम्” ॥)
कच्छः । (यथा महाभारते । १ । वारणावतागमने ।
१४६ । २२ ॥
“कक्षघ्नः शिशिरघ्नश्च महाकक्षे विलौकसः ।
न दहेदिति चात्मानं यो रक्षति स जीवति” ॥
विलौकसो महाकक्षे वृहत्कच्छे इत्यर्थः ॥) शुष्क-
वनम् । पापम् । इति हेमचन्द्रः ॥ अरण्यम् ।
इति रुद्रः ॥ (यथा महाभारते १ । खाण्डवदहन-
पर्ब्बणि । २३१ । ३ ।
“अयमग्निर्दहन् कक्षमित आयाति भीषणः” ॥)
भित्तिः । पार्श्वः । इति भरतधृताजयः ॥
(यथा, रामायणे । ५ । ५ । २५ ।
“तस्य वानरसिंहस्य क्रममाणस्य सागरम् ।
कक्षान्तरगतो वायुर्जीमूत इव गर्ज्जति” ॥)

कक्षरुहा, स्त्री, (कक्षे कच्छे जलप्राये रोहति इति ।

कक्ष + रुह + क । अस्या अनूपजातत्वात् तथा-
त्वम् ।) नागरमुस्ता । इति राजनिर्घण्टः ॥
पृष्ठ २/००४

कक्षा, स्त्री, (कष-हिंसादौ + सः टाप् च ।) हस्ति-

रज्जुः । काञ्ची । गेहप्रकोष्ठकः ।
(यथा, भागवते ३ । १५ । २७ ।
“तस्मिन्नतीत्य मुनयः सडसज्जमानाः
कक्षाः समानवयसावथ सप्तमायाम्” ॥)
भित्तिः । साम्यम् । रथभागः । अन्तरीयपश्चिमा-
ञ्चलम् । परिधानवस्त्रस्य पृष्ठतो निहिताञ्चलम् ।
उद्ग्राहिणी । इति हेमचन्द्रः ॥ (काछा कोँचा
आँचल् इत्यादि भाषा ॥ यथाह योगियाज्ञवल्क्यः ।
“परिधानात् वहिः कक्षा निबद्धा ह्यासुरी भवेत्” ॥)
“वामे पृष्ठे तथा नाभौ कक्षात्रयमुदाहृतम् ।
एभिः कक्षैः परीधत्ते यो विप्रः स शुचिः स्मृतः” ॥
इति स्मृतिः ॥
स्पर्द्धापदम् । इति मेदिनी रुद्रश्च ॥ कक्ष्या । हस्ति-
मध्यदेशब्न्धनरज्जुः । इत्यमरटीकायां भरतः ॥
क्षुद्ररोगविशेषः । तस्य लक्षणं यथा, --
“बाहुपार्श्वांसकक्षेषु कृष्णस्फोटां सवेदनाम् ।
पित्तप्रकोपसम्मूतां कक्षामित्यभिनिर्दिशेत्” ॥
इति माधवकरः ॥ तच्चिकित्सा यथा, --
“कक्षाञ्च गन्धनाम्नीञ्च चिकित्सति चिकित्सकः ।
पैत्तिकस्य विसर्पस्य क्रियया पूर्ब्बमुक्तया” ॥
इति भावप्रकाशः ॥

कक्षापटः, पुं, (कक्षाकारः हस्तिरज्जुतुल्यः पटोव-

स्त्रम् ।) कौपीनम् । इति हलायुधः ॥ (कक्षायाः
गृहप्रकोष्ठकस्य पटः इति विग्रहे गृहभित्तिस्थ-
पटः ॥)

कक्षावान्, [त्] पुं, (कक्षा सर्व्ववस्तुनि साम्यं सा

विद्यते यस्य । कक्षा + मतुप् मस्य वः ।) मुनि-
विशेषः । इति हेमचन्द्रः ॥

कक्षावेक्षकः, पुं, (कक्षायाः अवेक्षकः यद्वा कक्षां

वनोपवनादिकं राजान्तःपुरं वा अवेक्षते इति ।
अव + ईक्ष् + ण्वुल् ।) शुद्धान्तपालः । उद्यान-
पालः । रङ्गाजीवः । कविः । षिड्गः । द्वाःस्थः ।
इति मेदिनी ॥

कक्षोत्था, स्त्री, (कक्षात् जलप्रायदेशात् उत्तिष्ठति

जायते या । कक्ष + उत् + स्था + कः टाप् च ।)
भद्रमुस्ता । इति राजनिर्घण्टः ॥

कक्ष्यं, क्ली, (कक्षायै साम्याय भवम् । कक्षा + यत् ।)

एषणिकास्थकटोरा । इति मिताक्षरा । निक्तिरं
वाटी इति भाषा ॥ (त्रि, कक्षपूरकः । यथा,
ऋग्वेदे ५ । ४४ । ११ ।
“श्येन आसामदितिः कक्ष्यो मदो-
विश्ववारस्य यजतस्य मायिनः” ॥)

कक्ष्या, स्त्री, (कक्षे भवा । कक्ष + शरीरावयवात्

+ यत् टाप् च ।) कक्षरज्जुः । काछदडी इति
ख्याता । चर्म्मरज्जुः । इत्यन्ये । इति भरतः ॥
गजमध्यबन्धनचर्म्मरज्जुः । इति सारसुन्दरी ॥ तत्-
पय्यार्यः । चूषा २ वरत्रा ३ । इत्यमरः ॥ २ । ८ । ४२ ।
वूषा ४ दृष्या ५ दूष्या ६ कक्षा ७ । इति तट्टीका ।
हर्म्म्यादिप्रकोष्ठः । राजगृहादेर्वेष्टनावच्छिन्नो
देशः । (महल इति भाषा । यथा रामायणे । २ ।
२० । ११ ।
“प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः ।
ब्राह्मणान् वेदसम्पन्नान् वृद्धान् राज्ञाभिसत्कृतान्” ॥)
काञ्ची । इत्यमरः ॥ ३ । ३ । १५७ । अन्तर्गृहमिति
सुभूतिः ॥ (यथा, कुमारे ७ । ७० ।
“क्रान्तानि पूर्ब्बं कमलासनेन
कक्ष्यान्तराण्यद्रिपतेर्विवेश” ॥)
सादृश्यम् । उद्योगः । वृहतिका । उत्तरीय-
वस्त्रम् । इति हेमचन्द्रः ॥ गुञ्जा । इति शब्द-
रत्नावली ॥

कख ए म हासे । इति कविकल्पद्रुमः ॥ (भ्वां-परं

-अकं-सेट् ।) एदित् घटादिः इति वोपदेवः ।
पाणिनीमते तु एदित्वं न तेन अकखीत् अका
खीत् इति स्यात् ।) म कखयति ए अकखीत् ।
इति दुर्गादासः ॥

कख्या, स्त्री, (कखति हसतीव प्रकाशते शोभते ।

कख् + यत् + स्त्रियां टाप् ।) कक्षा । हर्म्म्यादि-
प्रकोष्ठः । इति शब्दरत्नावलो ॥

कग म ए क्रियासु । क्रियामात्रे । इति कविकल्प-

द्रुमः ॥ (भ्वां-परं-सकं-अकं च-सेट् । घटादि
एदित् इति वोपदेवः । नैदित् इति पाणिनिः ।
अकगीत् अकागीत् ॥) तेन म कगयति । ए
अकगीत् । क्रियामात्रे । कगति लोकः गच्छती-
त्यर्थः । इति दुर्गादासः ॥

कङ्कः, पुं, (कङ्कते उद्गच्छति इति । ककि गतौ । कक्

+ अच् + इदित्वान्नुम् ।) पक्षिविशेषः । काँक् इति
भाषा । तत्पर्य्यायः । लोहपृष्ठः २ । इत्यमरः २ । ५ ।
१६ ॥ सदंशवदनः ३ खरः ४ रणालङ्करणः ५ क्रूरः ६
आमिषप्रियः ७ । इति राजनिर्घण्टः ॥ अरिष्टः ८
कालपुष्टः ९ किंशारुः १० लोहपृष्टकः ११ । इति
जटाधरः ॥ दीर्घपादः १२ दीर्घपात् १३ । इति
शब्दरत्नावली ॥ (यथा भागवते ३ । १० । २३ ।
“कङ्कगृध्रवटश्येनभासभासकवर्हिणः” ।) यमः ।
छद्मद्विजः । इति मेदिनी ॥ युधिष्ठिरराजः । इति
त्रिकाण्डशेषः ॥ (यथा, महाभारते । ४ । ६ । १४ ।
“शृण्वन्तु मे जानपदाः समागताः
कङ्को यथाहं विषये प्रभुस्तथा” ॥
शाल्मलिद्वीपान्तर्गतपञ्चमवर्षपर्ब्बतः । तद्विव-
रणं विष्णुपुराणे २ अंशे ४ अध्याये द्रष्टव्यम् ।
क्षत्त्रियः । इति शब्दमाला ॥ कंसासुरभ्राता । स
तु उग्रसेनपुत्त्रः । (यथा, भागवते ९ । २४ । २४ ।
“कंसः सुनामा न्यग्रोधः कङ्कः शङ्कुः सुहूस्तथा” ॥)
महाराजचूतः । इति राजनिर्घण्टः ॥

कङ्कटः, पुं, (कं देहं कटति आवृणोतीति । क + कट

+ अच् । अथवा-ककि लौल्ये इति कङ्कते क्षणेन
नाशतां याति अचिरस्थायित्वात् ककि + अटन् ।)
(कवचः । इत्युणादिकोषः ॥ प्रतिसंस्कृतेनामरश्च ॥
(यथा, रघुः । ७ । ५९ । “सर्व्वायुधैः कङ्कटभेदि-
भिश्च” ॥)

कङ्कटकः, पुं, (कङ्कट + स्वार्थे कन् ।) सन्नाहः ।

इत्यमरः । २ । ८ । ६४ । साँजोया इति भाषा ॥

कङ्कणं क्ली, (कं शुभं कणतीति । क + कण शब्दे +

कर्त्तरि अच्-पृषोदरादित्वात् णत्वम् ।) स्वन्यम-
ख्यातहस्ताभरणम् । तत्पर्य्यायः । करभूषणम् २ ॥
इत्यमरः २ । ६ । १०८ ॥ कौशुकम् ३ । इति
शब्दरत्नावली ॥ (यथा, भागवते ६ । १६ । ३० ।
“मृणालगौरं सितिवाससं स्फुरत्
किरीटकेयूरकटित्रकङ्कणम्” ॥)
हस्तसूत्रम् । मण्डनम् । शेखरम् । इति विश्वः ॥

कङ्कणी, स्त्री, (ककि गतौ घञ् कङ्कः तस्मिन् अणति-

अण शब्दे ततः अच् गौरादित्वात् ङीष् । शक-
ग्ध्वादिवत् सन्धिः । यद्वा कं सुखं कणति इति
कण + पचाद्यच् ।) किङ्किणी । क्षुद्रघण्टिका ।
इत्यमरटीकायां भरतः ॥

कङ्कणीका, स्त्री, (चङ्कण्यते पुनः पुनः कणति । कण-

शब्दे अस्माद् यङ्लुगन्तात् “चङ्किणः कङ्कण च” ॥
४ । १८ । उणां इति ईकन् धातोः कङ्कणा-
देशश्च ।) क्षुद्रघण्टिका । इति सिद्धान्तकौमुद्या-
मुणादिवृत्तिः ॥

कङ्कतं, क्ली, (कङ्कते शिरोमलं प्राप्नोतीति । ककि

गतौ + अतच् ।) कङ्कतिका । इत्यमरटीकायां
भरतः ॥ चिरुणी इति ख्यातम् ॥

कङ्कतः, पुं, (कङ्कते भूमिं भित्त्वा उद्गच्छति झटिति

नाशं गच्छति वा । ककि गतौ इति धातोः अतच् ।)
वृक्षः । इत्युणादिकोषः ॥ (केशप्रसाघनी कङ्कती ।
चिरुणीइति भाषा । यथा, अथर्व्ववेदे १४ । २ ।
६८ । “कृत्रिमः कङ्कतः शतदन्य एषः । अपास्याः
केश्यं मलमपशीर्षण्यम् लिखात्” ॥ अल्पविष-
प्राणिविशेषः । यथा, ऋग्वेदे । १ । १९१ । १ ।
“कङ्कतो नकङ्कतोऽथो सतीनकङ्कतः” ॥)

कङ्कतिका, स्त्री, (कङ्कते मूर्द्धजेन सम्बन्धं गर्च्छतीति ।

ककिगतौ बाहुलकादतच् । गौरादित्वात् ङीष्
स्वार्थे कन् केण इति ह्रस्वः । यद्वा कस्य शिरसो-
ऽङ्काः । शकग्ध्वादित्वात् सन्धिः । कङ्केषु अतति
ततः क्वुन् । तत इत्वं टाप् च ।) केशप्रसाधनार्थ-
काष्ठादिनिर्म्मितद्रव्यम् । चिरुणी काँकुइ इत्यादि
भाषा । तत्पर्य्यायः । प्रसाधनी २ । इत्यमरः । २ ।
१९० ॥ कङ्कती ३ कङ्कतम् ४ प्रसाधनम् ५ । इति
तट्टीका । केशमार्जनम् ६ । इति जटाधरः ॥ फली
७ फलिक्त ८ फलिः ९ । इति शब्दरत्नावली ॥
अस्य गुणाः । धूलीजन्तुमलकण्डुशिरोरोगनाशि-
त्वम् । कान्तिकेशवृद्धिकेशप्रसन्नताकारित्वञ्च । इति
राजवल्लभः । नागबला । इति वैद्यकम् ॥

कङ्कती, स्त्री, (कङ्कते शिरोरुहं प्राप्नोति । ककि

गतौ + बाहुलकादतच् गौरादित्वात् ङीष् ।)
कङ्कतिका । इत्यमरटीकायां भरतः ॥

कङ्कत्रोटः, पुं, (कङ्कात् पक्षिविशेषात् आत्मानं

त्राति । कङ्क + त्रा + अटन् पृषोदरादित्वात्
साधुः । यद्वा कङ्कवत् त्रोटयति कङ्क + त्रुट् +
णिच् + कर्त्तर्य्यच् ।) मत्स्यविशेषः । काँकिला
इति भाषा । तत्पर्य्यायः । जलव्यधः २ । इति
त्रिकाण्डशेषः ॥

कङ्कत्रोटिः, पुं, (कङ्कस्य त्रोटिरिव त्रोटिश्चञ्चुर्यस्य ।)

मत्स्यविशेषः । काँकिला इति भाषा । तत्पर्य्यायः ।
जजसूचिः २ । इति जटाधरः ॥
पृष्ठ २/००५

कङ्कपत्रः, पुं, (कङ्कस्य पक्षिविशेषस्य पत्रमेव पत्रं

पक्षो यस्य ।) बाणविशेषः । इति हलायुधः ॥
(यथा रामाथणे ६ । २८ । ४ ।
“विव्यधुर्घोररूपास्ते कङ्कपत्रैरजिह्मगैः” ॥
कङ्कस्य पक्षिविशेषस्य पत्रम् । यथा,
“नखप्रभाभूषितकङ्कपत्त्रे” ॥ रघुः २ । ३१ ॥)

कङ्कमाला, स्त्री, (कङ्कं चापल्यं करचाञ्चल्यं मलते

धारयति । ककि चापल्ये + घञ् । कङ्क + मल
धृतौ । मलधातोः उपपदे कर्म्मण्यण् टाप् च ।)
करतालीवाद्यम् । इति शब्दरत्नावली ॥

कङ्कमुखुः, पुं, (कङ्कस्य मुखमिव मुखंयस्य ।) सन्दंशः ।

इति हेमचन्द्रः ॥ साँडाशि इति भाषा । (क्ली,
नाल्योद्धरणार्थः यन्त्रभेदः । स तु अस्थिविनष्ट-
शल्योद्धरणार्थमुपदिश्यते ॥) अस्य प्रशंसा यथा,
“निर्व्वर्त्तते साध्ववगाहने च
शल्यं प्रगृह्योद्धरते च यस्मात् ।
यन्त्रेष्वतः कङ्कमुखं प्रधानं
स्थानेषु सर्व्वेष्वविकारि चैव” ॥ सुश्रुतो ॥
(त्रि, यथा रामायणे ६ । ७९ । ६९ ॥
“व्याघ्र-सिंहमुखान् बाणान् काककङ्कमुखानपि” ॥)

कङ्करं, क्ली, (कं जलं कीर्य्यतेऽत्र । कं + कॄ आधारे

अप् ।) तक्रम् । इति हेमचन्द्रः ॥

कङ्करः, त्रि, (कं सुखं किरति क्षिपतीति । कं + कॄ +

अच् ।) कुत्सितः । इति हेमचन्द्रः ॥

कङ्करोलः, पुं, (कङ्क इव लोलः लस्य रः ।) निको-

चकष्टक्षः । इति शब्दचन्द्रिका ॥ काँकरोल
इति ख्याता लता च ॥

कङ्कलोड्यं, क्ली, (कङ्क इव लोड्यते आलोड्यते । इति

कङ्क + लोड् + ण्यत् ।) अङ्कलोड्यम् । चटिञ्चिता
चिञ्चोडमूल इति च भाषा । अस्य गुणाः । गुरु-
त्वम् । अजीर्णकारित्वम् । शीतलत्वञ्च । इति
कश्चिद्राजवल्लभः ॥

कङ्कशत्रुः, पुं, (कङ्कस्य शत्रुः । पृश्निपर्ण्यास्तु कङ्क-

नाशकत्वमाहुः अत अस्य तथात्वम् ।) पृश्नि-
पर्णी । इति शब्दचन्द्रिका ॥

कङ्कशायः, पुं, (कङ्क इव शेते । शीङ् + णः ।) कुक्कुरः ।

इति शब्दमाला ॥

कङ्का, स्त्री, (कङ्कते चापल्यं गच्छति या पित्रा-

द्यादरवशात् । ककि + अच् ।) उग्रसेनराजकन्या ।
सा तु वसुदेवानुजपत्नी । (यथा, श्रीमागवते ।
९ । २४ । २५ ।
“कंसा कंसवती कङ्का शूरभू राष्ट्रपालिका ।
उग्रसेनदुहितरो वसुदेवानुजस्त्रियः” ॥)
गोशीर्षचन्दनम् । तद्यथा ।
“गोशीर्षं चन्दनं कृष्णताम्रमुत्पलगन्धिकम् ।
कङ्का” इत्यादि शब्दमाला ॥

कङ्कालः, पुं, (कं सुखं शिरो वा कालयति क्षिप-

तीति कं + कालि + अच् ।) शरीरास्थि । इत्य-
मरः । २ । ६ । ६९ ॥ समुदितशरीरास्थिसंषात-
स्त्वङ्मांसरहितः । इति भरतः ॥ तत्पर्य्यायः ।
करङ्कः २ अस्थिपञ्जरः ३ । इति वैद्यकम् ॥ (यथा,
सुन्दोपसुन्दोपाख्याने २ । २४ । “अस्थिकङ्काल-
सङ्कीर्णा भूर्बभूव” ॥)

कङ्कालमाली, [न्] पुं, (कङ्कालानां माला अस्ति

अस्य व्रीह्यादित्वादिनिः ।) महादेवः । इति शब्द-
रत्नावली ॥

कङ्कुः, पुं, (कङ्कते औद्धत्यं लौल्यं वा प्राप्नोतीति ।

ककि गतौ + उन् ।) उग्रसेनपुत्त्रः । स तु कंसा-
सुरभ्राता । (यथा, श्रीभागवते ९ । २४ । २४ ॥
(“कंसः सुनामा न्यग्रोधः कङ्कः कङ्कुः सुहूस्तथा” ॥)
क्वचित् शङ्कुरितिपाठः ।) कङ्गुतृणम् । इति द्वि-
रूपकोषः ॥

कङ्कुष्ठं, क्ली, (कङ्कुस्तृणविशेषः तस्य समीपे तिष्ठति ।

कङ्कु + स्था + क + षत्वम् ।) पर्ब्बतीयमृत्तिकावि-
शेषः । तत्पर्य्यायः । कालकुष्टम् २ विरङ्गम् ३
रङ्गदायकम् ४ रेचकम् ५ पुलकम् ६ शोधकम् ७
कालपालकम् ८ । तद्द्विधा रजताभं स्वर्णाभञ्च ।
अस्य गुणाः । कटुत्वम् । उष्णत्वम् । कफवातव्रण-
शूलनाशित्वम् । रेचकत्वञ्च । इति राजनिर्घण्टः ॥
अपिच ।
“पीतप्रभं गुरु स्निग्धं श्रेष्ठं कङ्कुष्ठमादिमम् ।
श्यामं पीतं लघु त्यक्तसत्त्वं नेष्टं हि रेणुकम्” ॥
(इदञ्च हिमालयशिखरे जायते । यदुक्तं--
“हिमवत् पादशिखरे कङ्कुष्ठमुपजायते ।
तत्रैकं नालिकाख्यं स्यात्तदन्य द्रेणुकं स्मृतम्” ॥
“कङ्कुष्ठं रेचनं तिक्तं कटूष्णं वर्णकारकम् ।
कृमिशोथोदराध्मानगुल्मानाह कथापहम्” ॥)

कङ्केरुः, पुं, (कङ्कते भक्षणाय लौल्यं गच्छति । ककि

+ एरुः ।) काकविशेषः । तत्पर्य्यायः । द्वारबलि-
भुक् २ । इति त्रिकाण्डशेषः ॥

कङ्केलिः, पुं, (कं सुखं तस्मै केलिः यत्र ।) अशोक-

वृक्षः । इति राजनिर्घण्टः ॥

कङ्केल्लः, पुं, (ककि + एल्लप्रत्ययः ।) वास्तूकम् । इति

शब्दमाला ॥

कङ्केल्लिः, पुं, (कङ्क + बाहुलकात् एलिः पृषोदरादि-

त्वात् लश्च ।) अशोकवृक्षः । इति त्रिकाण्डशेषः ॥

कङ्खं, क्ली, (कं सुखं खलत्यनेन । खल + बाहुलकात्

डः ।) भोगः । इति शब्दमाला ॥ (कं + खं । ब्रह्म ।
यथा छान्द्योगोपनिषदि ४ । १० । ५ ।
“प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति सहोवाच
विजानाम्यहं यत्प्राणो ब्रह्म कञ्चतु खञ्च न विजाना-
मीति ते होचुर्यदेव कं तदेव खं यदेव खं तदेवक-
मिति प्राणश्च हास्मै तदाकाशञ्चोचुः” ॥)

कङ्गुः, स्त्री, (कं सुखं अङ्गति अङ्गयति वा अगि

गतौ + ण्यन्तादस्मात् मृगष्वादित्वात् कुः शक-
न्ध्वादित्वात् अकारस्य लोपश्च ।) पीततण्डुला ।
काङ्गनि इति भाषा । तत्पर्य्यायः । प्रियङ्गुः २ ।
इत्यमरः ॥ २ । ९ । २० । कङ्गूः ३ प्रियङ्गः ४ ।
इति तट्टीका ॥ (तथाचोक्तम् ।
“स्त्रियां कङ्गुप्रियङ्गू द्वे कृष्णरक्तसितास्तथा ।
पीता चतुर्व्विधा कङ्गुस्तासां पीतां वरा स्मृता” ॥)

कङ्गुका, स्त्री, (कं सुखं अङ्गयति प्रापयति ज्ञापयति

वा । अगि गतौ ण्यन्तान् मृगय्वादित्वात् कुः
इदित्वात् नुम् शकन्ध्वादित्वात् अलोपे सन्धिः ।
स्वार्थे कन् ततष्टाप् ।) कङ्गुः । अस्य गुणाः ।
धातुशोषणत्वम् । पित्तश्लेष्मनाशित्वम् । रूक्षत्वम् ।
वायुवर्द्धकत्वम् । पुष्टिकारित्वम् । गुरुत्वम् । भग्न-
सन्धानकारित्वञ्च । इति राजवल्लभः ॥

कङ्गुनी, स्त्री, (कंग्वा नीयते कङ्गुशब्देन ज्ञायते

इत्यर्थः । कङ्ग + नी + बाहुलकात् कर्म्मणि डः ।
गौरादित्वात् ङीष् ।) धान्यविशेषः । काड्गनि
इति भाषा । तत्पर्य्यायः । प्रियङ्गुः २ कङ्गुः ३
चीनकः ४ पीततण्डुलः ५ अत्यन्तसुकुमारः ६ ।
अस्या गुणाः । मधुरत्वम् । रुचिकारित्वम् ।
कषायत्वम् । स्वादुत्वम् । शीतलत्वम् । वातकारि-
त्वम् । पित्तदाहनाशित्वम् । रूक्षत्वम् । भग्नास्थि-
बन्धकारित्वञ्च । इति राजनिर्घण्टः ॥

कङ्गुनीपत्रा, स्त्री, (कङ्गुन्याः पत्रमिव पत्रमस्याः ।)

पण्यान्धातृणम् । इति राजनिर्घण्टः ॥

कङ्गुलः, पुं, (कङ्गु लाति गृह्णाति अनेन कङ्गु + ला +

बाहुलकात् घञर्थे करणे कः ।) पाणिः । इति
शब्दचन्द्रिका ॥

कच रवे । इति कविकल्पद्रुमः ॥ (भ्वां--परं--अकं--

सेट् ।) कचति । रवः शब्दः । इति दुर्गादासः ॥

कच इ बन्धे । त्विषि । इति कविकल्पद्रुमः ॥ (भ्वां--

परं बन्धे सकं दीप्तौ अकं--इदित्--सेट् ।) इ
कञ्चति । इति दुर्गादासः ॥

कच ङ बन्धे । त्विषि । इति कविकल्पद्रुमः ॥ (भ्वां--

आत्मं बन्धे सकं दीप्तौ अकं--सेट् ।) ङ कञ्चते
कचते । त्विट् दीप्तिः । इति दुर्गादासः ॥

कचः, पुं, (कचते शोभते शिरसीति । कच् + पचा-

द्यच् । कच्यते बध्यते इति कच बन्धे + कर्म्मणि
अप् वा ।) केशः । इत्यमरः ॥ २ । ६ । ९५ ॥ (यथा,
महाभारते १ । १२८ । १९ ॥)
“कचेषु च निगृह्यैतान् निविहत्य बलाद्बली ।
चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोंसकान्” ॥)
वृहस्पतिपुत्त्रः । (कचते दीप्यते तपस्तेजसेति
कच् + दीप्तौ + पचाद्यच् । पुरा किल सुरासुर-
संग्रामे असुराणां यानेव देवा निजघ्नस्तांश्चासुर-
गुरुरुशनाः सञ्जीवनीविद्यया पुनर्जीवयामास ।
सुरगुरुर्वृहस्पतिः पुनस्तद्विद्यानभिज्ञतया सुरान्
रणनिहतान् जीवयितुं न शशाक । तद्दर्शनभीता
देवा गुरुपुत्रं कचमुपागम्य अर्थ्यामिर्वाग्मिः
सन्तोष्य तं सञ्जीवनीलाभाय शुक्रसकाशं प्रेरया-
मासुः । कचो ऽपि सुरकार्य्यसिद्धये गुरुत्वेनाङ्गी
कृत्य नितरां भक्त्या परिचर्य्यया च काव्यं परितो-
षयन् ब्रह्मचर्य्यमालम्ब्याधीतवान् । क्रूरप्रकृतयो
दैत्याः खलु कचाभिसन्धिं विज्ञाय तं वारद्वयं
निहत्यापि यदा पूर्णकामा नासन् तदा भूयोऽपि
तन्मांसादिकं लवशः कृत्वा शुक्रमेव सुरयासह
भोजयामासुः शुक्रस्तु स्वदुहितुर्देवयान्याः सस्नेह-
निर्ब्बन्धांतिशयेन स्वोदरगतं कचं सञ्जीवनीविद्यां
प्रदायाजीवयत् । ततः प्राप्तजीवः कृतार्थश्च कचो-
ऽतीवहृष्टचित्तया देवयान्या पतित्वेन अनुरुद्धो-
ऽपि सम्बन्धानुरोधात् नैव स्वीचकार । सुतरां
क्रोधपरतन्त्रया तया निष्फलविद्यो भवेत्यभि-
पृष्ठ २/००६
:शप्तस्तेनापि त्वमपि क्षत्त्रियभार्य्या भविष्यसीति
शप्ता देवयानी ॥ एतद्विवरणं सविस्तरं महाभार-
तीयसम्भवपर्ब्बणि १ । ७६ अध्याये दर्शनीयम् ॥)
बन्धः । शुष्कव्रणः । इति मेदिनी ॥ मेघः । इति
शब्दमाला ॥

कचङ्गनं, क्ली, (कचस्य जनकोलाहलरवस्य अङ्गनम् ।

शकन्ध्वादित्वात् सन्धिः ।) विक्रयस्थानम् । तत्प-
र्य्यायः । निर्म्मुटः २ पण्याजिरम् ३ । इति त्रि-
काण्डशेषः ॥

कचङ्गलः, पुं, (कच्यते रुध्यते वेलया अथवा कचते

आत्मानं वेलाभूमिं न लङ्घयतीति यावत् बाहुल-
कात् अङ्गलच् ।) समुद्रः । इति त्रिकाण्डशेषः ॥

कचपं, क्ली, (कचते शोमते । “उषिकटिदलिकचि-

खजिभ्यः कपन्” इति उणां । ३ । १४२ । कच +
कपन् ।) तृणम् । शाकपत्रम् । इत्युणादिकोषः ॥

कचपक्षः, पुं, (कचानां केशानां पक्षः समूहः ।)

केशसमूहः । इत्यमरः ॥ २ । ६ । ९८ ॥

कचपाशः, पुं, (कचानां केशानां पाशः । समूहः ।)

केशसमूहः । इत्यमरः ॥ २ । ६ । ९८ ॥

कचमालः, पुं, (कचं कचवत् वर्णं मलते धारयतीति ।

कच + मल् + कर्म्मण्यण् ।) धूमः । इति हारा-
वली ॥ खतमाल इति च पाठः ॥

कचरिपुफला, स्त्री, (कचस्य रिपुः फलमस्याः ।)

शमीवृक्षः । इति राजनिर्घण्टः ॥

कचहस्तः, पुं, (कचानां हस्तः समूहः ।) केशसमूहः ।

इत्यमरः ॥ २ । ६ । ९८ ॥

कचा, स्त्री, (कच्यते रुध्यते लौहशृङ्खलादिभिरिति

यद्वा कचते शोभते राजगृहे इति ।) कच +
अच् + टाप् ।) हस्तिनी इति मेदिनी ॥ शोभा ।
इति शब्दरत्नावली ॥

कचाकु, त्रि, (कच इव अकति वक्रं गच्छति । अक

+ उन् ।) दुराधर्षम् । दुःशीलम् । इति मेदिनी ॥

कचाकुः, पुं, (कच इव कचनिर्म्मितवेणीवत् अकति

कौटिल्यं यथा तथा गच्छतीति अक + उन् ।)
सर्पः । इति मेदिनी ॥

कचाटुरः, पुं, (कचवदटति मेघवत् शून्ये विहर

तीति । कच + अट् + उरच् ।) पक्षिविशेषः ।
डाक् इति भाषा । तत्पर्य्यायः । शितिकण्ठः २
दात्यूहः ३ काकमद्गुः ४ । इति त्रिकाण्डशेषः ॥

कचामोदं, क्ली, (कचं आमोदयतीति-आ-मुद्-णिच्-

अच् ।) बालकम् । इति राजनिर्घण्टः ॥ बाला
इति भाषा ।

कचुः, स्त्री, (कचते शोभते । कच् + उन् ।) कच्ची ।

स्वनामख्यातगुल्मः । इति पुराणम् ॥ मूलशाक-
विशेषः । यथा, --
“कदली दाडिमी धान्यं हरिद्रा माणकं कचुः ।
विल्वोऽशोको जयन्ती च विज्ञेया नवपत्रिका” ॥
इति तिथ्यादितत्त्वे दुर्गोत्सवतत्त्वम् ॥

कच्चटं, क्ली, (कु कुत्सितं चटतीति । चट् + अच् ।

बाहुलकात् कोः कत् । कुत्सितम् ।) जलपिप्पली ।
इति वैद्यकम् ॥

कच्चरं, त्रि, (कु कुत्सितं चरतीति । कु + चर +

अच् कोः कदादेशः । अथवा चरेष्टः ।) मलिनम् ।
इत्यमरः ॥ ३ । १ । ५५ । कुत्सितम् । इति मेदिनी ॥

कच्चरं, क्ली, (कु कुत्सितं चर्य्यते आचर्य्यते यत् यद्वा

केन जलेन चर्य्यते व्यवह्रियते यत् पृषोदरादि-
त्वात् चकारस्य द्वित्वम् ।) तक्रं । इति मेदिनी ॥

कच्चित्, व्य, (कच्च चिच्च अनयोः समाहारः । कोः

कदादेशः । अथबा काम्यते इति कद् चीयते
निश्चीयते यस्मात् । कम + विच् । चि + क्विप्
ततः पृषोदरादित्वात् मस्य दकारत्वम् ।) काम-
प्रवेदनम् । इष्टपरिप्रश्नः । इत्यमरः । ३ । ४ । १ ।
यथा, “कच्चित् जीवति मे तातः” ॥ (तथा, रघुः ।
५ । ५ । “आपद्यते न व्ययमन्तरायैः
कच्चिन्महर्षे स्त्रिविधं तपस्तत्” ॥)

कच्छः, पुं, (केन जलेन छृणाति दीप्यते छाद्यते वा,

उच्छृदिर दीप्तिदेवनयोः छृद् वा अन्येष्वपि इति
डः । कं जलं क्व्यति परिछिनत्ति इति वा, छो
छेदने + आतोऽनुपेति कः” । ३ । २ । ३ । इति कः ।)
अनूपप्रायस्थानम् । इत्यमरः । २ । १ । १० । काछाड्
इति भाषा । (यथा, किराते १२ । ५४ ।
“कच्छान्ते सुरसरितो निधाय सेना-
मन्वीतः स कतिपयैः किरातवर्य्यैः” ॥)
सिन्धूनां सरसाञ्च प्रान्तभागः । इति मधुः ॥
जलाशयप्रान्तदेशः । इति रमानाथः । नदी-
पर्ब्बतादिसमीपम् । इति साञ्जः ॥ (यथा महा-
भारते । १ सम्भवपर्ब्बणि शाकुन्तले ७० । १६ ।
“नदीकच्छोद्भवं कान्तमुच्छ्रितध्वजसन्निभम्” ॥)
तुन्नवृक्षः । इत्यमरः । २ । ४ । १२८ तुँद् इति भाषा ।
परिधानाञ्चलम् । इत्यमरमेदिनोकरौ ॥ काछा
कोँचा कँड्सी इतिभाषा । शेषस्य पर्य्यायः ।
कक्षाः २ कच्छा ३ कच्छोटिका ४ । इति हेम-
चन्द्रः ॥ कच्छटिका ५ कच्छाटिका ६ । इति
शब्दरत्नावली ॥ नौकाङ्गम् । इति हेमचन्द्रः ॥
(देशविशेषः । यथोक्तञ्च ।
“गणेश्वरात् पूर्ब्बभागे समुद्रादुत्तरे शिंवे ।
कच्छदेशः समाख्यातस्तन्त्रे श्रीशक्तिसङ्गमे” ॥)

कच्छः, त्रि, (केन जलेन छृणाति दीप्यते इति ।

छृद् + बाहुलकात् डः ।) जलप्रान्तः । इति नानार्थे
अमरः ॥

कच्छटिका, स्त्री, (कच्छं कच्छस्थलं अटति प्राप्नोति

शकग्ध्वादित्वात् अलोपे सन्धिः । अट् अच् संज्ञायां
कन् अत इत्वं च । यद्वा कच्छेन पश्चाद्भागस्थवस्त्रा-
ञ्चलविशेषेण अट्यते प्राप्यते ज्ञायते वा अट्
कर्म्मणि अप् । ततः कन् इत्वं च ।) कच्छः । इति
शब्दरत्नावली । काछा इति भाषा ॥

कच्छपः, पुं, (कच्छं आत्मनो मुखसम्पुटं पाति स हि

किञ्चिद्दृष्ट्वा शरीरे एव मुखसम्पुटं प्रवेशयति
सम्पुटे हि कच्छशब्दः प्रसिद्धः । यद्वा कच्छे अनूप-
देशे पाति आत्मानं रक्षतीति । कच्छ + पा +
कर्त्तरि डः ।) स्वनामख्यातजलजन्तुः । काछिम् इति
भाषा । तत्पर्य्यायः । कूर्म्मः २ कमठः ३ । इत्यमरः ॥
१ । १० । २१ । गूढाङ्गः ४ धरणीधरः ५ कच्छेष्टः ६
पल्वलावासः ७ कठिनपृष्ठकः ८ । पञ्चसुप्तः ९
क्रोडाङ्गः १० । इति शब्दरत्नावली ॥ पञ्चनखः ११
गुह्यः १२ पीवरः १३ जलगुल्मः १४ । इति
जटाधरः । अस्य मांसगुणाः ।
वातहरत्वम् । शुक्रवृद्धिकारित्वम् । चक्षुर्हित-
त्वम् । बलवर्द्धनत्वम् । मेधास्मृतिकारित्वम् ।
पथ्यत्वम् । शोथदोषनाशित्वञ्च । तस्य चर्म्म पित्त-
नाशकम् । पादः कफहारकः । अण्डं स्वादु वाजी-
करञ्च ॥ (अवतारविशेषः । यथाभागवते ८ । ७ । १० ।
“सुरासुरेन्द्रैर्भुजवीर्य्यवेपितं
परिभ्रमन्तं गिरिमङ्गपृष्ठतः ।
बिभ्रत्तदावर्त्तनमादिकच्छपो
मेनेऽङ्गकण्डूयनमप्रमेयः” ॥)
नन्दीवृक्षः । इति राजनिर्घण्टः । कुवेरस्य निधि-
विशेषः । मल्लस्य बन्धविशेषः । इति मेदिनी ॥
मदिरायन्त्रविशेषः । इति शब्दचन्द्रिका ॥ (ऋषि-
विशेषः स तु विश्वामित्रपुत्त्रः ॥ यथा हरिवंशे
२७ । ४७--५० ॥
“विश्वामित्रस्य पुत्त्रास्तु देवराजादयः स्मृताः ।
विख्यातास्त्रिषु लोकेषु तेषां नामानि मे शृणु ॥
देवश्रवाः कतिश्चैव यस्मात् कात्यायनाः स्मृताः ।
शालावत्यां हिरण्याक्षो जज्ञे रेणौ तु रेणुमान् ॥
साङ्कतिर्गालवश्चैव मुद्गलश्चेति विश्रुताः ।
मधुच्छन्दादयश्चैव देवलश्च तथाष्टकः ॥
कच्छपः पूरितश्चैव विश्वामित्रस्य वै सुताः ।
तेषां ख्यातानि गोत्राणिकौशिकानां महात्मनां” ॥
नागविशेषः । यथा महाभारते १ । १२३ । ६८ ।
“कर्क्कोटकोऽथ सर्पश्च वासुकिश्च मुजङ्गमः ।
कच्छपश्चाथ कुण्डश्च तक्षकश्च महोरगः” ॥)

कच्छपिका, स्त्री, (कच्छेन पातीति कच्छ + पा +

डः + स्वार्थे कन् । अत इत्वं टाप् च । कफ-
वाताभ्यां जातानि कच्छप इव पञ्च षट् वा दारु-
णानि उन्नतानि यस्यां संज्ञायां कन् टापि इत्वं
च ।) क्षुद्ररोगविशेषः । तस्य लक्षणम् !
“ग्रथिता पञ्च वा षड्वा दारुणाः कच्छपोन्नताः ।
कफानिलाभ्यां पिडका ज्ञेयाः कच्छपिका बुधैः” ॥
प्रमेहोपेक्षया जातदशपिडकान्तर्गतपिडकावि-
शेषः । तस्य लक्षणम् ।
“सदाहा कूर्म्मसंस्थाना ज्ञेया कच्छपिका बुधैः” ।
इति सुश्रुतः ॥
(“अवगाढार्त्तिनिस्तोदा महावास्तुपरिग्रहा ।
श्लक्ष्णा कच्छपपृष्ठाभा पिडका कच्छपी मता” ॥
इति चरकः ॥ चिकित्सा तु कच्छपीशब्दे द्रष्टव्याः ॥)

कच्छपी, स्त्री, (कच्छं कच्छेन वा पाति । पा + सुपीति

कः । ३ । २ । ४ । अथवा कच्छेन पिबति । अत्र
तु गापोष्टक् न पिबतेः सुराशीध्योरिति वचनात्
जातेरिति ङीष् । ४ । १ । ६३ ।) कूर्म्मी । तत्-
पर्य्यायः । डुलिः २ दुलिः ३ कमठी ४ । वीणा-
विशेषः । सा तु सरस्वतीवीणा । इत्यमरः ॥
३ । ३ । १३१ । क्षुद्ररोगविशेषः । इति मेदिनी ।
कच्छपिकारोगः । तच्चिकित्सा यथा,
“कच्छपीं स्वेदयेत् पूर्ब्बं तत एमिः प्रलेपयेत् ।
कल्कीकृतैर्निशाकुष्ठसितातालकदारुमिः ॥
पृष्ठ २/००७
:तां पक्वां साधयेच्छीघ्रं भिषगव्रणचिकित्सया” ॥
इति भावप्रकाशः ॥

कच्छरुहा, स्त्री, (कच्छे रोहति या । कच्छ + रुह् +

इगुपधेति कः । ३ । १ । १३५ । स्त्रियां टाप् च ।)
दूर्व्वा । इति जटाधरः ॥

कच्छां, स्त्री, (कचं पश्चात्प्रदेशं छादयतीति । छद् +

णिच् + डः पृषोदरादित्वात् ह्रस्वः । टाप् च ।
कचश्छाद्यतेऽनया वा ।) परिधानापराञ्चलम् ।
इति हेमचन्द्रः ॥ चीरिका । झिँझी पोका इति
भाषा । वाराही । इति मेदिनी ॥

कच्छाटिका, स्त्री, (कच्छ एव बाहुलकात् अटन्

ततः स्वार्थे कन् टाप् च ।) कच्छटिका । इति
शब्दरत्नावली ॥

कच्छुः, स्त्री, (कर्षति देहं । कष हिंसायां + “कषच्छ-

श्चेति” १ । ८६ । उणां ऊ छान्तादेशश्च ।) पृषोदरा-
दित्वात् वा ह्रस्वः । रोगविशेषः । तस्य लक्षणम् ।
“सूक्ष्मा बह्व्यः पिडकाः स्राववत्यः
पामेत्युक्ता कण्डूमत्यः सदाहाः ।
सैव स्फोटैस्तीव्रदाहैरुपेता
ज्ञेया पाण्योः कच्छुरुग्रास्फिचोश्च” ॥
इति निदानम् ॥ तच्चिकित्सा यथा ।
“अर्कपत्ररसे पक्वं हरिद्राकल्कसंयुतम् ।
नाशयेत् सार्षपं तैलं पामाकच्छुविचर्च्चिकाम्” ॥
इति अर्कतैलम् ॥ १ ॥
“मनःशिलालं कासीसं गन्धाश्मा सिन्धुजन्म च ।
स्वर्णक्षीरी शिलाभेदी शुण्ठी कुष्ठञ्च मागधी ॥
लाङ्गलीरवींरश्च दद्रुघ्नः कृमिहानलः ।
दन्ती निम्बदलञ्चैभिः पृथक् कर्षमितैर्भिषक् ॥
कल्कीकृतैः पचेत्तैलं कटुप्रस्थद्वयोन्मितम् ।
अर्कसीहुण्डदुग्धेन पृथक् पलमितेन च ॥
गोमूत्रस्याढकेनापि शनैर्मृद्वग्निना पचेत् ।
अभ्यङ्गेन हरेदेतत् कच्छुदुःसाध्यतामपि ॥
पामानञ्च तथा कण्डूं त्वग्व्याधिवधिरामयान् ।
कच्छुराक्षसनामेदं तैलं हारीतभाषितम्” ॥
कच्छुराक्षसनाम तैलम् ॥ २ ॥ इति भावप्रकाशः ॥
(“अवल्गुजं कासमर्दं चक्रमर्दं निशायुतम् ।
माणिमन्थेन तुल्यांशं मस्तुकाञ्जिकपेषितम् ।
कच्छुं कण्डूं जयन्त्युग्रां सिद्धत्रयप्रयोगराट् ॥
कोमलं सिंहास्यदलं सनिशं सुरभिजलेन पिष्टम् ।
दिवसत्रयेण नियतं क्षपयति कच्छुं विलेपनतः ।
हरिद्राकल्कसंयुक्तं गोमूत्रस्य पलद्वयम् ।
पिबेन्नरः कामचारी कच्छुपामाविनाशनम् ॥
शोथपाण्ड्वामयहरी गुल्ममेहकफापहा ।
कच्छुपामाहरी चैव पथ्या गोमूत्रसाधिता ॥ * ॥
स्वरसेऽपि च दूर्व्वायाः पचेत्तैलं चतुर्गुणम् ।
कच्छुर्विचर्चिका-पामा अभ्यङ्गादेव नाशयेत्” ॥
इति दूर्व्वाद्यं तैलम् ॥ * ॥
“सोमराजी हरिद्रे द्वे सर्षपारग्वधं गदम् ।
करञ्जवीजैडगजं गर्भं दत्त्वा विपाचयेत् ॥
तैलं सर्षपसम्भूतं नाडीदुष्टव्रणापहम् ।
अनेनाशु प्रणश्यन्ति कुष्ठान्यष्टादशैव तु ॥
नीलिकापि पुरोव्यङ्गगम्भीरं वातशोणितम् ।
कण्डूकच्छप्रशमनं कच्छुपामा विनाशनम्” ॥
इति सोमराजीतैलम् ॥ * ॥
इति चक्रपाणिकृतसंग्रहः ॥)

कच्छुघ्नी, स्त्री, (कच्छुं हन्ति या । कछु + हन् + टक् +

ङीप् ।) पटोलः । हपुषाभेदः । इति राजनिर्घण्टः ॥

कच्छुरः, त्रि, (कच्छरस्त्यस्य । “कच्छ्वा ह्रस्वत्व-

ञ्चेति” रः । ह्रस्वश्च । पां । ५ । २ । १०७ । वार्त्तिके ।)
कच्छुरोगयुक्तः । खोसरोगी इति भाषा । तत्-
पर्य्यायः । पामनः २ । इत्यमरः ॥ २ । ६ । ५८
पुंश्चलः । इति मेदिनी ॥

कच्छुरा, स्त्रो, (कच्छुं कण्डूरोगं राति ददातीति ।

आत इति कः । टाप् च । पृषोदरादित्वात् ह्रस्वः
पूर्ब्बस्य । यद्वा कच्छूः साध्यत्वेनास्ति अस्यां ह्रस्व-
श्चेति केषाञ्चिन्मतम् ।) शूकशिम्बी । शटी । दुरा-
लभा । इति मेदिनी ॥ यवासः । इति राज-
निर्घण्टः ॥ ग्राहिणीवृक्षः । इति रत्नमाला ॥ क्षी
रुइ इति भाषा ॥

कच्छूः, स्त्री, (कषति हिनस्ति देहं “कषेश्छश्च” ।

इति ऊः । १ । ८६ । उणां ।) रोगविशेषः । खोस्
पाँच्डा इति भाषा । तत्पर्य्यायः । पाम २ पामा ३
विचर्च्चिका ४ । इत्यमरः ॥ २ । ६ । ५६ ॥

कच्छूमती, स्त्री, (कच्छूःसाधनत्वेनास्त्यस्यां अस्त्यर्थेमतुप्

ततो ङीप् ।) शूकशिम्बी । इति शब्दचन्द्रिका ॥

कच्छोटिका, स्त्री, (कच्छ + अटन् वा कन् । अत

इत्वं टाप् च । पृषोदरादित्वात् ओकारादेशः ।)
कच्छः । इति हेमचन्द्रः । काछा इति भाषा ॥

कच्छोरं, क्ली, (केन शिरसा शरीरेण वा छुर्य्यते

लिप्यते इति । क + छुर लेपे + कर्म्मणि घञ् ।)
शटी । इति रत्नमाला ॥

कञ्ची, स्त्री, (कचते दीप्यते शोभते । कच् उन् । ततः

कचुशब्दात् ङीप् ।) कन्दविशेषः । कचु इति
ख्याता । तत्पर्य्यायः । वितण्डा २ । इति जटा-
धरः ॥ अस्या गुणाः । भेदकत्वम् । गुरुत्वम् ।
कटुत्वम् । आमवायुपित्तकारित्वम् । पिच्छिल-
त्वञ्च । इति राजवल्लभः ॥
(“कञ्ची सरा गुरुः सामवातकृत् कटुपित्तला” ॥
इति वैद्यकद्रव्यगुणे ॥) कच्चु इति हिन्दीभाषा ॥
“महिषासुरयुद्धेषु कच्चीरूपासि सुव्रते ।
मम विघ्नविनाशाय पूजां गृह्ण प्रसीद मे” ॥
इति शारदीयदुर्गार्च्चापद्धतिः ॥

कज, इ रुहे । जन्मनि । सौत्रधातुरयम् । इति

कविकल्पद्रुमः ॥ इ कञ्जारः । रुहो जन्म । कृद्धोः
कभावे इति भावे कः । इति दुर्गादासः ॥

कजं, क्ली, (के जले जायते जातं वा । जन + कर्त्तरि +

डः ।) कमलम् । इति राजनिर्घण्टः ॥

कज्जलं, क्ली, (कु कुत्सितं जलं यस्मात् शुभ्रमपि

जलं संयोगात् स्ववर्णत्वं नयतीति यावत् यद्वा
कुत्सितं ऊर्द्ध्वगं चक्षुषोर्जलं दूरीभूतं भवत्यस्मात् ।
कोः कदादेशः ।) अञ्जनम् । इति हेमचन्द्रः ॥
काजल इति भाषा । तत्पर्य्यायः । लोचकः २ ।
इति त्रिकाण्डशेषः ॥
(“ततः साकारयद्भूरि चेटीभिः कुण्डकस्थितम् ।
कस्तूरिकादिसंयुक्तं कज्जलं तैलमिश्रितम्” ॥
इति कथासरित्सागरे । ४ । ४७ ॥ तथा, भाग-
वते ६ । २ । २७ ।
“धिङ्मां विगर्हितं सद्भिर्दुष्कृतं कुलकज्जलम्” ॥)

कज्जलः, पुं, (कत् कुत्सितं यथा तथा जालयति

आच्छादयति आतपादिकं । यद्वा कुत्सितमपि
लतागुल्मादिकञ्चेति यावत् जालयति जीवयति
वर्षणेनेतिशेषः । कु + जल् + णिच् अच् ततो
ह्रस्वः ।) मेघः । इति शब्दमाला ॥

कज्जलध्वजः, पुं, (कज्जलं ध्वज इव यस्य ।) दीपः ।

इति त्रिकाण्डशेषः ॥

कज्जलरोचकः, पुं, क्ली, (कज्जलं रोचयति । दीपेनो-

द्भासयति । कज्जल + रुच् + णिच् ततोऽच् स्वार्थे
कन् । ण्वुल् वा ।) दीपाधारः । पिलसुज्
देरको इत्यादि भाषा । तत्पर्य्योयः । कौमुदीवृक्षः २
दीपवृक्षः ३ शिखातरुः ४ दीपध्वजः ५ । इति
जटाधरः ॥ ज्योत्स्नावृक्षः ६ । इति त्रिकाण्डशेषः ॥

कज्जली, स्त्री, (कु कुत्सितं जलति जीवतीति । जल +

टक् ङीप् च कोः कत् । यद्वा कुत्सितं रोगयुक्तम्
जालयति आरोग्यं नयति । जल + णिच् + अच्
गौरादित्वात् ङीष् ह्रस्वश्च । यद्वा कज्जलमिवाच-
रतीति कद् + जल् + क्विप् + अच् ङीष् च ।)
मत्स्यविशेषः । तत्पर्य्यायः । कज्जला २ अनन्ता ३
इति शब्दरत्नावली ॥ मिश्रितरसगन्धकम् । (यथा
“गन्धकेन रसं प्राज्ञः सुदृढं मर्द्दयेद्भिषक् ।
कज्जलाभो यथा सूतो विहाय घनचापलम् ॥
दृश्यतेऽसौ तदा ज्ञेयो मूर्च्छितो रसकोविदैः ।
असौ रोगचयं हन्यादनुपानस्य योगतः” ॥
इति वैद्यकरसेन्द्रसारसंग्रहः ॥)

कज्वलं क्ली, (कं ऊर्द्ध्वगतं चक्षुषोर्जलं चक्षुरोगविशेषं

ज्वालयति शोषयति नाशयतीति यावत् । ज्वल्
+ णिच् + अच् ह्रस्वश्च ।) कज्जलम् । इति त्रि-
काण्डशेषः ॥

कञ्चटं, क्ली, (कञ्चते दीप्यते लतादामादिभिः शोभते

इति भावः । कचि + अटच् ।) जलजशाकविशेषः ।
काँचडादाम इति भाषा । तत्पर्य्यायः । जलभूः २
लाङ्गली ३ । इति शब्दचन्द्रिका ॥ शारदी ४
तोयपिप्पली ५ शकुलादनी ६ । इति रत्नमाला
जलतण्डुलीयम् ७ । इति भावप्रकाशः ॥ तस्य गुणाः ।
श्लेष्मकारित्वम् । धारकत्वम् । हिमत्वम् । पित्तरक्त-
नाशित्वम् । लघुत्वञ्च । इति राजवल्लभः ॥ अपि च ।
तिक्तत्वम् । वायुहरत्वञ्च । इति भावप्रकाशः ॥

कञ्चडः, पुं, (कञ्चते वघ्नाति मध्यगतं मनुष्यादि-

जीवम् । कचि धातोरडन् बाहुलकात् इदित्वान्नुम् ।
कञ्चते शोभते वा ।) कञ्चटप्रभेदः । तत्पर्य्यायः ।
कञ्चटः २ काचः ३ चक्रमर्द्दः ४ अम्बपः ५ । इति
शब्दचन्द्रिका ॥

कञ्चारः, पुं, (कचेर्भावे घञ् कञ्चं प्रकाशं तं ऋच्छति

प्राप्नोतीति ऋ + कर्म्मण्यण् । अथवा कं पृथ्वीं चा-
रयति चालयति यद्वा कं जलं चारयति निज-
रश्मिभिरितिशेषः । कचि + णिच् अच् । कर्म्मणि
उपपदे अण् वा ।) सूर्य्यः । इति जटाधरः ॥
पृष्ठ २/००८

कञ्चिका, स्ती, (कञ्चते वेणौ प्रकाशते । कचि + ण्वुल्

स्त्रियां टाप् इत्वञ्च ।) वेणुशाखा । कञ्ची इति
भाषा । तत्पर्य्यायः । कुञ्चिका २ धृष्णुः ३ । इति
शब्दचन्द्रिका ॥ क्षुद्रस्फोटः । इति वैद्यकम् ॥

कञ्चुकः, पुं, (कञ्चते आपुच्छात् सफणमुखपर्य्यन्तं

अभितो दीप्यते प्रकाशते शोभते वा कञ्चते
आवृणोति शत्रुनिक्षिप्तास्त्रादिनिवारणाय । कचि
+ बाहुलकादुकन् ।) सर्पत्वक् । सापेर खोलोस
इति भाषा । तत्पर्य्यायः । निर्म्मोकः २ ।
(यथा पञ्चतन्त्रे । १ । ६९ ।
“भोगिनः कञ्चुकाविष्टाः कुटिला क्रूरचेष्टिताः ।
सुदुष्टा मन्त्रसाध्याश्च राजानः पन्नगा इव” ॥)
भटादेश्चोलाकृतिसन्नाहः । साँजोया इति भाषा ।
तत्पर्य्यायः । वारबाणः २ वाणवारः ३ । इत्य-
मरभरतौ ॥ (तथा हि रामायणे ६ । ९९ । २३ ।
“कञ्चुकोष्णीषिणस्तत्र वेत्रकर्कशपाणयः ।
उत्सारयन्तः सहसा समन्तात्परिचक्रमुः” ॥)
चोलकम् । काँचलि इति भाषा । तत्पर्य्यायः ।
चोलः २ कञ्चुलिका ३ कूर्पासकः ४ अङ्गिका ५ ।
वर्द्धापकगृहीताङ्गस्थितवस्त्रम् । इति हेमचन्द्रः ॥
(यथाऽमरुशतके ८१ ।
“सख्यः किं करवाणि यान्ति
शतधा यत् कञ्चुके सन्धयः” ॥)
वस्त्रम् । इत्युणादिकोषः ॥ (यथा भागवते ८ । ७१५ ।
“देवांश्च तच्छ्वासशिखाहतप्रभान्
धूम्राम्बरस्नग्वरकञ्चुकाननान्” ॥)

कञ्चुकालुः, पुं, (कञ्चुकोऽस्त्यस्य । कञ्चुक + आलुच् ।)

सर्पः । इति शब्दचन्द्रिका ॥

कञ्चुकी, [न्] पुं, (कञ्चुकोऽस्यास्तीति । कञ्चुक + अस्त्यर्थे

इनिः ।) महल्लरक्षकः । अन्तःपुराध्यक्षः । स तु
वहिःसञ्चरन्तीनां पुरस्त्रीणां प्रेक्षकपुरुषान्तर-
वारणाय राज्ञा स्त्र्यागारे यो वेत्रधरो नियुक्तः ।
तत्पर्य्यायः । सौविदल्लः २ स्थापत्यः ३ सौविदः ४ ।
इत्यमरः ॥ २ । ८ । ८ ॥ (यथा रत्नावलीनाटिकायां
२ अङ्के ।
“नष्टं वर्षवरैर्मनुष्यगणनाभावादपास्य त्रपा-
मन्तःकञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः” ॥
अस्य लक्षणमुक्तं भरतेन ।
“अन्तःपुरचरो वृद्धो विप्रो गुणगणान्वितः ।
सर्व्वकार्य्यार्थकुशलः कञ्चुकीत्यभिधोयते” ॥)
यवः । चणकः । सर्पः । इति राजनिर्घण्टः ॥ षिङ्गः ।
जोङ्गकद्रुमः । इति मेदिनी ॥

कञ्चुकी, स्त्री, (कञ्चयति शरीरकान्त्यादिकं प्रका-

शयति रोगादिकमुपशमयति वा । कञ्च णिच्
बाहुलकादुकन् गौरादित्वात् ङीष् जातिवाच-
कत्वात् ङीप् वा ।) औषधिभेदः । इति मेदिनी ॥
क्षीरीशवृक्षः । इति रत्नमाला ॥

कञ्चुलिका, स्त्री, (कञ्चते हृदयाद्यङ्गान्यावृणोतीति ।

कचि + उलच् + स्वार्थे कन् गौरादित्वात् ङीष्
ह्रस्वः । टाप् च ।) कञ्चकः । स्त्रीणामङ्गरक्षिणी ।
इति हेमचन्द्रः ॥ काँचुलि इति भाषा ॥
(यथा अमरुशतके । २३ । “त्वं मुग्धाक्षि विनैव-
कञ्चुलिकया धत्से मनोहारिणीम् ।)

कञ्जं, क्ली, (कम् क्षीरोदधौ जायते सागरस्यापि

जलमयत्वात् तद्वति इति सूच्यते । कम् जले
जातम् । जनेः कर्त्तरि डः ।) अमृतम् । पद्मम् ।
इति मेदिनी ॥ (यथा, भागवते । ८ । ६ । ३ ।
“विरिञ्चो भगवान् दृष्ट्वा सह शर्व्वेण तां तनुम् ।
स्वच्छामरकतश्यामां कञ्जगर्भारुणेक्षणाम्” ॥)

कञ्जः, पुं, (कम् के जले शिरसि च जायते । जनेर्डः ।)

ब्रह्मा । केशः । इति मेदिनी ॥

कञ्जकः, पुं, (कञ्जते मनुष्यवत् प्रायेणोच्चारयितुं

शक्नीतीति । कजि + कर्त्तरि ण्वुल् ।) पक्षिविशेषः ।
इति शब्दचन्द्रिका ॥ मयना इति भाषा ॥

कञ्जजः, पुं, (कञ्जात् विष्णोर्नाभिपद्मात् जातः । जन

+ कर्त्तरि डः ।) ब्रह्मा । इति शब्दरत्नावली ॥

कञ्जनः, पुं, (कं सुखं जनयतीति । कम् + जनि +

अण् ।) कन्दर्पः । इति त्रिकाण्डशेषः ॥ पक्षिवि-
शेषः । इति शब्दचन्द्रिका ॥ मयना इति भाषा ॥

कञ्जरः, पुं, (कं जलं एकार्णवस्थसलिलं जरयति

शोषयति । कम् जृणाति रश्मिभिराकर्षति ।
कजि + अरन् ।) ब्रह्मा । सूर्य्यः । उदरम् । हस्ती ।
इत्युणादिकोषः ॥

कञ्जलः, पुं, (कञ्जते उपदिष्टविषयं पठितुं शक्नोति ।

कजि + कलच् ।) मदनपक्षी । इति शब्दचन्द्रिका ॥
मयना इति भाषा ॥

कञ्जारः, पुं, (कम् जलं भुक्तरसादिकं जारयति । कम् +

जलं जारयति शोषयति रश्मिभिः । कम् एकार्ण-
वस्थप्रलयसलिलं जारयति योगबलेन लापयति ।
कं जलं जारयति शोषयति शुण्डेनेतिशेषः ।
कम् + जॄ + णिच् + अण् । यद्वा “कञ्जिमृजिभ्यां
चित्” । इति आरन् । ऊणां ३ । १३७ ।) जठ-
रम् । सूर्य्यः । विरिञ्चिः । वारणः । मुनिः । इति
मेदिनी ॥ (मयूरः । व्यञ्जनम् । इत्युणादिकोषः ॥
४ । १३७ ॥ कम् जलं सागरं जारयति शोष-
यति गण्डूषीकृत्य योगबलेन इति विग्रहे अग-
स्त्यमुनिः ॥)

कञ्जिका, स्त्री, (कञ्जते तरसा भूमिं भित्त्वा उत्प-

द्यते । कजि + कर्त्तरि + ण्वुल् + टाप् इत्वञ्च ।)
ब्राह्मणयष्टिकावृक्षः । इति शब्दरत्नावली ॥ वा-
मन्हाटी इति भाषा ॥

कट गत्यां । इति कविकल्पद्रुमः ॥ (भ्वां--परं--सकं--

सेट् ।) कटति । इति दुर्गादासः ॥

कट इ गत्यां । इति कविकल्पद्रुमः ॥ (भ्वां--परं--सकं--

सेट्--इदित् । इ-कण्ट्यते । इति दुर्गादासः ॥

कट ई गत्यां । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

सेट् । कटति अकटीत् अकाटीत् चकाट ।
ई कट्टः इति दुर्गादासः ॥

कट ए वृतौ । वृषि । वृतिरावरणम् । वृट् वर्षणम् ।

(भ्वां-परं-सकं-अकं च सेट् ।) कटति । एदित्
अकटीत् चकाट ।) ए अकटीत् पटो गात्रम् ।
कटति मेघः । इति दुर्गादासः ॥

कटः, पुं, (कटति मदवारि वर्षति यः । कट

वर्षणे-कर्त्तर्य्यच् ।) हस्तिगण्डस्थलम् । “कण्डूय-
मानेन कटं कदाचित् वन्यद्विपेनोन्मथिता
त्वगस्य” । इति रघुः” । २ । ३७ ।) कटिदेशः
तत्पार्श्वश्च । किलिञ्जकः । इत्यमरः ॥ माँदुर्दर्मा
इत्यादि भाषा । काशादिरचितरज्जुः येन कुसूलं
वेष्ट्यते । कुसूलञ्च मरायि इति टीकान्तरम् ॥
तृणरचितटाटी इतिख्यात इत्यन्ये । इति तट्टी-
कायां भरतः ॥
(यथा भागवते । १ । ३ । १८ ।
“चतुर्द्दशं नारसिंहं बिभ्रद्दैत्येन्द्रमूर्ज्जितम् ।
ददार करजैर्वक्षस्येरकां कटकृद्यथा” ॥)
अतिशयः । शरः । समयः । इति मेदिनी ॥ तृणम् ।
इति धरणी ॥ (यथा मनु २ । २०४ ।
“गोऽश्वोष्ट्रयानप्रासादस्रस्तरेषु कटेषु च ।
आसीत गुरुणा सार्द्धं शिलाफलकनौषु च” ॥
“कटेषु तृणादिनिर्म्मितेषु” इति कुल्लूकभट्टः ॥)
शवः । शवरथः । ओषधी । श्मशानम् । इति हेम-
चन्द्रः ॥ तक्षितकाष्ठम् । तक्ता इति भाषा ।
इति शब्दरत्नावली ॥ (यथा, -- रामायणे । २ ।
५६ । २१ ।
“तां निष्ठितां बद्धकटां दृष्ट्वा रामः सुदर्शनाम् ।
सुश्रूषमाणमेकाग्रमिदं वचनमब्रवीत्” ॥
“बद्धकटां बद्धकवाटाम्” इति तट्टीका ॥ स्वनाम-
प्रसिद्धराक्षसः । यथा, -- रामायणे । ५ । १२ । १३ ।
“शुकनासस्य वक्रस्य कटस्य विकटस्य च ।
रक्षसो लोमहर्षस्य दंष्ट्रालह्रस्वकर्णयोः” ॥)

कटः, त्रि, (कटयति प्रकाशयति क्रियामितिशेषः । कट्-

+ णिच् + अच् ।) क्रियाकारः । इति हेमचन्द्रः ॥

कटकः, पुं, क्ली, (कटति वर्षति अस्मिन् मेघ इति ।

अथवा कट्यते निर्गम्यते अस्मात् निर्झरिण्या-
दिभिः “कृञादिभ्यः संज्ञायां वुन्” । ५ । ३५ ।
उणां इति वुन् ।) पर्ब्बतमध्यभागः । तत्पर्य्यायः ।
नितम्बः २ । इत्यमरः ॥ २ । ३ । ५ ॥ मेखला ३
इति भरतः ॥ (यथा रघुः । १६ । ३१ । “मार्गै-
षिणी सा कटकान्तरेषु वैन्ध्येषु सेना बहुधा
विभिन्ना” ॥) वलयः । चक्रम् । इत्यमरः ॥ २ ।
६ । १०७ । हस्तिदन्तमण्डनम् । सामुद्रलवणम् ।
राजधानी । इति मेदिनी ॥ नगरी । इति
शब्दरत्नावली ॥ सेना । इति हेमचन्द्रः ॥ (यथा
हितोपदेशे १ । ३३२ । “स च दिग्विजयक्र-
मेणागत्य चन्द्रभागानदीतीरे समावेशितकटको
वर्त्तते” ॥) सानुः । पर्ब्बतस्य समभूभागः । इति
विश्वः ॥
(“गिरिकूटेषु दुर्गेषु नानाजनपदेषु च ।
जनाकीर्णेषु देशेषु कटकेषु परेषु च” ॥
इति महाभारतम् ४ । २४ । १२ ।)

कटकी, [न्] पुं, (कटकोऽस्त्यस्य अस्त्यर्थे इनिः ।)

पर्ब्बतः । इति त्रिकाण्डशेषः ॥

कटकोलः, पुं, (कटति वर्षति स्रवति इति । कट् +

अच् । कटस्य निष्ठीवनरूपजलस्य कोलः घनीभावो
यत्र । कुल संस्त्याने अधिकरणे घञ् ।) निष्ठी-
वनपात्रम् । इति त्रिकाण्डशेषः ॥ पिक्दानी इति
भाषा ॥
पृष्ठ २/००९
:(“स्यादाचामनकः प्रोण्ठः कटकोलः पतद्ग्रहः” ।)

कटखादकं, त्रि, (कटं तृणादिकं सर्व्वमपि खादति

इत्यर्थः । कट् + खाद् + ण्वुल् । सर्व्वभक्षम् ।)
खादकम् । भक्षकम् । इति मेदिनी ॥

कटखादकः, पुं, (कटस्य आवरणस्य खं मध्यस्थित-

च्छिद्रं अत्ति । कट + ख + अद् + ण्वुल् ।) काच-
कलसः । काकः । जम्बूकः । इति मेदिनी ॥ (कटं
शवं खादतीति व्युत्पत्त्या शवखादके त्रि ।)

कटङ्कटः, पुं, (कटं शवं कटति ज्वालया आवृणो-

तीति । कट + कट् + बाहुलकात् खच् ।) अग्निः ।
यथा, --
“कटङ्कटाय भीमाय नमः पञ्चपलाय च ।
अघोरघोररूपाय घोरघोरतराय च” ॥
इति वह्निपुराणे अग्निस्तवनामाध्यायः ॥

कटङ्कटेरी, स्त्री, (कटङ्कटं वह्निजं सुवर्णं तत्कान्ति-

मितिशेषः ईरयति प्रापयति ज्ञापयति वात्मानं
सुवर्णकान्तितुल्यपीतवर्णत्वात् । कटङ्कट + ईर
गतौ + अण् । ङीप् गौरादित्वात् ङीष् वा ।)
हरिद्रा । इति त्रिकाण्डशेषः ॥ दारुहरिद्रा ।
इति रत्नमाला ॥

कटप्रूः, पुं, (कटे श्मशाने प्रवते । कटं कटेन वा प्रवते ।

प्रुङ् गतौ क्विप् निपातनात् दीर्घः । पां । ३ । २ ।
१७ । “क्विव्वचिप्रच्छिश्रिस्रुद्रुप्रुज्वां दीर्घोऽसम्प्रसा-
रणञ्च” ।) उणां २ । ५७ ।) महादेवः । राक्षसः ।
विद्याधरः । अक्षदेवनः । इति मेदिनी । कीटः ।
इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

कटभङ्गः पुं, (कटानां शस्यानां ओषधीनामिति-

यावत् हस्तेन भङ्गः च्छेदनम् । कटस्य सैन्यसंघस्य
भङ्गः यस्मात् हेतोः सैन्यभङ्गस्तु राजमरणहेतु-
रेव ।) शस्यानां हस्तच्छेदः । हात दिया शस्य
छेडा कुडन इत्यादि भाषा । नृपात्ययः । राजवि-
नाशः । इति मेदिनी ॥

कटभी, स्त्री, (कटवद् भाति । कट + भा + डः । गौ-

रादित्वात् ङीष् ।) ज्योतिष्मती लता । इत्यमरः ।
२ । ४ । १५० ॥ नया फटिकी इति भाषा । अप-
राजिता । वृक्षभेदः । तत्पर्य्यायः । नाभिका २
शौण्डी ३ पाटली ४ किणिही ५ मधुरेणुः ६
क्षुद्रश्यामा ७ कैडर्य्यः ८ श्यामला ९ । अस्या गुणाः ।
कटुत्वम् । उष्णत्वम् । गुल्मविषाध्मानशूलदोष-
नाशित्वम् । वातकफाजीर्णरोगशमताकारित्वम् ।
श्वेता चेत् गुणयुक्तत्वञ्च । “तत्फलं तद्गुणं ज्ञेयं
विशेषात् कफशुक्रकृत्” । इति राजनिर्घण्टः ॥
(यथा भावप्रकाशे ।
“कटभी तु प्रमेहार्शोनाडीव्रणविषक्रिमीन् ।
हन्त्युष्णा कफकुष्ठघ्नी कटुरुष्णा च कीर्त्तिता” ॥)
वृक्षभेदः । काँटाशिरीष इति ख्यतः । इति
रत्नमाला ॥

कटमालिनी, स्त्री, (कटानां किण्वाद्योषधीनां माला

साधनत्वेनास्ति अस्याः अस्त्यर्थेइनिः ततो ङीप् ।
मदिरामादकतायास्तु किण्वाद्योषधीगणप्रभव-
त्वात् । “मद्यादौ किण्वशक्तिवत्” । इति चार्व्वाक-
दर्शनं १ अध्यायः ।) मदिरा । इति शब्दभाला ॥

कटम्बः, पुं, (कटतीति “कृकदिकडिकटिभ्योऽम्बच्” ।

उणां । ४ । ८२ । इति अम्बच् धातूनामनेकार्थत्वात्
अत्र वादनेऽपि ।) वाद्यभेदः । (कट्यते आव्रियते
शत्रुरनेनेति करणे अम्बच् ।) बाणः । इत्युणा-
दिकोषः ॥

कटम्बरा, स्त्री, (कटं गुणातिशयम् वृणोति धार-

यतीति । वृ + अच् + टाप् च ।) कटुकी । इत्य-
मरः । २ । ४ । ८५ ॥ कटम्भरा इति च पाठः ॥

कटम्भरः, पुं, (कटं गुणातिशयं बिभर्त्ति । भृ + धा-

रणपोषणयोः संज्ञायां भृतॄवृजिधारिसहितपि-
दमीति खच् मुम् च पां ३ । २ । ४६ ।) श्योना-
कवृक्षः । इति राजनिर्घण्टः ॥ कटभीवृक्षः । इति
वैद्यकम् ॥

कटम्भरा, स्त्री, (कटं बिभर्त्ति या । भृ + खच् मुम्

टाप्च ।) राजबला । इत्यमरः । २ । ४ । १५३ ॥
प्रसारणी । गन्धभादालिया इति भाषा । रो-
हिणी । कटकी इति भाषा । हस्तिनी । कलम्बिका ।
गोला । वर्षाभूः । मूर्ब्बा । इति मेदिनी ॥

कटव्रणः, पुं, (कटः उत्कटो व्रणो युद्धकण्डुरस्य ।)

भीमसेनः । इति त्रिकाण्डशेषः ॥

कटशर्करा, स्त्री, (कटः नलः मिष्टरसत्वात् शर्करेव

यस्याः ।) गाङ्गेष्टीलता । इति हारावली ॥ नाटा
इति ख्याता ।

कटाकुः पुं, (कटति कृच्छ्रेण जीविकां निर्व्वाहयति ॥

कट् कृच्छ्रजीवने “कटिकषिभ्यां काकुः” उणां ३ ।
७७ । इति काकुः ।) पक्षी । इति सिद्धान्तकौमु-
द्यामुणादिवृत्तिः ॥

कटाक्षः, पुं, (कटावतिशयितौ अक्षिणी यत्र ।

कट + अक्षिन् + षच् । यद्वा कटं गण्डं अक्षति व्या-
प्नोति । अक्षु व्याप्तौ + अच् कर्म्मण्यण् वा ।) अपा-
ङ्गदर्शनम् । आड्चके देखन इति भाषा । इत्य-
मरः । २ । ६ । ९४ ॥ (यथा, मेघदूते ३७ । “आमो-
क्ष्यन्ति त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान्” ॥)

कटायनं, क्ली, (कटस्य स्वनामख्यातासनस्य अयनं

उत्पत्तिस्थानम् ।) वीरणम् । इति शब्दरत्नावली ॥

कटारः, पुं, (कटं कन्दर्पमदं ऋच्छति । कट +

ऋ + अण् ।) नागरः । कामी । इति शब्दमाला ।

कटाहः, पुं, (कटं उत्तापादिकं आहन्ति निवारय-

तीति । कट् + आ + हन् + ड ।) कूर्म्मकर्परः ॥
द्वीपप्रभेदः । (कटं कटुगन्धादिकं आहन्ति तैला-
दिकटुगन्धः आहन्यतेऽत्र वा ।) तैलादिपाकपा-
त्रम् । (कटं शत्रुं आहन्त्यसौ जायमानविषाणा-
ग्रमहिषीशावकः । इति मेदिनी ॥ (कटः पापी
आहन्यतेयत्र ।) नरकः । इति हारावली ॥ कर्व्वूरः ।
इति जटाधरः ॥ कूपः । इति शब्दरत्नावली ॥
(यथा सिद्धान्तकौमुद्याम् । ५ । १ । ५२ । “प्रस्थं
सम्भवति प्रास्थिकः कटाहः” ॥)

कटिः, पुं, स्त्री, (कट्यते वस्त्रादिना व्रियतेऽसौ सर्व्व-

धातुभ्य इन् इति कट् + इन् ।) शरीरावयव-
विशेषः । काँकालि इति भाषा । तत्पर्य्यायः । कटः २
श्रोणिफलकं ३ श्रोणी ४ ककुद्मती ५ । इत्यमरः ।
२ । ६ । ७४ ॥ श्रोणिफलम् ६ कटी ७ श्रोणिः ८ ।
इति तट्टीका ॥ कलत्रम् ९ कटीरम् १० काञ्ची-
पदम् ११ । इति हेमचन्द्रः । करभः १२ । इति
जटाधरः ॥ अत्र पूर्ब्बद्वयं कटिपार्श्वः । इति भरतः ॥
(यथा, भागवते । ३ । १५ । २० ।
“येषां वृहत् कटितटाः स्मितशोभिमुख्यः” ।
कृष्णात्मनां न रज आदधुरुत्स्मयाद्यैः” ॥)

कटित्रं, क्ली, (कटिं त्रायते इति । कटि + त्रै + कः ।)

रसना । कटिवस्त्रम् । कटिवर्म्म । इति मेदिनी-
करहेमचन्द्रु ॥ (यथा भागवते । ६ । १६ । ३० ।
“मृणालगौरं शितिवाससं स्फुरत्-
किरीटकेयूरकटित्रकङ्कणम्” ।)

कटिप्रोथः, पुं, (प्रोथतीति प्रोथृ + पर्य्याप्तौ पुंसीति

घः । कट्याः प्रोथः मांसपिण्डः ।) कटिदेशस्थमांस-
पिण्डम् । गुदपुला पोदेर पेलो इति भाषा ।
तत्पर्य्यायः । स्फिक् २ । इत्यमरः । २ । ६ । ३५ ॥
पूलकः ३ कटीप्रोथः ४ । इति रभसः ॥ कटिः ५
प्रोथः ६ । इति केचित् ॥ पूलः ७ । इति भरतः ॥

कटिरोहकः, पुं, (कटिं हस्तिपश्चाद्भागं रोहतीति ।

कटि + रुह् + ण्वुल् ।) हस्तिपश्चाद्भागरोहकः ।
इति शब्दमाला ॥

कटिल्लकः, पुं, (कटति लतायां प्रकाशते उत्पद्यते

वा । कट + बाहुलकादिल्लप्रत्ययः । ततः स्वार्थेकन् ।)
कारवेल्लः । इत्यमरः । करला इति भाषा ॥

कटिशीर्षकः, पुं, (कटिः शीर्षमिव । संज्ञायां कन् ।)

कटिदेशः । इति हलायुधः ॥

कटिशूलः, पुं, (कटिस्थः शूलः शूलरोगः ।) कटि-

देशस्थशूलरोगः । तस्यौषधं यथा ।
“रजनीकदलीक्षारलेपः सिध्मविनाशनः ।
कुष्ठस्य भागमेकन्तु पथ्याभागद्वयं तथा ॥
उष्णोदकेन संपीत्वा कटिशूलविनाशनम्” ।
इति गारुडे १८८ अध्यायः ॥
(“गुडूच्यारग्बधश्चैव क्वाथमेषां विपाचयेत् ।
शुण्ठीचूर्णेन संयुक्तं पिबेज्जङ्घाकटिग्रहे” ॥
इति शार्ङ्गधरः ॥)

कटिशृङ्खला, स्त्री, (कट्यां धार्य्या शृङ्खला । यद्वा

कट्याः शृङ्खला ।) चितिका । कटिधार्य्यक्षुद्र-
घण्टिका । इति हारावली ॥

कटिसूत्रं, क्ली, (कट्यां धार्य्यं सूत्रम् । शाकपार्थिवा-

दित्वात् मध्यपदलोपः ।) कट्यलङ्कारविशेषः । इति
हलायुधः । चन्द्रहार गोट् इत्यादि भाषा ॥
(यथा, भागवते । ५ । ३ । ४ । “स्फुटकिरण
प्रवरमणिमयमुकुटकुण्डलकटककटिसूत्रहारकेयूर
नूपुराद्यङ्गभूषणविभूषितमृत्विक्सदस्यगृहपतयो-
ऽधना इव” ॥)

कटी, [न्] पुं, (कटः गण्डस्थलं प्राशस्त्येनास्यास्तीति

अस्त्यर्थे इनिः ।) हस्ती । इति त्रिकाण्डशेषः ॥

कटी, स्त्री (कट्यतेः कटुरसेषु गृह्यतेऽसौ । कट्यते

आव्रियते वस्त्रादिना । सर्व्वधातुभ्यैन् । कटात्
श्रोणिवचन इति गौरादिषु पाठाद् वा ङीष् ।
पां ४ । १ । ४१ ।) पिप्पली । श्रोणिदेशः । [इति
मेदिनी ॥ (यथा, महाभारते । १ । वकबधपर्ब्बणि
१६४ । २७ ।
पृष्ठ २/०१०
:“सव्येन च कटीदेशे गृह्य वाससि पाण्डवः ।
तद्रक्षो द्विगुणं चक्रे रुवन्तं भैरवं रवम्” ॥)

कटीतलः, पुं, (कट्यां तलमास्पदमस्य । अस्य कटि-

देशे धारणप्रसिद्धेस्तथात्वम् ।) न्युब्जखङ्गः । इति
त्रिकाण्डशेषः । वाँका खाँडा इति भाषा ॥

कटीरं, क्ली, (कट्यते आव्रियतेऽसौ वाससेतिशेषः ।

कट् + “कॄशॄपॄकटिपटिशौटीभ्यः ईरन्” । उणां ।
४ । ३० ॥ इति ईरन् ।) कटिः । इति हेमचन्द्रः ॥

कटीरः, पुं, (कट्यते आव्रियतेऽसौ अथवा कद्यते

गम्यते अनेन । कर्म्मणि करणे वा ईरन् । उणां ।
४ । ३० ।) जघनम् । कन्दरः । इत्युणादिकोषः ॥
कटिः । इति जटाधरः ॥

कटीरकः, पुं, (कटीर एव स्वार्थे संज्ञायां वा कन् ।)

नितम्बः । इति त्रिकाण्डशेषः ॥

कटु, क्ली, (कटति सदाचारमावृणोतीति । कट् +

उन् ।) अकार्य्यम् । इत्यमरः । ३ । ३ । ३५ ॥ दूषणम् ।
इति विश्वः ॥

कटुः, पुं, (कटति तीक्ष्णतया रसनां मुखं वा आवृणो-

ति यद्वा कटति वर्षति चक्षुर्मुखनासादिभ्यो जलं
स्रावयतीति । कट् + उन् । “कटिवटिभ्यां च” ।
उणां । १ । ९ ।) सविशेषः इत्यमरः । १ । ५ । ९ । झाल
इति भाषा ॥ अस्य गुणाः कण्ठजदोषशोथमन्दाग्नि-
श्वित्ररोगनाशित्वम् । अस्य बहुसेवने क्षयदातृ-
त्वम् । वीर्य्यबलापहत्वञ्च । इति राजनिर्घण्टः ॥
अपि च । आरोग्यपित्ताग्निवायुकारित्वम् । कृमि
कण्डुविषरोगस्तनदुग्धमेदःस्थौल्यनाशित्वम् । लघु-
त्वम् । अतिशयभक्षणे श्रमस्थैर्य्यतालुशोषातिदा-
हकारित्वञ्च । इति राजवल्लभः ॥ (तथा चोक्तम् ।
भावप्रकाशे ।
“कटूरूक्षः स्तन्यमेदःश्लेष्मकण्डूविषापहः ।
वातपित्तकृदाग्नेयः शोषी पाचनरोचकृत्” ॥
अस्य लक्षणं यथाह वाभटः ॥
“उद्वेजयति जिह्वाग्रं कुर्व्वंश्चिमिचिमां कटुः ।
स्रावयत्यक्षिना सास्यं कपोलौ दहतीव च” ॥
गुणकर्म्माणि च यथा, तत्रैव ।
“कटुर्गलामयोदर्द्दकुष्ठालसकशोफजित् ।
व्रणावसादनः स्नेहमेदःक्लेदोपशोषणः ॥
दीपनः पाचनो रुच्यः शोषणोऽन्नस्य कर्षणः ।
छिनत्ति बन्धान् स्रोतांसि विवृणोति कफापहः ॥
कुरुते सोऽतियोगेन तृष्णां शुक्रबलक्षयम् ।
मूर्च्छामाकुञ्चनं कम्पं कटीपृष्ठादिषु व्यथाम्” ॥ * ॥
कटुको रसो वक्त्रं शोधयति अग्निं दीपयति, भुक्तं
शोधयति, घ्राणमास्रावयति, चक्षुर्विरेचयति,
स्फुटोकरोतीन्द्रियाणि अलसकश्वयथूपचयोदर्द्धा-
भिष्यन्द-स्नेह-श्वेद-क्लेदमलानुपहन्ति, रोचयत्य-
शनं, कण्डूर्विनाशयति, व्रणानवसादयति, क्रिमीन्
हिनन्ति, मांसं विलिखति, शोणितसङ्घातं भि-
नत्ति, बन्धाच्छिनत्ति, मार्गान् विवृणोति, श्लेष्माणं
शमयति, लघुरुष्णो रूक्षश्च ॥ स एवंगुणोऽप्येक-
एवात्यर्थमुपयुज्यमानो विपाकप्रभावात् पौंस्त्व-
मुपहन्ति, रसवीर्य्यप्रभावान्मोहयति, ग्लापयति,
सादयति, कर्षयति, मूर्च्छयति, नमयति, तमयति,
भ्रमयति, कण्ठं परिदहति शरीरतापमुपजन-
यति, बलं क्षिणोति, तृष्णां जनयति, वाष्वग्निबाहु-
ल्याद् भ्रम-मद-दवथु-कम्प-तोद-भेदैश्चरण-भुज-
पार्श्व-पृष्ठप्रभृतिषु मारुतजान् विकारानुपजन-
यति ॥ इति चरकः ॥) चम्पकवृक्षः । इति शब्द-
चन्द्रिका ॥ चीनकर्पूरः । पटोलः । कट्वीलता । इति
राजनिर्घण्टः ॥

कटुः, स्त्री, (कट्यते कटुत्वेनास्वाद्यते इति । कट् +

उ ।) कटुकी । इत्यमरः ॥ प्रियङ्गुवृक्षः । रा-
जिका । इति विश्वमेदिन्यौ ॥

कटुः, त्रि, (कटति परलक्ष्मीदर्शनेन कृपणतां गच्छ-

तीति । कट् + उः ।) मत्सरः । तीक्ष्णः । इत्यमरः ।
३ । ३ । ३५ ॥ (यथा, महाभारते १ । पौष्यपर्ब्बणि
३ । ५५ । “क्षारतिक्तकटुरूक्षैस्तीक्ष्णविपाकै-
श्चक्षुष्युपहतोऽन्धो बभूव” ।) कटुरसयुक्तः । (यथा,
भागवते । ३ । २६ । ४२ ।
“कषायो मधुरस्तिक्तः कठ्वम्ल इति नैकधा ।
भौतिकानां विकारेण रस एको विभिद्यते” ॥)
सुगन्धिः । इति मेदिनी ॥ (यथा, रघुः । ५ । ४८ ।
“सप्तच्छदक्षीरकटुप्रवाह-
मसह्यमाघ्राय मदं तदीयम्” ॥)
अप्रियः । इति त्रिकाण्डशेषः ॥ (यथा, रघुः ६ । ८५
“इति समगुणयोगप्रीतयस्त त्र पौराः
श्रवणकटु नृपाणामेकवाक्यं विवब्रुः” ॥)
दुर्गन्धः । इत्यमरटीकायां स्वामी ॥

कटुकं, क्ली, (कटुकानां कटुरसानां त्रयं कटोः

संज्ञायां कन् ।) त्रिकटु । इति मेदिनी ॥ तत्तु
शुण्ठी पिप्पली मरिचञ्च ॥ (कटु एव । स्वार्थे कन् ।
इति विग्रहे वाच्यलिङ्गं । अप्रियम् । यथा, महा-
भारते । २ । अनुद्यूतपर्ब्बणि ७७ । १६ ।
“दुर्य्योधनश्च कर्णश्च कटुकान्यभ्यभाषताम् ।
इति सर्व्वमिदं राजन्नाकुल प्रतिभाति मे” ॥)

कटुकः, पुं, (कटुरेव कटुकः स्वार्थे कन् ।) कटुरसः ।

(यथा, सुश्रुते “यो जिह्व्यग्रं बाधते उद्वेगं जनयति
शिरो गृह्णीते नासिकाञ्च स्रावयति स कटुको
रसः” ॥) पटीलः । इति राजनिर्घण्टः ॥ सुगन्धि-
तृणम् । इति शब्दरत्नावली ॥ कुटजवृक्षः । अर्क-
वृक्षः । इति शब्दचन्द्रिका ॥ राजसर्षपः । इति
हारावली ॥

कटुकन्दः, पुं, (कटुः कन्दोमूलमस्य ।) शिग्रुवृक्षः ।

आर्द्रकम् । लशुनम् । इति मेदिनी ॥

कटुकफलं, क्ली, (कटुकं फलमस्य ।) कक्कोलकम् ।

इति राजनिर्घण्टः ॥

कटुका, स्त्री, (कटु + संज्ञायां कन् । स्त्रियां टाप् ।)

क्षुद्रचञ्चवृक्षः । वृक्षविशेषः । कट्की इति माषा ।
तत्पर्य्यायः । जननी २ तिक्ता ३ रोहिणी ४ तिक्त
रोहिणी ५ चक्राङ्गी ६ मत्स्यपित्ता ७ वकुला ८ ।
शकुलादनी ९ सादनी १० शतपर्ब्बा ११ द्विजाङ्गी
१२ मलभेदिनी १३ अशोकरोहिणी १४ कृष्णा
१५ कृष्णभेदी १६ महौषधी १७ कट्वी १८
अञ्जनी १९ काण्डरुहा २० कटुः २१ कटुरो-
हिणी २२ केदारकटुका २३ अरिष्टा २४ पा-
मघ्नी २५ । इति राजनिर्घण्टः ॥ कटम्बरा २६
कटुम्भरा २७ अशोका २८ । इत्यमरः तट्टीका
च ॥ (अस्य गुणाः ।
“कटुका कटुका पाके तिक्ता रूक्षा हिमा लघुः ।
भेदिनी दीपनी हृद्या कफपित्तज्वरापहा ।
प्रमेहश्वासकासास्रदाहकुष्ठकृमिप्रणुत्” ॥
इति शब्दार्थचिन्तामणिधृतवैद्यकवचनम् ॥)
अतिकटुत्वम् । तिक्तत्वम् । शीतत्वम् । पित्तरक्त-
दाहबलाशारोचकश्वासज्वरनाशित्वम् । रुचिका-
रित्वञ्च । इति राजनिर्घण्टः । सारकत्वम् । रूक्ष-
त्वम् । कफनाशित्वञ्च । इति राजवल्लभः ॥ ताम्बूली ।
इति शब्दचन्द्रिका ॥ कुलिकवृक्षः । इति रत्न-
माला ॥

कटुकालावुः पुं, (कटुका अलावुः ।) कटुतुम्बी । इति

रत्नमाला ॥ तित्लाउ इति भाषा ॥

कटुकी, स्त्री, (कटु + स्वार्थे कन् । गौरादित्वात्

ङीष् ।) कटुका । इति मेदिनीशब्दरत्नावल्यौ ।
कट्की इति भाषा ॥ (अस्या गुणाः ।
“कटुकी तु सरा रूक्षा कफपित्तज्वरापहा” ।
इति वैद्यकद्रव्यगुणग्रन्थे ॥
“कठ्वी तु कटुका पाके तिक्ता रूक्षा हिमा लघुः ।
भेदिनी दीपनी हृद्या कफपित्तज्वरापहा ।
प्रमेहश्वासकासास्रदाहकुष्ठक्रिमिप्रणुत्” ॥
इति भावप्रकाशः ॥)

कटुकीटकः, पुं, (कटुः तीक्ष्णः दंशनेन दुःखप्रदत्वात्

कीटः । ततः स्वार्थेकन् ।) मशकः । इति जटाधरः ॥

कटुक्वाणः, पुं, (कटुः कर्कशः क्वाणः क्वणनं शब्दो

यस्य ।) टिट्टिभपक्षी । इति हेमचन्द्रः ॥

कटुग्रन्थि, क्ली, (कटुस्तीव्रो ग्रन्थिर्मूलमस्य ।) पिप्प-

लीमूलम् । शुण्ठी । इति राजनिर्घण्टः ॥

कटुचातुर्जातकं, क्ली, (चतुर्भ्यो जातकं ततः स्वार्थे

अण् ततः कर्म्मधारयः ।) एलात्वक्पत्रकमरिचा-
त्मकचतुष्कम् । इति राजनिर्घण्टः ॥

कटुच्छदः, पुं, (कटुश्छदः पत्रं यस्य ।) तगरवृक्षः ।

इति शब्दरत्नावली ॥

कटुतिक्तकः, पुं, (कटुश्चासौ तिक्तश्चेति । अल्पार्थे

कन् ।) शणवृक्षः । इति राजनिर्घण्टः ॥ भूनिम्बः ।
इति वैद्यकम् ॥

कटुतिक्तका, स्त्री, (विपाके कटुः स्वादे तिक्ता ।

स्वार्थे कन् । अत इत्वम् ॥) कटुतुम्बी । इति
शब्दरत्नावलो ॥

कटुतुण्डी, स्त्री, (कटु तीव्रं तुण्डमस्याः ।) लताप्रभेदः ।

कटुतराइ इतिख्याता । तत्पर्य्यायः । तिक्ततुण्डी
२ तिक्ताख्या ३ कटुका ४ कटुतुण्डिका ५ विषा
६ ॥ अस्या गुणाः । कटुत्वम् । तिक्तत्वम् । कफ-
वान्तिविषारोचकरक्तपित्तनाशित्वम् । सदा पथ्य-
त्वम् । रेचनत्वञ्च । इति राजनिर्घण्टः ॥

कटुतुम्बी, स्त्री, (कटुश्चासौ तुम्बी चेति ।) लता-

विशेषः । तित्लाउ इति भाषा । तत्पर्य्यायः ।
इक्ष्वाकुः २ । इत्यमरः । २ । ४ । १५६ ॥ कटुका-
लावुः ३ नृपात्मजा ४ । इति रत्नमाला ॥ कटुति-
क्तिका ५ । इति शब्दरत्नावली ॥ कदुफला ६
पृष्ठ २/०११
:तुम्बिनी ७ कटुतुम्बिनी ८ वृहत्फला ९ राजपुत्त्री
१० तिक्तवीजा ११ तुम्बिका १२ ॥ अस्या गुणाः ।
कटुत्वम् । तीक्ष्णत्वम् । वान्तिकारित्वम् । श्वास-
वातकासशोथव्रणशूकविषनाशित्वम् । शोधन-
त्वञ्च । इति राजनिर्घण्टः ॥ पाण्डुकृमिकफवाय-
नाशित्वम् । लघुपाकित्वञ्च । इति राजवल्लभः ॥
(“कटुतुम्बी हिमा हृद्या पित्तकासविषापहा ।
तिक्ता कटुर्विपाके च वातपित्तज्वरान्तकृत्” ॥)

कटुत्रयं, क्ली, (कटूनां कटुरसानां त्रयम् ।) त्रिकटु ।

इति राजनिर्घण्टः ॥ (अस्य गुणाः । “त्रयं त्रिक-
टुकं जयेत् । स्थौल्याग्नि-सदन-श्वास-कास-श्लीपद-
पीनसान्” ॥ इति वाभटः ॥)

कटुदला, स्त्री, (कटु दलं पत्रं यस्याः ।) कर्कटी ।

इति राजनिर्घण्टः । काँकुड इति भाषा ॥

कटुनिष्पावः पुं, (कटुश्चासौ निष्पावश्चेति ।) नदी-

निष्पावधान्यम् । इति राजनिर्घण्टः ॥

कटुपत्रः, पुं, (कटु तीव्रं पत्रं यस्य ।) पर्पटः । सिता-

र्जकः । इति राजनिर्घण्टः ॥

कटुपत्रिका, स्त्री, (कटु पत्रं यस्याः । ततः कप् । अत

इत्वं टाप् च ।) कारीवृक्षः । इति राजनिर्घण्टः ॥

कटुफलः, पुं, (कटु फलं यस्य । अस्य पत्रस्यतिक्तत्वेपि

फले कटुपाकत्वात् ।) पटोलः । इति राजनिर्घण्टः ॥

कटुफला, स्त्री, (कटु फलं यस्याः ।) श्रीवल्लीवृक्षः ।

इति राजनिर्घण्टः ॥

कटुभङ्गः, पुं, (कटुः एकैकदेशभङ्गश्च यस्य ।) शुण्ठी ।

इति त्रिकाण्डशेषः ॥

कटुभद्रं क्ली, (कठ्वपि भद्रं सेवनेन हितजनकम् ।)

शुण्ठी । इति राजनिर्घण्टः ॥ आर्द्रकम् । इति
केचित् ॥

कटुमञ्जरिका, स्त्री, (कटुः तीक्ष्णा मञ्जरी अस्ति

अस्याः । अच् गौरादित्वात् ङीष् संज्ञायां कन् टाप्
पूर्ब्बह्रस्वत्वञ्च ।) अपामार्गः । इति राजनिर्घण्टः ॥

कटुमोदं, क्ली, (कटुरेव मोदः गन्धो यस्य तत् ।)

जवादिनामसुगन्धिद्रव्यम् । इति राजनिर्घण्टः ॥

कटुरं, क्ली, (कटति मन्थनेन रसान्तरं गुणान्तरं

वा वर्षतीति । कट + उरन् । यद्वा कट्यते प्रकट्यते
मन्थनात् रसान्तरेण गुणान्तरेण च प्रकाश्यते
इति ।) तक्रम् । इति जटाधरः ॥ कट्वरं इत्यपि
पाठः ॥

कटुरवः, पुं, (कटुः कर्कशो रवः ध्वनिर्यस्य ।) मण्डूकः ।

इति राजनिर्घण्टः ॥

कटुरोहिणी, स्त्री, (कटुश्चासौ कठ्वी चासौ वा रो-

हिणी चेति । केचित्तु कटुः सती रोहतीति +
रुह + णिनिः ततो ङीप् ।) कटुकी । इत्यमरः ।
२ । ४ । ४५ ॥

कटुवार्त्ताकी, स्त्री, (कटुः कठ्वी वार्त्ताकी ।) श्वेत-

कण्टकारी । इति राजनिर्घण्टः ॥

कटुवीजा, स्त्री, (कटु वीजं यस्याः ।) पिप्पली । इति

राजनिर्घण्टः ॥

कटुशृङ्गालं क्ली, (कटूनां शृङ्गाय प्राधान्याय अलति

पर्य्याप्नोतीति । अल् + अच् ।) गौरसुवर्णशा-
कम् । इति राजनिर्घण्टः ॥

कटुस्नेहः, पुं, (कटुः तीक्ष्णः स्नेहः रसविशेषो यस्य ।)

सर्षपः । इति त्रिकाण्डशेषः ॥ गौरसर्षपः । इति
राजनिर्घण्टः ॥

कटूत्कटं, क्ली, (कटुषु उत्कटम् ।) आर्द्रकम् । इति

रत्नमाला ॥

कटूत्कटकं, क्ली, (कटुषु उत्कटम् । ततः संज्ञायां

कन् ।) शुण्ठी । इति राजनिर्घण्टः ॥

कटोरं, क्ली, (कट्यते वृष्यते निषिच्यते वा भक्ष्यद्रव्यं

यत्र । कट + अधिकरणे ओलच् । रलयोरैक्यात्
लस्य रत्वम् ।) पात्रविशेषः । कटोरा इति
भाषा । यथा, -- मेरुतन्त्रे पञ्चमप्रकाशः ॥ * ॥
“मृत्कर्पटे संयुतकाचकूप्यां
दत्त्वा मुखं लोहपलोहसूत्रैः ।
निष्कासितो धूमरसस्तु तस्य
सौगन्धिकैः काचकटोरके यः” ॥
किञ्च ।
“रम्यान्नं देवकीदत्तं पात्रे काञ्चननिर्म्मिते ।
कटोराणां चतुःषष्टिः पात्रस्योभयतः स्थिता” ॥
इति जैमिनिभारते आश्वमेधिके पर्ब्बणि ९ अध्यायः ॥

कटोरा, स्त्री, (कट्यते वृष्यते दीयते स्थाप्यते वा

भक्ष्यद्रव्यादिकमस्याम् । कट + ओलच् । लस्य
रत्वम् ।) स्वनामख्यातपात्रम् । इति ब्रह्मवैवर्त्त-
पुराणम् । वाटि इति भाषा ॥

कटोलः, पुं, (कटति सदाचारं मिष्टाद्यन्नरसञ्च आवृ-

णोतीति । “कपिगतिगण्डिकटिपटिभ्य ओ-
लच्” । उणां १ । ६७ । इति ओलच् ।) चण्डालः ।
इत्वुणादिकोषः ॥ कटुरसः । इति सिद्धान्तकौमु-
द्यामुणादिवृत्तिः ॥

कटोलवीणा, स्त्री, (कटोलस्य चाण्डालस्य वीणा

वाद्ययन्त्रविशेषः ।) वीणाविशेषः । इति शब्द-
रत्नावली । केन्दुडा इति ख्याता ॥

कट्फलः, पुं, (कटति कटुतया अन्यरसमावृणो-

तीति । कट् + क्विप् । कट् फलं यस्य सः ।) स्वनाम
ख्यातफलवृक्षविशेषः । कायफल इति भाषा ।
तत्पर्य्यायः । श्रीपर्णिका २ कुमुदिका ३ कुम्भी ४
कैटर्य्यः ५ । इत्यमरः २ । ४ । ४० ॥ सोमवल्कः ६
६ सोमवृक्षः ७ रोहिणी ८ । इति रत्नमाला ॥
कृष्णगर्भः ९ प्रचेतसी १० भद्रावती ११ महा-
कुम्भी १२ रामसेनकः १३ कुमुदा १४ उग्रगन्धः
१५ भद्रा १६ रञ्जनकः १७ लघुकाश्मर्य्यः १८ श्री-
पर्णी १९ काफलः २० परुषः २१ कुमुदी २२ ।
इति शब्दरत्नावली ॥ अपि च ।
“कट्फलः सोमवल्कश्च कैटर्य्यः कुम्भिकापि च ।
श्रीपर्णिका कुमुदिका भद्रा भद्रवतीति च ॥
कट्फलस्तुवरस्तिक्तः कटुर्व्वातकफज्वरान् ।
हन्ति श्वासप्रमेहार्शःकासकण्ठामयारुचीः” ॥
इति भावप्रकाशः ॥ अस्य गुणाः । कटुत्वम् ।
उष्णत्वम् । कासश्वासज्वरोग्रदाहनाशित्वम् । रुचि-
कारित्वम् । मुखरोगशमप्रदत्वञ्च । इति राजनि-
र्घण्टः ॥ कफरोगनाशित्वम् । इति राजवल्लभः ॥
(“कट्फलः कफरोगघ्नः कासश्वासज्वरापहः” ॥
इति वैद्यकद्रव्यगुणः ॥)

कट्फला, स्त्री, (कटति इति । कट् + क्विप् तदेव फल-

मस्याः ।) गम्भारीवृक्षः । इति रत्नमाला ॥ वृ-
हती । काकमाची । देवदाली । वार्त्ताकी । मृगे-
र्व्वारुः । इति राजनिर्घण्टः ॥

कट्वङ्गः, पुं, (कटु अङ्गमस्य ।) श्योनाकवृक्षः । इत्य-

मरः । २ । ४ । ५६ ॥ कटूनि उग्राणि वीर्य्यव्यञ्जकानि
अङ्गानि यस्य ।) दिलीपराजः । इति त्रिकाण्डशेषः ॥

कट्वरं, क्ली, (कटति वर्षति रसान्तरम् । “छित्वर-

च्छत्वरधीवरपीवरमीवरचीवरतीवरनीवरगह्वर-
कट्वरसंयद्वराः” उणां ३ । १ । इति कट् + ष्वरच् ।
निपातनात् साधु ।) दधिसरः । इति रत्नमाला ॥
व्यञ्जनम् । इत्युणादिकोषः ॥
तक्रम् । यथा ।
“दध्नः ससारकस्यात्र तक्रं कट्वरमुच्यते” ।
इति चक्रपाणिकृतसंग्रहे ॥
(“सुवर्च्चिका-नागर-कुष्ठ-मूर्व्वा
लाक्षा-निशा-लोहितयष्टिकाभिः ।
तलं जवरे षडगुणतक्रसिद्ध-
मभ्यञ्जनाच्छीतविदाहनुत् स्यात्” ॥
इति षट्कठ्वरं तैलम् ॥)

कट्वी, स्त्री, (कट्यते कटुरसतया स्वाद्यते अनुभूयते

वा । कट् + उन् । ततः स्त्रियां ङीप् । वोतो-
गुणवचनादिति ङीष् वा । पां । ४ । १ । ४४ ।)
कटुका । लताविशेषः । तत्पर्य्यायः । कटुकवल्ली २
सुकाष्ठा ३ काष्ठवल्लिका ४ सुवल्ली ५ महावल्ली
६ पशुमोहनिका ७ कटुः ८ ॥ अस्या गुणाः । मधु-
रत्वम् । शीतत्वम् । कफश्वासनानाज्वरहारित्वम् ।
रुचिकारित्वम् । राजयक्ष्मनिवारणत्वञ्च । इति
राजनिर्घण्टः ॥ (कटुकाशब्देऽस्या गणादयो व्या-
ख्याताः ॥)

कठ इ कि आध्याने । उत्कण्ठापूर्ब्बकस्मरणे इति

कविकल्पद्रुमः ॥ (चुरां--पक्षे भ्वां--परं--सकं--सेट्--
इदित् ।) इ कर्म्मणि कण्ठ्यते । कि कण्ठयति ।
आध्यानं स्मृ म औत्क्ये इत्यत्र व्याख्यातम् । इति
दुर्गादासः ॥

कठ तङ्कने । तङ्कनं दुःखेन जीवनम् । इति कवि-

कल्पद्रुमः ॥ (भ्वां--परं--अकं--सेट् ।) कठति दीनः ।
इति दुर्गादासः ॥

कठ इ ङ आध्याने । इति कविकल्पद्रुमः ॥ (भ्वां--

आत्मं--सकं--सेट्--इदित् ।) इ कर्म्मणि कण्ठ्यते ।
ङ कर्त्तरि कण्ठते । “रेवारोधसि वेतसीतरुतले
चेतः समुत्कण्ठते” । इति दुर्गादासः ॥

कठः, पुं, (कठेन प्रोक्तमधीते यः । कठशाखां अभि-

जानाति वा “कठचरकात् लुक्” । इति लुक् ।
४ । ३ । १०७ ।) मुनिविशेषः । कठशाखाध्ययनकर्त्ता
कठशाखाज्ञः । (यथा महाभारते । १ । पौलमे
८ । २४ ।
“उद्दालकः कठश्चैव श्वेतश्चैव महायशाः” ॥
ऋग्भेदः । स्वरः ।
(“कठो मुनौ तदाख्यातवेदाध्येतृज्ञयोः स्वरे” ।)
इति हेमचन्द्रः ॥ ब्राह्मणः । इति त्रिकाण्डशेषः ॥
(उपनिषद्विशेषः । यदुक्तं मुक्तिकोपनिषदि ।
पृष्ठ २/०१२
:“ईशा-केन-कठ-प्रश्न-मुण्ड-माण्डक्य-तित्तिरि” ॥)

कठमर्द्दः, पुं, (कठं कष्टजीवनं मृद्गातीति । कठ

मृद् + अण् ।) शिवः । इति त्रिकाण्डशेषः ॥

कठरः, त्रि, (कठ + अरन् ।) कठिनः । इति जटाधरः ॥

कठशाखा, स्त्री, (यजुर्वेदान्तर्गता कठेन प्रोक्ता शाखा ।)

यजुर्व्वेदस्य शाखाविशेषः । एतद्विवरणं वेदशब्दे
द्रष्टव्यम् ॥

कठाहकः, पुं, (कठं कठिनमाहन्तीति । आ + हन् +

डः । कठाहः तादृशं कं शिरो यस्य ।) दात्यूह-
पक्षी । इति शब्दरत्नावली ॥

कठिञ्जरः, पुं, (कठिं कठिनं जरयति । जॄष् वयो-

हानौ तस्मात् अण् । पृषोदरादित्वात् साधुः ।
यद्वा जॄ + णिच् + बाहुलकात् + खच् मुम् च ।)
तुलसीवृक्षः । तत्पर्य्यायः । पर्णासः २ कुठेरकः ३ ।
इत्यमरः । २ । ४ । ७९ ॥ (“लोणिका-जातुकपर्णि
का-पत्तूर-जीवक-सुवर्च्चला-कुरुवक-कठिञ्जर-कुन्त-
लिका-कुरण्टिकाप्रभृतीनि” ॥ इति सुश्रुते द्रष्ट-
व्यम् ॥)

कठिनं, त्रि, (कठ् + इनन् । उणादिमते तु इनच् ।

“बहुलमन्यत्रापि” । उणां । २ । ४ । ९ ।)
कठरम् । तत्पर्य्यायः । कक्खटम् २ क्रूरम् ३
कठोरम् ४ निष्ठुरम् ५ दृढम् ६ जठरम् ७ मू-
र्त्तिमत् ८ मूर्त्तम् ९ । इत्यमरः । ३ । १ । ७६ ॥
खक्खटम् १० कठोलम् ११ जरठम् १२ । इति
तट्टीका ॥ कर्करम् १३ कठरम् १४ । इति जटा-
धरः ॥ काठरम् १५ कमठायितम् १६ । इति
शब्दरत्नावली ॥ स्तब्धम् । इति मेदिनी ॥
(“उन्मूलयंश्च कठिनान् नृपान् वायुरिव द्रुमान्” ।
कथासरित्सागरे १९ । ८९ ॥ तथा कुमारे ४ । ५ ।
“न विदीर्य्ये कठिनाः खलु स्त्रियः” ॥
अपि च “भक्ष्यांश्चातिकठिनान् दन्तरोगी विव-
र्जयेत्” । सुश्रुते ॥)

कठिनं, क्ली, स्त्री, (कठ् + “बहुलमत्रापि” ।

उणां २ । ४९ । इति इनच् ।) स्थाली । इति मे-
दिनीशब्दरत्नावल्यौ ॥

कठिनपृष्ठकः, पुं, (कठिनं पृष्ठकमस्य । पृष्ठ स्वार्थे

सज्ञायां वा कन् ।) कच्छपः । इति राजनिर्घण्टः ॥

कठिना, स्त्री, (कठ + इनच् । स्त्रियां टाप् ।) गुड-

शर्करा । इति विश्वमेदिन्यौ ॥

कठिनिका, स्त्री, (कठ् + इनच् + गौरादित्वात् ङीष्

स्वार्थे कन् । टापि ह्रस्वश्च ।) कठिनी । इति
हारावली । खडी इति भाषा ॥

कठिनी, स्त्री, (कठिन + गौरादित्वात् ङीष् ।)

खडिका । इति मेदिनी । खडी इति भाषा ॥
तत्पर्य्यायः । पाकशुक्ला २ अमिलाधातुः ३ कक्-
खटी ४ खटी ५ खडी ६ वर्णलेखिका ७ । इति
रत्नमाला ॥ धातूपलः ८ कठिनिका ९ । इति
हारावली ॥ (तथा च हितोपदेशे १ । १८ ।
“गुणिगणगणनारम्भे न पतति कठिनी सस-
म्भ्रमाद् यस्य । तेनाम्बा यदि सुतिनी वद बन्ध्या
कोदृशी नाम” ॥)

कठिल्लः, पुं, (कठति भोजने दुःखं उद्वेगं वा जन-

यति । अतीवतिक्तत्वात् तथात्वं । कठ शोके इति
धातोर्बाहुलकादिल्लप्रत्ययः ।) कारवेल्लः । इत्युणा-
दिकोषः । करला इति भाषा ॥ (वाभटे शाकव-
र्गाणां मध्ये गणितम् ॥ यथा, --
“कठिल्लं केम्बुकं शीतं स कोषातक कर्कशम् ।
तिक्तं पाके कटुग्राहि वातलं कफपित्तजित्” ॥)

कठिल्लकः, पुं, (कठिल्ल + स्वार्थे कन् ।) कारवेल्लः ।

पुनर्णवा । तुलसी । इति त्रिकाण्डशेषः ॥

कठी, स्त्री, (कठेन प्रोक्तमधीते या शाखाध्येतृ-

वाचित्वेन जातित्वात् ङीष् । कठप्रोक्तमधीयाना
इत्यर्थः ।) ब्राह्मणी । इति जटाधरः ॥

कठेरः, पुं, (कठति कृच्छ्रेण जीवति जीविकां निर्व्वा-

हयति । “पतिकठिकुठिगडिगुडिदंशिभ्यएरक्” ।
उणां । १ । ५९ इति एरक् ।) कृच्छ्रजीवी । दरिद्रः ।
इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

कठोरः, त्रि, (कठति पारुष्यमाचरति । “कठिरकि-

भ्यामोरन्” उणां १ । ६५ । इतिकठ + ओरन् ॥)
कठिनः । इत्यमरः । ३ । १ । ७६ ॥
(यथा, भागवते ३ । १९ । १५ ।
“प्रवृद्धरोषः स कठोरसुष्टिना
नदन् प्रहत्यान्तरधीयतासुरः” ॥
दारुणः । तथाहि भागवते । ५ । १३ । ३ ।
“कठोरदंशैर्मशकैरुपद्रुतः” ॥ अतिविस्तृतः । तत्रैव
६ । १२ । २ । “युगान्ताग्निकठोरजिह्वं” ॥
पूर्णः । तथाहि ।
“स तप्तकार्त्तस्वरभास्वराम्बरः
कठोरताराधिपलाच्छनच्छविः” ।
इति माघः । १ । २० ॥ “कठोरताराधिपस्य
पूर्णेन्दोः” इति तट्टीकायां मल्लिनाथः ॥)

कठोलः, त्रि, (कठ + ओलच् “कपिगतिगण्डिकटि-

पटिभ्य ओलच्” उणां । १ । ६७ ।) कठोरः । इत्य-
मरटीकायां नीलकण्ठः ॥

कड इ ङ ञ दर्पे । हर्षे इत्यर्थः । इति कविकल्प-

द्रुमटीकायां दुर्गादासः । (भ्वां--आत्मं--अकं--सेट्--
पक्षे उभं--इदित् ।) इ कर्म्मणि कण्ड्यते । ञ
कण्डति कण्डते । ङ कण्डते जनो हृष्टः स्यादि-
त्यर्थः । अयमात्मनेपदीत्थन्ये । कदाचित् परस्मैप-
दार्थो ञकारः । अनेकार्थत्वात् तुषापनयने च ।
(भ्वां--आत्मं--सकं ।) “कण्डते तण्डुलं लोकः” ।
इति दुर्गादासः ॥

कड श अदने । दर्पे । इति कविकल्पद्रुमः ॥ (तुदां--

परं--सकं--दर्पे अकं--सेट् ।) श कडती कडन्ती ।
प्राञ्चस्तु वेदे तूच्चारणभेदार्थं भ्वादावप्येवं पठन्ति ।
तथा च । “कड मद इति धातुः पठ्यते भूतुदाद्योः
कडति कडति रूपं तुल्यमेव द्वयोः स्यात् । तदु-
भयगणपाठे किं फलं नेति वाच्यं स्वरक्वत इह
भेदः शप्शयोरस्ति यस्मात्” इति । स्वरकृत इति
उदात्तानुदात्तस्वरितविरिब्धसंज्ञकचतुर्व्विधस्वरकृत
इत्यर्थः । इति दुर्गादासः ॥

कड इ क भेदे । रक्षणे । इति कविकल्पद्रुमः ॥

(चुरां--परं--सकं--सेट्--इदित् ।) इ कण्डयति ।
इति दुगादासः ॥

कडः, त्रि, (कडति माद्यतीति । कड मदे + पचा-

द्यच् ।) मूर्खः । इति हलायुधः ॥

कडकं, क्ली, (कड्यते अद्यते इति । कड अदने +

अच् संज्ञायां कन् । कर्म्मणि अप् स्वार्थे
संज्ञायां वा कन् ।) लवणविशेषः । करकच् इति
भाषा ॥ तत्पर्य्यायः । सामुद्रम् २ त्रिकूटम् ३ ।
इति रत्नमाला ॥ अस्य गुणः सामुद्रशब्देद्रष्टव्यः ॥

कडङ्गः, पुं, (कडं मादकताशक्तिं गमयति जनयति

वा कडात् गमेर्डः । अन्तर्भूतो ण्यन्तोवा ।) सुरा-
विशेषः । इत्युणादिकोषः ॥

कडङ्गरः, पुं, (कडात् भक्षणीयतण्डुलादेः सकाशात्

ग्रियते क्षिप्यते दूरीक्रियते इति भावः । कड +
गिरतेः कर्म्मणि खच् । यद्वा कडं भक्षणीयं
शस्यादि गिरति उद्गिरति आत्मनः सकाशात् ।
गॄ + अच् ।) वुषं इत्यमरः । २ । ९ । २२ । आग्डा
इति भाषा ॥
(“नीवारपाकादि कडङ्गरीयै-
रामृश्यते जानपदैर्न कच्चित्” ।
इति रघुः । ५ । ९ ॥ कडङ्गरं वुषम् अर्हन्तीति
कडङ्गरीया इति तट्टीकायां मल्लिनाथः ॥)

कडत्रं, क्ली, (गड्यते सिच्यतेऽत्र जलादिकम् । गड

+ ज्रत्रन् गडेरादेश्च कः ।) पात्रविशेषः । इति
उणादिकोषः ॥ (गड्यते सिच्यतेऽनेन । गड + सेचने
“गडेरादेश्च कः” उणाम् । ३ । १०६ । इति अत्रन्
प्रत्ययः डलयोरेकत्वस्मरणात् कलत्रम् ॥

कडम्बः, पुं, (कड + “कृकदिकडिकटिभ्योऽम्बच्”

उणाम् । ४ । ८२ । इति कडधातोरम्बच्प्रत्ययः ।)
शाकनाडिका । डाँटा इति भाषा ॥ तत्पर्य्यायः ।
कलम्बः २ । इत्यमरः । २ । ९ । ३५ ॥ कोणम् ।
प्रान्तभागः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥
(कलम्बशब्दे विशेषो ज्ञेयः ॥)

कडम्बी, स्त्री, (कडम्बः कलम्बो भूयसा विद्यते

अस्याः । इति अर्शआदित्वात् अच् ततः गौरा-
दित्वात् ङीष् ।) कलम्बीशाकम् । इति शब्द-
रत्नावली ॥ (कलम्बीशब्दे गुणादयोऽस्या
वक्तव्याः ॥)

कडारः, पुं, (गड । सेचने इति + “गडेः कड् च” ।

उणाम् । ३ । १३५ । इति आरन् कडादेशश्च
धातोः ।) पिङ्गलवर्णः । तद्वर्णयुक्ते त्रि । इत्यमरः ।
१ । ५ । १६ ॥ (यथा माघः । ५ । ३ ।
“सविव्युरम्बरविकाशि चमूसमुत्थं
पृथ्वीरजः करभकण्ठकडारमाशाः” ॥)
कडारस्तृणवह्निवत् इत्यन्ये इति भरतः ॥ दासः ।
इति मेदिनी ॥

कडितुलः, पुं, (कट्यां तुला तोलनं ग्रहणं यस्य पृषो-

दरादित्यात् टस्य डः ।) खड्गः । इति शब्द-
रत्नावली ॥

कड्ड कार्कश्ये । इति कविकल्पद्रुमः ॥ (भ्वां--परं--अकं--

सेट् ।) टवर्गतृतीयोपधः । क्विपि संयोगान्तलोपे
कड् । कड्डति पद्ममृणालं कर्क्कशं स्यादित्यर्थः ।
इति दुर्गादासः ॥

कण ॠ आर्त्तस्वरे । इति कविकल्पद्रमः ॥ (भ्वां--

पृष्ठ २/०१३
:परं--अकं--सेट् ।) ॠ अचीकणत् अचकाणत् ।
कणति भीतः । इति दुर्गादासः ॥

कण, म गतौ । इति कविकल्पद्रुमः । (भ्वां--परं--

सक्--सेट्--घटादि ।) म कणयति । इति दुर्गा-
दासः ॥

कण, क निमीलने । इति कविकल्पद्रुमः ॥ (चुरां--

परं--सकं--सेट् ।) निमीलनं पक्ष्मावरणम् । क
काणयति चक्षुः पक्ष्मभिरावृतं स्यादित्यर्थः । इति
दुर्गादासः ॥

कणः, पुं, (कणति अतिसूक्ष्मत्वं गच्छति । कण +

पचाद्यच् ।) अतिसूक्ष्मः । (“आनन्दाश्रुकणान्
पिबन्ति शकुना निःशङ्कमङ्केशयाः” ।
इति शान्तिशतकम् ५ ॥) धान्यांशः । इत्यमरः ।
३ । १ । ६२ ॥ (यथा, मनुः । ११ । ९२ ।
“कणान् वा भक्षयेदब्दं पिन्याकं वा सकृन्निशि” ॥)
तस्य स्त्रीलिङ्गे कणी कणिका । वनजीरकः ।
इति राजनिर्घण्टः ॥

कणगुग्गुलुः, पुं, (कणश्चासौ गुग्गुलुश्चेति ।) गुग्गुलु-

प्रभेदः । तत्पर्य्यायः । गन्धराजः २ स्वर्णकर्णः ३
सुवर्णः ४ कनकः ५ वंशपीतः ६ सुरभिः ७
पलङ्कषः ८ ॥ अस्य गुणाः । कटुत्वम् । उष्णत्वम् ।
सुगन्धित्वम् । वातशूलगुल्मोदराध्मानकफनाशि-
त्वम् । रसायनत्वञ्च । इति राजनिर्घण्टः ॥

कणजीरः, पुं, (कणश्चासौ जीरश्चेति नित्यकर्म्मधा-

रयः ।) श्वेतजीरकः । इति राजनिर्घण्टः । (श्वेत-
जीरकशब्देऽस्य गुणा ज्ञेयाः ॥)

कणजीरकं, क्ली, (कणं क्षुद्रं जीरकम् । कणजीर +

स्वार्थे कन् ।) क्षुद्रजीरकम् । तत्पर्य्यायः । हृद्य-
गन्धि २ सुगन्धम् ३ । इति रत्नमाला शब्द-
चन्द्रिका च ॥

कणभक्षकः, पुं, (कणान् भक्षयति भक्षति वा । कण

+ भक्ष + ण्वुल् ।) भारिटपक्षी । इति राज-
निर्घण्टः ॥

कणलाभः, पुं, (कणानां लाभो यस्मात् सः । पेषण-

साधनयन्त्रविशेषः स सादृश्येनास्त्यस्य । अर्श-
आदिभ्यः अच् ।) आवर्त्तः । इति त्रिकाण्डशेषः ।
जलेर घूर्णा इति भाषा ॥

कणा, स्त्री, (कण + स्त्रियां टाप् ।) जीरकम् । कुम्भी-

रमक्षिका । पिप्पली । इति मेदिनी ॥
(“द्राक्षां कणां पञ्चमूलं तृणाख्यञ्च पचेज्जले ।
तेन क्षीरं शृतं शीतं पिबेत् समधुशर्करम्” ॥
इति पित्तकासचिकित्सायां वाभटेनोक्तम् ॥)
श्वेतजीरकम् । इति राजनिर्घण्टः ॥ (“कणा स्या-
द्दीर्घजीरकः” ॥ इति भाबप्रकाशः ॥ * ॥) अल्पम् ।
यथा, --
“कदलीफलमध्यस्थं कणामात्रमपक्वकम्” ।
इति तिथ्यादितत्त्वम् ॥

कणाटीनः, पुं, (कणाय अटतीति । कण + अट +

इनन् दीर्घत्वञ्च पृषोदरादित्वात् ।) खञ्जनपक्षी ।
इति त्रिकाण्डशेषः ॥

कणाटीरः, पुं, (कणाय अटति । कण + अट +

ईरन् ।) खञ्जनपक्षी । इति शब्दरत्नावली ॥

कणाटीरकः, पुं, (कणाटीर + स्वार्थे कन् ।) खञ्जन-

पक्षी । इति शब्दरत्नावली ॥

कणादः, पुं, (कणं अत्ति भक्षयति । कण अद +

कर्म्मणि उपपदे अण् ।) स्वनामख्यातमुनिविशेषः ।
तत्पर्य्यायः । काश्यपः २ । इति त्रिकाण्डशेषः ॥
स च वैशेषिकदर्शनकर्त्ता । स्वर्णकारः । कलादो
रुक्मकारक इत्यमरोपरि कणाद इत्यपि पाठः ।
इति सारसुन्दरी ॥

कणिकः, पुं, (कणैव इति स्वार्थे कन् अत इत्वम् ।)

कणा । शत्रुः । नीराजनविधिः । इति सारस्वतः ॥
शुष्कगोधूमचूर्णम् । इति राजनिर्घण्टः ॥ (कणा
विद्यतेऽस्य अस्त्यर्थे ठन् । स्वार्थे ठन् वा । “नाभे-
रभूत् स्वकणिकाद् वटवन्महाब्जं” इति भाग-
वतम् । ७ । ९ । ३३ ॥ धृतराष्ट्रमन्त्रिविशेषः ।
यथा महाभारते । १ । सम्भवपर्ब्बणि १४१ । २ ।
“तत आहूय मन्त्रज्ञं राजशास्त्रार्थवित्तमम् ।
कणिकं मन्त्रिणां श्रेष्ठं धृतराष्ट्रोऽब्रवीद्वचः” ॥)

कणिका, स्त्री, (कणाः सन्त्यस्याः । “अत इनठनाविति

ठन्” ५ । २ । ११५ । कणति स्थूलरूपात् क्रमशो
गच्छति अत्यन्तसूक्ष्मतां प्राप्नोति इत्यर्थः । पचा-
द्यच् स्वार्थे कन् अत इत्वं टाप् च ।) अत्यन्त-
सूक्ष्मवस्तु । अग्निमन्थवृक्षः । इति मेदिनी ॥ कणा ।
तण्डुलविशेषः । इत्यमरटीकायां रायमुकुटः ॥
(जलादीनां सूक्ष्मांशः । यथा, मेघदूते ९९ ।
“तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन
प्रत्याश्वस्तां सममभिनवैर्जालकै र्मालतीनाम्” ॥)

कणितं, क्ली, (कण आर्त्तनादे + भावे क्तः ।) पीडि-

तानां शब्दः । इति हेमचन्द्रः ॥

कणिशं, क्ली, (कणो विद्यतेऽस्य इति इनिः तं श्यति ।

कणि + शो + कः । यद्वा कणिनः शेरतेऽस्मिन् ।
कणिन् + शी + डः । कणाः सन्त्यस्य इत्यमरटीका
कृत् ।) शस्यमञ्जरी । इत्यमरः । २ । ९ ॥ २१ ।
धान्यादिर शिष इति भाषा ॥

कणी, स्त्री, (कण + स्त्रियां ङीप् गौरादित्वात् ङीष्

वा ।) कणिका । इत्यमरटीकायां भरतः ॥

कणीकं, त्रि, (कण + ईकन् ।) अल्पम् । इत्युणादि-

कोषः ॥

कणीयः, [स्] त्रि, (कण + ईयसुन् ।) अत्यल्पम् ।

इत्यमरः ॥ कनिष्ठम् । इति तट्टीका ॥ (यथा हठ-
योगदीपिकायां । २ । १२ । “कणीयसि भवेत् स्वेदः
कम्पो भवति मध्यमे” ॥)

कणेरः पुं, (कण + एरप्रत्ययः ।) कर्णिकारवृक्षः ।

इत्युणादिकोषः ॥

कणेरा, स्त्री, (कण + एरष्टाप् च ।) वेश्या । हस्तिनी ।

इत्युणादिकोषः ॥

कणेरुः स्त्री, (कण + एरु ।) वेश्या । करिणी । कर्णि-

कारवृक्षे पुं । इति मेदिनी ॥

कण्टकः, पुं, क्ली, (कण्टति इति कटि ण्वुल् । अर्द्धार्च्चादि

पां २ । ४ । ३१ ।) क्षुद्रशत्रुः । (यथा विष्णुपुराणे
१ । १९ । ३१ । “प्रह्लादः कथ्यतां सम्यक् तथा
कण्टकशोधने” ॥) मत्स्याद्यस्थि । नैयायिकादि-
दोषोक्तिः । रोमाञ्चः । द्रुमाङ्गम् । इति मेदिनी ॥
काँटा इति भाषा ॥ (तथा चोक्तं चाणक्यशतके २२ ।
“उपकारगृहीतेन शत्रुणा शत्रुमुद्धरेत् ।
पादलग्नं करस्थेन कण्टकेनेव कण्टकम्” ॥)
केन्द्रम् । इति दीपिका ॥

कण्टकः, पुं, (कटि + ण्वुल् ।) सूच्यग्रम् । क्षुद्रशत्रुः ।

(यथा, मनुः । ९ । २५२ ।
“सम्यङ्निविष्टदेशश्च कृतदुर्गश्च शास्त्रतः ।
कण्टकोद्धरणे नित्यमातिष्ठेद्यत्नमुत्तमम्” ॥)
लोमहर्षः । इत्यमरः ३ । ५ । ३२ ॥ कर्म्मस्थानम् ।
दोषः । इति जटाधरः ॥ मकरः । इति विश्वः ॥
वेणुः । इति हेमचन्द्रः ॥ (लोकोपद्रवकारी ।
यथा, भागवते । ३ । १८ । २३ ।
“अन्वेषन्नप्रतिरथो लोकानटति कण्टकः” ॥)

कण्टकद्रुमः, पुं, (कण्टकप्रधानो द्रुमः । कण्टकेना-

चितोद्रुमो वा ।) शाल्मलिवृक्षः । इति राज-
निर्घण्टः ॥ (यथा मृच्छकटिके । १४० । ४ ।
“किं कुलेनोपदिष्टेन शीलमेवात्र कारणम् ।
भवन्ति नितरां स्फीताः सुक्षेत्रे कण्टकद्रुमाः” ॥
“दैतेयचन्दनवने जातोऽयं कण्टकद्रुमः” ।
इति भागवतम् । ७ । ५ । १७ ॥ शाल्मलीशब्दे
विशेषोऽस्य ज्ञेयः ॥)

कण्टकप्रावृता, स्त्री, (कण्टकैः प्रावृता व्याप्ता ।

कण्टक + प्र + आ + वृ + कर्म्मणि क्त + टाप् ।)
गृहकन्या । इति राजनिर्घण्टः । घृतकुमारी इति
भाषा ॥

कण्टकफलः पुं, (कण्टकैराचितं व्याप्तं फलं यस्य ।

शाकपार्थिवादिवत् मध्यपदलोपी समासः ।)
पनसवृक्षः । इत्यमरटीकायां भरतः ॥ गोक्षुर-
वृक्षः । इति रत्नमाला ॥ (अस्य गुणादयः कण्टा-
फलशब्दे ज्ञेयाः ॥)

कण्टकवृन्ताकी, स्त्री, (कण्टकाचिता वृन्ताकी ।

शाकपार्थिवादित्वात् मध्यपदलोपश्च ।) वार्त्ताकी ।
इति राजनिर्घण्टः ॥

कण्टकश्रेणी, स्त्री, (कण्टकानां श्रेणिर्यत्र । श्रेणी

यस्यां वा ।) कण्टकारी । इति शब्दचन्द्रिका ॥

कण्टकागारः, पुं, (कण्टका आगारो यस्य । यद्वा

कण्टकं आगिरति । आ + गॄ + अच् ।) सरट-
जन्तुः । इति राजनिर्घण्टः ॥

कण्टकाढ्यः, पुं, (कण्टकैराढ्यः ।) कुब्जकवृक्षः । इति

राजनिर्घण्टः ॥

कण्टकारिका, स्त्री, (कण्टकान् इयर्त्ति ऋच्छति वा

कण्टक + ऋ + कर्त्तरि + ण्वुल् । स्त्रियां टाप्
इत्वं च । यद्वा कण्टकं ऋच्छति + ऋ कर्म्मण्यण्
ततः कन् च ततः प्राग्वत् । तत्फले तु अणि कृते
हरीतक्यादित्वात् लुक् ।) स्वनामख्यातक्षुद्रवृक्षः ।
तत्पर्य्यायः । निदिग्धिका २ स्पृशो ३ व्याघ्रो ४
वृहती ५ प्रचोदनी ६ कुली ७ क्षुद्रा ८ दुष्पर्शा
९ राष्ट्रिका १० । इत्यमरः ॥ अनाक्रान्ता ११
भण्टाकी १२ सिंही १३ धावनिका १४ । इति
रत्नमाला ॥ कण्टकारी १५ कण्टकिनी १६ दुष्प-
धर्षिणी १७ निदिग्धा १८ धावनी १९ क्षुद्र-
कण्टिका २० बहुकण्टा २१ क्षुद्रफला २२ कण्टा-
पृष्ठ २/०१४
:लिका २३ चित्रफला २४ । अस्या गुणाः । कटु-
त्वम् । उष्णत्वम् । दीपनत्वम् । श्वास-काश-प्रति-
श्याय-दोष-कफ-वात-ज्वर-नाशित्वञ्च । इति राज-
निर्घण्टः ॥ तृष्णानाशित्वम् । इति राजवल्लभः ॥
तस्याः फलगुणाः । पित्तकफकण्डूकुष्ठकृमिनाशि-
त्वम् । लधुत्वम् । उष्णत्वम् । कटुत्वम् । तिक्तत्वञ्च ।
इति राजनिर्घण्टराजवल्लभौ ॥
(“मुस्तामृतामलक्यश्च नागरं कण्टकारिका ।
कणाचूर्णान्वितः क्वाथस्तथा मधुसमन्वितः ।
एकाहिकं वा वेलाद्यं ज्वरजातं व्यपोहति” ॥
इति हारीतः ॥ * ॥ अस्या विशेषश्च कण्टकारी-
शब्दे ज्ञातव्यः ॥)

कण्टकारी, स्त्री, (कण्टकं ऋच्छति । कण्टक + ऋ +

अण् + ङीप् च ।) कण्टकारिकावृक्षः । इति
राजनिर्घण्टः ॥ शाल्मलीवृक्षः । इति जटाधरः ॥
विकङ्कतवृक्षः । इति शब्दरत्नावली वँइचि इति
भाषा ॥ तत्पर्य्यायगुणाः ।
“कण्टकारी तु दुष्पर्शा क्षुद्रा व्याध्री निदिग्धिका ।
कण्टालिका कण्टकिनी धावनी वृहती तथा” ॥
उमे च वृहत्यौ । यदाह शाश्वतः ॥
“क्षुद्रायां क्षुद्रभण्टाक्यां वृहतीति निगद्यते ।
श्वेता क्षुद्रा चन्द्रहासा लक्ष्मणा क्षेत्रदूतिका ॥
गर्भदा चन्द्रभा चन्द्रा चन्द्रपुष्पा प्रियङ्करी ।
कण्टकारी सरा तिक्ता कटुका दीपनी लघुः ॥
रूक्षोष्णा पाचनी कासश्वासज्वरकफानिलान् ।
निहन्ति पीनसं पार्श्वपीडाकृमिकृदामयान् ॥
तयोः फलं कटुरसे पाके च कटुकं भवेत् ।
शुक्रस्य रेचनं भेदि तिक्तं पित्ताग्निकृल्लघु ॥
हन्यात् कफमरुत्कण्डूकाशमेदकृमिज्वरान् ।
तद्वत् प्रोक्ता सिता क्षुद्रा विशेषाद्गर्भकारिणी” ॥
इति भावप्रकाशः ॥ (शब्दार्थचिन्तामणिधृत-
वैद्यकम् । यथा
“कण्टकारी कण्टकिनी तथा स्वादुश्च शुक्रला ।
चक्षुष्या क्षतशोथघ्नी ग्राहिणी ज्वरदाहनुत् ।
दोषत्रयहरी लघ्वी ग्रहण्यर्शोऽतिसारजित्” ॥
“कण्टकार्य्यमृताभार्गी नागरेन्द्रयवासकम् ।
भूनिम्बं चन्दनं मुस्तं पटोलं कटुरोहिणी ॥
कषायं पाययेदेतत् पित्तश्लेष्मज्वरापहम् ।
दाहतृष्णारुचिच्छर्द्दिकासहृत् पार्श्वशूलनुत्” ॥
इति वैद्यकचक्रपाणिसंग्रहः ॥
“कण्टकारीतुलां नीरद्रोणे पक्त्वा कषायकम् ।
पादशेषं गृहीत्वा च तस्मिंश्चूर्णानि दापयेत् ॥
पृथक् पलांशान्येतानि गुडूचीचव्यचित्रकाः ।
मुस्तं कर्कटशृङ्गी च त्र्यूषणं धन्वयासकम् ॥
भार्गी रास्ना शठीचैव शर्करा पलविशतिः ।
प्रत्येकञ्च पलान्यष्टौ प्रदद्यात् घृततैलयोः ॥
पक्त्वा लेहत्वमानीय शीते मधुपलाष्टकम् ।
चतुष्पलं तु गाक्षीर्य्याः पिप्पलीनां चतुष्पलम् ॥
क्षिप्त्वा निदध्यात् सुदृढे मृण्मये भाजने शुभे ।
लेहोऽयं हन्ति हिक्कार्त्तिश्वासकासानशेषतः” ॥
कण्टकार्य्यवलेहः ॥ * ॥ इति च शार्ङ्गधरः ॥)

कण्टकालः, पुं, (कण्टकैः कण्टकाकीर्णफलैः अलति

शोभते । कण्टक + अल् + अच् । कण्टं कण्डका-
कारं फलं कालयति वा । कल् + अण् ।) पनस-
वृक्षः । इति शब्दचन्द्रिका ॥

कण्टकालुकः, पुं, (कण्टकैरलति पर्य्याप्नोति कण्टंका-

लयति वा कण्टक + अल् + उकञ् ।) यवासवृक्षः ।
इति राजनिर्घण्टः ॥ (यवास-शब्देऽस्य गुणादयो
बोद्धव्याः ॥)

कण्टकाशनः, पुं, (कण्टकं अश्नातीति । कण्टक +

अश ग् भोजने + कर्त्तरि + ल्युः ।) उष्ट्रः । इति
त्रिकाण्डशेषः ॥

कण्टकाष्ठीलः, पुं, (कण्टकः अष्टीलेव यस्य ।) मत्स्य-

विशेषः । तत्पर्य्यायः । कुलिशम् २ । इति त्रिका-
ण्डशेषः ॥

कण्डकिनी, स्त्री, (कण्डकाः सन्त्यस्याः । इनिः । ईप्

च ।) वार्त्ताकी । शोणझिण्टी । मधुखर्ज्जुरी ।
इति राजनिर्घण्टः ॥

कण्टकिफलः, पुं, (कण्टकि कण्टकयुक्तं फलं यस्य ।)

वृक्षविशेषः । काँटाल इति भाषा । तत्पर्य्यायः ।
पनसः २ । इत्यमरः । २ । ४ । ६१ ॥ पलसः ३
कण्टकीफलः ४ कण्टकफलः ५ । इति तट्टीका ॥
महासर्जः ६ फलिनः ७ फलवृक्षकः ८ स्थूलः ९
कण्टाफलः १० मूलफलदः ११ अपुष्पफलदः १२
पूतफलः १३ चम्पकोषः १४ चम्पालुः १५ रसालः
१६ मृदङ्गफलः १७ पानसः १८ । इति शब्द-
रत्नावली ॥ अस्य गुणाः कण्टाफलशब्दे पनस-
शब्दे च द्रष्टव्याः ॥ समष्ठिलवृक्षः । इति राज-
निर्घण्टः ॥

कण्टकिलः, पुं, (कण्टकोऽस्त्यस्य । कण्टक + अस्त्यर्थे

इलच् ।) वंशविशेषः । इति शब्दचन्द्रिका । वेडु-
वाँश इति भाषा ॥

कण्टकिलता, स्त्री, (कण्टकिनी चासौ लता चेति ।)

त्रपुषी । इति राजनिर्घण्टः । शसा इति भाषा ॥
(त्रपुषीशब्दे विशेषोऽस्या द्रष्टव्यः ॥)

कण्टकी, [न्] पुं, (कण्टकोऽस्त्यस्य अस्त्यर्थे इनिः ।)

मत्स्यः । इति शब्दरत्नावली ॥ खदिरवृक्षः । इति
शब्दमाला ॥ मदनवृक्षः । इति रत्नमाला ॥ गो-
क्षुरवृक्षः । वंशः । वदरवृक्षः । इति राजनिर्घण्टः ॥
(यथा, महाभारते १ । शाकुन्तले ७० । ७ ।
“नापुष्पः पादपः कश्चिन्नाफलो नापि कण्टकी” ॥)

कण्टकी, स्त्री, (कण्टक + अर्श आदित्वात् अच् गौ-

रादित्वात् ङीष् ।) वार्त्ताकीविशेषः । काँटा वेगुन्
इति भाषा । अस्या गुणा । कटुत्वम् । तिक्तत्वम् ।
उष्णत्वम् । रक्तपित्तप्रकोपणत्वम् । कण्डूकच्छु-
हरत्वम् । दोषलत्वञ्च । इति राजवल्लभः ॥

कण्टकीद्रुमः, पुं, (कण्टकी द्रुमः । पृषोदरा-

दित्वात् दीर्घः ।) खदिरवृक्षः । इति रत्न-
माला ॥ (खदिरशब्दे विशेषो वक्तव्यः ॥ कण्डकी
एव द्रुमः । वार्त्ताकीवृक्षः ॥)

कण्टकीफलः, पुं, (कण्टकि कण्टकाचितं फलमस्य ।

पृषोदरात् साधुः ।) कण्टकिफलः । इत्यमर-
टीकायां भरतः ॥ काँटाल इति भाषा ॥

कण्टकुरण्टः, पुं, (कण्टः कण्टकप्रधानः कुरण्टः ।)

झिण्टी । इति राजनिर्घण्टः ॥ (झिण्टीशब्देऽस्य
विशेषो ज्ञेयः ॥)

कण्टतनुः, स्त्री, (कण्टा कण्टकान्विता तनुर्यस्याः ।)

वृहती इति राजनिर्घण्टः ॥ (एषा हि तिक्त-
कटुका । इति वैद्यकद्रव्यगुणः ॥)

कण्टदला, स्त्री, (कण्टं कण्टकाचितं दलं यस्याः ।

शाकपार्थिवादित्वात् मध्यपदलोपः ।) केतकी ।
इति राजनिर्घण्टः ॥

कण्टपत्रः, पुं, (कण्टं कण्टकान्वितं पत्रं यस्य ।) विक-

ङ्कतवृक्षः । इति शब्दमाला । वँइचि इति भाषा ॥

कण्टपत्रफला, स्त्री, (कण्टं कण्टकान्वितं पत्रं फलञ्च

यस्याः । कण्डकान्विते पत्रफलेऽस्य वा ।) ब्रह्मदण्डी-
वृक्षः । इति राजनिर्घण्टः ॥

कण्टपादः, पुं, (कण्टः कण्टकान्वितः पादो मूलं

यस्य ।) विकङ्कतवृक्षः । इति राजनिर्घण्टः ॥

कण्ठफलः, पुं, (कण्टं कण्टकान्वितं फलं यस्य ।) क्षुद्र-

गोक्षुरः । पनसः । धुस्तूरः । लताकरञ्जः । इति
राजनिर्घण्टः ॥ तेजःफलः । एरण्डः । इति केचित् ॥

कण्टफला, स्त्री, (कण्टं कण्टकाकीर्णं फलं यस्याः ।)

देवदालीलता । इति राजनिर्घण्टः ॥ (देवदाली-
शब्दे ऽस्या गुणादयो ज्ञेयाः ॥)

कण्टलः, पुं, (कण्टः अस्त्यस्य । मत्वर्थे अलच् । यद्वा

कण्टेन कण्टकेन अलति पर्य्याप्नोति शोभते वा ।
कण्ट + अल् + अच् । शकन्ध्वादिवत् अस्य लोपः ।)
वृक्षविशेषः । वावला इति भाषा । तत्पर्य्यायः ।
वावलः २ स्वर्णपुष्पः ३ सूक्ष्मपत्रः ४ । इति शब्द-
चन्द्रिका ॥

कण्टवल्ली, स्त्री, (कण्टा कण्टकान्विता वल्ली ।)

श्रीवल्लीवृक्षः । इति राजनिर्घण्टः ॥

कण्टवृक्षः, पुं, (कण्टप्रधानः कण्टकमयः कण्टक-

बहुलो वा वृक्षः । मध्यपदलोपी ।) तेजःफलवृक्षः ।
इति राजनिर्घण्टः ॥

कण्टाफलः, पुं, (कटि + भावे + अप् । कण्टा कण्टक-

मयवेष्टनं तदुपलक्षितं फलमस्य ।) पनसवृक्षः ।
इति शब्दमाला । काँटाल इति भाषा ॥ अस्य
पक्वफलगुणाः । सुमधुरत्वम् । रक्तबर्द्धकत्वम् ।
स्निग्धत्वम् । शीतलत्वम् । दुर्ज्जरत्वम् । वायु-
पित्तनाशित्वम् । श्लेष्मशुक्रबलप्रदत्वञ्च । इति राज-
वल्लभः ॥ पिच्छिलत्वम् । गुरुत्वम् । हृद्यत्वम् ।
भ्रमदाहविशोषनाशित्वम् । रुचिकारित्वम् ।
ग्राहित्वञ्च । इति राजनिर्घण्टः ॥ * ॥ तद्वीज-
गुणाः । रक्तपित्तनाशित्वम् । स्वादुत्वम् । फल-
तुल्यगुणत्वञ्च । इति राजवल्लभः ॥ ईषत् कषा-
यत्वम् । मधुरत्वम् । रुचिवायुवृद्धिकारित्वम् ।
गुरुत्वम् । त्वग्दोषतत्फलविकारनाशित्वञ्च । इति
राजनिर्घण्डः ॥ * ॥ तस्यापक्वस्य गुणाः । कषा-
यत्वम् । स्वादुत्वम् । वायुकारित्वम् । इति राज-
वल्लभः ॥ शीतलत्वञ्च ॥ * ॥ घृतयुक्तस्य तस्य गुणाः
स्निग्धत्वम् । हृद्यत्वम् । बलप्रदत्वम् । छर्दिनाशि-
त्वम् । अचक्षुष्यत्वम् । शुक्रकारित्वम् । वातपित्त-
नाशित्वञ्च ॥ तन्मज्जगुणाः । शुक्रकारित्वम् । वात-
पित्तकफनाशित्वम् च ॥ विशेषात् पनसं वर्ज्यं
पृष्ठ २/०१५
:गुल्मिभिर्मन्दवह्निभिः ॥ इति राजनिर्घण्टः ॥
(अन्यत्सर्व्वं पनसशब्दे द्रष्टव्यम् ॥)

कण्टार्त्तगला, स्त्री, (कण्टा कण्टयुक्ता आर्त्तगला ॥

आर्त्तः क्षीणः गलदेशो यस्याः ।) नीलझिण्टी ।
इति राजनिर्घण्टः । (नीलझीण्टीशब्देऽस्य गुणा-
दयो ज्ञेयाः ॥)

कण्टालुः, पुं, (कण्टाय कण्टकाय अलति पर्य्याप्नोति ।

कण्ड + अल् + उन् ।) वंशः । वृहती । वार्त्ताकी ।
वर्व्वूरः । इति राजनिर्घण्टः ॥

कण्टाह्वयं, क्ली, (कण्टं कण्डकमाह्वयते स्पर्द्धते ।

कण्ट + आ + ह्वे + कः ।) पद्मकन्दः । इत्ति रा-
जनिर्घण्टः ॥

कण्टी, [न्] पुं, (कण्टः कण्टकः अस्त्यस्य । अस्त्यर्थे

इनिः ।) कलायः अपामार्गः । खदिरः । गो-
क्षुरः । इति राजनिर्घण्टः ॥

कण्ठः, पुं, (कठि + अच् + इदित्वात् नुम् ।) मदन-

वृक्षः । इति मेदिनी ॥ होमकुण्डाद्वहिरङ्गुलि-
परिमितस्थानम् । यथा, --
“खाताद्वाह्येऽङ्गुलः कण्ठः सर्व्वकुण्डेष्वयं विधिः” ॥
इति तिथ्यादितत्त्वम् ॥ (कण्शब्द “कणेष्ठः” ।
इति ठः । उणं १ । १०५ ।)
ग्रीवापुरोभागः ॥ तत्पर्य्यायः ।
गलः २ । इत्यमरः । २ । ६ । ८८ ॥
(यथा, शाकुन्तले । १ म अङ्के ।
“विकचसरसिजायाः स्तोकनिर्मुक्तकण्ठं
निजमिवकमलिन्याः कर्क्कशंवृन्तजालम्” ॥)
अत्र विशुद्धनामषोडशदलपद्ममस्ति । यथा, --
“तदूर्द्ध्वन्तु विशुद्धाख्यं दलषोडशपङ्कजम् ।
स्वरैः षोडशभिर्युक्तं धूमवर्णैर्महाप्रभम् ॥
विशुद्धपद्ममाख्यातमाकाशाख्यं महाद्भुतम्” ॥
इति गौतमतन्त्रम् ॥ निकटः । ध्वनिः । इति
मेदिनी ॥

कण्ठकूणिका, स्त्री, (कण्ठ इव कण्ठध्वनिरिव कूण-

यतीति । कण्ठ + कूण् + ण्वुल् । टापि अत इत्वं
च वीणायाः कण्ठतुल्यस्पष्टध्वनिरितिप्रसिद्धेः ।)
वीणा । इति हेमचन्द्रः ॥

कण्ठतलासिका, स्त्री, (कण्ठतले अश्वानां कण्ठदेशे

आस्ते इति । कण्ठ + आस + ण्वुल् + टापि अत
इत्वं च ।) अश्वग्रीवावेष्टकरज्जुचर्म्मादि । इति
शब्दमाला ॥

कण्ठनीडकः, पुं, (कण्ठे निकटस्थे नीडे शत्रून् दृष्ट्वा

कायति शब्दायते । कण्ठ + कै + कः । यद्वा कण्ठे
प्रासादवृक्षादीनां शिरोभागे नीडं यस्य + कप् ।)
चिल्लपक्षी । इति त्रिकाण्डशेषः । चिल् इति भाषा ॥

कण्ठनीलकः, पुं, (कण्ठं धारकस्य कण्ठादिकमूर्द्ध्व-

स्थानं नीलयति स्वशिखाकज्जलेन नीलवर्णं करो-
तीति । कण्ठ + नील् + णिच् + ण्वुल् । अथवा
कण्ठे शिखाग्रभागे नीलवर्णोऽस्य कप् ।) उल्का ।
इति शब्दमाला । मसाल इति भाषा ॥

कण्ठपाशकः, पुं, (कण्ठे पाश इव कायति प्रकाशते ।

कण्ठपाश + कै + कः ।) हस्तिगलवेष्टकरज्जः ।
इति शब्दमाला ॥

कण्ठभूषा, स्त्री, (भूष्यतेऽनया इति भूषा । कण्ठस्य

भूषा ।) ग्रीवालङ्कारः । तत्पर्य्यायः । ग्रैवेयकम् २ ।
इत्यमरः । २ । ६ । १०४ ॥ ग्रैवेयम् ३ ग्रैवम् ४ ।
इति शब्दरत्नावली ॥ रुचकः ५ निष्कम् ६ । इति
जटाधरः ॥

कण्ठमणिः, पुं, (कण्ठे कण्ठस्थले धारणीयो मणिः ।

कण्ठस्य मणिर्वा ।) गलदेशधारणीयमणिः । तत्-
पर्य्यायः । काकलम् २ । इति त्रिकाण्डशेषः ॥

कण्ठ्यः, त्रि, (कण्ठे + भवः । शरीरावयवत्वात् यत् ।

६ । १ । २१३ ।) कण्ठोद्भवशब्दादिः । इति व्या-
करणम् ॥ “अकुहविसर्ज्जनीयानां कण्ठः” । पां ।
१ । १ । ९ वार्त्तिके ॥)

कण्ठाग्निः, पुं, (कण्ठे कण्ठाभ्यन्तरे अग्निः पाचन-

रूपाग्निर्यस्य ।) पक्षी । इति त्रिकाण्डशेषः ॥

कण्ठालः, पुं, (कठि + आलच् ।) शूरणः । युद्धम् ।

नौका । खनित्रम् । इति विश्वः ॥ क्रमेलकः ।
गोणीप्रभेदः । इति मेदिनी ॥

कण्ठाला, स्त्री, (कटि + आलच् + टाप् ।) जालगो-

णीका । इति त्रिकाण्डशेषो मेदिनी च ॥

कण्ठिका, स्त्री, (कण्ठो भूष्यतयास्त्यस्याः । कण्ठ

+ ठन् टाप् च । यद्वा कण्ठयति कण्ठं भूषयति
या । कठि + णिच् + ण्वुल् + टाप् अत इत्वञ्च ।)
कण्ठाभरणम् । इति हेमचन्द्रः ॥ एकनरी कण्ठी
इति भाषा ॥

कण्ठी, स्त्री, (कण्ठ + अल्पार्थे ङीप् ।) अश्व कण्ठ-

वेष्टनरज्जुचर्म्मादि । इति शब्दमाला ॥ गलः ।
इत्यमरटीकायां भरतः ॥

कण्ठीरवः, पुं, (कण्ठ्यां रवो यस्य ।) सिंहः । इति

त्रिकाण्डशेषः ॥ पारावतः । इति राजनिर्घण्टः ॥
मत्तहस्ती । इति सारस्वतः ॥

कण्ठीरवी, स्त्री, (कण्ठीरव + गौरादित्वात् जातौ

वा ङीष् ।) वासकवृक्षः । इति राजनिर्घण्टः ॥

कण्ठेकालः, पुं, (कण्ठे + कालः क्षीरोदमन्थनोद्भव-

विषपाननिदर्शनरूपनीलवर्णो यस्य । सप्तम्या अ-
लुक् ।) महादेवः । इति त्रिकाण्डशेषः ॥ (कण्ठे
जीवानां कण्ठदेशे कालः कालस्वरूपेण वर्त्तते ।
यद्वा कण्ठदेशपर्य्यन्तं आक्रम्य तमःप्रधाना माया
अस्त्यस्य । परमात्मनः मायाशवलितत्रिपादत्वात्
तथात्वम् । एष सर्व्वज्ञः सर्व्वान्तर्यामीश्वरः । एत-
स्मात् पादत्रयादन्यत् तुरीयं निष्कलं निरुपा-
धिकं शिवपादमस्ति ॥
यथा, माण्डुक्योपनिषदि ।
“सर्व्वं ह्येतद्ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा
चतुष्पात्” ॥ २ ॥
“जागरितस्थानो वहिःप्रज्ञः सप्ताङ्ग एकोनविं-
शतिमुखः स्थूलभुक् वैश्वानरः प्रथमः पादः” ॥ ३ ॥
“स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशति-
मुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः” ॥ ४ ॥
“यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन
स्वप्नं पश्यति तत्सुषुप्तम् । सुषुप्तस्थान एकीभूतः
प्रज्ञानघन एवानन्दमयो ह्यानन्दभूक् चेतोमुखः
प्राज्ञस्तृतीयः पादः” ॥ ५ ॥
“एष सर्व्वेश्वरः एष सर्व्वज्ञ एषोऽन्तर्याम्येष-
योनिः सर्व्वस्य प्रभावाप्ययो हि भूतानाम्” ॥ ६ ॥
“नान्तः प्रज्ञं न वहिःप्रज्ञं नोभयतः प्रज्ञं न
प्रज्ञानघनं न प्रज्ञं नाप्राज्ञमदृष्टमव्यवहार्य्यम-
ग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं
प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थंमन्यन्ते स
आत्मा स विज्ञेयः” ॥ ७ ॥)

कण्डनं, क्ली, (कडि + भावे ल्युट ।) उदूखलादिना

तण्डुलादेर्निर्मलीकरणं । इति हेमचन्द्रः । काँडान
इति भाषा ॥

कण्डनी, स्त्री, (कण्ड्यते तुषादिरपनीयतेऽनया । कडि

+ करणे ल्युट् । ङीप्च ।) उदूखलम् । इति त्रि-
काण्डशेषः ॥ (यथा, मनुः । ३ । ६८ ।
“पञ्चसूना गृहस्थस्य चुल्लीपेषण्युपस्करम् ।
कण्डनीचोदकुम्भश्च बध्यते यास्तुवाहयन्” ॥)

कण्डरा, स्त्री, (कडि + अरन् टापच् ।) महास्रायुः ।

महानाडी । इति हेमचन्द्रः ॥
(“महत्थः स्रायवः प्रोक्ताः कण्डरास्तास्तु षोडश ।
प्रसारणाकुञ्चनयोर्दृष्टं तासां प्रयोजनम् ॥
चतस्रो हस्तयोस्तासां तावत्यः पादयोः स्मृताः ।
ग्रीवायामपि तावत्यस्तावत्यः पृष्ठसङ्गताः” ॥
“तत्र पादहस्तगतानां कण्डराणां नखाः प्ररोहाः
ग्रीवानिबन्धनानामधोभागगतानां प्ररोहा मेढ्रः
पृष्ठनिबन्धनां प्ररोहो नितम्बमूर्द्धोरुवक्षोऽक्ष-
स्तनपिण्डाः” ॥ इति भावप्रकाशः ॥
“तलं प्रत्यङ्गुलीनां याः कण्डरा बाहुपृष्ठतः ।
बाह्वोः कर्म्मक्षयकरी विश्वचीति हि सोच्यते” ॥
इति च सुश्रुतः ॥)

कण्डुः, स्त्री, (कण्डते शरीरं माद्यति अस्मात्

उष्णशोणितत्वात् । यद्वा कण्डयति कण्डुयुक्तं
करोति शरीरम् । कडि + मदे । “मृगष्वादयश्च” ।
उणां १ । ३८ । इति कुः ।) कण्डूः । इति राय-
मुकुटः ॥ (पुं ऋषिविशेषः ।
(यथा, विष्णुपुराणे १ । १५ । ११ ।
“कण्डुर्नाम मुनिः पूर्ब्बमासीद् वेदविदां वरः ।
सुरम्ये गोमतीतीरे स तेपे परमं तपः” ॥
तद्विवरणं तत्रैव १ मांशे १५ अध्याये द्रष्टव्यम् ।)

कण्डुरः, पुं, (कण्डूं राति ददातीति । “आतोनुपसर्गे

कः” । ३ । २ । ३ । पृषोदरादित्वात् ह्रस्वः ।)
कारवेल्ललता । कुन्दरतृणम् । इति राजनिर्घण्टः ॥

कण्डुरा, स्त्री, कण्डुं राति । कण्डू + रा + कः । ह्रस्वश्च ।

ततष्टाप् ।) कपिकच्छुः । अत्यम्लपर्णी । इति राज
निर्घण्टः ॥ (शूकशिम्बीशब्दे विशेषोऽस्य वक्तव्यः ॥

कण्डूः, स्त्री (कण्डूय + सम्पदादित्वात् क्विप् अलोप-

यलोपौ ।) रोगविशेषः । चुल्कनि खोस् इत्यादि
भाषा । (यथा, भागवते । २ । ७ । १३ ।
“षष्ठेन कच्छपवपुर्विदधार गोत्रं
निद्राक्षणोऽद्रिपरिवर्त्त कषाण कःण्डू” ॥)
तत्पर्य्यायः । खर्ज्जुः २ कण्डूया ३ । इत्यमरः । २ ।
६ । ५३ ॥ कण्डूति ४ । इति तट्टीका ॥ कण्टूय
नम् ५ । इति राजनिर्घण्डः ॥
तच्चिकित्सा यथा, --
पृष्ठ २/०१६
:“दूर्ब्बानिशायुतो लेपः कण्डूपामविनाशनः ।
कृमिदद्रुहरश्चैव शीतपित्तापहः स्मृतः ॥ १ ॥
हरिद्रायाः पलान्यष्टौ षट्पलं हविषस्तथा ।
क्षीराढकेन संयुक्तं खण्डस्यार्द्धशतं तथा ॥
पचेन्मृद्वग्निना वैद्यो भाजने मृण्मये दृढे ।
त्रिकटुत्रिजातकञ्चैव कृमिघ्नं त्रिवृता तथा ॥
त्रिफला केशरं मुस्तं लौहं प्रति पलं पलम् ।
संचूर्ण्य प्रक्षिपेत्तत्र कर्षमेकन्तु भक्षयेत् ॥
कण्डूविष्फोटदद्रूणां नाशनं परमौषधम् ।
प्रतप्तकाञ्चनाभासो देहो भवति नान्यथा ॥
शीतपित्तोदर्द्दकोठान् सप्ताहादेव नाशयेत् ।
हरिद्रानामतः खण्डः कण्डूनां परमौषधम्” ॥
इति हरिद्राखण्डः ॥ २ ॥
“अमृतवृषपटोलं मुस्तकं सप्तपर्ण
खदिरमसितवेत्रं निम्बपत्रं हरिद्रे ।
विविधविषविसर्पान् कुष्ठविष्फोटकण्डू
रपनयति मसूरीं शीतपित्तं ज्वरञ्च” ॥
इति अमृतादि ॥ ३ ॥ इति भैषज्यरत्नावली ॥
(“द्विधा ते कोठपिडका कण्डू गण्डान् प्रकुर्व्वते” ।
इति वाभटः ॥ * ॥ “चन्दननलदकृतमालनक्त-
मालनिम्बकुटजसर्षपमधूकदारुहरिद्रामुस्तानीति
दशेमानि कण्डूघ्नानि भवन्ति” ॥ इति चरकः ॥)

कण्डूकरी, स्त्री, (कण्डूं करोति इति । कण्डू + कृ + टः ।

स्त्रियां ङीप् ।) शूकशिम्बीवृक्षः । इति शब्द
चन्द्रिका ॥

कण्डूघ्नः, पुं, (कण्डूं हन्ति । कण्डू + हन् + टक् ।)

आरग्वधः । गौरसर्षपः । इति राजनिर्घण्टः ॥

कण्डूतिः, स्त्री, (कण्डय + भावे क्तिन् । अलोपय-

लोपौ ।) कण्डूः । इति भरतहलायुधौ ॥ चुल्कनि
इति भाषा ॥ (“राज्ञ्या वप्यटदेव्याः स निर्दयैः सुर-
तोत्सोत्वैः । खण्डयामासकण्डूतिम् साप्यस्यार्थे-
षणां धनैः” ॥ इति राजतरङ्गिण्याम् । ५ । २८६ ॥)

कण्डूयनं, क्ली, (कण्डूय + भावे ल्युट् ।) कण्डूः । इति

हलायुधः ॥ (यथा, भागवते । ७ । ९ । ४५ ।
“यन्मैथनादि गृहमेधिसुखं हि तुच्छं
कण्डूयनेन करयोरिव दुःखदुःखम्” ॥)

कण्डूया, स्त्री, (कण्डू + “कण्ड्वादिभ्योयक्” ३ । ३ । १०२ ।

अप्रत्ययात् स्त्रित्वात् टाप् च ।) कण्डूः । इत्यमरः ।
२ । ६ । ५३ ॥

कण्डूरा, स्त्री, (कण्डूं राति । कण्डू + रा + कः । टाप् ।)

वृक्षविशेषः । आलकुशी इति भाषा । तत्पर्य्यायः ।
आत्मगुप्ता २ जडा ३ अव्यण्डा ४ प्रावृषायणी ५
ऋष्यप्रोक्ता ६ शूकशिम्बिः ७ कपिकच्छः ८
मर्कटी ९ । इत्यमरः । २ । ४ । ६ ॥ अजहा १०
अव्यण्डा ११ कण्डूरा १२ शूकशिम्बी १३ शूक-
शिम्बा १४ कपिकच्छुः १५ । इति तट्टीका ॥ ऋ-
षभः १६ स्वगुप्ता १७ । इति रत्नकोषः ॥

कण्डूलः पुं, (कण्डू + अस्त्यर्थे + लच् । कण्डूतिकारक-

त्वात् तथात्वम् ।) शूरणः । इति राजनिर्घण्टः ॥
कण्डूयुक्ते त्रि ॥

कण्डोलः, पुं, (कडि + बाहुलकात् ओलच् ।) नल-

वंशादिरचितधान्यादिस्थापनपात्रम् । डोल् इति
भाषा । तत्पर्य्यायः । पिटः २ । इत्यमरः ।
२ । ९ । २६ ॥ पिटकः ३ पेटकः ४ । इति
भरतः ॥ उष्ट्रः । इत्युणादिकोषः ॥

कण्डोलकः, पुं, (कडि + बाहुलकादोलच् । स्वार्थे-

कन् ।) कण्डोलः । इति हेमचन्द्रः ॥

कण्डोलवीणा, स्त्री (कण्डोल इव वीणा । कण्डोलस्य

वीणा वा ।) चण्डालवीणा । केँद्डा इति ख्याता ।
तत्पर्य्यायः । चाण्डालिका २ चण्डालवल्लकी ३ ।
इत्यमरः । २ । १० । ३२ ॥ चण्डालिका ४ कटोलवीणा
५ । इति भरतः ॥

कण्डोली, स्त्री, (कण्डोलस्तदाकारोऽस्त्यस्याः । अर्श

आदित्वात् अच् + गौरादित्वात् ङीष् ।) कण्डो
लवीणा । इतिशब्दरत्नावली ॥

कण्ड्वोघः, पुं, (कण्डूनामोघः संघोयस्मात् शूककीट-

स्पर्शे कण्डूबहुलत्वमिति प्रसिद्धेस्तथात्वम् ।) शूक
कीटः । इति शब्दचन्द्रिका ॥ शूयापोका इति
भाषा ॥

कण्वं, क्ली, (कण्यते अपोद्यते इति । कण् + क्वन् ।)

पापम् । इति मेदिनी ॥

कण्वः, पुं, (कण् + क्वन् ।) मुनिविशेषः । इति

मेदिनी ॥ स तु पुरुवंशजाताप्रतिरथनामक्षत्त्रिय-
पुत्त्रः । यथा, --
“सुमतिर्ध्रुवोऽप्रतिरथः कण्वोऽप्रतिरथात्मजः ।
तस्य मेधातिथिस्तस्मात् प्रस्कण्वाद्या द्विजातयः” ॥
इति श्रीभागवते । ९ । २० । ६ ॥ (अपर ऋषिभेदः ।
अनेनैव मुनिशार्दूलेन यजुर्व्वेदीयकाण्वशाखा प्र-
णीता । यथा, यजुर्व्वेदे १७ । ७४ ।
“यामस्य कण्वोऽदुहत् प्रपीनां
सहस्रधारां पयसा महीं गाम्” ॥
तथा, भागवते च १२ । ६ । ७४ ।
“यजुर्भिरकरोच्छाखा दशपञ्चशतैर्विभुः ।
जगृहुर्वाजसन्न्यस्ताः काण्वमाध्यन्दिनादयः” ॥
अयन्तु कश्यपवंशोद्भवः शकुन्तलायाः प्रतिपालक
पिता । यथा, महाभारते १ । शाकुन्तले । ७० । ३० ।
“महर्षिं काश्यपं द्रष्टुमथ कण्वं तपोधनम्” ॥
एतस्य सविस्तरन्तु तत्रैव ७१ अध्याये द्रष्टव्यम् ।
अयमेव गोत्रप्रवर्त्तकः । ऋग्वेदे १ । ४४--५०
सूक्तेषु ऋषिगोत्रप्रवर्त्तक कण्ववृत्तान्तमवध्येयम् ॥
कण्व इत्यस्यार्थः कण्वः सुखमयः तत्त्वविद्याप्र-
भावात् नत्वयं संसारजन्यसुखमयः नहि तत्त्व-
ज्ञानिनां क्वचित् संसारासक्तिः अविद्याधर्म्मा-
भावादिति नीलकण्ठः । विद्या क्रियाकुशलः
मेधावी च । इति ऋग्वेदभाष्यकृद्दयानन्दः ॥
स्वनामाख्याततीर्थविशेषः । यथा, महाभारते ।
३ । ८२ । ४४ ।
“कण्वाश्रमं ततो गच्छेत् श्रीजुष्टं लोकपूजितम् ।
धर्म्मारण्यं हि तत्पुण्यमाद्यञ्च भरतर्षभ !” ॥)

कतः, पुं, मुनिविशेषः । इत्युणादिकोषः ॥ (अयन्तु

विश्वामित्रपुत्त्रानामेकतमः । कं जलं शुद्धं तनोति
कं + तन + ड ।) कतकवृक्षः । इति राज-
निर्घण्टः ॥

कतकः, पुं, (तक् + हासे + बाहुलकाद्घः । कस्य

जलस्य तकः हासः प्रकाशः प्रसाद इति यावत्
अस्मात् ।) वृक्षविशेषः । निर्म्मली इति भाषा ।
तत्पर्य्यायः । अम्बुप्रसुदः २ कतः ३ तिक्तफलः ४
रुच्यः ५ छेदनीयः ६ गुच्छफलः ७ कतफलः ८ ति-
क्तमरिचः ९ ॥ अस्य गुणाः । कटुत्वम् । तिक्तत्वम् ।
उष्णत्वम् । चक्षुर्हितत्वम् । रुचिकारित्वम् । कृमि-
दोषशू लदोषनाशित्वच्च । तस्य वीजं अम्बुप्रसाद-
नम् । इतिराजनिर्घण्टः ॥ (यथा, मनुः । ६ । ६७ ।
“फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम् ।
न नामग्रहणादेव तस्य वारिप्रसीदति” ॥
“पयः प्रसादि कतकङ्कतकं तत्फलञ्च तद् ।
कतकस्य फलं नेत्र्यं जलनिर्म्मलता करम् ।
वातश्लेष्महरं शीतं मधरं तुवरं गुरु” ॥
इति भावप्रकाशः ॥)

कतफलः पुं, (कं जलं तनोति प्रसन्नं सम्पादयति ।

क + तन् + ड । तादृशं फलमस्य ।) कतकवृक्षः ।
इति राजनिर्घण्टः ॥

कतमालः, पुं, (तम + घञ् ह्रस्वः । कस्य जलस्य तमाय

शोषणाय अलति पर्य्याप्नोति । क + तम + अल्
+ अच् ।) अग्निः । इति शब्दमाला ॥ कचमालः
खतमालश्च पाठः ॥

कति, त्रि, (का सङ्ख्या किं परिमाणं वा एषां

“किमः सङ्ख्यापरिमाणे डति” ५ । २ । ४१ ।
इति डति ।) कियत्परिमाणम् । इति व्याकरणम् ॥
कत इति भाषा । (यथा, अथर्व्ववेदे १० । २ । ४ ।
“कति देवाः कतमे त आसन् य उरोग्रीवाश्चिक्युः
पुरुषस्य कतिस्तनौ व्यदधुः कः कफोडौ कति-
स्कन्धान् कतिपृष्टी रचिन्वन्” ॥ पुं । विश्वामि-
त्रस्य पुत्त्राणामेकतमः । यद्वंशोद्भूत सूत्रकृत्
कात्यायनर्षिः ॥)

कतिपयः, त्रि, (किम् + डति कति अयक् पुकच् ।)

कति । इति व्याकरणम् । कतकगुलि इति भाषा ।
(यथा, मेघदूते २५ ।
“सम्पत्स्यन्ते कतिपयदिनस्थायिहंसादशार्णाः” ॥)

कत्तृणं, क्ली, (कद् कुत्सितं तृणं इति । अत्र कद् स्वार्थे

कोः कदादेशः “तृण च जातौ” । ६ । ३ । १०३ ।)
सुगन्धितृणविशेषः । रामकर्पूर इति ख्यातम् ।
तत्पर्य्यायः । पौरम् २ सौगन्धिकम् ३ ध्याम ४ देव-
जग्धकम् ५ रौहिषम् ६ । इत्यमरः । २ । ४ । १६६ ॥
सुगन्धम् ७ तृणशीतम् ८ सुशीतलम् ९ । इति
रत्नमाला ॥ रोहिषतृणम् १० कात्तृणम् ११
भूति १२ भूतिकम् २३ श्यामकम् १४ ध्यामकम्
१५ पूति १६ मुद्गलम् १७ देवदग्धकम् १८ ।
अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । कफशस्त्र-
शल्यादिदोषबालग्रहविनाशित्वञ्च । इति राज-
निर्घण्टः ॥ (तुबरत्वम् । हृत्कण्ठव्याधिपित्तास्र-
शूलकासज्वरनाशित्वञ्च । इति भावप्रकाशः ॥)
पृश्निः । इति मेदिनी ॥ चाकुलिया इति भाषा ।

कत्तोयं, क्ली (कु कुत्सितं तोयं यत्र ।) मद्यम् । इति

त्रिकाण्डशेषः ॥

कत्थ, ङ श्लाघे । इति कविकल्पद्रुमः ॥ (भ्वां--आत्मं--

सकं--सेट् । क्वचित् अकं च ।) दन्त्यवर्गाद्यापधः ।
पृष्ठ २/०१७
:श्लाघः प्रशंसा । ङ कत्थते गुणिनं गुणी । इति
दुर्गादासः ॥

कत्र, त् क शैथिल्ये । इति कातकल्पद्रुसः ॥ (चुरां--

परं--अकं--सेट् ।) कत्रयति कत्रापयति । इति
दुर्गादासः ॥

कत्सवरं, क्ली, (कद् वैकल्ये + स । कत्सः विह्वलता तया

व्रियते शिर एवान्तःकरणस्थानं स्कन्धस्य शिरो-
ऽन्तवर्त्तित्वात् तथात्वम् । कत्स + वृ + अप् ।)
स्कन्धः । इति शब्दचन्द्रिका ॥

कथ, त् क वाक्यप्रबन्धे । इति कविकल्पद्रुमः ॥ (चुरां--

पर--सकं--सेट् ।) कथयति । इति दुर्गादासः ॥
(“हन्त ! ते कथयिष्यामि सेतिहासं पुरातनम्” ।
इति भागवतम् ॥)

कथं व्य, कथम् । किंप्रकारम् । इति व्याकरणम् ॥

(यथा, मनः ५ । २ ।
“कथं मृत्युः प्रभवति वेदशास्त्रविदां प्रंभो” ! ॥)

कथकः, त्रि, (कथयति यः । कथ + कर्त्तरि ण्वुल् ।)

वक्ता । कथोपजीवी । नाटकवर्णनकर्त्ता । तत्प-
र्य्यायः । एकनटः २ कथाप्राणः ३ । इति शब्द-
रत्नावली ॥ (यथा महाभारते १ । २१५ । ३ ।
“कथकाश्चापरे राजन् श्रमणाश्च वनौकसः” ॥
ग्रन्थकर्तृविशेषः । (यथा, अनुमानचिन्तामणिः ।
“वाद्युक्तसाध्यनियमच्युतोऽपि कथकैरुपाधि-
रुद्भाव्यः” ॥)

कथङ्कथिकः, त्रि, (कथं कथमिति प्रष्टृत्वेनास्त्यस्य

इति । कथंकथं + बाहुलकात् ठन् ततष्टिलोपः ।)
प्रष्टा । प्रश्नकर्त्ता । इति त्रिकाण्डशेषभूरिप्रयोगौ ॥

कथङ्कथिकता, स्त्री, (कथङ्कथिक + भावे तल् ।)

पृच्छा । प्रश्नः । इति हेमचन्द्रः ॥

कथनं, क्ली, (कथ्यते इति । कथत्क वाक्यप्रबन्धे ।

भावे + ल्युट् ।) कथा । इति हलायुधः ॥ कहन
इति भाषा । (यथा पञ्चतन्त्रे १ । १३ ।
“मिथ्याक्रमकथनं कूटतुलामानम्” ॥)

कथम्, व्य, (कस्मिन् प्रकारे इति प्रकारार्थे +

“किमश्चेति” । ५ । ३ । २५ । थमुः कादेशश्च ।) हर्षः ।
गर्हा । प्रकारार्थः । सम्भ्रमः । प्रश्नः । सम्भावना ।
इति मेदिनी ॥ (यथा शाकुन्तले १ अङ्के
“कथमिदानीमात्मानं निवेदयामि
कथं वा आत्मापहारं करोमि” ॥)

कथा, स्त्री, (क्रथ + “चितिपूजिकथिकुम्बिचर्च्चि-

श्चेति” । ३ । ३ । १०५ । अङ् । टाप् च ।)
प्रबन्धकल्पना । इत्यमरः । १ । ६ । ६ । प्रबन्धेन
कल्पना अथव प्रबन्धस्य अभिधेयस्य कल्पना
स्वयं रचना इति सारसुन्दरी ॥ “प्रवन्धस्य कल्पना
रचना बह्वनृतास्तोकसत्या” । इति भरतः ॥
“प्रबन्धकल्पनां स्तोकसत्यां प्राज्ञाः कथां विदुः ।
परम्पराश्रया या स्यात् सा मताख्यायिका क्वचित्” ॥
इति कोलाहलाचार्य्यः ॥ (“नैयायिकमते हि
नानावक्तृकपूर्ब्बपक्षसिद्धान्तवान् वाक्यसन्दर्भः” ।
यया, मनुः । ३ । २३१ ।
“यद्यद्रोचेत विप्रेभ्यस्तत्तद्दद्यादमत्सरः ।
ब्रह्मोद्याश्च कथाः कुर्य्यात्पितणामेतदीप्सितम्” ॥
वार्त्ता । वाक्यम् । यथा, रघुः । ८ । ४३ ।
“अभितप्तमयोऽपि मार्द्दवं
भजते कैव कथा शरीरिषु” ॥
विवरणम् । यथा, रामायणे । १ । ८ । ६ ।
“सनत्कुमारो भगवान् पुरा कथितवान् कथाम् ।
भविष्यं विदुषां मध्ये तव पुत्त्रसमुद्भवम्” ॥)

कथाप्रसङ्गः, त्रि, (कथायां प्रसङ्गो यस्य ।) ज-

ल्पाकः । इति शब्दरत्नावली (“तेन सह नाना-
कथाप्रसङ्गेनावस्थितः” ॥ इति हितोपदेशः ॥)
वातूलः । विषवैद्यः । इति मेदिनी । (किराता-
र्ज्जुनीये । १ । २४ । “कथाप्रसङ्गेन जनैरुदाहृता-
दनुस्मृताऽखण्डलसूनुविक्रमः” ॥ वार्त्ता । गोष्ठी-
वचनम् । उक्तञ्च कथासरित्सागरे २२ । १८१ ।
“मिथः कथाप्रसङ्गेन विवादं किल चक्रतुः” ॥)

कथाप्राणः, त्रि, (कथया प्राणिति जीवति कथां श्राव-

यित्वैव जीवनोपायं करोतीत्यर्थः । प्र + अण् +
अच् । यद्वा कथायां प्राणाः जीवनोपायाः यस्य ।)
कथकः । स तु नाटकवक्ता । इति शब्दरत्नावली ॥

कथितः, त्रि, (कथ्यतेऽसौ । कथ + कर्म्मणि + क्तः ।)

उक्तः । (यथा, श्रीभागवतम् । १० । १ । १ ।
“कथितो वंशविस्तारो भवता सोमसूर्य्ययोः” ॥
कथ + भावे क्तः । कथनम् । यथा रघुः । ११ । १० ।
“पूब्बवृत्तकथितैः पुराविदः
सानुजः पितृसखस्य राघवः” ॥)

कद, इ रोदन । आह्वाने । वैक्लव्ये । इति कविकल्प-

द्रुमः ॥ (भ्वां--परं--सकं अकं च--सेट्--इदित् ।) इ
कर्म्मणि कन्द्यते । इति दुर्गादासः ॥

कद, ष म ङ वैक्लव्ये । विह्वलीमावे । इति कविकल्प-

द्रुमः । (भ्वादिं--आत्मं--अकं--सेट्--घटादि ।) ष
कदा । म कदयति । ङ कदते । इति दुर्गादासः ॥

कदः, पुं, (कं जलं ददाति । क + दा + क ।) मेघः ।

इति शब्दरत्नावली ॥

कदकः, पुं, (कदः मेघ इव कायति प्रकाशते उपरि-

भागे । कद् + कै + क ।) वितानम् । इति हेम-
चन्द्रः ॥ चाँदोया इति भाषा ॥

कदक्षरं, क्ली, (कुत्सितं अक्षरं । कोः कदादेशः ।)

कुत्सितवर्णः ॥

कदध्वा, [न्] पुं, (कुत्सितोऽध्वा । कुगतीति

समासः । कोः कत् तत्पुरुषेचेति कदादेशः ।)
निन्दितपथः । तत्पर्य्यायः । व्यध्वः २ दुरध्वः ३
विपथः ४ कापथः ५ । इत्यमरः २ । १ । १६ ॥

कदनं, क्ली, (कदयति दुःखं वैक्लव्यं वा प्राप्नोत्यनेन

कद्यते दुःखंप्राप्यतेऽनेन वा । कद् + णिच् + करणे
ल्युट् । घटादित्वात् न वृद्धिः । कद्यते इति भावे
ल्युट् । कद्यते आहन्यते विह्वलीक्रियते निहन्यते
वा यत्र । अधिकरणे णिच् ल्युट् यद्वा कद्यते
म्रियते यत्र ।) पापम् । (यथा, भागवते ७ । ९ । १६ ।
“त्रस्तोऽस्म्यहं कृपणवत्सल ! दुःसहोग्र-
संसारचक्रकदनात् ग्रसतां प्रणीतः” ॥)
मर्द्दः । (यथा, रामायणे । ६ । २८ । २० ।
“क्रोधेन कदनं चक्रे वानराणां युयुत्सताम्” ॥)
युद्धम् । इति मेदिनी ॥ (यथा, भागवते । ७ । २ । १३ ।
“इति ते भर्तृनिर्द्देशमादाय शिरसादृताः ।
तथा प्रजानां कदनं विदधुः कदनप्रियाः” ॥)
मारणम् । इति भूरिप्रयोगः जटाधरश्च ॥

कदन्नं क्ली, (कुत्सितं अन्नं । कोः कदादेशश्च ।) कुत्सि-

तान्नम् । इति व्याकरणम् ॥
(यथा, भागवते । ५ । ९ । ८ । “मिष्टं कदन्नं वा
अभ्यवहरति परं नेन्द्रियप्रीतिनिमित्तम्” ॥
“हविर्विना हरिर्याति विना पीठेन माधवः ।
कदन्नैः पुण्डरीकाक्षः प्रहारेण धनञ्जयः” ॥ इत्युद्भटः ॥)

कदम्बं, क्ली, (“कृकदिकडिकटिभ्योऽम्बच्” । उणां ।

४ । ८२ । इति कद् + अम्बच् ।) निकुरम्बम् ।
समूहः । इति मेदिनी ॥

कदम्बः, पुं, (कद्यते दर्शनात् विरहिणां चित्तवैक्लव्यं

जायतेऽनेन । कद् + करणे अम्बच् ।) वृक्षविशेषः ।
कदम् इति भाषा । तत्पर्य्यायः । नीपः २ प्रियकः ३
हलिप्रियः ४ । इत्यमरः । २ । ४ । ८९ ॥ कादम्बः ५ ।
इति तट्टीका ॥ षट्पदेष्टः ६ प्रावृषेण्यः ७ हरि-
प्रियः ८ । इति रत्नमाला ॥ वृत्तपुष्पः ९ भुरभिः
१० ललनाप्रियः ११ कादम्बर्य्यः १२ सीधुपुष्पः १३
महाढ्यः १४ कर्णपूरकः १५ । अस्य गुणाः ।
तिक्तत्वम् । कटुत्वम् । कषायत्वम् । वातपित्त-
कफार्तिनाशित्वम् । शीतलत्वम् । शुक्रबर्द्धनत्वञ्च ।
इति राजनिर्घण्टः ॥ (यथा भावप्रकाशे ।
“कदम्बो मधुरः शीतो कषायो लवणो गुरुः ।
सरो विष्टम्भकृद्रूक्षः कफस्तन्यानिलप्रदः” ॥
तथा च सुश्रुतः ।
“गरदोषहरनीपं प्राचीनामलकं तथा” ॥)
अत्र नीपहलिप्रियौ धाराकदम्बवाचिनावपि
कदम्बसाम्यात् पठितौ । यथा साञ्जः ॥
“नीपो महाकदम्बः स्याद्धाराकदम्ब इत्यपि ।
द्वितीयोऽल्पप्रसरश्च वृत्तपुष्पः कदम्बकः” ॥
इत्यस्य भेदः । तथा रत्नेऽपि । हारिद्रस्तु रजो
बलः । यथामरटीकायां भरतः ॥
“धुलीकदम्बका धारा कदम्बः षट्पदप्रियः ॥
वृत्तपुष्पः केशराढ्यः प्रावृषेण्यः कदम्बकः ।
नीपो महाकदम्बोऽपि तथा बहुफलो मतः” ॥
(यथा, -- साहित्यदर्पणम् । “यः कौमारहरः स
एव हि वरस्ता एव चैत्रक्षपास्ते चोन्मीलि-
तमालतीसुरभयः प्रौढाः कदम्बानिलाः” ॥
कविभिस्तु प्रायशो वर्षाकाले एव अस्य वर्णनं
क्रियते । माघे रैवतकपर्व्वतवर्णने द्रष्टव्यम् ॥ * ॥)
सर्षपः । इति मेदिनी ॥ देवताडकतृणम् । इति
रत्नमाला ॥
(कं प्रजापत्यधिष्ठातृकं औपस्थेन्द्रियं दमयति इति
व्युत्पत्त्या जितेन्द्रियतत्त्वज्ञानी । कदं कदनं विनाशं
वाति गच्छति प्रलये इति शेषः । इति व्यत्पत्त्या
जगत् । यथा, --
“स एव सौम्य नित्यं राजते मूले विश्व कदम्बस्य
परमो वै पुरुष आत्मा” ॥ इति श्रुतौ ॥)

कदम्बकं, क्ली, (कदम्ब + संज्ञायां कन् ।) समूहः ।

इत्यमरग २ । ५ । ४० ॥ (यथा, शाकुन्तले २
अङ्के । “गाहन्तां महिषा निपानसलिलं शृङ्गै-
मुहूस्ताडितं छायाबद्धकदम्बकं मृगकुलं रोम-
न्थमभ्यस्यतु” ॥)
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/क&oldid=43920" इत्यस्माद् प्रतिप्राप्तम्