सामग्री पर जाएँ

शब्दकल्पद्रुमः/उ

विकिस्रोतः तः
पृष्ठ १/२१८

, उकारः । पञ्चमस्वरवर्णः । अस्योच्चारणं आष्ठः ।

(यथा, शिक्षाग्रन्थे ।
“कण्ठ्या वहाविचुयशास्तालव्या ओष्ठजावुपू” ।
तथा च मुग्धबोधे ।
“उत्रयं पफबभमवा ओ औष्ठ्याः” ।)
स च ह्रस्वो दीर्घः प्लुतश्च भवति । (एवं त्रिधापि
प्रत्येकं उदात्तानुदात्तस्वरितभेदेन नवमसङ्ख्यकः
पुनः प्रत्येकं अनुनासिकाननुनासिकभेदात् अष्टा-
दशविध एव भवति । अस्य ध्यानमाह ।)
“उकारं परमेशानि अधःकुण्डलिनी स्वयम् ।
पीतचम्पकसङ्काशं पञ्चदेवमयं सदा ॥
पञ्चप्राणमयं देवि चतुर्व्वर्गप्रदायकम्” ।
इति कामधेनुतन्त्रम् ॥ (वङ्गीयभाषायां) अस्य
लेखनप्रकारोयथा, --
“ऊर्द्ध्वाधो मध्यतः कुब्जा रेखा वामगता शुभा ।
तिष्ठन्ति वायुवह्नीन्द्राः शक्तिर्मात्रा परा स्मृता” ॥
इति वर्णोद्धारतन्त्रम् ॥ अस्य नामान्तराणि यथा, --
“उः शङ्करो वर्त्तुलाक्षी भूतः कल्याणवाचकः ।
अमरेशो दक्षकर्णः षड्वक्त्रो मोहनः शिवः ॥
उग्रः प्रभुर्धृतिर्विष्णुर्विश्वकर्म्मा महेश्वरः ।
शत्रुघ्नश्चटिका पुष्टिः पञ्चमी वह्निवासिनी ॥
कामघ्नः कामना चेशो मोहिनी विघ्नहृन्मही ।
उढसूः कुटिला श्रोत्रं पारद्वीपो वृषो हरः” ॥
इति तन्त्रोक्तवर्णाभिधानम् ॥ (मातृकान्यासेऽस्य
दक्षिणकर्णे स्थानम् । यदुक्तं मातृकान्यासमन्त्रे
“उं नमो दक्षिणकर्णे ऊं नमो वामकर्णे” ।)

, ङ, शब्दे । इति कविकल्पद्रमः ॥ (भ्वादिं-आत्मं

अकं-अनिट् ।) ङ अवते गौः । इति दुर्गादासः ॥

, व्य, (उ शब्टे + क्विप् + तुक् न ।) सम्बोधनम् ।

रीषोक्तिः । अनुकम्पा । नियोगः । पदपूरणं ।
पादपूरणं । इति मेदिनी ॥ प्रश्नः । अङ्गीकारः ।
इति हेमचन्द्रः ॥ इदमेव उङ् इति ख्यातं ॥
(“उमेति मात्रा तपसो निषिद्धा,
पश्चादुमाख्यां सुमुखी जगाम” ॥
इति कुमारे । १ । २६ ॥)

उः, पुं, (अतति विश्वमयत्वात् सर्व्वं व्याप्नोतीति ।

अत् + डु ।) शिवः । इति त्रिकाण्डशेषः ॥
(“अकारो विष्णुरुद्दिष्ट उकारस्तु महेश्वरः ।
मकारेणोच्यते ब्रह्मा प्रणवेन त्रयो मताः” ॥
इति पुराणे ।) ब्रह्मा । इति कश्चिदेकाक्षरकोषः ॥

उकनाहः, पुं, पीतरक्तवर्णाश्वः । स एव क्वचित्

कृष्णरक्तच्छविः । इति हेमचन्द्रः ॥

उक्तं, क्ली, (वच् + क्त ।) एकाक्षरछन्दः । इति

मेदिनी ॥ वाक्यम् ॥

उक्तः, त्रि, (उच्यते यः । वच् + कर्म्मणि क्त ।) कथितः ।

तत्पर्य्यायः । भाषितः २ उदितः ३ जल्पितः ४
आख्यातः ५ अभिहितः ६ लपितः ७ इत्यमरः ॥
गदितः ८ निगदितः ९ ईरितः १० उदीरितः ११
भणितः १२ लडितः १३ रपितः १४ रठितः १५
भटितः १६ रटितः १७ व्याहृतः १८ ॥
(यथा, मार्कण्डेयपुराणे देवीमाहात्म्ये ९६ । ९ ।
“इत्युक्तः सोभ्यधावत्तामसुरो धूम्रलोचनः” ॥
तथा, तत्रैव ८५ । ६६ ।
“इत्युक्ता सा तदा देवी गम्भीरान्तःस्मिता जगौ” ॥)

उक्तिः, स्त्री, (वच् + भावे क्तिन् ।) कथनं । तत्-

त्पर्य्यायः । व्याहारः २ लपितं ३ भाषितं ४ वचनं
५ वचः ६ । इत्यमरः ॥ (“अतिसंक्षिप्तचिरन्तनो-
क्तिभिः” । इति मुक्तावलीसूचना । तथा, चामरे ।
“एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ” ॥)

उक्थं, क्ली, (वच् + थक् ।) सामवेदः । इत्युणादि-

कोषः ॥ (यथा, ऋग्वेदे । ३ । ६४ । ७ ।
“विप्रा उक्थेभिः कवयो गृणन्ति” ॥
स्तोत्रम् । यथा,
“अथ योसावन्तरक्षिणि पुरुषो दृश्यते सैवर्क
तत्साम तद्यजुः तत् उक्थं तद्ब्रह्य” । इति
छान्दोग्ये उपनिषदि ॥)

उक्थशाः [स्] पुं, (उक्थैरुक्थानि वा शंसति ।

मन्त्रे श्वेतवहोक्थशस्पुरोडासोण्विन्नित्यत्र श्वेत-
वहादीनां डस् पदस्येति वक्तव्यम् । यत्र पदत्वं
भावि तत्र डस् । अन्यत्र ण्विः ॥) यजमानः ।
इति व्याकरणं ॥ (यथा, ऋग्वेदे । ७ । १९ । ९ ।
“नरः शंसन्त्युक्थशास उक्था” ।)

उक्था, स्त्री, (वच् + थक् + टाप् ।) छन्दोविशेषः ।

एकाक्षरवृत्तमुक्था । सा द्विविधा । श्रीः १ सर्व्व-
गुरुः । यथा श्रीस्ते सास्तां । इति छन्दोमञ्जरी ।
उः २ सर्व्वलघुः । यथा । उरवतु । इति छन्दो-
ऽर्णवः ॥

उक्ष वृषि । (भ्वादिं -परं -सकं -सेट् ।) इति कवि-

कल्पद्रुमः ॥ उक्षति वृक्षं मेघः । वृट् सेकः । इति
दुर्गादासः ॥ (“उक्षाम्प्रचक्रर्नगरस्य मार्गान्” ।
इति भट्टिकाव्ये । ३ । ५ ॥)

उक्षः त्रि, (उक्ष + अच् ।) सिक्तः । धौतः ॥

उक्षतरः, पुं, (उक्षन् + तरप् ।) महावृषः । इति

हेमचन्द्रः ॥

उक्षा, [न्] पुं, (उक्ष + कनिन् ।) वृषः । इत्यमरः ।

(यथा, ऋग्वेदे ८ । ७१ । ९ । “उक्षा मिमाति प्रति-
यन्ति धेनवः” । तथा च कुमारे ७ । ७० ।
“तत्रावतीर्य्याच्युतदत्तहस्तः
शरद्घनाद्दीधितिमानिवोक्ष्णः” ॥)
ऋषभौषधिः ॥ इति राजनिर्घण्टः ॥

उख, गतौ । इति कविकल्पद्रुमः ॥ (भ्वादि -परं -सकं-

सेट् ।) पञ्चमस्वरी ॥ ओखति । इति दुर्गादासः ॥

उख, इ, गतौ । इति कविकल्पद्रुमः ॥ (इदित् -भ्वादि

परं -सकं -सेट् ।) पञ्चमस्वरी । इ उङ्खति । इति
दुर्गादासः ॥

उखर्व्वलः, पुं, तृणविशेषः । तत्पर्य्यायः । उखलः २

भूरिपत्रः ३ सुतृणः ४ तृणोत्तमः ५ । अस्य गुणाः ।
बलदातृत्वं । रुचिकारित्वं । पशूनां सर्व्वदा हित-
कारित्वञ्च । इति राजनिर्घण्टः ॥

उखा, स्त्री, (उख + क + टाप् ।) स्थाली । इत्य-

मरः ॥ हाँडि इति भाषा । (यथा, सुश्रुते ।
“इद्धः स्वतेजसा वह्निरुखागतमिवोदकम्” ॥)

उख्यं, त्रि, (उखायां संस्कृतं । उखा + यत् ।) स्थाली-

पक्वमांसादि । तत्पर्य्यायः । पैठरं ३ । इत्यमरः ॥
(“शूल्यमुख्यञ्च होमवान्” । इति भट्टिः ४ । ९ ।
उखायां भवः । अग्निः । यथा, अथर्ब्बवेदे । ४ । १४ । २ ।
“उख्यान् (अग्नीन्) हस्तेषु बिभ्रतः” ॥)

उग्रं, त्रि, (उच्यति क्रुधा सम्बध्यते । उच समवाये

+ ऋज्रेन्द्रेत्यादिना रक्, गश्चान्तादेशः ।) रौद्रं ।
उत्कटं । इत्यमरो मेदिनी च ॥
(“लोकेषु प्रथितं चोग्रं तपस्तस्य भविष्यति” ।)
इति रामायणे ॥
“तामिस्रादिषु चोग्रेषु नरकेषु विवर्त्तनम्” ॥
इति मनुः । १२ । ७५ । यष्ट्यादिधारी । दारुणकर्म्मा ।
यथा मनुः ४ । २१२ ।
“उग्रान्नं सूतिकान्नञ्च पर्य्यायान्तमनिर्द्दशम्” ॥)

उग्रं, क्ली, वत्सनाभनामविषं । इति राजनिर्घण्टः ॥

उग्रः, पुं, (उच + रक् । गश्चान्तादेशः ।) महादेवः ।

वायुमूर्त्तिरयं । इति मविष्यपुराणम् । (यथा,
महाभारते । १३ । शिवसहस्रनामकथने । १७ । ९ ।
“उग्रो वंशकरोवंशो बंशनादो ह्यनिन्दितः” ॥
नृपविशेषः । इति मार्कण्डेये । ७६ । ४७ ।
क्षत्त्रियात् शूद्रायां जात जातिविशेषः । इत्यमरः ॥
आगुरि इति भाषा । (तथा च मनुः । १० । ९ ।
“क्षत्रियात् शूद्रकन्यायां क्रूराचारविहारवान् ।
क्षत्रशूद्रवपुर्जन्तुरुग्रो नाम प्रजायते” ॥)
अस्य कर्म्म विलवासिगोधादिबधबन्धनम्” ।
तथाच मनुः । १० । ४९ ।
“क्षत्त्रोग्रपुक्कसानान्तु विलौकोबधवन्धनम्” ॥
पृष्ठ १/२१९
:नक्षत्रगणविशेषः । स च पूर्ब्बफल्गुनीपूर्ब्बाषाढा-
पूर्ब्बभाद्रपदमघाभरण्यात्मकः । इति ज्योतिषं
शोभाञ्जनवृक्षः । इति शब्दचन्द्रिका ॥ केरल-
देशः । इति हेमचन्द्रः ॥ (रुद्रः । उग्रोदेवः ।
स्वनामख्यातो दानवविशेषः । यथा हरिवंशे ।
“वेगवान् केतुमानुग्रः सोग्रव्यग्रो महासुरः” ॥
धृतराष्ट्रस्य शतपुत्त्रेषु एकः । यथा, धृतराष्ट्रपुत्र-
नामकथने १ । ११७ । ११ । महाभारते ।
“उग्रभीमरथौ वीरौ वीरबाहुरलोलुपः” ॥
नरेन्द्रादित्याख्यास्य काश्मीरराजस्य स्वनामख्यातो
गुरुः । यथा, राजतरङ्गिणी ।
“दिव्यानुग्रहभागुग्राभिधो यस्य गुरुर्व्यधात्” ॥
विष्णुः । इति महाभारते । १३ । १४९ । ५९ ॥
स्त्री, योगिनीभेदः । यथा, कालिकायां । ६० अध्यायः ।
“महाकाल्यथ रुद्राणी उग्रा भीमा तथैव च” ।)

उग्रकाण्डः, पुं, (उग्रः काण्डो यस्य ।) कारवेल्लः ।

इति राजनिर्घण्टः ॥ करेला इति भाषा । कापवेल्ल-
शब्देऽस्य गुणादिकं ज्ञेयम् ।)

उग्रगन्धं, क्ली, (उग्रो गन्धो यस्मिन् ।) हिङ्गु । इति

राजनिर्घण्टः ॥

उग्रगन्धः, पुं, (उग्रस्तीव्रः गन्धो यस्मिन् ।) लशुनः ।

कटफलः । अर्जकवृक्षः । इति राजनिर्घण्टः ॥
चम्पकः । इति शब्दचन्द्रिका ॥ उत्कटगन्धयुक्ते
त्रि ॥ (यथा, हारीते प्रथमस्थानेऽष्टमाध्यायः ।
“उग्रगन्धं पुराणं स्याद्दशवर्षोषितं घृतम् ।
यथा यथा जरां याति गुणवत्स्यात्तथा तथा” ॥)

उग्रगन्धा, स्त्री, (उग्रः गन्धो यस्याः ।) अजमोदा ।

वचा । छिक्किकौषधी । इति मेदिनी ॥ अज-
गन्धा । यवानी । इति राजनिर्घण्टः ॥ (“वचा,
यमानी च” । इति भावप्रकाशे पूर्ब्बखण्डे अनेकार्थ-
नामवर्गः ॥)

उग्रचण्डा, स्त्री, (उग्रा चण्डा कोपना स्त्री ।) देवी-

भेदः । यथा महिषासुरं प्रति भगवतीवाक्यम् ।
“उग्रचण्डेति या मूर्त्तिर्भद्रकाली ह्यहं पुनः ।
यया मूर्त्त्या त्वां हनिष्ये सा दुर्गेति प्रकीर्त्तिता ॥
एतासु मूर्त्तिषु सदा पादलग्नो नृणां भवान् ।
पूज्यो भविष्यसि त्वं वै देवानामपि रक्षसाम् ॥
आदिसृष्टौ उग्रचण्डामूर्त्त्या त्वं निहतः पुरा ।
द्वितीयसृष्टौ तु भवान् भद्रकाल्या मया हतः ॥
दुर्गारूपेणाधुना त्वां हनिष्यामि सहानुगम्” ।
इत्यादि ॥ * ॥ तस्याः प्रादुर्भावो यथा ।
श्रीभगवानुवाच ।
“उग्रचण्डा तु या मूर्त्तिरष्टादशभुजाऽभवत् ।
सा नवम्यां पुरा कृष्णपक्षे कन्यां गते रवौ ॥
प्रादुर्भूता महाभागा योगिनीकोटिभिः सह” ॥ * ॥
अन्या मूर्त्त्या दक्षयज्ञभङ्गः कृतः । यथा, --
“आषाढस्य तु पूर्णायां सत्रं द्वादशवार्षिकम् ।
दक्षः कर्त्तुं समारेभे वृताः सर्व्वे दिवौकसः ॥
ततोऽहं न वृतस्तेन दक्षेण सुमहात्मना ।
कपालीति सती चापि तज्जायेति च नो वृता ॥
ततो रोषसमायुक्ता प्राणांस्तत्याज सा सती ।
त्यक्तदेहा सती चापि चण्डमूर्त्तिस्तदाभवत् ॥
ततः प्रवृत्ते यज्ञे तु तस्मिन् द्वादशवार्षिके ।
नवम्यां कृष्णपक्षे तु कन्यायां चण्डमूर्त्तिधृक् ॥
योगनिद्रा महामाया योगिनीकोटिभिः सह ।
सतीरूपं परित्यज्य यज्ञभङ्गमथाकरोत् ॥
शङ्करस्य गणैः सर्व्वैः सहिता शङ्करेण च ।
स्वयं बभञ्ज सा देवी महासत्रं महात्मनः ॥
ततो देव्या महाक्रोधे व्यतीते त्रिदिवौकसः ।
पूजयाञ्चक्रुरतुलां देवीं पूर्ब्बोदितेन वै ॥
पूर्ब्बोदितविधानेन पूजामस्या दिवौकसः ।
कृत्वैव परमामापुर्निर्वृतिं दुःखहानये ॥
एवमन्यैरपि सदा कार्य्यं देव्याः प्रपूजनम् ।
विभूतिमतुलां प्राप्तुं चतुर्व्वर्गप्रदायकम् ॥
यो मोहादथवालस्याद्देवीं दुर्गां महोत्सवे ।
न पूजयति दम्भाद्वा द्वेषाद्वाप्यथ भैरव ॥
क्रुद्धा भगवती तस्य कामानिष्टान्निहन्ति वै ।
परत्र च महामायावलिर्भूत्वा स जायते ॥
अष्टम्यां रुधिरैर्म्मांसैर्म्महामांसैः सुगन्धिभिः ।
पूजयेद्बहुजातीर्यैर्व्वलिभिर्भोजनैः शिवां” ॥
इत्यादि ॥ * ॥ तन्मन्त्रो यथा, --
“भद्रकालीमुग्रचण्डां महामायां महोत्सवे ।
नेत्रवीजन्तु सर्व्वासां पूजने परिकीर्त्तितम् ।
तन्त्रं यथोग्रचण्डायाः पृथक् त्वं शृणु भैरव ॥
आद्यद्वयं नेत्रवीजं मन्त्रस्योपान्तमन्तरे ।
वह्निनान्तस्वरेणेन्दुविन्दुभ्यां तन्त्रमौग्रकम्” ॥
इत्यादि च कालिकापुराणे ५९ । ६० अध्यायौ ॥

उग्रतारा, स्त्री, (उग्रादपि भयात् भक्तान् त्राति

तारयति वा या ॥ उग्र + तॄ + णिच् + अच् +
टाप् । यथा, निरुक्तौ ।
“उग्रादपि भयात् त्राति यस्मात् भक्तान् सदा-
म्बिका” ।) देवीविशेषः । अस्या उत्पत्त्यादि
यथा, --
“सर्व्वेषामेव देवानां यज्ञभागानपाहरत् ।
स्वयं शुम्भो निशुम्भश्च दिक्पालत्वं तथा गतौ ॥
सर्व्वे सुरगणाः सेन्द्रास्ततो गत्वा हिमाचलम् ।
गङ्गावतारनिकटे महामायां प्रतुष्टुवुः ॥
अनेकसंस्तुता देवी तदा सर्व्वामरोत्करः ।
मातङ्गवनितामूर्त्तिर्भूत्वा देवानपृच्छत ॥
युष्माभिरमरैरत्र स्तूयते का च भाविनी ।
किमर्थमागता यूयं मातङ्गस्याश्रमं प्रति ॥
एवं ब्रुवन्त्या मातङ्ग्यास्तस्यास्तु कायकोषतः ।
समुद्भूताब्रवीद्देवी मां स्तुवन्ति सुरा इति ॥
शुम्भो निशुम्भो ह्यसुरौ बाधेते सकलान् सुरान् ।
तस्मात्तयोर्बधायाहं स्तूयेऽद्य सकलैः सुरैः ॥
विनिःसृताया देव्यास्तु मातङ्ग्याः कायतस्तदा ।
भिन्नाञ्जननिभा कृष्णा साभूद्गौरी क्षणादपि ॥
कालिकाख्याभवत् सापि हिमाचलकृताश्रया ।
तामुग्रतारामृषयो वदन्तीह मनीषिणः ॥
उग्रादपि भयात्त्राति यस्माद् भक्तान् सदाम्बिका ।
एतस्याः प्रथमं वीजं कथितं तन्त्रमेव च” ॥ * ॥
“एषैवैकजटाख्यातिर्यस्मात्तस्या जटाधिका ।
शृणु त्वं चिन्तनं चास्याः सम्यक् वेतालभैरवौ ॥
यथा ध्यात्वा महादेवीं भक्तः प्राप्नोत्यभीप्सितम् ।
चतुर्भुजां कृष्णवर्णां मुण्डमालाविभूषिताम् ॥
खड्गं दक्षिणपाणिभ्यां बिभ्रतीन्दीवरं त्वधः ।
कर्त्रीञ्च खर्परञ्चैव क्रमाद्वामेन बिभ्रतीम् ॥
खं लिखन्तीं जटामेकां बिभ्रतीं शिरसा स्वयम् ।
मुण्डमालां धरां शीर्षे ग्रीवायामपि सर्व्वदा ॥
वक्षसा नागहारन्तु बिभ्रतीं रक्तलोचनाम् ।
कृष्णवस्त्रधरां कट्यां व्याघ्राजिनसमन्विताम् ॥
वामपादं शवहृदि संस्थाप्य दक्षिणं पदम् ।
विनस्य सिंहपृष्ठे तु लेलिहाना शवं स्वयम् ॥
साट्टहासमहाघोरा रावयुक्तातिभीषणा ।
चिन्त्योग्रतारा सततं भक्तिमद्भिः सुखेप्सुभिः” ॥ * ॥
“एतस्याः संप्रवक्ष्यामि या अष्टौ योगिनीस्तु ताः ।
महाकाल्यथ रुद्राणी उग्रा भीमा तथैव च ।
घोरा च भ्रामरी चैव महारात्रिश्च सप्तमी ॥
भैरवी चाष्टमी प्रीक्ता योगिनीस्ताः प्रपूजयेत्” ।
इति कालिकापुराणे ६० अध्यायः ॥ * ॥ अपिच
“ब्रह्मशैलस्य पूर्ब्बस्यां भूमिपीठे व्यवस्थिता ।
“चारुनिम्नं शुभावर्त्तं कामाख्यानाभिमण्डलम् ॥
यत्रोग्रतारारूपेण रमते परमेश्वरी ।
तत्र तेनैव रूपेण पूजितव्या शुभात्मिका ॥
तस्यास्तु वीजं पूर्ब्बस्मिन् उत्तरे प्रतिपादितम् ।
रूपं शृणु नरश्रेष्ठ येन ध्येया सदाशिवा ॥
कृष्णा लम्बोदरी दीर्घा विरला रक्तदन्तिका ।
चतुर्भुजा कृशाङ्गी तु दक्षे कर्त्तृकखर्परौ ॥
खड्गं चेन्दीवरं वामे शीर्षे त्वेकजटां पुनः ।
वामपादं शवस्योर्व्वोर्निधायोत्थाय दक्षिणम् ॥
शवस्य हृदये न्यस्य साट्टहासं प्रकुर्व्वती ।
नागहारशिरोमालाभूषिता कामदा परा ॥
त्रिकोणं मण्डलं चास्या हुंकारमध्यवीजकम् ।
द्वारे नानायोगिनीनां नामान्यस्यास्तु तन्त्रके ॥
ज्ञेयानि नरशार्द्दूल तत्प्रोक्तं वान्यगोचरे” ।
इति कालिकापुराणे कामाख्यारूपनिर्णये ८१
अध्यायः ॥ * ॥ सा च वशिष्ठशापात् वामा
भूता । यथा, --
और्व्व उवाच ।
“एतद्विष्णोर्व्वचः श्रुत्वा विधिना सहितः स तु ।
अङ्गीचकार हृदये तद्वचः साध्यसाधने ॥
विसृज्य तान् ब्रह्मविष्णुयमान् वृषभवाहनः ।
आदाय सगणान् सर्व्वान् कामरूपान्तरं ययौ ॥
उग्रतारां ततो देवीं गणांश्च प्राह शङ्करः ।
उत्सारयन्तु सकलान् इमान् लोकान् गणा द्रुतम् ॥
उग्रतारे महादेवि त्वञ्चाप्युत्सारय द्रुतम् ॥
ततो गणाः कामरूपाद्देवीचाप्यपराजिता ।
लोकानुत्सारयामासुः पीठं कर्त्तुं रहस्यकम् ॥
उत्सार्य्यमाने लोके तु चतुर्व्वर्णैर्द्विजातिभिः ।
सन्ध्याचलो गतो विप्रो वशिष्ठः कुपितो मुनिः ॥
सोऽप्युग्रतारया देव्या उत्सारयितुमीशया ।
गणैः सह वृतः प्राह शापं कुर्व्वन् सुदारुणम् ।
यस्मादहं धृतं वामे त्वयोत्सारयितुं मुनिः ॥
तस्मात्त्वं वाम्यभावेन पूज्या भव समन्त्रिका ।
भर्त्स्यन्ति म्लेच्छवत् यस्माद्गणास्ते मन्दबद्धयः ।
भवन्तु म्लेच्छास्तस्माद्व भवत्या काभरूपके ॥
पृष्ठ १/२२०
:महादेवोऽपि यस्मान्मां निःसारयितुमुद्यतः ।
तपोबलं मुनिं दान्तं म्लेच्छवद्वेदपारगभ् ॥
तस्मात् म्लेच्छप्रियो भूयात् शङ्करश्चास्थिभस्मधृक् ।
एतत्तु कामरूपाख्यं म्लेच्छैर्गुप्त्रं भवद्बलं ॥
स्वयं विष्णुर्न चायाति यावत् कालमिदं पुनः ।
विरलाश्चागमाः सन्तु यत्र तत्प्रतिपादकाः ॥
विरलं यस्तु जानाति कामरूपागमं बुधः ।
स एव प्राप्तकालेऽपि पूर्ब्बं फलमवाप्स्यति ॥
एवमुक्त्वा वशिष्ठस्तु तत्रैवान्तरधीयत ।
ते गणाः म्लेच्छतां याताः कामरूपे सुरालये ॥
वामाऽभूदुग्रतारापि शम्भुर्म्लेच्छरतोऽभवत्” ।
इति च कालिकापुराणे ८३ अध्यायः ॥

उग्रत्वं, क्ली, (उग्रस्य भावः । उग्र + त्व ।) उग्रता ।

उत्कटता । तत्पर्य्य यः । चण्डता २ । इति हेम-
चन्द्रः ॥

उग्रधन्वा, [न्] पुं, (उग्रं धनुर्यस्य । धनुषश्चेत्यनङ् ।)

इन्द्रः । इति हेमचन्द्रः ॥ (“स इषुहस्तैः स निष-
ङ्गिमिर्वशी संस्रष्टासायुध इन्द्रो गणेन । संसृष्टजित्
सोमपा बाहुशद्ध्युग्रधन्वा प्रतिहिताभिरस्ता” ।
इति ऋग्वेदे । १० । १०३ । ३ ॥ शिवः । उग्रधनु-
र्विशिष्टे, त्रि ॥)

उग्रनासिकः, त्रि, (उग्रा दीर्घा नासिका यस्य ।)

दीर्घनासिकाविशिष्टः । इति हेमचन्द्रः ॥

उग्रशेखरा, स्त्री, (उग्रस्य महादेवस्य शेखरं मस्तकं

वासस्थानत्वेनयस्याः ।) गङ्गा । इति शब्दरत्नावली ॥

उग्रसेनः, पुं, (उग्रा सेना यस्य ।) मथुरादेशस्य राज-

विशेषः । स च आहुकपुत्त्रः । कंसराजपिता च ।
परीक्षित्पुत्त्रः । इति श्रीभागवतम् ॥ (तथा
महाभारतेऽपि “जनमेजयः पारिक्षितः सह-
भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रमुपास्ते । तस्य भ्रातर-
स्त्रयः श्रुतसेन उग्रसेनो भीमसेनश्च” इति । तथा
च तत्रैव १ । ६५ । ४२ ।
“भीमसेनोग्रसेनौ च सुपर्णो वरुणस्तथा” ॥)

उग्रसेनजः, पुं, (उग्रसेनात् त्रायते इति । उग्रसेन

+ जन + ड ।) कंसनामासुरराजः । इति त्रि-
काण्डशेषः ॥

उग्रा, स्त्री, (उच्यति क्रुधा सम्बध्यते या । उच सम-

वाये + ऋज्रेत्यादिना रक् गश्चान्तादेशः । तत-
ष्टाप् ।) यवानी । वचा । इति राजनिर्घण्टः ॥
(“दन्तचाले हितं श्रेष्ठं तिलोग्राचर्व्वणं सदा” ।
इति वैद्यकचक्रपाणिसंग्रहे मुखरोगाधिकारे ।)
छिक्किकौषधी । इति हेमचन्द्रः ॥ उग्रजातिस्त्री ।
(यथा मनुः १० । १९ ।
“क्षत्तुर्जातस्तथोग्रायां श्वपाक इति कीर्त्त्यते” ॥)
धन्याकम् । इति रत्नमाला ॥ प्रखरा नारी ॥

उङ्कुणः, पुं, उत्कणः । इति शब्द्रमाला ॥ उकुन् इति

भाषा ।

उच, इ र य समवायने । मिश्रणे । इति कवि-

कल्पद्रुमः ॥ (दिवां -परं -सकं -सेट् ।) ह्रस्वादिः । इ र
औचत् औचित् । अस्मात् पुरुषादित्वात् नित्यं ङ
इत्यन्ये । य उच्यते केशः स्नानात् । इति दुर्गादासः ॥

उचितं, त्रि, (वच + “रुचिवचिकुचिकुटिभ्यः कितच्”

इति कितच् प्रत्ययः ।) विदितम् । न्यस्तम् । परि-
मितम् । युक्तम् । इति हेमचन्द्रः ॥ ग्राह्यम् । इति
शब्दरत्नावली ॥

उच्चं, त्रि, (उच्चिनोतीति । चिञ चित्यां अन्येभ्योऽपि

इति डः । उच्चैस्त्वमस्ति अत्र वा । अर्श आद्यच्,
अव्ययानामिति टिलोपः ।) उपरि । उँचु इति
भाषा । तत्पर्य्यायः । प्रांशु २ उन्नतम् ३ उदग्रम् ४
उच्छ्रितम् ५ तुङ्गम् ६ । इत्यमरः ॥ उत्तुङ्गं ७ । इति
तट्टीका ॥ (यथा, रघुः ३ । १३ ।
“ग्रहैन्ततः पञ्चभिरुच्चसंश्रयैः,
असूर्य्यगैः सूचितभाग्यसम्पदम्” ।)
(ज्योतिषोक्तं ग्रहाणामुच्चस्थानम् । यथा,
“अजवृषभमृगाङ्गनाकुलीराः
झषबणिजौ च दिवाकरादितुङ्गाः ।
दशशिखिमनुयुक्तिथीन्द्रियांशै-
स्त्रिणवकविंशतिभिश्च तेऽप्यनीचाः” ॥
सूर्य्यादीनां सप्तानां ग्रहाणां मेषवृषभादयो राशयः
श्लोकोक्तक्रमविशिष्टा उच्चस्थानानि स्वस्वतुङ्गा-
पेक्षया सप्तमस्थानानि च नीचानि, तत्रोच्चेष्वपि
दशमादयो राशित्रिंशाशाः यथाक्रमं उच्चेषु पर-
मोच्चा नीचेषु परमनीचा भवन्तीति ॥)

उच्चकैः, [स्] व्य, (उच्चैस् + अव्ययसर्व्वनाम्नां इति

प्रागिवीयेषु अर्थेषु टेः प्रागकच् ।) उच्चैः । अति-
शयोच्चम् । इति द्विरूपकीषः ॥ (यथा विष्णु-
पुराणम् ।
“वशिष्ठाद्यैर्दयासारै स्तोत्रं कुर्व्वद्भिरुच्चकैः” ।
उन्नतम् । यथा माघे १ । १२ ।
“गिरेस्तडित्वानिव तावदुच्चकै-
र्जवेन पीठादुदतिष्ठदच्युतः” ॥)

उच्चटा, स्त्री, (उत् + चट् + अच् + टाप् ।) गुञ्जा ।

भूम्यामलकी ।
(“उच्चटाचूर्णमप्येवं क्षीरेणोत्तममिष्यते ।
शतावर्य्युच्चटामूलं पेयमेवं बलार्थिना” ॥
इति सुश्रुते चिकिस्तितस्थाने २६ ।)
नागरमुस्ता । इति राजनिर्घण्टः ॥ दम्भः । चर्य्या ।
लशुनप्रभेदः । इति हेमचन्द्रः ॥ तृणविशेषः ।
निर्व्विषी इति ख्याता । चेँचुया इति केचित् ।
इत्यमरटीकायां भरतः । तत्पर्य्यायः । चूडाला २
चक्रला ३ । इत्यमरः ॥ अम्बुपत्रा ४ जटिला ५
शुक्रला ६ उत्तानकः ७ । इति रत्नमाला ॥

उच्चण्डः, त्रि, (उत् चण्डतीति । चडि कोपे + अच् ।)

त्वरान्वितः । अविलम्बितः । इत्यमरः ॥

उच्चतरुः, पुं, (उच्चः उन्नतस्तरुः ।) नारिकेलवृक्षः ।

इति राजनिर्घण्टः ॥ (नारिकेलशब्देऽस्य विवरणं
ज्ञातव्यम् ॥)

उच्चतालं, क्ली, (उच्चः मत्ततया प्रचण्डस्तालो यत्र ।)

पानगोद्व्यां नृत्यम् । इति हेमचन्द्रः ॥

उच्चदेवः, पुं, (उच्चः सर्व्वदेवमयत्वात् श्रेष्ठः देवः ।)

श्रीकृष्णः । इति त्रिकाण्डशेषः ॥

उच्चन्द्रः, पुं, (उत स्वल्पं अवशिष्टश्चन्द्रो यस्मिन् ।)

रात्रिशेषः । इति शब्दरत्नावली ॥

उच्चयः, पुं, (उत् + चि + अच् ।) परिधानवस्त्रग्रन्थिः ।

तत्पर्य्यायः: । नीवी २ ॥ इति हेमचन्द्रः ॥ (पुष्पा-
दीनामुत्तालनम् । यथा, रघुः १० । ४४ ।
“करिष्यामि शरैस्तीक्ष्णैस्तच्छिरःकमलोच्चयम्” ।
“पुष्पोच्चयं नाटयति” इति शाकुन्तले १ माङ्के ॥
राशिः । समष्टिः । यथा, --
“शिलोच्चयोऽपि क्षितिपालमुच्चैः” । रघुः । २ । ५१ ।
“वाक्यं स्याद्योग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः” ।
इति साहित्यदर्पणे । २ । १ ॥)

उच्चलं, क्ली, (उच्चलतीति । उत् + चल् + अच् ।)

मनः । इति हेमचन्द्रः ॥

उच्चललाटा, स्त्री, (उच्चमुन्नतं ललाटं यस्याः ।) उन्नत-

ललाटवती । इति त्रिकाण्डशेषः ॥

उच्चाटनं, क्ली, (उत् + चट् + णिच् + ल्यट् ।) उत्-

खातम् । उचाटन इति माषा । षट्कर्म्मान्तर्गता-
भिचारकर्म्मविशेषः । अस्य देवता दुर्गा । तिथिः
कृष्णा चतुर्द्दशी अष्टमी च । वारः शनिः । जप-
माला साध्यस्य केशसूत्रग्रथिततुरङ्गदशनोद्भवा ।
फलम् । उच्चाटनं स्वदेशादेर्भ्रंशनं परकीर्त्तितम् ॥
इति शारदातन्त्रम् ॥

उच्चारः, पुं, (उच्चार्य्यते परित्यज्यते इति । उत् + चर

+ णिच् + घञ् ।) विष्ठा । इत्यमरः ॥
(“मूत्रोच्चारसमुत्सर्गं दिवा कुर्य्यादुदङ्मुखः” ।
इति मनुः । ४ । ५० ।)
“यस्योच्चारं विना मूत्रं सम्यग्वायुश्च गच्छति ।
दीप्ताग्नेर्लघुकोष्ठस्य स्थितस्तस्योदरामयः” ॥
इति सुश्रुते उत्तरतन्त्रे चत्वारिंशत्तमोऽध्वायः ।)
उच्चारणम् ॥

उच्चारणं क्ली, (उत् + चर + णिच् + ल्युट् ।) कथ-

नम् । वाङ्निष्पत्तिकरणम् ॥ यथा । “हसे अकार-
उच्चारणार्थः” । इति मुग्धबोधव्याकरणे, सन्धि-
संज्ञा २ । अपिच ।
“कर्म्मोच्चारणमात्रेण स्पष्टमात्रानुबन्धतः” ।
इति कविकल्पद्रुमः ॥

उच्चावचः, त्रि, (उदक् च अवाक् च । मयूरव्यंसका-

दित्वात् साधुः ।) अनेकप्रकारः । तत्पर्य्यायः ।
नैकभेदः २ । इत्यमरः ॥ (यथा, मनुः १ । ३८ ।
(“उल्कानिर्घातकेतूंश्च ज्योतींष्युच्चावचानि च” ।
“उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः” ।
इति च मनुः ६ । ७३ ॥)

उच्चिङ्गटः, पुं, तृणगडमत्स्यः । कोपनपुरुषः । इति

मेदिनी ॥

उच्चूलः, पुं, (उद्गता चूडा यस्य । डस्य लत्वम् ।)

ध्वजोर्द्ध्वमुखकूर्च्चः । इति हेमचन्द्रः ॥ निशानेर पाग
इति भाषा । अस्य पटुका अवचूलः ॥

उच्चैः, [स्] व्य, (उच्चीयते इति । उत् + चि + डैस् ।)

उच्चम् । महत् । इत्यमरः ॥ (यथा, कुमारे २ । ४७ ।
“उच्चैरुच्चैःश्रवास्तेन हयरत्नमहारि च” ।
“शिलोच्चयोऽपि क्षितिपालमुच्चैः” ।
इति रघुः २ । ५१ । यथा, माघः २ । ५१ ।
“अकृत्वा हेलया पादमूच्चेर्भूर्द्धसु विद्विषाम्” ॥)

उच्चैःश्रवाः [स्] पुं, (उच्चैः श्रवो यशो यस्य । यद्वा

उच्चैः श्रवसी यस्य । यद्वा उच्चैः शृणीतीति उच्चैः
पृष्ठ १/२२१
:+ श्रु + असुन् ।) इन्द्रधोटकः । इत्यमरः ॥ स तु
श्वेतवर्णः समुद्रमन्थनोत्थितः । इति श्रीभागवतम् ॥
(“उच्चैःरुच्चैःश्रवास्तेन हयरत्नमहारि च” ॥
इति कुमारे । २ । ४७ ॥)

उच्चैर्घुष्टं, क्ली, (उच्चैर्घुष्यते स्म । घुष + क्त ।) घोषणा ।

इत्यमरः ॥

उच्छ, इ श उञ्छे । इति कविकल्पद्रुमः ॥ (तुदां-

इदित् -परं -सकं -सेट् ।) ह्रस्वादिः । इ उञ्छति । श
उञ्छती उञ्छन्ती । उञ्छ उद्धृतशस्यस्य शेषाप-
हरणम् । (यथा, हलायुधः ।
“सुलभं शस्यमुञ्छन्ति यद्देशे ब्रतिनो द्विजाः” ।
उञ्छः स्फोटनमित्येके । इति दुर्गादासः ॥

उच्छ, ई श बन्धे । समापने अतिक्रमे । वर्जने । इति

कविकल्पद्रुमः । (तुदां-परं-सकं-सेट् ।) ई उष्टः ।
श उच्छती उच्छन्ती । चत्वारोऽर्थाः । समापने ।
(अक्त०) उच्छति रात्रिः । “भरण्यां व्युष्टायामुषसि
जनयासास तनयम्” । व्युष्टायां समाप्तायामित्यर्थः ।
इति दुर्गादासः ॥

उच्छन्नं, त्रि, (उत् + छद् + क्त ।) नष्टम् । इति

श्रीभगवद्गीता ॥

उच्छादनं, क्ली, (उत् + छद् + णिच् + ल्युट् ।) उत्-

सादनम् । उद्वर्त्तनम् । गन्धद्रव्यद्वारा शरीरनिर्म-
लीकरणम् ॥ इत्यमरटीका ॥
(“यथाशक्तिप्रदानेन स्नापनोच्छादनेन च” ।
इति रामायणे । २ । १११ । १० ॥)

उच्छिलीन्ध्र, क्ली, (उत्थितं शिलीन्ध्रम् ।) छत्रिका ।

इति श्रीभागवतम् ॥ कोड्क छाता इति भाषा)
(“उद्गतशिलीन्ध्रे, त्रि, “कर्तुं यच्च प्रभवति
महीमुच्छिलीन्ध्रामबन्ध्याम्” ॥ इति मेघदूते ।
पूर्ब्बमेघे । १८ ॥)

उच्छिष्टं, त्रि, (उत् शिष्यते यत् । उत् + शिष + क्त ॥)

भुक्तावशिष्टम् । इति पुराणम् ॥ एँटो इति
भाषा । तद्भोजनप्रायश्चित्तं यथा (प्रायश्चित्ततत्त्वे
चाण्डालाद्यन्नभक्षणप्रायश्चित्तप्रकरणे ।) विष्णुः ।
“आमश्राद्धाशने त्रिरात्रं पयसा वर्त्तेत ब्राह्मणः
शूद्रोच्छिष्टाशने च वमनं कृत्वा सप्तरात्रमुपवसेत्”
इति । एवं उच्छिष्टे यः पराक उक्तोऽङ्गिरसा
सोऽपि प्रागुक्तसकृदापदादिविषये बोध्यः । विष्णु
नापि अनुच्छिष्टे पराकोक्तेः । तथाचाङ्गिराः ।
“चाण्डालपतितादीनामुच्छिष्टान्नस्य भक्षणे ।
द्विजः शुध्येत् पराकेण शूद्रः कृच्छ्रेण शुध्यति” ॥
यत्तु मिताक्षरायामापस्तम्बः ।
“अन्त्यानां भुक्तशेषन्त भक्षयित्वा द्विजातयः ।
चान्द्रं कृच्छ्रं तदर्द्धन्तु ब्रह्मक्षत्रविशां विधिः” ॥
चान्द्रं चान्द्रायणम् । कृच्छ्रं तप्तकृच्छ्रम् । एतच्च
ब्राह्मणस्य सकृदज्ञानविषयं बलात्कारानुत्तारे-
ऽप्यन्नेतरताम्बूलाद्युत्सृष्टपरञ्च । तत्राज्ञाने आप-
स्तम्बेन उच्छिष्टे चान्द्रायणविधानात् । अङ्गिरसा
अन्त्यावसायिनामित्यादि प्रागुक्तवचने सामान्यत-
स्तप्तकृच्छ्रविधानात् अनुच्छिष्टेऽपि तथात्वादेव
सर्व्वत्रानुच्छिष्टादुच्छिष्टे द्वैगुण्यं बोध्यम् । प्राय-
श्चित्तविवेके संसर्गप्रकरणेऽप्येवम् । क्षत्रियवि-
शीश्चापदि ज्ञेयम्” ॥ * ॥ “सर्व्वत्रोच्छिष्टे तु व्रत-
द्वैगुण्यं आपदज्ञानभुक्तोत्तारिते मासयावकव्रतं
तदशक्तौ धेनुद्वयं षट्कार्षापणा वा देयाः । तत्रो-
च्छिष्टान्ने पराक इति । अभ्यासभेदे त्वावृत्ति-
रूहणीया” । इति प्रायश्चित्ततत्त्वम् ॥ * ॥ अथो-
च्छिष्टस्य चाण्डालादिस्पर्शप्रायश्चित्तम् । (तत्रैव
उच्छिष्टस्य चाण्डालादिस्पर्शप्रायश्चित्तप्रकरणे
द्रष्टव्यम् ।) आपस्तम्बः ।
“भुक्तोच्छिष्टस्त्वानाचान्तश्चाण्डालैः श्वपचेन वा ।
प्रमादात् स्पर्शनं गच्छेत् तत्र कुर्य्याद्विशोधनम् ॥
गायन्यष्टसहस्नन्तु द्रुपदां वा शतं जपेत् ।
त्रिरात्रोपोषितो भूत्वा पञ्चगव्येन शुध्यति ॥
भुक्तोच्छिष्टोऽन्त्यजैः स्पृष्टः प्राजापत्यं समाचरेत् ।
अर्द्धोच्छिष्टे स्मृतः पादः पाद आमाशने तथा” ॥
प्राजापत्यं ज्ञाने अर्द्धोच्छिष्टो येनाद्यग्रास आस्ये
निक्षिप्तः न तु निगीर्णः । दक्षः ।
“पाने मैथुनसंसर्गे तथा मूत्रपूरीषयोः ।
संस्पर्शं यदि गच्छेत्तु शवोदक्यान्त्यजैः सह ॥
दिनमेकं चरेन्मूत्रे पुरीषे तु दिनद्वयम् ।”
दिनत्रयं मैथुने स्यात् पाने स्याच्च चतुष्टयम् ॥
काश्यपः ।
श्वशूकरान्त्यचाण्डालमद्यभाण्डरजस्वलाः ।
यद्यच्छिष्टः स्पृशेत्तत्र कृच्छ्रं सान्तपनं चरेत् ॥
एतद्ज्ञानाभ्यासे सान्तपने धेनुद्वयं ॥ ब्रह्मपुराणे ।
“उच्छिष्टेन तु शूद्रेण विप्रः स्पृष्टस्तु तादृशः ।
उपवासेन शुद्धिः स्यात् शुना संस्पृष्ट एव वा ॥
उच्छिष्टेन तु विप्रेण विप्रः स्पृष्टस्तु तादृशः ।
उभौ स्नानं प्रकुरुतं सद्य एव समाहितौ” ॥
अनुच्छिष्टशूद्रस्पर्शे उच्छिष्टब्राह्मणस्य नक्तमिति
प्रायश्चित्तविवेकः ॥ त्यक्तं । इति हेमचन्द्रः ॥ (यथा,
शतपथब्राह्मणे २ । ३१ । ११ । “हुतोच्छिष्टमिदम्” ।
इति । अनाचान्तो भक्षकः । यथा मनुः २ । ५६ ।
“नचैवात्यशनं कुर्य्यात् नचोच्छिष्टः क्वचित् व्रजेत्” ।

उच्छिष्टभोजनः, पुं, (उच्छिष्टं देवनैवेद्यावशिष्टं भो-

जनं यस्य ।) देवनैवेद्यवलिभोजनकर्त्ता । इति
हेमचन्द्रः ॥

उच्छिष्टमोदनं, क्ली, सिक्थम् । इति राजनिर्घण्टः ।

मोम इति भाषा ॥

उच्छीर्षकं, क्ली, (उत् ऊर्द्ध्वस्थापितं शीर्षं मस्तकं

येन । बहुव्रीह्यर्थे कन् ।) उपधानम् । इति
हलायुधः । वालिश इति भाषा ॥

उच्छूनं, त्रि, (उत् + श्वि + क्त । ओदितश्चेति तस्य नः ।

यजादित्वात् सम्प्रसारणे पूर्ब्बरूपे च हल इति
दीर्घः ।) स्फीतम् । उन्नतम् । वर्द्धितम् । तथा च
प्राचीनाः ।
“कामिन्याः कियदुच्छूनमुरः प्रेयान् समीक्षते ।
नव्यं शालिमिवोत्पन्नमतिदीनः कृषीबलः” ॥
(स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः ।
इति साहित्यदर्पणे । १ परिच्छेदे ॥)

उच्छृङ्खलं, त्रि, (उङ्गतं शृङ्खलं निगडं यस्य ।) शृङ्ण-

लारहितं । तत्पर्य्यायः । अबाधं २ उद्दाम ३ अनि-
यन्त्रितं ४ अनर्गलं ५ निरङ्कुशं ६ । इति हेम-
चन्द्रः ॥ (यथा, हितोपदेशः ३ । ९७ ।
(“अन्यदुच्छङ्खलं सत्त्वमन्यत् शास्त्रनियन्त्रितम्” ॥
“सम्मूर्च्छदुच्छृङ्खलशङ्खनिस्वनः” ।
इति माघः । १२ । १३ ॥)

उच्छ्रयः, पुं, (उत् + श्रि + अच् ।) पर्ब्बतवृक्षादेरु-

च्चता । तत्पर्य्यायः । उच्छ्रायः २ उत्सेधः ३ । इत्य-
मरः ॥ (“प्राप्ते यूपोच्छ्रये तस्मिन् षड्बैल्वाः
खादिराश्च षट्” । इति रामायणे ॥)

उच्छ्रायः, पुं, (उत् + श्रि + घञ् ।) उच्छ्रयः । उच्चता ।

इत्यमरः ॥ (यथा, याज्ञवल्क्ये ।
“ग्रहाधीना नरेन्द्राणामुच्छ्रायाः पतनानि च” ।
“शृङ्गीच्छ्रायैः कुमुदविशदैर्यो वितथ स्थितः खं” ॥
इति मेघदूते । ६० ॥)

उच्छ्रितं, त्रि, (उत् + श्रि + क्त ।) संजातं । समुन्नद्धं ।

उच्चं । प्रवृद्धं । इति मेदिनी ॥ (यथा, महाभा-
रते १३ । दानधर्म्मकथने । ८१ । २६ । “सर्व्व-
मयैर्भान्ति शृङ्गैश्चारुभिरुच्छ्रितैः” ।) त्यक्तं । इति
हेमचंन्द्रः ॥

उच्छ्वसितं, त्रि, (उत् + श्वस् + क्त ।) प्रफुल्लं । विक-

सितं । इति हेमचन्द्रः ॥ (भावे + क्त । जीवितम् ।
स्फुरितम् । प्राणनम् । यथा, मेघदूते । १०१ ।
“त्वामुत्कण्ठोच्छूसितहृदया वीक्ष्य सम्भाव्य चैव” ।
“सा खलु भगवतः कण्वस्य कुलपतेरुच्छूसितम्” ।
इति शाकुन्तले ३ अङ्के ॥)

उच्छ्वासः, पुं, (उत् + श्वस् + घञ् ।) अन्तर्मुखश्वासः ।

(“प्रियामुखोच्छूआसविकम्पितं मधु” । इति ऋतु-
संहारे ग्रीष्मवर्णनायां ३ ।) तत्पर्य्यायः । आहरः २
आनः ३ । इति हेमचन्द्रः ॥ आख्यायिकापरि-
च्छेदः । आश्वांसः । इति मेदिनो ॥ (यथा, काव्या-
दर्शे आख्यायिकालक्षणकथने, --
“वक्त्रं चापरवक्त्रञ्च सोच्छूआसत्वञ्च भेदकम्” ॥)

उज्जयनी, स्त्री, विशालानगरी । इति त्रिकाण्डशेषः ॥

उजैन इति पश्चिमदेशे ख्याता । वङ्गदेशे तु
उजनी । इयं मालवदेशस्य नगरी । मोक्षदसप्त-
पुर्य्यन्तर्गतपुरी । पुरा विक्रमादित्यराजधानी च
अधुना महाराष्ट्रेणाधिकृता ॥ (यथा, मेघदूते
पूर्ब्बमेधे । २९ ॥
“सौधोत्सङ्गप्रणयविमुखो मा च भूरुज्जयिन्याः” ।)

उज्जयन्तः, पुं, रैवतपर्ब्बतः । इति हेमचन्द्रः ॥

उज्जयिनी, स्त्री, उज्जयनीनगरी । तत्पर्य्यांयः ।

विशाला २ अवन्ती ३ पुष्ककरण्डिनी ४ । इति
हेमचन्द्रः ॥

उज्जासनं, क्ली, (उत्, जसु हिंसायाम् । णिच् भावे

ल्युट् ।) मारणम् । बधः । इत्यमरः ॥

उज्जृम्भं, त्रि, (उत् + जृम्भि + घञ् ।) प्रफुल्लम् ।

प्रस्फुटितम् । इति हेमचन्द्रः ॥
(“उज्जृम्भवदनाम्भोजा भिनत्त्यङ्गानि साङ्गना” ।
इति साहित्यदर्पणे । ३ परिच्छेदे ॥)

उज्जृम्भितं, त्रि, (उत् + जृम्भि + क्त ॥) प्रफुल्लम् ।

चेष्टायां, क्ली । इति मेदिनी ॥

उज्ज्वलं, त्रि, (उच्चैर्ज्वलति प्रकाशते इति । उत् +

ज्वल् + अच् ।) दीप्तम् । विशदम् । विकाशितम् ।
पृष्ठ १/२२२
:इति मेदिनी ॥ (यथा, साहित्यदर्पणे । ३ परि-
च्छेदः । “अस्माकं सखि ! वाससी न रुचिरे
ग्रैवेयकं नोज्ज्वलं” ।
“विचित्रोज्ज्वलवेशा तु बलन्नूपुरनिःस्वना” ॥)

उज्ज्वलं, क्ली, (उत् + ज्वल + अच् ।) स्वर्णम् ।

इति राजनिर्घण्टः ॥

उज्ज्वलः, पुं, (उत् + ज्वल + अच् ।) शृङ्गाररसः ।

इत्यमरः ॥ (यथा, नैषधे १ । १ ।
“स राशिरासीन्महसां महोज्ज्वलः” ॥)

उज्झ श त्यागे । इति कविकल्पद्रुमः ॥ (तुदां -परं-

सकं -सेट् ।) जोपध इत्येके । उजिज्झिषति ।
औजिज्झत् । श उज्झती उज्झन्ती । इति
दुर्गादासः ॥ अन्यत् उद्झधातौ द्रष्टव्यम् ॥

उज्झः, पुं, (उज्झतीति । उज्झ + अच् ।) त्यागः ।

विसर्जनम् । (यथा, मनुः ११ । ५६ ।
“ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्बधः” ॥)

उज्झितं, त्रि, (उज्झ + क्त ।) उत्सृष्टम् । त्यक्तम् ।

वर्जितं । इति हलायुधः ॥ (यथा किराते । ५ । ६ ।
“अविरतोज्झितवारिविपाण्डुभिः” ।
“उज्झितायास्त्वया नाथ ! तदैव मरणं वरम्” ॥
इति रामायणे २ । ३० । २० ॥)

उञ्छं, क्ली, (उछि + घञ् ।) पक्षिचञ्च्वादानवत् शस्य-

ग्रहणं । यथा । उपात्तशस्यात् क्षेत्रात् शेषावच-
यने । उञ्छेन पक्षिचञ्च्वादानवद्ग्रहणेन शिल्यते
सञ्चीयते उञ्छशिलं उच्छिउञ्छे शिल उञ्छे
कृद्धोरित्युक्तेः कृगृज्ञेति इजुङत्वात् कः उञ्छशि-
लम् । संघातं विगृहीतं विपर्य्यस्तञ्च नाम । “शक्या
न चेदुञ्छशिलेन वृत्तिः । फलेन मूलेन च वारिणा
च” इति । समाहारद्वन्द्वे उञ्छं शिलञ्च । उञ्छं
भैक्षञ्च यच्चान्यत्तत् परिग्रहणन्तु ऋतम् । इति
निगमाभिधाने क्लीवम् । पुमानुञ्छऋतशिलं इति
वोपालिते पुंस्युञ्छः । भवभूतिकृतशिलोञ्छे इति
गोवर्द्धनः । केचिदुञ्छशिलयोर्भेदमाहुः । “प्रति-
ग्रहात् शिलं श्रेयस्ततोऽप्यञ्छः प्रशस्यते” । इति
तत्र शाल्यादेर्निपातितपरित्यक्तमञ्चरीणां आदानं
शिलं । शिलं धान्यमञ्जरीसंग्रहः । इति स्वामी
च । एकैकशः कपोतवद्धान्यकणोद्ग्रहणमुञ्छः ।
तदुक्तं उञ्छो धान्यकणोच्चय इति । शिलं ताल-
ष्यादि दन्त्यादि च । धर्म्मात्वात् सत्यमिति ऋतम् ।
इति उञ्छशिलशब्दटाकायां भरतः ॥

उञ्छः, पुं, (उछि उञ्छे + घञ् ।) उञ्छशिलम् ।

इति जटाधरः ॥ (यथा, रामायणे । २ । २४ । २ ।
“मयि जातो दशरथात् कथमुञ्छेन वर्त्तयेत्” ॥)

उञ्छनं, क्ली, (उछि + ल्युट् ।) आपणादिपतितक-

णोपादानम् । इति श्रीभागवतम् ॥ उछन खुँटिया
लओन चुनिया लओन कुडाइया लओन इत्यादि
भाषा ॥

उञ्छशिलं, क्ली, (उञ्छञ्च शीलञ्चत्यकवद्भावः ।)

उञ्छष्टत्तिः । सा तु गृहीतशस्यक्षेत्रात् शेषा-
वचयनम् । तत्पर्य्यायः । ऋतं २ । इत्यमरः ॥
उञ्छसिलं ३ उञ्छः ४ उञ्छं ५ शिलं ६ । इति
तट्टीका ॥ (यथा, मनुः । ४ । ५ ।
“ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम्” ॥)

उञ्छशीलः, त्रि, (उञ्छः शीलं वृत्तं यस्य ।) उञ्छ-

जीवी । उद्धृतशस्यस्य शेषाहरणकर्त्ता । इति
पुराणम् ॥ छिचेरु इति भाषा ॥

उटः, पुं, तृणपर्णादिः । इत्यमरटीकायां भरतः ॥

उटजः, पुं, क्ली, (उटास्तृणपर्णादयस्तेभ्योजायते इति ।

उट + जन + ड ।) मुनीनां पत्ररचितगृहम् ।
तत्पर्य्यायः । पर्णशाला २ । इत्यमरः ॥ पर्णोटजः ३ ।
इति शब्दरत्नावली ॥ यथा रघुः ।
(‘आकीर्णमृषिपत्नीनामुटजद्वाररोधिभिः’ । १ । ५० ।
‘मृगैर्वर्त्तितरोमन्थमुटजाङ्गनभूमिषु” । १ । ५२ ।)
गृहमात्रम् । इत्यमरमाला ॥

उठ उपघाते । (भ्वादिं-परं-सकं-सेट् ।) इति कवि-

कल्पद्रुमः ॥ ह्रस्वादिः । ओठति खलः साधुम् ।
इति दुर्गादासः ॥

उड संहतौ । (परं-अकं-सेट् ।) सौत्रधातुरयम् । इति

कविकल्पद्रुमः ॥ उडुपः । इति दुर्गादासः ॥

उडु, क्ली स्त्री, (उ रोषोक्तिपूर्ब्बकं डयते इति । उ

+ डी + डु मितद्ब्रादित्वात् डुः ।) नक्षत्रम् ।
इत्यमरः ॥ (“तदोडुराजः कुकुभः करैर्मुखम्” ।
इति भागवतं । १० । २९ । २ । तथा रघुवंशे । १६ । ६५ ।
“इन्दुप्रकाशान्तरितोडुतुल्याः” ।)
जले क्ली । इत्यमरटीकायां भरतः ॥

उडुपः, पुं क्ली, (उडुनोजलात् पाति रक्षतीति ।

उडु + पा + क ।) भेलकम् । भेला माड् इत्यादि
भाषा । तत्पर्य्यायः । प्लवः २ कोआलः ३ । इत्यमरः ॥
भेलकः ४ उडूपः ५ तरणः ६ तारणः ७ तारकः
८ । इति शब्दरत्नावली ॥
(“तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम्” ॥
इति रघुवंशे । १ । २ ।) चन्द्रे पुं । इति मेदिनी ॥
(“अपश्यत् वदनं तस्य रश्मिवन्तमिवोडुपम्” ।
इति महाभारते । वनपर्ब्बणि ॥ चर्म्मावनद्धपान-
पात्रं । यथा, --
“चर्म्मावनद्धमुडुपं प्लवः काष्ठं करण्डवत्” ॥
इति सज्जनः ॥)

उडुपतिः, पुं, (उडूनां पतिः ।) चन्द्रः । इति पुराण-

ज्योतिषे ॥ (“अयाचितोपस्थितमम्बु केवलं रसा-
त्मकस्योडुपतेश्च रश्मयः” । इति कुमारे । ५ । २२ ।
“परिमुग्धतां वणिगिवोडुपतेः” । इति माघे ।)

उडुपथः, पुं, (उडूनां पन्थाः ।) आकाशम् । इति

हेमचन्द्रः ॥

उडुम्बरं, क्ली, (उडुं वृणातीति । उडु + वृ + अच् ।)

ताम्रम् । इति मेदिनी ॥ (“ताम्रं शुल्वमुडुम्बरम्” ।
इति वैद्यकरत्नमाला । कर्षार्थे यथा, --
“उडुम्बरश्च पर्य्यायैः कर्षएव निगद्यते” ॥
इति शार्ङ्गधरे पूर्ब्बखण्डे प्रथमाध्यायः ।)
कर्षपरिमाणम् । इति वैद्यकपरिभाषा ॥

उडुम्बरः, पुं, (उडु + वृ + अच् ।) उदुम्बरवृक्षः ।

यज्ञडुमुर इति भाषा । तत्पर्य्यायः । जन्तुफलः २
यज्ञाङ्गः ३ हेमदुग्धकः ४ । इत्यमरः ॥ ब्रह्मवृक्षः
५ । इति रत्नमाला ॥ हेमदुग्धी ६ यज्ञफलः ७
यज्ञोडम्बरः ८ । इति शब्दरत्नावली ॥ सदाफलः
९ क्षीरवृक्षः १० शुचक्षुः ११ श्वेतवल्कलः १२ ।
इति जटाधरः ॥ अस्य गुणाः । उडुम्बरो हिमो
रूक्षो गुरुः पित्तकफास्रणुत् । मधुरस्तुवरो वर्ण्यो
व्रणशोधनरोपणः ॥ इति भावप्रकाशः ॥
(“उडुम्बरफलं पक्वं चूर्णितं कर्षमात्रकम् ।
संलिहेन्मधुना सर्व्वमनुपानं सुखावहम्” ॥
इति वैद्यक रसेन्द्रसारसंग्रहे मूत्राघाताधिकारे ।)
अन्यत् उदुम्बरशब्दे द्रष्टव्यम् ॥ देहली । गोव-
राटेर निचेर काठ इति भाषा । पण्डम् । नपुं-
सकमिति यावत् । कुष्ठरोगभेदः । इति मेदिनी ॥

उडुम्बरपर्णी, स्त्री, (उडुम्बरस्य पर्णमिव पर्णं यस्याः ।)

दन्तीवृक्षः । इति शब्दचन्द्रिका । (उदुम्बरपर्णी-
शब्देऽस्या विशेषो ज्ञेयः ॥)

उडूपः, पुं क्ली, (उडुपशव्देऽस्य व्युत्पत्तिर्ज्ञेथा ।)

उडुपः । भेला इति भाषा । चन्द्रे पुं । इति
द्विरूपकोषः ॥

उड्डयनं, क्ली, (उत् + डी + ल्युट् ।) नभोगतिः ।

ओडा इति भाषा । यथा नैषधे १ । १२५ ॥
“गतो विरुत्योड्डयने निराशताम्” ॥
(“सोऽपि तमादाय सम्पातोड्डयनेन प्रस्थितः” ।
इति पञ्चतन्त्रे ॥)

उड्डामरं, त्रि, (उत्कृष्टः डामरः ।) श्रेष्ठम् । तत्प-

र्य्यायः । उद्भटं २ उत्तालम् ३ । इति त्रिकाण्ड-
शेषः ॥ (पुं तन्त्रविशेषः ॥)

उड्डीनं, क्ली, (उत् + डी + क्ल ।) खगगतिक्रिया ।

पक्षिणां ऊर्द्ध्वगमनम् । इत्यमरः ॥
(“अहं सम्पातादिकानष्टानुड्डीनगतिविशेषान्
वेद्मि” । इति पञ्चतन्त्रे ॥)

उड्डीयमानः, त्रि, (उत् + डी + शानच् ।) उड्डयन-

विशिष्टपक्ष्यादिः । उडन्त ओड्ता इत्यादि भाषा ॥

उड्डीशः, पुं, (उत् + डी + श । यद्वा उड्डानां उत्पथ-

गामिनां योगिनामित्यर्थः ईशः महादेवस्य योगी-
श्वरत्वात् ।) आगमशास्त्रविशेषः । शिवः । इति
मेदिनी ॥

उत्, व्य, प्रश्नः । वितर्कः । इति मेदिनी ॥ अत्यर्थं ।

सन्देहः । इति शब्दरत्नावली ॥ (ऊर्द्ध्वम् । अ-
प्यर्थे ॥)

उत व्य, (उ शब्दे + क्त ।) अत्यर्थम् । विकल्पः । समु-

च्चयः । वितर्कः । प्रश्नः । पादपूरणम् । इति
मेदिनी ॥ (अप्यर्थे । एवार्थे । “किमेतदारण्यं
उत ग्राम्यम्” । इति पञ्चतन्त्रे । “तक्तिमयमातप-
दोषः स्यात् उत यथा मे मनसि वर्त्तते” ।
इति शाकुन्तले । “वीरो रसः किमयमित्युत दर्प-
एषः” । इति उत्तरचरिते ॥)

उतं, त्रि, (व्ये + क्त । यजादित्वात् सम्पसारणम् ।)

तन्तुसन्तानः । वोना इति भाषा । तत्पर्य्यायः ।
ऊतं २ स्यूतम् ३ । इत्यमरः ॥

उतथ्य, पुं, मुनिविशेषः । स च अङ्गिरःपुत्रः । इति

पुराणम् ॥
(“त्रयस्त्वङ्गिरसः पुत्रा लोके सर्व्वत्र विश्रुताः ।
वृहस्पतिरुतथ्यश्च संवर्त्तश्च धृतव्रतः” ॥
इति महाभारते आदिपर्ब्बणि ॥)
पृष्ठ १/२२३

उतथ्यानुजः, पुं, (उतथ्यस्यानुजः ।) वृहस्पतिः । इति

त्रिकाण्डशेषः ॥ (यथा माघे २ । ६९ ।
“तथ्यामुतथ्यानुजवत् जगादाग्रे गदाग्रजम्” ॥)

उतथ्यानुजन्मा, [न्] पुं, (उतथ्यस्य अनुजन्मा अनुजः ।)

वृहस्पतिः । इति भूरिप्रयोगः ॥

उताहो, व्य, (उत च आहो च अनयोः समाहारः ।)

परिप्रश्नः । विचारः । इति मेदिनी ॥ विकल्पः ।
इत्यमरः ॥
(“क्षमा स्वित् श्रेयसी तात ! उताहो तेज
इत्युत” । यक्षी वा राक्षसी वा त्वं उताहोऽसि
सुराङ्गना” ॥ इति च महाभारते ॥)

उताहोस्वित्, व्य, उताहो । विकल्पः । इत्यमर-

टीका ॥ (“अन्यद्वपु विदधातीह गर्भमुताहोस्वित्
स्वेन कायेन याति” । इति महाभारते ॥)

उत्कः, त्रि, (उद्गतं मनो यस्य । उत् + कन् ।)

उन्मनाः । अन्यमनस्कः । इत्यमरः ॥
(“तत् श्रुत्वा ते श्रवणसुभगं गर्ज्जितं मानसोत्काः” ।
इति मेघटूते । ११ । तथा कुमारे । ६ । ९५ ।
“अगमयदद्रिसुतासमागमोत्कः” ॥)

उत्कटं, त्रि, (उद्गतः कटः आवरणं आवरको वा

यस्य ।) तीव्रम् । मत्तम् । इति मेदिनी ॥ विषमम् ।
इति शब्दरत्नावली ॥ (यथा रामायणे ५ काण्डे ।
“चन्द्रांशुनिकराभासा हाराः कासाञ्चिदुत्कटाः ।
स्तनमध्ये सुविन्यस्ता विरेजुर्हंसपाण्डराः” ॥)

उत्कटं, क्ली, गुडत्वक् । तेजपात इति ख्यातं इति

केचित् । इत्यमरमरतौ ॥ दारचिनि । इति
ख्यातम् । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायानाह
भावप्रकाशे पूर्ब्बखण्डे,
“त्वक्पत्रञ्च वराङ्गंस्याद् भृङ्गञ्चोदन्तमुत्कटम्” ।)

उत्कटः, पुं, (उद्गतमदवृत्तेः उच्छब्दात् स्वार्थे स-

म्मोदश्चेति कटच् ।) मदः । इति शब्दरत्नावली ॥
संजातमदहस्ती । इति हारावली ॥ शरः ।
रक्तेक्षुः । इति राजनिर्घण्टः ॥

उत्कटा, स्त्री, (उद्गतः कटो यस्याः ।) सैंहलीलता ।

इति राजनिर्घण्टः ॥

उत्कण्ठः, पुं, (उद्गतः कण्ठो यस्य ।) शृङ्गारस्य

षोडशबन्धान्तर्गतत्रयोदशबन्धः । आसन यस्य
प्रसिद्धिः । तस्य लक्षणम् ।
“नारीपादौ च हस्तेन धारयेद्गलके पुनः ।
स्तनार्पितकरः कामी बन्धश्चोत्कण्ठसंज्ञकः” ॥
इति रतिमञ्जरी ॥

उत्कण्ठा, स्त्री, (उत् + कठि + अ + टाप् ।) उत्क-

लिका । इष्टलामे कालक्षेपासहिष्णुता । इत्यमरः ॥
कामादिजातस्मृतिः । इति भरतः ॥ उद्बाहुलकेन
स्मरणम् । इति मधुः ॥ उत्केन दयितस्मरणम् ।
इति सुभूतिः ॥ प्रियाभिलाषादुन्मनस्कत्वं । इत्यन्ये ॥
(“गाढोत्कण्टां गुरुषु दिवसेष्वेषुगच्छत्सु बालाम्” ।
इति मेघदूते । ८३ ।
“यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया” ।
इति शाकुन्तले । ४ र्थ अङ्के ॥)

उत्कण्ठितं, त्रि, (उत्कण्ठा जातास्य । उत्कण्ठा +

इतच् ।) उत्कण्ठायुक्तम् । तत्पर्य्यायः । उत्कं २
उत्सुकं ३ उन्मनः ४ । इति हेमचन्द्रः ॥
(“साश्रेणास्रद्रुतमविरतोत्कण्ठमुत्कण्ठितेन” ।
इति मेघदूते । १०३ ॥)

उत्कण्ठिता, स्त्री, (उत्कण्ठा सञ्जातास्याः । उत्कण्ठा

+ इतच् + टाप् ।) स्वीयादिनायिकाभेदः । अस्याः
लक्षणम् ।
“सङ्केतस्थलं प्रति भर्त्तुरना-
गमनकारणं चिन्तयति या” ।
अस्याश्चेष्टाः । अरति-सन्ताप-जृम्भाङ्गाकृष्टि-कम्प-
रुदित -श्वासावस्थाकथनादयः । इति रसमञ्जरी ॥
(इयमेव विरहोत्कण्ठिता । यदुक्तं साहित्यदर्पणे
तृतीयपरिच्छेदे ।
“आगन्तुं कृतचित्तोऽपि दैवान्नायाति यत्प्रियः ।
तदागमनदुःखार्त्ता विरहोत्कण्ठिता तु सा” ॥
तत्रैव । १० परिच्छेदे अपह्नुतेरुदाहरणम् ।
यथा, --
‘उत्कण्ठितासि तरले !
नहि नहि सखि ! पिच्छिलः पन्थाः’ ॥)

उत्कता, स्त्री, (उत्कस्य भावः । उत्क + तल् ।) गज-

पिप्पली । इति शब्दचन्द्रिका ॥ उत्कस्य भावः ।
उत्कण्ठा ॥

उत्करः, पुं, (उत्कीर्य्यते इति । उत् + कॄ + अप् ।)

धान्यादिराशिः । स्तूपः । इत्यमरः ॥
(“सिक्तराजपथान् रम्यान् प्रकीर्णकुसुमोत्करान्” ।
इति रामायणे ॥

उत्कर्षः, पुं, (उत् + कृष् + घञ् ।) अतिशयः । इत्य-

मरः ॥ (प्राधान्यं । श्रेष्ठता । यथा, “उत्कर्षः
स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले” ।
इति शाकुन्तले २ य अङ्के ।
“निनीषुः कुलमुत्कर्षमधमानधमांस्त्यजेत्” ।
इति मनुः ४ । २४४ ॥ वृद्धिः । यथा, --
“पञ्चानामपि भूतानामुत्कर्षं पुपुषुर्गुणाः” ।
इति रघुः । ४ । ११ ।) अतिशययुक्ते त्रि ॥ स्वका-
लात् परकालकर्त्तव्यः । इति स्मृतिः ॥

उत्कलः, पुं, (उत् + कल + अच् ।) ओड्रदेशः । इति

त्रिकाण्डशेषः ॥ उडिश्या इति भाषा । व्याधः ।
इति शब्दमाला ॥ पाखिमारा इति भाषा ।
(“उत्कलादर्शितपथः कलिङ्गाभिमुखं ययौ” ।
इति रघुवंशे ४ । ३८ ॥ सुद्युम्नतनयः स्वनामख्यातो
राजा । यदुक्तं महाभारते ।
“सुद्युम्नस्य तु दायादास्त्रयः परमधार्म्मिकाः ।
उत्कलश्च गयश्चैव विनताश्वश्च भारत ! ॥
उत्कलस्योत्कला राजन् विनताश्वस्य पश्चिमा” ॥)

उत्कलं, त्रि, (उत् + कल + अच् ।) भारवाहकम् ।

इति शब्दमाला । मुटे इति भाषा ॥

उत्कलिका, स्त्री, (उत् + कल + वुन् + टाप् ।) उ-

त्कण्ठा । इत्यमरः ॥
(“ततोऽन्येद्युः प्रतिपदं तत्तदुत्कलिकाभृता” ।
कथासरित्सागरे । २२ । १०५ ।) कलिका । इति
त्रिकाण्डशेषः ॥ (“उद्दामोत्कलिकां विपाण्डुर-
रुचं प्रारब्धजृम्भां क्षणात्” । इति रत्नावली ।)
तरङ्गः । (“वनावलीरुत्कलिकासहस्रप्रतिक्षणो-
त्कूलितशैवलाभाः” । इति माघः । ३ । ७० ।)
हेला । इति हेमचन्द्रः ॥

उत्कलितः, त्रि, (उत् + कल + क्त ।) उन्मनाः । वृद्धि-

मान् । इति धरणी ॥ (उत्कण्ठितः ॥)

उत्का, स्त्री, (उद्गतं मनो यस्याः । उत् + कन् +

टाप् ।) उत्कण्ठिता नायिका । इति रसमञ्जरी ॥

उत्काका, स्त्री, (उत्क + अक + अच् + टाप् ।) प्रति-

वर्षप्रसूता गौः । इति शब्दचन्द्रिका ॥

उत्कारः, पुं, (उत्कीर्य्यते इति । उत् + कॄ + घञ् ।)

धान्योत्क्षेपणम् । तत्पर्य्यायः । निकारः २ । इत्य-
मरः ॥ धान सारा इति भाषा । धान्यस्य राशी-
करणं वा । इति भरतः ॥

उत्कूटं, क्ली, (उत् + कूट् + क ।) उत्तानशयनम् ।

इति हारावली ॥ चित् हैया शोया इति भाषा ।

उत्कुणः, पुं, (उत् + कुण + क ।) केशकीटः । उकुण

इति भाषा । तत्पर्य्यायः । मत्कुणः २ कोणकुणः ३
उद्दंशः ४ किटिभः ५ । इति हेमचन्द्रः ॥

उत्कूटः, पुं, (उन्नतंकूटमस्य ।) छत्रम् । इति हारावली ॥

उत्कृष्टं, त्रि, (उत् + कृष् + क्त ।) उत्कर्षविशिष्टम् ।

अतिशययुक्तम् । प्रकृष्टम् । प्रशस्तम् । यथा, --
“उत्कृष्टमध्यमनिकृष्टजनेषु मैत्री,
यद्वत् शिलासु सिकतासु जलेषु रेखा ।
वैरं क्रमादधममध्यमसज्जनेषु,
यद्वत् शिलासु सिकतासु जलेषु रेखा” ॥
इत्युद्भटः ॥ (कर्षणवत्क्षेत्रादिः ॥)

उत्कृष्टभूमः, पुं, (उत्कृष्टा प्रशस्ता भूमिर्यस्मिन् ।)

प्रशस्तभूमिः । इति जटाधरः ॥

उत्कोचः, पुं स्त्री, (उत्कोचति अशुभं नाशयतीति ।

उत् + कुच + क ।) घुस् इति ख्यातः । तत्पर्य्यायः ।
प्राभृतं २ ढौकनं ३ लम्बा ४ कोशलिकं ५ आमिषं
६ उपाच्चारः ७ प्रदा ८ आनन्दा ९ हारः १०
ग्राह्यं ११ अयनं १२ । इति हेभचन्द्रः ॥ उप-
दानकं १३ । इति त्रिकाण्डशेषः ॥ अपप्रदानं
१४ । इति भूरिप्रयोगः ॥ (यथा, याज्ञवल्क्ये
१ । ३ ॥ ३८ ।
“उत्कोचजीविनो द्रव्यहीनान् कृत्वा प्रवासयेत्” ।)

उत्क्रमः, पुं, (उत् + क्रम + अच् ।) व्यतिक्रमः ।

विपरीतिः । तत्पर्य्यायः । व्युत्क्रमः २ अक्रमः ३ ।
इति हेमचन्द्रः ॥

उत्क्रोशः, पुं, स्त्री, (उत्क्रोशति प्रहरे प्रहरे शब्दं

करोतीति । उत् + क्रुश + अच् ।) कुररपक्षी ।
इत्यमरः ॥

उत्क्षिप्तः, पुं, (उत् + क्षिप + क्त ।) धुस्तूरफलम् ।

इति शब्दचन्द्रिका । ऊर्द्ध्वत्यक्ते त्रि ॥

उत्क्षिप्तिका, स्त्री, (उत् + क्षिप् + क्तिन् + कन् +

टाप् ।) कर्णभूषणविशेषः । तत्पर्य्यायः । कर्णान्दुः
२ । इति हेमचन्द्रः ॥

उत्क्षेपणं, क्ली, (उत् + क्षिप् + ल्युट् ।) व्यजनम् ।

धान्यमर्द्दनवस्तु । इति मेदिनी ॥ उदञ्चनम् । ऊर्द्ध्व-
क्षेपणम् ।
(“अतिमात्रलोहिततलौ बाहू घटोत्क्षेपणात्”
इति शाकुन्तले प्रथमाङ्क्ते ।) षोडशपणम् । इति
पृष्ठ १/२२४
:हेमचन्द्रः ॥ (न्यायमते पञ्चकर्म्ममध्यपरिगणितम् ।
यथा भाषापरिच्छेदे ।
“उत्क्षेपणं ततोऽवक्षेपणमाकुञ्चनं तथा ।
प्रसारणञ्च गमनं कर्म्माण्येतानि पञ्च च” । ६ ॥)

उत्खला, स्त्री, (उत् + खल + अच् + टाप् ।) मुरा-

नाम गन्धद्रव्यम् । तत्पर्य्यायः । तालपर्णी २ ताल-
पर्णं ३ तालाख्या ४ खशा ५ । इति शब्दचन्द्रिका ॥
(मुराशब्देऽस्या विवरणं ज्ञेयम् ॥)

उत्खातं, त्रि, (उत् + खन + क्त ।) उन्मूलितम् ।

इति जटाधरः ॥ उप्डान इति भाषा ।
(“त्याजितैः फलमुत्खातैर्भग्नैश्च बहुधां नृपैः” ।
इति रघुवंशे । ४ । ३३ । विदारितः । यथा, --
“शैलादाशु त्रिनयनवृषोत्खातपङ्कान्निवृत्तः” ।
इति मेघदूते । ११६ ॥)

उत्तं, त्रि, (उनत्ति स्म । उन्दी क्लेदने अकर्म्मकत्वात्

कर्त्तरि क्तः । नुदविदेति पक्षे नत्वाभावः ।) आर्द्र-
वस्तु । इत्यमरः ॥

उत्तंसः, पुं, (उत्तंसयति उत्तंस्यतेऽनेन वा तसिः

सौत्रो भूषार्थः । पञ्चाद्यच् हलश्चेति घञ् वा ।)
कर्णपूरः । कर्णाभरणम् । शेखरः । शिरोभूषणम् ।
इत्यमरः ॥ मतान्तरे क्लीवलिङ्गोऽपि ॥ (“नोत्तंसं
क्षिपति क्षितौ श्रवणतः सा मे स्फुटेऽप्यागसि” ।
इति साहित्यदर्पणे । ३ य परिच्छेदे ॥)

उत्तप्तं, क्ली, (उत् + तप + क्तः ।) शुष्कमांसम् ।

इत्यमरः ॥

उत्तप्तः, त्रि, तप्तः । सन्तप्तः । परिप्लुतः । स्नातः ।

इति मेदिनो ॥

उत्तभितं, त्रि, उन्नमितम् । इति श्रीभागवतम् ॥

उत्तमः, त्रि, (अतिशयेन उत्कृष्टः । उत् + तमप् ।

द्रव्यप्रकर्षार्थत्वान्नाम् । यद्वा उत्ताम्यति तमु अच्
उत्तम्यते वा घञ् । नोदात्तेति न वृद्धिः ।) भद्रः ।
उत्कृष्टः । तत्पर्य्यायः । प्रधानं २ प्रमुखः ३ प्रवेकः
४ अनुत्तमः ५ मुख्यः ६ वर्य्यः ७ वरेण्यः ८ प्रवर्हः
९ अनवरार्द्ध्यः १० परार्द्ध्यः ११ अग्रः १२ प्राग्रहरः
१३ प्राग्र्यः १४ अग्र्यः १५ अग्रीयः १६ अग्रियः
१७ । इत्यमरः ॥ मुखः १८ अग्रणीः १९ तट्टीका ॥
(उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः” ।
इति हितोपदेशः ।
“उत्तमाद्देवरात् पुंसः काङ्क्षन्ते पुत्त्रमापदि” ॥
इति महाभारते ॥)

उत्तमः, पुं, वैशिकनामनायकभेदः । तस्य लक्षणम् ।

“दयिताश्रमप्रकोपेऽपि उपचारपरायणः” ।
इति रसमञ्जरी ॥ प्रियव्रतराजपुत्रः । स च
तृतीयमनुः । अस्मिन् मन्वन्तरे सत्यसेनोऽवतारः ।
सत्यजिदिन्द्रः । सत्यवेदश्रुतभद्रादयो देवाः । वशिष्ठ-
सुताः प्रमदादयः सप्तर्षयः । पवनसृञ्जययज्ञहो-
त्राद्या मनुपुत्राः । इति श्रीभागवतम् ॥ (उत्तान-
पादस्य राज्ञः स्वनामख्यातः पुत्रभेदः । यथा,
विष्णुपुराणे । १ । ११ । २ ॥
“तयोरुत्तानपादस्य सुरुच्यामुत्तमः सुतः” ॥)

उत्तमफलिनो, स्त्री, (उत्तमफलं विद्यते यस्याः ।

उत्तमफल + निन् + ङीप् ।) दुग्धिकावृक्षः । इति
रत्नमाला । क्षीराइ इति भाषा ॥

उत्तमर्णः, पुं, (उत्तममृणमस्य । ऋणमाधमर्ण्ये इति

सूत्रे आधमर्ण्यशब्देन व्यवहारविशेषो लक्ष्यते ।)
ऋणदाता । इत्यमरः ॥ महाजन इति भाषा ।
तत्पर्य्यायः । ऋणदः २ । इति जटाधरः ॥
(“अधमर्णार्थसिद्ध्यर्थमुत्तमर्णेन चोदितः ।
दापयेत् धनिकस्यार्थमधमर्णात् विभावितम्” ॥
इति मनुः । ८ । ४७ ॥)

उत्तमसंग्रहः, पुं, (उत्तमः संग्रहो यस्मिन् ।) सम्यक्

संग्रहणम् । तत्तु निर्जने परभार्य्यया सह केशा-
केशिपरस्परालिङ्गनसहासनादिरूपमिथुनीभावः ।
इति मिताक्षरा ॥

उत्तमसाहसः, पुं, (उत्तमः साहसोऽस्त्यस्मिन् ।)

दण्डविशेषः । स तु साशीतिपणसाहस्रः । यथा ।
साशीतिपणसाहस्रो दण्ड उत्तमसाहसः” ।
इति याज्ञवल्क्यः ॥ सहस्रपणमितोऽपि । यथा,
“पणानां द्वे शते सार्द्धे प्रथमः साहसः स्मृतः ।
मध्यमः पञ्च विज्ञेयः सहस्नं त्वेव चोत्तमः” ॥
इति मनुः ॥

उत्तमा, स्त्री, (अतिशयेन उत्कृष्टा । उत् + तमप् +

टाप् ।) उत्कृष्टा नारी । तत्पर्य्यायः । वरारोहा २
मत्तकाशिनी ३ वरवर्णिनी ४ । इत्यमरः ॥ मत्त-
काषिणी ५ । मत्तकासिनी ६ । इति तट्टीका ॥
दुग्धिकावृक्षः । इति मेदिनी ॥ स्वीयादिनायिका-
भेदः । अस्या लक्षणम् । अहितकारिण्यपि प्रिये
हितकारिणी । अस्याश्चेष्टा उत्तमा एव । इति
रसमञ्जरी ॥

उत्तमाङ्गं, क्ली, (उत्तमं प्रशम्तमङ्गं ।) मस्तकं । इत्थ-

मरः ॥ (“कश्चित् द्विषत्खङ्गहृतोत्तमाङ्गः” ।
इति रघौ । ७ । ५१ । “बभौ पतद्गङ्गैवोत्तमाङ्गे” ।
इति कुमारे ॥ ७ । ४१ । मुखम् । यथा, मानवे १ । ९३ ॥
“उत्तमाङ्गोद्भवाज्ज्येष्ठात् ब्राह्मणश्चैव धारणात् ।
सर्ष्वस्यैवास्य सर्गस्य धर्म्मतो ब्राह्मणः प्रभुः” ॥
उत्तमाङ्गं मुखं इति तट्टीका ॥)

उत्तमारणी, स्त्री, इन्दीवरी । इति राजनिर्घण्टः ॥

(इन्दीवरीशब्टेऽस्या गुणादिकं बोध्यम् ।)

उत्तरं, क्ली, (उत् + तॄ + अप् ।) प्रतिवाक्यम् । इत्य-

मरः ॥ जवाव इति यावनी भाषा ।
(यथा, माघे २ । २२ ।
“वचसस्तस्य सपदि क्रिया केवलमुत्तरम्” ।)
तस्य व्युत्पत्तिः ।
“उत्तीर्य्यते निस्तीर्य्यते प्रकृताभियोगोऽनेन” ।
तस्य स्वरूपम् ।
“पक्षस्य व्यापकं सारमसन्दिग्धमनाकुलम् ।
अव्याख्यागम्यभित्येवमुत्तरं तद्विदो विदुः” ॥
तस्य भेदाः ।
“मिथ्या सम्प्रतिपत्तिश्च अत्यवस्कन्दनं तथा ।
प्राङ्न्यायश्चोत्तराःप्रोक्ताश्चत्वारः शास्त्रवेदिभिः” ॥
इति नारदः ॥ (अथ उत्तरं नाम साधर्म्योपदिष्टे
वा हेतौ वैधर्म्म्यवचनं वैधर्म्म्योपदिष्टे वा साधर्म्म्य-
वचनं यथा हेतुमधर्म्माणोविकाराः शीतकस्य
द्विव्याधेर्हेतुस्राधर्म्म्यवचनं हिमशिशिरवातसं-
स्पर्शा इति ब्रुवतः परो ब्रूयात् हेतुविधर्म्माणो
विकाराः यथा शरीरावयवानां दाहौष्ण्यं कोथ-
प्रपचने हेतुवैधर्म्म्यं हिमशिशिरवातसंस्पर्शां
इति । एतत् सविपर्य्ययमुत्तरम् । इति चरके
विमानस्थानेऽष्टमोऽध्यायः ॥)

उत्तरः पुं, विराटराजपुत्त्रः । इति हेमचन्द्रः ॥ (यथा

महाभारते ३ । गोहरणपर्ब्बणि ३५ । ३३ “तमुत्तरं
वीक्ष्य रथोत्तमे स्थितम्” । तत्रैव ३४ “सहोत्तरे-
णास्तु तदद्य मङ्गलम्”) । (स्वनामख्यातपर्ब्बत-
भेदः । यया, “दक्षिणस्योत्तरो गिरिः” । इति
रामायणे ॥ उत्तरयति संसारसागरात् इति
व्युत्पत्तेः । शिवः । हरिः ॥ भारते । १३ । १४९ । ६६ ॥)

उत्तरः, त्रि, (उदतिशयेन उद्गतः । उत् + तरप् ।)

ऊर्द्ध्वः । उदीची । (यथा, रामायणे ।
“उत्तरे जाह्नवीतीरे हिमवन्तं शिलोच्चयम्” ।)
उत्तमः इति मेदिनी अमरश्च ॥ (प्रधानं । श्रेष्ठः ।
यथा, रघुः १३ । ७ ।
“नृपा इवोपप्लविनः परेभ्यो,
धर्म्मोत्तरं मध्यममाश्रयन्ते” ।
“ब्रह्मधर्म्मोत्तरे राज्ये शान्तनुर्विनयात्मवान्”
इति महाभारतम् ॥) अनन्तरम् ।
(“वित्तं बन्धुर्बयः कर्म्म विद्या भवति पञ्चमी ।
एतानि मान्यस्थानानि गरीयो यद् यदुत्तरम्” ॥
इति मनुः । २ । १३६ ॥)

उत्तरकालः, पुं, (उत्तरः कालः ।) भविष्यत्कालः ।

गौणकालः । यथा, हरिहरपद्धतिः ।
“एवमागामियागीयमुख्यकालादधस्तनः ।
स्वकालादुत्तरो गौणः कालः पूर्ब्बस्य कर्म्मणः” ॥

उत्तरकुरुः, स्त्री, (उत्तरः कुरुः ।) जम्बुद्वीपस्य नव-

वर्षान्तर्गतवर्षविशेषः । इति त्रिकाण्डशेषः ॥
(“विजित्य यः प्राज्यमयच्छदुत्तरान्
कुरूनकुप्यं वसु वासावोपमः” ।
इति किरातार्ज्जुनीये । १ । २५ ॥)

उत्तरकोशला, स्त्री, (उत्त्रे स्थिता कोशला ।)

अयोध्यानगरी । इति त्रिकाण्डशेषः ॥
(“पितुरनन्तरमुत्तरकोशलान्
ससधिगम्य समाधिजितेन्द्रियः” ॥
इति रघुः ९ । १ ॥
“यदुपतेः क्व गता मथुरापुरी
रघुपतेः क्व गतोत्तरकोशला” ।
इति उद्भटः ॥)

उत्तरक्रिया, स्त्री, (उत्तरा अन्तिमा क्रिया ।) अन्ति-

मक्रिया । सांवत्सरिकश्राद्धादिपित्र्यक्रिया । यथा,
“प्रेते पितृत्वमापन्ने सपिण्डीकरणादनु ।
क्रियन्तेयाः क्रियाः पित्र्याः प्रोच्यन्ते ता नृपोत्तराः” ॥
इति विष्णुपुराणम् ॥

उत्तरङ्गं क्ली, (उत्तर + गम् + खश् ।) द्वारोर्द्धवक्र-

दारु । इति हेमचन्द्रः ॥ उद्गततरङ्गे त्रि ॥
“प्रत्यग्रहीत् पार्थिववाहिनीं तां
भागीरथीं शोण इवोत्तरङ्गः” ॥ इति रघुः । ७ । ३६ ।

उत्तरणं, क्ली, (उत् + तॄ + ल्युट् ।) नद्यादिपारगम-

नम् । उत्तरण इति भाषा ॥
पृष्ठ १/२२५

उत्तरतः, [स्] व्य, (उत्तर + स्वार्थे + अतसुच् ।)

उत्तरदिग्देशकालात् । इति रायमुकुटः ॥ उत्तर
हैते इति भाषा । (यथा, रामायणे ४ । ५५ ।
अध्याये ।
“दक्षिणाग्रेषु दर्भेषु कृत्वा चोत्तरतः शिरः ।
तमेवानुमरिष्यन्तः सर्व्वे संविविशुर्भुवि” ॥)

उत्तरतारं, क्ली, (उत्तरमपरं तारं ।) उत्तरतीरम् ।

इति सिद्धान्तकौमुदी ॥

उत्तरपक्षः पुं, (उत्तरः पक्षः ।) विचारसिद्धान्तः ।

समाधानम् । तत्पर्य्यायः । सिद्धान्तः २ समाधिः ३
कृतान्तः ४ । इति त्रिकाण्डशेषः ॥ सिद्धान्तानु-
कूलतर्कोपन्यासः । इति स्मृतिः ॥ यथा माघे ।
(“प्रापयन् पवनव्याधेर्गिरमुत्तरपक्षतां” । २ । १५ ॥)

उत्तरपादः, पुं, (उत्तरः पादः ।) चतुष्पादव्यवहा-

रान्तर्गतद्वितीयपादः । (यथाह वृहस्पतिः ।
“पूर्ब्बपक्षः स्मृतः पादो द्विपादश्चोत्तरः स्मृतः” ।)
उत्तरम् । इति व्यवहारतत्त्वम् ॥

उत्तरफल्गुनी, स्त्री, (उत्तरा फल्गुनी ।) अश्विन्यादि-

सप्तविंशतिनक्षत्रान्तर्गतद्वादशनक्षत्रम् । अस्या
रूपम् । दक्षिणोत्तरमिलिततारकाद्वयम् । इति
कालिदासः ॥ पर्य्यङ्करूपं तारकाद्वयं । इति दीपि-
काटीका ॥ अस्या अधिष्ठात्री देवता अर्य्यमा ।
अस्या मिश्रगुणः । अस्यां जातफलम् ।
“दाता दयालुः स्वजने सुशीलो
विशालकीर्त्तिः सुमतिः प्रधानः ।
धीरो नरोऽत्यन्तमृदुस्वभाव-
श्चदुत्तराफल्गुनिकाप्रसूतिः” ॥
इति कोष्ठीप्रदीपः ॥

उत्तरफाल्गुनी, स्त्री, (उत्तरा फाल्गुनी ।) उत्तर-

फल्गुनीनक्षत्रम् । तत्पर्य्यायः । उत्तरा २ अर्य्यम-
देवा ३ । इति हेमचन्द्रः ॥

उत्तरभाद्रपत्, [द्] स्त्री, (उत्तरा भाद्रपत् ।) उत्तर-

भाद्रपदानक्षत्रम् । इति ज्योतिषम् ॥

उत्तरभाद्रपदा, स्त्री, (उत्तरा भाद्रपदा ।) अश्विन्या-

दिसप्तविंशतिनक्षत्रान्तर्गतषड्विंशनक्षत्रं । तत्-
पर्य्यायः । प्रौष्ठपदा २ अहिर्व्रध्नदेवता ३ । इति
हेमचन्द्रः ॥ अस्या रूपम् ।
“उत्तरे सुमुखि तारमूर्त्तिभृ-
त्युत्तमाङ्गमिलितद्वितारके ।
नीलचामरकचे नृयुग्मतो
लोचनाचलकलाः पलायिताः” ॥
इति कालिदासः ॥ पर्य्यङ्करूपमष्टतारात्मकं । इति
दीपिकाटीका ॥ अस्यां जातफलम् ।
“धनी कुलीनः कुशलः क्रियादौ
भूपालमान्यो बलवान् महौजाः ।
सत्कर्म्मकर्त्ता निजबन्धुभक्तो
यद्युत्तराभाद्रपदाप्रसूतः” ॥
इति कोष्ठीप्रदीपः ॥

उत्तरवादी, [न्] त्रि, (उत्तरं वदति यः । उत्तर +

वद + णिन् ।) उत्तरवक्ता । इति व्यवहारतत्त्वम् ॥
आसामी इति भाषा । यथा याज्ञवल्क्मः २ । १७ ।
(“पूर्ब्बपक्षेऽधरीभूने भवन्त्युत्तरवादिनः” ॥)

उत्तरसाक्षी, [न्] त्रि, स्वपक्षसम्बन्धिसाक्ष्यं परि-

भाषतां साक्षिणां यः स्वयं शृणोति अर्थिना
श्राव्यते वा सः । तथाच नारदः ।
“साक्षिणामपि यः साक्ष्यं स्वपक्षं परिभाषताम् ।
श्रवणात् श्रावणाद्वापि स साक्ष्युत्तरसंज्ञकः” ॥
इति व्यवहारतत्त्वम् । परसाक्षी इति भाषा ॥

उत्तरसाधकः त्रि, (उत्तरः साधकः ।) साधक-

सहायः । सहकारी ॥

उत्तरा, स्त्री, (उत्तर + टाप् ।) विराटराजकन्या ।

साभिमन्युपत्नी । इति मेदिनी ॥ (यथा महा-
भारते ३ । गोहरणपर्ब्बणि ३५ । २३ ।
“स तत्र नर्म्मसंयुक्तमकरोत् पाण्डवो बहु ।
उत्तरायाः प्रमुखतः सर्व्वं जानन्नरिन्दमः” ॥)
उत्तरा दिक् । तत्पर्य्यायः । कौवेरी २ देवी ३
उदीची ४ । इति राजनिर्घण्टः ॥ (यथा महा-
भारते २ । दिग्विजयपर्ब्बणि २८ । १७ ।
“एवं स पुरुषव्याघ्रो विजिग्ये दिशमुत्तराम्” ।)
अस्या दिशोऽधिपतिः कुवेरः कर्कटवृश्चिकमीन-
राशयश्च । यथा । समयप्रदीपः ॥
“मेषसिंहधनुः प्राच्यां दक्षिणस्यान्तु तत्परे ।
प्रतीच्यां तत्परे ज्ञेया उदीच्याञ्च ततः परे” ॥

उत्तरात्, व्य, (उत्तराधरदक्षिणादाति इति उत्तरा-

दातिप्रत्ययः ।) उत्तरा दिक् । इत्यमरटीकायां
रायमुकुटः ॥ (यथा, ऋग्वेदे ६ । १९ । ९ ।
“आ ते शुष्मा वृक्ष एतु पश्चादोत्तरादधरादा-
पुरस्तात्” ॥)

उत्तराधिकारी, [न्] त्रि, (उत्तरं पूर्ब्बस्वामिकस्वत्त्व-

नाशानन्तरं अधिकरोति पूर्ब्बस्वामिकधने स्वा-
म्यमाप्नोतीति । उत्तर + अधि + कृ + णिन् ।)
प्रथमाधिकारिणः पश्चादधिकारी । दायादः ।
ओयारिस् इति यावनी भाषा ॥ (मृतधनोत्तरा-
धिकारिणो दायभागशब्दे द्रष्टव्याः ॥)

उत्तराभासः, पुं, (सदुत्तरम् इव आभासते । आङ् +

भास + अच् ।) दुष्टोत्तरम् । तथा च कात्यायनः ।
“प्रकृतेन त्वसम्बन्धमत्यल्पमतिभूरि च ।
पक्षैकदेशव्याप्येव तच्च नैवोत्तरं भवेत्” ॥
इति व्यवहारतत्त्वम् ॥

उत्तरायणं, क्ली, (उत्तरा उत्तरस्यां अयनं सूर्य्यादे-

र्गमनम् । पूर्ब्बपदात्संज्ञायामिति णत्वम् ।) सूर्य्यस्य
उत्तरदिग्गमनकालः । स तु माघादिषण्मासा-
त्मकः । इति हेमचन्द्रः ॥ (यथाह सूर्य्यसिद्धान्तः ।
“भानोर्मकरसंक्रान्तेः षण्मासा उत्तरायणम् ।
कर्कादेस्तु तथैव स्यात् षण्मासा दक्षिणायनम्” ॥
“माघादिमासयुग्मैस्तु ऋतवः षट् क्रमादितः ।
उत्तरायणमाद्यैस्तैस्त्रिभिः स्याद्दक्षिणायनम्” ।)
देवानां दिनम् । इति स्मृतिः ॥ (मकरसंक्रान्तिः ।
“वानप्रस्थाश्रमिभिर्विप्रैः करणीयो यागभेदः” ।
यदुक्तं मनुना ६ । १० ।
“ऋक्षेष्ट्याग्रयणञ्चैव चातुर्मास्यानि चाहरेत् ।
उत्तरायणञ्च क्रमशो दाक्षस्यायनमेव च” ॥
“शिशिरश्च वसन्तोऽपि ग्रीष्मः स्यादुत्तरायणे” ।
इति हारीते प्रथमस्थाने चतुर्थोऽध्यायः ॥
“शिशिराद्यास्त्रिभिस्तैस्तु विद्यादयनमुत्तरम् ।
आदानञ्च तदा दत्ते नृणां प्रतिदिनं बलम् ॥
तस्मिन् ह्यत्यर्थतीक्ष्णोष्णरूक्षामार्गस्वमावतः ।
आदित्यपवनाः सौम्यान् क्षपयन्ति गुणान् भुवः ॥
तिक्तः कषायः कटुको बलिनोऽत्र रसाः क्रमात् ।
तस्मादादानमाग्नेयम्” । इति सूत्रस्थाने तृतीयेऽ-
ध्याये वाभटेनोक्तं ॥
“तत्र ते शीतोष्णवर्षलक्षणाश्चन्द्रादित्ययोः काल-
विभागकरत्वादयने द्वे भवतो दक्षिणमुत्तरञ्च” ।
“उत्तरञ्च शिशिरवसन्तग्रीष्मास्तेषु भगवानाप्या-
य्यतेऽर्कस्तिक्तकषायकटुकाश्च रसा बलवन्तो भव-
न्त्युत्तरोत्तरञ्च सर्व्वप्राणिनां बलमपहीयते” ॥
इति सूत्रस्थाने षष्ठेऽध्याये सुश्रुतेनोक्तम् ॥)

उत्तराशाढा, स्त्री, (उत्तरा आशाढा ।) उत्तराषा-

ढानक्षत्रम् । इति भरतो द्विरूपकोषश्च ॥

उत्तराशापतिः, पुं, (उत्तराशायाः उत्तरदिशः अधि-

पतिः अधिष्ठाता ।) कुवेरः । इति हलायुधः ॥

उत्तराषाढा, स्त्री, (उत्तरा आषाढा ।) अश्विन्यादि-

सप्तविंशतिवक्षत्रान्तर्गतैकविंशनक्षत्रम् । अस्या
रूपम् । सूर्पाकृतिताराचतुष्टयात्मकम् । अस्या
अधिदेवता विश्वः । इति कालिदासः ॥ गजदन्त-
वदष्टतारामयम् । इति दीपिकाटीका ॥
तत्र जातफलम् । यथा कोष्ठीप्रदीपे ।
“दाता दयावान् विजयी विनीतः
सत्कर्म्मचेता विभवैः समेतः ।
कान्तासुतावाप्तसुखो नितान्तं
वैश्वे सुवेशः पुरुषो मनीषी” ॥)

उत्तरासङ्गः, पुं, (उत्तरे ऊर्द्ध्वभागे आसज्यते । उत्तर

+ आ + सञ्ज + घञ् ।) उत्तरीयवस्त्रं । इत्यमरः ॥
(“कृताभिषेकां हुतजातवेदसं
त्वगुत्तरासङ्गवतीमधीतिनीम्” ।
इति कुमारे ५ । १६ ॥ तथा, रामायणे २ । ५० । ४८ ।
“ततश्चीरोत्तरासङ्गः सन्ध्यामन्वास्य पश्चिमाम्” ॥)

उत्तरीयं, क्ली, (उत्तरस्मिन् ऊर्द्ध्वदेहभागे भवम् ।

उत्तर + छ ।) उत्तरीयवस्त्रम् । दोछोट् दोब्जा
इत्यादि भाषा । तत्पर्य्यायः । प्रावारः २ उत्तरा-
सङ्गः ३ वृहतिका ४ संव्यानम् ५ । इत्यमरः ॥
कक्षा ६ । इति जटाधरः ।
(“अथास्य रत्नग्रथितोत्तरीय-
मेकान्तपाण्डुस्तनलम्बिहारम्” ।
इति रघुः १६ । ४३ । यथा रामायणे २ । ८८ । १४ ।
“उत्तरीयमिवासक्तं सुव्यक्तं सीतया तदा” ॥)

उत्तरेण, व्य, (उत्तर + एनप् ।) उत्तरदिग्देशकालः ।

इत्यमरटीकायां रायमुकुटः ॥ यथा मेघदूते १६ । ७५ ।
(“किञ्चित्पश्चात् व्रज लघुगतिर्भूय एवोत्तरेण” ।
“तत्रागारं धनपतिगृहानुत्तरेणास्मदीयम्” ॥)

उत्तरेद्युः, [स्] व्य, (उत्तरस्मिन्नहनि इत्यर्थे सद्यः-

परुदिति उत्तरशब्दादेद्युस् प्रत्ययो निपातितः ।)
उत्तरस्मिन्नहनि । आगामिदिने । इति शब्द-
रत्नावली ॥

उत्तानं, त्रि, (उद्गतस्तानो विस्तारो यस्मात् ।) अग-

म्भीरम् । ऊर्द्ध्वमुखशयितम् । इति मेदिनो ॥ चित्
पृष्ठ १/२२६
:इति भाषा । (ऊर्द्ध्वतलम् । यथा,
“उत्तानपाणिद्वयसन्निवेशात्
प्रफुल्लराजीवमिवाङ्कमध्ये” ।
इति कुमारे ३ । ४५ । तथा, याज्ञवल्क्यः ।
“पितृपात्रं तदुत्तानं कृत्वा विप्रान् विसर्ज्जयेत्” ।
“उत्तानं लेपनाभ्यङ्गपरिषेकावगाहनैः ।
विरेकास्थापनैः स्नेहपानैर्गम्भीरमाचरेत्” ॥
इति चिकित्सास्थाने द्वाविंशेऽध्याये वाभटेनोक्तं ॥
“उत्तानस्य प्रसुप्तस्य कांस्यं वा ताम्रभाजनम् ।
नाभौ निधाय धाराम्बु शीतदाहनिवारणम्” ॥
इति हारीते चिकित्सितस्थाने द्वितीयोऽध्यायः ॥)

उत्तानकः, पुं, (उत् + तन + ण्वुल् ।) उच्चटातृणम् ।

इति रत्नमाला ॥ (उच्चटाशब्देऽस्य विशेष उक्तः ॥)

उत्तानपत्रकः, पुं, (उत्तानं ऊर्द्ध्वमुखं पत्रं यस्य ।

बहुव्रीह्यर्थे कन् ।) रक्तैरण्डवृक्षः । इति राज-
निर्घण्टः ॥

उत्तानपादः, पुं, (उत्तानः उन्नतः पादः पदं यस्य ।)

राजविशेषः । स तु स्वायम्भुवमनुपुत्त्रः इति
पुराणम् ॥ (यथा, विष्णुपुराणे १ । ११ ॥
“प्रियव्रतोत्तानपादौ मनोः स्वायम्भुवस्य तु ।
द्वौ पुत्त्रौ सुमहावीर्य्यौ धर्म्मज्ञौ कथितौ तव” ॥)

उत्तानपादजः, पुं, (उत्तानपादात् जायते यः । उत्तान-

पाद + जन् + ड ।) उत्तानपादराजपुत्त्रः । तत्प-
र्य्यायः । ज्योतीरथः २ ग्रहाधारः ३ ध्रुवः ४ । इति
हारावली ॥ (उत्तमः । यथा, विष्णुपुराणे १ । ११ ॥
“तयोरुत्तानपादस्य सुरुच्यामुत्तमः सुतः ।
अभीष्टायामभूद्ब्रह्मन् ! पितुरत्यन्तब्रल्लभः ॥ २ ॥
सुनीतिर्नाम या राज्ञस्तस्याभून्महिषी द्विज !
स नातिप्रीतिमांस्तस्यां तस्याश्चाभूद्ध्रुवः सुतः ॥ ३ ॥)

उत्तानशयः, त्रि, (उत्तानः शेते । शीङ शयने पार्श्वा-

दिषूपसंख्यानमिति अच् ।) अत्यन्तशिशुः । तत्प-
र्य्यायः । डिम्भा २ स्तनपा ३ स्तनन्धयी ४ । इत्य-
मरः ॥ उत्तानसुप्तः ॥

उत्तापः, पुं, (उत् + तप् + घञ् ।) तेजः । उष्मा ।

सन्तापः ॥ (यथा, हितोपदेशः ।
“प्रत्यहः सर्व्वसिद्धीनामुत्तापः प्रथमः किल” ॥)

उत्तारः, त्रि, (उत् + तॄ + घञ् ।) महान् । तत्पर्य्यायः ।

उदीर्णः २ उद्भटः ३ उदारः ४ उत्तमः ५ । इति
जटाधरः ॥ (यथा प्रबोधचन्द्रोदये ।
“संसारसागरोत्तारतरणिः” ।) वमनम् । इति
प्रायश्चित्तविवेकादयः ॥

उत्तारी, [न्] त्रि, (उत् + तॄ + णिन् ।) चपलः

इति भूरिप्रयोगः ॥

उत्तालः, त्रि, (उत् + तल् + घञ् ।) उत्कटः । श्रेष्ठः ।

विकरालः । प्लवङ्गमः । इति मेदिनी ॥
(“लसदुत्तालवेतालतालवाद्यं विवेश तत् ।
श्मशानं कृष्णरजनीनिवासभवनोपमम्” ॥
इति कथासरित्सागरे २५ । १३६ ॥
“अन्योन्यप्रतिधातसङ्कुलचलत्कल्लोलकोलाहलैः
उत्तालान्तैमे गभीरपयसः पुण्याः सरित्सङ्गमाः” ।
इति उत्तरचरिते । २ य अङ्के ।) त्वरितः । इति
हेमचन्द्रः ॥

उत्तीर्णं, त्रि, (उत् + तॄ + क्त ।) मुक्तम् । पारगतम् ॥

(“तुलोत्तीर्णस्यापि प्रकटितहताशेषतमसो
रवेस्तादृक्तेजो न हि भवति कन्यां गतवतः” ।
इति पद्यसंग्रहे १९ ॥)

उत्तुङ्गः, त्रि, (उत् अतिशयेन तुङ्गः ।) उच्चः । इति

जटाधरः ॥
(“उत्तुङ्गशैलशिखरस्थितपादपाना
काकः कृशोऽपि फलमालभते सपक्षः” ।
इति उद्भटः । उन्नतः । “पीनोत्तुङ्गपयोधरेति
सुमुखाम्भोजेति सुभ्राविति” । इति भर्तृहरिः
१ । ७२ ॥)

उत्तुषः, पुं, (उद्गतस्तुषो धान्यत्वक् यस्मात् ।)

भृष्टधान्यम् । तत्पर्य्यायः । खाजिकः २ लाजाः ३ ।
इति हारावली । खै इति भाषा ॥

उत्तेजना, स्त्री, (उत् + तिज् + णिच् + युच् ।) प्रे-

रणा । व्यग्रकरणम् ॥ (तीक्ष्णीकरणम् । यथा,
“व्याघट्टनोत्तेजनया मणीनाम्” । इति माघे ।)

उत्तेजितं, क्ली, (उत् + तिज् + णिच् + क्त ।) अश्व-

चतुर्थगतिः । सा च मध्यवेगेन या गतिः । तत्प-
र्य्यायः । रेचितम् २ । इति हेमचन्द्रः ॥ प्रेरिते
त्रि ॥

उत्तेरितं, क्ली, (उत् + तॄ + इतच् ।) अश्वपञ्चमगतिः ।

तत्पर्य्यायः । उपकण्ठं २ आस्कन्दितकम् ३ । इति
हेमचन्द्रः ॥ (तथा चोक्तं, --
“उत्तेरितोऽतिवेगान्धो न शृणोति न पश्यति” ॥)

उत्तोलनं, क्ली, (उत् + तुल् + ल्युट् ।) ऊर्द्ध्वनयनम् ।

तोला । इति भाषा ॥

उत्त्यक्तः, त्रि, (उत् + त्यज् + क्त ।) परित्यक्तः । ऊर्द्ध्व-

क्षिप्तः । विरक्तः ॥

उत्त्रासः, पुं, (उत् + त्रस् + घञ् ।) भयम् । इति

शब्दरत्नावली ॥

उत्थानं, क्ली, (उत् + स्था + ल्युट् ।) सैन्यम् । युद्धम् ।

पौरुषम् । पुस्तकम् । उद्यमः । (यथा रामायणे ५ ।
“मम धर्म्मार्थमुत्थानं न कामक्रोधसंज्ञितम्” ।)
उद्गमः । (अभ्युदयः । यथा रघुवंशे । ६ । ३१ ।
“निदर्शयामास विशेषदृश्य-
मिन्दुं नवोत्थानमिवेन्दुमत्यै” ॥)
हर्षः । वास्त्वन्तः । अङ्गनम् । चैत्यः । (धनार्ज्जन-
निमित्ता चेष्टा । यथा मनुः ९ । २१५ ॥
“भ्रातॄणामविभक्तानां यद्युत्थानं भवेत्सह ।
न पुत्त्रभागं विषमं पिता दद्यात् कथञ्चन” ॥)
मलोत्सर्गः । इति हेमचन्द्रः ॥ तन्त्रम् । तत्तु स्व-
मण्डलम् । सैन्यंचिन्ता च । सन्निविष्टः । उपविष्टः ।
इत्यमरभरतौ ॥ गात्रोत्तोलनम् । उठन इति
भाषा । (यथा शाकुन्तले २ य अङ्के । “मेदच्छेद-
कृशोदरं लघु भवत्युत्थानयोग्यं वपुः” ।) यथा च,
“निशि स्वापो दिवोत्थानं सन्ध्यायां परिवर्त्तनम् ।
अन्यत्र पादयोगेऽपि द्वादश्यामेव कारयेत्” ॥
इति तिथ्यादितत्त्वम् ॥ (पुनर्जीवनम् । मरणान-
न्तरं पुनर्जीवनलाभः । यथा महाभारते ।
“स चापि वरयामास पितुरुत्थानमात्मनः” ॥)

उत्थानैकादशी, स्त्री, (उत्थानाय हरेः प्रबोधनाय

या एकादशी । अस्यां भगवान् क्षीरोदशयानो
नारायणः योगनिद्रां विहाय उत्तिष्ठति ।) का-
र्त्तिकशुक्लैकादशी ॥ अथ विष्णूत्थानम् । तत्र
दिवसे रेवत्यन्तयुक्तायां द्वादश्याम् । रात्रौ रेव-
त्यन्तपादयोगे तु दिवातृतीयभागे रेवतीयुक्त-
द्वादश्याम् । द्वादश्यामृक्षाभावे एकादशीप्रभृति-
पौर्णमास्यन्तान्यतमतिथौ रेवत्यन्तपादयोगे । तद-
भावे केवलायां द्वादश्यां सन्ध्यायां विष्णुं संपूज्य ।
ॐ “महेन्द्ररुद्रैरभिनूयमानो
भवानृषिर्व्वन्दितवन्दनीयः ।
प्राप्ता तवेयं किल कौमुदाख्या
जागृष्व जागृष्व च लोकनाथ ॥
मेघा गता निर्म्मल एष चन्द्रः
शारद्यपुष्पाणि च लोकनाथ ।
अहं ददानीति च पुण्यहेतो-
र्जागृष्व जागृष्व च लोकनाथ” ॥
ततश्च ।
“उत्तिष्ठोत्तिष्ट गोविन्द त्यज निद्रां जगत्पते ।
त्वया चोत्थीयमानेन उत्थितं भुवनत्रयम्” ॥
इति पठेत् । इति कृत्यतत्त्वम् ॥

उत्थापनं, क्ली, (उत् + स्था + णिच् + ल्युट् ।) उत्तो-

लनम् । उपस्थितीकरणम् ॥
(“किन्नु मे सुकृतं भूयात् भर्त्तुरुत्थापनं न वा” ।
इति महाभारते १ । आस्तीकपर्ब्बणि । ४६ । १७ ।)

उत्थितं, त्रि, (उत् + स्था + क्त ।) वृद्धिमत् । प्रोद्यतं ।

उत्पन्नम् । इत्यमरमेदिनीकरौ ॥ (कृतोत्थानम् ।
“अर्द्धाचिता सत्वरमुत्थितायाः” ।
इति कुमारे, ७ । ६२ । रघुवंशे च ७ । १० ।
“शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ” ।
इति मेघदूते । ११२ । “न यावदेतावुदपश्य-
दुत्थितौ” । इति माघे । १ । १५ ॥)

उत्थिताङ्गुलिः, पुं, (उत्थिता अङ्गुलयो यत्र ।) चपेटः ।

विस्तृताङ्गुलिकरतलम् । इति शब्दचन्द्रिका । चा-
पड् इति भाषा ॥

उत्पतः, पुं, (उत् ऊर्द्ध्वे पतति गच्छति । उत् + पत् +

अच् ।) पक्षी । इति त्रिकाण्डशेषः ॥

उत्पतनं, क्ली, (उ + पत् + ल्युट् ।) उत्पत्तिः । ऊर्द्ध्व-

गमनम् । इति मेदिनी ॥
(“अथोत्पतनमन्त्रं सा पठित्वा ससखीजना” ।
इति कथासरित्सागरे ॥ विंशतरङ्गे ॥)

उत्पतिता, [ऋ] त्रि, (उत् + पत् + तृच् ।) ऊर्द्ध्व-

गमनशीलः । उपरिगमनकर्त्ता इत्यमरः ॥

उत्पतिष्णुः, त्रि, (उत् + पत् + इष्णुच् ।) ऊर्द्ध्वगमन-

शीलः । तत्पर्य्यायः । उत्पतिता २ । इत्यमरः ॥
(“ससञ्जुरश्वक्षुण्णानामेलानामुत्पतिष्णवः” ।
इति रघुः । ४ । ४७ । तथा पञ्चतन्त्रे । ३ । ४१ ।
“मृगपतिरपि कोपात् सङ्कुचत्युत्पतिष्णुः” ॥)

उत्पत्तिः, स्त्री, (उत् + पत् + क्तिन् ।) उत्पतनम् ।

तत्पर्य्यायः । जनुः २ जननं ३ जन्म ४ जनिः ५
उद्भवः ६ । इत्यमरः ॥ संसारः ७ भवः ८
जातिः ९ । इति जटाधरः ॥ प्रभवः १० भावः ११
सम्भवः १२ जनूः १३ । इति शब्दरत्नावली ॥
पृष्ठ १/२२७
:(यथा मनुः । २ । ६८ ।
“उत्पत्तिव्यञ्जकः पुण्यः कर्म्मयोगं निबोधत” ।)
(साङ्ख्यादिमते आविर्भावः । यथा, मृत्पिण्डे विद्य-
मानस्य घटस्याविर्भाव एव उत्पत्तिर्यथा तथैव
कारणात्मना विद्यमानानां तत्त्वानां आविर्भाव
एवोत्पत्तिर्विवक्षिता ॥)

उत्पन्नः, त्रि, (उत् + पद् + क्त ।) उत्पत्तिविशिष्टः ।

जातः । उद्भूतः ॥

उत्पलं, क्ली, (उत्पलतीति । पल गतौ पचाद्यच् ।)

नोलकमलम् । कुष्ठौषधिः । इति विश्वः ॥ पुष्पम् ।
इति मेदिनी ॥ जलजपुष्पमात्रम् । तच्च पद्मकुमु-
दादि । तत्पर्य्यायः । कुवलयम् २ । इत्यमरः ॥ कुब-
लम् ३ । इति जटाधरः ॥ कुवेलम् ४ । इति शब्द-
रत्नावली ॥ (यथा रघौ ३ । ३६ । “नवावतारं
कमलादिवोत्पलम्” ।) तस्य गुणाः । कषायत्वम् ।
मधुरत्वम् । शीतत्वम् । पित्तकफरक्तनाशित्वञ्च ।
इति राजवल्लभः ॥ जलपुष्पविशेषः । कोञि इति
हिन्दी भाषा । तत्पर्य्यायः । अनुष्णम् २ रात्रि-
पुष्पम् ३ जलाह्वयम् ४ हिमाब्जम् ५ निशापुष्पम्
६ । अस्य गुणाः । शीतत्वम् । स्वादुत्वम् । पित्त-
रक्तार्त्तिदोषनाशित्वम् । दाहश्रमवमिभ्रान्तिकृ-
मिज्वरहरत्वञ्च । इति राजनिर्घण्टः ॥
(“उत्पलानि कषायाणि पित्तरक्तहराणि च” ।
इति सूत्रस्थाने सप्तविंशेऽध्याये चरकेणोक्तम् ॥
“तस्मादल्पान्तरगुणे विद्यात्कुवलयोत्पले” ।
इति सुश्रुते सूत्रस्थाने षट्चत्वारिंशत्तमोऽध्यायः ॥)

उत्पलः, त्रि, (उद्गतं पलं मांसं यस्मात् सः ।) मांस-

शून्यः । इति विश्वः हेमचन्द्रश्च ॥

उत्पलगन्धिकं, क्ली, (उत्पलस्य गन्धैव गन्धो यस्य । स-

मासे इत् संज्ञायां कन् ।) चन्दनविशेषः । तत्पर्य्यायः ।
कृष्णताम्रम् २ गोशीर्षम् ३ । इति शब्दमाला ॥

उत्पलपत्रं, क्ली, (उत्पलस्य पत्रम् । नखक्षतपक्षे पत्र-

मिव ।) कुवलयदलम् । (यथा विष्णुपुराणे १ । ४ । २६ ।
ततः समुत्क्षिप्य धरां स्वदंष्ट्रया
महावराहः स्फुटपद्मलोचनः ।
रसातलादुत्पलपत्रसन्निभः
समुत्थितो नील इवाचलो महान् ॥)
स्त्रीनखक्षतम् । इति हेमचन्द्रः ॥ तिलकम् । इति
धरणी ॥

उत्पलशारिवा, स्त्री, (उत्पलमस्त्यस्याः उत्पलाकार-

पुष्पत्वात् । अर्श आद्यच् । यद्वा उद्यतं पलमनया ।
ततः उत्पला चासौ शारिवा चेति ।) श्यामलता ।
इत्यमरः । (श्यामलताशब्देऽस्या गुणादिकं ज्ञेयम् ॥)

उत्पलिनी, स्त्री, (उत्पलानि सन्ति अस्यां तेषां

समूहो वा । उत्पल + इनि + ङीप् ।) पठ्म-
समूहः । इति शब्दरत्नावली ॥ जलपुष्पविशेषः ।
छोटी कोञि इति हिन्दी भाषा । तत्पर्य्यायः ।
कैरविणी २ कुमुद्वती ३ कुमुदिनी ४ चन्द्रेष्टा ५
कुवलयिनी ६ इन्दीवरिणी ७ नीलोत्पलिनी ८ ।
(यथा महाभारते तीर्थयात्रापर्ब्बणि ३ । ९६ । २५ ।
“ववृधे सा महाराज विभ्रती रूपमुत्तमम् ।
अप्स्विवोत्पलिनी शीघ्रमग्नेरिव शिखा शुभा” ॥)
अस्या गुणाः । हिमत्वम् । तिक्तत्वम् । रक्तामय-
पित्तनाशित्वम् । वातकफकासतृष्णा श्रमवमिशम-
ताकारित्वञ्च । तस्या वीजगुणाः । स्वादुत्वम् । रूक्ष-
त्वम् । हिमत्वम् । गुरुत्वञ्च । इति राजनिर्घण्टः ॥

उत्पली, स्त्री, तुषचर्पटी । इति मेदिनी । तुँसेर

चाप्डा इति भाषा ॥

उत्पवनं, क्ली, (उत् + पू + ल्युट् ।) कुशण्डिकायां पवि-

त्रमध्येन जलादेरुत्क्षेपणम् । तत्र क्रमः । “पवित्र-
द्वयमग्रे वामहस्तानामिकाङ्गुष्ठाभ्यां मूले दक्षिण-
हस्तानामिकाङ्गुष्ठाभ्यां उत्तानहस्ताभ्यां गृहीत्वा
आज्ये प्रक्षिप्य तयोर्म्मध्येनाग्नावाज्योत्क्षेपणम्” ।
इति कालेसिः ॥ “पवित्रद्वयमग्रे दक्षिणहस्ता-
नामिकाङ्गुष्ठाभ्यां मूले वामहस्तानामिकाङ्गुष्ठाभ्यां
गृहीत्वा दक्षिणहस्तोपरिभावेन अधोमुखो व्य-
स्तपाणिः पवित्रमध्येन प्रोक्षणीजलस्य किञ्चि-
दुत्तोलनम्” । इति पशुपतिः ॥ “पशुपत्युक्तक्रमेण
सामगानां मन्त्रोच्चारणपूर्ब्बकं पवित्रद्वयमध्येनाग्ना
वाज्योत्क्षेपणं ॥ इति भवदेवभट्टः ॥

उत्पश्यः, त्रि, (उदूर्द्ध्वं पश्यतीति + उत् + दृश् + श ।)

उन्मुखः । ऊर्द्ध्वदृष्टिविशिष्टः । इति हेमचन्द्रः ॥

उत्पाटनं, क्ली, (उत् + पट् + णिच् + ल्युट् ।) उल-

नम् । मूल उप्डान इति भाषा ॥ (यथा सुश्रुते ।
“निखातोत्पाटनं भङ्गः पतनं निर्गमस्तथा” ॥)

उत्पाटितं, त्रि, (उत् + पट + णिच् + क्त ।) कृतोत्-

पाटनं । तत्पर्य्यायः । उन्मूलितम् २ उत्खातम् ३ ।
इति जटाधरः ॥ आवर्हितम् ४ उद्धृतम् ५ । इति
हेमचन्द्रः ॥

उत्पातः, पुं, (उत् + पत् + घञ् ।) उत्पतति अक-

स्मादायाति यः । प्राणिनां शुभाशुभसूचकमहा-
भूतविकारभूकम्पादिः । इत्यमरटीकायां भरतः ॥
तत्पर्य्यायः । अजन्यम् २ उपसर्गः ३ । इत्यमरः ॥
सत्रिविधः । दिव्यः १ यथा अपर्ब्बणि चन्द्रादित्य-
ग्रासादिः । आन्तरीक्ष्यः २ यथा, उल्कापात-
निर्घातादिः । भौमः ३ यथा भूकम्पादिः । इति
दीपिकाचण्डीटीके ॥ (उत्पातानां लक्षणादिकं
ऋतौ स्वभावप्रभवात् अदोषत्वञ्चोक्तं वृहत्संहि-
तायां ४६ अध्याये । यथा, --
“नरपतिदेशविनाशे केतोरुदयेऽथवा ग्रहेऽर्केन्द्वोः ।
उत्पातानां प्रभवः स्वर्तुभवश्चाप्यदोषाय ॥ ८२ ॥
येच न दोषान् जनयन्त्युत्पातास्तानृतुस्वभावकृतान् ।
ऋषिपुत्त्रकृतैः श्लोकैर्विद्यादेतैः समासोक्तैः ॥ ८३ ॥
वज्राशनिमहीकम्पसन्ध्यानिर्घातनिःस्वनाः ।
परिवेशरजोधूमरक्तार्कास्तमनोदयाः ॥ ८४ ॥
द्रमेभ्योऽन्नरसस्नेहबहुपुष्पफलोद्गमाः ।
गोपक्षिमदवृद्धिश्च शिवाय मधुमाधवे ॥ ८५ ॥
तारोल्कापातकलुषं कपिलार्केन्दुमण्डलम् ।
अनग्निज्वलनस्फोटधूमवेण्वनिलाहतम् ॥ ८६ ॥
रक्तपद्मारुणं सान्ध्यं नभः क्षुब्धार्णवोपमम् ।
सरितां चाम्बुसंशोषं दृष्ट्वा ग्रीष्मे शुभं वदेत् ॥ ८७ ॥
शक्रायुधपरीवेषविद्युच्छुष्कविरोहणम् ।
कम्पोद्वर्त्तनवैकृत्यं रसनं दरणं क्षितेः ॥ ८८ ॥
सरोनद्युदपानानां वृद्ध्यूर्द्ध्वतरणप्लवाः ।
सरणं चाद्रिगेहानां वर्षासु न भयावहम् ॥ ८९ ॥
दिव्यस्त्रीभूतगन्धर्व्वविमानाद्भुतदर्शनम् ।
ग्रहनक्षत्रताराणां दर्शनं च दिवाम्बरे ॥ ९० ॥
गीतवादित्रनिर्घोषा वनपर्ब्बतसानुषु ।
शस्यवृद्धिरपां हानिरपापाः शरदि स्मृताः ॥ ९१ ॥
शीतानिलतुषारत्वं नर्दनं मृगपक्षिणाम् ।
रक्षोयक्षादिसत्वानां दर्शनं वागमानुषी ॥ ९२ ॥
दिशो धूमान्धकाराश्च सनभोवनपर्ब्बताः ।
उच्चैः सूर्य्योदयास्तौ च हेमन्ते शोभनाः स्मृताः ॥ ९३ ॥
हिमपातानिलोत्पातविरूपाद्भुतदर्शनम् ।
कृष्णाञ्जननिभाकाशं तारोल्कापातपिञ्जरम् ॥ ९४ ॥
चित्रगर्भोद्भवाः स्त्रीषु गोऽजाश्वमृगपक्षिषु ।
पत्राङ्कुरलतानाञ्च विकाराः शिशरे शुभाः ॥ ९५ ॥
ऋतुस्वभावजा ह्येते दृष्टाः स्वत्ता शुभप्रदाः ।
ऋतोरन्यत्र चोत्पाता दृष्टास्ते भृशदारुणाः ॥ ९६ ॥
उन्मत्तानाञ्च या गाथाः शिशूनां भाषितञ्च यत् ।
स्त्रियो यच्च प्रभाषन्ते तस्य नास्ति व्यतिक्रमः ॥ ९७ ॥
पूर्ब्बं चरति देवेषु पश्चात् गच्छति मानुषान् ।
नचोदिता वाग्वदति सत्या ह्येषा सरस्वती ॥ ९८ ॥
उत्पातान् गणितविवर्जितोऽपि बुद्ध्वा
विख्यातो भवति नरेन्द्रवल्लभश्च ।
एतत्तन्मुनिवचनं रहस्यमुक्तं
यज्ज्ञात्वा भवति नरस्त्रिकालदर्शी” ॥ ९९ ॥
उत्पतनं । उल्लम्फः । यथा, रामायणे ५ । ६८ । २३ ।
“एकोत्पातेन ते लङ्कामेष्यन्ति हरिपुङ्गवाः” ।
उन्नतिः । वृद्धिः । यथा, हितोपदेशे ।
“करनिहितकन्दुकसमाः पातोत्पाता मनुष्याणां” ।
उत्पत्तिः । यथा, महाभारते, वनपर्ब्बणि ।
“बुद्धिरात्मानुगातीव उत्पातेन विधीयते ।
तदाश्रिता हि सा ज्ञेया बुद्धिस्तस्यैषिणी भवेत्” ॥)

उत्पादकः, पुं, (उत् + पद + णिच् + ण्वुल् ।) पशु-

विशेषः । तत्पर्य्यायः । शरभः २ कुञ्जरारातिः ३
अष्टपादः ४ । इति हेमचन्द्रः ॥

उत्पादकः, त्रि, (उत्पादयतीति । उत् + पद् + णिच्

+ ण्वुल् ।) उत्पादयिता । जनकः । यथा मनुः ।
“उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता” ।
२ । १४६ ॥

उत्पादनं, क्ली, (उत् + पद् + णिच् + ल्युट् ।) जननम् ।

उत्पन्नकरणम् । इति व्याकरणम् ॥ (यथामनुः । ९ । २७ ।)
“उत्पादनमपत्यस्य जातस्य परिपालनम्” ।

उत्पादशयनः, पुं स्त्री, (उत्पाद ऊर्द्धपादः सन् शेते

यः सः । उत्पाद + शी + ल्यु ।) टिट्टिभपक्षी । इति
हेमचन्द्रः ॥

उत्पादिका, स्त्री, (उत् + पद् + णिच् + ण्वुल् +

टाप् ।) देहिकानामकीटः । इति त्रिकाण्डशेषः ॥
हिलमोचिका इति शब्दचन्द्रिका ॥ पूतिका ।
इति भरतो द्विरूपकोपश्च ॥

उत्पाली, स्त्री, (उत् + पल् + घञ् + ङीष् ।) आ-

रोग्यम् । इति शब्दचन्द्रिका ॥

उत्पिञ्जलः, त्रि, (उदतिशयः पिञ्जलो व्यग्रः ।) भृश-

माकुलः । अतिशयव्याकुलः । तत्पर्य्यायः । समु-
त्पिञ्जः २ पिञ्जलः ३ । इति हेमचन्द्रः ॥
पृष्ठ १/२२८

उत्प्रेक्षा, स्त्री, (उत्पेक्षते इति उत् + प्र + ईक्ष +

अ + टाप् ।) अनवधानम् । इति मेदिनी ॥ काव्या-
लङ्कारविशेषः । तस्य लक्षणम् ।
“सम्भावनमथोत्प्रेक्षा प्रकृतस्य समेन यत्” ।
“अस्यार्थः । प्रकृतस्य उपमेयस्य समेन उपमानेन
यत् सम्भावनं मिथ्यात्वेन वर्णनम्” । इति काव्य-
प्रकाशः ॥ (अस्या भेदा बहवः । यदुक्तं साहित्य-
दर्पणे, दशमपरिच्छेदे । ५६ -- ६२ ॥
“भवेत् सम्भावनोत्प्रेक्षा प्रकृतस्य परात्मना ।
वाच्या प्रतीयमाना सा प्रथमं द्विविधा मता ॥
वाच्येवादिप्रयोगे स्यादप्रयोगे परा पुनः ।
जातिर्गुणः क्रिया द्रव्यं यदुत्प्रेक्ष्यं द्वयोरपि ॥
तदष्टधापि प्रत्येकं भावाभावाभिमानतः ।
गुणक्रियास्वरूपत्वात् निमित्तस्य पुनश्च ताः ॥
द्वात्रिंशद्विधतां यान्ति तत्र वाच्याभिदाः पुनः ।
विना द्रव्यं त्रिधा सर्व्वाः स्वरूपफलहेतुगाः ॥
उक्त्यनुक्त्योर्निमित्तस्य द्बिधा तत्र स्वरूपगाः ।
प्रतीयमानामेदाश्च प्रत्येकं फलहेतुगाः ॥
उक्त्यनुक्तोः प्रस्तुतस्य प्रत्येकं ता अपि द्विधा ।
अलङ्कारान्तरोत्था सा वैचित्रमधिकं वहेत् ॥
मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादयः” ॥
विस्तृतिस्तु अलङ्कारशब्दे द्रष्टव्या ॥)

उतप्लवनं, क्ली, (उत् + प्लु + ल्युट् ।) उल्लम्फनम् ।

लाफान इति भाषा ॥ (यथा, मनुः । ५ । ११५ ॥
“द्रव्याणां चैव सर्व्वेषां शुद्धिरुत्प्लवनं स्मृतम्” ॥)

उत्प्लवा, स्त्री, (उत् + प्लु + अच् + टाप् ।) नौका ।

इति शब्दरत्नावली ॥

उत्फालः, पुं, (उत् + फल् + घञ् ।) लम्फः ॥

(“तत्क्षणं स कृतोत्फालः शक्तिदेवोऽथ साध्वसात्” ।
इति कथासरित्सागरे । १६ तरङ्गे ॥)

उत्फुल्लः, त्रि, (उत्फलतीति । उत् + फल् + क्त ।

आदितश्चेतीडभावः उत्फुल्लसंफुल्लयोरुपसंख्यान-
मिति निष्ठातस्य लः ।) प्रफुल्लः । विकसितः ।
इत्यमरः ॥ (यथा, किराते ।
(“उत्फुल्लकमलपरागजन्या-
दुद्धूतः सरसिजसम्भवः परागः” ।
स्पीतः । वर्द्धितः । (यथा, विष्णुपुराणे । १ । ९ । १३ ॥
“हर्षोत्फुल्लकपोलेन न चापि शिरसा धृता” ।
आनन्दादिना विस्फारितः । यथा, रामायणे ॥
“अवस्थितैः समीपस्थैस्त्रासादुत्फुल्ललोचनैः” ।)
स्त्रीणां करणम् । उत्तानम् । इति मेदिनी ॥

उत्मः, पुं, (उनत्ति जलेन । उन्द + उन्दिगुधिकुषिभ्य-

श्चेति सः । किदित्यनुवृत्तेर्न लोपः ।) प्रस्रवणम् ।
इत्यमरः ॥ उनै इति भाषा । यत्र स्थाने स्रुत्वा
जलं गलति तत्र । इति भरतः ॥ स्वाम्यादयस्तु
अविच्छेदेन स्रवज्जलं यत्र स्थाने पतति निपत्य च
बहुलीभवति तत्रेत्याहुः ॥ तथा साञ्जोऽप्याह ।
“गिरेरुपरि निर्झरादिप्रभवजलसङ्घातः” ।
“अजस्रं मन्दवेगेन स्रवज्जले । इति कोक्कटः” ॥

उत्मङ्गः, पुं, (उतम्वजते मिलति यत्र । उत् + सञ्ज

+ घञ् ।) क्रोडम् । इति जटाधरः ॥
(“उत्मङ्गवा मलिनवसने सौम्य निक्षिप्य वीणाम्” ॥
इति मेघदूते ८६ । तथा, विष्णुपुराणम् । १ । ११ । ५ ॥
“प्रणयेनागतं पुत्त्रम् उत्सङ्गारोहणोत्सुकम्” ॥
पर्ब्बतादीनां शिखरदेशः । सानुः ॥ यथा, रघुः ।
“शिलाविभङ्गैर्मृगराजशाव-
स्तुङ्गं नगोत्सङ्गमिवारुरोह” ॥ ६ । ३ ॥
सौधादीनामुपरिभागः । छाद् इति भाषा ॥
“सौधोत्सङ्गप्रणयविमुखो मास्म भूरुज्जयिन्याः” ।
इति मेघदूते । २९ । अभ्यन्तरभागः ।
“वनेचराणां वनितासखानां
दरीगृहोत्सङ्गनिषक्तभासः” ।
इति कुमारे । १ । १० । ऊर्द्ध्वतलः । वहिर्भागः ।
“दृषदो वासितोत्सङ्गा निषण्णमृगनाभिभिः” ।
इति रघुवंशे । ४ । ७४ । सङ्गमः ॥ आलिङ्गनम् ।
विवाहः ॥ व्रणाधोभागः । शोष इति भाषा ॥
यथा सुश्रुते । सूत्रस्थाने ।
“अभ्यन्तरमुत्सङ्गं कृत्वा भूयोऽपि विकरोति” ।
गर्भः । यथा, महाभारते परीक्षिज्जन्मनि । १४ ।
६८ । १८ । १९ ॥
“आसीन्मम मतिः कृष्ण ! पूर्णोत्सङ्गा जनार्द्दन” ! ॥)

उत्सर्गः पुं, (उत् + सृज् + घञ् ।) त्यागः । दानम् ।

वर्ज्जनम् । (यथा, कुमारे । ७ । ३५ ॥
“श्रीलक्षणोत्सर्गविनोतवेशाः” ।
“तयोत्सर्गद्रुततरगतिस्तत्परं वर्त्म तीर्णः” ।
इति मेघदूते । २० ॥ यथा, मनुः । ११ । १९३ ।
“तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च” ।)
सामान्यविधिः ॥ इति हेमचन्द्रः ॥ (यथा, कुमारे ।
२ । २७ ।
“अपवादैरिवोत्सर्गाः कृतव्यावृत्तयः परैः” ।)
साग्निकर्त्तव्यक्रियाविशेषः । इति तिथ्यादितत्त्वम् ।
अथ वैधोत्सर्गविधिः । स्नानसन्ध्याचमनानि कृत्वा
नारायणनवग्रहगुरून् संपूज्य देयद्रव्यं वामहस्तेन
धृत्वा दक्षिणहस्थेन त्रिरभ्यर्च्च्य तद्द्रव्याधि-
पतिदेवतां सम्प्रदानञ्च अर्च्चयित्वा संकल्प्य कुश-
तिलजलत्यागपूर्ब्बकदानम् । इति स्मृतिः ॥
(अपानवायोर्व्यापारः । मलमूत्रादिवर्ज्जनम् ॥
उत्सज्यते विण्मूत्रमनेनेति व्युत्पत्त्या पाय्विन्द्रियम् ।
यथा, -- यथा, मनुः । १२ । १२१ ।
“मनसीन्द्रं दिशः श्रोत्रे क्लान्ते विष्णं बले हरम् ।
वाच्यग्निं मित्रमुत्सर्गे प्रजने च प्रजापतिम्” ॥)

उत्सर्जनं, क्ली, (उत् + सृज् + ल्युट् ।) उत्सर्गः ।

तत्पर्य्यायः । त्यागः १ विहापितं ३ दानं ४ विस-
र्ज्जनं ५ विश्राणनं ६ वितरणं ७ स्पर्शनं ८ प्रति-
पादनं ९ प्रादेशनं १० निर्व्वपणं ११ अपवर्जनं १२
अंहतिः १३ । इत्यमरः ॥ (साग्निककर्त्तव्यक्रिया-
विशेषः । (यथा, मनुः । ४ । ९६ ।
“पुष्य तु छन्दसां कुर्य्यात् वहिरुत्सर्ज्जनं द्विजः ।
माघशुक्लस्य वा प्राप्ते पूर्ब्बाह्णे प्रथमेऽहनि” ॥)

उत्सर्पिणी, स्त्री, (उत् + सृप् + णिनि + ङीष् । उत्-

सर्पतीति वाक्ये वाच्यलिङ्ग एव ।) जिनानां
कालविशेषः । यथा, -- हेमचन्द्रः ॥
“कालो द्बिविधोऽवसर्पिण्युत्सर्पिणीषु भेदतः ।
सागरकोटिकोटीनां विंशत्या स समाप्यते ॥
अवसर्पिण्यां षड्वा उत्सर्पिण्यां तएव विपरीताः ।
एवं द्वादशभिररैर्विवर्त्तते कालचक्रमिदम्” ॥
(उद्गमनशीला । यथा, शाकुन्तले ६ अङ्के ।
“उत्सर्पिणी खलु महतां प्रार्थना” । इति ॥)

उत्सर्य्या, स्त्री, (उत् + सृ + ण्यत् ।) प्रजनकालप्राप्ता

गौः । इति जटाधरः ॥ पाल लओनेर उपयुक्त
गाइ इति भाषा ।

उत्सवः, पुं, (उत् + सू + अच् ।) नियताह्लादजनक-

व्यापारः । तत्पर्य्यायः । क्षणः २ उद्धवः ३ उद्धर्षः
४ महः ५ । इत्यमरः ॥ (यथा मनुः । ३ । ५९ ।
“तस्मादेताः सदा पूज्या भूषणाच्छादनाशनैः ।
भूतिकामैर्नरैर्नित्यं सत्कारेषूत्सवेषु च” ॥)
उत्सेकः । इच्छाप्रसवः । कोपः । इति मेदिनी ॥
(उन्नतिः । अभ्युदयः ।
“उत्सवे व्यसने चैव दुर्भिक्षे राष्ट्रविप्लवे” ॥
इति हितोपदेशेः । १ । १६४ ॥)

उत्सादनं, क्ली, (उत् + सद् + णिच् + ल्युट् ।) समु-

ल्लेखः । उद्वाहनम् । उद्वर्त्तनम् । इति मेदिनी ॥
(“उत्सादनञ्च गात्रानां स्नापनोच्छिष्टभोजने” ।
इति मनुः । २ । २०९ ॥ विनाशः । उन्मूलनम् ॥
“पूर्ब्बं क्षत्रबधं कृत्वा गतमन्युर्गतज्वरः ।
क्षत्रस्योत्सादनं भूयो न खल्वस्य चिकीर्षितम्” ॥
इति रामायणम् । १ । ७४ । २१ ॥ औषधलेपना-
दिना व्रणस्य संशोधनम् । तथा, -- सुश्रुते ।
“अपामार्गोऽश्वगन्धा च तालपत्री सुवर्च्चला ।
उत्सादने प्रशस्यन्ते काकोल्यादिश्च यो गणः” ॥
“उत्सादनात् भवेत् स्त्रीणां विशेषात्कान्तिमद्वपुः ।
प्रहर्षसौभाग्यमृजालाघवादिगुणान्वितम्” ॥
इति चिकित्सितस्थाने २४ अध्याये सुश्रुतेनोक्तम् ॥)

उत्सादितं, त्रि, (उत् + सद् + णिच् + क्ता ।) कृतोत्-

सादनम् । उद्वर्त्तितम् । निर्म्मलीकृतशरीरम् ॥
(यथा, महाभारते ७ । ८० । १० । प्रतिज्ञापर्ब्बणि ।
“उत्सादितः कषायेण बलवद्भिः सुशिक्षितैः ।
आप्लुतः साधिवासेन जलेन सुसुगन्धिना” ॥)

उत्सारकः, पुं, (उत्सार्य्यन्ते प्रभुद्वारतोऽनेन इति ।

उत् + सृ + णिच् + वुण् ।) द्वारपालः । इति
हेमचन्द्रः ॥ उत्ससारणकर्त्ता ॥

उत्सारणं, क्ली, (उत् + सृ + णिच् + ल्युट् ।) दूरी-

करणम् । चालनम् । स्थानान्तरप्रापणम् ॥

उत्साहः, पुं, (उत् + सह् + घञ् ।) उद्यमः । तत्-

पर्य्यायः । अध्यवसायः २ । इत्यमरः ॥ सूत्रम् ।
इति मेदिनी ॥ कल्याणम् । भावविशेषः । इति
शब्दरत्नावली ॥ (यथा, साहित्यदर्पणे ३ य परिच्छेदे !
“रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्सा विस्मयश्चेत्थमष्टौ प्रोक्ताः शमोऽपि च” ।)
ध्रुवकविशेषः । तल्लक्षणं यथा, --
“उत्साहः स्यात् रसे हास्ये ताले केन्दुकसंज्ञके ।
वशवृद्धिकरः पादैस्त्रयोदशमिताक्षरः” ॥
इति सङ्गीतदामोदरः ॥

उत्साहवर्द्धनं, क्ली, (उत्साहं वर्द्धयति यत् । उत्साह

+ वृध + ल्युट् ।) उद्यमवृद्धिः । वीररसः । इत्य-
मरः ॥
पृष्ठ १/२२९

उत्सिक्तः, त्रि, (उत् + सिच् + क्त ।) उद्धतः । इति

त्रिकाण्डशेषः ॥ गर्व्वितः । वर्द्धितः । उद्रिक्तः ।
इति श्रीभागवतम् ॥ (यथा, मनुः ८ । ७१ ।
“बालवृद्धातुराणाञ्च साक्ष्येषु वदतां मृषा ।
जानीयादस्थिरां वाचमुत्सिक्तमनसां तथा” ।
“वीर्य्योत्सिक्तौ हि तौ पापौ कालपाशवशङ्गतौ” ।
इति रामायणे १ म काण्डे ॥)

उत्सिच्यमानः, त्रि, (उत् + सिच् + शानच् ।) उद्रिच्य-

मानः । वृद्धिमान् । इति श्रीभागवतम् ॥

उत्सुकः, त्रि, (उत् उद्योगं सुवति सौति सुनोति वा ।

सु प्रसवैश्वर्य्ययोः । विचिसंज्ञापूर्ब्बकत्वात् गुणा-
भावः । क्विपि आगमशास्त्रस्यानित्यत्वात्तुगभावो
वा । ततः संज्ञायां कन् ॥ यद्वा उत् सुवति ।
षू प्रेरणे । मितद्र्वादित्वात् डुः । सत्स्विति क्विप्
वा । कनिकेण इति ह्रस्वः ॥ उत् + सु + क्विप् +
कन् ।) वाञ्छितकर्म्मोद्यतः । तत्पर्य्यायः । इष्टा-
र्थोद्युक्तः २ । इत्यमरः ॥ उत्कण्ठितः । इति
हेमचन्द्रः ॥ (यथा, रामायणे आदिकाण्डे ।
(“प्रेषयिष्यति राजा तु कुशलार्थं तवानघे ।
ब्राह्मणान् नित्यशः पुत्त्रि मोत्सुका भूः कदाचन” ॥
“वत्सोत्सुकापि स्तिमिता सपर्य्याम्” ।
इति रघुवंशे २ । २२ ॥)

उत्सूरः, पुं, (सूरं सूर्य्यमतिक्रान्तः ।) दिनावसानम् ।

इति हेमचन्द्रः ॥

उत्सृष्टः, त्रि, (उत् + सृज् + क्त ।) कृतोत्सर्गः । तत्-

पर्य्यायः । त्यक्तः २ हीनः ३ विधुतः ४ समुज्-
झितः ५ घूतः ६ । इत्यमरः ॥ (यथा, याज्ञवल्क्यः ।
“महोक्षोत्सृष्टपशवः सूतिकागन्तुकादयः” ॥)

उत्सेचनं, क्ली, (उत् + सिच् + ल्युट् ।) ऊर्द्ध्वसेकः ।

उथ्लन उपचन इत्यादि भाषा ॥

उत्सेधः, पुं, (उत् + सिध् + घञ् ।) पर्ब्बतवृक्षादीनां

दैर्ध्यम् ।
(“कूर्म्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः” ॥
इति महाभारते गजकूर्म्मयुद्धे । २९ । ३१ ।)
उच्छ्रयः । (यथा, कुमारे ५ । ८
“पयोधरोत्सेधविशीर्णसंहति” ॥
उपरिभागः । यथा, कुमारे ५ । २४
“पयोधरोत्सेधनिपातचूर्णिताः” ।)
शरीरम् । इत्यमरः ॥ संहननम् । इति हेमचन्द्रः ॥
(“सोत्सेधमुष्मार्थशिरातनुत्वम्” ।
इति भावप्रकाशे शोथाधिकारे ॥
“उत्सेधं संहतं शोफं तमाहुर्निचयादतः” ।
इति निदानस्थाने त्रयोदशाध्याये वाभटेनोक्तम् ॥)

उद् व्य, (उ + क्विप् + तुक् । पृषोदरादित्वात् साधः ।)

विंशत्युपसर्गान्तर्गत उपसर्गविशेषः । अस्यार्थः ।
ऊर्द्ध्वम् । उत्कर्षः । प्राकट्यम् । नैकट्यम् । इति
दुर्गादासः ॥ प्रकाशः । विभागः । प्राबल्यम् ।
अस्वास्थ्यम् । शक्तिः । प्राधान्यम् । बन्धनम् ।
भावः । मोक्षः । लाभः । ऊर्द्ध्वकर्म्म । इति
मेदिनी ॥

उदं, क्ली, (उद् + अच् ।) जलम् । इति शब्दरत्नावली ।

(“जगत्त्रयान्तोदधिसंप्लवोदे
नारायणस्योदरनाभिनालात्” ।
इति श्रीभागवते । तथा च गीतायाम् । २ । ४६ ।
“यावानर्थ उदपाने सर्व्वतः संप्लुतोदके” ॥)

उदक्, [च्] व्य, (उद् + अञ्च + अस्तातिः ।) उत्तर-

दिग्देशकालाः । इति मेदिनी ॥

उदकं, क्ली, (उनत्तीति । उन्दी क्लेदने + क्वन् । उद-

कमिति २ । ३९ । उणादिसूत्रेण साधु ।) जलम् ।
इत्यमरः ॥
(“अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठति” ।
इति माघः २ । ३४ ॥ तथा श्रीभगवद्गीता । २ । ४६ ॥
“यावानर्थ उदपाने सर्व्वतः संप्लुतोदके” ।
“उदकस्योदः एकहलादौ । पाणिनिः । ६ । ३ । ५९ ।
इति विकल्पः । उदकुम्भः । उदककुम्भः । यथा,
भट्टिः । २ । २० । “तपःकृशाः शान्त्युदकुम्भ-
हस्ताः” ॥ उदशब्दोऽप्युदकपर्य्याय इति भाष्य-
टीका । उदकस्योदः संज्ञायामिति रक्षितः ।
यथा, कुमारे ५ । २६ । “सहस्यरात्रीरुदवास-
तत्परा” ॥ इति उज्ज्वलदत्तः ।
वारिशब्देऽस्य विवरणं बोद्धव्यम् ॥)

उदकपरीक्षा, स्त्री, (उदकस्य उदकेन वा परीक्षा ।)

दिव्यविशेषः । यथा । अथोदकपरीक्षा ।
पितामहः ।
“तोयस्याथ प्रवक्ष्यामि विधिं धर्म्म्यं सनातनम् ।
मण्डलं पुष्पधूपाभ्यां कारयेत् सुविचक्षणः ॥
शरान् संपूजयेद्भक्त्या वैणवञ्च धनुस्तथा” ।
तत्र प्रथमतो वरुणं पूजयेत् । यथा नारदः ।
“गन्धमाल्यैः सुरभिभिर्मधुक्षीरघृतादिभिः ।
वरुणाय प्रकुर्व्वीत पूजामादौ समाहितः” ॥
ततो धर्म्मावाहनादिसकलदेवतापूजाहोमसम-
न्त्रकप्रतिज्ञापत्रशिरोनिवेशान्तं कर्म्म कुर्य्यात् ।
कात्यायनः ।
“शरांस्त्वनायसाग्रांस्तु प्रकुर्व्वीत विशुद्धये ।
वेणुकाष्ठमयांश्चैव क्षेप्ता च सुदृढं क्षिपेत्” ॥
पितामहः ।
“क्षेप्ता च क्षत्रियः कार्य्यस्तद्वृत्तिर्ब्राह्मणोऽथवा ॥
अक्रूरहृदयः शान्तः सोपवासस्तथा शुचिः ॥
इषून्न प्रक्षिपेद्धीमान् मारुते वाति वा भृशम् ।
विषमे भूप्रदेशे च वृक्षस्थाणुसमाकुले” ॥ * ॥
नारदः ।
“क्रूरं धनुः सप्तशतं मध्यमं षट्शतं मतम् ।
मन्दं पञ्चशतं प्रोक्तमेष ज्ञेयो धनुर्विधिः” ॥
अङ्गुलीनां सप्ताधिकं शतं यस्य धनुषः परिमाणं
तत् सप्तशतम् । एवं षट्शतादिकम् ॥ * ॥
पितामहः ।
“मध्यमेन तु चापेन प्रक्षिपेत्तु शरत्रयम् ।
हस्तानान्तु शते सार्द्धे लक्ष्यं कृत्वा विचक्षणः ॥
तेषाञ्च प्रेषितानान्तु शराणां शास्त्रदर्शनात् ।
मध्यमस्तु शरो ग्राह्यः पुरुषेण बलीयसा ॥
शराणां पतनं ग्राह्यं सर्पणं परिवर्जयेत् ।
सर्पन् सर्पन् शरो याति दूराद्दूरतरं यतः” ॥
पतनं ग्राह्यमिति शरपतनस्थानपर्य्यन्तं गच्छेदि-
त्यर्थः । तेन प्रसरणपक्षेऽपि पतनस्थानकशर-
ग्रहणं ततश्च प्रथमतः पुरुषान्तरेण तत्स्थाने शरः
आनेतव्यः ॥ * ॥ नारदः ।
“नदीषु नातिवेगासु तडागेषु सरःसु च ।
ह्रदेषु स्थिरतोयेषु कुर्य्यात् पुंसां निमज्जनम्” ॥
नातिवेगासु स्थितिविरोधिवेगशून्यासु ॥ * ॥
विष्णुः । पङ्कशैवालदुष्टग्राहमत्स्यजलौकादिवर्ज्जिते
तस्य नाभिमात्रजले मग्नस्यारागद्वेषिणः पुरुष-
स्यान्यस्योरू गृहीत्वा अभिमन्त्रिताम्भः प्रविशेत् ।
तत्समकालञ्च नातिक्रूरमृदुना धनुषा पुरुषो-
ऽपरः शरमोक्षं कुर्य्यादिति तस्य शाध्यस्येत्यर्थः ।
अन्यथा तस्येति व्यथ स्यात् ॥ * ॥
अन्यपुरुषस्य स्तम्भधारणमाह स्मृतिः ।
“उदके प्राङ्मुखस्तिष्ठेद्धर्म्मस्थूणां प्रगृह्य च” ॥ * ॥
प्राड्विवाककर्तृकजलाभिमन्त्रणमाह पितामहः ।
तोय त्वं प्राणिनां प्राणः मृष्टेराद्यन्तु निर्म्मितम् ।
शुद्धेश्च कारणं प्रोक्तं द्रव्याणां देहिनां तथा ॥
अतस्त्वं दर्शयात्मानं शुभाशुभपरीक्षणे” ॥ * ॥
शोध्यकर्त्तृकाभिमन्त्रणमाह याज्ञवल्क्यः ।
“सत्येन माभिरक्षस्व वरुणेत्यभिशाप्य कम् ।
नाभिमात्रोदस्थस्य गृहीत्वोरू जलं विशेत्” ॥
मा मां । अभिशाप्य शपथं कारयित्वा । कं
जलम् । विशेत् निमज्जेत् ॥ * ॥ तोरणञ्च निम-
ज्जनसमीपे समे स्थाने शोध्यकर्णप्रमाणोच्छ्रितं
कार्य्यम् । यथा नारदः ।
“गत्वा तु तज्जलस्थानं तटे तोरणमुच्छ्रितम् ।
कुर्व्वीत कर्णमात्रन्तु भूमिभागे समे शुचौ” ॥ * ॥
शरमोक्षे विशेषमाहतुर्नारदवृहस्पती ।
“शरप्रक्षेपणस्थानाद्युवा जवसमन्वितः ।
गच्छेत् परमया शक्त्या यत्रासौ मध्यमः शरः ॥
मध्यमं शरमादाय पुरुषोऽन्यस्तथाविधः ।
प्रत्यागच्छेत्तु वेगेन यतः स पुरुषो गतः ॥
आगतस्तु शरग्राही न पश्यति यदा जले ।
अन्तर्ज्जलगतं सम्यक् तदा शुद्धिं विनिर्द्दिशेत् ॥
अन्यथा न विशुद्धः स्यादेकाङ्गस्यापि दर्शनात् ।
स्थानाद्वान्यत्र गमनाद्यस्मिन् पूर्ब्बं निवेशयेत्” ॥ * ॥
जविनौ विशेषयति नारदः ।
“पञ्चाशतो धावकानां यौ स्यातामधिकौ जवे ।
तौ च तत्र नियोक्तव्यौ शरानयनकर्म्मणि” ॥
एकाङ्गस्य दर्शनादिति कर्णाद्यभिप्रायेण ।
“शिरोमात्रन्तु दृश्येत न कर्णौ नापि नासिके ।
अप्सु प्रवेशने यस्य शुद्धं तमपि निर्द्धिशेत्” ॥
इति विशेषाभिधानात् । कात्यायनः ।
“निमज्योत्प्लवते यस्तु दृष्टश्चेत् प्राणिना नरः ।
पुनस्तत्र निमज्जेत दंशचिह्नविभावितः” ॥
जलान्तर्गतमत्स्यजलौकादिना दष्टः समुत्प्लवते यदि
तदा दष्टे दृष्टे पुनर्निमज्जनीय इत्यर्थः ॥ * ॥
पितामहः ।
“गन्तुश्चापि च कर्त्तुश्च समं गमनमभज्जनम् ।
गच्छेत् तोरणमूलात्तु शरस्थान जवी नरः ॥
तस्मिन् गते द्वितीयोऽपि वेगादादाय शायकम् ।
गच्छेत्तोरणमूलन्तु यतः स पुरुषो गतः ॥
आगतस्तु शरग्राही न पश्यति यदा जले ।
पृष्ठ १/२३०
:अन्तर्ज्जलगतं सम्यक् ततः शुद्धिं विनिर्द्दिशेत्” ॥
अत्र मज्जनसमकालगमनाभिधानात् शरमोक्ष-
समकालं गमनं शूलपाण्युक्तमयुक्तम् । मज्जनसम-
कालक्षिप्तं मध्यमं शरमादायेत्यपरमुक्तमपि प्रमा-
णशून्यम् । ततश्च त्रिषु शरेषु मुक्तेषु एको वेग-
वान् मध्यमशरपतनस्थानं गत्वा तमादाय तत्रैव
तिष्ठति । अन्यस्तु पुरुषो वेगवान् शरमोक्षस्थाने
तोरणमूले तिष्ठति एवं स्थितयोस्तृतीयायां कर-
तालिकायां प्राड्विवाकदत्तायां शोध्यो निम-
ज्जति तत्समकालमेव तोरणमूलस्थितोऽपि द्रुत-
तरं मध्यमशरपतनस्थानं गच्छति शरग्राही च
तस्मिन् प्राप्ते द्रुततरं तोरणमूलं प्राप्यान्तर्ज्जल-
गतं यदि न पश्यति तदा शुद्धो भवतीति वर्त्तु-
लार्थः ॥ * ॥ * ॥ तत्र प्रयोगः । उक्तलक्षणजला-
शयनिकटे तथा तोरणं विधाय उक्तदेशे लक्ष्यं
कृत्वा तोरणसमीपे सशरं धनुः संपूज्य जला-
शये वरुणमावाह्य पूजयित्वा तत्तीरे धम्मादींश्च
देवान् हवनान्तमिष्ट्वा दक्षिणां कृत्वा शोध्यस्य
शिरसि प्रतिज्ञापत्रं बद्धा प्राड्विवाको जलमभि-
मन्त्रयेत् । वक्ष्यमाणमन्त्रेण ।
ॐ “तोय त्वं प्राणिनांप्राणः सृष्टेराद्यन्तु निर्म्मितम् ।
शुद्धेश्च कारणं प्रोक्तं द्रव्याणां देहिनां तथा ॥
अतस्त्वं दर्शयात्मानं शुभाशुभपरीक्षणे” । इति ॥
शोध्यस्तु ॐ “सत्येन माभिरक्षस्व वरुण” इत्यनेन
जलमभिमन्त्र्य गृहीतस्थूणस्य शोध्यनाभिमात्रोद-
कावस्थितस्य बलीयसः प्राङ्मुखस्य पुरुषस्य समीपं
जलमध्ये गच्छेत् । ततः शरेषु त्रिषु मुक्तेषु मध्यम-
शरपातस्थाने मध्यमशरं गृहीत्वा जविन्येकस्मिन्
पुरुषे स्थिते अन्यस्मिंश्च तोरणमूलस्थिते प्राड्विवा-
केन तालत्रये दत्तेशोध्यो गृहीतस्थूणप्राङ्मुखपुरु-
षस्योरू गृहीत्वा निमज्जति तत्समकालमेव तो-
रणमूलस्थोऽपि मध्यमशरस्थानं द्रुतं गच्छति ।
ततः शरग्राही च तस्मिन् प्राप्ते द्रुतं तोरणमूलं
प्राप्य जलान्तःस्थं यदि न पश्यति तदा शुद्धः ।
कर्णाद्यङ्गं विना शिरोमात्रदर्शनेऽपि शुद्धः ।
मज्जनस्थानादन्यत्रगमनेऽप्यशुद्धः । ततो दक्षिणा-
दिकं दद्यात्” । इति दिव्यतत्त्वम् ॥

उदकीर्णः, पुं, (उदेन जलेन कीर्णः व्याप्तः ।) महा-

करञ्जः । इति राजनिर्घण्टः ॥

उदकीर्य्यः, पुं, (उदेन कीर्य्यः ।) करञ्जविशेषः ।

इति रत्नमाला ॥ डालकरम्चा डहरकरञ्ज
इत्यादि भाषा । (अस्योक्तः पर्य्यायो भावप्रकाशे ।
“उदकीर्य्यस्तृतीयोऽन्यः षड्ग्रन्था हरिवारुणी ।
मर्कटी वायसी चापि करञ्जी करभञ्जिका” ॥
गुणा अस्य करञ्जीशब्दे ज्ञातव्याः ॥)

उदक्या, स्त्री, (उदकं जलं शुद्धिस्नानार्थमर्हतीति ।

उदक + संज्ञायामिति यत् ।) रजस्वला । ऋतु-
मती । इत्यमरः ॥ (यथा, मनुः । ४ । ५७ ।
“नोदक्ययाभिभाषेत यज्ञं गच्छेन्नचावृतः” ॥)

उदगद्रिः, पुं, (उदगुत्तरे योऽद्रिः ।) हिमालयपर्ब्बतः ।

इति हेमचन्द्रः ॥

उदगयनं, क्ली, (उदक् उत्तरस्यामयनं गमनम् ।)

उत्तरायणम् । इति स्मृतिः ॥ (यथा, मनुः । १ । ६७ ।
“दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः ।
अहस्तत्रोदगयनं रात्रिः स्याद् दक्षिणायनम्” ॥
“तदादित्यस्योदगयनमादानञ्च त्रीनृतून् शिशि-
रादीन् ग्रीष्मान्तान् व्यवस्येत्” ॥ इति सूत्रस्थाने
षष्ठेऽध्याये चरकेणोक्तम् । विस्तरश्चास्योत्त-
रायणशब्दे ज्ञेयः ॥)

उदग्भूमः, पुं, (उदगुत्तरदिग्वत् प्रशस्ता भूमिर्यत्र ।

समासे + अच् ।) सद्भूमिः । उत्कृष्टस्थानम् । इति
जटाधरः ॥

उदग्रं, त्रि, (उद्गतमग्रं यस्य ।) उच्छ्रितम् । उच्चम् ।

इत्यमरः ॥ (विशालम् । महत् । दीर्घम् । भीमम् ।
“नयन् मधुलिहः श्वैत्यमुदग्रदशनांशुभिः” ॥
इति माघः । २ । २१ । तथा, रघुः । २ । ५३ ।
“क्षतात्किल त्रायत इत्युदग्रः क्षत्त्रस्य शब्दो भुव-
नेषु रूढः” । “अवन्तिनाथोऽयमुदग्रबाहुः” ॥ इति
च रघुः । ६ । ३२ ॥)

उदग्रदन्, [त्] पुं, (उदग्रौ दन्तौ यस्य । अग्रान्तशुद्ध-

शुभ्रवृषवराहेभ्यश्चेति दन्तस्य दतृ ॥) उच्चदन्त-
हस्ती । वृहद्दन्तयुक्ते, त्रि । इति हेमचन्द्रः ॥

उदजः, पुं, (उत् + अज् + समुदोरजःपशुष्विति

अप् । अघञपोरिति पर्य्युदासात् वीभावो न ।)
पशुप्रेरणम् । इत्यमरः ॥

उदञ्चनं, क्ली, (उत् + अञ्च + ल्युट् ।) पिधानपात्रम् ।

इति हेमचन्द्रः ॥ ढाकुनि इति भाषा । (यथा,
शतपथब्राह्मणे । ४ । ३ । ५ । “प्रतिप्रस्थाता
संस्रवावानयत्युन्नेता चमसेन वोदञ्चनेन वा” ।)
ऊर्द्ध्वक्षेपणम् ॥

उदञ्चितं, त्रि, (उत् + अञ्च + क्त ।) ऊर्द्ध्वक्षिप्तम् ।

इति हेमचन्द्रः ॥ (“उदञ्चिताक्षोऽञ्चितदक्षि-
णोरुः” । इति भट्टिः ॥ (पूजितम् ॥)

उदण्डपालः, पुं, (उदण्डस्य उद्भिन्नाण्डस्य पालो गमनं

पलायनं यत्र । मत्स्यसर्पविशेषाणामण्डं उद्भिन्नं
सत्पलायते इति प्रसिद्धिः ।) मत्स्यविशेषः । सर्प-
भेदः । इति मेदिनी ॥

उदधिः, पुं, (उदानि उदकानि वा धीयन्तेऽस्मिन् ।

उद + वा उदक + धा + कि ।) समुद्रः । इत्य-
मरः ॥ (“उदधेरिव निम्नगाशतेष्वभवन्नास्य विमा-
नना क्वचित्” । इति रघुः ८ । ८ ॥ मेघः । घटः ॥)

उदधिक्राः, पुं, (उदधि + क्रम + विट् ।) समुद्रा-

क्रमणकर्त्ता । इति व्याकरणम् ॥

उदधिमलः, पुं, (उदधेः समुद्रस्य मल इव ॥) समुद्र-

फेनः । अस्य गुणाः । शीतलत्वम् । कषायत्वम् ।
अतिवान्तिकारित्वञ्च । इति राजवल्लभः ॥

उदधिमेखला, स्त्री, (उदधिर्मेखलेव यस्याः ॥) पृथिवी ।

इति महाभारतम् ॥ (“चतुरुदधिमालामेख-
लाया भुवो भर्त्ता” । इति कादम्बरीकथामुखे ।)

उदन्तः, पुं, (उद्गतो निर्णीतः अन्तो यस्य ।) वार्त्ता ।

(“कान्तोदन्तः सुहृदुपगतः सङ्गमात्किञ्चिदूनः” ॥
इति मेघदूते” १०१ । तथा, रघुः । १२ । ६६ ।
“श्रुत्वा रामः प्रियोदन्तं मेने तत्सङ्गमोत्सुकः”
साधुः । इति मेदिनी ॥ वृत्तियाजनम् । इति शब्द-
रत्नावली ॥ (पाकवशात् प्राप्तान्ते, त्रि । यथा,
शतपथव्राह्मणे । “शृतमसदिति तदाहुर्यर्ह्युदन्तं
तर्हि जुहुयात् तद्धैनोदन्तं कुर्य्यादुप ह दहेत्
यद्यदन्तं कुर्य्यादप्रजज्ञि वै रेत उपदग्धं तस्मान्नो
दन्तं कुर्य्यात्” ॥)

उदन्तकः, पुं, (उदन्त + स्वार्थे कन् ।) वृत्तान्तः । वार्त्ता ।

इति शब्दरत्नावली ॥

उदन्तिका, स्त्री, (उत् + अन्त + णिच् + ण्वुल् +

टाप् ।) तृप्तिः । इति हारावली ॥

उदन्या, स्त्री, (उदन्यति उदकस्येच्छा वा । सुपः

आत्मनः क्यच् । अशनायोदन्येति ईत्वाभावः क्यचि
उदकस्योदन्मावोऽपिनिपात्यते । अप्रत्ययादित्यः ।)
पिपासा । इत्यमरः ॥ (यथा छान्दोग्योपनिषदि ।
६ । ८ । ५ । “अथ यत्रैतत्पुरुषः पिपासति नाम
तेज एव तत्पीतं नयते तद्यथा गोनायोऽश्वनायः
पुरुषनायः इत्येवं तत्तेज आचष्ट उदन्येति” ॥)

उदन्वान्, [त्] पुं, (उदकानि सन्त्यत्र । उदक +

मतुप् । उदन्वानुदधौ चेत्युदकस्य उदन्भावो
निपातितः मतुपि ।) समुद्रः । इत्यमरः ॥ (यथा
रघुः ४ । ५२ ॥
“असह्यविक्रमः सह्यं दूरान्मुक्तमुदन्वता” ।
ऋषिविशेषः । इति पाणिनिः । ८ । २ । १३ ॥)

उदप आघाते । सौत्रधातुरयम् । इति कविकल्प-

द्रुमः ॥ (परं-सकं-सेट् ।) पञ्चमस्वरादिः । उदञ्चः ।
इति दुर्गादासः ॥ पानुबन्ध उदधातुरयं भ्रम-
वशात् उदपेति लिखितः ॥

उदपानं, क्ली, पुं, (उदकं पीयतेऽस्मिन् । उदक +

पा + अधिकरणे + ल्युट्, उदकस्य उदः ।) कूपः ।
इत्यमरः ॥
(“तडागान्युदपानानि वाप्यः प्रस्रवणानि च” ।
इति मनुः २ । ४८ । तथा, रामायणे २ । ८० । १२ ॥
“निर्जलेषु च देशेषु खनयामासुरुत्तमान् ।
उदपानान् बहुविधान् वेदिकापरिमण्डितान्” ॥
भावे ल्युट् । जलपानम् । यथा गीतायाम् । २ । ४६
“यावानर्थ उदपाने सर्व्वतः सप्लुतोदके” ॥)

उदयः, पुं, (उद्यन्ति ग्रहा यस्मात् । उत् + इ +

अच् ।) पूर्ब्बपर्ब्बतः । उदयाचलः । (भावे + अच् ।)
समुन्नतिः । इति मेदिनी ॥ दीप्तिः । मङ्गलम् ।
इति शब्दरत्नावली ॥ ग्रहाणामुद्गमः । तत्र
सूर्य्यस्योदयविवरणं यथा, विष्णुपुराणे २ अंशे ८
अध्यायः ॥ * ॥
“उदयास्तमने चैव सव्वकालन्तु संमुखे ।
दिशास्वशेषासु तथा मैत्रेय विदिशासु च ॥ १३ ॥
यैर्यत्र दृश्यते भास्वान् स तेषामुदयः स्मृतः ।
तिरोभावञ्च यत्रैति तत्रैवास्तमनं रवेः ॥ १४ ॥
नैवास्तमनमर्कस्य नोदयः सर्व्वदा सतः ।
उदयास्तमनाख्यञ्च दर्शनादर्शनं रवेः ॥ १५ ॥
शक्रादीनां पुरे तिष्ठन् स्पशत्थेष पुरत्रयम् ।
विकर्णौ द्वौ विकर्णस्थस्त्रीन्कोणान् द्वेपुरे तथा ॥ १६ ॥
उदितो वर्द्धमानाभिरामध्याह्नात्तपन् रविः ।
ततः परं ह्रसन्तीभिर्गोभिरस्तं निगच्छति ॥ १७ ॥
उदयास्तमनाभ्याञ्च स्मृते पूर्ब्बापरे दिशौ ।
पृष्ठ १/२३१
:यावत् पुरस्तात्तपति तावत् पृष्ठेऽथ पार्श्वयोः ॥ १८ ॥
ऋतेऽमरगिरेर्मेरोरुपरि ब्रह्मणः सभाम् ।
ये ये मरीचयोऽर्कस्य प्रयान्ति ब्रह्मणः सभाम् ॥ १९ ॥
ते ते निरस्तास्तद्भासा प्रतीपमुपयान्ति वै ।
तस्माद्दिश्युत्तरस्यां वै दिवारात्रिः सदैव हि ।
सर्व्वेषां द्वीपवर्षाणां मेरुरुत्तरतो यतः” ॥ २० ॥
उदयास्तमने च सर्व्वकालं भवतः । ते च परस्परं
संमुखे समानसूत्रस्थे भवतः । तत्र हेतुमाह ।
यर्यत्रेति । रवेरुदयास्तमयौ सर्व्वकालं मध्याह्न एव
सतोऽर्कस्य न स्त एव अतो एवेरुदयास्तमयत्वं
दर्शनादर्शनमात्रमेव ॥ दर्शनादर्शनयोरवधिमाह ।
शक्रादीनामिति । इन्द्राद्यन्यतमस्य पुरे मध्याह्ने
तिष्ठंस्तदेकं पुरं अभितः पुरद्वयं चेत्येवं पुर-
द्वयं तदन्तराजस्थौ द्वौ च विकर्णौ कोणौ उद-
याद्यवस्थाभिः स्तृशति स्वरश्मिभिर्भासयति । तथा
विकर्णस्थः अग्न्याद्यन्यतमकोणे मध्याह्ने स्थितस्तं
कोणं अभितः स्थितं कोणद्वयं चेत्येवं त्रीन् को-
णान् तन्मध्यवर्त्तिद्वे च पुरे तथैवोदयाद्यवस्थाभिः
स्पृशति । भूवलयस्यार्द्धे प्रतपन् दृश्यते ताव-
दहः । अर्द्धे तु न दृश्यते तावद्रात्रिरित्यर्थः ।
तथाहि ऐन्द्रे पुरे मध्याह्ने यदा तिष्ठति तदा
सौम्यपुरस्थानामस्तमयः । ऐशकोणस्थानां तृतीयो
यामः । अग्निकोणस्थानां प्रथमः । याम्ये स्थिता-
नामुदयः । एवं यदा याम्ये मध्याह्ने तिष्ठति तदा
ऐन्द्रे अस्तमयः । अग्निकोणे तृतीयो यामः ।
नैरृतिकोणे प्रथमो यामः । वारुणे उदयः । यदा
च वारुणे मध्याह्नः तदा याम्ये अस्तमयः । नैरृति-
कोणे तृतीयो यामः । वायव्ये प्रथमः । सौम्ये
उदयः । यदा सौम्ये मध्याह्नस्तदा वारुणे अस्त-
मयः । वायव्ये तृतीयो यामः । ऐशकोणे प्रथमः ।
ऐन्द्रे उदयः । एवं अग्निकोणे यदा मध्याह्नस्तदा
ऐशकोणे अस्तमयः । इन्द्रपुरे तृतीयो यामः ।
यमपुरे प्रथमः । नैरृतिकोणे उदयः । इत्यादि
योज्यम् । एवं मेरोः सर्व्वतः परिभ्रमन् सू-
र्य्योऽर्द्धभूवलयं प्रकाशयन् दर्शनादर्शनाद्यपेक्षया
अहोरात्रव्यवस्थाकारणमुक्तं भवति ॥ सन्नि-
धानव्यवधानकृतमेव रश्मीनां वृद्धिह्रासतीव्रत्व-
मन्दत्वादिकमपीत्याह । उदित इति गोभिः र-
श्मिभिः ॥ दिग्विभागोऽप्युदयास्तमयनिमित्तएवे-
त्याह उदयेति । यत्र यस्योदेति सा तस्य पूर्ब्बा
दिक् । यत्रास्तमेति सा अपरा प्रतीची । तथा
श्रुतिः । “तस्मादसावादित्यः सर्व्वाः प्रजाः प्रत्य-
गुदेति । तस्मात् सर्व्वा एवान्यतः प्रत्युदगादिति” ॥
पुरस्तादुद्यन्तं सूर्य्यं पश्यतश्च दक्षिण-वाम-पार्श्व-
भागौ दक्षिणोत्तरे दिशाविति दर्शयन् रश्मि-
विस्तारावधिमाह । यावदिति । चतुर्दिक्षु लोका-
लोकाचलपर्य्यन्तं तपतीत्यर्थः ॥ मेरौ तु विशेष-
माह । ऋते इति । ब्रह्मसभावर्जं मेरोरुपर्य्यपि
सर्व्वतस्तपति न तु ब्रह्मसभां भासयति । तत्र
हेतुमाह । ये ये मरीचय इति ॥ मेरोः सर्व्वतोऽपि
विशेषतान्तरमाह । तस्मादिति । यतो यस्मात्
सर्व्वेषां द्वीपानां वर्षाणाञ्च मेरुरुत्तरत एव स्थितः ।
तस्मान्मेरोरुत्तरस्यां दिशि सदा दिवापि अन्येषां
दिनेऽपि नित्यं रात्रिरेव । अयं भावः । मेरुं प्रद-
क्षिणीकुर्व्वन्तं सूर्य्यं ये यत्र पश्यन्ति सैव तेषां
प्राची । तेषाञ्च वामभाग एव मेरुः । अतः सर्व्वेषां
सर्व्वदा मेरुरुत्तरत एव । दक्षिणभागे च लोका-
लोकाचलः । तस्मादुत्तरस्यां दिशि सदा रात्रिः ।
दक्षिणस्याञ्च दिशि सदा दिनमिति । यद्वा ।
भारतादिवर्षस्थानां सम्मुखे सूर्य्यमुद्यन्तं पश्यता-
मुत्तरस्यां दिशि वामभागे मेरोरेकतः सदा
दिनम् । अन्यतश्च सदा रात्रिः । दक्षिणभागे तु
सदा दिनमेवेत्यर्थादुक्तं भवति” ॥ इति तट्टीकायां
श्रीधरस्वामी ॥

उदयनं, क्ली (उत् + इ + ल्युट् ।) उदयः । इति मे-

दिनी ॥ (यथा ऋग्वेदे १ । ४८ । ७ ।
“एषा युक्ते परावतः सूर्य्यस्योदयनादधि” ॥)

उदयनः, पुं, अगस्त्यमुनिः । वत्सराजः । इति मेदिनी ॥

(“प्राप्यावन्तीनुदयनकथाकोविदान् ग्रामवृद्धान्” ।
इति मेघटूते । ३९ ।) उदयनाचार्य्यः । स च कुसुमा-
ञ्जलिग्रन्थकर्त्ता ॥

उदरं, क्ली, (उत् ऋणातीति । “उदिदृणातेरजलौ

पूर्ब्बपदान्त्यलोपश्च” । उत् + दॄ + अच् । अन्त्य-
लोपश्च ।) नाभिस्तनयोर्मध्यभागः । पेट इति
भाषा । तत्पर्य्यायः । पिचिण्डः २ कुक्षी ३ जठरः ४
तुन्दम् ५ । इत्यमरः ॥ युद्धम् । इति मेदिनी ॥
(“उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम्” ।
इति मनुः । ८ । १२५ ॥)

उदरः, पुं, (उदरं अश्रयत्वेनास्त्यस्य । अर्श आदित्वा

दच् ।) उदरस्थरोगविशेषः । उदरी इति भाषा ।
यथा । अथोदराधिकारः । तत्रोदरस्य निमित्त-
माह ।
“रोगाः सर्व्वेऽपि मन्देऽग्नौ सुतरामुदराणि च ।
अजीर्णान्मलिनैश्चान्यर्जायन्ते मलसञ्चयात्” ॥
अग्नौ मन्दे सर्व्वे रोगा जायन्ते किन्तु सुतरा-
मतिशयेन उदराणि जायन्ते । अपरानपि हेतू-
नाह । अजीर्णान्मलिनैश्चान्यैः अत्यन्तदोषजनकैः
मलसञ्चयात् मलानां दोषाणां पुरीषस्य चाति-
वृद्धेः । अत्रोदरशब्देनोदरस्थो रोग उच्यते । यत
आह ।
“तात्स्थ्यतद्धर्म्मताभ्याञ्च तत्समीपतयापि च ।
तत्साहचर्य्यात् शब्दानां वृत्तिरुक्ता चतुर्व्विधा” ॥ * ॥
संप्राप्तिमाह ।
“रुद्धाः स्वेदाम्बुवाहीनि दोषाः स्रोतांसि सञ्चिताः ।
प्राणाग्न्यपानान् संदुष्य जनयन्त्युदरं नृणाम् ॥ * ॥
सामान्यरूपमाह ।
“आध्मानं गमने ऽशक्तिर्द्दौर्ब्बल्यं दुर्ब्बलाग्निता ।
शोथः सदनमङ्गानां सङ्गो वातपुरीषयोः ।
दाहस्तन्द्रा च सर्व्वेषु जठरेषु भवन्ति हि ॥ * ॥
सन्निकृष्टनिदानपूर्ब्बिकां संख्यामाह ।
“पृथक्दोषैः समस्तैश्च प्लीहबद्धक्षतोदकैः ।
सम्भवन्त्युदराण्यष्टौ तेषां लिङ्गं पृथक् शृणु ॥ * ॥
वातोदरस्य लक्षणमाह ।
“तत्र वातोदरे शोथः पाणिपान्नाभिकुक्षिषु ।
कुक्षिपार्श्वोदरकटीपृष्ठरुक् पर्ब्बभेदनम् ॥
शुष्ककासोऽङ्गमर्द्दश्च गुरुता मलसंग्रहः ।
श्यावारुणत्वगादित्वमकस्मान्मांसवृद्धिमत् ॥
सतोदमेदमुदरं तनुकृष्णशिराततम् ।
आध्मानादतिवच्छब्दमाहतं प्रकरोति च ॥
वायुश्चात्र सरुक् शब्दो विचरेत् सर्व्वतोगतिः” ॥
पाणिपादित्यत्र व्यञ्जनान्तः पाच्छब्द आर्षत्वात् ।
कुक्षिपार्श्वोदरेत्यत्र कुक्षिशब्द उदरस्य वाम-
दक्षिणभागद्वयवाची । सर्व्वतोगतिः सकलकोष्ठे
सञ्चरन् ॥ * ॥ पैत्तिकमाह ।
“पित्तोदरे ज्वरो मूर्च्छा दाहस्तृट् कटुकास्यता ।
भ्रमोऽतिसारः पीतत्वं त्वगादावुदरं हरित् ॥
पीतताम्रशिरानद्ध सस्वेदं सोष्म दह्यते ।
धूमायते मृदुस्पर्शं क्षिप्रपाकं प्रदूयते” ॥
हरित् शाकवर्णम् । सोष्म अन्तस्तापयुक्तम् । दह्यते
वहिर्दाहयुक्तम् । धूमायते धूममिवोद्वमति ।
क्षिप्रपाकं क्षिप्रपाकात् जलोदरतां याति । प्रदू-
यते व्यथते ॥ * ॥ कफोदरमाह ।
“श्लेष्मोदरेऽङ्गसदनं स्वापश्चयथुगौरवम् ।
तन्द्रोत्क्लेशोऽरुचिः श्वासः कासः शुक्लत्वगादिता ॥
उदरं स्तिमितं स्निग्धं शुक्लराजीततं महत् ।
चिराभिवृद्धिकठिनं शीतस्पर्शं गुरु स्थिरम्” ॥
स्वापः स्पर्शाज्ञता । गौरवमङ्गानाम् । तन्द्रा निद्रा-
बाहुल्यम् । उत्क्लेशो हृल्लासः । शुक्लराजीततं
शुक्लशिराव्याप्तम् ॥ * ॥ सन्निपातोदुरमाह ।
“स्त्रियोऽन्नपानं नखलोममूत्र-
विडार्त्तवैर्युक्तमसाधुवृत्ताः ।
यस्मै प्रयच्छन्त्यरयो गरांश्च
दुष्टाम्बुदूषीविषसेवनाच्च ॥
तेनाशु रक्तं कुपिताश्च दोषाः
कुर्य्युः सुघोरं जठरं त्रिलिङ्गम् ।
तच्छीतवाते भृशदुर्द्दिने च
विशेषतः कुप्यति दह्यते च ॥
स चातुरो मूर्च्छति हि प्रसक्तं
पाण्डुः कृशः शुष्यति तृष्णया च ।
दूष्योदरं कीर्त्तितमेतदेव
प्लीहोदरं कीर्त्तयतो निबोध” ॥
स्त्रिय इत्यविवेकिसन्निहितजनोपलक्षणम् । ताश्च
स्वसौभाग्यमिच्छन्त्यः । विट् मांर्ज्जारादीनाम् ।
आर्त्तवं रजः । अरयो वा । गरान् संयोगजानि
विषाणि । दुष्टाम्बु सविषमत्स्यतृणपर्णादियुतं
शटितञ्च ॥ दूषीविषं विषमेवाग्न्याद्युपघातेन स्वल्प-
प्रभावम् । यत उक्तम् ।
“जीर्णं विषघ्नौषधिभिर्हतं वा
दावाग्निवातातपशोधितञ्च ।
स्वभावतो वा गुणविप्रयुक्तं
विषं हि दूषीविषतामुपैति” ॥
गुणविप्रयुक्तं गुणवियुक्तं तत् । उदरं शीततादिषु
कुप्यति । दूषीविषस्य कोपात् । मूर्च्छातिविषयो-
गात् । प्रसक्तं निरन्तरं एतदेव सन्निपातोदरम् ।
तन्त्रान्तरे दूष्योदरं कीर्त्तितम् । अथवा परस्परं
दूषयन्तीति दोषा एव दूष्याः तैः कृतमुदरं दूष्यो-
पृष्ठ १/२३२
:दरम् ॥ * ॥ प्लीहोदरमाह ।
“वर्द्धते प्लीहवृद्ध्या यद्विद्यात् प्लीहोदरं हि तत् ।
तद्वामे वर्द्धते पार्श्वे निमित्तं तस्य तत्र यत् ॥
प्रवृद्धप्लीहलिङ्गानि यान्युक्तानि भिषग्वरैः ।
प्लीहोदरेऽपि दृश्यन्ते तानि सर्व्वाणि देहिनाम्” ॥
प्लीहोदरस्यैव भेदो यकृद्दाल्युदरं न पुनरधिक-
मित्याह । “सव्यान्यपार्श्वे यकृति प्रवृद्धे ज्ञेयं यकृ-
द्दाल्युदरं तदेव” । यकृद्दालयति दोषैर्भेदयतीति
यकृद्दाल्युदरं तदेव उदरमेव ॥ * ॥ बद्धगुदमाह ।
“यस्यान्नमन्नैरुपलेपिभिर्व्वा,
बालाश्मभिर्व्वा पिहितं यथावत् ।
सञ्चीयते यस्य मलः सदोषः,
शनैः शनैः शङ्करवच्च नाड्याम् ॥
निरुध्यते यस्य गुदे पुरीषं
निरेति कृच्छ्रादपि चाल्पमल्पम् ।
हृन्नाभिमध्ये परिवृद्धिमेति
तस्योदरं बद्धगुदं वदन्ति” ॥
उपलेपिभिः पिच्छिलैरन्नैः शाकशालुकादिभिः ।
बालाश्मभिः बालुकाभिः कर्क्करैर्व्वा बालैः केशैः
अश्मभिः पाषाणैर्व्वा । यथावत् यस्य यत् सम्भवति ।
मलः पुरीषम् । शङ्करवत् संमार्ज्जनीक्षिप्ततृण-
धूल्यादिवत् । “शङ्करोऽवकरः पुमान्” इत्यमरः ।
शङ्करो घूण इति लोके । नाड्यां अन्त्रनाड्याम् ।
हृन्नाभिमध्ये हृन्नाभ्योर्मध्ये ॥ * ॥ क्षतोदरमाह ।
“शल्यं यथान्नोपहतं यदन्त्रं
भुक्तं भिनत्त्यागतमन्यथा वा ।
तस्मात् क्षतोऽन्त्रात् सलिलप्रकाशः
स्रावः स्रवेद्वै गुदतस्तु भूयः ॥
नाभेरधश्चोदरमेति वृद्धिं
निस्तुद्यते दाल्यति चातिमात्रम् ।
एतत् परिस्राव्युदरं प्रदिष्टं
दकोदरं कीर्त्तयतो निबोध” ॥
शल्यं कर्क्करादि । अन्नोपहतं अन्ननिहितम् । भुक्तं
यदन्त्रं भिनत्ति । तथा अन्यथा आगतं भोजनं
विना आगतं शरादि । तदपि यदन्त्रं भिनत्ति
एतदुपलक्षणम् । जृम्भणमत्यशनं वा यदन्त्रं
भिनत्ति । यत उक्तं चरके ।
“शर्क्करातृणकाष्ठास्थिकण्टकैरन्नसंयुतः ।
भिद्येतान्त्रं यदा भुक्तं जृम्भयात्यशनेन वा” ॥ इति ।
तस्मात् भिन्नादन्त्रात् । गुदतस्तु भूयः अन्त्रात्
संस्रुत्य पुनर्गुदतः स्रवेदित्यर्थः । दाल्यति विदी-
र्य्यतैव । पदसिद्धिरार्षत्वात् । एतत् क्षतोदरं
तन्त्रान्तरे परिस्राव्युदरं प्रदिष्टम् ॥ * ॥
उदकोदरमाह ।
“यत् स्नेहपीतोऽप्यनुवासितो वा,
वान्तो विरिक्तोऽप्यथवा निरूढः ।
पिबेज्जलं शीतलमाशु तस्य
स्रोतांसि दुष्यन्ति हि तद्वहानि ॥
स्नेहोपलिप्तेय्वथवापि तेषू-
दकोदरं पूर्ब्बवदभ्युपैति ।
स्निग्धं महत्तत् परिवृत्तनाभि
समाततं पूर्णमिवाम्बुना च” ॥
यथा दृतिः क्षुभ्यति कम्पते च
शब्दायते चापि दकोदरं तत्” ॥
स्नेहपीतः पीतैत्यत्राध्यवसितादित्वात् कर्त्तरि
क्तः पश्चात् स्नेहं पीतः स्नेहपीत इति तत्पुरुषः ।
तेन स्नेहं पीतवानित्यर्थः । अनुवासितो वा गृही-
तानुवासनवस्तिः । वान्तः अत्रापि पूर्ब्बवत् कर्त्तरि
क्तः तेन वान्तवानित्यर्थः । एवं विरिक्तः विरिक्त-
बान् । तथा निरूढः गृहीतनिरूढवस्तिः । स
चेदाशु शीतलं जलं पिबेत् । तस्य तद्वहानि जल-
वहानि स्रोतांसि दुष्यन्ति स्वकर्म्मदुष्टानि भवन्ति
जलवहेषु स्रोतःसु दुष्टेषु सत्सु अन्नरसे उपस्ने-
हन्यायेन वहिर्भूते दकोदरमायाति । अथवा
तेषु उदकवहेषु स्रोतःसु स्नेहोपलिप्तेषु पूर्ब्बवत्
यथापूर्ब्बम् । अन्नरसे उपस्नेहन्यायेन वहिर्निःसृते
दकोदरमायाति । तथा जलेऽपि वहिर्निःसृते
दकोदरमायाति । तत् उदरम् । परिवृत्तनाभि
गम्भीरनाभि । समाततं स्तब्धम् । यथा दृतिः
चर्म्ममयं जलाहरणपात्रम् । क्षुभ्यति अन्तर्जल-
दोलनेन सञ्चलति कम्पते वहिः शब्दायते कम्प-
मानं सत् शब्दं करोति ॥ * ॥
साध्यासाध्यलक्षणमाह ।
“जन्मनैवोदरं सर्व्वं प्रायः कृच्छ्रतमं मतम् ।
बलिनस्तदजाताम्बु यत्नसाध्यं नवोत्थितम्” ॥
बलिनःअजाताम्बु नवोत्थितञ्च यत्नसाध्यमित्यन्वयः ।
“पश्चाद्बद्धगुदं तूर्द्ध्वं सर्व्वं जातोदकं तथा ।
प्रायो भवत्यभावाय छिद्रान्त्रञ्च दकोदरम्” ॥
छिद्रान्त्रं शरादिना छिद्रमन्त्रं यस्य तदुदरं अभा-
वायं भवति ॥ * ॥
जातोदकस्योदरस्य लक्षणमाह । चरकः ।
“पयःपूर्णा दृतिरिव क्षोभे शब्दकरं मृदु ।
अप्रव्यक्तशिरःशूलं नितान्तमुदरं महत् ॥
आलस्यमास्यवैरस्यं मूत्रं बहु सकृच्छ्रतः ।
जातोदकस्य लिङ्गं स्यान्मन्दोऽग्निः पाण्डुतापि च ॥
शूलाक्षं कुटिलोपस्थमुपक्लिन्नतनुत्वचम् ।
बलशोणितमांसाग्निपरिक्षीणञ्च वर्ज्जयेत्” ॥
शूलाक्षस्थाने शूनाक्षमिति च पाठः । कुटिलीपस्थं
वक्रमेहनम् । उपक्लिन्नतनुत्वचं । उपरि आर्द्रा तन्वो
त्यग्यस्य । तं उदरिणम् ।
“पार्श्वभङ्गान्नविद्वेषशोफातीसारपीडितम् ।
विरिक्तं चाप्युदरिणं पूर्य्यमाणं विवर्ज्जयेत्” ॥
विरिक्तमपि पूर्य्यमाणं पूर्य्यमाणोदरं उदरिणं
विवर्ज्जयेत् ॥ * ॥
अथोदरस्य चिकित्सा ।
“एरण्डतैलं दशमूलमिश्रं
गोमूत्रयुक्तस्त्रिफलारसो वा ।
निहन्ति वातोदरशोथशूलान्
क्वाथः समूत्रो दशमूलजश्च ॥
कुष्ठं दन्ती यवक्षारः पाठा त्रिलवणं वचा ।
शुण्ठी चोष्णाम्बुना पीता वातोदररुजापहा” ॥
कुष्ठादिचूर्णम् ॥ * ॥
“लशुनस्य तुलामेकां जलद्रोणे विपाचयेत् ।
त्रिकटु त्रिफला दन्ती हिङ्ग सैन्धवचित्रकम् ॥
देवदारु वचा कुष्ठं मधु शिग्रुः पुनर्नवा ।
सौवर्च्चलं विडङ्गानि दीप्यको गजपिप्पली ॥
एतेषां पलिकान् भागान् त्रिवृतः षट्पलानि च ।
पिष्ट्वा कषायेणैतेन तैलं मृद्वग्निना पचेत् ॥
तत्पिबेत् प्रातरुत्थाय यथाग्निबलमात्रया ।
निहन्ति सकलान् रोगान् उदराणि विशेषतः ॥
मूत्रकृच्छ्रमुदावर्त्तमन्त्रवृद्धिगुदक्रमीन् ।
पार्श्वकुक्षिभवं शूलमामशूलमरोचकम् ॥
यकृदष्ठीलिकानाहान् प्लीहानं चाङ्गवेदनाम् ।
मासमात्रेण नश्यंन्ति अशीतिर्वातजा गदाः” ॥
इति रसोनतैलम् ॥ * ॥
“पित्तोदरेषु बलिनं पूर्ब्बमेव विरेचयेत् ।
दुर्ब्बलं हनुवाष्पादौ शोधयेत् सौरवस्तिना ।
संजातबलकायाग्निं पुनः स्निग्धं विरेचयेत् ॥
पयसा च त्रिवृत्कल्कैरुवूकस्य शृतेन च ॥
पिप्पल्यादिगणेनाज्यं पाचितं पाययेद्भिषक् ।
नरं पथ्यभुजं नित्यं कफोदरनिवृत्तये” ॥ * ॥
“नागरत्रिफलाकल्कैर्दध्यम्बुपरिपेषितैः ।
पाचितं तैलमाज्यञ्च पिबेत् सर्व्वोदरापहम्” ॥
इति नागरादितैलं घृतञ्च ॥ * ॥
“शालियष्टिकगोधूमयवनीवारभोजनम् ।
निरूहो रेचनं श्रेष्ठं सर्व्वेषु जठरेष च ॥
आनूषमोदनं मांसं शाकं पिष्टकृतं तिलाः ।
व्यायामञ्च दिवास्वप्नपानपानानि वर्ज्जयेत् ॥
तथोग्रलवणोष्णानि विदाहीनि गुरूणि च ।
नाद्यादन्नानि जठरे तोयपानञ्च वर्ज्जयेत् ॥
उदराणां मलाढ्यत्वाद्बहुशः शोधनं हितम् ।
क्षीरेणैरण्डतैलं वा पिबेन्मूत्रेण वासकृत्” ॥ * ॥
“वातोदरी पिबेत्तक्रं पिप्पलीलवणान्वितम् ।
शर्क्करामरिचोपेतं स्वादु पित्तोदरी पिबेत् ॥
यवानीहपुषाजाजीव्योषयुक्तं कफोदरी ।
सन्निपातोदरी युक्तं त्रिकटुक्षारसैन्धवैः ॥
यवानी हपुषा धान्यं त्रिफला चोपकुञ्चिका ।
कारवी पिप्पलीमूलमजगन्धा शटी वचा ॥
शताह्वा ञीरको व्योषं स्वर्णक्षीरी च चित्रकम् ।
द्वौ क्षारौ पौष्करं मूलं कुष्ठं लवणपञ्चकम् ॥
विडड्गञ्च समांसानि दन्त्या भागत्रयं भवेत् ।
त्रिवृद्विशाले द्विगुणे सातला स्याच्चतुर्गुणा ॥
एष नारायणो नाम्ना चूर्णो रोगगणापहः ।
एनं प्राप्य निवर्त्तन्ते रोगा विष्णुमिवासुराः ॥
तक्रेणोदरभिः पेयो गुल्मिभिर्वादराम्बुना ।
आनद्धवाते सुरया वातरोगे प्रसन्नया ॥
दधिमण्डेन विडबन्धे दाडिमाम्बुभिरर्शसे ।
परिकर्त्तषु वृक्षाम्लैरुष्णाम्बुभिरजीर्णके ॥
भगन्दरे पाण्डुरोगे कासे श्वासे गलग्रहे ।
हृद्रोगे ग्रहणीरोगे कुष्ठे मन्देऽनले ज्वरे ॥
दंष्ट्राविषे मूलविषे सगरे कृत्रिमे विषे ।
यथार्हं स्निग्धकोष्णेन पेयभेतद्विरेचनम्” ॥
उपकुञ्चिका कारवी च वृहज्जीरकः । यस्य मग-
रैला नाम इति लोके । तस्य भागद्वयं ग्राह्यं पुन-
रुक्तेः । स्वर्णक्षीरी चोक इति लोके । विशाला
इन्द्रवारुणी । सातला सीहुण्डभेदः सातलेत्येव
पृष्ठ १/२३३
:प्रसिद्धा । परिकर्त्तो गुदे परिकर्त्तनवत् पीडा
इति नारायणचूर्णम् ॥ * ॥
“स्नुक्क्षीरदन्तीत्रिफलाविडङ्ग-
सिंहीत्रिवृच्चित्रकसूर्य्यकल्कैः ।
घृतं विपक्वं कुडवप्रमाणं
तोयेन तस्याक्षसमेन कर्षम् ॥
पीतोष्णमम्भोऽनुपिबेद्विरेके
पेयं रसं वा प्रपिबेद्विधिज्ञः ।
नाराचमेनं जठरामयाना-
मुक्तं प्रयुक्तं प्रवदन्ति सन्तः” ॥
इति नाराचघृतम् ॥ * ॥
“वज्राण्ड्याः कर्षमात्रायाः कल्कं दध्यादिवेष्टितम् ।
निगिलेद्वारिणा नित्यमुदरव्याधिशान्तये” ॥
वज्राण्डी शूरणपत्रो माणभेदः । वज्राण्डी इति
लोके ॥ * ॥
“पुनर्नवादारुनिशासविश्वा-
पटोलपथ्याः पिचुमर्द्ददारु ।
सनागरच्छिन्नरुहेति सर्व्वैः
कृतः कषायो विधिना विधिज्ञैः ॥
गोमूत्रयुक् गुग्गुलुना च युक्तः
पीतः प्रभाते नियतं नराणाम् ।
सर्व्वाङ्गशोथोदरपार्श्वशूल-
श्वासान्वितं पाण्डुगदं निहन्ति” ॥
पुनर्नवादिक्वाथः । इत्युदराधिकारः । इति भाव-
प्रकाशः ॥ (“उदरं स्तिमितं गुरु” इति वैद्यक-
माधवकरधृतरुग्विनिश्चयग्रन्थः । अस्य शब्दस्य
रोगविशेषवाच्यत्वेऽन्याविशेषवाच्यविवृत्तिरुदररो-
गशब्दे ज्ञातव्या ॥)

उदरग्रन्थिः, पुं, (उदरस्य ग्रन्थिरिव ।) गुल्मरोगः ।

इति हेमचन्द्रः ॥

उदरत्राणं, क्ली, (उदरस्य त्राणं यस्मात् ।) उदरबन्ध-

वस्त्रादि । तत्पर्य्यायः । नागोदं २ । इति हेम-
चन्द्रः ॥

उदरथिः, पुं, (उदृच्छति उदर्य्यते वा । उत् + ऋ +

उद्यर्त्तेश्चिदिति गथिन् ।) समुद्रः । सूर्य्यः । इति
हेमचन्द्रः ॥

उदरपिशाचः, त्रि, (उदराय तत्पूरणाय पिशाच

इव ।) सर्व्वान्नखादकः । तत्पर्य्यायः । सर्व्वान्नीनः २
सर्व्वान्नभक्षकः ३ । इति हेमचन्द्रः ॥

उदरम्भरिः, त्रि, (उदरं बिभर्त्तीति । उदर + भृ +

इन् + मुम् च । निपातसिद्धः ।) स्वोदरमात्र-
पूरकः । तत्पर्य्यायः । कुक्षिम्भरिः २ आत्मम्भरिः
३ । इति हेमचन्द्रः ॥

उदरव्याधिः, पुं, (उदरस्य व्याधिः ।) उदररोग-

विशेषः । यथा, -- गारुडे १९४ अध्यायः ॥
“कदलीयवक्षारन्तु पानीयेन प्रसाधितम् ।
तदास्वादनान्नश्यन्ति उदरव्याधयोऽखिलाः” ॥

उदररोगः, पुं, (उदरस्य रोगः ।) जठरव्याधि-

विशेषः । उदरी इति भाषा ॥
(“सिद्धविद्याधराकीर्णे कैलासे नन्दनोपमे ।
तप्यमानं तपस्तीव्रं साक्षाद्धर्म्ममिव स्थितम् ॥
श्रायुर्व्वेदविदां श्रेष्ठं भिषग्विद्याप्रवर्त्तकम् ।
पुनर्व्वसुं जितात्मानमग्निवेशोऽब्रवीद्वचः ॥
भगवन्नुदरैर्दुःखैर्दृश्यन्ते ह्यर्द्दिता नराः ।
शुष्कवक्त्राः कृशैर्गात्रैराध्मातोदरकुक्षयः ॥
प्रणष्टाग्निबलाहाराः सर्व्वचेष्टास्वनीश्वराः ।
दीनाः प्रतिक्रियाभावाज्जहतोऽसूननाथवत् ॥
तेषामायतनं सङ्ख्यां प्राग्रूपाकृतिभेषजान् ।
यथावज्ज्ञातुमिच्छामि गुरुणा सम्यगीरितम् ॥
सर्व्वभूतहितायर्षिः शिष्येणैवं प्रचोदितः ।
सर्व्वभूतहितं वाक्यं व्याहर्त्तुमुपचक्रमे” ॥
अस्य सनिदानं सम्प्राप्तिकलक्षणं यथा, --
“अग्निदोषान्मनुष्याणां रोगसङ्घाः पृथग्विधाः ।
मलवृद्ध्या प्रवर्त्तन्ते विशेषेणोदराणि तु ॥
मन्देऽग्नौ मलिनैर्भुक्तैरपाकाद्दोषसञ्चयः ।
प्राणाग्न्यपानान् सन्दूष्य मार्गान् बद्ध्वोत्तरोत्तरान् ॥
त्वङ्मांसान्तरमागम्य कुक्षिमाध्मापयन् भृशम् ।
जनयत्युदरं तस्य हेतुं शृणु सलक्षणम्” ॥
सामान्यहेतवो यथा, --
“अत्युष्णलवणक्षारविदाह्यम्लरसाशनात् ।
मिथ्यासंसर्ज्जनाद्रूक्षविरुद्धाशुचिभोजनात् ॥
प्लीहार्शोग्रहणीदोषकर्षणात् कर्म्मविभ्रमात् ।
क्लिष्टानामप्रतीकाराद्रौक्ष्याद्वेगविधारणात् ॥
स्रोतसां दूषणादामात् संक्षोभादतिपूरणात् ।
अर्शोवातशकृद्रोधादन्त्रस्फुटनभेदनात् ॥
अतिसञ्चितदोषाणां पापं कर्म्म च कुर्व्वताम् ।
उदराण्युपजायन्ते मन्दाग्नीनां विशेषतः” ॥
प्राग्रूपं यथा, --
“क्षुण्णाशः स्वाद्वतिस्निग्धगुर्व्वन्नं पच्यतेऽचिरात् ।
भुक्तं विदाह्यते सर्व्वं जीर्णाजीर्णं न वेत्ति च ॥
सहते नातिसौहित्यमीषच्छोफश्च पादयोः ।
शश्वद्बलक्षयोऽल्पेऽपि व्यायामे श्वासमृच्छति ॥
पुरीषनिचयो वृद्धिरुदावर्त्तकृता च रूक् ।
वस्तिसन्धौ रुगाध्मानं वर्द्धते पाट्यतेऽपि च ॥
आतन्यते च जठरमपि लघ्वल्पभोजनात् ।
राजीजन्म वलीनाश इति लिङ्गं भविष्यताम्” ॥
सम्प्राप्तिर्यथा, --
“रुद्ध्वा स्वेदाम्बुवाहानि दोषाः स्रोतांसि सञ्चिताः ।
प्राणापानान् हि सन्दूष्य जनयन्त्युदरं नृणाम्” ॥
सामान्यलक्षणं यथा, --
“कुक्षेराध्मानमाटोपः शोफः पादकरस्य च ।
मन्दोऽग्निः श्लक्ष्णगण्डत्वं कार्श्यञ्चोदरलक्षणम्” ॥
वातजस्य सनिदानसम्प्राप्तिकं लक्षणं यथा, --
“रूक्षाल्पभोजनायासवेगोदावर्त्तकर्षणैः ।
वायुः प्रकुपितः कुक्षिहृद्वस्तिगुदमार्गगः ॥
हत्वाग्निं कफमुद्धूय तेन रुद्धगतिस्तथा ।
आचिनोत्युदरं जन्तोस्त्वङ्मांसान्तरमाश्रितः” ॥
अस्य रूपाणि ।
“कुक्षि-पाणि-पाद-वृषण-श्वयथूदर-विपाटनम् अ-
नियतौ च वृद्धिह्रासौ कुक्षि-पार्श्वशूलोदावर्त्ताङ्ग-
मर्द्द-पर्ब्बभेद-शुष्ककास-कार्श्य-दौर्ब्बल्यारोचक-वि-
पाका अधोगुरुत्वं वातवर्च्चमूत्रसङ्गः श्यावारुणत्वं
नखनयनवदनत्वङ्मूत्रवर्च्चसामपि चोदरं तन्व-
सितराजीशिरासन्ततमाहतमाध्मातदृतिशब्दवद्भ-
वति । वायुश्चोर्द्ध्वमधस्तिर्य्यक् च सशूलशब्दश्चरत्ये-
तद्वातोदरं विद्यात्” ॥
पित्तजस्य सनिदानसम्प्राप्तिकं लक्षणं यथा, --
“कट्वम्ललवणात्युष्णतीक्ष्णाग्न्यातपसेवनैः ।
विदाह्यध्यशनाजीर्णैश्चाशु पित्तं समाचितम् ॥
प्राप्यानिलकफौ रुद्ध्वा मार्गमुन्मार्गमास्थितम् ।
निहत्यामाशये वह्निं जनयत्युदरं ततः” ॥
अस्य रूपाणि ।
“दाहज्वर-तृष्णा-मूर्च्छातिसार-भ्रमाः कटुकास्य-
त्वं हरितहारिद्रत्वं नख-नयन-वदन-त्वङ्-मूत्र-वर्च्च-
सामपि चोदरं नील-पीत-हारिद्र-हरित-ताम्र-
राजीशिरावनद्धं दह्यात् दूषयते धूप्यते रूपायते
स्विद्यते क्लिद्यते मृदुस्पर्शं क्षिप्रपाकञ्च भवत्येतत्
पित्तोदरं विद्यात्” ॥
श्लेष्मजनितस्य सनिदानसम्प्राप्तिकं लक्षणं यथा, --
“अव्यायामदिवास्वप्नस्वाद्वतिस्निग्धपिच्छिलैः ।
दधिदुग्धोदकानूपमांसैश्चात्युपसेवितैः ॥
क्रुद्धेन श्लेष्मणा स्रोतः स्वाहतेष्वावृतोऽनिलः ।
तमेव पीडयन् कुर्य्यादुदरं वहिरन्त्रगः” ॥
अस्य रूपाणि ।
“गौरवारोचकाविपाकाङ्गमर्द्द-सुप्ति-पाणि-पाद-
मुष्कोरुशोफोत्क्लेश-निद्रा-श्वास-कासाः शुक्लत्वञ्च
नख-नयन-वदन-त्वङ्मूत्रवर्च्चसामपि चोदरं शुक्ल-
राजीशिरासन्ततं गुरुस्तिमितस्थिरं कठिनञ्च
भवत्येतत् श्लेष्मोदरं विद्यात्” ॥
त्रिदोषजस्य सनिदानसम्प्राप्तिकं लक्षणं यथा,
“दुर्ब्बलाग्नेरपथ्यामविरोधिगुरुभोजनात् ।
स्त्रीदत्तैश्च रजोरोम-विण्मूत्रास्थिनखादिभिः ॥
विषैश्च मन्दैर्वाताद्याः कुपिताः सञ्चितास्त्रयः ।
शनैः कोष्ठे प्रकुर्व्वन्तो जनयन्त्युदरं नृणाम्” ॥
अस्य रूपाणि ।
“सर्व्वेषामेव दोषाणां समस्तानि लिङ्गान्युपलभ्यन्ते
वर्णाश्च नखादिषूदरमपि नानावर्णराजीशिरा-
सन्ततं भवत्येतत् सन्निपातोदरं विद्यात्” ॥
यकृत्प्लीहसमुद्भवस्य सनिदानसम्प्राप्तिकं
लक्षणं यथा, --
“असितस्यातिसङ्क्षोभाद्यानयानाभिचेष्टितैः ।
अतिव्यवायभाराध्ववमनव्याधिकर्षणैः ॥
वामपार्श्वास्थितः प्लीहाच्युतः स्थानात् प्रवर्द्धते ।
शोणितं वा रसादिभ्यो विवृद्धन्तं विवर्द्धयेत्” ॥
इति तस्य प्लीहाकठिनोऽष्ठिलेवादौ वर्द्धमान-
कच्छपसंस्थान उपलभ्यते सचोपेक्षितः क्रमेण
कुक्षिं जठरमग्न्यधिष्ठानञ्च परिक्षिपन्नुदरमभि-
निवर्त्तयति” ॥
अस्य रूपाणि यथा, --
“दौर्ब्बल्यारोचकाविपाकवर्च्चोमूत्रग्रहतमःपिपा-
साङ्गमर्द्द-च्छर्द्दि-मूर्च्छाङ्गसाद-कास-श्वास-मृदुज्व-
रानाहाग्निनाशकार्श्यास्यवैरस्य-पर्ब्बभेद-कोष्ठ-वा-
तशूलान्यपि चोदरमरुणवर्णं विवर्णं वा नील-
हरित-हारिद्र-राजिमद्भवत्येवमेव यकृदपि दक्षिण-
पार्श्वस्थं कुर्य्यात्तुल्यहेतुलिङ्गौषधत्वात्तस्य प्लीहजठ-
रएवावबोध इत्येतत् यकृत्प्लीहोदरं विद्यात्” ॥
पृष्ठ १/२३४
:बद्धगुदोदरस्य निदानपूर्ब्बिका सम्प्राप्तिर्यथा,
“पक्ष्मबालैः सहान्नेन भुक्तैर्बद्धायने गुदे ।
उदावर्त्तैस्तथार्शोभिरान्त्रसंमूर्च्छनेन वा ॥
अपानो मार्गसंरोधाद्धात्वग्निं कुपितोऽनिलः ।
वर्च्चःपित्तकफान् रुद्ध्वा जनयत्युदरं ततः” ॥
अस्य रूपाणि ।
“तृष्णा-दाह-ज्वर-मुख-तालु-शोषोरुसाद-कास-
श्वास-दौर्ब्बल्यारोचकाविपाक-वर्च्चोमूत्र-सङ्गा-
ध्मान-च्छर्द्दि-क्षवथु-शिरोहृन्नाभि-गुदशूलान्यपि
चोदरं मूढवातं स्थिरमरुणं नीलराजिशिरावनद्धं
सराजिकं वा प्रायो नाभ्युपरि गोपुच्छवदभिनि-
वर्त्तत इत्येतद् बद्धगुदोदरं विद्यात्” ॥
छिद्रोदरस्य निदानपूर्ब्बिका सम्प्राप्तिर्यथा,
“शर्करा-तृणकाष्ठास्थि-कण्टकैरन्नसंयुतैः ।
भिद्येतान्त्रं यदा भुक्तैर्ज्जृम्भयात्यशनेन वा ।
इयात् पाकरसस्तेभ्यश्छिद्रेभ्यः प्रस्ववद्वहिः ।
पूरयन् गुदमन्त्रञ्च जनयत्युदरं ततः” ॥
अस्य रूपाणि ।
“इति तदधोनाभ्याः प्रायोऽभिनिवर्त्तमानमुदको-
दरस्य च यथाबलञ्च दोषाणां रूपाणि दर्शयत्य-
पि चातुरः सलोहित-नील-पीत-पिच्छिल-कुणप-
गन्धामवर्च्च उपवेशते हिक्का-श्वास-कास-तृष्णा-
प्रमेहा-रोचकाविपाक-दौर्ब्बल्यपरीतश्च भवत्येतत्
छिद्रोदरं विद्यात्” ॥
जलोदरस्य निदानपूर्ब्बिका सम्प्राप्तिर्यथा, --
“स्नेहपीतस्य मन्दाग्नेः क्षीणस्यातिकृशस्य वा ।
अत्यम्बुपानान्नष्टेऽग्नौ मारुतः क्लोम्नि संस्थितः ॥
स्रोतःसु रुद्धमार्गेषु कफश्चोदकमूर्च्छितः ।
वर्द्धयेतां तदेवाम्बु स्वस्थानादुदराय तौ” ॥
अस्य रूपाणि ।
“तस्य रूपाण्यनन्नकाङ्क्षापिपासा-गुदस्राव-शूल-
श्वास-कास-दौर्ब्बल्याण्यपि चोदरं नानावर्णराजि-
भिरासन्ततमुदकपूर्णदृतिक्षोभसंस्पर्शं भवत्येत-
दुदकोदरं विद्यात्” ॥
एषां साध्यत्वासाध्यत्वादिलक्षणं यथा, --
“तत्राचिरोत्पन्नमनुपद्रवमनुदकप्राप्तमुदरं त्वर-
माणश्चिकित्सेदुपेक्षितानां ह्येषां दोषाः स्वस्थान-
दपवृत्ता अपरिपाकाद्द्रवीभूताः सन्धीन् स्रोतांसि
चोपक्लेदयन् स्वेदश्च वाह्येषु स्रोतःसु प्रतिहत-
गतिस्तिर्य्यगवतिष्ठमानस्तदेवोदकमाप्याययति” ।
तत्र पिच्छोत्पत्तौ मण्डलमुदरं गुरुस्तिमितमा-
कोचितमशब्दं मृदुस्पर्शमपगतराजीकमाक्रान्तं
नाभ्यां सर्पतीति । ततोऽनन्तरं उदकप्रादुर्भावः ॥
तस्य रूपाणि कुक्षेरतिमात्रवृद्धिः शिरान्तर्धा-
नगमनमुदकपूर्णदृतिसमक्षोभस्पर्शत्वञ्च ।
तदातुरमुपद्रवाः स्पृशन्ति छर्द्द्यतीसार-तमक-
तृष्णा-श्वास-कास-हिक्का-दौर्ब्बल्य-पार्श्वशूलारुचि-
स्वरभेद-मूत्रसङ्गादयस्तथाविधमचिकित्स्यं विद्या-
दिति ॥ भवति चात्र, --
“वातात्पित्तात् कफात् प्लीहः सन्निपातात्तथोदकात् ।
परस्परं कृच्छ्रतरमुदरं भिषगादिशेत् ॥
पक्षाद्बद्धगुदन्तूर्द्ध्वं सव्वं जातोदकन्तथा ।
प्रायो भवत्यभावाय छिद्रान्त्रञ्चोदरं नृणाम्” ॥
“श्वयथुः सर्व्वमर्म्मोत्थः श्वासो हिक्कारुचिः सतृट् ।
मूर्च्छाच्छर्द्द्यतिसारश्च निहन्त्युदरिणं नरम्” ॥
जललक्षणमाह ।
“अशोथमरुणाभासं सशब्दं नातिभारिकम् ।
सदा गुडगुडायान्तं शिराजालगवाक्षितम् ॥
नाभिं विष्टभ्य पायौ तु वेगं कृत्वा प्रणश्यति ॥
हृन्नाभिवंक्षणकटीगुदप्रत्येकशूलिनः ॥
कर्कशं सृजतो वातं नातिमन्दे च पावके ॥
मूत्रेऽल्पे संहते दोषे लालया विरसे मुखे ।
अजातोदकमित्येतैर्लिङ्गैर्विज्ञाय तत्त्वतः” ॥
अतःपरं वातजादिभेदेन चिकित्साविधानं यथा,
“उपक्रामेद्भिषग्दोषबलकालविशेषवित् ।
वातोदरे बलवतः पूर्ब्बं स्नेहैरुपाचरेत् ॥
स्निग्धाय स्वेदिताङ्गाय दद्यात् स्नेहविरेचनम् ॥
हृते दोषे परिम्लानं वेष्टयेद्वाससोदरम् ॥
तथास्यानवकाशत्वाद्वायुर्नाध्मापयेत् पुनः ।
दोषातिमात्रोपचयात् स्रोतसां सन्निरोधनात् ॥
सम्भवन्त्युदराण्येवं अतो नित्यं विशोधयेत् ।
शुद्धं संसृज्य च क्षीरं बलार्थं पाययेत्तु तम् ॥
प्रागुत्केशान्निवर्त्त्यञ्च बले लब्धे क्रमात् पयः ।
यूषैरसर्व्वा मन्दाम्ललवणैः रोधितानलम् ॥
सोदावर्त्तिं पुनः स्निग्धं स्विन्नमास्थापयेन्नरम् ।
स्फुरणाक्षेपसन्ध्यस्थिपार्श्वपृष्ठत्रिकास्थिषु ।
दीप्ताग्निबद्धविड्वातं रूक्षमप्यनुवासयेत् ॥
तीक्ष्णाधोभागयुक्तः स्यान्निरूहो दाशमूलिकः ।
वातघ्नाम्लशृतैरण्डतिलतैलानुवासनः ॥
अविरेच्यन्तु यं विद्याद्दुर्ब्बलं स्थविरं शिशुम् ।
सुकुमारं प्रकृत्याल्पदोषं वाथोल्वणानिलम् ॥
तं भिषक् शमनैः सर्पिर्यूषमांसरसौदनैः ।
वस्त्यभ्यङ्गानुवासश्च क्षौरैश्चोपाचरेद्बुधः ॥ १ ॥
पित्तोदरे तु बलिनं पूर्ब्बमेव विरेचयेत् ।
दुर्ब्बलन्त्वनुवास्यादौ शोधयेत् क्षीरवस्तिना ॥
सञ्जातबलकालाग्निं पुनः स्निग्धं विरेचयेत् ।
पयसा सत्रिवृत्कल्केनोरुवूकशृतेन वा ॥
शातलात्रायमाणाभ्यां शृतेनारम्बधेन वा ।
सकफे वा समूत्रेण सवाते तिक्तसर्पिषा ॥
पुनः क्षीरप्रयोगञ्च वस्तिकर्म्मविरेचनम् ।
क्रमेण ध्रुवमातिष्ठन् युक्तः पित्तोदरं जयेत् ॥
स्निग्धं स्विन्नं विशुद्धन्तु कफोदरिणमातुरम् ।
संसर्ज्जयेत् कटुक्षारयुक्तैरन्नैः कफापहैः ॥
गोमूत्रारिष्टपानैश्च चूर्णायस्कृतिभिस्तथा ।
सक्षारैस्तैलपानैश्च समयेत्तु कफोदरम् ॥
सन्निपातोदरे सर्व्वा यथोक्ताः कारयेत् क्रियाः ।
सोपद्रवन्तु निर्वृत्तं प्रत्याख्येयं विजानता ॥
उदावर्त्तरुगानाहैर्दाहमोहतृषाज्वरैः ।
गौरवारुचिकाठिन्यैश्चानिलादीन् यथाक्रमम् ॥
लिङ्गः प्लीहोदरान् दृष्ट्वा रक्तं वापि स्वलक्षणैः ।
चिकित्सां संप्रकुर्व्वीत यथादोषं यथाबलम् ॥
स्नेहं स्वेदं विरेकञ्च निरूहमनुवासनम् ।
समीक्ष्य कारयेद्बाहौ वामे वा व्यधयेत्सिराम् ॥
षट्पलं वा पिबेत्सर्पिः पिप्पलीर्व्वा प्रयोजयेत् ।
सगुडामभयां वापि क्षारारिष्टगणांस्तथा ॥
रोहितकलतानान्तु काण्डैका साभया जले ।
मूत्रे वा शृतमेतच्च सप्तरात्रस्थितं पिबेत् ॥
कामलागुल्ममेहार्शःप्लीहसर्व्वोदरक्रिमीन् ।
तद्धन्याज्जाङ्गलरसैर्जीर्णे स्याच्चात्र भोजनम् ॥
अग्निकर्म्म च कुर्व्वीत भिषग्वातकफोल्वणे ।
पैत्तिके जीवनीयानि सर्पींषि क्षीरवस्तयः ॥
रक्तावसेकः संशुद्धिः क्षीरपानञ्च शस्यते ।
यूषैर्मांसरसैश्चापि दीपनीयसमायुतैः ॥
लघून्यन्नानि संसृज्य भजेत् प्लीहोदरी नरः ॥
स्विन्नाय बद्धोदरिणे मूत्रतीक्ष्णौषधान्वितम् ।
सतैललवणं दद्यान्निरूहं सानुवासनम् ॥
परिस्रंसीनि चान्नानि तीक्ष्णञ्चैव विरेचनम् ।
उदावर्त्तहरं कर्म्म कार्य्यं वातघ्नमेव च ॥
छिद्रोदरमृते स्वेदात् श्लेष्मोदरवदाचरेत् ॥
जातं जातं जलं स्राव्यमेवं तत्पातयेद्भिषक्” ॥
अरिष्टलक्षणं यथा ।
“तृष्णाकासज्वरार्त्तन्तु क्षीणमांसाग्निभोजनम् ।
वर्ज्जयेत् श्वासिनं तद्वत् शूलिनं दुर्ब्बलेन्द्रियम्” ॥
“द्रवेभ्यश्चोदकादिभ्यो नियच्छेदनुपूर्ब्बशः ।
सर्व्वमेवोदरं प्रायो दोषसंघातजं मतम् ।
तस्मात्त्रिदोषशमनीं क्रियां सव्वषु कारयेत्” ॥
पथ्यनियमो यथा ।
“दोषैः कुक्षौ हि संपूर्णे वह्निर्मन्दत्वमृच्छति ।
तस्माद्भोज्यानि योज्यानि दीपनानि लघूनि च ॥
रक्तशालीन् यवान् मुद्गान् जाङ्गलांश्च मृगद्विजान् ।
पयोमूत्रासवारिष्टान्मधुशीधूंस्तथा सुराम् ॥
यवागूमोदनं वापि यूषैरद्याद्रसैरपि ।
मन्दाम्लस्नेहकटुभिर्यच्च मूलोपसाधितैः” ॥
अपथ्यानि यथा ।
“औदूकानूपजं मांसं शाकं पिष्टकृतं तिलान् ।
व्यायामाध्वदिवास्वप्नं यानयानञ्च वर्ज्जयेत् ॥
तथोष्णलवणाम्लानि विदाहीनि गुरूणि च ।
नाद्यादन्नानि जठरी तोयपानञ्च वर्ज्जयेत्” ॥
वातजादिभेदेन तक्रपाननियमो यथा ।
“वातोदरी पिबेत्तक्रं पिप्पलीलवणान्वितम् ।
शर्करामधुकोपेतं स्वादु पित्तोदरी पिबेत् ॥
यमानीसैन्धवाजाजीव्योषयुक्तं कफोदरी ।
पिबेन्मधुयुतं तक्रं व्यक्ताम्लं नातिपेलवम् ॥
मधुतैलवचाशुण्ठीशताह्वाकुष्ठसैन्धवैः ।
युक्तं प्लीहोदराघातं सव्योषन्तु दकोदरी ॥
बद्धोदरी तु हपुषायवान्यजाजीसैन्धवैः ।
पिबेच्छिद्रोदरी तक्रं पिप्पलीक्षौद्रसंयुतम् ॥
“देवदारुपलाशार्कहस्तिपिप्पलीशिग्रुकैः ।
साश्वगन्धैः सगोमूत्रैः प्रदिह्यादुदरं समैः ॥
पलाशं कत्तृणं रास्ना तद्वत्पक्त्रावसेचयेत् ।
मूत्राण्यष्टावुदरिणां सेके पाने च योजयेत् ॥
रूक्षाणां बहुवातानां तथा संशोधनार्थिनाम् ।
दीपनीयानि सर्पींषि जठरघ्नानि वक्ष्यते ॥
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः ।
सक्षारैरर्द्धपलिकैर्द्विःप्रस्थं सर्पिषः पचेत् ॥
कल्कैर्द्विपञ्चमूलस्य तुलार्द्धस्य रसेन च ॥
दधिमण्डातकोपेतं तत्सर्पिर्जठरापहम् ।
श्वयथुं वातविष्टम्भं गुल्मार्शांसि च नाशयेत्” ॥
इति पञ्चकोलघृतम् ॥ * ॥
पृष्ठ १/२३५
“चतुर्गुणे जले मूत्रे द्विगुणे चित्रकात्पले ।
कल्के सिद्धं घृतप्रस्थं सक्षारं जठरी पिबेत्” ॥
इति चित्रकघृतम् ॥
“पटोलमूलरजनीविडङ्गत्रिफलात्वचम् ।
काम्पिल्यको नीलिनी च त्रिवृता चेति चूर्णयेत् ॥
षडाद्यान् कार्षिकानन्त्यांस्त्रीन् द्वित्रिचतुर्गुणान् ।
कृत्वा चूर्णमतोमुष्टिं गवां मूत्रेण वा पिबेत् ॥
विरिक्तो मृदु भुञ्जीत भोजनं जाङ्गलैः रसैः ।
मण्डं पेयाञ्च पीत्वा च सव्योषं षडहं पयः ॥
शृतं पिबेत्ततश्चूर्णं पिबेदेव पुनः पुनः ।
हन्ति सर्व्वोदराण्येतञ्चूर्णं जातोदकान्यपि ।
कामलां पाण्डुरोगञ्च श्वयथुञ्चापकर्षति” ॥
इति पटोलाद्यं चूर्णम् ॥ * ॥
“नीलिनीं निचुलं व्योषं द्वौ क्षारौ लवणानि च ।
चित्रकञ्च पिबेच्चूर्णं सर्पिषोदरगुल्मनुत्” ॥
इति नीलिन्याद्यं चूणम् ॥ * ॥
“भावितानां गवां मूत्रे षष्टिकानान्तु तण्डुलैः ।
यवागूं पयसा सिद्धां प्रकामं भोजयेन्नरम् ॥
पिबेदिक्षुरसञ्चानु जठराणां निवृत्तये ।
स्वं स्वं स्थानं व्रजन्त्येषां तथा पित्तकफानिलाः ॥
क्रियातीते त्रिदोषे च जठरे चाप्रशाम्यति ।
ज्ञातीन् ससुहृदो दारान् ब्राह्यणान् नृपतीन् गुरून् ॥
अनुज्ञाप्य भिषक् कर्म्म विदध्यात्संशयं ब्रुवन् ।
अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत् ॥
एवमाख्याय तस्येदमनुज्ञातः प्रयोजयेत् ।
पानभोजनसंयुक्तं विषमस्मै प्रदापयेत् ॥
यस्मिन् वा कुपितः सर्पो विसृजेद्धि फले बिषम् ।
तेनास्य दोषसंघातः स्थिरो लीनो विमार्गगः ॥
विषेणाशु प्रमाथित्वादाशुभिन्नः प्रवर्त्तते ।
विषेण हृतदोषन्तं शीताम्बुपरिषेचितम् ॥
पाययेत भिषग्दुग्धं यवागूं वा यथाबलम् ।
त्रिवृन्मण्डूकपर्ण्याश्च शाकं सयववास्तुकम् ।
भक्षयेत्कालशाकं वा स्वरसोदकसाधितम् ॥
निरम्ललवणस्नेहं स्विन्नास्विन्नमनन्नभुक् ।
मासमेकं ततश्चैव तृषितः स्वरसं पिबेत्” ॥
“इदन्तु शल्यहर्त्तॄणां कर्म्म स्याद्दष्टकर्म्मणां ।
मात्रायुक्तेन शस्त्रेण पाटयेन्मतिमान् भिषक् ॥
विपाट्यान्त्रन्ततः पश्चाद्वीक्ष्य बद्धक्षतान्त्रयोः ।
सर्पिषाभ्यज्य केशादीनवमृज्य विमोक्षयेत् ॥
मूर्च्छनात् यच्च संमूढमन्त्रं यच्च विमोक्षयेत् ।
छिद्राण्यन्त्रस्य तु स्थूलैर्दंशयित्वा पिपीलिकैः ॥
बहुशः संगृहीतानि मत्वा छित्त्वा पिपीलिकान् ।
प्रतियोगैः प्रवेश्यान्त्रं वहिः सीव्येद्व्रणन्ततः ।
तथा जातोदकं सर्व्वमुदरं व्यधयेद्भिषक् ॥
वामपार्श्वे त्वधो नाभेर्नाडीं दत्त्वा च गालयेत् ।
निःस्नाव्य च विमृज्यैतद्वेष्टयेद्वाससोदरम् ॥
तथा वस्तिविरेकाद्यैर्म्लानं सर्व्वञ्च वेष्टयेत् ।
निःसृते लङ्घितः पेयामस्नेहलवणां पिबेत् ॥
अतः परञ्च षण्मासान् क्षीरवृत्तिर्भवेन्नरः ।
त्रीन् मासान् पयसा पेयां पिबेत्त्रींश्चापि भोजयेत् ॥
श्यामाकङ्कोरदूष्यं वा क्षीरेण लघुभोजनः ।
नरः संवत्सरेणैवं जयेत् प्राप्तं जलोदरम् ॥
प्रयोगाणाञ्च सर्व्वेषामनुक्षीरं प्रयोजयेत् ।
दोषानुबन्धरक्षार्थं बलस्थैर्य्यार्थमेव च ॥
प्रयोगापचिताङ्गानां हितं ह्युदरिणां पयः ।
सर्व्वधातुक्षयार्त्तानां देवानाममृतं यथा” ॥
इति चरके चिकित्सितस्थानेऽष्टादशोऽध्यायः ।
“धन्वन्तरिर्धर्म्मभृतां वरिष्ठी
राजर्षिरिन्द्रप्रतिमो बभूव ।
ब्रह्मर्षिपुत्त्रं विनयोपपन्नं
शिष्यं शुभं सुश्रुतमन्वशात्सः ॥
पृथक्समस्तैरपि चेह दोषैः
प्लीहोदरं बद्धगुदं तथैव ।
आगन्तुकं सप्तममष्टमञ्च
दकोदरञ्चेति वदन्ति तानि ॥
सुदुर्ब्बलाग्नेरहिताशनस्य
संशुष्कपूत्यन्ननिषेवणाद्वा ।
स्नेहादिमिथ्याचरणाच्च जन्तो-
र्वृद्धिं गताः कोष्ठमभिप्रपन्नाः ॥
गुल्माकृतिव्यञ्जितलक्षणानि
कुर्व्वन्ति घोराण्युदराणि दोषाः ।
कोष्ठादुपस्नेहवदन्नसारो
निःसृत्य दुष्टोऽनिलवेगनुन्नः ॥
त्वचः समुन्नम्य शनैः समन्ता-
द्विवर्द्धमानो जठरं करोति” ॥ * ॥
अस्य पूर्ब्बरूपं यथा, --
“तत्पूर्ब्बरूपं बलवर्णकाङ्क्षा-
बलीविनाशो जठरे हि राज्यः ।
जीर्णापरिज्ञानविदाहवत्यो
वस्तौ रुजः पादगतश्च शोफः” ॥
वातजादिभेदेन लक्षणानि यथा, --
“संगृह्य पार्श्वोदरपृष्ठनाभी-
र्यद्वर्द्धते कृष्णशिरावनद्धम् ।
सशूलमानाहवदुग्रशब्दम्
सतोदभेदं पवनात्मकन्तत् ॥ १ ॥
यच्चोषतृष्णाज्वरदाहयुक्तं
पीतं शिरा यत्र भवन्ति पीताः ।
पीताक्षिविण्मूत्रनखाननस्य
पित्तोत्तरं तत्त्वचिराभिवृद्धि ॥ २ ॥
यच्छीतलं शुक्लशिरावनद्धं
श्लक्ष्णं स्थिरं शुक्लनखाननस्य ।
स्निग्धं महच्छोफयुतं ससादं
कफोदरं तञ्च चिराभिवृद्धि ॥ ३ ॥
विदाह्यभिष्यन्दिरतस्य जन्तोः
प्रदुष्टमत्यर्थमसृक्कफश्च ।
प्लीहाभिवृद्धिं सततं करोति
प्लीहोदरन्तत् प्रवदन्ति तज्ज्ञाः ॥
वामे च पार्श्वेपरिवृद्धिमेति
विशेषतः सीदति चातुरोऽत्र ।
मन्दज्वराग्निः कफपित्तलिङ्गै-
रुपद्रुतः क्षीणबलोऽतिपाण्डुः ॥
सव्येतरस्मिन् यकृति प्रदुष्टे
ज्ञेयं यकृद्दाल्युदरं तदेव” ॥ ४ ॥
दूष्युदरं बद्धगुदोदरं परिस्राव्युदरं दकोदरञ्चेति
चतुर्णामुदराणां सुश्रुतीयं लक्षणादिकं यत् भाव-
प्रकाशे संगृहीतं तत्तावच्चान्यविधम् ॥
अस्य चिकित्सा यथा ।
“अष्टावुदराणि पूर्ब्बमुद्दिष्टानि तेष्वसाध्यं बद्धगुदं
परिस्रावि चावशिष्टानि कृच्छ्रसाध्यानि सर्व्वाण्येव
च प्रत्याख्यायोपक्रमेत । तेष्वाद्यश्चतुर्व्वर्गो भेषज-
साध्यः । कालप्रकर्षात् सर्व्वाण्येव शस्त्रसाध्यानि
वर्ज्जयितव्यानि वा ॥
उदरी तु गुर्व्वभिष्यन्दिरूक्षविदाहिस्निग्धपिशित-
परिषेकावगाहान् परिहरेत् । शालियष्टिकयव-
गोधूमनीवारान्नित्यमश्नीयात् ॥
तत्र वातोदरिणं विदारिगन्धादिसिद्धेन सर्पिषा
स्नेहयित्वा तिल्वकविपक्वेनानुलोम्य चित्राफलतैल-
प्रगाढेन विदारिगन्धाकषायेणास्थापयेदनुवासयेच्च
शाल्वणेन चोपनाहयेदुदरम् । भोजयेच्चैनं विदा-
रिगन्धादिसिद्धेन क्षीरेण जाङ्गलरसेन चाभीक्ष्णं
स्वेदयेत् ॥ * ॥
पित्तोदरिणन्तु मधुरगणविपक्वेन सर्पिषा स्नेह-
यित्वा श्यामात्रिफलात्रिवृद्विपक्वेनानुलोम्य शर्क-
रामधुधृतप्रगाढेन न्यग्रोधादिकषायेणास्थापये-
दनुवासयेच्च पायसेनोपनाहयेटुदरं भोजयेच्चैनं
विदारिगन्धादिसिद्धेन पयसा ॥ * ॥ श्लेष्मोदरिणं
पिप्पल्यादिकषायसिद्धेन सर्पिषोपस्नेह्य स्नुहीक्षी-
रविपक्वेनानुलोम्य त्रिकटुकमूत्रक्षारतैलप्रगाढेन
मुष्कादिकषायेणास्थापयेदनुवासयेच्च शणातसी-
धातकीकिण्वसर्षपमूलकवीजकल्कैश्चोपनाहयेदु-
दरं भोजयेच्चैनं त्रिकटुकप्रगाढेन कुलत्थयूषेण
पायसेन वा स्वेदयेच्चाभीक्ष्णम् ॥ * ॥
दूष्योदरिणन्तु प्रत्याख्याय सप्तलाशङ्खिनीस्वरस-
सिद्धेन सर्पिषा विरेचयेन्मासमर्द्धं मासं वा
महावृक्षक्षीरसुरागोमूत्रसिद्धेन वा शुद्ध्वकोष्ठनु
मद्येनाश्वमारकगुञ्जाकाकादनीमूलकल्कं पाययेत् ।
इक्षुकाण्डानि वा कृष्णसर्पेण दंशयित्वा भक्षयेत् ।
वल्लीफलानि वा मूलजं कन्दजं वा विषमासेवयेत्
तेनागदो भवत्यन्यं वा भावमापद्यते ॥ * ॥
भवति चात्र, --
“कुपितानिलमूलत्वात् सञ्चयित्वान्मलस्य च ।
सर्व्वोदरेषु शंसन्ति बहुशस्त्वनुलोमनम्” ॥
ज्योतिष्कफलतैलं वा क्षीरेण स्वर्ज्जिकाहिङ्गुमिश्रं
पिबेत् ॥ गुडद्वितीयां वा हरीतकीं भक्षयेत् ॥
स्नुहीक्षीरभावितानां वा पिप्पलीनां सहस्रं का-
लेन पथ्याकृष्णाचूर्णं वा स्नुहीभावितामुत्कारिकां
पक्तां दापयेत्” ॥
“प्लीहोदरिणः स्निग्धस्विन्नस्य दध्ना भुक्तवतो वाम-
बाहौ कुर्प्पराभ्यन्तरतः शिरां विध्येद्विमर्दयेत्
पाणिना प्लीहानं रुधिरस्यन्दनार्थं ततः संशुद्धदेहं
समुद्रशुक्तिकाक्षारं पयसा पाययेत हिङ्गुसौतर्च्चि
काक्षारेण स्रुतेन पलाशक्षारेण वा यवक्षारम् ।
पारिजातकेक्षरकापामार्गक्षारं वा तैलसंसृष्टम् ।
पृष्ठ १/२३६
:शोभाञ्जनकषायं वा पिप्पलीसैन्धवचित्रकयुक्तम् ।
पूतिकरञ्जक्षारं वाम्लस्रुतं विडलवण-पिप्पली-
प्रगाढम् ॥ * ॥
पिप्पलीपिप्पलीमूलचित्रकशृङ्गवेरयवक्षारसैन्ध-
वानां पालिकाभागा घृतप्रस्थं तत्तुल्यं क्षीरं
तदैकध्यं विपाचयेदेतत् षट्पलकं नाम सर्पिः
प्लीहाग्निषङ्गगुल्मोदरोदावर्त्त-श्वयथु-पाण्डुरोग-
कास-श्वास-प्रतिश्यायोर्द्ध्ववातविषमज्वरानपहन्ति
मन्दाग्निर्वा हिङ्ग्वादिकं चूर्णमुपयुञ्जीत यकृद्दा-
ल्येऽप्येष एव क्रियाविभागः विशेषतस्तु दक्षिण-
बाहौ शिराव्यधः” ॥
“मणिबन्धं सकृन्नाम्य वामाङ्गष्ठसमीरिताम् ।
दहेत्सिरां शरेणाशु प्लीह्नो वैद्यः प्रशान्तये” ॥ * ॥
बद्धगुदे परिस्राविणि च स्निग्धस्विन्नस्याभ्यक्त-
स्याधो नाभेर्व्वामतश्चतुरङ्गुलमपहाय रोमराज्या
उदरं पाटयित्वा चतुरङ्गुलप्रमाणान्यन्त्राणि नि-
ष्कृष्य निरीक्ष्य बद्धगुदस्यान्त्रप्रतिरोधकरमश्मानं
बालं वा पोह्य मलजातं वा ततो मधुसर्पिर्म्या-
मभ्यज्यान्त्राणि यथास्थानं स्थापयित्वा वाह्यव्रण-
मुदरस्य सीव्येत् । परिस्राविण्यप्येवमेव शल्य-
मुद्धृत्यान्त्रस्रावान् संशोध्य तच्छ्रिद्रमन्त्रं समाधाय
कालपिपीलिकाभिर्दंशयेत् दष्टे च तासां काया-
नपहरेत् न शिरांसि ततः पूर्ब्बवत् सीव्येत्
सन्धानञ्च यथोक्तं कारयेत् यष्टीमधुकमिश्रया
च कृष्णमृदावलिप्य बन्धेनोपचरेत्ततोनिवातमा-
गारं प्रवेश्याचारिकमुपदिशेद्वासयेच्चैनं तैलद्रोण्यां
सर्पिर्द्रोण्यां वा पयोवृत्तिमिति ॥ * ॥ उदकोदरि-
णस्तु वातहरतैलाभ्यक्तस्योष्णोदकस्विन्नस्य स्थित-
स्याप्तैः सुपरिगृहीतस्याकक्षात् परिवेष्टितस्याधो-
नाभेर्वामतश्चतुरङ्गुलमपहाय रोमराज्या व्रीहि-
मुखेनाङ्गुष्ठोदरप्रमाणमवगाढं विध्येत् । तत्र तप्वा-
दीनामन्यतमस्य नाडीद्विद्वारां पक्षनाडीं वा संयो-
ज्यादोषोदकमवसिञ्चेत्ततो नाडीमपहृत्य तैल-
लवणेनाभ्यज्य व्रणबन्धेनोपचरेन्नचैकस्मिन्नेव दिवसे
सर्व्वं दोषोदकमपहरेत् सहसा ह्यपहृते तृष्णा-
ज्वराङ्गमर्द्दातीसारश्वासपाददाहा उत्पद्येरन् आ-
पूर्य्यते वा भृशतरमुदरमसञ्जातप्राणस्य तस्मा-
त्तृतीयचतुर्थपञ्चमषष्ठाष्ठमदशमद्वादशषोडशरा-
त्राणामन्यतममन्तरीकृत्य दोषोदकमल्पाल्पमव-
सिञ्चेत् । निःस्रुते निःस्नुते च दोषे गाढतरमावि-
ककाशेयचर्म्मणामन्यतमेन परिवेष्टयेदुदुरं तथा
नाध्मायति वायुः षण्मासांश्च पयसा भोजये-
ज्जाङ्गलरसेन वा तत्र त्रीन् मासान् अर्द्धोदकेन
पयसा फलाम्लेन जाङ्गलरसेन वावशिष्टं मासत्रय-
मन्नं लघहितं वा सेवेतैवं संवत्सरेणागदो भवति ॥
भवति चात्र, --
आस्थापने चव विरेचने च
पाने तथाहारविधिक्रियासु ।
सर्व्वोदरिभ्यः कुशलैः प्रयोज्यं
क्षीरं शृतं जाङ्गलजो रसो वा” ॥
इति सुश्रते चिकित्सितस्थाने उदराधिकारः ॥
औषधान्याह ॥
“शुद्धसूतं द्विधा गन्धं मृतार्कायःशिलाजतु ।
रससाम्येन दातव्यं रसस्य द्विगुणं विषम् ॥
त्रिकटुचित्रकाकोलीनिर्गुण्डीमूषलीरजः ।
अजभोदाविधांशेन प्रत्येकञ्च प्रकल्पयेत् ॥
निम्बपञ्चाङ्गुलक्वाथैर्भावनाश्चैकविंशतिम् ।
भृङ्गराजरसैः सप्त दत्त्वा क्षौद्रेण लेहयेत् ॥
वदरास्थिप्रमाणेन वटिकां तां दिवा निशि ।
श्लेष्मोत्तरं निहन्त्याशु नाम्ना वैश्वानरी वटी ॥
देवदारुवह्निमूलकल्कं क्षीरेण पाचयेत् ।
भोजनं मेषदुग्धेन कौलोत्थेन रसेन च” ॥
इति वैश्वानरी वटी ॥ * ॥
“पिप्पली मरिचं ताम्र-काञ्चनीचूर्णसंयुतम् ।
स्नुहीक्षीरे दिनं मर्द्यं तुल्यं जैपालवीजकम् ॥
निष्कं खादेत् विरेकाय सद्यो हन्ति जलोदरम् ।
रेचनानाञ्च सर्व्वेषां दध्यन्नं स्तम्भने हितम् ।
दिनान्ते च प्रदातव्यमन्यद्वा मुद्गयूषकम्” ॥
इति जलोदरीरसः ॥ * ॥
“पारदं शुक्तितुत्थञ्च जैपालं पिप्पलीसमम् ।
आरम्बधफलान्मज्जां वज्रीदुग्धेन मर्द्दयेत् ।
माषमात्रं वटीं खादेत् स्त्रीणां हन्ति जलोदरम् ॥
चिञ्चाफलरसञ्चानु पथ्यं दध्योदनं हितम् ।
दकोदरहरञ्चैव कठिने रेचनेन च” ॥
इति उदरारिरसः ॥ * ॥
“द्विकर्षं लौहचूर्णस्य चाभ्रञ्चापि पलार्द्धकम् ।
कर्षं शुद्धं मृतं ताम्रं लिम्पाकाङ्घ्रित्वचां पलम् ॥
मृगाजिनपलं भस्म सर्व्वमेकत्र कारयेत् ।
नवगुञ्जाप्रमाणेन वटिकां कारयेद्भिषक् ॥
यकृत्प्लीहोदरहरं कामलाञ्च हलीमकम् ।
कासं श्वासं ज्वरं हन्याद्बलवर्णाग्निकारकम् ।
यकृदरि त्विदं लौहं वातगुल्मविनाशनम्” ॥
इति यकृदरिलौहम् ॥ * ॥
इति वैद्यकरसेन्द्रसारसंग्रहे ॥
पथ्यानि यथा, --
“विरेचनं लङ्घनमब्दसम्भवाः
कुलत्थमुद्गारुणशालयो यवाः ।
मृगद्विजाजाङ्गलसंज्ञयान्विताः
पेयाः सुरामाक्षिकसीधुमाधवाः ॥
तक्ररसोनोरुवुतैलमार्द्रकम्
शालिञ्च शाकं कुलकं कठिल्लकम् ।
पुनर्नवा शिग्रुफलं हरीतकी
ताम्बूलमेलायवशूकमायसम् ॥
अजा-गवोष्ट्री-महिषी-पयोजलं
लघूनि तिक्तानि च दीपनान्यपि ।
वस्त्रेण संवेष्टनमग्निकर्म्मता
विषप्रयोगोऽनुयुतो यथायथम्” ॥ * ॥
अपथ्यानि यथा ॥
“सस्नेहनं धूमपानं जलपानं शिराव्यधः ।
छर्द्दिर्यानं दिवानिद्रा व्यायामः पिष्टवैकृतम् ॥
औदकानूपमांसानि पत्रशाकांस्तिलानपि ।
उष्णानि च विदाहीनि लवणान्यशनानि च ॥
शिम्बीधान्यं विरुद्धान्नं दुष्टनीरं गुरूणि च ।
महेन्द्रगिरिजातानां सरितां सलिलानि च ॥
विष्टम्भीनि विशेषात्तु स्वेदं छिद्रसमुद्भवे ।
वर्ज्जयेदुदरव्याधौ वैद्यो रक्षन्निजं यशः” ॥
इति वैद्यकपथ्यापथ्यविधिः ॥ * ॥)

उदरामयः, पुं, (उदरस्य आमयः ।) रोगविशेषः ।

तत्पर्य्यायः । अन्नगन्धिः २ अतिसारः ३ । इति
त्रिकाण्डशेषः ॥ (अस्योपशमलक्षणं चिकित्सास्थाने
नवमाध्याये वाभटेनोक्तम् । यथा,
“यस्योच्चाराद्विना मूत्रं पवनो वा प्रवर्त्तते ।
दीप्ताग्नेर्लघुकोष्ठस्य शान्तस्तस्योदरामयः” ॥)

उदरावर्त्तः, पुं, (उदरे आवर्त्त इव ।) नामिः । इति

राजनिर्घण्टः ॥

उदरिणी, स्त्री, (उदरं तज्जातगर्भेऽस्या अस्तीति ।

उदर + इनि + ङीप् ।) गर्भवती । इति हेमचन्द्रः ।
(उदरमस्या अस्तीति वाक्ये । वृहदुदरयुक्ता ।
“लम्बस्तनीमुदरिणीं विदीर्णोत्फुल्लपादकाम् ।
धात्रा वैरूप्यनिर्म्माणवैदग्धीं दर्शितामिव” ॥
इति कथासरित्सागरे विंशतरङ्गे ॥)

उदरिलः, त्रि, (अतिशयितमुदरमस्य । उदर +

तुन्दादिभ्यः इलच्चेति इलच् ।) वृहदुदरयुक्तः ।
भुँडिया इति भाषा । तत्पर्य्यायः पिचिण्डिलः २
वृहत्कुक्षिः ३ तुन्दिः ४ तुन्दिकः ५ तुन्दिलः ६
उदरी ७ । इति हेमचन्द्रः ॥

उदरी, [न्] त्रि, (अतिशयितमुदरमस्य । उदर +

इनि ।) उदरिलः । इति हेमचन्द्रः ॥ (उदररोग-
ग्रस्तः । यथा सुश्रुते चिकित्सितस्थाने १४ अध्याये ।
“उदरी तु गुर्व्वभिष्यन्दिरूक्षविदाहिस्निग्धपि-
शितपरिषेकावगाहान् परिहरेत् । शालिषष्टि-
कयवगोधूमनीवारान्नित्यमश्नीयात्” ॥)

उदर्कः, पुं, (उत् + ऋच् + घञ् ।) उत्तरकालोद्भव-

फलम् । इत्यमरः ॥ भविष्यत्कालः । इति धरणी ॥
(“परित्यजेदर्थकामौ यौ स्यातां धर्म्मवर्ज्जितौ ।
धर्म्मञ्चाप्यसुखोदर्कं शोकविक्रुष्टमेव च” ॥
इति मनुः ४ । १७६ ॥
“उदर्कस्तव कल्याणि ! तुष्टो देवगणश्वरः” ॥
इति महाभारते पाण्डवोत्पत्तौ । १ । १२३ । २९ ॥)
मदनकण्टकम् । इति मेदिनी । मयना गाछेर
काँटा इति भाषा ॥

उदर्च्चिः, [स] त्रि, (उद्गतं अर्च्चिः प्रभा यस्मात् ।)

उत्प्रभः । इति मेदिनी । (यथा रघौ १५ । ७६ ।
“ऋचेवोदर्च्चिषं सूर्य्यं रामं मुनिरुपस्थितः” ॥
“प्रदक्षिणप्रक्रमणात् कृशानो-
रुदर्च्चिषस्तन्मिथुनं चकाशे” ।
इति रघुवंशे ७ । २४ । तथा, कुमारे ३ । ७१ ।
“स्फुरन्नुदर्च्चिः सहसा तृतीया-
दक्ष्णः कृशानुः किल सम्पपात” ॥)

उदर्च्चिः, [स्], पुं, (उदूर्द्ध्वं गतं अर्च्चिर्यस्य ।) अग्निः ।

इति मेदिनी ॥
“प्रक्षिप्योदर्च्चिषं कक्ष शेरते तेऽभिमारुतम्” ॥
इति माघे २ । ४२ ॥ हरिः ।) शिवः । कन्दर्पः ।
इति शब्दरत्नावली ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/उ&oldid=321531" इत्यस्माद् प्रतिप्राप्तम्