शब्दकल्पद्रुमः/आवर्त्तनी

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ १/१९३

आवर्त्तनी, स्त्री, (आङ् + वृत् + ल्युट् + ङीप् ।)

धातुद्रव्यद्रावणार्थमृत्पात्रं । मुछी इति भाषा ।
तत्पर्य्यायः । तैजसावर्त्तनी २ मूषा ३ मूषः ४ ।
इति शब्दरत्नावली ॥

आवर्त्तनमणिः, पुं, (आवर्त्तनाकारो मणिः ।) राजा-

वर्त्तनामोपरत्नं । इति राजनिर्घण्टः ॥

आवर्त्तिनी, स्त्री, (आवर्त्त + इनि + ङीप् ।) अज-

शृङ्गीवृक्षः । इति रत्नमाला ॥

आवर्हितः, त्रि, (आङ् + वृह् + क्तः ।) उन्मूलितः ।

उत्पाटितः । इति हेमचन्द्रः ।

आवलिः, स्त्री, (आङ् + बल + इन् ।) श्रेणी । पंक्तिः ।

इत्यमरः ॥

आवली, स्त्री, (आङ् + बल् + इन् + ङीप् ।) आ-

बलिः । इत्यमरः ॥ (यथा अमरुशतके ३ ॥ “आ-
लोलामलकावलीं विलुलितां बिभ्रच्चलत्कुण्डलं” ।
“द्विजावलीव्याजनिशाकरांशुभिः” । इति माघे
१ । २५ ।)

आबल्यं, क्ली, (अवल + ष्यञ् ।) अबलस्य भावः

दौर्बल्यं ॥

आवश्यकं, त्रि, (अवश्य + मनोज्ञादित्वाद्वुञ् । अव्य-

यानां भमात्र इति टिलोपः ।) अवश्यकर्त्तव्यं ।
नैश्चयिकं । उचितं । यथा । “घ्यणोरावश्यके ।
उवर्णान्तादावश्यकेऽर्थे घ्यण् स्यात्” । इति मुग्ध-
बोधव्याकरणं ॥ किञ्च । आवश्यकपर्ब्बादिक्रियमा-
णस्य नित्यनैमित्तिकत्वं । इति तिथ्यादितत्त्वं ॥
(यथा साहित्यदर्पणे, । “आवश्यकानां कार्य्याणां
अविरोधाद्विनिर्म्मितः” ।)

आवसथं, क्ली, (आवसन्ति आगत्य वसन्ति अस्मिन् ।

आङ् + वस + अथच् ।) गृहं । इति हेमचन्द्रः ॥
(वसतिस्थानं । विश्रामस्थानं । अग्निगृहं । अग्नि-
होत्रस्थानं ।
रघुवंशे, ८ । १४ “निवसन्नावसथे पुराद्वहिः” ।
मनुः । ३ । १०७ ।
“आसनावसथौ शय्यामनुव्रज्यामुपासनाम्” ।)

आवसथः, पुं, (आवसन्त्यत्र । आ + वस + अधि-

करणे अथच् ।) गृहं । (यथा, हितोपदेशे मित्र-
लाभे “अस्ति चम्पकाभिधानायां नगर्य्यां परि-
ब्राजकावसथः” ।) आर्य्याकोषः । आर्य्याच्छन्दसो
ग्रन्थभेदः । व्रतविशेषः । इत्युणादिकोषः ॥

आवसितं, त्रि, (आवस्यते आच्छाद्यते आङ् + वस्

आच्छादने + क्तः ।) परिपक्वमर्द्दितधान्यं । इति
भरतः ॥ बहुलितधान्यं । इति सुभूतिः ॥ सम्पन्न-
धान्यं । इत्यन्ये ॥ तत्पर्य्यायः ऋद्धं २ । इत्यमरः ॥

आवहः, पुं, (आभिमुख्येन वहतीति । आङ् + वह् +

अच् ।) सप्तवाय्वन्तर्गतवायुविशेषः । स च
भूवायुः । इति पुराणज्योतिषे ॥
(यथा, मनुः, ८ । ३४७ ।
“द्वौ शुक्लज्योतिरादित्यौ नन्दो हरिस्तपास्तथा ।
चित्रज्योतिः सत्यज्योतिर्ज्योतिष्मान् स्कन्ध आ-
वहः” ॥ इति प्रापकः । जनकः । यथा मनुः, --
“समुत्सृजेत्साहसिकान् सर्व्वभूतभयावहान्” ।
रघुवंशे । १४ । ५, “क्लेशावहा भर्त्तुरलक्षणाहं” ।)

आवहमानं, त्रि, (आङ् + वह् + शानच् ।) क्रमा-

गतं ॥ (परम्परागतं, धारावाहि ।)

आवाधा, स्त्री, (आ सम्यक् वाधा ।) दुःखं । पीडा ।

इति शब्दरत्नावली । भूखण्डं । त्रिकोणक्षेत्रमध्य-
रज्जुनिक्षेपेण यत् खण्डद्वयं जायते तत् । इति
लीलावती ॥

आवापः, पुं, (आ वपन्ति सलिलमत्र । आङ् + वप् +

घञ् ।) आलवालं । इत्यमरः ॥ वलयः । (यथा
महाभारते १४ पर्ब्बणि ।
“मोहात् पपात गाण्डीवमावापं च करादपि” ।)
शत्रुचिन्तनं । (परराष्ट्रचिन्तनम् । यथा, माघे ।
२८८ ।)
“तन्त्रावापविदा योगैर्मण्डलान्यधितिष्ठता” ।)
पानभेदः । इति हेमचन्द्रः ॥ भाण्डवपनं । परिक्षेपः ।
इति मेदिनी ॥ निम्नोन्नतभूमिः । इत्यजयः ॥ पात्रं ।
इति शब्दरत्नावली ॥ प्रधानहोमः । इति स्मृतिः ॥

आवापकः, पुं, (आ उप्यते इति । आङ् + वप् +

कर्म्मणि घञ् + संज्ञायां कन् वा ।) वलयः ।
इत्यमरः ॥

आवापनं, क्ली, (आवाप्यतेऽनेनेति आङ् + वप् +

णिच् + करणेल्युट् ।) सूत्रयन्त्रं । इति शब्दमाला ॥
ताँत् इति भाषा ।

आवारि, क्ली, (आङ् + वृ + इ ।) हट्टवेश्म । इत्यु-

णादिकोषः ॥ दोकान हाट्चालि इत्यादि भाषा ।

आवालं, क्ली, (आङ् + वल् + घञ् ।) आलवालं ।

इत्यमरः ॥ (वालकमभिव्याप्य इत्यर्थे ।) वालक-
पर्य्यन्तम् ॥

आवाल्यं, क्ली, (वाल्यात् आ आवाल्यं पर्य्यन्तार्थे-

ऽव्ययीभाबः ।) वाल्यावस्थापर्य्यन्तं ॥ (यथा धर्म्म-
विवेके, -- “आवाल्यादसती सती सुरपुरीं कुन्ती
समारोहयत्” ।)

आवासः, पुं, (आ बसन्ति अत्र इति । आङ् + वस् +

अधिकरणे घञ् ।) गृहं इति हेमचन्द्रः ॥ (यथा
गीतगोविन्दे । ४ । १० ।
“आवासो विपिनायते प्रियसखीमालापि जा-
लायते” ।)

आवाहनं, क्ली, (आङ् + वह + णिच् + ल्युट् ।) आ-

ह्वानं । निमन्त्रणं । यथा, --
“प्रतिमास्थानेष्वप्स्वग्नौ नावाहनविसर्ज्जने” ।
इति । विनायकादीनां व्याहृतिभिरावाहनमाह
मत्स्यपुराणं ।
“विनायकं तथा दुर्गां वायुमाकाशमेव च ।
आवाहयेद्व्याहृतिभिस्तथैवाश्विकुमारकौ” ॥
इति च तिथ्यादितत्त्वं ॥ आवाहनीमुव्रा मुद्राशव्दे
द्रष्टव्या ॥

आवाहनी, स्त्री, (आवाह्यतेऽनया । आङ् + वह् +

णिच् + करणे ल्युट् ङीप् ।) भुद्राविशेषः । यथा,
“हस्ताभ्यामञ्जलिं बद्ध्वानामिकामूलपर्ब्बणोः ।
अङ्गुष्ठौ निःक्षिपेत् सेयं मुद्रा त्वावाहनी स्मृता” ॥
इति तन्त्रशास्त्रं ॥

आविः, [स्] व्य, (अवते । उङ्शब्दे + इर् ।) प्राका-

श्यम् । प्रस्फुटत्वं । तत्पर्य्यायः । प्राटुः २ । इत्यमरः ॥

आविकः, पु, (अविना मेषलोम्ना कृतम् इति अवि

+ ठक् ।) कम्वलं । इति हलायुधः ॥ (त्रि, मेष-
लोम्ना निर्म्मितं, । २ । ४१
“वसोरन्नानुपूर्ब्येण शाणक्षौमाविकानि च” ।
भेडीदुग्धं । यथा वैद्यके, --
“आविकं लवणं स्वादु स्निग्धोष्णं चाश्मरीप्रणुत् ।
अहृद्यं तर्पणं केश्यं शुक्रपित्तकफप्रदम् ॥
गुरु कासेऽनिलोद्भूते केवले चानिले वरम्” ।
इति ।)

आविग्नः, पुं, (आङ् + विज् + क्तः ।) अविग्नः । कर-

मर्द्दकः । इति शब्दरत्नावली ॥ पाणि आमला
इति ख्यातः । इत्यमरटीकासारसुन्दरी ॥ (उद्विग्नः
उत्कण्ठितः ।)

आविर्भावः, पुं, (आविस् + भू + घञ् ।) प्रकाशः ।

देवावतरणं । प्रादुर्भावः । यथा, --
“तदा मे मनसा ध्यातो दयासिन्धुर्जनार्दनः ।
भक्तानामनुकम्पार्थं यश्चाविर्भावमिच्छति” ॥
इति जैमिनिभारते आश्वमेधिके पर्ब्बणि २ अ-
ध्यायः ॥

आविर्भूतः, त्रि, (आविस् + भू + क्त ।) प्रकाशितः ।

अधिष्ठितः । जन्मयुक्तः । अवतीर्णः । प्रादुर्भूतः ।
आविर्भावविशिष्टः । यथा, --
“उच्चस्थे ग्रहपञ्चके सुरगुरौ सेन्दौ नवम्यां तिथौ ।
लग्ने कर्कटके पुनर्व्वसुदिने मेषं गते पूषणि ।
निर्दग्धुं निखिलाः पलाशसमिधो मध्यादयोध्यारणे-
राविर्भूतमभूदपूर्ब्बविभवं यत्किञ्चिदेकं महः” ॥
“तत्राष्टम्यां भद्रकाली दक्षयज्ञविनाशिनी ।
आविर्भूता महाघोरा योगिनीकोटिभिः सह” ॥
इति च तिथ्यादितत्त्वम् ॥

आविष्कारः, पुं, (आविस् + कृ + घञ् ।) प्रकाशः ॥

(यथा साहित्यदर्पणे, २ परिच्छेदे ।
“आविष्कारातिशयञ्चाभिधेयवत् स्फुटंप्रतीयते” ।)

आविष्कृतः, त्रि, (आविस् + कृ + क्तः ।) प्रका-

शितः । तत्पर्य्यायः । प्रकटितः २ । इति हेम-
चन्द्रः । (यथा उत्तरचरिते, षष्ठाङ्के । “आविष्कृतं
कथाप्रावीण्यं वत्सेन” ।)

आविष्टः, त्रि, (आ + विश + क्तः ।) प्रेतवाहितः ।

भूतादिग्रस्तः । इति त्रिकाण्डशेषः ॥ आवेशयुक्तः ।
निविष्टः ॥ (उपहतः । यथा कामन्दकः,
“आविष्टैव दुःखेन हृद्गतेन गरीयसा” ।)

आवीरचूर्णं, क्ली, (आवीरमेव चूर्णम् ।) फल्गु ।

फागु इति वङ्गभाषा । आवीर इति हिन्दीभाषा ।
यथा, --
“चन्दनागुरुकस्तूरीकुङ्कुमद्रवसंयुतं ।
आवीरचूर्णं रुचिरं गृह्यतां परमेश्वर” ॥
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८ अध्यायः ॥

आवुकः, पुं, (अवति रक्षतीति । अव + बाहुलका-

दुण् + कन् ।) नाट्योक्तौ पिता । इत्यमरः ॥

आवृत्, स्त्री, (आङ् + वृत् + क्विप् ।) अनुक्रमः ।

परिपाटी । इत्यमरः ॥ (प्रकारः । जातकर्म्मादि-
क्रियाकलापः । यथा मनुः, ३ । २४८ । २ । ६६ ।
“अनयैवावृता कार्य्यं पिण्डनिर्वपणं सुतैः” ।
पृष्ठ १/१९४
:“अमन्त्रिका तु कार्य्ययं स्त्रीणामावृदशेषतः” ॥)

आवृतः, त्रि, (आङ् + वृ + क्तः ।) कृतावरणः ।

तत्पर्य्यायः । वेष्टितम् २ वलयितम् ३ संवीतम् ४
रुद्धम् ५ । इत्यमरः ॥ (आच्छादितं, प्रावृतं,
आकीर्णं । वर्णभेदः, स च ब्राह्मणादुग्रजातीयायां
जातः ।)

आवृत्तः, त्रि, (आङ् + वृत् + क्तः ।) कृतावरणः ।

आवृतः । इत्यमरटीका ॥ (अभ्यस्तः, क्रमवैप-
रीत्येन स्थापितः, प्रतिनिवृत्तः, पलायितः, उद्व-
र्त्तितः, परिवर्त्तितः । यथा उत्तरचरिते,
“स कृत्स्न एव सन्दर्भोऽस्माकमावृत्तः” ।)

आवेगः, पुं, (आङ् + विज् + घञ् ।) त्वरा । इति

हेमचन्द्रः ॥ (यथा दशरूपके, --
“आवेगः सम्भमोऽस्मिन्नभिसरजनिते शस्त्रना-
गादियोगो वातात् पांशूपदिग्धस्त्वरितपदगति-
र्वर्षजे पिण्डिताङ्गः” । यथा अमरुशतके ८, ३ ।
“आवेगादवधीरितः प्रियतमस्तूष्णींस्थितस्तत्-
क्षणात्” ।)

आवेगी, स्त्री, (आङ् + विज् + घञ् + ङीप् ।) वृद्ध-

दारकवृक्षः । इत्यमरः राजनिर्घण्टश्च ।
(अस्या गुणादयो वृद्धदारकशब्दे द्रष्टव्याः ॥)

आवेदनं, क्ली, (आङ् + विद् + ल्युट् ।) निवेदनं ।

(विज्ञापनम् ।)

आवेशः, पुं, (आङ् + विश् + घञ् ।) अहङ्कार-

विशेषः । तत्पर्य्यायः । संरम्भः २ आटोपः ३ ।
अपस्माररोगः । इति हेमचन्द्रः ॥ भूतादिना
रोगः । तत्पर्य्यायः । भूतसञ्चारः २ भूतक्रान्तिः ३
ग्रहामयः ४ । इति राजनिर्घण्टः ॥ आसक्तिः ।
अभिनिवेशः ॥ (यथा रघुवंशे, ५ । १९ ।
“तस्मै स्मयावेशविवर्ज्जिताय” ।)

आवेशनं, क्ली, (आविश्यतेऽस्मिन् । आङ् + विश् +

ल्युट् ।) शिल्पशाला । इत्यमरः ॥ (मनुः, ९ । २६५ ।
“जीर्णोद्यानान्यरण्यानि कारुकावेशनानि च” ।
(भावे ल्युट् ।) भूतावेशः । (यथा, साहित्यदर्पणे
३ परिच्छेदे ।
“मनःक्षेपस्त्वपस्मारो ग्रहाद्यावेशनादिजः” ।)
प्रवेशः । इति मेदिनी ॥ कोपः । इति धरणी ॥
परिवेशः । इति हेमचन्द्रः ॥

आवेशिकः, त्रि, (आवेशं संरम्भं प्राप्तः । आवेश +

ठञ् ।) आगन्तुः । अतिथिः । इत्यमरः ॥ स्वीयं ।
असाधारणं । तत्पर्य्यायः । अन्यासाधारणं २
प्रातिष्ठितं ३ । इति त्रिकाण्डशेषः ॥

आवेष्टकः, पुं, (आङ् + वेष्ट + ण्वुल् ।) प्राचीरादिः ।

इति हलायुधः ॥ पाँचिल वेडा इत्यादि भाषा ॥

आवोधनं, क्ली, (आङ् + वध् + ल्युट् ।) ज्ञानम् ।

बुद्धिः ॥

आशंसा, स्त्री, (आङ् + शन्स + अङ् + टाप् ।)

इच्छा । आकाङ्क्षा । इति हेमचन्द्रः ॥
(रघवंशे, १२ । ४४ ।
“निदधे विजयाशंसां चापे सीताञ्च लक्षणे” ।)

आशंसिता, [ऋ] त्रि, (आङ् + शन्स + तृच् ।)

आशंसाकर्त्ता ॥ आकाङ्क्षाशीलः । इत्यमरः ॥

आशंसुः, त्रि, (आङ् + शन्स + उ ।) आशंसिता ।

इच्छुः ॥ इत्यमरः ॥

आशक्तः, त्रि, (आङ् + शक् + क्तः ।) सम्यक्शक्ति-

विशिष्टः ॥

आशङ्का, स्त्री, (आङ् + शकि + अ + टाप् ।) भयं ।

त्रासः । इति हेमचन्द्रः ॥ (संशयः, वितर्कः ।)
शाकुन्तले, प्रथमाङ्के ।
“नष्टाशङ्का हरिणशिशवो मन्दमन्दं चरन्ति” ।
कथासरित्सागरे, १४ तरङ्गे ।
“तत् श्रुत्वा विगताशङ्कस्तामकारणदूषिताम्” ।)

आशनः, पुं, (अशन + स्वार्थे अण् ।) अशनवृक्षः ।

इति भरतः द्विरूपकोषश्च ॥

आशयः, पुं, (आङ् + शीङ् + अच् ।) अभिप्रायः ।

पनसवृक्षः । आधारः । इति विश्वमेदिन्यौ ॥
विभवः । किम्पचानः । चेतः । अजीर्णं । कोष्ठा-
गारं । इत्यजयपालः । धर्म्माधर्म्मौ । अदृष्टं । इति
कुसुमाञ्जलिः ॥ (अभिप्रायार्थे यथा, कथासरित्-
सागरे, १२ तरङ्गे ।
“तच्चालोक्याशयं बुद्ध्वा तस्य सोऽपि वसन्तकः” ।
चित्तार्थे यथा, भगवद्गीतायां, १० । २० ।
“अहमात्मा गुडाकेश सर्व्वभूताशये स्थितः” ।
“आशयाः सप्त” । “आशयास्तु वाताशयः पित्ता-
शयः श्लेष्माशयो रक्ताशय आमाशयः पक्वाशयो
मूत्राशयः स्त्रीणां गर्भाशयोऽष्टम” इति । सुश्रुतः ॥)

आशयाशः, पुं, (आशेरतेऽत्रेत्याशयः । एरच् ।

आधारः । तमश्नाति । कर्म्मण्यण् ।) आश्रयाशः ।
अग्निः । इत्यमरटीकायां स्वामी ॥

आशरः, पुं, (आ शृणाति शॄ हिंसायां + पचाद्यच् ।)

अग्निः । राक्षसः । इति मेदिनी ॥

आशा, स्त्री, (आ समन्तात् अश्नुते व्याप्नोतीति ।

आङ् + अशू + पचाद्यच् + टाप् ।) दीर्घाकाङ्क्षा ।
आयता तृष्णा । (यथा, शान्तिशतके, ४ । २६ ।
“आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला” ।
दिक् । इत्यमरः ।
वासवाशामुखे भाति इन्दुश्चन्दनविन्दुवत्” ॥
इति साहित्यदर्पणे १० परिच्छेदे । स्वनामख्याता
दक्षप्रजापतिकन्या । यथा, हरिवंशे, --
“श्रीर्ह्रोर्धृतिस्तथा कीर्त्तिराशा मेधा च सुव्रता” ।)

आशाढः, पुं, आषाढमासः । व्रतिनां पलाशदण्डः ।

इत्यमरटीका द्विरूपकोषश्च ॥

आशाढा, स्त्री, पूर्ब्बाषाढानहत्रं । उत्तराषाढा च ॥

आशापुरसम्भवः, पुं, (आशापुरात् सम्भवो यस्य ।)

भूमिजगुग्गुलुः । इति राजनिर्घण्टः ॥

आशाबन्धः, पुं, (आशाया बन्धः । षष्ठीतत् ।) समा-

श्वासः । (मेघदूते, --
“आशाबन्धः कुसुमसदृशं प्रायशीह्यङ्गनानां ।
सद्यः पाति प्रणयि हृदयं विप्रयोगे रुणद्धि” ॥)
प्रत्याशा । मर्कटजालकं । माकडसार जाल इति
भाषा । इति मेदिनी ॥

आशितं, त्रि, (आङ् + अश् + क्तः ।) अशितं । भुक्तं

इति जटाधरः ॥

आशितङ्गवीनं, त्रि, (आशिता भोजिता गावो यत्र

अषडक्षाशितङ्ग्वलमिति खः । निपातनात्
पूर्ब्बस्य मुम् ।) अशिताङ्गवीनं । गावो यत्राशिताः
पुरा । इत्यमरः ॥ (यथा भट्टिकाव्ये ४ र्थ सर्गे ।
“हित्वाशीतङ्गवीनानि फलैर्यत्राशितम्भवम्” ।)
पूर्ब्बे ये स्थाने गरु चरियाच्छेइति भाषा ।

आशितम्भवं, क्ली, (आशित + भू + खच् + मुमा-

गमः ।) अन्नादि । तृप्तौ पुं । इति मेदिनी ॥ (यावता
अन्नेन अतिथ्यादिः भोजितः तृप्तोभवति तावत्
अन्नादिकम् । यथा, भट्टिकाव्ये ४ र्थ सर्गे, --
“हित्वाशिताङ्गवीनानि फलैर्यत्राशितम्भवम्” ।)

आशिता [ऋ] त्रि, (आ अश्नातीति । आ + अश् +

तृच् ।) बहुभोजनशीलः । अतिशयभोक्ता । इति
हेमचन्द्रः ॥

आशिरः, पुं, (आ + अश + किरच् ।) राक्षसः ।

अग्निः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥
(सूर्य्यः ।)

आशीः, [स्] स्त्री, (आङ् + शास् + क्विप् + उप-

धाया इत्वम्) आशीर्व्वादः । सर्पदन्तः । इत्यमरः ॥
वृद्धिनामौषधिः । इति राजनिर्घण्टः ॥ (हित-
प्रार्थनं, अभीष्टवृद्धिप्रार्थनं । यदुक्तं, --
“वात्सल्यात् यत्र मान्येन कनिष्ठस्याभिधीयते ।
इष्टावधारकं वाक्यमाशीः सा परिकीर्त्तिता” ॥
यथा, कुमारे ७ । ४७ ।
“तस्मै जयाशीः ससृजे पुरस्तात्” ।)

आशी, स्त्री, (आङ् + अश् + अच् + ङीप् ।) हिता-

शंसनं । अहिदन्तः । सर्पविषं । इति शब्दरत्ना-
वली ॥
“आशी तालुगता दंष्ट्रा तया दष्टो न जीवति” । इति विषविद्या ॥

आशीर्व्वादः, पुं, (आशिषो वारः षष्ठीतत् ।) आशीर्व-

चनं । मङ्गलप्रार्थना ॥ (यथा, मनुः । २ । ३३ ।
“मङ्गल्यं दीर्घवर्णान्तमाशीर्व्वादाभिधानवत्” ।)

आशीविषः, पुं, (आशिषि दंष्ट्रायां विषमस्य सः

पृषोदरादित्वात् साधुः ।) सर्पः । इत्यमरः ॥
रघुवंशे, -- ३ । ५७ ।
“गरुत्मदाशीविषभीमदर्शनैः” ।

आश्रुः, पुं, क्ली, (अशू + उण् ।) प्रावृट्कालसमुद्भव-

धान्यं । आउश इति भाषा । तत्पर्य्यायः । प्रीहिः
२ पाटलः ३ । अस्य गुणाः । मधुरत्वम् । पाके
अम्लत्वम् । पित्तकारित्वम् । गुरुत्वञ्च । इति
राजवल्लभः ॥

आश्रु, क्ली, (अश्नुते इति । अशूङ् व्याप्तौ उण् ।)

शीघ्रम् । द्रुतम् । (यथा शाकुन्तले १ अङ्के ।
(“तदाशु कृतसन्धानं प्रतिसंहर सायकम्” ।)
सत्त्वगामि चेत् त्रि । इत्यमरः ॥

आशुगः, पुं, (आशु शीघ्रं गच्छतोति । आशु + गम्

+ ड ।) वायुः । बाणः । (रघुवंशे, १२ । ९१ ।
“रावणस्यापि रामास्तो भित्वा हृदयमाशुगः” ।)
शीघ्रगामिनि, त्रि । इत्यमरः ॥ मनुः ४ । ६८ ।
(“विनीतैस्तु व्रजेन्नित्यमाशुगैर्लक्षणान्वितैः” ।)

आशुपत्री, स्त्री, शल्लकीलता । इति रत्नमाला ॥

आशुव्रीहिः, पुं, (आशुः ब्रीहिः ।) आशुधान्यं । इत्य-

मरटीकायां भरतमुकुटौ ॥
पृष्ठ १/१९५

आशुशुक्षणिः, पुं, (आ समन्तात् शोष्टुमिच्छति ।

आङ् + शुष् + सन् + अनि ।) अग्निः । इत्यमरः ॥
(यथा कादम्बर्य्यां, -- “मन्त्रपूतानि हवींषि प्रति-
गृह्णाति एतत्प्रीत्या आशुशुक्षणिः” ।) वायुः ।
इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

आशेकुटी, [न्] पुं, पर्ब्बतः । इति शब्दमाला ॥

आश्चर्य्यं, क्ली, (आङ् + चर् + ण्यत् + सुट् निपा-

तनात् ।) अपूर्ब्बं । तत्पर्य्यायः । विस्मयः २ अद्भुतं
३ चित्रं ४ । इत्यमरः ॥ (यथा, रघौ १६ । ८७ ।
“गन्धोदग्रं तदनु ववृषुः पुष्पमाश्चर्य्यमेघाः” ।)

आश्मनः, पुं, (आश्मन् + अञ् ।) अरुणः । सूर्य्य-

सारथिः । इति त्रिकाण्डशेषः ॥ (अश्मनि प्रस्तरे
भवमित्यर्थे अश्मन् + अण् । शिलाभववस्तुनि
त्रि । यथा भट्टौ ४ । २६ ।
“यश्चापमाश्मनप्रख्यं सेषुं धत्तेऽन्यदुर्व्वहम्” ।)

आश्रमः, पुं, क्ली, (आङ् + श्रम + घञ् ।) शास्त्रोक्त-

धर्म्मविशेषः । आश्राम्यन्ति स्वं स्वं तपश्चरन्त्यत्र ।
स चतुर्विधः । ब्रह्मचर्य्यं १ गार्हस्थ्यं २ वानप्रस्थ्यं
३ सन्न्यासः ४ । इति स्मृतिः ॥ ब्रह्मचारी । गृही ।
वानप्रस्थः । भिक्षुः । इत्यमरः ॥ मुनीनां वास-
स्थानं । वनं । मठः । इति मेदिनी ॥ (कलियुगे
तु ब्रह्मचर्य्यवानप्रस्थौ न स्तः केवलं गृहस्थभिक्षुका-
श्रमावेव, यदुक्तं । महानिर्व्वाणतन्त्रे ।
“गार्हस्थो भैक्षुकश्चैव आश्रमौ द्वौ कलौ युगे” ।
रघुवंशे, १ । ४८ ।
“स दुष्प्रापयशाः प्रापदाश्रमं श्रान्तवाहनः” ।)

आश्रमिकः, त्रि, (आश्रम + ठक् ।) आश्रमयुक्तः ।

इति शब्दरत्नावली ॥

आश्रयः, पुं, (आङ् + श्रि + अच् ।) राज्ञां सन्ध्या-

दिषड्गुणान्तर्गतगुणविशेषः । इत्यमरः ॥ व्यप-
देशः । (यथा, मनुः २ । ११ ।
“योवमन्येत ते मूले हेतुशास्त्राश्रयाद्द्विजः” ।
सामीप्यः । आधारः । इति जटाधरः ॥ (यथा,
शान्तिशतके ४ । ६ । “वासो वल्कलमाश्रयो गिरि-
गुहा शय्या लतावल्लरी” ।)
गृहं । इति हेमचन्द्रः ॥ संश्रयणं । अवलम्बनं ।
(यथा, मनुः ७ । ७२ ।
“त्रीण्याद्यान्याश्रितास्त्वेषां मृगगर्त्ताश्रयाप्सराः” ।)
राज्ञां तन्निर्णयो यथा, --
“अस्थितौ यदि कल्याणं भवेत् संश्रयणं तथा ।
भवति श्रेयसे राज्ञां विपरीतं न कर्हिचित् ॥
उच्छिद्यमानो बलिना आश्रयेत् बलवत्तरं ।
विनीतवत्तत्र कालं नयेदिति मतिर्ध्रुवा ॥
ददत् बलं वा कोषं वा भूमिं वा भूतिसम्भवां ।
आश्रयेदभियोक्तारं समाश्रयगुणान्वितं ॥
वीतव्यसनमश्रान्तं महोत्साहं महामतिं ।
प्रविशन्ति महाराजमपांपतिमिवापगाः ॥
अव्यवसायिनमलसं दैवपरं साहसाच्च परिहीनं ।
प्रमदेव वृद्धपतिं नेच्छन्त्युपगूहितुं कमला ॥
उत्साहात् श्रियमाप्नोति उत्साहाच्च महद्यशः ।
तस्मात् सर्व्वोपधाशुद्धमुत्साहं नित्यमाचरेत् ॥
अमर्षश्चैव शौर्य्यञ्च शीघ्रकारित्वमेव च ।
तत्कर्म्मणि प्रवीणत्वमित्युत्साहगुणा मताः ॥
व्यसनस्यागमद्वारमनुत्साहो म हीपतेः ।
सामदानदण्डभेदा इत्युपायचतुष्टयं ।
सामसिद्धं प्रशंसन्ति सर्व्वतश्च विपश्चितः ॥
स्रवन्निवामृतं वाचा सामोपायं समाचरेत् ।
लुब्धं क्षीणं प्रदानेन सत्कृत्य वशमानयेत् ।
भेदं कुर्व्वीत यत्नेन मल्लामात्यपुरोधसां ॥
यथाबलं प्रकुर्व्वीत दुष्टदण्डनिपातनं” ॥
इति युक्तिकल्पतरौ १ अध्यायः ॥

आश्रयाशः, पुं, (आश्रयमाधारमपि अश्नाति यः

आश्रय + अश् + कर्म्मणि उपपदे अण् ।) अग्निः ।
(यथा, हितोपदेशे । २ ।
“दुर्वृत्तः क्रियते धूर्त्तैः श्रीमानात्मविवृद्धये ।
किं नाम खलसंसर्गः कुरुते नाश्रयाशयत्” ।)
चित्रकवृक्षः । इत्यमरः ॥

आश्रयाशः, त्रि, (आश्रयं स्वालम्बनस्थानमपि अश्नाति

यः । आश्रय + अश् + अण् ।) आश्रयनाशकः ।
आश्रयध्वंसी । इति मेदिनी ॥

आश्रवं, त्रि, (आ सम्यक् शृणोति वाक्यं यः । आङ्

+ श्रु + पचाद्यच् ।) वचनस्थितः । इति मेदिनी ॥
कथार बाध्य इति भाषा ।
(“दृष्टदोषमपि तन्न सोऽत्यजत्
सङ्गवस्तु भिषजामनाश्रवः” ।)
इति रघुवशम् । १९ । ४९ ।)

आश्रवः, पुं, (आङ् । श्रु + अच् ।) अङ्गीकारः ।

क्लेशः । इति मेदिनी ॥ दोषः । इति हेमचन्द्रः ॥

आश्रिः, स्त्री, (अश्रिरेव । अश्रि + इञ् ।) अश्रिः ।

कोणः ॥

आश्रितः, त्रि, (आङ् + श्रि + क्तः ।) आश्रयप्राप्तः ।

शरणागतः । न्यायमते परमाण्वाकाशादिनित्य-
द्रव्यभिन्नसर्व्वद्रव्याणां आश्रितत्वं साधर्म्म्यं ॥ (अव-
लम्बितः, अनुसृतः, आधेयः, अधीनः, वशवर्त्ती ।)

आश्रुतः, त्रि, (आङ् + श्रु + क्तः ।) अङ्गीकृतः । स्वी-

कृतः । इत्यमरः ॥ आकर्णितः । कृतश्रवणः ॥

आश्लेषः, पुं, (आङ् + श्लिष् + घञ् ।) आलिङ्गनं ।

इति हलायुधः ॥ (मेघटूते, पूर्ब्बमघे ३ ।
“कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे” ।)
एकदेशसम्बन्धः । यथा । कानने रेमे । इति व्याक-
रणं ॥ (अश्लेषा एव । अश्लेषा + अण् । स्त्रियां
टाप् ।) अश्लेषा । अश्लेषानक्षत्रसम्बन्धिनि, त्रि ।
(यथा, तैत्तिरीयसंहितायां । ४ । ४ । १० । १ ।
“अश्लेषानक्षत्रं सर्पा देवताः” ।)

आश्वं, क्ली, (अश्वानां समूहः । अश्व + अण् ।) अश्व-

वृन्दं । घोटकसमूहः । इत्यमरः ॥ (अश्वस्य भावः
कर्म्म वा ।)

आश्वत्थं, क्ली, (अश्वत्थस्य इदम् । अश्वत्थ + अण् ।)

अश्वत्थवृक्षफलं । इत्यमरः ॥

आश्वपालिकः, पुं, (अश्वपालस्यापत्यम् । अश्वपाल +

ठक् ।) अश्वपालस्य पुत्त्रः । इति व्याकरणं ॥

आश्वयुजः, पुं, (आश्वयुजी पूर्णिमा विद्यतेऽस्य । आश्व-

युजी + अण् ।) आश्विनमासः । इत्यमरः ॥ आ-
श्विनसम्बन्धिनि त्रि ॥ (मनुः, ६ । १५ ।
“त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्ब्बसञ्चितम् ।
जीर्णानि चैव वासांसि शाकमूलफलानि च” ॥)

आश्वयुजी, स्त्री, (अश्वयुजा युक्ता पौर्णमासी । अश्व-

युज् + अण् + ङीप् ।) आश्विनी पूर्णिमा । इति
शब्दरत्नावली ॥

आश्वासः, पुं, (आङ् + श्वस् + घञ् ।) निर्वृतिः ।

आख्यायिकापरिच्छेदः । इति मेदिनी ॥ आशा-
प्रदानं ॥ (आश्रयदानं, भीतस्य भयनिवारणार्थं
सान्त्वनं । उत्तरचरिते, षष्ठाङ्के ।
“आश्वासस्नेहभक्तीनामेकमालम्बनं महत्” ।)

आश्विनः, पुं, (अश्विनीनक्षत्रयुक्ता पौर्णमासी यत्र

मासे सः । अश्विनी + अण् ।) वैशाखादिद्वादश-
मासान्तर्गतषष्ठमासः । रवेः कन्याराशिस्थिति-
कालः । तत्पर्य्यायः । इषः २ आश्वयुजः ३ । इत्य-
मरः ॥ शारदः ४ । इति राजनिर्घण्टः ॥ तत्र
जातफलं ।
“राज्ञां प्रियः काव्यकलाविदग्धः
स्याद्दर्भगर्भाग्रसुतीक्ष्णबुद्धिः ।
सुखी वदान्यो बहुमानशाली
भक्तो भवेदाश्विनमासजन्मा” ॥
इति कोष्ठीप्रदीपः ॥

आश्विनेयौ, पुं, (अश्विन्या अपत्ये । अश्विनी + ढक् ।)

अश्विनीकुमारौ । इत्यमरः ॥ (पाण्डुपुत्त्रौ नकुल-
सहदेवनामानौ, अश्विनीकुमारजातत्वात् तयो-
स्तथात्वम् ।)

आश्वीनं, त्रि, (अश्वेनैकाहेनातिक्रम्यते । अश्वस्यैका-

हगम इति खञ् ।) यद्वर्त्म एकेनाश्वेन एकेन
दिनेन गम्यते तत् । इत्यमरः ॥ एक घोडाय एक
दिने यावार पथ इति भाषा ।

आषाढः, पुं, (आषाढया नक्षत्रेण युक्ता पूर्णिमा

यस्मिन् । आषाढा + नक्षत्रेण युक्तः कालः इति
अण् । पलाशदण्डपक्षे आषाढः प्रयोजनमस्य
इति विशाखाषाढादण् मन्थदण्डयोरित्यण् ।)
वैशाखादिद्वादशमासान्तर्गततृतीयमासः । रवे-
र्मिथुनराशिस्थितिकालः । पूर्ब्बोत्तराषाढान्यतर-
नक्षत्रयुक्ता पौर्णमासी यत्र मासे सः । तत्पर्य्यायः ।
शुचिः २ । इत्यमरः ॥ तत्र जातफलं ।
“अनल्पजल्पी प्रमदाभिलाषी
प्रमादशीलो गुरुवत्सलश्च ।
बहुव्ययो मन्दहुताशनः स्या-
दाषाढमासप्रभवो मनुष्यः” ॥
इति कोष्ठीप्रदीपः ॥ व्रतिनां पलाशदण्डः ॥
(“अथाजिनाषाढधरः प्रभल्भवाक्
ज्वलन्निव ब्रह्ममयेन तेजसा” ।
इति कुमारे । ५ । ३० ।)
मलयपर्ब्बतः । इति मेदिनी ॥

आषाढकः, पुं, (आषाढ एव + आषाढ + स्वार्थे

क ।) आषाढमासः ॥

आषाढभवः, पुं, (आषाढ + भू + अच् ।) मङ्गल-

ग्रहः । इति हारावली ॥ आषाढमासजाते त्रि ॥

आषाढा, स्त्री, पूर्ब्बाषाढानक्षत्रं । उत्तराषाढा-

नक्षत्रं । इति शब्दरत्नावली ॥
पृष्ठ १/१९६

आषाढाभूः, पुं, (आषाढा + भू + क्विप् ।) मङ्गलग्रहः ।

इति हेमचन्द्रः ॥

आषाढी, स्त्री, (आषाढस्य इयं । आषाढ + अण् +

ङीप् ।) आषाढमासस्य पूर्णिमा । इति मेदिनी ॥

आष्ट्रं, क्ली, (अश्नुते व्याप्नोतीति अश् + ष्ट्रन् वृद्धिश्च ।)

आकाशं । इत्युणादिकोषः ॥

आस, ञि ङ ल उपवेशने । (अदा ०-आत्म ० अक ०-

सेट् ।) इति कविकल्पद्रुमः ॥ विद्यमानतायां ।
इति तट्टीका ॥
(“आसने भगवानास्तां सहैभिर्मुनिपुङ्गवैः” ।
इति रामायणे १ काण्डे) ञि आसितोऽस्ति । ल ङ
आस्ते सिंहासने नृपः । विद्यमानतायामप्ययं ।
आकाशमास्ते । इति दुर्गादासः ॥ (सम् + अधि)
सम्यगुपवेशने । व्याप्तौ । यथा रघुवंशे, १३ । ५२ ।
“वीरासनैर्ध्यानजुषागृषीणा-
ममी समध्यासितवेदिमध्याः” ।
(अनु) पश्चादुपवेशने । यथा रघौ, २ । २४ ।
“तामन्तिकन्यस्तबलिप्रदीपा-
मन्वास्य गोप्ता गृहिणीसहायः” । इति ।
उपासनायां । यथा रामायणे, --
“ततश्चीरोत्तरासङ्गः सन्ध्यामन्वास्य पश्चिमाम्” ।
इति ।
(अभि) अभ्यासे । (उत्) उपेक्षायां । यथा माघे ।
२ । ४२ ।
“विधाय वैरं सामर्षे नरोऽरौ य उदासते” ।
इति ।
(उप) समीपोववेशने । यथा मनुः, ४ । १५४ ।
“कृताञ्जलिरुपासीत गच्छतः पृष्ठतोऽन्वियात्” ।
इति ।
बद्धाञ्जलिश्च गुरुसमीपमासीत इति तट्टीका ॥
उपासनायां । यथा, --
“मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते” ।
इति गीतायां १२ । २ । सेवने । यथा, --
“उपासते ये गृहस्था ! परपाकमबुद्धयः” ।
इति मनुः ३ । १०४ । परपाकमुपासते सेवन्ते इति
तट्टीका । (निर्) निरासे । अपसारणे । (प्रति
+ सम्) प्रतिद्वन्द्वितयावस्थाने । “कोऽन्यः प्रति-
समासेत कालान्तकयमादृते” । इति भारतम् ।
इत्यादि ।)

आसः, पुं, (अस्यन्ते शरा अनेनेति । अस् + करणे

घञ् ।) धनुः । इति हेमचन्द्रः ॥

आसक्तः, त्रि, (आङ् + सञ्ज + क्तः ।) आसक्तिवि-

शिष्टः । तत्पर्य्यायः । तत्परः २ प्रसितः ३ । इत्य-
मरः ॥ (विषयान्तरपरिहारेण सर्व्वदा निविष्टः ।
यथा, किराते । ११ । ३४ ।
“असक्तास्तास्वमी मूढा वामशीला हि जन्तवः” ।)

आसक्तं, क्ली, (आङ् + सञ्ज + क्त ।) नित्यं । सततं ।

अविरतं । इति जटाधरः ॥

आसक्तिः, स्त्री, (आङ् + सञ्ज + क्तिन् ।) आनुरक्तिः ।

आसङ्गः ॥

आसङ्गं, क्ली, (आङ् + सञ्ज + अच् ।) अनवरतं ।

नित्यं । सततं । तद्युक्ते त्रि । इति जटाधरः ॥
(यथा, कुमारे । ५ । ९ ।
“ब षट्पदश्रेणिभिरेव पङ्कजं
सशैवलासङ्गमपि प्रकाशते” ।)
तुवरी । सौराष्ट्रमृत्तिका इति यावत् । इति राज-
निर्घण्टः ॥ आसक्तिः ॥ (यथा, गीतायां ४ । २० ।
“त्यक्त्वा कर्म्मफलासङ्गभित्यतृप्तो निराश्रयः” ।)

आसङ्गिनी, स्त्री, (आसङ्ग + इनि + ङीप् ।) चक्र-

वातः । वातभ्रमः । इति त्रिकाण्डशेषः ॥ घूरु-
णिया वातास इति भाषा ।

आसत्तिः, स्त्री, (आङ् + सद् + क्तिन् ।) सङ्गमः ।

लाभः । इति मेदिनी ॥ (अविच्छेदः । निरन्तरं ।
यथा, साहित्यदर्पणे २ य परिच्छेदे ।
“वाक्यं स्याद् योग्यताकाङ्क्षासत्तियक्तः पदोच्चयः” ।
आसत्तिर्बुद्व्यविच्छेदः” इति तट्टीका ।)
न्यायमते पदसन्निधानकारणं । यत्पदार्थस्य यत्प-
दार्थेनान्वयोऽपेक्षितस्तयोरव्यवधानेनोपस्थिति-
कारणं । इति सिद्धान्तमुक्तावली ॥

आसनं, क्ली, (आस्यते उपविश्यतेऽस्मिन् । आस् +

अधिकरणे + ल्युट् ।) पीठ । पिँडि चौकि इत्यादि
भाषा । हस्तिस्कन्धदेशः । यत्र महामात्रो निव-
सति । विजिगीषोर्दुर्गादीनवर्द्धयतः स्थितिः । इत्य-
मरः ॥ यात्रानिवर्त्तनं । इति मेदिनी ॥ अष्टाङ्ग-
योगस्य तृतीययोगाङ्गं । तत्तु पञ्चप्रकारकरचर-
णादिसंस्थानविशेषः । यथा, --
“पद्मासनं स्वस्तिकाख्यं भद्रं वज्रासनं तथा ।
वीरासनमिति प्रोक्तं क्रमादासनपञ्चकम्” ॥
तेषां क्रमः ।
“ऊर्व्वोरुपरि विन्यस्य सम्यक् पादतले उभे ।
अङ्गुष्ठौ च निबध्नीयात् हस्ताभ्यां व्युत्क्रमात्तथा ॥
पद्मासनमिति प्रोक्तं योगिनां हृदयङ्गमम् ॥ १ ॥
जानूर्व्वोरन्तरे सम्यक् कृत्वा पादतले उभे ।
ऋजुकायो विशेन्मन्त्री स्वस्तिकं तत् प्रचक्ष्यते ॥ २ ॥
सीमन्याः पार्श्वयोर्न्यस्येद्गुल्फयुग्मं सुनिश्चलम् ।
वृषणाधःपादपार्ष्णिं पाणिभ्यां परिबन्धयेत् ॥
भद्रासनं समुद्दिष्टं योगिभिः सारकल्पितम् ॥ ३ ॥
ऊर्व्वोः पादौ क्रमान्न्यस्येत् कृत्वा प्रत्यङ्मुखाङ्गुली ।
करौ निदध्यादाख्यातं वज्रासनमनुत्तमम् ॥ ४ ॥
एकपादमधः कृत्वा विन्यस्योरौ तथेतरम् ।
ऋजुकायो विशेन्मन्त्री वीरासनमितीरितम् ॥ ५ ॥
इति तन्त्रसारः ॥ अन्यच्च ।
“आसनानि कुलेशानि यावन्तो जीवजन्तवः ।
चतुरशीतिलक्षाणि चैकैकं समुदाहृतम् ॥
आसनेभ्यः समस्तेभ्यः साम्प्रतं द्वयमुच्यते ।
एकं सिद्धासनं नाम द्वितीयं कमलासनम्” ॥
इति निरुक्ततन्त्रम् ॥
शृङ्गारासनानि बन्धशब्दे द्रष्टव्यानि ॥
उपवेशनाधारः । पीठादि । यथा ।
श्रीभगवानुवाच ।
“उपचारान् प्रवक्ष्यामि शृण षोडश भैरव ।
यैः सम्यक् तुष्यते देवी देवोऽप्यन्यो हि भक्तितः ॥
आसनं प्रथमं दद्यात् पौष्पं दारुजमेव वा ।
वास्त्रं वा चार्म्मणं कौशं मण्डलस्योत्तरे सृजेत् ॥
पौष्पासनं यद्विहितं यस्य तद्यदि गर्भकम् ॥
निवेदयेत्तदा पद्मे विपुलं द्वारि चोत्सृजेत् ।
पौष्पं पुष्पौघरचितं कुशसूत्रादिसंयुतं ॥
अतिप्रीतिकरं देव्या ममाप्यन्यस्य भैरव ।
यज्ञदारुसमुद्भूतमासनं मसृणं शुभम् ॥
नोच्छ्रायं नातिविस्तीर्णमासनं विनियोजयेत् ॥
अन्यदारूद्भवञ्चापि दद्यादासनमुत्तमम् ॥
सकण्टकं क्षीरयुक्तं दारुसारविवर्जितम् ।
चैत्यश्मशानसंभूतं वर्जयित्वा विभीतकम् ॥
वाल्कलं कोषजं फालं वस्त्रमेतत्त्रयं मतम् ।
रोमजं कम्बलञ्चैव तदनेन चतुष्टयम् ॥
अनेन रचितं दद्यादासनं चेष्टभूतये ।
सिंहव्याघ्रतरक्षूणां छागस्य महिषस्य च ॥
गजानां तुरगाणाञ्च कृष्णसारस्य चर्म्मणः ।
सृमरस्याथ रामस्य मृगाणां नवभेदिनाम् ॥
चर्म्मभिः सर्व्वदेवानामासनं प्रीतिदं स्मृतम् ।
वास्तेषु कम्बलं शस्तमासनं देवतुष्टये ॥
राङ्कवं चार्म्मणं श्रेष्ठं दारवं चन्दनोद्भवम् ।
यच्चासनं कुशमयं तदासनमनुत्तमम् ॥
सर्व्वेषामपि देवानामृषीणाञ्च यतात्मनाम् ।
योगपीठस्य सदृशमासनं स्थानमुच्यते ॥
आसनस्य प्रदानेन सौभाग्यं मुक्तिमाप्नुयात् ।
सृमरो रोहितो न्यङ्कुः सम्बरो वभ्रुणो रुरुः ॥
शशैणहरिणाश्चेति मृगा नवविधा मताः ।
हरिणश्चापि विज्ञेयः पञ्चभेदोऽत्र भैरव ॥
ऋष्यः खङ्गो रुरुश्चैव पृषतश्च मृगस्तथा ।
एते वलिप्रदानेषु चर्म्मदाने च कीर्त्तिताः ॥
सर्व्वेषां तैजसानाञ्च आसनं ज्येष्ठमुच्यते ।
आयसं वर्ज्जयित्वा तु कांस्यं सीसकमेव वा ॥
शिलामयं मणिमयं तथा रत्नमयं मतम् ।
आसनं देवताभ्यस्तु भुक्त्यै मुक्त्यै समुत्सृजेत् ॥ * ॥
अत्रैव साधकानाञ्च आसनं शृणु भैरव ।
यत्रासीनः पूजकस्तु सर्व्वसिद्धिमवाप्नुयात् ॥
ऐणञ्च चार्म्मणं वास्त्रं तैजसञ्च चतुष्टयम् ।
आसनं साधकानाञ्च सततं परिकीर्त्तितम् ॥
पूर्ब्बोक्तं यच्च देवेभ्य आसनं परिकीर्त्तितम् ।
तत्सर्व्वमासनं शस्तं पूजाकर्म्मणि साधके ॥
न यथेष्टासनो भूयात् पूजाकर्म्मणि साधकः ।
काष्ठादिकासनं कुर्य्यात् मितमेव सदा बुधः ॥ * ॥
चतुर्व्विंशत्यङ्गुलेन दीर्घं काष्ठासनं मतम् ।
षोडशाङ्गुलविस्तीर्णमुत्सेधचतुरङ्गुलम् ॥
षडङ्गुलं वा कुर्य्यात्तु नोच्छ्रितं चात्र कारयेत् ।
पुर्ब्बोक्तं वर्ज्जयेद्वर्ज्ज्यमासनं पूजनेष्वपि ॥
वास्त्रं द्विहस्तान्नो दीघं सार्द्धहस्तान्न विस्तृतम् ।
न त्र्यङ्गुलात्तथोच्छ्रायं पूजाकर्म्मणि संश्रयेत् ॥
यथेष्टं चार्म्मणं कुर्य्यात् पूर्ब्बोक्तं सिद्धिदायकम् ॥
षडङ्गुलाधिकं कुर्य्यान्नोच्छ्रितन्तु कदाचन ।
काम्बलं चार्म्मणं चैलं महामायाप्रपूजने ॥
प्रशस्तमासनं प्रोक्तं कामाख्यायास्तथैव च ।
त्रिपुरायाश्च सततं विष्णोश्चापि कुशासनम् ॥
बहुदीर्घं बहूच्छ्रायं तथैव बहुविस्तृतम् ।
दारुभूमिसमं प्रोक्तमश्मापि सर्व्वकर्म्मणि ॥
पृष्ठ १/१९७
:पृथक् पृथक् कल्पयेच्च शोभनं तादृशासनम् ।
न पत्रमासनं कुर्य्यात् कदाचिदपि पूजने ॥
न प्राण्यङ्गससुद्भूतमस्थिजं द्विरदादृते ।
मातङ्गदन्तसञ्जातमासनं कामिके चरेत् ॥
चर्म्मपूर्ब्बोदितं ग्राह्यं तथा गन्धमृगस्य च ॥ * ॥
सलिले यदि कुर्व्वीत देवतानां प्रपूजनम् ॥
तत्राप्यासनमासीनो नोत्थितस्तु समाचरेत् ।
तोये शिलामयं कुर्य्यादासनं कौशमेव वा ॥
दारवं तैजसं वापि नान्यदासनमाचरेत् ।
आसनारोपसंस्थानं स्थानाभावे तु पूजकः ॥
आसनं कल्पयित्वा तु मनसा पूजयेज्जले ॥
यद्यासनस्य संस्थानं तोयमध्ये न विद्यते ॥
अन्यत्र वा तदा स्थित्वा देवपूजां समाचरेत्
इत्येतत् कथितं पुत्त्र पूज्यपूजकसङ्गतम् ॥
आसनं पाद्यमधुना शृणु वेतालभैरव” ॥
इति कालिकापुराणे ६७ अध्यायः ॥

आसनः, पुं, (असु क्षेपने + ल्युः + प्रज्ञाद्यण् ।) जीव-

कवृक्षः । इति मेदिनी ॥ (जीववृक्षशब्देऽस्य
विशेषो ज्ञेयः ।)

आसना, स्त्री, (आस्यतेऽस्याम् । आस + ण्यासश्रन्थो

युच् ।) स्थितिः । इत्यमरः ॥

आसनी, स्त्री, (आस्यतेऽस्मिन् । आस + अधिकरणे

ल्युट् + स्त्रियां ङीप् ।) विपणिः । (आस + भावे +
ल्युट् + ङीप्) स्थितिः । इति मेदिनी ॥

आसन्दः, पुं, (आसं ददातीति । आस + ड ।) वासु-

देवः । इति मेदिनी ॥

आसन्दी, स्त्री, (आस्यतेऽस्यां । आस् । अब्दादय-

श्चेति साधुः ।) क्षुद्रखट्वा । इति मेदिनी ॥ (यथा,
शतपथब्राह्मणे ५ । ४ । ४ । १ । “तस्मादस्मा आसन्दी-
माहरन्ति सैषा खादिरी वितृष्णा भवति येयं
वघ्रुव्युता भरतानाम्” ।)

आसन्नः, त्रि, (आङ् + सद् + क्तः ।) निकटः । इत्य-

मरः ॥ (समीपवर्त्ती, कुमारसम्भवे, ३ । ४४ ॥ “आ-
सीनमासन्नशरीरपातः” । अस्ताभिमुखः सूर्य्यः ।)

आसवः, पुं, (आङ् + सुञ् + अप् ।) मद्यविशेषः ।

तत्पर्य्यायः । मैरेयं २ शीधुः ३ । इत्यमरः ॥
“शीवुरिक्षुरसैः पक्वैरपक्वैरासवो भवेत् ।
मैरेयं धातकीपुष्पगुडधानाम्लसंहितम्” ॥
इति माधवेन भेदः कृतस्तथापि सूक्ष्ममनादृत्ये-
दमुक्तम् । इति भरतः ॥ मद्यमात्रम् । इति
राजनिर्घण्टः ॥ (यथा भनुः ११ । ९५ ।
“यक्षरक्षःपिशाचान्नं मद्यं मांसं सुरासवं ।
तद्ब्राह्मणेन नात्तव्यं देवानामश्नता हरिः” ।)
(“यदपक्वौषधाम्बुभ्यां सिद्धं मद्यं स आसवः” ।
इति शार्ङ्गधरः । यथा भावप्रकाशे ।
“आसवस्य गुणा ज्ञेया वीजद्रव्यगुणैः समाः” ।)
आसवभेदेन गुणभेदो यथा ॥
“छेदी मध्वासवस्तीक्ष्णो मेहपीनसकासजित्” ।
“शार्करः सुरभिः स्वादुर्हृद्यो नातिमदो लघुः” ।
इति च वाभटः ॥
“मुखप्रियः सुखमदः सुगन्धिर्वस्तिरोगनुत् ।
जरणीयः परिणतो हृद्यो वर्ण्यश्च शार्करः” ॥
“रोचनो दीपनो हृद्यः शोषशोफार्शसंहितः ।
स्नेहश्लेष्मविकारघ्नो वर्ण्यः पक्वरसो मतः” ॥
“मृष्टो भिन्नशकृद्वातो गौडस्तर्पणदीपनः ।
छेदी मध्वासवस्तीक्ष्णो मैरेयो मधुरो गुरुः” ॥
इति चरकः ॥ तथा च सुश्रुते ॥
“तीक्ष्णः सुरासवो हृद्यो मूत्रलः कफवातनुत् ॥
मुखप्रियः स्थिरमदो विज्ञेयोऽनिलनाशनः ।
लघुर्मध्वासवश्छेदी मेहकुष्ठविषापहः ॥
तिक्तः कषायः शोफघ्नस्तीक्ष्णः स्वादुरवातकृत् ।
तीक्ष्णः कषायो मदकृद्दुर्नामकफगुल्महृत् ॥
कृमिमेदोऽनिलहरो मैरेयो मधुरो गुरुः ।
बल्यः पित्तहरो वर्ण्यो मृद्वीकेक्षुरसासवः” ॥)

आसवद्रुः, पुं, (आसवस्य द्रुः ।) तालवृक्षः । इति

राजनिर्घण्टः ॥

आसादितः, त्रि, (आङ् + सद् + णिच् + क्तः ।)

प्राप्तः । लब्धः । इत्यमरः ॥ (सन्निधापितः, आ-
योजितः, सम्पादितः ।)

आसारः, पुं, (आङ् + सृ + घञ् ।) धारासपातः ।

वेगवृष्टिः । (मेघदूते, “त्वामासारप्रशमितवनोप-
प्लवं साधु मूर्द्ध्ना” । प्रसरणम् । सैन्यानां सर्व्वतो
व्याप्तिः । इत्यमरः ॥ (यथा पञ्चतन्त्रे । ३ । ४९ ।
“तस्मात् दुर्गं दृढं कृत्वा सुभटासारसंयुतं” ।)
सुहृद्बलम् । इति मेदिनी ॥ (यथा पञ्चतन्त्रे ३ । २९ ।
“अज्ञातवीवधासारतोयशस्यो व्रजेत्तु यः” ।)

आसीनः, त्रि, (आस् + शानच् ।) उपविष्टः । इति

जटाधरः ॥ वसा लोक इत्यादि भाषा ।

आसीनप्रचलायितं, क्ली, (आसीनेन उपविष्टेन प्र-

चलवदाचरितम् ।) उपविश्य निद्रावशेन दोलनम् ।
इति राजवल्लभः ॥ ढोला इति भाषा ।

आसुतिः, पुं, (आसूयते + आङ् + सुञ् + क्तिन् ।)

मद्यसन्धानम् । इति हेमचन्द्रः ॥ मद चोयान
इति भाषा ।

आसुतीवलः, पुं, (आसुतिरस्यास्ति रजःकृष्यासुति-

परिषदौ वलच् । वलेति दीर्घः ।) यज्वा । शौ-
ण्डिकः । इति हेमचन्द्रः ॥ (कन्यापालः, शूद्रजाति-
विशेषः ।)

आसुरः, पुं, (असुर + प्रज्ञाद्यण् ।) असुरः । इति

सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥
“ब्राह्म्याद्यष्टधाविवाहान्तर्गतविवाहविशेषः ।
“आसुरो द्रविणादानात्” ॥ इति याज्ञवल्क्यः ।
“ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायै चैव शक्तितः ।
कन्याप्रदानं स्वाच्छन्द्यादासुरो धर्म्म उच्यते” ॥
इति मनुः ३ । ३१ ।

आसुरं, क्ली, विड्लवणम् । इति राजनिर्घण्टः ॥

असुरस्य भावः । (यथा गीतायां ७ । १५ ।
“न मां दुष्कृतिनो मूढा प्रपद्यन्ते नराधमाः ।
माययापहृतज्ञाना आसुरं भावमाश्रिताः” ।)
असुरसम्बन्धीये त्रि । इति व्याकरणम् ॥

आसुरं, त्रि, (असुरस्येदम् । असुर + अण् ।) असुर-

सम्बन्धि । यथा --
“यस्मिन् नवे पुराणे च विश्वे देवा न लेभिरे ।
आसुरं तद्भवेत् श्राद्धं वृषलं मन्त्रवर्जितम्” ॥
इति श्राद्धतत्त्वे ऋग्वेदीयगृह्यपरिशिष्टम् ॥
अपि च ।
“स्नानं दानं तपः श्राद्धमनन्तं राहुदर्शने ।
आसुरी रात्रिरन्यत्र तस्मात्तां परिवर्ज्जयेत्” ॥
इति श्राद्धतत्त्वधृतयमवचनम् ॥ * ॥ आसुरसर्गो
यथा ।
“द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च ।
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥
प्रवृत्तिञ्च निवृत्तिञ्च जना न विदुरासुराः ।
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥
असत्यमप्रतिष्ठन्ते जगदाहुरनीश्वरम् ।
अपरस्परसम्भूतं किमन्यत् कामहेतुकम् ॥
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।
प्रभवन्त्युग्रकर्न्माणः क्षयाय जगतोऽहिताः ॥
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ।
मोहात् गृहीत्वा सद्ग्राहान् प्रवर्त्तन्तेऽशुचिव्रताः ॥
चिन्तामपरिमेयाञ्च प्रलयान्तामपाश्रिताः ।
कामोपभोगपरमा एतावदिति निश्चिताः ॥
आशापाशशतैर्ब्बद्धाः कामक्रोधपरायणाः ।
ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥
इदमद्य मया लब्धमिदं प्राप्स्ये मनोरथम् ।
इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥
असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी ।
आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥
अनेकचित्तविभ्रान्ता मोहजालसमावृताः ।
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥
आत्मसम्भावितास्तब्धा धनमानमदान्विताः ।
यजन्ते नाम यज्ञैस्ते दम्भेनाविधिपूर्ब्बकम् ॥
अहङ्कारं बलं दर्पं कामं क्रोधञ्च संश्रिताः ।
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥
तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय तती यान्त्यधमां गतिम्” ॥
इति श्रीभगवद्गीतायां १६ अध्यायः ॥

आसुरी, स्त्री, (असुरस्य इयं । असुर + तस्येदमित्यण्

ततः ङीप् ।) राजिका । राइ सर्षा इति भाषा ।
इति राजनिर्घण्टः ॥ त्रिविधचिकित्सान्तर्गत-
चिकित्साविशेषः । सा च छेदभेदाद्यात्मिका ।
इति वैद्यकं शब्दचन्द्रिका च ॥

आसेचनः, त्रि, (न सिच्यते मनोऽत्र । नङ् + सिच्

+ अधिकरणे ल्युट् । ततः स्वार्थे अण् ।) यस्य
दर्शने तृप्तेरन्तो न जायते सः । तत्पर्य्यायः ।
अतृप्तिकृत् २ । इति हारावली ॥ (आ + सिच् +
करणे + ल्युट् । आसेचनपात्रम् । यथा, ऋग्वेदे
१ । १६२ । १३ । “या पात्र पूष्ण आसेचनानि” ।)

आसेचनकः, त्रि, (आसेचन एव संज्ञायां कन् ।)

असेचनकः । आसेचनः । इत्यमरटीकायां राय-
मुकुटः ॥ (यथा, साहित्यदर्पणे १० म परिच्छेदे ।
“नयनयुगासेचनकं मानसवृत्यापि दुष्पापम्” ।)
पृष्ठ १/१९८

आस्कन्दनं, त्रि, (आङ् + स्कन्द + भावे ल्युट् ।)

तिरस्कारः । रणः । शोषणं । इति मेदिनी ॥
(यथा, किराते ६ । २५ । “चरणास्कन्दननामिता-
चलेन्द्रः” ।)

आस्कन्दितं, क्ली, (आङ् + स्कन्द + भावे + क्त ।) अश्व-

गतिविशेषः । स च सम्यग्गतिः । इत्यमरः ॥

आस्कन्दितकं, क्ली, (आस्कन्दितमेव स्वार्थे कन् ।)

आस्कन्दितं । अश्वानां पञ्चमगतिः । तत्पर्य्यायः ।
उत्तेरितं २ उपकण्ठं ३ । इति हेमचन्द्रः ॥
(“उत्तेरितमुपकण्ठमास्कन्दितकमित्यपि ।
उत्प्लुत्योत्प्लुत्य गमनं कोपादिवाखिलैः पदैः” ।
हेमचन्द्रः ॥)

आस्तरः, पुं, (आस्तीर्य्यतेऽसौ । आङ् + स्तृ + अप् ।)

करिकम्बलं । इति हेमचन्द्रः ॥ वस्त्राद्यास्तरणं ॥
(यथा शान्तिशतके, २ । १९ । “वासो वल्कल-
मास्तरः किशलयान्योकस्तरूणां तलम्” ॥)

आस्तरणं, क्ली, (आस्तीर्य्यते यत् येन वा आङ् +

स्तृ + कर्म्मणि करणे वा ल्युट् ।) हस्तिपृष्ठस्थित-
चित्रकम्बलं । झुल इति भाषा । तत्पर्य्यायः ।
प्रवेणी २ वर्णः ३ परिस्तोमः ४ कुथा ५ कुथः ६ ।
इत्यमरः ॥ प्रवेणिः ७ परिष्टोमः ८ कुथं ९ ।
इत्यमरटीका ॥ (शय्या, कुशासनं । यथा रामा-
यणे, ३ काण्डे ।
“राङ्कवास्तरणे पूर्ब्बमयोध्यायामिवासने” ।
महाभारते, आदिपर्ब्बणि ।
“दर्भास्तरणमास्तीर्य्य निश्चयात् धृतराष्ट्रजः” ॥)

आस्तिकः, पुं, (अस्तीत्यस्य । अस्ति + ठक् ।) मुनि-

विशेषः । स तु जरत्कारुमुनिपुत्त्रः । तत्पिता
गर्भस्थं तं ज्ञात्वास्तीत्युक्त्वा गत इत्यस्मादास्तिकः ।
(यथा, --
“अस्तीत्युक्त्वा गतो यस्मात् पिता गर्भस्थमेव तम् ।
वनं तस्मादिदं तस्य नामास्तिकेति विश्रुतम्” ॥)
इति महाभारतम् ॥
(“आस्तिकस्य मुनेर्माता भगिनी वासुकेस्तथा” ।
इति मनसाप्रणाममन्त्रः ।)

आस्तिकः, त्रि, (अस्ति ईश्वर इति मतिर्यस्य ।

अस्ति + ठक् ।) नास्तिकभिन्नः । ईश्वरोऽस्तीति-
वादी । वेदप्रामाण्यवादी । तत्पर्य्यायः । श्रद्धालुः २
श्राद्धः ३ । इति हेमचन्द्रः ॥
(“सत्यधर्म्मच्युतात् पुंसः क्रुद्धादाशीविषादिव ।
अनास्तिकोऽप्युद्विजते जनः किं पुनरास्तिकः” ॥
इति महाभारते आदिपर्ब्बणि ॥)

आस्तिकार्थदः, पुं, (आस्तिकस्य मुनेरर्थं सर्पसत्रात्

निवृत्तिरूपप्रयोजनं ददाति यः । जनमेजयो राजा
आस्तिकमुनिवचनात् सर्पयज्ञात् विरराम इति
पौराणिकी कथा ।) जनमेजयो राजा । इति
शब्दरत्नावली ॥

आस्तीकः, पुं, आस्तिकमुनिः । इति त्रिकाण्डशेषः ॥

आस्तीकजननी, स्त्री, (आस्तीकम्य जननी माता,

षष्ठीतत्परुषः ।) आस्तिकमाता । मनसा देवी ।
इति शब्दरत्नावली ।

आस्था, स्त्री, (आङ् + स्था + अङ् + टाप् ।) यत्नः ।

आलम्बन । आस्थानं । अपेक्षा । इति मेदिनी-
कारहेमचन्द्रौ ॥ (श्रद्धा । आदरः । प्रतिष्ठा ।
यथा, रघौ १० । ४३ ।
“दैवात् स्वर्गादबध्यत्वं मर्त्त्येष्वास्थापराङ्मुखः” ।
“विनश्वरे विहायास्थां यशः पालय मित्र मे” ।
इति हितोपदेशः ॥)

आस्थानं, क्ली, (आस्थीयतेऽस्मिन् इति । ञाङ् +

स्था + ल्युट् ।) सभा । इत्यमरः । (यथा, किराते
१ । १६ । “अनेकराजन्यरथाश्वसंकुलं
तदीयमास्थाननिकेतनाजिरम्” ।)
यत्नः । इत्यजयः ॥ (आश्रयः । स्थानम् ।)

आस्थानी, स्त्री, (आस्थान + ङीप् ।) सभा । इत्य-

मरः ॥ (“आस्थानीं समये समं नृपजनः सायन्तने
सम्पतन्” । इति रत्नावली ।)

आस्पदं, क्ली, (आपद्यतेऽस्मिन् इति । आस्पदं प्रति-

ष्ठायामिति निपातनात् सुट् ।) प्रतिष्ठा । कर्म्म ।
इत्यमरः ॥ प्रभुत्वं । इति धरणी । स्थानं । इति
हेमचन्द्रः ॥ (“रागस्यास्पदमित्यवैमि न हि मे
ध्वंसीति न प्रत्ययः” । इति नागानन्दे । तथा च
रघौ ३ । ३६ ।
“नरेन्द्रमूलायतनादनन्तरं
तदास्पदं श्रीर्युवराजसंज्ञितम्” ।)

आस्पन्दनं, क्ली, (आङ् + स्पन्द + ल्युट् ।) स्पन्दनं ।

कम्पनम् ॥

आस्फालः, पुं, (आङ् + स्फुल् + घञ् ।) हस्ति-

कर्णास्फालनं । हातिर काण नाडा इति भाषा ।
तत्पर्य्यायः । झलज्झला । इति हारावली-त्रि-
काण्डशेषौ ॥ (आस्फालनं । सञ्चालनं ।)

आस्फालनं, क्ली, (आङ् + स्फुल् + णिच् + ल्युट् ।)

आटोपः । प्रागल्भ्यम् ॥ (यथा रघौ ६७३ ।
“ऐरावतास्फालनविश्लथं यः
सङ्घट्टयन्नङ्गदमङ्गदेन” ।)

आस्फुजित्, पुं, (आस्फु + जि + क्विप् ।) शुक्राचार्य्यः ।

इति त्रिकाण्डशेषः ॥

आस्फोटः, पुं, (आङ् + स्फुट् + अच् ।) आस्फोत-

वृक्षः । इति शब्दरत्नावली ॥ आकन्द इति भाषा ।
शूरादेर्बाह्वादिशब्दः । इति श्रीभागवतम् ॥
(“कक्षैः कक्ष्यां विधुन्वानावास्फोटं तत्र चक्रतुः” ।
इति महाभारते सभापर्ब्बणि ।)

आस्फोटकः, पुं, (आङ् + स्फुट् + ण्वुल् ।) पर्ब्बत-

जपीलुवृक्षः । इति शब्दमाला ॥ आकरोट इति
भाषा ।

आस्फोटनं, क्ली, (आङ् + स्फुट् + ल्युट् ।) विकाशः ।

मुद्रणं । इति धरणी ॥ बाह्वादिशब्दः । ताल
ठोका इत्यादि भाषा ॥ (यथा रामायणे ५ काण्डे ।
“आस्फोटननिनादांश्च बालानां तत्र खेलताम्” ॥
धान्यादेस्तुषविश्लेषकरणम् ।)

आस्फोटनी, स्त्री, (आस्फुट्यतेऽनया । स्फुट् + करणे- ।

ल्युट् + ङीप् ।) वेधनिका । इत्यमरः ॥ तुरपन
भ्रमर इत्यादि भाषा ।

आस्फोटा, स्त्री, (आस्फोटयतीति । आङ् + स्फुट्

+ अच् + टाप् ।) नवमल्ली । वनमल्ली । इति शब्द-
रत्नावली ॥ (नवमल्लीशब्देऽस्या विशेषो ज्ञेयः ।)

आस्फोतः, पुं, (आस्फोटयतीति । आङ् + स्फुट् +

अच् + पुषोदरादित्वात् साधुः ।) अर्कवृक्षः ।
कोविदारकवृक्षः । इति मेदिनी ॥ भूपलाशवृक्षः ।
इति शब्दचन्द्रिका ॥ (यथा, वाभटे ।
(“मूलं सप्ताह्वात्त्वक्शिरीषाश्वमारा-
दर्कान्मालत्याश्चित्रकास्फोतनिम्बात् ।
वीजं कारञ्जं सार्षपं प्रापुनाटं
श्रैष्ठा जन्तुघ्नं क्रूषणं द्वे हरिद्रे” ॥)

आस्फोतकः, पुं, (आस्फोत एव स्वार्थे कन् ।) अक-

वृक्षः । इति राजनिर्घण्टः ॥

आस्फोता, स्त्री, (आस्फोत + टाप् ।) अपराजिता ।

वनमल्लिका । इति मेदिनी ॥ सारिवावृक्षः । इति
राजनिर्घण्टः । वृक्षविशेषः । हापरमालीति
ख्याता । अस्या गुणौ । कुष्ठविषरोगनाशित्वं ।
इति राजवल्लभः ॥

आस्यं, क्ली, (अस्यते ग्रासोऽस्मिन् इति असु क्षेपणे

कृत्यल्युट इति ण्यत् । यदा आस्यन्दते अम्लादिना
प्रस्रवति इति स्यन्दू प्रस्रवणे + ड ।) मुखं । मुख-
मध्यम् । (यथा, मनुः १ । ९५ ।)
(“यस्यास्येन सदाश्नन्ति हव्यानि त्रिदिवौकसः” ।)
(आस्ये भवमास्यं ।) मुखभवे त्रि । इति मेदिनी ॥

आस्यपत्रं, क्ली, (आस्यमिव पत्राणि यस्य तत् ।) पद्मं ।

इति शब्दचन्द्रिका ।

आस्यलाङ्गलः, पुं, (आस्यं लाङ्गलं भूविदारकयन्त्र-

मिव यस्य ।) शूकरः । इति हेमचन्द्रः ॥

आस्यलोम, [न्] क्ली, (आस्यस्य लोम ।) श्मश्रुः ।

इति हेमचन्द्रः ॥

आस्या, स्त्री, (आस् + ण्यत् ।) स्थितिः । इत्यमरो

मेदिनी च ॥ (आसनं, इति वैद्यमाधवकररोग-
विनिश्चयसंग्रहे । यथा, --
“आस्यासुखं स्वप्नसुस्वं दधीनि”
सुश्रतेऽस्या गुणा यथा,
“आस्या वर्णकफस्थौल्यसौकुमार्य्यकरी सुखा” ।)

आस्यासवः, पुं, (आस्यस्य मुखस्य आसव इव ।)

लाला । इति हेमचन्द्रः ॥ थुतु लाल इत्यादि भाषा ।

आस्रपः, पुं, (आस्रं पिबतीति । आस्र + पा + क ।)

मूलानक्षत्रं । इति हेमचन्द्रः ॥ (राक्षसः ।)

आस्रवः, पुं, (आङ् + स्रु + अच् ।) क्लेशः । कष्टं ।

इत्यमरः ॥

आह, व्य, (उवाच इत्यर्थे कालमात्रे निपातोऽयं ।)

क्षेपः । नियोगः । इति मेदिनी ॥ दृढसम्भावनं ।
इति शब्दरत्नावली ॥

आहकज्वरः, पुं, (आहको नासारोग एव ज्वरः ।)

नासारोगविशेषः । नासाज्वर इति ख्यातः ।
तस्य लक्षणम् ।
“तनुना रक्तशोथेन युक्तो नासापुटान्तरे ।
गात्रशूलज्वरकरः श्लेष्मणा ह्याहकः स्मृतः” ॥
इति वैद्यकम् ॥ (आहव इति क्वचिद्वैद्यके पाठः ।
तद्यथा, आहवज्वरस्य लक्षणम् ।
“शोथः सरक्तो नासायां व्यथास्रावौ ज्वरस्तथा ।
वातश्लेष्मासृगुत्थञ्च आहवाख्यं विनिर्द्दिशेत्” ।
पृष्ठ १/१९९
:अस्य चिकित्सा यथा, वैद्यकचिकित्सारत्ने ॥
“टूर्व्वाचव्यं फलं माषकुलत्थौ वंशपत्रिका ।
जलस्थलभवौ कर्णमोरटाखरमञ्जरी ॥
दण्डोत्पलस्य मूलानि क्वाथ्यादष्टगुणेऽम्भसि ।
तत्पादशेषिते तैलं तुलां कृत्वा विपाचयेत् ।
तत्तैलं प्रतिमर्षण आहवाख्यं ञ्वरं जयेत्” ॥
॥ * ॥ दूर्व्वाद्यं तैलं ॥ * ॥)

आहतं, क्ली, (आ + हन् + क्त ।) पुरातनवस्त्रं । नूतन-

वस्त्रं । इति मेदिनी ॥ मृषार्थकवाक्यं । इत्यमरः ॥

आहतः, त्रि, (आ + हन् + क्तः ।) गुणितः । ता-

डितः । इति मेदिनी ॥ (“प्रति दिवसं याति लयं
वसन्तवाताहतेव शिशिरश्रीः” । इति पञ्चतन्त्रम् ।
ज्ञातः । मिथ्योक्तः । इत्यजयः ॥ निहतः । “द्व्यूना विं-
शतिराहताक्षौहिणीनाम्” । इति महाभारतम् ।)

आहतः, पुं, (आहन्यते यः + आङ् + हन् + कर्म्मणि

+ क्त ।) आनकः । ढक्का । इति मेदिनी ॥

आहतलक्षणः, त्रि, (आहतं अभ्यस्तं लक्षणं यस्य ।)

गुणैः प्रतीतः । गुणेन ख्यातः । तत्पर्य्यायः । कृत-
लक्षणः २ । इत्यमरः ॥

आहरः, पुं, (आङ् + हृ + अच् ।) उच्छ्वासः ।

अन्तर्मुखश्वासः ॥ इति हेमचन्द्रः ॥ (आहरण-
शीले वाच्यलिङ्ग एव । यथा, रघौ १ । ४९ ।
“वनान्तरादुपावृत्तैः समित्कुशफलाहरैः” ।)

आहरणं, क्ली, (आङ् + हृ + भावे ल्यट् ।) द्रव्या-

द्यानयनं । आसादनम् । यथा । देवीपुराणं ।
“मृदाहरणसंघट्टप्रतिष्ठाह्वानमेव च ।
स्नपनं पूजनञ्चैव विसर्जनमतःपरं” ॥
इति तिथ्यादितत्त्वम् ॥

आहवः, पुं, (आहूयते अरिर्यस्मिन् । आङ + ह्वे +

अप् ।) युद्धं ।
(“यदाश्रौषं भोष्ममत्यन्तशूरम्
हतं पार्थेनाहवेष्वप्रधृष्यम्” ॥
इति महाभारते आदिपर्ब्बणि १ । १८२ ।
आहूयते आज्यादिकं यत्र । आङ् + हु + अप ।)
यज्ञः । इति शब्दरत्नावली ॥

आहवनीयः, पुं, (आहूयते आज्यादिरस्मिन् । आङ्

+ हु + अनीयर् ।) यज्ञाग्निविशेषः । इत्यमरः ।
गार्हपत्यादुद्धृत्य होमार्थं यः संस्क्रियते सः । इति
भरतः ॥ (यथा, मनौ २ । २३१ ।
“गुरुराहवनीयस्तु साग्नित्रेता गरीयसी” ।)

आहारः, पुं, (आङ् + हृ + घञ् ।) द्रव्यगलाधः-

करणं । तत्पर्य्यायः । जग्धिः २ भोजनं ३ जेमनं ४
लेपः ५ निघषः ६ न्यादः ७ । इत्यमरः ॥ जमनं ८
विघषः ९ इति तट्टीका ॥ प्रत्यवसानं १० भक्षणं
११ अशनं १२ ॥ इति रत्नमाला ॥ अभ्यवहारः
१३ स्वदनं १४ निगरः १५ । इति राजनिर्घण्टः ॥
अस्य गुणाः । सद्यस्तृप्तिजनकत्वं । बलकारित्वं ।
देहधारकत्वञ्च । इति राजवल्लभः ॥
(“तमुवाच भगवानात्रेयः । हिताहारोपयोग एक-
एव पुरुषस्याभिवृद्धिकरो भवति । अहिताहारो-
पयोगः पुनर्व्वाधिनिमित्तमिति” ।
“तमुवाच भगवानात्रेयः । यदाहारजातमग्नि-
वेश ! समांश्चैव शरीरधातून् प्रकृतौ स्थापयति,
विषमांश्च समीकरोतीत्येतद्धितं विद्धि त्वहितं
विपरीतं इत्येतद्धिताहितलक्षणमनपवादम्भवति
एवं वादिनञ्च भगवन्तमात्रेयमग्निवेश उवाच ।
भगवन्नन्वेतदेवमुपदिष्टं भूयिष्ठकल्पाः सर्व्वभिषजो
विज्ञास्यन्ति । तमुवाच भगवानात्रेयः । येषां
विदितमाहारतत्त्वमग्निवेश ! गुणतो द्रव्यतः
कर्म्मतः सर्व्वावयवतो मात्रादयो भावास्तत्र तदेव-
मुपदिष्टं विज्ञातुमुत्सहेरन् यथा तु खल्वेतदुप-
दिष्टं भूयिष्ठकल्पाः सर्व्वभिषजो विज्ञास्यन्ति
तथैतदुपदेक्ष्यामः । मात्रादीन् भावानुदाहरन्त-
स्तेषां हि बहुविधविकल्पा भवन्ति । आहारविधि-
विशेषांस्तु खलु लक्षणतश्चावयवतश्चानुव्याख्या-
स्यामः । तद्यथा, आहारत्वमाहारस्यैकविधमर्था-
भेदात् । स पुनर्द्वियोनिः स्थावरजङ्गमात्मकत्वात् ।
द्विविधः प्रभावो हिताहितोदर्कविशेषात् । चतु-
र्विधोपयोगः पानाशनभक्ष्यलेह्योपयोगात् । षडा-
स्वादो रसभेदतः षड्विधत्वात्” । इति चरकः ॥
“यदाहारगुणैः पानं विपरीतं तदिष्यते ।
अन्नानुपानं धातूनां दृष्टं यन्न विरोधि च” ॥
इति च चरकः ॥
“प्राणिनां पुनर्मूलमाहारो बलवर्णौजसाञ्च षट्सु
रसेष्वायत्तो रसाः पुनर्द्रव्याश्रयाः” ॥
“स च तत्रौदकैर्गुणैराहारः प्रक्लिन्नो भिन्नसङ्घातः
सुखकरश्च भवति” ।
“आहारः प्रीणनः सद्यो बलकृद्देहधारकः ।
आयुस्तेजःसमुत्साहस्मृत्योजोऽग्निविवर्द्धनः” ॥
इति सुश्रुतः ॥) स त्रिविधः । सात्विकः १ राज-
सिकः २ तामसिकः ३ । सात्विकाहारो यथा, --
८ श्लोकः ।
“आयुः-सत्त्व-बलारोग्य-सुख-प्रीति-विवर्द्धनाः ।
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्विक-
प्रिया” । राजसिकारो यथा, ९ श्लोकः ।
“कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः” ॥
तामसिकाहारो यथा, १० श्लोकः ।
“यातयामं गतरसं पूतिपर्य्युषितञ्च यत् ।
उच्छिष्टमपि चामेध्यं मोजनं तामसप्रियम्” ॥
इति श्रीभगवद्गीता १७ अध्यायः ॥ आहरणं ।
इति मेदिनी ॥
(“स पुनर्देवयान्योक्तः पुष्पाहारो यदृच्छया” ।
इति महाभारतम् । आदिपर्ब्बणि ७६ । सम्भव-
पर्ब्बणि ७६ । ३५ ।)

आहारसम्भवः, पुं, (आहारात् सम्भवो यस्य ।)

शरीरस्थरसधातुः । इति हेमचन्द्रः ॥

आहार्य्यं, त्रि, (आङ् + हृ + ण्यत् ।) आगन्तुकं ।

इति त्रिकाण्डशेषः ॥
(“आहार्य्यैर्नीयमानं हि क्षणं दुःखेन हृद्यताम्”
इति कामन्दकः ।) आहरणीयं ॥ (यथा, मनुः
८ । २०२ । “अथ मूलमनाहार्य्यं प्रकाशक्रयशो-
धितः” ।) (शस्त्रकर्म्मभेदः । यथा सुश्रुते “तच्च
शस्त्रकर्म्माष्टविधं, तद्यथा; -- छेद्यं भेद्यं, रेख्यं
वेध्यं एष्यम्, आहार्य्यं, विश्राय्यं, जीव्यमिति” ।
“आहार्य्याशर्करास्त्रिस्रो दण्डकर्णमलास्मरी” ।)

आहार्य्यः पुं, नाठ्योक्तौ व्यञ्जकविशेषः । स तु भूषा

दिना रचितः । इति हेमचन्द्रः ॥ (यथा सा-
हित्यदर्पणे । षष्ठाङ्के ।
“भवेदभिनयोऽवस्थानुकारः स चतुर्व्विधः ।
आङ्गिको वाचिकश्चैवमाहार्य्यः सात्त्विकस्तथा” ॥)

आहार्य्यशोभा, स्त्री, (आहार्य्यात् या शोभा ।)

कृत्रिमशोभा । चित्रभूषादिना कृतद्यतिः । इति
जटाधरः ॥ (यथा, भट्टिकाव्ये २ य सर्गे, --
“आहार्य्यशोभारहितैरमायैः
ऐक्षिष्ट पुंभिः प्रचितान् स गोष्ठान्” ।)

आहावः, पुं, (आङ् + ह्वे + अप् ॥ निपातनात्वृद्धिः ।)

कूपसमीपे पश्वादिजलपानार्थकृतस्वल्पजलाशयः ।
इत्यमरः ॥ चौवाच्चा इति भाषा । (आहूयतेऽरि-
रत्रैति व्युत्पत्त्या ।) युद्धं । आह्वानं । इति धरणिः ॥
(आहूयतेऽत्र इति आ + हु + अधिकरणे घञ् ।)
अग्निः ।)

आहिकः, पुं, (अहिरिव आकृतिर्यस्य । अहि +

ठक् ।) पाणिनिमुनिः । इति त्रिकाण्डशेषः ॥ केतु-
ग्रहः । इति हेमचन्द्रः ॥

आहितः, त्रि, (आङ् + धा + क्त ।) न्यस्तः ।

अर्पितः । स्थापितः । इति हलायुधः ॥
(यथा, किराते ।
“व्यावर्त्तनैरहिपतेरयमाहिताङ्कः” ।)

आहितलक्षणः, त्रि, (आहितं लक्षणं यस्य ।) आह-

तलक्षणः । इत्यमरटीकायां रमानाथः ॥ गुणादि-
द्वारा ख्यातः ।

आहिताग्निः, पुं, (आहितः स्थापितोऽग्निर्येन ।)

साग्निकः । अग्निहोत्री इति स्मृतिः ॥
(“न दर्शेन विना श्राद्धमाहिताग्नेर्द्विजन्मनः” ।
इति मनुः ३ । २८२ । तथा च रघौ २४४ ॥
“गुरोरपीदं धनमाहिताग्नेः” ।)

आहितुण्डिकः, पुं, (अहितुण्डेन दीव्यति । अहितुण्ड

+ ठक् ।) व्यालग्राही । सापुडिया इति भाषा ।
इत्यमरः शब्दरत्नावली च ॥ (यथा पञ्चतन्त्रम् ।
“वैद्यसांवत्सराचार्य्याः स्वपक्षेऽधिकृताश्चराः ।
यथाहितुण्डिकोन्मत्ताः सर्व्वं जानन्ति शत्रुषु” ।)

आहुतं, क्ली, (आङ् + हु + क्त ।) गृहस्थानां पश्च-

महायज्ञान्तर्गतयज्ञविशेषः । स तु नृयज्ञः । इति
जटाधरः ॥

आहुतिः, स्त्री, (आ + हु + क्तिन् ।) देवोद्देशे मन्त्रो-

च्चारणपूर्ब्बकोऽग्नौ हविर्निक्षेपः । तत्पर्य्यायः ।
देवयज्ञः २ होमः ३ होत्रं ४ वषट्कारः ५ । इति
हेमचन्द्रः ॥ (यथा, रघौ १ । ५३ ।
“पुनानं पवनोद्धूतैर्धूमैराहुतिगन्धिभिः” ।
धर्म्मात् मरुद्वत्यां जातः स्वनामख्यातो मरुद्भेदः ।
यथा हरिवंशे, --
“मरुद्वती मरुत्वन्तो देवानजनयत् सुतान् ।
नहुषं चाहुतिं चैव चारित्रं ब्रह्मपन्नगम्” ।)

आहुल्यं, क्ली, (आङ् + ह्वल् + क्यप् ।) क्षुपविशेषः

तरवट इति काश्मीरादौ ख्यातं । तत्पर्य्यायः ।
पृष्ठ १/२००
:हलराख्यं २ तगरं ३ तरवटं ४ शिम्बीफलं ५
सुपुष्पं ६ पीतपुष्पं ७ काञ्चनपुष्पकं ८ नृपमा-
ङ्गल्यकं ९ शरत्पुष्पं १० । तस्य गुणाः । तिक्तत्वं ।
शीतलत्वं । चक्षुर्हितत्वम् । पित्तदाहमुखरोग-
कुष्ठकण्डूतिजन्तुशूलव्रणनाशित्वञ्च । इति राज-
निर्घण्टः ॥

आहूतं, क्ली, (आ + ह्वे + क्त ।) प्रलयपर्य्यन्तं । यथा, --

“कदम्बानि पटोलानि वृन्ताकसहितानि च ।
न त्यजेत् कार्त्तिके मासि यावदाहूतनारकी” ॥
“आहूतानि आभूतानि प्रलयपर्य्यन्तानीति या-
वत्” । इति तिथ्यादितत्त्वम् ॥

आहूतः, त्रि, (आङ् + ह्वे + क्त ।) कृताह्वानः ।

यथा, --
“प्रगायतः स्ववीर्य्याणि तीर्थपादः प्रियश्रवाः ।
आहूत इव मे शीघ्रं दर्शनं याति चेतसि” ॥
इति श्रीभागवते १ स्कन्धे ६ । ३४ ॥

आहूतिः, स्त्री, (आङ् + ह्वे + क्तिन् ।) आह्वानं ।

इति शब्दरत्नावली ॥

आहेयं, त्रि, (अहौ भवं । अहि + ढञ् ।) अहि-

सम्बन्धि । तद्विषचर्म्मादि । इत्यमरः ॥

आहो, व्य, (आ हन्तीति । आङ + हन् + डो ।)

विकल्पः । इत्यमरः ॥ प्रश्नः । (यथा शाकुन्तले
पञ्चमाङ्के ।
“द्वारत्यागो भवाम्याहो परस्त्रीस्पर्शपांशुलः” ।)
विचारः । इति मेदिनीकरहेमचन्द्रौ ॥
(“आहो निवत्स्यति समं हरिणाङ्गनाभिः” ।
इति शाकुन्तले प्रथमाङ्के ।)

आहोपुरुषिका, स्त्री, (अहो अहमेव पुरुषः । मयूर-

व्यंसकादित्वात् समासः । अहोपुरुषस्य भावः ।
अहोपुरुष + वुञ् + स्त्रीत्वात् टाप् ।) दर्पात्
यात्मनि सम्भावना सा । इत्यमरः ॥ अधिकार्थ-
वचनेन शक्तेरप्रतिघाताविष्करणं । आत्मविषय-
कार्य्यसिद्धिजननशक्त्याविष्करणं । इति भरतः ॥
(यथा, भट्टौ ५ । २७ ।
“आहोपुरुषिकां पश्य मम सद्रत्नक्रान्तिभिः” ।)

आहोस्वित्, व्य, (आहो च स्विच्च ।) आहो । वि-

कल्पः । इत्यमटीका ॥

आह्नः, पुं, (अह्नां समूहः ।) दिनसमूहः । इति

व्याकरणम् ॥

आह्निकं, त्रि, (अह्ना निर्वृत्तं । अहन् + ठञ् ।)

दिननिर्व्वर्त्त्यं । दिनसाध्यं । इति मेदिनी ॥ दिन-
सम्बन्धी ॥

आह्निकं, क्ली, (अह्ना निर्वृत्तं । अहन् + ठञ् ।)

भोजनं । प्रकरणसमूहः । ग्रन्थभागः ।
नित्यक्रिया । इति मेदिनीकरहेमचन्द्रौ ॥
अथ ँ रघुनन्दनभट्टाचार्य्यकृताह्निकाचारतत्त्वोक्त-
कर्म्माणि संक्षेपेण लिख्यन्ते ॥
तत्र प्रथमयामार्द्धकृत्यम् ।
“ब्राह्मेमुहूर्त्ते जागरित्वा ब्रह्मविष्णुशिवनवग्रहान्
स्मृत्वा गुरुप्रणामं कृत्वा आत्मानं ब्रह्मत्वेन संभाष्य
तद्विवमकर्त्तव्यधर्म्मकर्म्मार्थं चिन्तयेत् ॥
ततः शयनादुत्याय स्मत्रिवासस्त्यक्त्व पृथिवीं
नमस्कृत्य दक्षिणचरणं भूमौ विन्यस्य कर्क्कोट-
कनागदमयन्तीनलऋतुपर्णराजकार्त्तवीर्य्यार्ज्जुनान्
स्मृत्वा नेत्रमुखे प्रक्षाल्य द्विराचामेत् ॥
ततः नैरृत्यां दक्षिणस्यां वा दिशि मूत्रपुरीषात्-
सर्गं जलमृत्तिकाशौचञ्च कृत्वा द्विराचम्य हरिं
स्मृत्वा दिवा सूर्य्यं रात्रौ चन्द्रं तारां वा तदसम्भवे
अग्निं पश्येत् ॥
ततो दन्तधावनं । दन्तकाष्ठाभावे निषिद्धदिने
च द्वादशगण्डूषजलैः पत्रैर्व्वा मुखं शोधयित्वा
द्विराचामेत् ।
ततः प्रातःस्नानं तिलकं सन्ध्यातर्पणञ्च कृत्वा
सूर्य्योदयपर्य्यन्तं गायत्रीं जपेत् ॥ स्नानाशक्तौ
आर्द्रवस्त्रेण गात्रमार्ज्जनं मन्त्रस्नानञ्च कृत्वा
सन्ध्योपासनं कुर्य्यात् ॥
तत आदर्शादिदर्शनं दधिदूर्व्वादिमङ्गलद्रव्यस्पर्श-
नञ्च कुर्य्यात् इति ॥ * ॥
अथ द्वितीययामार्द्धकृत्यम् ॥
वेदविद्याद्यभ्यासः । समित्पुष्पाद्याहरणञ्च ॥ * ॥
अथ तृतीययामार्द्धकृत्यम् ।
गुरुदेबधार्म्मिकोपासनं । कुटुम्बभरणार्थमीश्वरो-
पासनादि च ॥ *
अथ चतुर्थयामार्द्धकृत्यम् ।
मध्याह्नस्नानं । तत्र परखातोदके चेत् तदा सप्त
पञ्च त्रीन् वा मृत्पिण्डान् तीरे क्षिप्त्वा नाभि-
मात्रोदके कुशहस्तः सशिरस्कमज्जनं कृत्वा द्विरा-
चम्य सङ्कल्प्य यथाविधि त्रिर्निमज्जेत् ॥
ततः स्नानवस्त्रपाणिव्यतिरेकेण गात्रमार्जनं तिलकं
तर्पणञ्च कुर्य्यात् ॥
ततः अष्टममुहूर्त्ते मध्याह्नसन्ध्यां समाप्य ब्रह्मयज्ञं
विधाय देवपूजनं कृत्वा पादोदकं नैवेद्यञ्च यथा-
काले उपयुञ्जीत ॥ * ॥
अथ पञ्चमयामार्द्धकृत्यम् ॥
बलिवैश्वदेवकर्म्मणी काम्यबलिकर्म्म वामदेव्यगानं
गानाशक्तौ तस्य त्रिः पाठः पार्ब्बणश्राद्धानन्तरं
बलिवश्वदेवकर्म्मणी कर्त्तव्ये ॥
बलिकर्म्मानन्तरमतिथिलाभार्थं मुहूर्त्तं गोदोहन-
कालं वा अभोजनेन प्रतीक्षेत । तल्लगे भिक्षा-
दिकं दत्त्वा तदनुव्रजेत् । तदानीमतिथ्यलाभे नि-
त्यश्राद्धान्तरमतिथीन् भोजयेत् । भोजनासामर्थ्ये
भिक्षां दद्यात् । अतिथ्यलाभे ब्राह्मणाय दानं
तदसम्भवे अग्नौ जले वा किञ्चिदन्नं क्षिपेत् ॥
ततो नित्यश्राद्धं । वामदेव्यगानं तदशक्तौ ऋक्-
त्रय पठेत् । नित्यश्राद्धकरणासामर्थ्ये वलितर्प-
णाभ्यां पितृयज्ञसिद्धिः ॥ ततो गोग्रासदानं गो-
नमस्कारञ्च कुर्य्यात् ॥ ततो यथाविधि भोजनं ।
विष्णुपादोदकादिकं पूर्ब्बमगृहीतञ्चेत् इदानीं
गृह्णीयात् ॥ ततः स्थानान्तरं न गत्वा मृद्भिर्घर्षणै-
र्मुखहस्तौ शोधयित्वा तृणादिना दन्तलग्नरसद्रव्य-
मपनीय जलगण्डूषैर्मुखाभ्यन्तरं संशोध्य पाणिपादौ
प्रक्षालयेत् ॥
तत आसनस्थ एव भूमौ पादौ संस्थाप्य द्विरा-
चम्य मुखं तुलसीपत्रादिना संशोध्य दक्षिणपादा-
ङ्गुष्ठे दक्षिणहस्तेन मन्त्रेण जलं दद्यात् ॥
ततो महीमार्जनाभावेऽशुचित्वादविलम्बमेव भो-
जनपात्रमुद्धृत्य उच्छिष्टमपनीय तत् स्थानं गोमयो-
दकाभ्यां सिञ्चेत् ॥
ततः सुस्थ आसने उपविश्य इष्टदेवतानाम स्मृत्वा
अन्नजीर्णतार्थं मन्त्रपाठपूर्ब्बकवामहस्तेनोदरं परि-
मृज्य पादशतव्रजनानन्तरं वामपार्श्वेन किञ्चित्
कालं शयित्वा ताम्बूलादिमुखवासनद्रव्यं भोक्तव्यम्
इति ॥ * ॥
अथ षष्ठसप्तमयामार्द्धकृत्यम् ।
इतिहासपुराणादिश्रवणम् ॥
अथाष्टमयामार्द्धकृत्यम् ॥
लौकिकचिन्ताकरणम् । सायंसन्ध्योपासनम् ।
इष्टदेवतास्मरणादिकञ्च कुर्य्यात् ॥ * ॥
अथ रात्रिकृत्यम् ।
सन्ध्यानन्तरमिष्टदेवतामन्त्रजपत्रिकालपाठ्यस्तव
नारायणस्मरणानि कुर्य्यात् ॥
ततोऽन्नादिपाके जाते पूर्ब्बवद्वलिवैश्वदेवकर्म्मणी
कृत्वा अतिथिलाभेऽन्नादिकं तस्मै दत्त्वा अवश्य-
भरणीयैः सह सार्द्धप्रहराभ्यन्तरेऽनतितृप्तं भु-
ञ्जीत । अन्नभोजनाभावे ताम्बूलादिकं भोक्तव्यम् ॥
प्रथमयामाभ्यन्तरे विद्याभ्यासं कुर्य्यात् ॥ ततः
शयनं । शुचिदेशे खट्वोपरि शय्यां कृत्वा शिरो-
देशे पूर्णकुम्भं निधाय रात्रिवासः परिधाय प्रक्षा-
लितपाणिपादो द्विराचान्तः पूर्ब्बशिरा दक्षिण-
शिरा वा पद्मनाभं स्मृत्वा यामद्वयाभ्यन्तरे
शयीत ॥ * ॥
अथ दारोपगमनम् ।
ऋतौ निषिद्धेतरदिने स्त्रीसम्भोगं कृत्वा तां
दक्षिणपार्श्वेन स्वापयेत् ॥
ततः अविलम्बेन मूत्रपुरीषोर्त्स्गवत् मृज्जलाभ्यां
लिङ्गं हस्तौ पादौ च प्रक्षाल्य द्विराचम्य स्नायात् ॥
ऋतुभिन्नगमने तु लिङ्गप्रक्षालनमाचमनद्वयमात्रञ्च
कुर्य्यात् । स्त्रियास्तु ऋतावनृतावपि लेपादिक्षा-
लनानन्तरमाचमनमात्रं न स्नानं ॥ क्षालनादेः
पूर्ब्बं मूत्रपुरीषोत्सर्गौ न कुर्य्यात् । सम्भोगानन्तरं
तस्यां रात्रौ एकशय्यायां न शयीयातां । अनृता-
वपि गर्भवत्त्वेऽपि कामुकीमुपेयात् ॥
ऋतावभिगम्य प्रातर्नैमित्तिकमङ्गशून्यस्नानं कु-
र्य्यात् ॥
ऋतुगमनं पुत्त्रोत्पत्तिपर्य्यन्तमावश्यकम् ॥ इत्या-
ह्निकाचारतत्त्वोक्तकर्म्म समाप्तं ॥ * ॥

आह्लादः, पुं, (आङ् + ह्लद् + घञ् ।) आनन्दः ।

हर्षः । यथा । श्रीभागवते १० । ५ । १ ॥
“नन्दस्त्वात्मज उत्पन्ने जाताह्लादो महामनाः ।
आहूय विप्रान् वेदज्ञान् स्नातः शुचिरलङ्कृतान् ॥”

आह्लादितः, त्रि, आनन्दितः । हृष्टः । जाताह्लादः ।

इतोऽस्य जाते इत्यनेन आह्लादशब्दात् इतप्रत्य-
येन निष्पन्नः ॥

आह्वयः, पुं, (आङ् + ह्ने + अच् । यद्वा आह्वैर्यायते

प्राप्यते इति । आह्व + या + घञ्र्थे कः ।) नाम ।
इत्यमरः ॥ (यथा, रामायणे, बालकाण्डे ४ । ७ ॥

“कृत्वा तु तन्महाप्राज्ञः काव्यं रामायणाह्वयम्” ।)

अष्टादशव्यवहारपदान्तर्गतो व्यवहारविशेषः ।
यथाह मनुः अष्टमे । ४ । ५ । ६ । ७ । “तेषामाद्यमृणा-
दानं” इत्थुपक्रम्य । “स्त्रीपुंधर्म्मो विभागश्च द्यूत-
माह्वय एव च” ।)

आह्वा, स्त्री, (आह्वानमिति । आङ् + ह्वे + अङ् ।)

नाम । संज्ञा । इत्यमरः ॥

आह्वानं, क्ली, (आङ् + ह्वे + भावे ल्युट् ।) आवा-

हनं । डाका इति भाषा । तत्पर्य्यायः । हूतिः २
आकारणं ३ । इत्यमरः ॥ (यथा मनुः ९ । १२६ ।
“जन्मज्येष्ठेन चाह्वानं स्वब्राह्मण्यास्वपि स्मृतम्” ।)
(आहूयतेऽनेन । करणे ल्युट् ।) नाम । इति शब्द-
रत्नावली ॥