सामग्री पर जाएँ

शतपथब्राह्मणम्/काण्डम् ९/अध्यायः ५/ब्राह्मण २

विकिस्रोतः तः

९.५.२ सर्वचित्यन्तसाधारणोपस्थानम्

इन्द्र एतत्त्सप्तर्चमपश्यत् न्यूनस्याप्त्या अतिरिक्तस्यानतिरिक्त्यै व्यृद्धस्य समृद्ध्या अथ ह वा ईश्वरोऽग्निं चित्वा किंचिद्दौरितमापत्तोर्वि वा ह्वलितोर्यद्वा यदा ह वा एतच्छ्यापर्णः सायकायनः शुश्रावाथ हैतत्कर्मोपदधर्ष - ९.५.२.१

सैषा त्रयस्य समृद्धिः । अग्नेः समृद्धिर्योऽग्निं चिनुते तस्य समृद्धिर्योऽग्निं चिनोति तस्य समृद्धिः - ९.५.२.२

तद्यदेतेनोपतिष्ठते । यदेवास्यात्र विद्वान्वाऽविद्वान्वाऽति वा रेचयति न वाऽभ्यापयति तदेवास्यैतेन सर्वमाप्तं भवति यदस्य किं चानाप्तं य उ तस्यामनुष्टुभ्यृचिकामोऽत्रैव तमाप्नोत्यथा एतस्मादेवैतत्कर्मणो रक्षांसि नाष्ट्रा अपहन्ति नो हैनमनुव्याहारिण स्तृण्वते तस्मादप्येवंवित्कामं परस्मा अग्निं चिनुयादीश्वरो ह श्रेयान्भवितोः - ९.५.२.३

वार्त्रहत्याय शवसे । सहदानुं पुरुहूत क्षियन्तमिति(वा.सं. १८.६९) वार्त्रघ्नीभ्यां प्रथमाभ्यामुपतिष्ठत एतद्वै देवा वृत्रं पाप्मानं हत्वाऽपहतपाप्मान एतत्कर्माकुर्वत तथैवैतद्यजमानो वृत्रं पाप्मानं हत्वाऽपहतपाप्मैतत्कर्म कुरुते - ९.५.२.४

वि न इन्द्र मृधो जहि । मृगो न भीमः कुचरो गिरिष्ठा इति वैमृधीभ्यां द्वितीयाभ्यामेतद्वै देवा मृधः पाप्मानं हत्वाऽपहतपाप्मान एतत्कर्माकुर्वत तथैवैतद्यजमानो मृधः पाप्मानं हत्वाऽपहतपाप्मैतत्कर्म कुरुते - ९.५.२.५

वैश्वानरो न ऊतये । पृष्टो दिवि पृष्टो अग्निः पृथिव्यामिति वैश्वानरीभ्यां तृतीयाभ्यामेतद्वै देवा वैश्वानरेण पाप्मानं दग्ध्वाऽपहतपाप्मान एतत्कर्माकुर्वत तथैवैतद्यजमानो वैश्वानरेण पाप्मानं दग्ध्वाऽपहतपाप्मैतत्कर्म कुरुते - ९.५.२.६

अश्याम तं काममग्ने तवोतीति (वा.सं [१८.७४])। एकया कामवत्यैतद्वै देवाः पाप्मानमपहत्यैकया कामवत्यैकधान्ततः सर्वान्कामानात्मन्नकुर्वत तथैवैतद्यजमानः षडृचेन पाप्मानमपहत्यैकया कामवत्येकधान्ततः सर्वान्कामानात्मन्कुरुते - ९.५.२.७

सप्तर्चं भवति । सप्तचितिकोऽग्निः सप्तऽर्तवः सप्त दिशः सप्त देवलोकाः सप्तस्तोमाः सप्त पृष्ठानि सप्त छन्दांसि सप्त ग्राम्याः पशवः सप्तारण्याः सप्त शीर्षन्प्राणा यत्किं च सप्तविधमधिदेवतमध्यात्मं तदेनेन सर्वमाप्नोति ता अनुष्टुभमभिसम्पद्यन्ते वाग्वा अनुष्टुब्वाचैवास्य तदाप्नोति यदस्य किंचानाप्तम् - ९.५.२.८

अष्टर्चेनोपतिष्ठेतेत्यु हैक आहुः । वयं ते अद्य ररिमा हि काममिति द्वितीयया कामवत्या सप्त पूर्वास्तदष्टावष्टाक्षरो गायत्री गायत्रोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्य तदाप्नोति यदस्य किं चानाप्तमथो एवं समं देवते भजेते इति न तथा कुर्यादेता वाव सप्ताष्टावनुष्टुभो भवन्ति स योऽष्टर्चे कामोऽत्रैव तमाप्नोति - ९.५.२.९

ऐन्द्राग्नीभिरुपतिष्ठते । ऐन्द्राग्नोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्य तदाप्नोति यदस्य किं चानाप्तमिन्द्राग्नी वै सर्वे देवाः सर्वदेवत्योऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्य तदाप्नोति यदस्य किं चानाप्तम् - ९.५.२.१०

तद्धैके । कर्मणः कर्मण एवैतां प्रतिपदं कुर्वतेऽपहतपाप्मान एतत्कर्म करवामहा इति पुरीषवतीं चितिं कृत्वोपतिष्ठेतेत्यु हैक आहुस्तत्र हि सा सर्वा कृत्स्ना भवतीति स यथा कामयेत तथा कुर्यादिति नु चयनस्याथातोऽचयनस्य - ९.५.२.११

त्रयो ह वै समुद्राः । अग्निर्यजुषां महाव्रतं साम्नां महदुक्थमृचां स य एतानि परस्मै करोत्येतान्ह स समुद्राञ्छोषयते ताञ्छुष्यतोऽन्वस्य छन्दांसि शुष्यन्ति छन्दांस्यनु लोको लोकमन्वात्माऽऽत्मानमनु प्रजा पशवः स ह श्वः श्व एव पापीयान्भवति य एतानि परस्मै करोति - ९.५.२.१२

अथ य एतान्यकृत्वा । परस्मा अपि सर्वैरन्यैर्यज्ञक्रतुभिर्याजयेदेतेभ्यो हैवास्य समुद्रेभ्यश्छन्दांसि पुनराप्यायन्ते च्छन्दांस्यनु लोको लोकमन्वात्माऽऽत्मानमनु प्रजा पशवः स ह श्वः श्व एव श्रेयान्भवति य एतानि परस्मै न करोत्यथैष ह वा अस्य दैवोऽमृत आत्मा स य एतानि परस्मै करोत्येतं ह स दैवमात्मानं परस्मै प्रयच्छत्यथ शुष्क एव स्थाणुः परिशिष्यते - ९.५.२.१३

तद्धैके । कृत्वा कुर्वते वा प्रति वा कारयन्त एषा प्रायश्चित्तिरिति न तथा कुर्याद्यथा शुष्कं स्थाणुमुदकेनाभिषिञ्चेत्तादृक्तत्पूयेद्वा वै स वि वा म्रित्येन्नैतस्य प्रायश्चित्तिरस्तीत्येव विद्यात् - ९.५.२.१४

अथ ह स्माह शाण्डिल्यः । तुरो ह कावषेयः कारोत्यां देवेभ्योऽग्निं चिकाय तं ह देवाः पप्रच्छुर्मुने यदलोक्यामग्निचित्यामाहुरथ कस्मादचैषीरिति - ९.५.२.१५

स होवाच । किं नु लोक्यं किमलोक्यमात्मा वै यज्ञस्य यजमानोऽङ्गान्यृत्विजो यत्र वा आत्मा तदङ्गानि यत्रो अङ्गानि तदात्मा यदि वा ऋत्विजोऽलोका भवन्त्यलोक उ तर्हि यजमान उभये हि समानलोका भवन्ति दक्षिणासु त्वेव न संवदितव्यं संवादेनैवऽर्त्विजोऽलोका इति - ९.५.२.१६

इति माध्यन्दिनीये शतपथ ब्राह्मणे संचितिनामके नवमं काण्डं समाप्तम्।।