शतपथब्राह्मणम्/काण्डम् ८/अध्यायः ६/ब्राह्मणम् १

विकिस्रोतः तः

८.६.१

अथ पञ्चनाकसदिष्टकोपधानम्


नाकसद उपदधाति । देवा वै नाकसदोऽत्रैष सर्वोऽग्निः संस्कृतः स एषोऽत्र नाकः स्वर्गो लोकस्तस्मिन्देवा असीदंस्तद्यदेतस्मिन्नाके स्वर्गे लोके देवा असीदंस्तस्माद्देवा नाकसदस्तथैवैतद्यजमानो यदेता उपदधात्येतस्मिन्नेवैतन्नाके स्वर्गे लोके सीदति - ८.६.१.१

यद्वेव नाकसद उपदधाति । एतद्वै देवा एतं नाकं स्वर्गं लोकमपश्यन्नेताः स्तोमभागास्तेऽब्रुवन्नुप तज्जानीत यथास्मिन्नाके स्वर्गे लोके सीदामेति तेऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथास्मिन्नाके स्वर्गे लोके सीदामेति - ८.६.१.२

ते चेतयमानाः । एता इष्टका अपश्यन्नाकसदस्ता उपादधत ताभिरेतस्मिन्नाके स्वर्गे लोकेऽसीदंस्तद्यदेताभिरेतस्मिन्नाके स्वर्गे लोकेऽसीदंस्तस्मादेता नाकसदस्तथैवैतद्यजमानो यदेता उपदधात्येतस्मिन्नेवैतन्नाके स्वर्गे लोके सीदति - ८.६.१.३

दिक्षूपदधाति । दिशो वै स नाकः स्वर्गो लोकः स्वर्ग एवैना एतल्लोके सादयत्यृतव्यानां वेलया संवत्सरो वा ऋतव्याः संवत्सरः स्वर्गो लोकः स्वर्ग एवैना एतल्लोके सादयत्यन्तस्तोमभागमेष वै स नाकः स्वर्गो लोकस्तस्मिन्नेवैना एतत्प्रतिष्ठापयति - ८.६.१.४

स पुरस्तादुपदधाति । राज्ञ्यति प्राची दिगिति राज्ञी ह नामैषा प्राची दिग्वसवस्ते देवा अधिपतय इति वसवो हैतस्य दिशो देवा अधिपतयोऽग्निर्हेतीनाम्प्रतिधर्तेत्यग्निर्हैवात्र हेतीनां प्रतिधर्ता त्रिवृत्त्वा स्तोमः पृथिव्यां श्रयत्विति त्रिवृता हैषा स्तोमेन पृथिव्यां श्रिताज्यमुक्थमव्यथायै स्तभ्नात्वित्याज्येन हैषोक्थेनाव्यथायै पृथिव्यां स्तब्धा रथन्तरं साम प्रतिष्ठित्या अन्तरिक्षे इति रथन्तरेण हैषा साम्ना प्रतिष्ठितान्तरिक्षे ऋषयस्त्वा प्रथमजा देवेष्विति प्राणा वा ऋषयः प्रथमजास्तद्धि ब्रह्म प्रथमजं दिवो मात्रया वरिम्णा प्रथन्त्विति यावती द्यौस्तावतीं वरिम्णा प्रथन्त्वित्येतद्विधर्ता चायमधिपतिश्चेति वाक्च तौ मनश्च तौ हीदं सर्वं विधारयतस्ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्त्विति यथैव यजुस्तथा बन्धुः - ८.६.१.५

अथ दक्षिणतः । विराडसि दक्षिणा दिगिति विराड्ढ नामैषा दक्षिणा दिग्रुद्रास्ते देवा अधिपतय इति रुद्रा हैतस्य दिशो देवा अधिपतय इन्द्रो हेतीनाम्प्रतिधर्तेतीन्द्रो हैवात्र हेतीनां प्रतिधर्ता पञ्चदशस्त्वा स्तोमः पृथिव्यां श्रयत्विति पञ्चदशेन हैषा स्तोमेन पृथिव्यां श्रिता प्रउगमुक्थमव्यथायै स्तभ्नात्विति प्रउगेण हैषोक्थेनाव्यथायै पृथिव्यां स्तब्धा बृहत्साम प्रतिष्ठित्या अन्तरिक्षे इति बृहता हैषा साम्ना प्रतिष्ठितान्तरिक्षे ऋषयस्त्वा प्रथमजा देवेष्विति तस्योक्तो बन्धुः -८.६.१.६

अथ पश्चात् । सम्राडसि प्रतीची दिगिति सम्राड्ढ नामैषा प्रतीची दिगादित्यास्ते देवा अधिपतय इत्यादित्या हैतस्यै दिशो देवा अधिपतयो वरुणो हेतीनां प्रतिधर्तेति वरुणो हैवात्र हेतीनां प्रतिधर्ता सप्तदशस्त्वा स्तोमः पृथिव्यां श्रयत्विति सप्तदशेन हैषा स्तोमेन पृथिव्यां श्रिता मरुत्वतीयमुक्थमव्यथायै स्तभ्नात्विति मरुत्वतीयेन हैषोक्थेनाव्यथायै पृथिव्यां स्तब्धा वैरूपं साम प्रतिष्ठित्या अन्तरिक्षे इति वैरूपेण हैषा साम्ना प्रतिष्ठितान्तरिक्षे ऋषयस्त्वा प्रथमजा देवेष्विति तस्योक्तो बन्धुः - ८.६.१.७

अथोत्तरतः स्वराडस्युदीची दिगिति स्वराड्ढ नामैषोदीची दिङ्मरुतस्ते देवा अधिपतय इति मरुतो हैतस्यै दिशो देवा अधिपतयः सोमो हेतीनां प्रतिधर्तेति सोमो हैवात्र हेतीनां प्रतिधर्तैकविंशस्त्वा स्तोमः पृथिव्यां श्रयत्वित्येकविंशेन हैषा स्तोमेन पृथिव्यां श्रिता निष्केवल्यमुक्थमव्यथायै स्तभ्नात्विति निष्केवल्येन हैषोक्थेनाव्यथायै पृथिव्यां स्तब्धा वैराजं साम प्रतिष्ठित्या अन्तरिक्षे इति वैराजेन हैषा साम्ना प्रतिष्ठितान्तरिक्षे ऋषयस्त्वाप्रथमजा देवेष्विति तस्योक्तो बन्धुः - ८.६.१.८

अथ मध्ये । अधिपत्न्यसि बृहती दिगित्यधिपत्नी ह नामैषा बृहती दिग्विश्वे ते देवा अधिपतय इति विश्वे हैतस्यै दिशो देवा अधिपतयो बृहस्पतिर्हेतीनां प्रतिधर्तेति बृहस्पतिर्हैवात्र हेतीनां प्रतिधर्ता त्रिणवत्रयस्त्रिंशौ त्वा स्तोमौ पृथिव्यां श्रयतामिति त्रिणवत्रयस्त्रिंशाभ्यां हैषा स्तोमाभ्यां पृथिव्यां श्रिता वैश्वदेवाग्निमारुते उक्थे अव्यथायै स्तभ्नीतामिति वैश्वदेवाग्निमारुताभ्यां हैषोक्थाभ्यामव्यथायै पृथिव्यां स्तब्धा शाक्वररैवते सामनी प्रतिष्ठित्या अन्तरिक्षे इति शाक्वररैवताभ्यां हैषा सामभ्यां प्रतिष्ठितान्तरिक्षे ऋषयस्त्वा प्रथमजा देवेष्विति तस्योक्तो बन्धुः - ८.६.१.९

एतावान्वै सर्वो यज्ञः । यज्ञ उ देवानामात्मा यज्ञमेव तद्देवा आत्मानं कृत्वैतस्मिन्नाके स्वर्गे लोकेऽसीदंस्तथैवैतद्यजमानो यज्ञमेवात्मानं कृत्वैतस्मिन्नाके स्वर्गे लोके सीदति - ८.६.१.१०

अथ पञ्चचूडा उपदधाति । यज्ञो वै नाकसदो यज्ञ उ एव पञ्चचूडास्तद्य इमे चत्वार ऋत्विजो गृहपतिपञ्चमास्ते नाकसदो होत्राः पञ्चचूडा अतिरिक्तं वै तद्यद्धोत्रा यदु वा अतिरिक्तं चूडः स तद्यत्पञ्चातिरिक्ता तस्मात्पञ्चचूडाः-८.६.१.११

यद्वेव नाकसत्पञ्चचूडा उपदधाति । आत्मा वै नाकसदो मिथुनं पञ्चचूडा अर्धमु हैतदात्मनो यन्मिथुनं यदा वै सह मिथुनेनाथ सर्वोऽथ कृत्स्नः कृत्स्नतायै- ८.६.१.१२

यद्वेव नाकसत्पञ्चचूडा उपदधाति । आत्मा वै नाकसदः प्रजा पञ्चचूडा अतिरिक्तं वै तदात्मनो यत्प्रजा यदु वा अतिरिक्तं चूडः स तद्यत्पञ्चातिरिक्तास्तस्मात्पञ्चचूडाः - ८.६.१.१३

यद्वेव नाकसत्पञ्चचूडा उपदधाति । दिशो वै नाकसदो दिश उ एव पञ्चचूडास्तद्या अमुष्मादादित्यादर्वाच्यः पञ्च दिशस्ता नाकसदो याः पराच्यस्ताः पञ्चचूडा अतिरिक्ता वै ता दिशो या अमुष्मादादित्यात्पराच्यो यदु वा अतिरिक्तं चूडः स तद्यत्पञ्चातिरिक्तास्तस्मात्पञ्चचूडाः -८.६.१.१४

यद्वेव पञ्चचूडा उपदधाति । एतद्वै देवा अबिभयुर्यद्वै न इमाँल्लोकानुपरिष्टाद्रक्षांसि नाष्ट्रा न हन्युरिति त एतानेषां लोकानामुपरिष्टाद्गोप्तॄनकुर्वत - य एते हेतयश्च प्रहेतयश्च। तथैवैतद्यजमान एतानेषां लोकानामुपरिष्टाद्गोप्तॄन्कुरुते य एते हेतयश्च प्रहेतयश्च।-८.६.१.१५

[१]स पुरस्तादुपदधाति । अयं पुरो हरिकेश इत्यग्निर्वै पुरस्तद्यत्तमाह पुर इति प्राञ्चं ह्यग्निमुद्धरन्ति प्राञ्चमुपचरन्त्यथ यद्धरिकेश इत्याह हरिरिव ह्यग्निः सूर्यरश्मिरिति सूर्यस्येव ह्यग्ने रश्मयस्तस्य रथगृत्सश्च रथौजाश्च सेनानीग्रामण्याविति वासन्तिकौ तावृतू पुञ्जिकस्थला च क्रतुस्थला चाप्सरसाविति दिक्चोपदिशा चेति ह स्माह माहित्थिः सेना च तु ते समितिश्च दङ्क्ष्णवः पशवो हेतिः पौरुषेयो वधः प्रहेतिरिति यद्वै सेनायां च समितौ चऽर्तीयन्ते दङ्क्ष्णवः पशवो हेतिः पौरुषेयो वधः प्रहेतिरिति यदन्योऽन्यं घ्नन्ति स पौरुषेयो वधः प्रहेतिस्तेभ्यो नमो अस्त्विति तेभ्य एव नमस्करोति तेनो मृडयन्त्विति त एवास्मै मृडयन्ति ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्म इति यमेव द्वेष्टि यश्चैनं द्वेष्टि तमेषां जम्भे दधात्यमुमेषां जम्भे दधामीति ह ब्रूयाद्यं द्विष्यात्ततोऽह तस्मिन्न पुनरस्त्यपि तन्नाद्रियेत स्वयंनिर्दिष्टो ह्येव स यमेवंविद्द्वेष्टि- ८.६.१.१६

अथ दक्षिणतः । [२]अयं दक्षिणा विश्वकर्मेत्ययं वै वायुर्विश्वकर्मा योऽयम्पवत एष हीदं सर्वं करोति तद्यत्तमाह दक्षिणेति तस्मादेष दक्षिणैव भूयिष्ठं वाति तस्य रथस्वनश्च रथेचित्रश्च सेनानीग्रामण्याविति ग्रैष्मौ तावृतू मेनका च सहजन्या चाप्सरसाविति दिक्चोपदिशा चेति ह स्माह माहित्थिरिमे तु ते द्यावापृथिवी यातुधाना हेती रक्षांसि प्रहेतिरिति यातुधाना हैवात्र हेती रक्षांसि प्रहेतिस्तेभ्यो नमो अस्त्विति तस्योक्तो बन्धुः - ८.६.१.१७

अथ पश्चात् । अयं पश्चाद्विश्वव्यचा इत्यसौ वा आदित्यो विश्वव्यचा यदा ह्येवैष उदेत्यथेदं सर्वं व्यचो भवति तद्यत्तमाह पश्चादिति तस्मादेतम्प्रत्यञ्चमेव यन्तं पश्यन्ति तस्य रथप्रोतश्चासमरथश्च सेनानीग्रामण्याविति वार्षिकौ तावृतू प्रम्लोचन्ती चानुम्लोचन्ती चाप्सरसाविति दिक्चोपदिशा चेति ह स्माह माहित्थिरहोरात्रे तु ते ते हि प्र च म्लोचतोऽनु च म्लोचतो व्याघ्रा हेतिः सर्पाः प्रहेतिरिति व्याघ्रा हैवात्र हेतिः सर्पाः प्रहेतिस्तेभ्यो नमो अस्त्विति तस्योक्तो बन्धुः - ८.६.१.१८

अथोत्तरतः । अयमुत्तरात्संयद्वसुरिति यज्ञो वा उत्तरात्तद्यत्तमाहोत्तरादित्युत्तरतउपचारो हि यज्ञोऽथ यत्संयद्वसुरित्याह यज्ञं हि संयन्तीतीदं वस्विति तस्य तार्क्ष्यश्चारिष्टनेमिश्च सेनानीग्रामण्याविति शारदौ तावृतू विश्वाची च घृताची चाप्सरसाविति दिक्चोपदिशा चेति ह स्माह माहित्थिर्वेदिश्च तु ते स्रुक्च वेदिरेव विश्वाची स्रुग्घृताच्यापो हेतिर्वातः प्रहेतिरित्यापो हैवात्र हेतिर्वातः प्रहेतिरतो ह्येवोष्णो वात्यतः शीतस्तेभ्यो नमो अस्त्विति तस्योक्तो बन्धुः - ८.६.१.१९

अथ मध्ये । अयमुपर्यर्वाग्वसुरिति पर्जन्यो वा उपरि तद्यत्तमाहोपरीत्युपरि हि पर्जन्योऽथ यदर्वाग्वसुरित्याहातो ह्यर्वाग्वसु वृष्टिरन्नं प्रजाभ्यः प्रदीयते तस्य सेनजिच्च सुषेणश्च सेनानीग्रामण्याविति हैमन्तिकौ तावृतू उर्वशी च पूर्वचित्तिश्चाप्सरसाविति दिक्चोपदिशा चेति ह स्माह माहित्थिराहुतिश्च तु ते दक्षिणा चावस्फूर्जन्हेतिर्विद्युत्प्रहेतिरित्यवस्फूर्जन्हैवात्र हेतिर्विद्युत्प्रहेतिस्तेभ्यो नमो अस्त्विति तस्योक्तो बन्धुः - ८.६.१.२०

एते वै ते हेतयश्च प्रहेतयश्च । यांस्तद्देवा एषां लोकानामुपरिष्टाद्गोप्तॄनकुर्वताथ यास्ताः प्रजा एते ते सेनानीग्रामण्योऽथ यत्तन्मिथुनमेतास्ता अप्सरसः सर्व एव तद्देवाः कृत्स्ना भूत्वा सह प्रजया सह मिथुनेनैतस्मिन्नाके स्वर्गे लोकेऽसीदंस्तथैवैतद्यजमानः सर्व एव कृत्स्नो भूत्वा सह प्रजया सह मिथुनेनैतस्मिन्नाके स्वर्गे लोके सीदति - ८.६.१.२१

ता वा एताः । दशेष्टका उपदधाति दशाक्षरा विराड्विराडेषा चितिस्ता उ वै पञ्चैव द्वेद्वे ह्युपदधाति ता हैता अग्नेराशिषस्ता उत्तमायां चिता उपदधात्यन्त एषोऽग्नेर्यदुत्तमा चितिरन्ततस्तदग्नेराशिषो निराह पञ्च भवन्ति पञ्च हि यज्ञ आशिषो ऽथैने अन्तरा पुरीषं निवपत्यग्नी हैतौ यदेते इष्टके नेदिमावग्नी संशोचात इत्यथो अन्नं वै पुरीषमन्नेनैवाभ्यामेतत्संज्ञां करोति - ८.६.१.२२

अथातोऽन्वावृतम् । पुरस्तादुपधाय दक्षिणतः पश्चादुत्तरतो मध्य उपदधात्यथोत्तराः पुरस्तादेवाग्र उपधाय दक्षिणत उत्तरतो मध्ये पश्चादुपदधात्यवस्तात्प्रपदनो ह स्वर्गो लोक एतद्वै देवा इमांल्लोकान्त्सर्वतः समपिधायावस्तात्स्वर्गं लोकं प्रापद्यन्त तथैवैतद्यजमान इमांल्लोकान्त्सर्वतः समपिधायावस्तात्स्वर्गं लोकं प्रपद्यते- ८.६.१.२३

  1. तु. कूर्मपुराणम् १.४३.३, वायुपुराणम् ५३.४४, वा.सं. १५.१५
  2. वासं १५.१६