शतपथब्राह्मणम्/काण्डम् ६/अध्यायः ८/ब्राह्मणम् २

विकिस्रोतः तः

६.८.२

अथातो भस्मन एवाभ्यवहरणस्य । देवा वा एतदग्रे भस्मोदवपंस्तेऽब्रुवन्यदि वा इदमित्थमेव सदात्मानमभिसंस्करिष्यामहे मर्त्याः कुणपा अनपहतपाप्मानो भविष्यामो यद्यु परावप्स्यामो यदत्राग्नेयं बहिर्द्धा तदग्नेः करिष्याम उप तज्जानीत यथेदं करवामेति तेऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथेदं करवामेति - ६.८.२.१

ते चेतयमानाः । एतदपश्यन्नप एवैनदभ्यवहरामापो वा अस्य सर्वस्य प्रतिष्ठा तद्यत्रास्य सर्वस्य प्रतिष्ठा तदेनत्प्रतिष्ठाप्य यदत्राग्नेयं तदद्भ्योऽधि जनयिष्याम इति तदपोऽभ्यवाहरंस्तथैवैनदयमेतदपोऽभ्यवहरति - ६.८.२.२

आपो देवीः । प्रतिगृभ्णीत भस्मैतत्स्योने कृणुध्वं सुरभा उ लोक इति जग्धं वा एतद्यातयाम भवति तदेतदाह स्रभिष्ठ एनल्लोके कुरुध्वमिति तस्मै नमन्तां जनय इत्यापो वै जनयोऽद्भ्यो हीदं सर्वं जायते सुपत्नीरित्यग्निना वा आपः सुपत्न्यो मातेव पुत्रं बिभृताप्स्वेनदिनि यथा माता पुत्रमुपस्थे बिभृयादेवमेनद्बिभृतेत्येतत् - ६.८.२.३

अप्स्वग्ने सधिष्टवेति । अप्स्वग्ने योनिष्टवेत्येतत्सौषधीरनुरुध्यस इत्योषधीर्ह्येषोऽनुरुध्यते गर्भे सञ्जायसे पुनरिति गर्भो ह्येष सञ्जायते पुनर्गर्भो अस्योषधीनां गर्भो वनस्पतीनां गर्भो विश्वस्य भूतस्याग्ने गर्भो अपामसीति तदेनमस्य सर्वस्य गर्भं करोति - ६.८.२.४

त्रिभिरभ्यवहरति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनदेतदभ्यवहरत्येकेनाग्रेऽथ द्वाभ्यां द्वाभ्यां वाग्रेऽथैकेन द्विस्तु कृत्वोऽभ्यवहरति तद्ये द्विपादाः पशवस्तैरेवैनदेतदभ्यवहरति - ६.८.२.५

अथापादत्ते । तद्यदत्राग्नेयं तदेतदद्भ्योऽधि जनयत्यनयाऽनया वै भेषजं क्रियतेऽनयैवैनमेतत्सम्भरति प्रसद्य भस्मना योनिमपश्च पृथिवीमग्न इति प्रसन्नो ह्येष भस्मना योनिमपश्च पृथिवीं च भवति संसृज्य मातृभिष्ट्वं ज्योतिष्मान्पुनरासद इति संगत्य मातृभिष्ट्वं ज्योतिष्मान्पुनरासद इत्येतत्पुनरासद्य सदनं पुनरूर्जा सह रय्येत्येतेन मा सर्वेणाभिनिवर्तस्वेत्येतत् - ६.८.२.६

चतुर्भिरपादत्ते । तद्ये चतुष्पादाः पशवस्तैरेवैनमेतत्सम्भरत्यथो अन्नं वै पशवोऽन्नेनैवैनमेतत्सम्भरति त्रिभिरभ्यवहरति तत्सप्त सप्तचितिकोऽग्निः सप्तऽर्तवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति - ६.८.२.७

अपादाय भस्मनः प्रत्येत्य । उखायामोप्योपतिष्ठत एतद्वा एतदयथायथं करोति यदग्निमपोऽभ्यवहरति तस्मा एवैतन्निह्नुतेऽहिंसाया आग्नेयीभ्यामग्नय एवैतन्निह्नुते बुद्धवतीभ्यां यथैवास्यैतदग्निर्वचो निबोधेत् - ६.८.२.८

बोधा मे अस्य वचसो यविष्ठेति । बोध मेऽस्य वचसो यविष्ठेत्येतन्मंहिष्ठस्य प्रभृतस्य स्वधाव इति भूयिष्ठस्य प्रभृतस्य स्वधाव इत्येतत्पीयति त्वो अनु त्वो गृणातीति पीयत्येकोऽन्वेको गृणाति वन्दारुष्टे तन्वं वन्दे अग्न इति वन्दिता तेऽहं तन्वं वन्देऽग्न इत्येतत्स बोधि सूरिर्मघवा वसुपते वसुदावन् युयोध्यस्मद्द्वेषांसीति यथैवास्माद्द्वेषांसि युयादेवमेतदाह द्वाभ्यामुपतिष्ठते गायत्र्या च त्रिष्टुभा च तस्योक्तो बन्धुः - ६.८.२.९

तानि नव भवन्ति । नव दिशो दिशोऽग्निर्नव प्राणाः प्राणा अग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति - ६.८.२.१०

अथ प्रायश्चित्ती करोति । सर्वेभ्यो वा एष एतं कामेभ्य आधत्ते तद्यदेवास्यात्र कामानां व्यवच्छिद्यतेऽग्नावपोऽभ्यवह्रियमाणे तदेवैतत्संतनोति संदधात्युभे प्रायश्चित्ती करोति ये एवाग्नावनुगते तस्योक्तो बन्धुः - ६.८.२.११

तानि दश भवन्ति । दशाक्षरा विराड्विराडग्निर्दश दिशो दिशोऽग्निर्दश प्राणाः प्राणा अग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति - ६.८.२.१२

इति माध्यंदिनीये शतपथब्राह्मणे उखासंभरणं नाम षष्ठं काण्डं समाप्तम्।।