शतपथब्राह्मणम्/काण्डम् ६/अध्यायः ७/ब्राह्मणम् ४

विकिस्रोतः तः

६.७.४

अथ वात्सप्रेणोपतिष्ठते । एतद्वै प्रजापतिर्विष्णुक्रमैः प्रजाः सृष्ट्वा ताभ्यो वात्सप्रेणायुष्यमकरोत्तथैवैतद्यजमानो विष्णुक्रमैः प्रजाः सृष्ट्वा ताभ्यो वात्सप्रेणायुष्यं करोति - ६.७.४.१

स हैष दाक्षायणहस्तः । यद्वात्सप्रं तस्माद्यं जातं कामयेत सर्वमायुरियादिति वात्सप्रेणैनमभिमृशेत्तदस्मै जातायायुष्यं करोति तथो ह स सर्वमायुरेत्यथ यं कामयेत वीर्यवान्त्स्यादिति विकृत्यैनं पुरस्तादभिमन्त्रयेत तथो ह स वीर्यवान्भवति - ६.७.४.२

दिवस्परि प्रथमं जज्ञे अग्निरिति । प्राणो वै दिवः प्राणादु वा एष प्रथममजायतास्मद्द्वितीयं परि जातवेदा इति यदेनमदो द्वितीयं पुरुषविधोऽजनयत्तृतीयमप्स्विति यदेनमदस्तृतीयमद्भ्योऽजनयन्नृमणा अजस्रमिति प्रजापतिर्वै नृमणा अग्निरजस्रऽ इन्धान एनं जरते स्वाधीरिति यो वा एनमिन्द्धे स एनं जनयते स्वाधीः - ६.७.४.३

विद्मा ते अग्ने त्रेधा त्रयाणीति । अग्निर्वायुरादित्य एतानि हास्य तानि त्रेधा त्रयाणि विद्मा ते धाम विभृता पुरुत्रेति यदिदं बहुधा विह्रियते विद्मा ते नाम परमं गुहा यदिति यविष्ठ इति वा अस्य तन्नाम परमं गुहा विद्मा तमुत्सं यत आजगन्थेत्यापो वा उत्सोऽद्भ्यो वा एष प्रथममाजगाम - ६.७.४.४

समुद्रे त्वा नृमणाऽअप्स्वन्तरिति प्रजापतिर्वै नृमणा अप्सु त्वा प्रजापतिरित्येतन्नृचक्षा ईधे दिवो अग्नऊधन्निति प्रजापतिर्वै नृचक्षा आपो दिव ऊधस्तृतीये त्वा रजसि तस्थिवांसमिति द्यौर्वै तृतीयं रजोऽपामुपस्थे महिषा अवर्द्धन्निति प्राणा वै महिषा दिवि त्वा प्राणा अवर्द्धन्नित्येतत् - ६.७.४.५

ता एता एकव्याख्यानाः । एतमेवाभि ता आग्नेय्यस्त्रिष्टुभस्ता यदाग्नेय्यस्तेनाग्निरथ यत्त्रिष्टुभो यदेकादश तेनेन्द्र ऐन्द्राग्नोऽग्निर्यावत्यस्य मात्रा तावतैवैनमेतदुपतिष्ठत इन्द्राग्नी वै सर्वे देवाः सर्वदेवत्योऽग्निर्यावत्यस्य मात्रा तावतैवैनमेतदुपतिष्ठते - ६.७.४.६

यद्वेव विष्णुक्रमवात्सप्रे भवतः । विष्णुक्रमैर्वै प्रजापतिरिमं लोकमसृजत वात्सप्रेणाग्निं विष्णुक्रमैर्वै प्रजापतिरन्तरिक्षमसृजत वात्सप्रेण वायुं विष्णुक्रमैर्वै प्रजापतिर्दिवमसृजत वात्सप्रेणादित्यं विष्णुक्रमैर्वै प्रजापतिर्दिशोऽसृजत वात्सप्रेण चन्द्रमसं विष्णुक्रमैर्वै प्रजापतिर्भूतमसृजत वात्सप्रेण भविष्यद्विष्णुक्रमैर्वै प्रजापतिर्वित्तमसृजत वात्सप्रेणाशां विष्णुक्रमैर्वै प्रजापतिरहरसृजत वात्सप्रेण रात्रिं विष्णुक्रमैर्वै प्रजापतिः पूर्वपक्षानसृजत वात्सप्रेणापरपक्षान्विष्णुक्रमैर्वै प्रजापतिरर्द्धमासानसृजत वात्सप्रेण मासान्विष्णुक्रमैर्वै प्रजापतिर्ऋतूनसृजत वात्सप्रेण संवत्सरं तद्यद्विष्णुक्रमवात्सप्रे भवत एतदेव तेन सर्वं सृजते - ६.७.४.७

यद्वेव विष्णुक्रमवात्सप्रे भवतः । विष्णुक्रमैर्वै प्रजापतिः स्वर्गंलोकमभिप्रायात्स एतदवसानमपश्यद्वात्सप्रं तेनावास्यदप्रदाहाय यद्धि युक्तं न विमुच्यते प्र तद्दह्यते तथैवैतद्यजमानो विष्णुक्रमैरेव स्वर्गंलोकमभिप्रयाति वात्सप्रेणावस्यति - ६.७.४.८

स वै विष्णुक्रमान्क्रान्त्वा । अथ तदानीमेव वात्सप्रेणोपतिष्ठते यथा प्रयायाथतदानीमेव विमुञ्चेत्तादृक्तद्देवानां वै विधामनु मनुष्यास्तस्मादु हेदमुत मानुषो ग्रामः प्रयायाथ तदानीमेवावस्यति - ६.७.४.९

तद्वा अहोरात्रे एव विष्णुक्रमा भवन्ति । अहोरात्रे वात्सप्रमहोरात्रे एव तद्यात्यहोरात्रे क्षेम्यो भवति तस्मादु हेदमुत मानुषो ग्रामोऽहोरात्रे यात्वाऽहोरात्रे क्षेम्यो भवति - ६.७.४.१०

स वा अर्द्धमेव संवत्सरस्य विष्णुक्रमान्क्रमते । अर्द्धं वात्सप्रेणोपतिष्ठते मध्ये ह संवत्सरस्य स्वर्गो लोकः स यत्कनीयोऽर्द्धात्क्रमेत न हैतं स्वर्गंलोकमभिप्राप्नुयादथ यद्भूयोऽर्द्धात्पराङ्हैतं स्वर्गंलोकमतिप्रणश्येदथ यदर्द्धं क्रमतेऽर्द्धमुपतिष्ठते तत्सम्प्रति स्वर्गंलोकमाप्त्वा विमुञ्चते - ६.७.४.११

ताभ्यां वै विपर्यासमेति । यथा महान्तमध्वानं विमोकं समश्नुवीत तादृक्तत्स वै पुरस्ताच्चोपरिष्टाच्चोभे विष्णुक्रमवात्सप्रे समस्यत्यहर्वै विष्णुक्रमा रात्रिर्वात्सप्रमेमेतद्वा इदं सर्वं प्रजापतिः प्रजनयिष्यंश्च प्रजनयित्वा चाहोरात्राभ्यामुभयतः परिगृह्णाति - ६.७.४.१२

तदाहुः । यदहर्विष्णुक्रमा रात्रिर्वात्सप्रमथोभे एवाहन्भवतो न रात्र्यां कथमस्यापि रात्र्यां कृते भवत इत्येतद्वा एने अदो दीक्षमाणः पुरस्तादपराह्ण उभे समस्यति रात्रिर्हैतद्यदपराह्णोऽथैने एतत्संनिवप्स्यन्नुपरिष्टात्पूर्वाह्ण उभे समस्यत्यहर्हैतद्यत्पूर्वाह्ण एवमु हास्योभे एवाहन्कृते भवत उभे रात्र्याम् - ६.७.४.१३

स यदहः संनिवप्स्यन्त्स्यात् तदहः प्रातरुदित आदित्ये भस्मैव प्रथममुद्वपति भस्मोदुप्य वाचं विसृजते वाचं विसृज्य समिधमादधाति समिधमाधाय भस्मापोऽभ्यवहरति यथैव तस्याभ्यवहरणं तथाऽपादाय भस्मनः प्रत्येत्योखायामोप्योपतिष्ठतेऽथ प्रायश्चित्ती करोति - ६.७.४.१४

स यदि विष्णुक्रमीयमहः स्यात् । विष्णुक्रमान्क्रान्त्वा वात्सप्रेणोपतिष्ठेताथ यदि वात्सप्रीयं वात्सप्रेणोपस्थाय विष्णुक्रमान्क्रान्त्वा वात्सप्रमन्ततः कुर्यान्न विष्णुक्रमानन्ततः कुर्याद्यथा प्रयाय न विमुञ्चेत्तादृक्तदथ यद्वात्सप्रमन्ततः करोति प्रतिष्ठा वै वात्सप्रं यथा प्रतिष्ठापयेदवसाययेत्तादृक्तत्तस्मादु वात्सप्रमेवान्ततः कुर्यात् - ६.७.४.१५

इति सप्तमोऽध्यायः समाप्तः।।