शतपथब्राह्मणम्/काण्डम् ६/अध्यायः ७/ब्राह्मणम् २

विकिस्रोतः तः

६.७.२

तं तिष्ठन्प्रतिमुञ्चते । असौ वा आदित्य एष रुक्मस्तिष्ठतीव वा असावादित्योऽथो तिष्ठन्वै वीर्यवत्तर उदङ्प्राङ्तिष्ठंस्तस्योक्तो बन्धुः - ६.७.२.१

[१]दृशानो रुक्म उर्व्या व्यद्यौदिति । दृश्यमानो ह्येष रुक्म उर्व्या विद्योतते दुर्मर्षमायुः श्रिये रुचान इति दुर्मरं वा एतस्यायुः श्रियो एष रोचतेऽग्निरमृतो अभवद्वयोभिरिति सर्वैर्वा एष वयोभिरमृतोऽभवद्यदेनं द्यौरजनयदिति द्यौर्वा एतमजनयत्सुरेता इति सुरेता ह्येषा यस्या एष रेतः - ६.७.२.२

अथैनमिण्ड्वाभ्यां परिगृह्णाति । [२]नक्तोषासा समनसा विरूपे इत्यहोरात्रे वै नक्तोषासा समनसा विरूपे धापयेते शिशुमेकं समीची इति यद्वै किञ्चाहोरात्रयोस्तेनैतमेव समीची धापयेते द्यावाक्षामा रुक्मो अन्तर्विभातीति हरन्नेतद्यजुर्जपतीमे वै द्यावापृथिवी द्यावाक्षामा ते एष यन्नन्तरा विभाति तस्मादेतद्धरन्यजुर्जपति देवा अग्निं धारयन्द्रविणोदा इति परिगृह्य निदधाति प्राणा वै देवा द्रविणोदास्त एतमग्र एवमधारयंस्तैरेवैनमेतद्धारयति - ६.७.२.३

अथ शिक्यपाशं प्रतिमुञ्चते । विश्वा रूपाणि प्रतिमुञ्चते कविरित्यसौ वा आदित्यः कविर्विश्वा रूपा शिक्यं प्रासावीद्भद्रं द्विपदे चतुष्पद इत्युद्यन्वा एष द्विपदे चतुष्पदे च भद्रं प्रसौति वि नाकमख्यत्सविता वरेण्य इति स्वर्गो वै लोको नाकस्तमेष उद्यन्नेवानुविपश्यत्यनु प्रयाणमुषसो विराजतीत्युषा वा अग्रे व्युच्छति तस्या एष व्युष्टिं विराजन्ननूदेति - ६.७.२.४

अथैनमतो विकृत्या विकरोति । इदमेवैतद्रेतः सिक्तं विकरोति तस्माद्यौनौ रेतः सिक्तं विक्रियते - ६.७.२.५

सुपर्णोऽसि गरुत्मानिति । वीर्यं वै सुपर्णो गरुत्मान्वीर्यमेवैनमेतदभिसंस्करोति त्रिवृत्ते शिर इति त्रिवृतमस्य स्तोमं शिरः करोति गायत्रं चक्षुरिति गायत्रं चक्षुः करोति बृहद्रथन्तरे पक्षाविति बृहद्रथन्तरे पक्षौ करोति स्तोम आत्मेति स्तोममात्मानं करोति पञ्चविंशं छन्दांस्यङ्गानीति छन्दांसि वा एतस्याङ्गानि यजूंषि नामेति यदेनमग्निरित्याचक्षते तदस्य यजूंषि नाम साम ते तनूर्वामदेव्यमित्यात्मा वै तनूरात्मा ते तनूर्वामदेव्यमित्येतद्यज्ञायज्ञियं पुच्छमिति यज्ञायज्ञियं पुच्छं करोति धिष्ण्याः शफा इति धिष्ण्यैर्वा एषोऽस्मिंलोके प्रतिष्ठितः सुपर्णोऽसि गरुत्मान्दिवं
गच्छ स्वः पतेति तदेनं सुपर्णं गरुत्मन्तं कृत्वाह देवान्गच्छ स्वर्गं लोकं पतेति - ६.७.२.६

तं वा एतम् । अत्र पक्षपुच्छवन्तं विकरोति यादृग्वै योनौ रेतो विक्रियते तादृग्जायते तद्यदेतमत्र पक्षपुच्छवन्तं विकरोति तस्मादेषोऽमुत्र पक्षपुच्छवाञ्जायते - ६.७.२.७

तं हैके । एतया विकृत्याऽभिमन्त्र्यान्यां चितिं चिन्वन्ति द्रोणचितं वा रथचक्रचितं वा कङ्कचितं वा प्रउगचितं वोभयतः प्रउगं वा समुह्य पुरीषं वा न तथा कुर्याद्यथा पक्षपुच्छवन्तं गर्भं परिवृश्चेत्तादृक्तत्तस्मादेनं सुपर्णचितमेव चिनुयात् - ६.७.२.८

तमेतया विकृत्या । इत ऊर्ध्वं प्राञ्चं प्रगृह्णात्यसौ वा आदित्य एषोऽग्निरमुं तदादित्यमित ऊर्ध्वं प्राञ्चं दधाति तस्मादसावादित्य इत ऊर्ध्वः प्राङ्धीयते परोबाहु प्रगृह्णाति परोबाहु ह्येष इतोऽथैनमुपावहरति तमुपावहृत्योपरिनाभि धारयति तस्योक्तो बन्धुः - ६.७.२.९

अथ विष्णुक्रमान्क्रमते । एतद्वै देवा विष्णुर्भूत्वेमांल्लोकानक्रमन्त यद्विष्णुर्भूत्वाऽक्रमन्त तस्माद्विष्णुक्रमास्तथैवैतद्यजमानो विष्णुर्भूत्वेमांल्लोकान्क्रमते - ६.७.२.१०

स यः स विष्णुर्यज्ञः सः । स यः स यज्ञोऽयमेव स योऽयमग्निरुखायामेतमेव तद्देवा आत्मानं कृत्वेमांल्लोकानक्रमन्त तथैवैतद्यजमान एतमेवात्मानं कृत्वेमांल्लोकान्क्रमते - ६.७.२.११

उदङ्प्राङ्तिष्ठन् । एतद्वै तत्प्रजापतिर्विष्णुक्रमैरुदङ्प्राङ्तिष्ठन्प्रजा असृजत तथैवैतद्यजमानो विष्णुक्रमैरुदङ्तिष्ठन्प्रजाः सृजते - ६.७.२.१२

विष्णोः क्रमोऽसीति । विष्णुर्हि भूत्वा क्रमते सपत्नहेति सपत्नान्हात्र हन्ति गायत्रं च्छन्द आरोहेति गायत्रं च्छन्द आरोहति पृथिवीमनु विक्रमस्वेति पृथिवीमनु विक्रमते प्रहरति पादं क्रमत ऊर्द्ध्वमग्निमुद्गृह्णात्यूर्ध्वो हि रोहति - ६.७.२.१३

विष्णोः क्रमोऽसीति विष्णुर्हि भूत्वा क्रमतेऽभिमातिहेत्यभिमातीर्हात्र हन्ति त्रैष्टुभं छन्द आरोहेति त्रैष्टुभं छन्द आरोहत्यन्तरिक्षमनु विक्रमस्वेत्यन्तरिक्षमनु विक्रमत प्रहरति पादं क्रमत ऽऊर्द्ध्वमग्निमुद्गृह्णात्यूर्ध्वो हि रोहति - ६.७.२.१४

विष्णोः क्रमोऽसीति । विष्णुर्हि भूत्वा क्रमतेऽरातीयतो हन्तेत्यरातीयतो हात्र हन्ति जागतं छन्द आरोहेति जागतं छन्द आरोहति दिवमनु विक्रमस्वेति दिवमनुविक्रमते प्रहरति पादं क्रमत ऊर्ध्वमग्निमुद्गृह्णात्यूर्ध्वो हि रोहति - ६.७.२.१५

विष्णोः क्रमोऽसीति । विष्णुर्हि भूत्वा क्रमते शत्रूयतो हन्तेति शत्रूयतो हात्र हन्त्यानुष्टुभं छन्द आरोहेत्यानुष्टुभं छन्द आरोहति दिशोऽनु विक्रमस्वेति सर्वा दिशोऽनु वीक्षते न प्रहरति पादं नेदिमांल्लोकानतिप्रणश्यानीत्यूर्ध्वमेवाग्निमुद्गृह्णाति सं ह्यारोहति - ६.७.२.१६


  1. वासं १२.१
  2. वासं १२.२