शतपथब्राह्मणम्/काण्डम् ६/अध्यायः ७/ब्राह्मणम् १

विकिस्रोतः तः

६.७.१

रुक्मं प्रतिमुच्य बिभर्ति । सत्यं हैतद्यद्रुक्मः सत्यं वा एतं यन्तुमर्हति सत्येनैतं देवा अबिभरुः सत्येनैवैनमेतद्बिभर्ति - ६.७.१.१

तद्यत्तत्सत्यम् । असौ स आदित्यः स हिरण्मयो भवति ज्योतिर्वै हिरण्यं ज्योतिरेषोऽमृतं हिरण्यममृतमेष परिमण्डलो भवति परिमण्डलो ह्येष एकविंशतिनिर्बाध एकविंशो ह्येष बहिष्टान्निर्बाधं बिभर्ति रश्मयो वा एतस्य निर्बाधा बाह्यत उ वा एतस्य रश्मयः - ६.७.१.२

यद्वेव रुक्मं प्रतिमुच्य बिभर्ति । असौ वा आदित्य एष रुक्मो नो हैतमग्निम्मनुष्यो मनुष्यरूपेण यन्तुमर्हत्येतेनैव रूपेणैतद्रूपं बिभर्ति - ६.७.१.३

यद्वेव रुक्मं प्रतिमुच्य बिभर्ति । रेतो वा इदं सिक्तमयमग्निस्तेजो वीर्यं रुक्मोऽस्मिंस्तद्रेतसि तेजो वीर्यं दधाति - ६.७.१.४

यदेव रुक्मं प्रतिमुच्य बिभर्ति । एतद्वै देवा अबिभयुर्यद्वै न इममिहरक्षांसि नाष्ट्रा न हन्युरिति तस्मा एतमन्तिकाद्गोप्तारमकुर्वन्नमुमेवादित्यमसौ वा आदित्य एष रुक्मस्तथैवास्मा अयमेतमन्तिकाद्गोप्तारं करोति - ६.७.१.५

कृष्णाजिने निष्यूतो भवति । यज्ञो वै कृष्णाजिनं यज्ञो वा एतं यन्तुमर्हति यज्ञेनैतं देवा अबिभरुर्यज्ञेनैवैतमेतद्बिभर्ति लोमतश्छन्दांसि वै लोमानि छन्दांसि वा एतं यन्तुमर्हन्ति च्छन्दोभिरेतं देवा अबिभरुश्छन्दोभिरेवैनमेतद्बिभर्ति - ६.७.१.६

अभि शुक्लानि च कृष्णानि च लोमानि निष्यूतो भवति । ऋक्सामयोर्हैते रूपे ऋक्सामे वाऽएतं यन्तुमर्हत ऋक्सामाभ्यामेतं देवा अबिभरुर्ऋक्सामाभ्यामेवैनमेतद्बिभर्ति शाणो रुक्मपाशस्त्रिवृत्तस्योक्तो बन्धुः - ६.७.१.७

तमुपरिनाभि बिभर्ति । असौ वा आदित्य एष रुक्म उपरिनाभ्यु वा ऽएषः - ६.७.१.८

यद्वेवोपरिनाभि । अवाग्वै नाभे रेतः प्रजापतिस्तेजो वीर्यं रुक्मो नेन्मे रेतः प्रजातिं तेजो वीर्यं रुक्मः प्रदहादिति - ६.७.१.९

यद्वेवोपरिनाभि । एतद्वै पशोर्मेध्यतरं यदुपरिनाभि पुरीषसंहिततरं यदवाङ्नाभेस्तद्यदेव पशोर्मेध्यतरं तेनैनमेतद्बिभर्ति - ६.७.१.१०

यद्वेवोपरिनाभि । यद्वै प्राणस्यामृतमूर्ध्वं तन्नाभेरूर्ध्वैः प्राणैरुच्चरत्यथ यन्मर्त्यं पराक्तन्नाभिमत्येति तद्यदेव प्राणस्यामृतं तदेनमेतदभिसम्पादयति तेनैनमेतद्बिभर्ति - ६.७.१.११

अथैनमासन्द्या बिभर्ति । इयं वा आसन्द्यस्यां हीदं सर्वमासन्नमियं वा एतं यन्तुमर्हत्यनयैतं देवा अबिभरुरनयैवैनमेतद्बिभर्ति - ६.७.१.१२

औदुम्बरी भवति । ऊर्ग्वै रस उदुम्बर ऊर्जैवैनमेतद्रसेन बिभर्त्यथो सर्व एते वनस्पतयो यदुदुम्बरः सर्वे वा एतं वनस्पतयो यन्तुमर्हन्ति सर्वैरेतं वनस्पतिभिर्देवा अबिभरुः सर्वैरेवैनमेतद्वनस्पतिभिर्बिभर्ति - ६.७.१.१३

प्रादेशमात्र्यूर्ध्वा भवति । प्रादेशमात्रो वै गर्भो विष्णुर्योनिरेषा गर्भसम्मितां तद्योनिं करोत्यरत्निमात्री तिरश्ची बाहुर्वा अरत्निर्बाहुनो वै वीर्यं क्रियते वीर्यसम्मितैव तद्भवति वीर्यं वा एतं यन्तुमर्हति वीर्येणैतं देवा अबिभरुर्वीर्येणैवैनमेतद्बिभर्ति - ६.७.१.१४

चतुःस्रक्तयः पादा भवन्ति । चतुःस्रक्तीन्यनूच्यानि चतस्रो वै दिशो दिशो वा एतं यन्तुमर्हन्ति दिग्भिरेतं देवा अबिभरुर्दिग्भिरेवैनमेतद्बिभर्ति मौञ्जीभी रज्जुभिर्व्युता भवति त्रिवृद्भिस्तस्योक्तो बन्धुर्मृदा दिग्धा तस्यो एवोक्तोऽथो ऽअनतिदाहाय - ६.७.१.१५

अथैनं शिक्येन बिभर्ति । इमे वै लोका एषोऽग्निर्दिशः शिक्यं दिग्भिर्हीमे लोकाः शक्नुवन्ति स्थातुं यच्छक्नुवन्ति तस्माच्छिक्यं दिग्भिरेवैनमेतद्बिभर्ति षडुद्यामं भवति षड्ढि दिशो मौञ्जं त्रिवृत्तस्योक्तो बन्धुर्मृदा दिग्धं तस्यो एवोक्तोऽथो ऽअनतिदाहाय - ६.७.१.१६

तस्याप ऽएव प्रतिष्ठा । अप्सु हीमे लोकाः प्रतिष्ठिता आदित्य आसञ्जनमादित्ये हीमे लोका दिग्भिरासक्ताः स यो हैतदेवं वेदैतेनैव रूपेणैतद्रूपं बिभर्ति - ६.७.१.१७

यद्वेवैनं शिक्येन बिभर्ति । संवत्सर एषोऽग्निर्ऋतवः शिक्यमृतुभिर्हि संवत्सरः शक्नोति स्थातुं यच्छक्नोति तस्माच्छिक्यमृतुभिरेवैनमेतद्बिभर्ति षडुद्यामं भवति षड्ढ्यृतवः - ६.७.१.१८

तस्याहोरात्रे एव प्रतिष्ठा । अहोरात्रयोर्ह्ययं संवत्सरः प्रतिष्ठितश्चन्द्रमा आसञ्जनं चन्द्रमसि ह्ययं संवत्सर ऋतुभिरासक्तः स यो हैतदेवं वेदैतेनैवरूपेणैतद्रूपं बिभर्ति तस्य ह वा एष संवत्सरभृतो भवति य एवं वेद संवत्सरोपासितो हैव तस्य भवति य एवं न वेदेत्यधिदेवतम् - ६.७.१.१९

अथाध्यात्मम् । आत्मैवाग्निः प्राणाः शिक्यं प्राणैर्ह्ययमात्मा शक्नोति स्थातुं यच्छक्नोति तस्माच्छिक्यं प्राणैरेवैनमेतद्बिभर्ति षडुद्यामं भवति षड्ढि प्राणाः - ६.७.१.२०

तस्य मन एव प्रतिष्ठा । मनसि ह्ययमात्मा प्रतिष्ठितोऽन्नमासञ्जनमन्ने ह्ययमात्मा प्राणैरासक्तः स यो हैतदेवं वेदैतेनैव रूपेणैतद्रूपं बिभर्ति - ६.७.१.२१

अथैनमुखया बिभर्ति । इमे वै लोका उखेमे वा ऽएतं लोका यन्तुमर्हन्त्येभिरेतं लोकैर्देवा अबिभरुरेभिरेवैनमेतल्लोकैर्बिभर्ति - ६.७.१.२२

सा यदुखा नाम । एतद्वै देवा एतेन कर्मणैतयावृतेमांल्लोकानुदखनन्यदुदखनंस्तस्मादुत्खोत्खा ह वै तामुखेत्याचक्षते परोऽक्षं परोऽक्षकामा हि देवाः - ६.७.१.२३

तद्वा उखेति द्वे अक्षरे । द्विपाद्यजमानो यजमानोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्बिभर्ति सो एव कुम्भी सा स्थाली तत्षट् षडृतवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति - ६.७.१.२४

अथैनमिण्ड्वा परिगृह्णाति । असौ वा आदित्य एषोऽग्निरहोरात्रे इण्ड्वे अमुं तदादित्यमहोरात्राभ्यां परिगृह्णाति तस्मादेषोऽहोरात्राभ्यां परिगृहीतः - ६.७.१.२५

यद्वेवैननमिण्ड्वाभ्यां परिगृह्णाति । असौ वा आदित्य एषोऽग्निरिमा उ लोकाविण्ड्वे अमुं तदादित्यमाभ्यां लोकाभ्यां परिगृह्णाति तस्मादेष आभ्यां लोकाभ्याम्परिगृहीतः परिमण्डले भवतः परिमण्डलौ हीमौ लोकौ मौञ्जे त्रिवृती तस्योक्तो बन्धुर्मृदा दिग्धे तस्यो ऽएवोक्तोऽथो अनतिदाहाय - ६.७.१.२६

अथातः सम्पदेव । आसन्दी चोखा च शिक्यं च रुक्मपाशश्चाग्निश्च रुक्मश्च तत्षट् षडृतवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवतीण्ड्वे तदष्टावष्टाक्षरा गायत्री गायत्रोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति - ६.७.१.२७

अथ सर्वसम्पत् । चत्वारः पादाश्चत्वार्यनूच्यानि शिक्यं च रुक्मपाशश्च यदु किंच रज्जव्यं शिक्यं तदनूखाग्नी रुक्मस्तत्त्रयोदश त्रयोदश मासाः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति - ६.७.१.२८