शतपथब्राह्मणम्/काण्डम् ६/अध्यायः ६/ब्राह्मणम् ३

विकिस्रोतः तः

६.६.३

अथ वैकङ्कतीमादधाति । प्रजापतिर्यां प्रथमामाहुतिमजुहोत्स हुत्वा यत्र न्यमृष्ट ततो विकङ्कतः समभवत्सैषा प्रथमाहुतिर्यद्विकङ्कतस्तामस्मिन्नेतज्जुहोति तयैनमेतत्प्रीणाति परस्या अधि संवतोऽवरां अभ्यातर यत्राहमस्मि तां अवेति यथैव यजुस्तथा बन्धुः - ६.६.३.१

अथौदुम्बरीमादधाति । देवाश्चासुराश्चोभये प्राजापत्या अस्पर्धन्त ते ह सर्वऽएव वनस्पतयोऽसुरानभ्युपेयुरुदुम्बरो हैव देवान्न जहौ ते देवा असुराञ्जित्वा तेषां वनस्पतीनवृञ्जत - ६.६.३.२

ते होचुः । हन्त यैषु वनस्पतिषूर्ग्यो रस उदुम्बरे तं दधाम ते यद्यपक्रामेयुर्यातयामा अपक्रामेयुर्यथा धेनुर्दुग्धा यथाऽनड्वानूहिवानिति तद्यैषु वनस्पतिषूर्ग्यो रस आसीदुदुम्बरे तमदधुस्तयैतदूर्जा सर्वान्वनस्पतीन्प्रति पच्यते तस्मात्स सर्वदार्द्रः सर्वदा क्षीरी तदेतत्सर्वमन्नं यदुदुम्बरः सर्वे वनस्पतयः सर्वेणैवैनमेतदन्नेन प्रीणाति सर्वैर्वनस्पतिभिः समिन्द्धे - ६.६.३.३

परमस्याः परावत इति । या परमा परावदित्येतद्रोहिदश्व इहागहीति रोहितो हाग्नेरश्वः पुरीष्यः पुरुप्रिय इति पशव्यो बहुप्रिय इत्येतदग्ने त्वं तरा मृध इत्यग्ने त्वं तर सर्वान्पाप्मन इत्येतत् - ६.६.३.४

अथापरशुवृक्णमादधाति । जायत एष एतद्यच्चीयते स एष सर्वास्मा अन्नाय जायत एतद्वेकमन्नं यदपरशुवृक्णं तेनैनमेतत्प्रीणाति यदग्ने कानि कानि चिदा ते दारूणि दध्मसि सर्वं तदस्तु ते घृतं तज्जुषस्व यविष्ठ्येति यथैव यजुस्तथा बन्धुस्तद्यत्किं चापरशुवृक्णं तदस्मा एतत्स्वदयति तदस्मा अन्नं कृत्वाऽपिदधाति - ६.६.३.५

अथाधःशयमादधाति । जायत एष एतद्यच्चीयते स एष सर्वस्मा अन्नाय जायत एतद्वेकमन्नं यदधःशयं तेनैनमेतत्प्रीणाति यदत्त्युपजिह्विका यद्वम्रो अतिसर्पतीत्युपजिह्विका वा हि तदत्ति वम्रो वातिसर्पति सर्वं तदस्तु ते घृतं तज्जुषस्व यविष्ठ्येति यथैव यजुस्तथा बन्धुस्तद्यत्किं चाधःशयं तदस्मा एतत्स्वदयति तदस्मा अन्नं कृत्वाऽपिदधाति - ६.६.३.६

अथैता उत्तराः पालाश्यो भवन्ति । ब्रह्म वै पलाशो ब्रह्मणैवैनमेतत्समिन्द्धे यद्वेव पालाश्यः सोमो वै पलाश एषो ह परमाहुतिर्यत्सोमाहुतिस्तामस्मिन्नेतज्जुहीति तयैनमेतत्प्रीणाति - ६.६.३.७

अहरहरप्रयावं भरन्त इति । अहरहरप्रमत्ता आहरन्त इत्येतदश्वायेव तिष्ठते घासमस्मा इति यथाश्वाय तिष्ठते घासमित्येतद्रायस्पोषेण समिषा मदन्त इति रय्या च पोषेण च समिषा मदन्त इत्येतदग्ने मा ते प्रतिवेशा रिषामेति यथैवास्य प्रतिवेशो न रिष्येदेवमेतदाह - ६.६.३.८

नाभा पृथिव्याः समिधाने अग्नाविति । एषा ह नाभिः पृथिव्यै यत्रैष एतत्समिध्यते रायस्पोषाय बृहते हवामह इति रय्यै च पोषाय च बृहते हवामह इत्येतदिरम्मदमितीरया ह्येष मत्तो बृहदुक्थमिति बृहदुक्थो ह्येष यजत्रमिति यज्ञियमित्येतज्जेतारमग्निं पृतनासु सासहिमिति जेता ह्यग्निः पृतना उ सासहिः - ६.६.३.९

याः सेना अभीत्वरीः । दंष्ट्राभ्यां मलिम्लून्ये जनेषु मलिम्लवो योऽअस्मभ्यमरातीयाद्यश्च नो द्वेषते जनः निन्दाद्यो अस्मान्धिप्साच्च सर्वं तं मस्मसा कुर्विति - ६.६.३.१०

एतद्वै देवाः । यश्चैनानद्वेड्यं चाद्विषुस्तमस्मा अन्नं कृत्वाप्यदधुस्तेनैनमप्रीणन्नन्नमहैतस्याभवददहदु देवानां पाप्मानं तथैवैतद्यजमानो यश्चैनं द्वेष्टि यं च द्वेष्टि तमस्मा अन्नं कृत्वाऽपिदधाति तेनैनं प्रीणात्यन्नमहैतस्य भवति दहत्यु यजमानस्य पाप्मानम् - ६.६.३.११

ता एता एकादशादधाति । अक्षत्रियस्य वाऽपुरोहितस्य वाऽसर्वं वै तद्यदेकादशा सर्वं तद्यदक्षत्रियो वाऽपुरोहितो वा - ६.६.३.१२


द्वादश क्षत्रियस्य वा पुरोहितस्य वा । सर्वं वै तद्यद्द्वादश सर्वं तद्यत्क्षत्रियो वा पुरोहितो वा - ६.६.३.१३

स पुरोहितस्यादधाति । संशितं मे ब्रह्म संशितं वीर्यं बलं संशितं क्षत्रं जिष्णु यस्याहमस्मि पुरोहित इति तदस्य ब्रह्म च क्षत्रं च संश्यति - ६.६.३.१४

अथ क्षत्रियस्य । उदेषां बाहू अतिरमुद्वर्चो अथो बलं क्षिणोमि ब्रह्मणाऽमित्रानुन्नयामि स्वां अहमिति यथैव क्षिणुयादमित्रानुन्नयेत्स्वानेवमेतदाहोभे त्वेवैते आदध्यादयं वा अग्निर्ब्रह्म च क्षत्रं चेममेवैतदग्निमेताभ्यामुभाभ्यां समिन्द्धे ब्रह्मणा च क्षत्रेण च - ६.६.३.१५

तास्त्रयोदश सम्पद्यन्ते । त्रयोदश मासाः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति - ६.६.३.१६

प्रादेशमात्र्यो भवन्ति । प्रादेशमात्रो वै गर्भो विष्णुरन्नमेतदात्मसम्मितेनैवैनमेतदन्नेन प्रीणाति यदु वाऽआत्मसम्मितमन्नं तदवति तन्न हिनस्ति यद्भूयो हिनस्ति तद्यत्कनीयो न तदवति तिष्ठन्नादधाति तस्योपरि बन्धुः स्वाहाकारेण रेतो वा इदं सिक्तमयमग्निस्तस्मिन्यत्काष्ठान्यस्वाहाकृतान्यभ्यादध्याद्धिंस्याद्धैनं ता यत्समिधस्तेन नाहुतयो यदु स्वाहाकारेण तेनान्नमन्नं हि स्वाहाकारस्तथो हैनं न हिनस्ति - ६.६.३.१७