शतपथब्राह्मणम्/काण्डम् ६/अध्यायः ६/ब्राह्मणम् २

विकिस्रोतः तः
Jump to navigation Jump to search

६.६.२

तां तिष्ठन्प्रवृणक्ति इमे वै लोका उखा तिष्ठन्तीव वा इमे लोका अथो तिष्ठन्वै वीर्यवत्तमः - ६.६.२.[१]

उदङ्प्राङ्तिष्ठन् । उदङ्वै प्राङ्तिष्ठन्प्रजापतिः प्रजा असृजत् - ६.६.२.[२]

यद्वेवोदङ्प्राङ्तिष्ठन् । एषा होभयेषां देवमनुष्याणां दिग्यदुदीची प्राची - ६.६.२.[३]

यद्वेवोदङ्प्राङ्तिष्ठन् । एतस्यां ह दिशि स्वर्गस्य लोकस्य द्वारं तस्मादुदङ्प्राङ्तिष्ठन्नाहुतीर्जुहोत्युदङ्प्राङ्तिष्ठन्दक्षिणा नयति द्वारैव तत्स्वर्गस्य लोकस्य वित्तं प्रपादयति - ६.६.२.[४]

मा सु भित्था मा सु रिष इति । यथैव यजुस्तथा बन्धुरम्ब धृष्णु वीरयस्व स्विति योषा वा उखाऽम्बेति वै योषाया आमन्त्रणं स्विव वीरयस्वाग्निश्चेदं करिष्यथ इत्यग्निश्च ह्येतत्करिष्यन्तौ भवतः - ६.६.२.[५]

दृंहस्व देवी पृथिवी स्वस्तय इति । यथैव यजुस्तथा बन्धुरासुरी माया स्वधयाकृताऽसीति प्राणो वा असुस्तस्यैषा माया स्वधया कृता जुष्टं देवेभ्य इदमस्तु हव्यमिति या एवैतस्मिन्नग्नावाहुतीर्होष्यन्भवति ता एतदाहाथो एषैव हव्यमरिष्टा त्वमुदिहि यज्ञे अस्मिन्निति यथैवारिष्टाऽनार्तैतस्मिन्यज्ञ उदियादेवमेतदाह - ६.६.२.[६]

द्वाभ्यां प्रवृणक्ति । द्विपाद्यजमानो यजमानोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनामेतत्प्रवृणक्ति गायत्र्या च त्रिष्टुभा च प्राणो गायत्र्यात्मा त्रिष्टुबेतावान्वै पशुर्यावान्प्राणश्चात्मा च तद्यावान्पशुस्तावतैवैनामेतत्प्रवृणक्त्यथो अग्निर्वै गायत्रीन्द्रस्त्रिष्टुबैन्द्राग्नोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनामेतत्प्रवृणक्तीन्द्राग्नी वै सर्वे देवाः सर्वदेवत्योऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनामेतत्प्रवृणक्ति तयोः सप्त पदानि सप्तचितिकोऽग्निः सप्तऽर्तवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति - ६.६.२.[७]

तां यदाग्निः संतपति । अथैनामर्चिरारोहति योषा वा उखा वृषाऽग्निस्तस्माद्यदा वृषा
योषां संतपत्यथास्यां रेतो दधाति - ६.६.२.[८]

तद्धैके । यदि चिरमर्चिरारोहत्यङ्गारानेवावपन्त्युभयेनैषोऽग्निरिति न तथा कुर्यादस्थन्वान्वाव पशुर्जायतेऽथ तं नाग्र ऽएवास्थन्वन्तमिव न्यृषन्ति रेतऽइवैव दधति रेत उ एतद्नस्थिकं यदर्चिस्तस्मादेनामर्चिरेवारोहेत् - ६.६.२.[९]

तां यदार्चिरारोहति । अथास्मिन्त्समिधमादधाति रेतो वा एनामेतदापद्यत एषोऽग्निस्तस्मिन्नेतां रेतसि सम्भूतिं दधाति - ६.६.२.[१०]

सा कार्मुकी स्यात् । देवाश्चासुराश्चोभये प्राजापत्या अस्पर्द्धन्त ते देवा अग्निमनीकं
कृत्वाऽसुरानभ्यायंस्तस्यार्चिषः प्रगृहीतस्यासुरा अग्रं प्रावृश्चंस्तदस्यां प्रत्यतिष्ठत्स कृमुकोऽभवत्तस्मात्स स्वादू रसो हि तस्मादु लोहितोऽर्चिर्हि स एषोऽग्निरेव यत्कृमुकोऽग्निमेवास्मिन्नेतत्सम्भूतिं दधाति - ६.६.२.[११]

प्रादेशमात्री भवति । प्रादेशमात्रो वै गर्भो विष्णुरात्मसम्मितामेवास्मिन्नेतत्सम्भूतिं दधाति - ६.६.२.[१२]

घृते न्युत्ता भवति । अग्निर्यस्यै योनेरसृज्यत तस्यै घृतमुल्बमासीत्तस्मात्तत्प्रत्युद्दीप्यत ऽआत्मा ह्यस्यैष तस्मात्तस्य न भस्म भवत्यात्मैव तदात्मानमप्येति न वा उल्बं गर्भं हिनस्त्यहिंसायाऽ उल्बाद्वै जायमानो जायत उल्बाज्जायमानो जायाता इति - ६.६.२.[१३]

तामादधाति । द्र्वन्नः सर्पिरासुतिरिति दार्वन्नः सर्पिरशन इत्येतत्प्रत्नो होतावरेण्य इति सनातनो होता वरेण्य इत्येतत्सहसस्पुत्रो अद्भुत इति बलं वै सहो बलस्य पुत्रो ऽद्भुत इत्येतत्तिष्ठन्नादधाति स्वाहाकारेण तस्योपरि बन्धुः - ६.६.२.[१४]

तद्वा आत्मैवोखा । योनिर्मुञ्जाः शणा जरायूल्बं घृतं गर्भः समित् - ६.६.२.[१५]

बाह्योखा भवति । अन्तरे मुञ्जा बाह्यो ह्यात्माऽन्तरा योनिर्बाह्ये मुञ्जा भवन्त्यन्तरे शणा बाह्या हि योनिरन्तरं जरायु बाह्ये शणा भवन्त्यन्तरं घृतं बाह्यं हि जराय्वन्तरमुल्बं बाह्यं घृतं भवत्यन्तरा समिद्बाह्यं ह्युल्बमन्तरो गर्भ एतेभ्यो वै जायमानो जायते तेभ्य एवैनमेतज्जनयति - ६.६.२.[१६]