शतपथब्राह्मणम्/काण्डम् ६/अध्यायः ३/ब्राह्मणम् ३

विकिस्रोतः तः
Jump to navigation Jump to search

६.३.३

प्रदीप्ता एतेऽग्नयो भवन्ति । अथ मृदमच्छयन्तीमे वै लोका एतेऽग्नयस्ते यदा प्रदीप्ता अथैत इमे लोकाः पुरो वा एतदेभ्यो लोकेभ्योऽग्रे देवाः कर्मान्वैच्छंस्तद्यदेतानग्नीनतीत्य मृदमाहरति तदेनं पुरैभ्यो लोकेभ्योऽन्विच्छति - ६.३.३.[१]

प्राञ्चो यन्ति । प्राची हि दिगग्नेः स्वायामेवैनमेतद्दिश्यन्विच्छति स्वायां दिशि विन्दति - ६.३.३.[२]

ते प्रयन्ति । अग्निं पुरीष्यमङ्गिरस्वदच्छेम इत्यग्निं पशव्यमग्निवदच्छेम इत्येतत् - ६.३.३.[३]

अथानद्धापुरुषमीक्षते । अग्निं पुरीष्यमङ्गिरस्वद्भरिष्याम इत्यग्निं पशव्यमग्निवद्भरिष्याम इत्येतत्तदेनमनद्धापुरुषेणान्विच्छति - ६.३.३.[४]

अथ वल्मीकवपा सुषिरा व्यध्वे निहिता भवति । तामन्वीक्षत इयं वै वल्मीकवपेयमु वा इमे लोका एतद्वा एनं देवा एषु लोकेषु विग्राहमैच्छंस्तथैवैनमयमेतदेषु लोकेषु विग्राहमिच्छति - ६.३.३.[५]

अन्वग्निरुषसामग्रमख्यदिति । तदेनमुषःस्वैच्छन्नन्वहानि प्रथमो जातवेदा इति तदेनमहःस्वैच्छन्ननु सूर्यस्य पुरुत्रा च रश्मीनिति तदेनं सूर्यस्य रश्मिष्वैच्छन्ननु द्यावापृथिवी आततन्थेति तदेनं द्यावापृथिव्योरैच्छंस्तमविन्दंस्तथैवैनमयमेतद्विन्दति तं यदा परापश्यत्यथ तामवास्यत्यागच्छन्ति मृदम् - ६.३.३.[६]

अथाश्वमभिमन्त्रयते । एतद्वै देवा अब्रुवन्पाप्मानमस्यापहनामेति श्रमो वै पाप्मा श्रममस्य पाप्मानमपहनामेति तस्य श्रमं पाप्मानमपाघ्नंस्तथैवास्यायमेतच्छ्रमं पाप्मानमपहन्ति - ६.३.३.[७]

आगत्य वाज्यध्वानमिति । आगतो ह्यस्याध्वा भवति सर्वा मृधो विधूनुत इति पाप्मा वै मृधः सर्वान्पाप्मनो विधूनुत इत्येतत्तस्मादु हैतदश्वः स्यत्त्वा विधूनुते
ऽग्निं सधस्थे महति चक्षुषा निचिकीषत इतीदं वै महत्सधस्थमग्निमस्मिन्महति सधस्थे चक्षुषा दिदृक्षत इत्येतत् - ६.३.३.[८]

अथैनमाक्रमयति । एतद्वा एष एतं देवेभ्योऽनुविद्य प्राब्रवीद्यथाऽयमिहेवेत्येवम् - ६.३.३.[९]

यद्वेवाक्रमयति । एतद्वै देवा अबिभयुर्यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति तस्मा एतं वज्रमुपरिष्टादभिगोप्तारमकुर्वन्नमुमेवादित्यमसौ वा आदित्य एषोऽश्वस्तथैवास्मा अयमेतं वज्रमुपरिष्टादभिगोप्तारं करोति - ६.३.३.[१०]

आक्रम्य वाजिन् । पृथिवीमग्निमिच्छ रुचा त्वमिति चक्षुर्वै रुगाक्रम्य त्वं वाजिन्पृथिवीमग्निमिच्छ चक्षुषेत्येतद्भूम्या वृत्त्वाय नो ब्रूहि यतः खनेम तं वयमिति भूमेस्तत्स्पाशयित्वाय नो ब्रूहि यत एनं खनेमेत्येतत् - ६.३.३.[११]

अथैनमुन्मृशति । एतद्वा एनं देवाः प्रोचिवांसं वीर्येण समार्धयंस्तथैवैनमयमेतत्प्रोचिवांसं वीर्येण समर्धयति द्यौस्ते पृष्ठं पृथिवी सधस्थमात्माऽन्तरिक्षं समुद्रो योनिरितीत्थमसीत्थमसीत्येवैतदाह विख्याय चक्षुषा त्वमभितिष्ठ पृतन्यत इति विख्याय चक्षुषा त्वमभितिष्ठ सर्वान्पाप्मन इत्येतन्नोपस्पृशति वज्रो वाऽअश्वो नेन्मायं वज्रो हिनसदिति - ६.३.३.[१२]

अथैनमुत्क्रमयति । एतद्वै देवा अब्रुवन्किमिममभ्युत्क्रमिष्याम इति महत्सौभगमिति तं महत्सौभगमभ्युदक्रमयंस्तथैवैनमयमेतन्महत्सौभगमभ्युत्क्रमयत्युत्क्राम महते सौभगायेत्युत्क्राम महत्ते सौभगमित्येतत्तस्मादु हैतदश्वः पशूनां भगितमोऽस्मादास्थानादिति यत्रैतत्तिष्ठसीत्येतद्द्रविणोदा इति द्रविणं ह्येभ्यो ददाति वाजिन्निति वाजी ह्येष वयं स्याम सुमतौ पृथिव्या अग्निं खनन्त उपस्थे अस्या इति वयमस्मै पृथिव्यै सुमतौ स्यामाग्निमस्या उपस्थे खनन्त इत्येतत् - ६.३.३.[१३]

अथैनमुत्क्रान्तमभिमन्त्रयते । एतद्वा एनं देवाः प्रोचिवांसं यथा ददिवांसं वन्देतैवमुपास्तुवन्नुपामहयंस्तथैवैनमयमेतदुपस्तौत्युपमहयत्युदक्रमीदित्युद्ध्यक्रमीद्द्रविणोदा इति द्रविणं ह्येभ्यो ददाति वाज्यर्वेति वाजी च ह्येषोऽर्वा चाकः सुलोकं सुकृतं पृथिव्यामित्यकरः सुलोकं सुकृतं पृथिव्यामित्येतत्ततः खनेम सुप्रतीकमग्निमिति तत एनं खनेमेत्येतत्सुप्रतीकमिति सर्वतो वा अग्निः सुप्रतीकः स्वो रुहाणा अधि नाकमुत्तममिति स्वर्गो वै लोको नाकः स्वर्गं लोकं रोहन्तोऽधि नाकमुत्तममित्येतत्तं दक्षिणोपसंक्रमयति यत्रेतरौ पशू भवतस्ते दक्षिणतः प्राञ्चस्तिष्ठन्ति स य एवामुत्र दक्षिणत स्थानस्य बन्धुः सोऽत्र - ६.३.३.[१४]

अथोपविश्य मृदमभिजुहोति । एतद्वै देवा अब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्ते चेतयमाना एतामाहुतिमपश्यंस्तामजुहवुस्तां हुत्वेमांल्लोकानुखामपश्यन् - ६.३.३.[१५]

तेऽब्रुवन् । चेतयध्वमेवेति चितिमिच्छतेति वाव तदब्रुवंस्ते चेतयमाना एतां द्वितीयामाहुतिमपश्यंस्तामजुहवुस्तां हुत्वा विश्वज्योतिषोऽपश्यन्नेता देवता अग्निं वायुमादित्यमेता ह्येव देवता विश्वं ज्योतिस्तथैवैतद्यजमान एते आहुती हुत्वेमांश्च लोकानुखां पश्यत्येताश्च देवता विश्वज्योतिषो व्यतिषक्ताभ्यां जुहोतीमांश्च तल्लोकानेताश्च देवता व्यतिषजति - ६.३.३.[१६]

यद्वेवैते आहुती जुहोति । मृदं च तदपश्च प्रीणाति ते इष्ट्वा प्रीत्वाथैने सम्भरति
व्यतिषक्ताभ्यां जुहोति मृदं च तदपश्च व्यतिषजति - ६.३.३.[१७]

आज्येन जुहोति । वज्रो वा आज्यं वज्रमेवास्मा एतदभिगोप्तारं करोत्यथो रेतो वा
आज्यं रेत एवैतत्सिञ्चति स्रुवेण वृषा वै स्रुवो वृषा वै रेतः सिञ्चति स्वाहाकारेण
वृषा वै स्वाहाकारो वृषा वै रेतः सिञ्चति - ६.३.३.[१८]

आ त्वा जिघर्मि मनसा घृतेनेति । आ त्वा जुहोमि मनसा च घृतेन चेत्येतत्प्रतिक्षियन्तं भुवनानि विश्वेति प्रत्यङ्ह्येष सर्वाणि भुवनानि क्षियति पृथुं तिरश्चा वयसा बृहन्तमिति पृथुर्वा एष तिर्यङ्वयसो बृहन्धूमेन व्यचिष्ठमन्नै रभसं दृशानमित्यवकाशवन्तमन्नैरन्नादं दीप्यमानमित्येतत् - ६.३.३.[१९]

आ विश्वतः प्रत्यञ्चं जिघर्मीति । आ सर्वतः प्रत्यञ्चं जुहोमीत्येतदरक्षसा मनसा तज्जुषेतेत्यहीडमानेन मनसा तज्जोषयेतेत्येतन्मर्यश्री स्पृहयद्वर्णो अग्निरिति मर्यश्रीर्ह्येष स्पृहयद्वर्णोऽग्निर्नाभिमृशे तन्वा जर्भुराण इति न ह्येषोऽभिमृशे तन्वा दीप्यमानो भवति - ६.३.३.[२०]

द्वाभ्यामभिजुहोति । द्विपाद्यजमानो यजमानोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेततद्रेतो भूतं सिञ्चत्याग्नेयीभ्यामग्निमेवैतद्रेतो भूतं सिञ्चति ते यदाग्नेय्यौ तेनाग्निरथ यत्त्रिष्टुभौ तेनेन्द्र ऐन्द्राग्नोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्रेतो भूतं सिञ्चतीन्द्राग्नी वै सर्वे देवाः सर्वदेवत्योऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्रेतोभूतं सिञ्चति - ६.३.३.[२१]

अश्वस्य पदे जुहोति । अग्निरेष यदश्वस्तथो हास्यैते अग्निमत्येवाहुती हुते भवतः - ६.३.३.[२२]

अथैनं परिलिखति । मात्रामेवास्मा एतत्करोति यथैतावानसीत्येवम् - ६.३.३.[२३]

यद्वेवैनं परिलिखति । एतद्वै देवा अबिभयुर्यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति तस्मा एतां पुरं पर्यश्रयंस्तथैवास्मा अयमेतां पुरं परिश्रयत्यभ्र्या वज्रो वा अभ्रिर्वज्रमेवास्मा एतदभिगोप्तारं करोति सर्वतः परिलिखति सर्वत एवास्मा एतं वज्रमभिगोप्तारं करोति त्रिष्कृत्वः परिलिखति त्रिवृतमेवास्मा एतं वज्रमभिगोप्तारं करोति - ६.३.३.[२४]

परि वाजपतिः कविः । परि त्वाग्ने पुरं वयं त्वमग्ने द्युभिरित्यग्निमेवास्मा एतदुपस्तुत्य वर्म करोति परिवतीभिः परीव हि पुर आग्नेयीभिरग्निपुरामेवास्मा एतत्करोति सा हैषाग्निपुरा दीप्यमाना तिष्ठति तिसृभिस्त्रिपुरमेवास्मा एतत्करोति
तस्मादु हैतत्पुरां परमं रूपं यत्त्रिपुरं स वै वर्षीयसा वर्षीयसा च्छन्दसा परां परां लेखां वरीयसीं करोति तस्मात्पुरां परा परा वरीयसी लेखा भवन्ति लेखा हि पुरः - ६.३.३.[२५]

अथैनमस्यां खनति । एतद्वै देवा अबिभयुर्यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति तस्मा इमामेवात्मानमकुर्वन्गुप्त्या आत्माऽऽत्मानं गोप्स्यतीति सासमम्बिला स्यात्तदस्येयमात्मा भवति यद्वेव समंबिला योनिर्वा इयं रेत इदं यद्वै रेतसो योनिमतिरिच्यतेऽमुया तद्भवत्यथ यन्न्यूनं व्यृद्धं तदेतद्वै रेतसः समृद्धं यत्समम्बिलं चतुःस्रक्तिरेष कूपो भवति चतस्रो वै दिशः सर्वाभ्य एवैनमेतद्दिग्भ्यः खनति - ६.३.३.[२६]