शतपथब्राह्मणम्/काण्डम् ६/अध्यायः ३/ब्राह्मणम् २

विकिस्रोतः तः

६.३.२

हस्त एषाभ्रिर्भवत्यथ पशूनभिमन्त्रयते । एतद्वा एषु देवा अन्वेषिष्यन्तः पुरस्ताद्वीर्यमदधुस्तथैवैष्वयमेतदन्वेषिष्यन्पुरस्ताद्वीर्यं दधाति - ६.३.२.१

सोऽश्वमभिमन्त्रयते । प्रतूर्तं वाजिन्नाद्रवेति यद्वै क्षिप्रं तत्तूर्तमथ यत्क्षिप्रात्क्षेपीयस्तत्प्रतूर्त वरिष्ठामनु संवतमितीयं वै वरिष्ठा संवदिमामनु संवतमित्येतद्दिवि ते जन्म परममन्तरिक्षे तव नाभिः पृथिव्यामधि योनिरिदिति तदेनमेता देवताः करोत्यग्निं वायुमादित्यं तदश्वे वीर्यं दधाति - ६.३.२.२

अथ रासभम् । युञ्जाथां रासभं युवमित्यध्वर्युं चैतद्यजमानं चाहास्मिन्यामे वृषण्वसू इत्यस्मिन्कर्मणि वृषण्वसू इत्येतदग्निं भरन्तमस्मयुमित्यग्निं भरन्तमस्मत्प्रेषितमित्येतत्तद्रासभे वीर्यं दधाति - ६.३.२.३

अथाजम् । योगे योगे तवस्तरं वाजे वाजे हवामह इत्यन्नं वै वाजः कर्मणि कर्मणि तवस्तरमन्नेऽन्ने हवामह इत्येतत्सखाय इन्द्रमूतय इतीन्द्रियवन्तमूतय इत्येतत्तदजे वीर्यं दधाति - ६.३.२.४

त्रिभिरभिमन्त्रयते । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैष्वेतद्वीर्यं दधाति - ६.३.२.५

अथैनान्प्राच उत्क्रमयति । तदेनमेतैः पशुभिरन्विच्छति नोपस्पृशत्यग्निरेष यत्पशवो नेन्माऽयमग्निर्हिनसदिति - ६.३.२.६

सोऽश्वमुत्क्रमयति । प्रतूर्वन्नेह्यवक्रामन्नशस्तीरिति पाप्मा वा अशस्तिस्त्वरमाण एह्यवक्रामन्पाप्मानमित्येतद्रुद्रस्य गाणपत्यं मयोभूरेहीति रौद्रा वै पशवो या ते देवता तस्यै गाणपत्यं मयोभूरेहीत्येतत्तदेनमश्वेनान्विच्छति - ६.३.२.७

अथ रासभम् । उर्वन्तरिक्षं वीहि स्वस्ति गव्यूतिरभयानि कृण्वन्निति यथैव यजुस्तथा बन्धुः पूष्णा सयुजा सहेतीयं वै पूषाऽनया सयुजा सहेत्येतत्तदेनं रासभेनान्विच्छति - ६.३.२.८

अथाजम् । पृथिव्याः सधस्थादग्निं पुरीष्यमङ्गिरस्वदाभरेति पृथिव्या उपस्थादग्निं पशव्यमग्निवदाभरेत्येतत्तदेनमजेनान्विच्छति - ६.३.२.९

त्रिभिरन्विच्छति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्विच्छति त्रिभिः पुरस्तादभिमन्त्रयते तत्षट्षडृतवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति - ६.३.२.१०