शतपथब्राह्मणम्/काण्डम् ६/अध्यायः ३/ब्राह्मणम् १

विकिस्रोतः तः

६.३.१

एतद्वै देवा अब्रुवन् । चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तेषां चेतयमानानां सवितैतानि सावित्राण्यपश्यद्यत्सविताऽपश्यत्तस्मात्सावित्राणि स एतामष्टागृहीतामाहुतिमजुहोत्तां हुत्वेमामष्टधाविहितामषाढामपश्यत्पुरैव सृष्टां सतीम् - ६.३.१.१

ते यदब्रुवन् चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवन्यच्चेतयमाना अपश्यंस्तस्माच्चितिराहुतिर्वै यज्ञो यदिष्ट्वाऽपश्यत्तस्मादिष्टका - ६.३.१.२

तां वा एताम् । एकां सतीमष्टागृहीतामष्टाभिर्यजुर्भिर्जुहोति तस्मादियमेका सत्यष्टधा विहिता - ६.३.१.३

तामूर्ध्वामुद्गृह्णन्जुहोति । इमां तदूर्ध्वां रूपैरुद्गृह्णाति तस्मादियमूर्ध्वा रूपैः - ६.३.१.४

तां संततां जुहोति । एतद्वै देवा अबिभयुर्यद्वै न इह रक्षांसि नाष्ट्रा नान्ववेयुरिति त एतं संततहोममपश्यन्रक्षसां नाष्ट्राणामनन्ववायनाय तस्मात्संततां जुहोति - ६.३.१.५

यद्वेवैतामाहुतिं जुहोति । सवितैषोऽग्निस्तमेतयाऽऽहुत्या पुरस्तात्प्रीणाति तमिष्ट्वा प्रीत्वाऽथैनं सम्भरति तद्यदेतया सवितारं प्रीणाति तस्मात्सावित्राणि तस्माद्वा एतामाहुतिं जुहोति - ६.३.१.६

यद्वेवैतामाहुतिं जुहोति । सवितैषोऽग्निस्तमेतयाऽऽहुत्या पुरस्ताद्रेतोभूतं सिञ्चति यादृग्वै योनौ रेतः सिच्यते तादृग्जायते तद्यदेतया सवितारं रेतो भूतं सिञ्चति तस्मात्सावित्राणि तस्माद्वा एतामाहुतिं जुहोति - ६.३.१.७

स्रुवश्चात्र स्रुक्च प्रयुज्येते । वाग्वै स्रुक्प्राणः स्रुवो वाचा च वै प्राणेन चैतदग्रे देवाः कर्मान्वैच्छंस्तस्मात्स्रुवश्च स्रुक्च - ६.३.१.८

यद्वेव स्रुवश्च स्रुक्च । यो वै स प्रजापतिरासीदेष स स्रुवः प्राणो वै स्रुवः प्राणः प्रजापतिरथ या सा वागासीदेषा सा स्रुग्योषा वै वाग्योषा स्रुगथ यास्ता आप आयन्वाचो लोकादेतास्ता यामेतामाहुतिं जुहोति - ६.३.१.९

तां संततां जुहोति । संतता हि ता आप आयन्नथ यः स प्रजापतिस्त्रय्या विद्यया सहापः प्राविशदेष स यैरेतद्यजुर्भिर्जुहोति - ६.३.१.१०

तद्यानि त्रीणि प्रथमानि । इमे ते लोका अथ यच्चतुर्थं यजुस्त्रयी सा विद्या जगती सा भवति जगती सर्वाणि छन्दांसि सर्वाणि छन्दांसि त्रयी विद्याऽथ यानि चत्वार्युत्तमानि दिशस्तानीमे च वै लोका दिशश्च प्रजापतिरथैषा त्रयी विद्या - ६.३.१.११

स जुहोति । [१]युञ्जानः प्रथमं मन इति प्रजापतिर्वै युञ्जानः स मन एतस्मै कर्मणे ऽयुङ्क्त तद्यन्मन एतस्मै कर्मणेऽयुङ्क्त तस्मात्प्रजापतिर्युञ्जानः - ६.३.१.१२

तत्त्वाय सविता धिय इति । मनो वै सविता प्राणा धियोऽग्नेर्ज्योतिर्निचाय्येत्यग्नेर्ज्योतिर्दृष्ट्वेत्येतत्पृथिव्या अध्याभरदिति पृथिव्यै ह्येनदध्याभरति - ६.३.१.१३

युक्तेन मनसा वयमिति । मन एवैतदेतस्मै कर्मणे युङ्क्ते न ह्ययुक्तेन मनसा किं चन सम्प्रति शक्नोति कर्तुं देवस्य सवितुः सव इति देवेन सवित्रा प्रसूता इत्येतत्स्वर्ग्याय शक्त्येति यथैतेन कर्मणा स्वर्गं लोकमियादेवमेतदाह शक्त्येति शक्त्या हि स्वर्गं लोकमेति - ६.३.१.१४

युक्त्वाय सविता देवानिति । मनो वै सविता प्राणा देवाः स्वर्यतो धिया दिवमिति स्वर्गं हैनां लोकं यतो धियैतस्मै कर्मणे युयुजे बृहज्ज्योतिः करिष्यत इत्यसौ वा आदित्यो बृहज्ज्योतिरेष उ एषोऽग्निरेतम्वेते संस्करिष्यन्तो भवन्ति सविता प्रसुवाति तानिति सवितृप्रसूता एतत्कर्म करवन्नित्येतत् - ६.३.१.१५

युञ्जते मन उत युञ्जते धिय इति । मनश्चैवैतत्प्राणांश्चैतस्मै कर्मणे युङ्क्ते विप्रा विप्रस्येति प्रजापतिर्वै विप्रो देवा विप्रा बृहतो विपश्चित इति प्रजापतिर्वै बृहन्विपश्चिद्वि होत्रा दध इति यद्वा एष चीयते तदेष होत्रा विधत्ते चिते ह्येतस्मिन्होत्रा अधिविधीयन्ते वयुनाविदित्येष हीदं वयुनमविन्ददेक इदित्येको ह्येष इदं सर्वं वयुनमविन्दन्मही देवस्य सवितुः परिष्टुतिरिति महती देवस्य सवितुः परिष्टुतिरित्येतत् - ६.३.१.१६

[२]युजे वां ब्रह्म पूर्व्यं नमोभिरिति । प्राणो वै ब्रह्म पूर्व्यमन्नं नमस्तत्तदेषैवाहुतिरन्नमेतयैव तदाहुत्यैतेनान्नेन प्राणानेतस्मै कर्मणे युङ्क्ते वि श्लोक एतु पथ्येव सूरेरिति यथोभयेषु देवमनुष्येषु कीर्ति श्लोको यजमानस्य स्यादेवमेतदाह शृण्वन्तु विश्वे अमृतस्य पुत्रा इति प्रजापतिर्वा अमृतस्तस्य विश्वे देवाः पुत्रा आ ये धामानि दिव्यानि तस्थुरितीमे वै लोका दिव्यानि धामानि तद्य एषु लोकेषु देवास्तानेतदाह - ६.३.१.१७

यस्य प्रयाणमन्वन्य इद्ययुरिति । प्रजापतिर्वा एतदग्रे कर्माकरोत्तत्ततो देवा अकुर्वन्देवा देवस्य महिमानमोजसेति यज्ञो वै महिमा देवा देवस्य यज्ञं वीर्यमोजसेत्येतद्यः पार्थिवानि विममे स एतश इति यद्वै किं चास्यां तत्पार्थिवं तदेष सर्वं विमिमीते रश्मिभिर्ह्येनदभ्यवतनोति रजांसि देवः सविता महित्वनेतीमे वै लोका रजांस्यसावादित्यो देवः सविता तानेष महिम्ना विमिमीते - ६.३.१.१८

देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगायेति । असौ वा आदित्यो देवः सविता यज्ञो भगस्तमेतदाह प्रसुव यज्ञं प्रसुव यज्ञपतिं भगायेति दिव्यो गन्धर्वः केतपूः केतं नः पुनात्वित्यसौ वा आदित्यो दिव्यो गन्धर्वोऽन्नं केतोऽन्नपूरन्नं नः पुनात्वित्येतद्वाचस्पतिर्वाचं नः स्वदत्विति वाग्वा इदं कर्म प्राणो वाचस्पतिः प्राणो न इदं कर्म स्वदत्वित्येतत् - ६.३.१.१९

[३]इमं नो देव सवितर्यज्ञं प्रणयेति । असौ वा आदित्यो देवः सविता यदु वा एष यज्ञियं कर्म प्रणयति तदनार्तं स्वस्त्युदृचमश्नुते देवाव्यमिति यो देवानवदित्येतत्सखिविदं सत्राजितं धनजितं स्वर्जितमिति य एतत्सर्वं विन्दादित्येतदृचेत्यृचा स्तोमं समर्धय गायत्रेण रथन्तरं बृहद्गायत्रवर्तनीति सामानि स्वाहेति यजूंषि सैषा त्रयी विद्या प्रथमं जायते यथैवादोऽमुत्राजायतैवमथ यः सोऽग्निरसृज्यतैष स योऽत ऊर्द्ध्वमग्निश्चीयते - ६.३.१.२०

तान्येतान्यष्टौ सावित्राणि । अष्टाक्षरा गायत्री गायत्रोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्रेतो भूतं सिञ्चति तानि नव भवन्ति स्वाहाकारो नवमो नव दिशो दिशोऽग्निर्नव प्राणाः प्राणा अग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्रेतो भूतं सिञ्चति तानि दश भवन्त्याहुतिर्दशमी दशाक्षरा विराड्विराडग्निर्दश दिशो दिशोऽग्निर्दश प्राणाः प्राणा अग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति - ६.३.१.२१

एतस्यामाहुत्यां हुतायाम् । अग्निर्देवेभ्य उदक्रामत्ते देवा अब्रुवन्पशुर्वा अग्निः पशुभिरिममन्विच्छाम स स्वाय रूपायाविर्भविष्यतीति तं पशुभिरन्वैच्छन्त्स स्वाय रूपायाविरभवत्तस्मादु हैतत्पशुः स्वाय रूपायाविर्भवति गौर्वा गवेऽश्वो वाऽश्वाय पुरुषो वा पुरुषाय - ६.३.१.२२

तेऽब्रुवन् । यद्यह सर्वैरन्वेषिष्यामो यातयामा अनुपजीवनीया भविष्यन्ति यद्यु असर्वैरसर्वमनुवेत्स्याम इति त एतमेकं पशुं द्वाभ्यां पशुभ्यां प्रत्यपश्यन्रासभं गोश्चावेश्च तद्यदेतमेकं पशुं द्वाभ्यां पशुभ्यां प्रत्यपश्यंस्तस्मादेष एकः सन्द्विरेताः - ६.३.१.२३

अनद्धापुरुषं पुरुषात् । एष ह वा अनद्धापुरुषो यो न देवानवति न पितॄन्न मनुष्यांस्तत्सर्वैरह पशुभिरन्वैच्छन्नो यातयामा अनुपजीवनीया अभवन् - ६.३.१.२४

त्रिभिरन्विच्छति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्विच्छति पञ्च सम्पदा भवन्ति पञ्चचितिकोऽग्निः पञ्चऽर्तवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति - ६.३.१.२५

ते मौञ्जीभिरभिधानीभिरभिहिता भवन्ति । अग्निर्देवेभ्य उदक्रामत्स मुञ्जं प्राविशत्तस्मात्स सुषिरस्तस्माद्वेवान्तरतो धूमरक्त इव सैषा योनिरग्नेर्यन्मुञ्चोऽग्निरिमे पशवो न वै योनिर्गर्भं हिनस्त्यहिंसायै योनिर्वै जायमानो जायते योनेर्जायमानो जायाता इति - ६.३.१.२६

त्रिवृतो भवन्ति । त्रिवृद्ध्यग्निरश्वाभिधानीकृता भवन्ति सर्वतो वा अश्वाभिधानी मुखं परिशेते सर्वतो योनिर्गर्भं परिशेते योनिरूपमेतत्क्रियते - ६.३.१.२७

ते प्राञ्चस्तिष्ठन्ति । अश्वः प्रथमोऽथ रासभोऽथाज एवं ह्येतेऽनुपूर्वं यद्वै तदश्रु संक्षरितमासीदेष सोऽश्वोऽथ यत्तदरसदिवैष रासभोऽथ यः स कपाले रसो लिप्त आसीदेष सोऽजोऽथ यत्तत्कपालमासीदेषा सा मृद्यामेतदाहरिष्यन्तो भवन्त्येतेभ्यो वा एष रूपेभ्योऽग्रेऽसृज्यत तेभ्य एवैनमेतज्जनयति - ६.३.१.२८

ते दक्षिणतस्तिष्ठन्ति । एतद्वै देवा अबिभयुर्यद्वै नो यज्ञं दक्षिणतो रक्षांसि नाष्ट्रा न हन्युरिति त एतं वज्रमपश्यन्नमुमेवादित्यमसौ वा आदित्य एषोऽश्वस्त एतेन वज्रेण दक्षिणतो रक्षांसि नाष्ट्रा अपहत्याभयेऽनाष्ट्र एतं यज्ञमातन्वत तथैवैतद्यजमान एतेन वज्रेण दक्षिणतो रक्षांसि नाष्ट्रा अपहत्याभयेऽनाष्ट्र एतं यज्ञं तनुते - ६.३.१.२९

दक्षिणत आहवनीयो भवति । उत्तरत एषाभ्रिरुपशेते वृषा वा आहवनीयो योषाऽभ्रिर्दक्षिणतो वै वृषा योषामुपशेतेऽरत्निमात्रेऽरत्निमात्राद्धि वृषा योषामुपशेते - ६.३.१.३०

सा वैणवी स्यात् । अग्निर्देवेभ्य उदक्रामत्स वेणुं प्राविशत्तस्मात्स सुषिरः स एतानि वर्माण्यभितोऽकुरुत पर्वाण्यननुप्रज्ञानाय यत्रयत्र निर्ददाह तानि कल्माषाण्यभवन् - ६.३.१.३१

सा कल्माषी स्यात् । सा ह्याग्नेयी यदि कल्माषीं न विन्देदप्यकल्माषी स्यात्सुषिरा तु स्यात्सैवाग्नेयी सैषा योनिरग्नेर्यद्वेणुरग्निरियं मृन्न वै योनिर्गर्भं हिनस्त्यहिंसायै योनेर्वै जायमानो जायते योनेर्जायमानो जायाता इति - ६.३.१.३२

प्रादशमात्री स्यात् । प्रादेशमात्रं हीदमभि वाग्वदत्यरत्निमात्री त्वेव भवति बाहुर्वा अरत्निर्बाहुनो वै वीर्यं क्रियते वीर्यसम्मितैव तद्भवति - ६.३.१.३३

अन्यतः क्ष्णुत्स्यात् । अन्यतरतो हीदं वाचः क्ष्णुतमुभयतः क्ष्णुत्त्वेव भवत्युभयतो हीदं वाचः क्ष्णुतं यदेनया दैवं च वदति मानुषं चाथो यत्सत्यं चानृतं च तस्मादुभयतः क्ष्णुत् - ६.३.१.३४

यद्वेवोभयतः क्ष्णुत् । अतो वा अभ्रेर्वीर्यं यतोऽस्यै क्ष्णुतमुभयत एवास्यामेतद्वीर्यं दधाति - ६.३.१.३५

यद्वेवोभयतः क्ष्णुत् । एतद्वा एनं देवा अनुविद्यैभ्यो लोकेभ्योऽखनंस्तथैवैनमयमेतदनुविद्यैभ्यो लोकेभ्यः खनति - ६.३.१.३६

स यदिति खनति । तदेनमस्माल्लोकात्खनत्यथ यदूर्ध्वोच्चरतितदमुष्माल्लोकादथ यदन्तरेण संचरति तदन्तरिक्षलोकात्सर्वेभ्यएवैनमेतदेभ्यो लोकेभ्यः खनति - ६.३.१.३७

तामादत्ते । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददे गायत्रेण च्छन्दसाङ्गिरस्वदिति सवितृप्रसूत एवैनामेतदेताभिर्देवताभिरादत्ते गायत्रेण च्छन्दसाऽथो अस्यां गायत्रं च्छन्दो दधाति पृथिव्याः सधस्थादग्निं पुरीष्यमङ्गिरस्वदाभरेति पशवो वै पुरीषं पृथिव्या उपस्थादग्निं पशव्यमग्निवदाभरेत्येतत्त्रैष्टुभेन च्छन्दसाऽङ्गिरस्वदिति तदेनां त्रैष्टुभेन च्छन्दसाऽऽदत्तेऽथो अस्यां त्रैष्टुभं छन्दो दधाति - ६.३.१.३८

अभ्रिरसीति । अभ्रिर्ह्येषा तदेनं सत्येनादत्ते नार्यसीति वज्रो वा अभ्रिर्योषा नारी न वै योषा कं चन हिनस्ति शमयत्येवैनामेतदहिंसायै त्वया वयमग्निं शकेम खनितुं सधस्थ एतीदं वै सधस्थं त्वया वयमग्निं शकेम खनितुमस्मिन्त्सधस्थ इत्येतज्जागतेन च्छन्दसाङ्गिरस्वदिति तदेनां जागतेन च्छन्दसाऽऽदत्तेऽथो अस्यां जागतं च्छन्दो दधाति - ६.३.१.३९

त्रिभिरादत्ते । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनामेतदादत्ते त्रिभिरादायाथैनां चतुर्थेनाभिमन्त्रयत एतद्वा एनां देवास्त्रिभिरादायाथास्यां चतुर्थेन वीर्यमदधुस्तथैवैनामयमेतत्त्रिभिरादायाथास्यां चतुर्थेन वीर्यं दधाति - ६.३.१.४०

हस्त आधाय सवितेति । हस्ते ह्यस्याहिता भवति बिभ्रदभ्रिमिति बिभर्ति ह्येनां हिरण्ययीमिति हिरण्मयी ह्येषा या च्छन्दोमय्यग्नेर्ज्योतिर्निचाय्येत्यग्नेर्ज्योतिर्दृष्ट्वेत्येतत्पृथिव्या अध्याभरदिति पृथिव्यै ह्येनदध्याभरत्यानुष्टुभेन च्छन्दसाऽङ्गिरस्वदिति तदेनामानुष्टुभेन च्छन्दसाऽऽदत्तेऽथो अस्यामानुष्टुभं च्छन्दो दधाति तान्येतान्येव छन्दांस्येषाभ्रिरारम्भायैवेयं वैणवी क्रियते - ६.३.१.४१

तां हैके हिरण्मयीं कुर्वन्ति । हिरण्ययीति वा अभ्युक्तेति न तथा कुर्याद्यद्वा एषा छन्दांसि तेनैषा हिरण्यममृतं हिरण्यममृतानि च्छन्दांसि - ६.३.१.४२

तां चतुर्भिरादत्ते । चतुरक्षरा वै सर्वा वाग्वागित्येकमक्षरमक्षरमिति त्र्यक्षरं तद्यत्तद्वागित्येकमक्षरं यैवैषानुष्टुबुत्तमा सा साऽथ यदक्षरमिति त्र्यक्षरमेतानि तानि पूर्वाणि यजूंषि सर्वयैवैतद्वाचाग्निं खनति सर्वया वाचा सम्भरति तस्माच्चतुर्भिः - ६.३.१.४३

यद्वेव चतुर्भिः । चतस्रो वै दिशश्चतसृषु तद्दिक्षु वाचं दधाति तस्माच्चतसृषु दिक्षु वाग्वदति च्छन्दोभिश्च यजुर्भिश्चादत्ते तदष्टौ चतस्रो दिशश्चतस्रोऽवान्तरदिशः सर्वासु तद्दिक्षु वाचं दधाति तस्मात्सर्वासु दिक्षु वाग्वदति - ६.३.१.४४


  1. वा.सं. ११.१
  2. वा.सं. ११.५
  3. वा.सं. ११.८