शतपथब्राह्मणम्/काण्डम् ३/अध्यायः ९/ब्राह्मण ४

विकिस्रोतः तः
सोमाभिषवम्

.

सोमाभिषवणम्

३.९.४ निग्राभ्यप्रयोगः

अथाधिषवणे पर्युपविशन्ति । अथास्यां हिरण्यं बध्नीते द्वयं वा इदं न तृतीयमस्ति सत्यं चैवानृतं च सत्यमेव देवा अनृतं मनुष्या अग्निरेतसं वै हिरण्यं सत्येनांशूनुपस्पृशानि सत्येन सोमं पराहणानीति तस्माद्वा अस्यां हिरण्यं बध्नीते - ३.९.४.१

अथ ग्रावाणमादत्ते । ते वा एतेऽश्ममया ग्रावाणो भवन्ति देवो वै सोमो दिवि हि सोमो वृत्रो वै सोम आसीत्तस्यैतच्छरीरं यद्गिरयो यदश्मानस्तच्छरीरेणैवैनमेतत्समर्धयति कृत्स्नं करोति तस्मादश्ममया भवन्ति घ्नन्ति वा एनमेतद्यदभिषुण्वन्ति तमेतेन घ्नन्ति तथात उदेति तथा संजीवति तस्मादश्ममया ग्रावाणो भवन्ति - ३.९.४.२

तमादत्ते । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददे वरावासीति सविता वै देवानां प्रसविता तत्सवितृप्रसूत एवैनमेतदादत्तेऽश्विनोर्बाहुभ्यामित्यश्विनावध्वर्यू तत्तयोरेव बाहुभ्यामादत्ते न स्वाभ्याम्पूष्णो हस्ताभ्यामिति पूषा भागदुघस्तत्तस्यैव हस्ताभ्यामादत्ते न स्वाभ्यां वज्रो वा एष तस्य न मनुष्यो भर्ता तमेताभिर्देवताभिरादत्ते - ३.९.४.३

आददे रावासीति । यदा वा एनमेतेनाभिषुण्वन्त्यथाहुतिर्भवति यदाहुतिं जुहोत्यथ दक्षिणा ददात्येतद्ध्येष द्वयं रासत आहुतीश्च दक्षिणाश्च तस्मादाह रावासीति - ३.९.४.४

गभीरमिममध्वरं कृधीति । अध्वरो वै यज्ञो महान्तमिमं यज्ञं कृधीत्येवैतदाहेन्द्राय सुषूतममितीन्द्रो वै यज्ञस्य देवता तस्मादाहेन्द्रायेति सुषूतममिति सुसुतममित्येवैतदाहोत्तमेन पविनेत्येष वा उत्तमः पविर्यत्सोमस्तस्मादाहोत्तमेन पविनेत्यूर्जस्वन्तं मधुमन्तं पयस्वन्तमिति रसवन्तमित्येवैतदाह यदाहोर्जस्वन्तं मधुमन्तं पयस्वन्तमिति - ३.९.४.५

अथ वाचं यच्छति । देवा ह वै यज्ञं तन्वानास्तेऽसुररक्षसेभ्य आसङ्गाद्बिभयांचक्रुस्ते होचुरुपांशु यजाम वाचं यच्छामेति त उपांश्वयजन्वाचमयच्छन् - ३.९.४.६

अथ निग्राभ्या आहरति । तास्वेनं वाचयति निग्राभ्या स्थ देवश्रुतस्तर्पयत मा मनो मे तर्पयत वाचं मे तर्पयत प्राणं मे तर्पयत चक्षुर्मे तर्पयत श्रोत्रं मे तर्पयतात्मानं मे तर्पयत प्रजां मे तर्पयत पशून्मे तर्पयत गणान्मे तर्पयत गणा मे मा वितृषन्निति रसो वा आपस्तास्वेवैतामाशिषमाशास्ते सर्वं च म आत्मानं तर्पयत प्रजां मे तर्पयत पशून्मे तर्पयत गणान्मे तर्पयत गणा मे मा वितृषन्निति स य एष उपांशुसवनः स विवस्वानादित्यो निदानेन सोऽस्यैष व्यानः - ३.९.४.७

तमभिमिमीते । घ्नन्ति वा एनमेतद्यदभिषुण्वन्ति तमेतेन घ्नन्ति तथा त उदेति तथा संजीवति यद्वेव मिमीते तस्मान्मात्रा मनुष्येषु मात्रो यो चाप्यन्या मात्रा - ३.९.४.८

स मिमीते । इन्द्राय त्वा वसुमते रुद्रवत इतीन्द्रो वै यज्ञस्य देवता तस्मादाहेन्द्राय त्वेति वसुमते रुद्रवत इति तदिन्द्रमेवानु वसूंश्च रुद्रांश्चाभजतीन्द्राय त्वादित्यवत इति तदिन्द्रमेवान्वादित्यानाभजतीन्द्राय त्वाभिमातिघ्न इति सपत्नो वा अभिमातिरिन्द्राय त्वा सपत्नघ्न इत्येवैतदाह सोऽस्योद्धारो यथा श्रेष्ठस्योद्धार एवमस्यैष ऋते देवेभ्यः - ३.९.४.९

श्येनाय त्वा सोमभृत इति । तद्गायत्र्यै मिमीतेऽग्नये त्वा रायस्पोषद इत्यग्निर्वै गायत्री तद्गायत्र्यै मिमीते स यद्गायत्री श्येनो भूत्वा दिवः सोममाहरत्तेन सा श्येनः सोमभृत्तेनैवास्या एतद्वीर्येण द्वितीयं मिमीते - ३.९.४.१०

अथ यत्पञ्च कृत्वो मिमीते । संवत्सरसम्मितो वै यज्ञः पञ्च वा ऋतवः संवत्सरस्य तं पञ्चभिराप्नोति तस्मात्पञ्च कृत्वो मिमीते - ३.९.४.११

तमभिमृशति । यत्ते सोम दिवि ज्योतिर्यत्पृथिव्यां यदुरावन्तरिक्षे तेनास्मै यजमानायोरु राये कृध्यधि दात्रे वोच इति यत्र वा एषोऽग्रे देवानां हविर्बभूव तद्धेक्षां चक्रे मैव सर्वेणेवात्मना देवानां हविर्भूवमिति स एतास्तिस्रस्तनूरेषु लोकेषु विन्यधत्त - ३.९.४.१२

तद्वै देवा अस्पृण्वत । तेऽस्यैतेनैवैतास्तनूराप्नुवन्त्स कृत्स्न एव देवानां हविरभवत्तथो एवास्यैष एतेनैवैतास्तनूराप्नोति स कृत्स्न एव देवानां हविर्भवति तस्मादेवमभिमृशति - ३.९.४.१३

अथ निग्राभ्याभिरुपसृजति । आपो ह वै वृत्रं जघ्नुस्तेनैवैतद्वीर्येणापः स्यन्दन्ते तस्मादेनाः स्यन्दमाना न किं चन प्रतिघारयति ता ह स्वमेव वशं चेरुः कस्मै नु वयं तिष्ठेमहि याभिरस्माभिर्वृत्रो हत इति सर्वं वा इदमिन्द्राय तस्थानमास यदिदं किं चापि योऽयं पवते - ३.९.४.१४

स इन्द्रोऽब्रवीत् । सर्वं वै म इदं तस्थानं यदिदं किं च तिष्ठध्वमेव म इति ता होचुः किं नस्ततः स्यादिति प्रथमभक्ष एव वः सोमस्य राज्ञ इति तथेति ता अस्मा अतिष्ठन्त तास्तस्थाना उरसि न्यगृह्णीत तद्यदेना उरसि न्यगृह्णीत तस्मान्निग्राभ्या नाम तथैवैता एतद्यजमान उरसि निगृह्णीते स आसामेष प्रथमभक्षः सोमस्य राज्ञो यन्निग्राभ्याभिरुपसृजति - ३.९.४.१५

स उपसृजति । श्वात्रा स्थ वृत्रतुर इति शिवा ह्यापस्तस्मादाह श्वात्रा स्थेति वृत्रतुर इति वृत्रं ह्येता अघ्नन्राधोगूर्ता अमृतस्य पत्नीरित्यमृता ह्यापस्ता देवीर्देवत्रेमं यज्ञं नयतेति नात्र तिरोहितमिवास्त्युपहूताः सोमस्य पिबतेति तदुपहूता एव प्रथमभक्षं सोमस्य राज्ञो भक्षयन्ति - ३.९.४.१६

अथ प्रहरिष्यन् । यं द्विष्यात्तं मनसा ध्यायेदमुष्मा अहं प्रहरामि न तुभ्यमिति यो न्वेवेमं मानुषं ब्राह्मणं हन्ति तं न्वेव परिचक्षतेऽथ किं य एतं देवी हि सोमो घ्नन्ति वा एनमेतद्यदभिषुण्वन्ति तमेतेन घ्नन्ति तथातउदेति तथा संजीवति तथानेनस्यं भवति यद्यु न द्विष्यादपि तृणमेव मनसाध्यायेत्तथो अनेनस्यं भवति - ३.९.४.१७

स प्रहरति । मा भेर्मा संविक्था इति मा त्वं भैषीर्मा संविक्था अमुष्मा अहम्प्रहरामि न तुभ्यमित्येवैतदाहोर्जं धत्स्वेति रसं धत्स्वेत्येवैतदाह धिषणे वीड्वी सती वीडयेथामूर्जं दधाथामितीमे एवैतत्फलके आहुरित्यु हैक आहुः किंनु तत्र योऽप्येते फलके भिन्द्यादिमे ह वै द्यावापृथिवी एतस्माद्वज्रादुद्यतात्संरेजेते तदाभ्यामेवैनमेतद्द्यावापृथिवीभ्यां शमयति तथेमे शान्तो न हिनस्त्यूर्जं दधाथामिति रसं दधाथामित्येवैतदाह पाप्माहतो न सोम इति तदस्य सर्वं पाप्मानं हन्ति - ३.९.४.१८

स वै त्रिरभिषुणोति । त्रिः सम्भरति चतुर्निग्राभमुपैति तद्दश दशाक्षरा वै विराड्वैराजः सोमस्तस्माद्दश कृत्वः सम्पादयति - ३.९.४.१९

अथ यन्निग्राभमुपैति । यत्र वा एषोऽग्रे देवानां हविर्बभूव तद्धेमा दिशोऽभिदध्यावाभिर्दिग्भिर्मिथुनेन प्रियेण धाम्ना संस्पृशेयेति तमेतद्देवा आभिर्दिग्भिर्मिथुनेन प्रियेण धाम्ना समस्पर्शयन्यन्निग्राभमुपायंस्तथो एवैनमेष एतदाभिर्दिग्भिर्मिथुनेन प्रियेण धाम्ना संस्पर्शयति यन्निग्राभमुपैति - ३.९.४.२०

स उपैति । प्रागपागुदगधराक्सर्वतस्त्वा दिश आधावन्त्विति तदेनमाभिर्दिग्भिर्मिथुनेन प्रियेण धाम्ना संस्पर्शयत्यम्ब निष्पर समरीर्विदामिति योषा वा अम्बा योषा दिशस्तस्मादाहाम्ब निष्परेति समरीर्विदामिति प्रजा वा अरीः सं प्रजा जानतामित्येवैतदाह तस्माद्या अपि विदूरमिव प्रजा भवन्ति समेव ता जानते तस्मादाह समरीर्विदामिति - ३.९.४.२१

अथ यस्मात्सोमो नाम । यत्र वा एषोऽग्रे देवानां हविर्बभूव तद्धेक्षां चक्रे मैव सर्वेणेवात्मना देवानां हविर्भूवमिति तस्य या जुष्टतमा तनूरास तामपनिदधे तद्वै देवा अस्पृण्वत ते होचुरुपैवैतां प्रवृहस्व सहैव न एतया हविरेधीति तां दूर इवोपप्राबृहत स्वा वै म ऽएषेति तस्मात्सोमो नाम - ३.९.४.२२

अथ यस्माद्यज्ञो नाम । घ्नन्ति वा एनमेतद्यदभिषुण्वन्ति तद्यदेनं जनयन्ति स तायमानो जायते स यञ्जायते तस्माद्यञ्जो यञ्जो ह वै नामैतद्यद्यज्ञ इति - ३.९.४.२३

तत्रैतामपि वाचमुवाद । त्वमङ्ग प्रशंसिषो देवः शविष्ठ मर्त्यं न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वच इति मर्त्यो हैवैतद्भवन्नुवाच त्वमेवेतो जनयितासि नान्यस्त्वदिति - ३.९.४.२४

अथ निग्राभ्याभ्यो ग्रहान्विगृह्णते । आपो ह वै वृत्रं जघ्नुस्तेनैवैतद्वीर्येणापः स्यन्दन्ते स्यन्दमानानां वै वसतीवरीर्गृह्णाति वसतीवरीभ्यो निग्राभ्या निग्राभ्याभ्यो ग्रहान्विगृह्णते तेनैवैतद्वीर्येण ग्रहान्विगृह्णते होतृचमसाद्योषा वा ऽऋग्घोता योषायै वा ऽइमाः प्रजाः प्रजायन्ते तदेनमेतस्यै योषाया ऽऋचो होतुः प्रजनयति तस्माद्धोतृचमसात् - ३.९.४.२५


[सम्पाद्यताम्]

टिप्पणी

३.९.४.१४ निग्राभ्या

अध्वर्युः होतृचमसे वसतीवरीः कृत्वा यजमानाय प्रयच्छति। (श्रौतयज्ञप्रक्रियापदार्थानुक्रमकोषः - पं. पीताम्बरदत्त शास्त्री)

३.९.४.१५

https://sites.google.com/site/puranicsubjectindex/upavaasa-ura/%E0%A4%89%E0%A4%B0-ura उरस्युपरि टिप्पणी