सामग्री पर जाएँ

शतपथब्राह्मणम्/काण्डम् ३/अध्यायः ९/ब्राह्मण २

विकिस्रोतः तः
वसतीवरी

.

३.९.२ वसतीवरीग्रहणम्

यत्र वै यज्ञस्य शिरोऽच्छिद्यत । तस्य रसो द्रुत्वापः प्रविवेष तेनैवैतद्रसेनापः स्यन्दन्ते तमेवैतद्रसं स्यन्दमानं मन्यन्ते - ३.९.२.१

स यद्वसतीवरीरच्छैति । तमेवैतद्रसमाहृत्य यज्ञे दधाति रसवन्तं यज्ञं करोति तस्माद्वसतीवरीरच्छैति - ३.९.२.२

ता वै सर्वेषु सवनेषु विभजति । सर्वेष्वेवैतत्सवनेषु रसं दधाति सर्वाणि सवनानि रसवन्ति करोति तस्मात्सर्वेषु विभजति - ३.९.२.३

ता वै स्यन्दमानानां गृह्णीयात् । ऐद्धि स यज्ञस्य रसस्तस्मात्स्यन्दमानानां गृह्णीयात् - ३.९.२.४

गोपीथाय वा एता गृह्यन्ते । सर्वं वा इदमन्यदिलयति यदिदं किं चापि योऽयम्पवतेऽथैता एव नेलयन्ति तस्मात्स्यन्दमानानां गृह्णीयात् - ३.९.२.५

दिवा गृह्णीयात् । पश्यन्यज्ञस्य रसं गृह्णानीति तस्माद्दिवा गृह्णीयादेतस्मै वै गृह्णाति य एष तपति विश्वेभ्यो ह्येना देवेभ्यो गृह्णाति रश्मयो ह्यस्य विश्वेदेवास्तस्माद्दिवा गृह्णीयाद्दिवेव वा एष तस्माद्वेव दिवा गृह्णीयात् - ३.९.२.६

एतद्ध वै विश्वे देवाः । यजमानस्य गृहानागच्छन्ति स यः पुरादित्यस्यास्तमयाद्वसतीवरीर्गृह्णाति यथा श्रेयस्यागमिष्यत्यावसथेनोपकॢप्तेनोपासीतैवं तत्त एतद्धविः प्रविशन्ति तऽएतासु वसतीवरीषूपवसन्ति स उपवसथः - ३.९.२.७

स यस्यागृहीता अभ्यस्तमियात् । तत्र प्रायश्चित्तिः क्रियते यदि पुरेजानः स्यान्निनाह्याद्गृह्णीयाद्दिवा हि तस्य ताः पुरा गृहीता भवन्ति यद्यु अनीजानः स्याद्य एनमीजान उपावसितो वा पर्यवसितो वा स्यात्तस्य निनाह्याद्गृह्णीयाद्दिवा हि तस्य ताः पुरा गृहीता भवन्ति - ३.९.२.८

यद्यु एतदुभयं न विन्देत् । उल्कुषीमेवादायोपपरेयात्तामुपर्युपरि धारयन्गृह्णीयाद्धिरण्यं वोपर्युपरि धारयन्गृह्णीयात्तदेतस्य रूपं क्रियते य एष तपति - ३.९.२.९

अथातो गृह्णात्येव । []हविष्मतीरिमा आप इति यज्ञस्य ह्यासु रसः प्राविशत्तस्मादाह हविष्मतीरिमा आप इति हविष्मानाविवासतीति हविष्मान्ह्येना यजमान आविवासति तस्मादाह हविष्मानाविवासतीति - ३.९.२.१०

हविष्मान्देवो अध्वर इति । अध्वरो वै यज्ञस्तद्यस्मै यज्ञाय गृह्णाति तं हविष्मन्तं करोति तस्मादाह हविष्मान्देवो अध्वर इति - ३.९.२.११

हविष्मानस्तु सूर्य इति । एतस्मै वै गृह्णाति य एष तपति विश्वेभ्यो ह्येना देवेभ्यो गृह्णाति रश्मयो ह्यस्य विश्वे देवास्तस्मादाह हविष्मानस्तु सूर्य इति - ३.९.२.१२

ता आहृत्य जघनेन गार्हपत्यं सादयति । अग्नेर्वोऽपन्नगृहस्य सदसि सादयामीत्यग्नेर्वोऽनार्तगृहस्य सदसि सादयामीत्येवैतदाहाथ यदाग्नीषोमीयः पशुः संतिष्ठतेऽथ परिहरति व्युत्क्रामतेत्याहाग्रेण हविर्धाने यजमान आस्ते ता आदत्ते - ३.९.२.१३

स दक्षिणेन निष्क्रामति । ता दक्षिणायां श्रोणौ सादयतीन्द्राग्न्योर्भागधेयी स्थेति विश्वेभ्यो ह्येना देवेभ्यो गृह्णातीन्द्राग्नी हि विश्वे देवास्ताः पुनराहृत्याग्रेण पत्नीं सादयति स जघनेन पत्नीं पर्येत्य ता आदत्ते - ३.९.२.१४

स उत्तरेण निष्क्रामति । ता उत्तरायां श्रोणौ सादयति मित्रावरुणयोर्भागधेयी स्थेति नैवं सादयेदतिरिक्तमेतन्नैवं सम्पत्सम्पद्यत इन्द्राग्न्योर्भागधेयी स्थेत्येव ब्रूयात्तदेवानतिरिक्तं तथा सम्पत्सम्पद्यते - ३.९.२.१५

गुप्त्यै वा एताः परिह्रियन्ते । अग्निः पुरस्तादथैताः समन्तं पल्यङ्ग्यन्ते नाष्ट्रा रक्षांस्यपघ्नत्यस्ता आग्नीध्रे सादयति विश्वेषां देवानां भागधेयी स्थेति तदासु विश्वान्देवान्त्संवेशयत्येते वै वसतां वरं तस्माद्वसतीवर्यो नाम वसतां ह वै वरं भवति य एवमेतद्वेद - ३.९.२.१६

तानि वा एतानि सप्त यजूंषि भवन्ति । चतुर्भिर्गृह्णात्येकेन जघनेन गार्हपत्यं सादयत्येकेन परिहरत्येकेनाग्नीध्रे तानि सप्त यत्र वै वाचः प्रजातानि छन्दांसि सप्तपदा वै तेषां परार्ध्या शक्वर्येतामभिसम्पदं तस्मात्सप्त यजूंषि भवन्ति - ३.९.२.१७



टिप्पणी

वसतीवरी- अभिषवकाले आसेचनार्थम् अभिषुतस्य सोमरसस्याल्पत्वात् तेन सह मेलनार्थं च नद्यादितीर्थेभ्य आहृत्य कुम्भेषु या आपः संरक्ष्यन्ते ताः वसतीवर्य उच्यन्ते ।

वसतीवरीग्रहण- अध्वर्युः 'स्रस्त्रीष्व मेखलां प्रमुष्टीन् सारय यजमान इति त्वाचक्षतां नामग्राहं ते पितृभिः पितामहैः प्रपितामहैः पुत्रैः पौत्रैः सुब्रह्मण्यः सुब्रह्मण्यामाह्वयतु' इति सम्प्रेष्यति । ततः अग्नीषोमीयपशुवपा यागान्ते सुब्रह्मण्यः पिता पुत्रीयाऽऽ (सुब्रह्मण्या) ह्वानं करोति । आहूतायां पितापुत्रीयायां दृढं कुम्भमादायान्तरेण चात्वालोत्करावुदङ्निष्क्रम्य स्रोतोऽभिमुखं स्थित्वा छायातपसोः सन्धौ वसतीवरीसंज्ञा अपो गृह्णाति- ' हविष्मतीरिमा आपो हविष्माँ अस्तु सूर्यः' इति । सूर्ये त्वस्तंगते हिरण्यमन्तर्धाय गृह्णाति आतपच्छायायां स्वदेहच्छायायां वृक्षच्छायायां वा गृह्णाति । तदिदं वसतीवरीग्रहणमित्युच्यते । द्र० वपायाग-, श्रौ ० प० नि० पृ०२५२ - ५३ ।

वसतीवरीसादन- वसतीवरीग्रहणानन्तरं प्रदक्षिणमावृत्य वसतीवरीकुम्भं सव्ये निधायान्तरेण चात्वालोत्करावुत्तरेणाग्नीध्रीयं सदश्च गत्या पूर्वया द्वारा शालां प्रपाद्य शालामुखीयस्य पश्चात् संसृष्टाः सादयति-' अग्नेर्वोपन्नगृहस्य सदसि सादयामि सुम्नाय सुम्निनीः सुम्ने मा धत्त ' इति । तदेतद्वसतीवरीसादनमुच्यते । द्र० वसतीवरीग्रहण-, मा० श० ब्रा० ३ । ९ । २ । १३ - १७, श्रौ० - प० नि० पृ० २५३ ।

वसतीवरीस्थापन- १. बहिर्वेदिभवनप्रैषानन्तरं सर्वे बहिर्वेदि भवन्ति । वसतीवरीरादाय गार्हपत्यस्य पश्चान्मार्गेण नीत्वा दक्षिणया द्वारोपनिष्क्रम्य सव्येंऽसे निधाय दक्षिणेन मार्जालीयं सदश्च पर्याहृत्योदङ्मुखो दक्षिणतो यूपेन संसृष्टाः सादयति-' इन्द्राग्न्योर्भागधेयी स्थ' इति । पुनरादायोदड्ङावृत्य दक्षिणेंऽसे निधाय यथेतमेत्य शालामुखीयस्य पश्चात् संसृष्टाः सादयति ' मित्रावरुणयोर्भागधेयी स्थ' इति । पुनरादाय दक्षिणेंऽसे निधाय पूर्वया द्वारोपनिष्क्रम्य उत्तरेण सद आग्नीध्रीयं च परीत्योत्तरतो यूपेन संसृष्टाः सादयति-'विश्वेषां देवानां भागधेयी स्थ' इति । पुनरादाय प्रदक्षिणमावृत्य सव्येंऽसे निधाय पुनस्तेनैव मार्गेणागत्याग्नीध्रीयस्य धिष्ण्यस्य पश्चात्संसृष्टाः सादयति-'यज्ञे जागृत इति । तदिदं वसतीवरीस्थापनमु- च्यते । द्र० श्रौ०प०नि० पृ० २५३-५४, बहिर्वेदिभवनप्रैष- ।

वसतीवर्यादिहविर्थानप्रवेशन- क्रतुकरणहोमानन्तरं होतृचमसं वसतीवरीः मैत्रावरुणचमसं च दक्षिणेन होतारं पर्याहृत्य पूर्वया द्वारा हविर्धानं प्रपादयति । तथैव दक्षिणेन होतारं पर्याहृत्यापरया द्वारा एकधनान् हविर्धानं प्रपादयति । तदिदं वसतीवर्यादिहविर्धानप्रवेशनमुच्यते । द्र० श्रौ०प० नि० पृ० २६५ । - श्रौतयज्ञप्रक्रियापदार्थानुक्रमकोषः(पं. पीताम्बरदत्त शास्त्री) (राष्ट्रियसंस्कृतसंस्थानम्, नवदेहली, २००५ई.)

  1. वा.सं. ६.२३