शतपथब्राह्मणम्/काण्डम् ३/अध्यायः ६/ब्राह्मण २

विकिस्रोतः तः
Jump to navigation Jump to search
उत्तरवेदी


३.६.२.

विजामानो हैवास्य धिष्ण्याः । इमे समङ्का ये वै समङ्कास्ते विजामान एतऽउ हैवास्यैत आत्मनः - ३.६.२.[१]

दिवि वै सोम आसीत् । अथेह देवास्ते देवा अकामयन्ता नः सोमो गच्छेत्तेनागतेन
यजेमहीति त एते माये असृजन्त सुपर्णीं च कद्रूं च वागेव सुपर्णीयं कद्रूस्ताभ्यां समदं चक्रुः - ३.६.२.[२]

ते हर्तीयमाने ऊचतुः । यतरा नौ दवीयः परापश्यादात्मानं नौ सा जयादिति तथेति
सा ह कद्रूरुवाच परेक्षस्वेति - ३.६.२.[३]

सा ह सुपर्ण्युवाच । अस्य सलिलस्य पारेऽश्वः श्वेत स्थाणौ सेवते तमहं पश्यामीति
तमेव त्वं पश्यसीति तं हीत्यथ ह कद्रूरुवाच तस्य वालो न्यषञ्जि तममुं वातो धूनोति तमहं पश्यामीति - ३.६.२.[४]

सा यत्सुपर्ण्युवाच । अस्य सलिलस्य पार इति वेदिर्वै सलिलं वेदिमेव सा तदुवाचाश्वः श्वेत स्थाणौ सेवत इत्यग्निर्वा अश्वः श्वेतो यूप स्थाणुरथ यत्कद्रूरुवाच तस्य वालो न्यषञ्जि तममुं वातो धूनोति तमहं पश्यामीति रशना हैव सा - ३.६.२.[५]

सा ह सुपर्ण्युवाच । एहीदं पताव वेदितुं यतरा नौ जयतीति सा ह कद्रूरुवाच त्वमेव पत त्वं वै न आख्यास्यसि यतरा नौ जयतीति - ३.६.२.[६]

सा ह सुपर्णी पपात । तद्ध तथैवास यथा कद्रूरुवाच तामागतामभ्युवाद त्वमजैषी३ रहा३ मिति त्वमिति होवाचैतद्व्याख्यानं सौपर्णीकाद्रवमिति - ३.६.२.[७]

सा ह कद्रूरुवाच । आत्मानं वै त्वाऽजैषं दिव्यसौ सोमस्तं देवेभ्य आहर तेन देवेभ्य ऽआत्मानं निष्क्रीणीष्वेति तथेति सा च्छन्दांसि ससृजे सा गायत्री दिवः सोममाहरत् - ३.६.२.[८]

हिरण्मय्योर्ह कुश्योरन्तरवहित आस । ते ह स्म क्षुरपवी निमेषं निमेषमभिसंधत्तो दीक्षातपसौ हैव ते आसतुस्तमेते गन्धर्वाः सोमरक्षा जुगुपुरिमे धिष्ण्या इमा होत्राः - ३.६.२.[९]

तयोरन्यतरां कुशीमाचिच्छेद । तां देवेभ्यः प्रददौ सा दीक्षा तया देवा अदीक्षन्त - ३.६.२.[१०]

अथ द्वितीयां कुशीमाचिच्छेद । तां देवेभ्यः प्रददौ तत्तपस्तया देवास्तपऽउपायन्नुपसदस्तपो ह्युपसदः - ३.६.२.[११]

खदिरेण ह सोममाचखाद । तस्मात्खदिरो यदेनेनाखिदत्तस्मात्खादिरो यूपो भवति खादिर स्फ्योऽच्छावाकस्य हैनं गोपनायां जहार सोऽच्छावाकोऽहीयत - ३.६.२.[१२]

तमिन्द्राग्नी अनुसमतनुताम् । प्रजानां प्रजात्यै तस्मादैन्द्राग्नोऽच्छावाकः - ३.६.२.[१३]

तस्माद्दीक्षिता राजानं गोपायन्ति । नेन्नोऽपहरानिति तस्मात्तत्र सुगुप्तं चिकीर्षेद्यस्य ह गोपनायामपहरन्ति हीयते ह - ३.६.२.[१४]

तस्माद्ब्रह्मचारिण आचार्यं गोपायन्ति । गृहान्पशून्नेन्नोऽपहरानिति तस्मात्तत्र सुगुप्तं चिकीर्षेद्यस्य ह गोपनायामपहरन्ति हीयते ह तेनैतेन सुपर्णी देवेभ्य आत्मानं निरक्रीणीत तस्मादाहुः पुण्यलोक ईजान इति - ३.६.२.[१५]

ऋणं ह वै पुरुषो जायमान एव । मृत्योरात्मना जायते स यद्यजते यथैव तत्सुपर्णी देवेभ्य आत्मानं निरक्रीणीतैवमेवैष एतन्मृत्योरात्मानं निष्क्रीणीते - ३.६.२.

[१६]

धिष्ण्य


तेन देवा अयजन्त । तमेते गन्धर्वाः सोमरक्षा अन्वाजग्मुस्तेऽन्वागत्याब्रुवन्ननु नो यज्ञ आभजत मा नो यज्ञादन्तर्गातास्त्वेव नोऽपि यज्ञे भाग इति - ३.६.२.[१७]

ते होचुः । किं नस्ततः स्यादिति यथैवास्यामुत्र गोप्तारोऽभूमैवमेवास्यापीह गोप्तारो भविष्याम इति - ३.६.२.[१८]

तथेति देवा अब्रुवन् । सोमक्रयणा व इति तानेभ्य एतत्सोमक्रयणाननुदिशत्यथैनानब्रुवंस्तृतीयसवने वो घृत्याहुतिः प्राप्स्यति न सौम्याऽपहृतो हि युष्मत्सोमपीथस्तेन सोमाहुतिं नार्हथेति सैनानेषा तृतीयसवन एव घृत्याहुतिः प्राप्नोति न सौम्या यच्छालाकैर्धिष्ण्यान्व्याघारयति - ३.६.२.[१९]

अथ यदग्नौ होष्यन्ति । तद्वोऽविष्यतीति स यदग्नौ जुह्वति तदेनानवत्यथ यद्वः सोमं बिभ्रत उपर्युपरि चरिष्यन्ति तद्वोऽविष्यतीति स यदेनान्त्सोमं बिभ्रत उपर्युपरि चरन्ति तदेनानवति तस्मादध्वर्युः समया धिष्ण्यान्नातीयादध्वर्युर्हि सोमं बिभर्ति तमेते व्यात्तेन प्रत्यासते स एतेषां व्यात्तमापद्येत तमग्निर्वाभिदहेद्यो वाऽयं देवः पशूनामीष्टे स वा हैनमभिमन्येत तस्माद्यद्यध्वर्योः शालायामर्थः स्यादुत्तरेणैवाग्नीध्रीयं संचरेत् - ३.६.२.[२०]

ते वा एते । सोमस्यैव गुप्त्यै न्युप्यन्त आहवनीयः पुरस्तान्मार्जालीयो दक्षिणत आग्नीध्रीय उत्तरतोऽथ ये सदसि ते पश्चात् - ३.६.२.[२१]

तेषां वा अर्द्धानुपकिरन्ति । अर्द्धाननुदिशन्त्येत उ हैवैतद्दध्रिरेऽर्द्धान्न उपकिरन्त्वर्द्धाननुदिशन्तु तथा यस्माल्लोकादागताः स्मो दिवस्तथा तं लोकम्प्रतिप्रज्ञास्यामस्तथा न जिह्मा एष्याम इति - ३.६.२.[२२]

स यानुपकिरन्ति । तेनास्मिंलोके प्रत्यक्षं भवन्त्यथ याननुदिशन्ति तेनामुष्मिंलोके प्रत्यक्षं भवन्ति - ३.६.२.[२३]

ते वै द्विनामानो भवन्ति । एत उ हैवैतद्दध्रिरे न वा एभिर्नामभिररात्स्म येषां नः सोममपाहार्षुर्हन्त द्वितीयानि नामानि करवामहा इति ते द्वितीयानि नामान्यकुर्वत तैरराध्नुवन्यानपहृतसोमपीथान्त्सतोऽथ यज्ञ आभजंस्तस्माद्द्विनामानस्तस्माद्ब्राह्मणोऽनृध्यमाने द्वितीयं नाम कुर्वीत राध्नोति हैव य एवं विद्वान्द्वितीयं नाम कुरुते - ३.६.२.[२४]

स यदग्नौ जुहोति । तद्देवेषु जुहोति तस्माद्देवाः सन्त्यथ यत्सदसि भक्षयन्ति तन्मनुष्येषु जुहोति तस्मान्मनुष्याः सन्त्यथ यद्धविर्धानयोर्नाराशंसाः सीदन्ति तत्पितृषु जुहोति तस्मात्पितरः सन्ति - ३.६.२.[२५]

या वै प्रजा यज्ञेऽनन्वाभक्ताः । पराभूता वै ता एवमेवैतद्या इमाः प्रजा अपराभूतास्ता यज्ञ आभजति मनुष्याननु पशवो देवाननु वयांस्योषधयो वनस्पतयो यदिदं किं चैवमु तत्सर्वं यज्ञ आभक्तं ते ह स्मैत उभये देवमनुष्याः पितरः सम्पिबन्ते सैषा सम्पा ते ह स्म दृश्यमाना एव पुरा सम्पिबन्त उतैतर्ह्यदृश्यमानाः - ३.६.२.[२६]

[सम्पाद्यताम्]