सामग्री पर जाएँ

शतपथब्राह्मणम्/काण्डम् ३/अध्यायः ६/ब्राह्मण १

विकिस्रोतः तः


३.६.१.

उदरमेवास्य सदः । तस्मात्सदसि भक्षयन्ति यद्धीदं किं चाश्नन्त्युदर एवेदं सर्वं प्रतितिष्ठत्यथ यदस्मिन्विश्वे देवा असीदंस्तस्मात्सदो नाम त उ एवास्मिन्नेते ब्राह्मणा विश्वगोत्राः सीदन्त्यैन्द्रं देवतया - ३.६.१.१

तन्मध्य औदुम्बरीं मिनोति । अन्नं वा ऊर्गुदुम्बर उदरमेवास्य सदस्तन्मध्यतोऽन्नाद्यं दधाति तस्मान्मध्य औदुम्बरीं मिनोति - ३.६.१.२

अथ य एष मध्यमः शङ्कुर्भवति । वेदेर्जघनार्धे तस्मात्प्राङ्प्रक्रामति षड्विक्रमान्दक्षिणा सप्तममपक्रामति सम्पदः कामाय तदवटं परिलिखति - ३.६.१.३

सोऽभ्रिमादत्ते । []देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददे नार्यसीति समान एतस्य यजुषो बन्धुर्योषो वा एषा यदभ्रिस्तस्मादाह नार्यसीति - ३.६.१.४

अथावटं परिलिखति । इदमहं रक्षसां ग्रीवा अपि कृन्तामीति वज्रो वा अभ्रिर्वज्रेणैवैतन्नाष्ट्राणां रक्षसां ग्रीवा अपि कृन्तति - ३.६.१.५

अथ खनति । प्राञ्चमुत्करमुत्किरति यजमानेन सम्मायौदुम्बरीम्परिवासयति तामग्रेण प्राचीं निदधात्येतावन्मात्राणि बर्हींष्युपरिष्टादधिनिदधाति - ३.६.१.६

अथ यवमत्यः प्रोक्षण्यो भवन्ति । आपो ह वा ओषधीनां रसस्तस्मादोषधयः केवल्यः खादिता न धिन्वन्त्योषधय उ हापां रसस्तस्मादापः पीताः केवल्यो न धिन्वन्ति यदैवोभय्यः संसृष्टा भवन्त्यथैव धिन्वन्ति तर्हि हि सरसा भवन्ति सरसाभिः प्रोक्षाणीति - ३.६.१.७

देवाश्च वा असुराश्च । उभये प्राजापत्याः पस्पृधिरे ततो देवेभ्यः सर्वा एवौषधय ईयुर्यवा हैवैभ्यो नेयुः - ३.६.१.८

तद्वै देवा अस्पृण्वत । त एतैः सर्वाः सपत्नानामोषधीरयुवत यदयुवत तस्माद्यवा नाम - ३.६.१.९

ते होचुः । हन्त यः सर्वासामोषधीनां रसस्तं यवेषु दधामेति स यः सर्वासामोषधीनां रस आसीत्तं यवेष्वदधुस्तस्माद्यत्रान्या ओषधयो म्लायन्ति तदेते मोदमाना वर्धन्त एवं ह्येषु रसमदधुस्तथो एवैष एतैः सर्वाः सपत्नानामोषधीर्युते तस्माद्यवमत्यः प्रोक्षण्यो भवन्ति - ३.६.१.१०

स यवानावपति । यवोऽसि यवयास्मद्द्वेषो यवयारातीरिति नात्र तिरोहितमिवास्त्यथ
प्रोक्षत्येको वै प्रोक्षणस्य बन्धुर्मेध्यामेवैतत्करोति - ३.६.१.११

स प्रोक्षति । दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वेतीमानेवैतल्लोकानूर्जा रसेन भाजयत्येषु लोकेषूर्जं रसं दधाति - ३.६.१.१२

अथ याः प्रोक्षण्यः परिशिष्यन्ते । ता अवटेऽवनयति शुन्धन्तां लोकाः पितृषदना इति पितृदेवत्यो वै कूपः खातस्तमेवैतन्मेध्यं करोति - ३.६.१.१३

अथ बर्हींषि । प्राचीनाग्राणि चोदीचीनाग्राणि चावस्तृणाति पितृषदनमसीति पितृदेवत्य
वा अस्या एतद्भवति यन्निखातं सा यथा निखातौषधिषु मिता स्यादेवमेतास्वोषधिषु मिता भवति - ३.६.१.१४

तामुच्छ्रयति । उद्दिवं स्तभानान्तरिक्षं पृण दृंहस्व पृथिव्यामितीमानेवैतल्लोकानूर्जा रसेन भाजयत्येषु लोकेषूर्जं रसं दधाति - ३.६.१.१५

अथ मिनोति । []द्युतानस्त्वा मारुतो मिनोत्विति यो वा अयं पवत एष द्युतानो मारुतस्तदेनामेतेन मिनोति मित्रावरुणौ ध्रुवेण धर्मणेति प्राणोदानौ वै मित्रावरुणौ तदेनां प्राणोदानाभ्यां मिनोति - ३.६.१.१६

अथ पर्यूहति । ब्रह्मवनि त्वा क्षत्रवनि रायस्पोषवनि पर्यूहामीति बह्वी वै यजुःष्वाशीस्तद्ब्रह्म च क्षत्रं चाशास्त उभे वीर्ये रायस्पोषवनीति भूमा वै रायस्पोषस्तद्भूमानमाशास्ते - ३.६.१.१७

अथ पर्यृषति । ब्रह्म दृंह क्षत्रं दृंहायुर्दृंह प्रजां दृंहेत्याशीरेवैषैतस्य कर्मण आशिषमेवैतदाशास्ते समम्भूमि पर्यर्षणं करोति गर्तस्य वा उपरि भूम्यथैवं देवत्रा तथा हागर्तमिद्भवति - ३.६.१.१८

अथाप उपनिनयति । यत्र वा अस्यै खनन्तः क्रूरीकुर्वन्त्यपघ्नन्ति शान्तिरापस्तदद्भिः शान्त्या शमयति तदद्भिः संदधाति तस्मादप उपनिनयति - ३.६.१.१९

अथैवमभिपद्य वाचयति । ध्रुवासि ध्रुवोऽयं यजमानोऽस्मिन्नायतने प्रजया भूयादिति पशुभिरिति वैवं यं कामं कामयते सोऽस्मै कामः समृध्यते - ३.६.१.२०

अथ स्रुवेणोपहत्याज्यम् । विष्टपमभि जुहोति घृतेन द्यावापृथिवी पूर्येथामिति तदिमे द्यावापृथिवी ऊर्जा रसेन भाजयत्यनयोरूर्जं रसं दधाति ते रसवत्या उपजीवनीये इमाः प्रजा उपजीवन्ति - ३.६.१.२१

अथ च्छदिरधिनिदधाति । इन्द्रस्य च्छदिरसीत्यैन्द्रं हि सदो विश्वजनस्य छायेति
विश्वगोत्रा ह्यस्मिन्ब्राह्मणा आसते तदुभयतश्छदिषी उपदधात्युत्तरतस्त्रीणि परस्त्रीणि तानि नव भवन्ति त्रिवृद्वै यज्ञो नव वै त्रिवृत्तस्मान्नव भवन्ति - ३.६.१.२२

तदुदीचीनवंशं सदो भवति । प्राचीनवंशं हविर्धानमेतद्वै देवानां निष्केवल्यं यद्धविर्धानं तस्मात्तत्र नाश्नन्ति न भक्षयन्ति निष्केवल्यं ह्येतद्देवानां स यो ह तत्राश्नीयाद्वा भक्षयेद्वा मूर्धा हास्य विपतेदथैते मिश्रे यदाग्नीध्रं च सदश्च तस्मात्तयोरश्नन्ति तस्माद्भक्षयन्ति मिश्रे ह्येते उदीची वै मनुष्याणां दिक्तस्मादुदीचीनवंशं सदो भवति - ३.६.१.२३

परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः । वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टय इतीन्द्रो वै गिर्वा विशो गिरो विशैवैतत्क्षत्रं परिबृंहति तदिदं क्षत्रमुभयतो विशा परिवृढम् - ३.६.१.२४

अथ लस्पूजन्या स्पन्द्यया प्रसीव्यति । इन्द्रस्य स्यूरसीत्यथ ग्रन्थिं करोतीन्द्रस्यध्रुवोऽसीति नेद्व्यवपद्याता इति प्रकृते कर्मन्विष्यति तथो हाध्वर्युं वा यजमानं वा ग्राहो न विन्दति तन्निष्ठितमभिमृशत्यैन्द्रमसीत्यैन्द्रं हि सदः - ३.६.१.२५

अथ हविर्धानयोः । जघनार्धं समन्वीक्ष्योत्तरेणाग्नीध्रं मिनोति तस्यार्धमन्तर्वेदि स्यादर्धं बहिर्वेद्यथो अपि भूयोऽर्धादन्तर्वेदि स्यात्कनीयो बहिर्वेद्यथो अपि सर्वमेवान्तर्वेदि स्यात्तन्निष्ठितमभिमृशति वैश्वदेवमसीति द्वयेनैतद्वैश्वदेवं यदस्मिन्पूर्वे द्युर्विश्वे देवा वसतीवरीषूपवसन्ति तेन वैश्वदेवम् - ३.६.१.२६

देवा ह वै यज्ञं तन्वानाः । तेऽसुररक्षसेभ्य आसङ्गाद्बिभयांचक्रुस्तान्दक्षिणतोऽसुररक्षसान्यासेजुस्तान्त्सदसो जिग्युस्तेषामेतान्धिष्ण्यानुद्वापयांचक्रुर्य एतेऽन्तःसदसम् - ३.६.१.२७

सर्वे ह स्म वा एते पुरा ज्वलन्ति । यथायमाहवनीयो यथा गार्हपत्यो यथाग्नीध्रीयस्तद्यत एनानुदवापयंस्तत एवैतन्न ज्वलन्ति तानाग्नीध्रमभिसंरुरुधुस्तानप्यर्धमाग्नीध्रस्य जिग्युस्ततो विश्वे देवा अमृतत्वमपाजयंस्तस्माद्वैश्वदेवम् - ३.६.१.२८

तान्देवाः प्रतिसमैन्धत । यथा प्रत्यवस्येत्तस्मादेनान्त्सवने सवन एव प्रतिसमिन्धते तस्माद्यः समृद्धः स आग्नीध्रं कुर्याद्यो वै ज्ञातोऽनूचानः स समृद्धस्तस्मादग्नीधे प्रथमाय दक्षिणां नयन्त्यतो हि विश्वे देवा अमृतत्वमपाजयंस्तस्माद्यं दीक्षितानामबल्यं विन्देदाग्नीध्रमेनं नयतेति ब्रूयात्तदनार्तं तन्नारिष्यतीति तद्यदतो विश्वे देवा अमृतत्वमपाजयंस्तस्माद्वैश्वदेवम् - ३.६.१.२९


  1. वा.सं. ५.२६
  2. द्युतानः दीप्यमानः, एतन्नामको वायुर्देवः - सायणभाष्यम्